०७ सप्तमोऽध्यायः

ते नागराजमामन्त्र्य फलभागेन वासुकिम्

॥ अथ सप्तमोऽध्यायः ॥

श्रीशुक उवाच–

ते नागराजमामन्त्र्य फलभागेन वासुकिम् ।

परिधाय गिरौ तस्मिन् नेत्रमब्धिं मुदान्विताः ॥ १ ॥

आरेभिरे सुरा यत्ता अमृतार्थे कुरूद्वह ।

हरिः पुरस्ताज्जगृहे पूर्वं देवास्ततोऽभवन् ॥ २ ॥

पदरत्नावली

हालाहलं नाम तमोगुणजन्यमन्यथाज्ञानलक्षणम्, सुरा नाम राजसा अज्ञानलक्षणा, अमृतं नाम सत्विकं ज्ञानलक्षणं मुक्तिसाधनमित्यादि उत्पत्तिकथनेन माहात्म्यं स्पष्ट्यतेऽत्रध्यायद्वये । तत्रादौ मथनप्रकारं शास्त्रश्रवणलक्षणं कथयति- ते नागराजमिति ॥ परिधाय वेष्टयित्वा ॥ देवास्ततः पूर्वमभवन्नित्यन्वयः ॥ १-२ ॥

सत्यधर्मीया

नागराजं वासुकिम् । फलभागेन । तवापि पीयूषं दास्याम इति फलभागेनामन्त्रयित्वा । नेत्रं तद्रूपं गिरौ परिधाय संवेष्ट्य । अमृतार्थे सुरा यत्ताः सन्त आरेभिरे । मथितुमिति शेषः । पुरस्तान्मुखभागे पूर्वं ततस्तद्भागे देवा अभवन् ॥ १-२ ॥

छलारी

इदानीं मथनप्रकारं वर्णयति ॥ त इति ॥ ते सुराः फलभागेन तवाप्यमृतभागो भविष्यतीति । आमन्त्र्य वासुकिं नेत्रं रज्जुं कृत्वा गिरौ परिधाय संवेष्ट्याब्धिं मथितुमारेभिरे । यत्ताः सन्नद्धाः ॥ वासुकेर्मुखं तीक्ष्णं दैत्यान् ग्राहयितुमेव पूर्वं प्रथमं हरिः पुरस्तादग्रभागं मुखं जग्रहे । देवा अभवन् मुखं जगृहुः ॥ १-२ ॥

लिङ्घेरी

ते देवासुरा नागराजं वासुकिनामसर्पं फलभागेन भागशः फलदानप्रतिज्ञयाऽऽ-मन्त्र्य कथयित्वा तं वासुकिं नेत्रं रज्जुरूपं तस्मिन्गिरौ मन्दरे परिधाय वेष्टयित्वा मुदान्विताः सन्तोऽब्धिं क्षीरसमुद्रम् । ममंथुरिति शेषः ॥

हे कुरूद्वह । सुरा असुराश्च यत्ता सन्नद्धाः सन्तोऽमृतार्थे एवमब्धिं मथितुमारेभिरे उपक्रान्तवन्तः । तस्मिन्समये हरिर्गरुडध्वजो वासुकेः पुरस्तान्मुखभागं जगृहे यतस्ततो देवाश्च तद्भागग्रहा अभवन् ॥ १-२ ॥

तन्नैच्छन् दैत्यपतयो महापुरुषचेष्टितम् ।

न गृह्णीमो वयं पुच्छमहेरङ्गममङ्गलम् ॥ ३ ॥

सत्यधर्मीया

ओरमङ्गलमङ्गं पुच्छं वयं न गृह्णीम इति दैत्यपतयः । महापुरुषो हरिस्तच्चेष्टितं मुखभागधारणव्यापारं नैच्छन्नानुमेनिरे ॥ ३ ॥

छलारी

महापुरुषस्य विष्णोश्चेष्टितं नैच्छन्नाङ्गीचक्रुः ॥ ३ ॥

लिङ्घेरी

दैत्यपतयो महापुरुषस्य गरुडध्वजस्य तद् देवैः सह वासुकिमुखभाग-ग्रहणरूपचेष्टितं व्यापारं नैच्छन्न संमतिं चक्रुः । वयमहेर्वासुकेरमङ्गलं पुच्छं बालं न गृह्णीमः । सर्पदशनभयेन बालं जग्रहुरित्यपयशशङ्कया तद्बालस्यामङ्गलत्वमाहुर्दैत्या इति ज्ञेयम् ॥ ३ ॥

स्वाध्यायश्रुतसम्पन्नाः प्रख्याता जन्मकर्मभिः ।

इति तूष्णीं स्थितान् दैत्यान् विलोक्य पुरुषोत्तमः ॥ ४ ॥

स्मयमानो विसृज्याग्रं पुच्छं जग्राह सामरः ।

कृतस्थानविभागास्ते एवं कश्यपनन्दनाः ॥ ५ ॥

पदरत्नावली

अर्थवादेनामङ्गलत्वमुपपादयति– स्वाध्यायेति ॥ ४ ॥

सत्यधर्मीया

स्वाननुरूपतां पुच्छविधृतेर्दर्शयितुं स्वगुणान्वर्णयन्ति ॥ स्वाध्यायेति ॥ स्वाध्याध्यो वेदाध्ययनम् । श्रुतं श्रवणं शास्त्रस्य ताभ्यां सम्पन्नाः । जन्म च कश्यपाद्दित्याम् । कर्माणि च यज्ञादीनि तैः प्रख्याताः सत्कुलीनाः सदाचारा इति । नैतदाचारयोग्या इति तूष्णीं मथनं विहाय स्थितान्दैत्यान्पुरुषोत्तमो विलोक्य स्मयमानः । भावितापापरिस्फूर्तिरेषामिति विस्मयो हरेरिति भावः । सामरोऽग्रं विसृज्य पुच्छं जगृहे । स्वयमशिक्षयत्प्राग्देवान्स सामा-वहदिति नाश्चर्यमिति भावः । साम रातीति देवान्प्रत्युपदिशतीति वा । सामि्न रमत इति वा । सामर इत्यपि विग्रहलभ्यार्थविशेषो ज्ञेयः ॥ ४-५ ॥

छलारी

अमङ्गलमहेरंगं पुच्छं बालं न गृण्हीम इत्यात्मस्तुत्या स्वेषां पुच्छग्रहणा-योग्यत्वमुपपादयति ॥ स्वाध्यायेति ॥ वेदाध्ययनेन शास्त्रश्रवणेन च संपन्नाः सत्कुलजन्मना सदाचारेण प्रख्याताः प्रसिद्धाः । अग्रं मुखं परित्यज्य । कृतो धारणास्थानभागो यैस्ते कश्यपनन्दनाः कश्यपपुत्राः ॥ ४-५ ॥

लिङ्घेरी

यतो वयं स्वाध्यायश्रुतेन ऋगादिवेदश्रवणेन संपन्ना गुणकर्मभिः प्रख्याताश्च तदेतन्न गृह्णीम इति तूष्णीं स्थितान्दैत्यान्पुरुषोत्तमो विलोक्य स्मयमानो मन्दहासं कुर्वन्सन् अमरैः सहितः सन् अग्रं मुखं विसृज्य पुच्छं जग्राह । कश्यपनन्दनास्ते देवासुरा एवं कृत-स्थानस्य मुखपुच्छादिरूपस्य विभागो यैस्ते ॥ ४-५ ॥

ममन्थुः परमायत्ता अमृतार्थे पयोनिधिम् ।

मथ्यमानेऽर्णवे सोऽद्रिरनाधारो ह्यपोऽविशत् ॥ ६ ॥

पदरत्नावली

अपोऽविशज्जलमध्यं प्रविष्टः ॥ ६ ॥

सत्यधर्मीया

अनाधारोऽधस्तादाधाररहितोऽपोऽविशन्निमग्न इत्यर्थः ॥ ६ ॥

छलारी

अपो जलान्यविशज्जलमध्ये मग्नोऽभूदित्यर्थः । कुतः । हि यस्मादनाधारः गौरवाद्गुरुनिमित्तेन स्वपौरुषे नष्टे सति ॥ ६ ॥

लिङ्घेरी

तथा सन्तः परमायत्ताः सन्तोऽमृतार्थं पयोनिधिं ममंथुः । एवमर्णवे मथ्यमाने सति सोऽद्रिर्मन्दरो यतोऽधस्तादाधाररहितस्ततोऽपोचलनादपोऽविशज् जलेष्वमज्जत ॥ ६ ॥

ध्रियमाणोऽपि बलिभिर्गौरवात् पाण्डुनन्दन ।

ते सुनिर्विण्णमनसः परिम्लानमुखश्रियः ।

आसन् स्वपौरुषे नष्टे दैवेनातिबलीयसा ॥ ७ ॥

सत्यधर्मीया

परिम्लाना क्षीणहर्षा मुखश्रीर्येषां ते ॥ ७ ॥

लिङ्घेरी

हे पाण्डुनन्दन । यदा मन्दरो बलिभिर्बलिष्ठैर्देवासुरैर्ध्रियमाणो धार्यमाणोऽपि गौरवाद्दुर्भरत्वादेवमपोऽविशत् तदा ते देवासुराः स्वपौरुषेऽतिबलीयसा दैवेन स्वादृष्टप्रेरकेण हरिणा नष्टे भग्ने सति सुनिर्विण्णमतिविभ्रान्तं मनो येषां तथा सन् परिम्लानं मुखवर्चोलक्षणरसरहितं यन्मुखं या च श्रीस्तत्कान्तिस्तद्वन्त आसन् ॥ ७ ॥

विलोक्य विघ्नेशगतिं तदेश्वरो दुरन्तवीर्योऽवितथाभिसन्धिः ।

कृत्वा वपुः काच्छपमद्भुतं महत् प्रविश्य तोयं गिरिमुज्जहार ॥ ८ ॥

पदरत्नावली

विघ्नेशेनाऽधोगतिर्यस्य स तथा तं गिरिम् । काच्छपं कच्छपस्य विद्यमानम्

॥ ८ ॥

सत्यधर्मीया

विघ्नेशगतिमपूजितगजवक्त्रव्यापारम् । अवितथाभिसन्धिरवितथो यथार्थोऽभिसन्धिरभिप्रायो यस्य स तथा । काच्छपं कौर्मम् । महद्वपुः कृत्वा । एतदुपपत्तये ईश्वर इति । तोयं जलं प्रविश्य गिरिमुज्जहारोद्दधार ॥ ८ ॥

छलारी

विघ्नेशस्य गणेशस्य गतिं तेन विरचितं विघ्नं दुरन्तवीर्योऽपारशक्तिः । अवितथाभिसन्धिः सत्योऽभिसन्धिः संकल्पो यस्य सः । काच्छपं कच्छपस्य विद्यमानं वपुः कृत्वा कूर्मावतारो भूत्वा ॥ ८ ॥

लिङ्घेरी

दुरन्तवीर्योऽवितथाऽव्यर्थाऽभिसन्धिरिच्छा यस्य स ईश्वरो हरिर्विघ्नेशस्य गतिं मन्दरपर्वतस्य जलमज्जनहेतुभूतां गतिं प्रवृत्तिं विलोक्य महत्काच्छपं कूर्मसंबन्धि वपुः कृत्वा तोयं क्षीरोदजलं प्रविश्य गिरिं मन्दरमुज्जहार । हरेः सामर्थ्यातिशयप्रकटनाय हरिप्रेरणयैव विघ्नराजेन मन्दरमज्जनमकारीति तात्पर्यं ज्ञेयम् ॥ ८ ॥

तमुत्थितं वीक्ष्य कुलाचलं पुनः समुत्थिता निर्मथितुं सुरासुराः ।

दधार पृष्ठेन स लक्षयोजनप्रस्तारिणा द्वीप इवापरो महान् ॥ ९ ॥

सत्यधर्मीया

लक्षयोजनप्रस्तारिणा लक्षयोजनमभिव्याप्य प्रस्तारो विस्तारोऽस्यास्तीति स तथा तेन । अपर इतरो महान्द्वीप इवोत्थितः ॥ ९ ॥

छलारी

कुलाचलं मन्दरम् । सः कूर्मरूपी भगवान् लक्षयोजनप्रस्तारो विस्तारोऽ-स्यास्तीति तथा तेन । पृष्ठेन द्वीप इव दधार ॥ ९ ॥

लिङ्घेरी

सुरासुरा उच्छ्रितमुद्धृतं कुलाचलं तं मन्दरं वीक्ष्य क्षीरसमुद्रं निर्मथितुं समुत्थिताः । स कूर्मरूपी हरिरपरो महान्द्वीप इव लक्षयोजनप्रस्तारिणा विस्तारवता स्वपृष्ठेन मन्दरं दधार ॥ ९ ॥

सुरासुरेन्द्रैर्भुजवीर्यवेपितं परिभ्रमन्तं गिरिमङ्ग पृष्ठतः ।

बिभ्रत् तदावर्तनमादिकच्छपो मेनेऽङ्गकण्डूयनमप्रमेयः ॥ १० ॥

पदरत्नावली

तस्य गिरेरावर्तनं परिभ्रमणं कण्डूयनं मेन इत्यन्वयः ॥ १० ॥

सत्यधर्मीया

अङ्ग हे परीक्षित् । पृष्ठतः पृष्ठे बिभ्रदादिकच्छपस्तदावर्तनं गिरिपरिवर्तन-मङ्गकण्डूयनं तत्समं मेने । अनायासोऽस्यानेन द्योत्यते ॥ १० ॥

छलारी

भुजवीर्येण वेपितं कंपितम् । हे अङ्ग । तदा वर्तमानं तस्य गिरेरावर्तनं परिभ्रमणमादिकच्छप आदिकूर्मोऽङ्गस्य देहस्य कण्डूयनं मेनेऽमन्यत । कूर्मस्य पृष्ठे गिरिभ्रमणं क्षतादिपीडाकरं नाभूदिति भावः । तत्र हेतुः ॥ अप्रमेयोऽचिन्त्य इति ॥ १० ॥

लिङ्घेरी

हे अङ्ग प्रिय । सुरासुरेन्द्रैः स्वभुजवीर्येण वेपितं कंपितं स्वपृष्ठतः पृष्ठे परिभ्रमन्तं गिरिं मन्दरं बिभ्रत्, साकल्येन प्रमातुमशक्यतयाऽप्रमेय आदिकच्छप आदिकूर्मस्तस्य मन्दरस्यावर्तनं परिभ्रमणमङ्गस्य शरीरस्य कण्डूयनं कण्डूतिपरिहाराय कृतनखादिस्पर्शतुल्यं मेने

॥ १० ॥

तथाऽसुरानाविशदासुरेण रूपेण तेषां बलवीर्यमीरयन् ।

उद्दीपयन् देवगणांश्च विष्णुर्दैवेन नागेन्द्रमबोधरूपः ॥ ११ ॥

पदरत्नावली

तमोगुणप्रवर्तकं रूपं यस्य स अबोधरूपः । तिर्यग्रूप इति वा ॥११॥

सत्यधर्मीया

सर्वेऽपि विना सर्वेश्वरावेशं नेशा अल्पमपि कल्पयितुमिति तेषु तदावेशं शंसति ॥ तथेति ॥ असुरानासुरेण घोरकाराकारेण । असुररूपसुरैरित्याचार्यवचनात् । तेषाम् । बलवीर्यं बलेन सहितं वीर्यम् । बले गिरिपरिवर्तनविषये वीर्यमीरयन्प्रेरयन् । किञ्चिद्रजो बहु तमः । कार्यप्रवर्तकाकारेण वा । दैवेन सत्त्वगुणप्रवर्तकेन । अबोधरूपस्तमोगुणकार्याज्ञानप्रदं रूपं यस्य सः ॥ ११ ॥

छलारी

विष्णुं विना कस्यापि व्यापारो न सम्भवतीत्याशयेन विष्णोः सुरासुरादिषु सर्वत्र प्रवेशमाह ॥ तथेति ॥ आसुरेणासुराकारेणेरयन्देवानामपि बलं वीर्यमभिवर्धयन् दैवेन देवाकार-रूपेण नागेन्द्रं वासुकिमबोधरूपस्तिर्यग्रूपः सर्पाकार इत्यर्थः ॥ ११ ॥

लिङ्घेरी

न विद्यते बोधस्तत्तत्कार्यज्ञानं येषां ते तथा तान् रूपयति तत्तदुपायं बोधयतीत्यबोधरूपोऽबोधोऽज्ञानं भवत्यस्मादित्यबोधस्तमोगुणस्तत्प्रेरयतीत्यबोधरूपो विष्णु-स्तेषामसुराणां बलं शारीरं वीर्यं पराक्रमं चेरयन्प्रेरयन्नसुराणामिदं नियामकमित्यासुरं तेन रूपेणा-सुरानाविशत् । तथा देवगणांश्चोद्दीपयन् बलवीर्यतयाऽभिवर्धयन् दैवनियामकतया दैवेन रूपेणा-विशन्नागेन्द्रं वासुकिं नागरूपेणाविशत् । ‘तत्तन्नाम्नोच्यते विष्णुः सर्वशास्त्रत्वहेतुत’ इत्यादेः

॥ ११ ॥

उपर्यगेन्द्रं गिरिराडिवान्य आक्रम्य हस्तेन सहस्रबाहुः ।

तस्थौ दिवि ब्रह्मभवेन्द्रमुख्यैरभिष्टुवद्भिः सुमनोभिवृष्ट्या१ ॥ १२ ॥

सत्यधर्मीया

अन्यो गिरिराडिवागेन्द्रं पर्वतम् । हस्तेनोपर्याक्रम्यानुड्डीनं यथा स्यात्तथा । सहस्रबाहुर्बहुभुजः । सुमनोभिः पुष्पैः । वर्षणकर्तॄनाह ॥ दिवीति ॥ १२ ॥

छलारी

हरिः सहस्रबाहुस्तादृशरूपः सन् गिरिराडिवागेन्द्रं हस्तेन हस्तसहायेनाक्रम्योपरि पर्वतपृष्ठे तस्थौ । कथम्भूतः। दिव्यभिष्टुवद्भिः स्तुतिं कुर्वद्भिर्ब्रह्मादिभिः। सुमनोभिः पुष्पैरभिवृष्टः

॥ १२ ॥

लिङ्घेरी

दिव्यन्तरिक्षे ब्रह्मा चतुर्मुखो भवो रुद्र इन्द्रस्त एव मुख्या येषां तैरभिष्टुवद्भिः संस्तुवद्भिः सुमनोभिः पुष्पैरभिवृद्धः सहस्रबाहुरन्यो रूपान्तरधारी अगेन्द्रं पर्वतश्रेष्ठं मन्दरमुप-र्यूर्ध्वभागं हस्तेनाक्रम्यान्यो गिरिराडिव तस्थौ । ‘शैलवृक्षौ नगावगौ’ । ‘स्त्रियां सुमनसः पुष्पम्’ इत्यमरः ॥ १२ ॥

उपर्यधश्चात्मनि गोत्रनेत्रयोः परेण ते प्राविशता समेधिताः ।

ममन्थुरब्धिं तरसा मदोत्कटा महाद्रिणा क्षोभितनक्रचक्रम् ॥ १३ ॥

पदरत्नावली

आत्मनि अन्तः ॥ १३ ॥

सत्यधर्मीया

आत्मनि मध्ये । मनसि यत्ने वा । गोत्रे पर्वते । नेत्रे मथनरज्जौ । प्राविशता प्रकृष्टतया सम्यग्विशता समेधिता अभिवृद्धाः । नक्राणां तदादीनां चक्रं समूहः क्षोभितो नक्रचक्रो यस्मिन्स तम् । चक्रो गण इति विश्वः । ‘गोत्रः क्षोणीधरः स्मृत’ इति विश्वः ॥१३॥

छलारी

आत्मनि देवदैत्यमध्ये पर्वतमध्ये च गोत्रे गिरौ दार्ढ्यरूपेण नेत्रे रज्जावभेद्य-रूपेण प्राविशता प्रविष्टेन परमेण परमात्मना समेधिता अभिवृद्धास्तरसा वेगेन मदेनोत्कृष्टाः क्षोभितं चलितं नक्राणां जलजन्तुविशेषाणां चक्रं समूहो यस्मिंस्तमब्धिं समुद्रं ममन्थुर् ममन्थ ममन्थतुर् ममन्थुः । लिट् ॥ १३ ॥

लिङ्घेरी

नेत्रगोत्रयो रज्जुभूतवासुकिमन्दरपर्वतयोराविशता, मन्दरस्योपर्यधश्च स्थिते-नात्मनि स्वस्य, शरीरे चाविशता परेण हरिणा समेधिता अभिवर्धिता अत एव मदोत्कटा देवासुरा महाद्रिणा मन्दरेण क्षोभितं चलीकृतं नक्राणां ग्राहादिजलचराणां चक्रं समूहो यस्मिंस्त-मब्धिं तरसा वेगेन ममन्थुः ॥ १३ ॥

अहीन्द्रसाहस्रकरालदिङ्मुखश्वासाग्निधूमाहतवर्चसोऽसुराः ।

पौलोमकालेयबलील्वलादयो दवाग्निदग्धाः सरला१ इवाभवन् ॥ १४ ॥

पदरत्नावली

अहीन्द्रस्य साहस्रसंख्यां गतानि करालानि च दिश इव विस्मृतानि च मुखान्यहीन्द्रसाहस्रकरालदिङ्मुखानि, तेषां निश्वासा एवाग्नयः निःश्वासाग्नयस्तेषां धूमैराहतं वर्चो येषां ते तथा ॥ १४ ॥

सत्यधर्मीया

अहीन्द्रस्य वासुकेः साहस्राणि सहस्राणि । शतमानसहस्रेण । करालानि दृशश्च नेत्राणि च मुखानि च फणाश्च । तेभ्यो निःसृताः श्वासा एवाग्नयो धूमाश्च तैराहतं वर्चो येषां ते तथा । पौलोमकालेया गणा बलिश्चेल्वलश्चादयो येषां ते तथा । मुख्यो बलिः कुतो नादौ गृहीत इति चेत् । सत्यम् । मुखोङ्खदग्निधूमाहतवर्चस्त्वेन कश्चिद्विशेष इति द्योतयितुं वा । केचन दनुजा दक्षभागे । वामे केचन मध्ये बलिरिति विशेषं ध्वनयितुं सर्वोपजीव्यतामेतस्य बलेर्द्योतयितुं वा कीर्तनं मध्य इति ज्ञेयम् । दावाग्निदग्धाः । सरलाः पूतिकाष्टानि । ‘सरलः पूतिकाष्टे स्यादुदारावक्रयोरपि’ इति विश्वः । शलभा इति पाठे पतङ्गा इत्यर्थः । तयोश्च सरलपाठः सरलः । द्रुमाणामङ्गरागानां दर्शनस्य सम्भवादसम्भवादणूनां दावदग्धानां शलभानां दर्शनस्येति ॥ १४ ॥

छलारी

अहीन्द्रस्य साहस्राणि करालानि दिश इव विशालानि च यानि मुखानि तेषां श्वासा इवाग्नयस्तेषां धूमैराहतं वर्चः कान्तिर्येषां ते तथा । सरला द्रुमविशेषाः ॥ १४ ॥

लिङ्घेरी

पौलोमकालेयबलील्वलादयोऽसुरा अहीन्द्रस्य सर्पश्रेष्ठस्य वासुकेः करालानि क्रूराणि दिक्षु स्थितानि यानि मुखानि तेभ्यो श्वासद्वारा निस्सृतो योऽग्निस्तद्धूमेनाहतं वर्चः कान्तिर्येषां ते तथा सन्तो दावाग्निदग्धा सरला इवाभवन् ॥ १४ ॥

देवांश्च तच्छ्वासशिखाहतप्रभान् धूम्राम्बरस्रग्वरकञ्चुकाननान् ।

समभ्यवर्षन् भगवद्वशा घना ववुः समुद्रोर्म्युपगूढवायवः ॥ १५ ॥

पदरत्नावली

अम्बरं वस्त्रम् । कञ्चुकः कूर्पासकम् ॥ १५ ॥

सत्यधर्मीया

शिखा अस्य सन्तीति शिखः । शिखावान् । तच्छ्वासाग्न्याहता प्रभा येषां ते तथा । तान् । अम्बरं वस्त्रं च कञ्चुकश्च । ‘कञ्चुको वारवाणे स्यान्निर्मोके कवचेऽपि च’ इति विश्वः । कवचं चाननानि च धूम्राणि येषां ते तान् । किञ्चिद्दूरभागवर्तित्वेऽपि मथनकाले पार्श्वद्वयरज्जुसमासज्जनस्य न्यायसिद्धत्वाद्देवानामपि शिखाहतप्रभवत्वादिकं युक्तमिति ज्ञेयम् । घना मेघा देवोपरि समभ्यवर्षन् । भगवद्वशा इति वारिदवायुपक्षेऽप्यन्वेति । समुद्रस्योर्मयस्तदुप-गूढास्तदालिङ्गिता वायवः । अनेन शीतलत्वं वायूनां सूच्यते ॥ १५ ॥

छलारी

चस्त्वर्थः । देवास्तु भगवद्वशाः । हरिप्रेरिता इति यावत् । घना मेघाः समभ्यवर्षन् । समुद्रस्योर्मिभिस्तरङ्गैरुपगूढाः संस्पृष्टाः । शीतला इति यावत् । वायवश्च ववुर्वान्ति स्म । कथम्भूतान् । तस्याहीन्द्रस्य श्वासाग्नीनां शिखाभिर्ज्वालाभिर्हता प्रभा येषां ते तान् । धूम्रवर्णान्यंबरादीनि येषां तान् । अंबरं वस्त्रं कंचुकं कवचमित्यभिधानम् ॥ १५ ॥

लिङ्घेरी

भगवद्धरेर्वशा घना मेघाः समुद्रस्योर्मिभिस्तरंगैरुपगूढाः संबद्धाः शैत्यगुणोपेता वायवश्च मेघवायुनियामकदेवाः समुद्रोन्मथनोद्युक्तान्देवांश्च तस्य वासुकेः श्वासाग्निशिखाहतप्रभान् अत एव धूम्राणि धूमवर्णान्यंबराणि वस्त्राण्युष्णीषादीनि स्रजः पुष्पमालिका वराणि कंचुकानि च कंचूरूपवस्त्राणि येषां तान् दृष्ट्वा तेषु क्रमेणाभ्यवर्षन् ववुश्च । समित्युपसर्गेणाभिवर्षणस्य देवानुकूलतामाह ॥ १५ ॥

मथ्यमानात् तथा सिन्धोर्देवासुरवरूथपैः ।

यदा सुधा न जायेत निर्ममन्थाजितः स्वयम् ॥ १६ ॥

सत्यधर्मीया

न जायेत न जायत यदा तदा स्वयमजितो निर्ममन्थ ॥ १६ ॥

छलारी

देवासुरवरूथपैर्देवासुरश्रेष्ठैर्यदा सुधा न जायेत नोत्पन्ना तदाऽजितो नाम चाक्षुषमन्वन्तरे प्रादुर्भूतो हरिः स्वयं निर्ममन्थ । लिट् ॥ १६ ॥

लिङ्घेरी

देवासुराणां वरूथानि सैन्यानि पातीति पास्तैर्मथ्यमानास्तिंधोः क्षीरसमुद्राद्यदा सुधाऽमृतं न जायेत नोत्पन्नं नोत्पत्स्यति चेति देवासुराणां बुद्धिरभूत्तदाऽजितनामा भगवान् स्वयं साक्षादब्धिं निर्ममन्थ ॥ १६ ॥

मेघश्यामः कनकपरिधिः कर्णविद्योतविद्युन्

मूधर्ध्नि भ्राजद्विलुलितकचस्रग्धरो१ रक्तनेत्रः ।

जैत्रैर्दोर्भिर्जगदभयदैर्दन्दशूकं गृहीत्वा

मथ्नन् मथ्ना प्रतिगिरिरिवाशोभताऽथो धृताद्रिः ॥ १७ ॥

पदरत्नावली

कनकपरिधिः कनककाञ्चीकः । कर्णविद्योतविद्युदिति लुप्तोपमेयमिति । कर्णशब्दप्रयोगेण कुण्डलद्वयमुपलक्ष्यते । तेनैवं योजनीयम् । विशिष्टो द्योतो ययोस्ते विद्योते, कर्णयोर्विद्योते विशिष्टदीप्तिनी, विद्युद्रूपे इव कुण्डले यस्य स तथा । मूधर्ि्नशोभमाना विलुलिता विचलिता वनस्रग् वनमाला तां धरतीति भ्राजद्विलुलितवनस्रग्धरः । दन्दशूकं नागेन्द्रम् । मथ्ना मन्दराख्येन ॥ १७ ॥

सत्यधर्मीया

तदाकारो ध्येयोऽधिकारिभिरिति तं वर्णयति ॥ मेघश्याम इति ॥ कनकपरिधिः परितो धीयतेऽनेन कटिरिति । करणे किः । सुवर्णवदवभासमानवस्त्रः । पीताम्बर इति यावत् । परिधिर्यज्ञियतरौ काञ्चायां चेति रभसात्तदात्मककाञ्चीगुण इति वा । कर्णविद्योत-विद्युत् । कर्णयोर्विशिष्टो द्योतो द्योतनं याभ्यां ते कर्णविद्योते कुण्डले । ते एव विद्युत्तटित्तद्वच्चञ्चले यस्य । कर्णविद्योतयोरितरत्र कुण्डलयोर्विद्युद्विद्योतक इति वा । विद्योतत इति विद्युत् । भ्राजभ्रासेति क्विप् । ‘चपला कमला विद्युत्पुंश्चली पिप्पलीषु च । नपुंसकं तु शीघ्रे स्याद्वाच्य-वत्तरलेऽपि च’ इत्यभिधानात् कर्णविद्योते विद्युती तरले कुंडले यस्येति वा भावः । भ्राजद्वि-लुलितकचस्रग्धरः भ्राजन्विलुलितो यः कचः केशपाशस्तत्र स्रजो मालायाः । धरतीति धरः । भ्राजद्विलुलितेति स्रग्विशेषणं वा । कस्मिन्मूधर्ि्न शिरसि । वनस्रग्धर इति पाठे । गले माला चेन्मथनकाले बहुविलोला भवेदिति शिरोधारणमिति ज्ञेयम् । जगदभयदैर्जैत्रैर्जयशीलैः । जेतैव जैत्रः । तृनन्तात्प्रज्ञाद्यण् । जेतुरयमिति वा । फलतस्तौल्यम् । जैत्रस्तु जेता यो गच्छत्यलं विद्विषतः प्रतीत्यमरः । दोर्भिर्हस्तैर्दन्दशूकः सर्पस्तं गृहीत्वा । मथ्ना तद्रूपेण मन्दरेण । मथ्नन्मथनं कुर्वन् । धृताद्रिः प्रतिगिरिर्द्वितीयपर्वत इवाशोभतेत्यन्वयः । गर्हितं दशतिलुपसदेति यङ् । यजजपेत्यूकः । जपजभेत्यनुस्वारः । ‘दन्दशूको बिलेशय’ इत्यमरः । ‘दन्दशूकस्तु पुल्लिङ्गो राक्षसे च सरीसृप’ इति भानुः ॥ १७ ॥

छलारी

धृतोऽद्रिर्येन धृताद्रिरजितो नाम भगवान् अथो गिरिधारणानन्तरम् अशोभते-त्यत्वयः । कथम्भूतः । कनकवत्परिधिः परिधानरूपं वस्त्रं यस्य सः । पीतांबरः कनकमयः परिधिः काञ्ची यस्य स इति वा । कर्णयोर्विद्यमाना विद्युन्मकरकुण्डललक्षणा यस्य स तथा कर्णयोर्विद्युद्वत्प्रकाशमानकुण्डलयुक्त इत्यर्थः । मूधर्ि्न भ्राजन्तो विलुलिताश्चलिताः कचाः केशा यस्य स तथा । ‘कयाः केशाः शिरोरुहा’ इत्यभिधानात् । स्रग्धरो वनमालाधरः । पुनः कथम्भतः । जैत्रैर्जयशीलैर्दोर्भिर्भुजैर्दन्दशूकं सर्पं गृहीत्वा मथ्ना मन्दरेणाब्धिं मथ्नन् । क इवाशोभत । प्रतिगिरिरिव प्रतिद्वन्द्वसर्प इव ॥ १७ ॥

लिङ्घेरी

मथनसमयेऽजितशोभाविशेषमाह ॥ मेघश्याम इत्यादिना ॥ नीलमेघ-वच्छ्यामः कनकस्य सुवर्णस्य परिधिः काञ्ची यस्य स तथा । ‘परिधिः परिधाने स्यात्कांच्यां च’ इति रत्नमाला । कर्णयोर्विशिष्टो द्योतः प्रकाशो ययोस्ते कर्णविद्योते कुंडले तर्योर्विशिष्टा द्युत्प्रकाशो यस्य स तथा । मूधर्ि्न शिरसि किरीटेन प्रकाशमानविलुलिता वनस्रक् वनमाला तां धरतीति तथोक्तो गमनचलितवैजयन्तीधरो रक्तनेत्रान्तो जगतामभयदैर्जैत्रैर्जयशीलैर्दोर्भिर्हस्तै-र्दन्दशूकं सर्पं वासुकिं गृहीत्वा मथ्ना मथनसाधनकाष्ठायितेन मन्दरेणाब्धिं मथ्नन् धृतोऽद्रिर्मन्दरो येन तथा सन् प्रतिगिरिरिव अशोभत । ‘दंदशूको बिलेशय उरग’ इत्यमरः ॥ १७ ॥

निर्मथ्यमानादुदधेरभूद् विषं महोल्बणं हालहलाह्वमग्रतः ।

संभ्रान्तमीनोन्मकराहिकच्छपोत्तिमिद्विपग्राहतिमिङ्गिलाकुलात् ॥ १८ ॥

पदरत्नावली

उन्मकरा उन्मुखमकराः । उत्तिमय उत्पत्तिततिमिमत्स्याः । सम्भ्रान्तै-र्मीनादिभिर् आकुलादब्धेः ॥ १८ ॥

सत्यधर्मीया

हालाहलेत्याह्वाऽऽख्या । आख्याऽहे इत्यमरः । हलत्याहलति चेत्युदर-मिति । हलं च तदाहलं च हालाहलम् । पूर्वस्य प्रज्ञाद्यण् । हालाहलं हालहलं वदन्त्यपि हलाहलमिति द्विरूपकोश इति भानुः । ‘पुंसि क्लीबे च काकोलकालकूटहलाहल’ इत्यमरः । कालमपि कूटयति । कूट परिदाहे । चुरादिः कर्मण्यण् । पूर्वत्र वक्तव्यस्यात्रोक्तिर्द्वयोरपि श्लोकार्थ एकस्मिन्नुक्तेरुक्तिलाघवेनेति मन्तव्यम् । प्रथममुदधिं वर्णयति । मीना अणुमत्स्याः । उत्पतन्तो मकरा यादोविशेषाः । मकरो यादसीति विश्वः । अहयः सर्पाः कच्छपाः कूर्मा उत्तिमयो महामीनास्तिमिङ्गला अतिमहामीनाः । ताम्यन्ति । तमु ग्लानौ । कृमिततीन् । तिमिं गिरति । गृ निगिरणे । मूलविभुजेति कः । अचि विभाषेति लः । गिरेर्गिलस्येति मुम् । मत्स्यविशेषाणां संज्ञेति भानुः । मीनातीति मीनः । मीङ् हिंसायाम् । फेनमीनाविति निपातितः । द्विपो जलगजो ग्राहा नक्रास्तिमिङ्गिलाश्च तैराकुलस्तस्मात् ॥ १८ ॥

छलारी

महोल्बणं केनाप्यवार्यं हालाहल इत्याह्वं नाम यस्य तत् । अग्रतः प्रथमं सम्भ्रान्ता मीना उत्पतिताः सर्पाः कूर्माश्च यस्मिंस्तस्मात्तिमिर्नाम बहुयोजनमीनो मत्स्यविशेषः । द्विपा जलस्थगजाः । ग्राहा नक्राः । तिमिं पूर्वोक्तमत्स्यविशेषं गिलति ग्रसतीति तिमिङ्गिलः । तिम्यपेक्षया बहुयोजनो मीनविशेषः ॥ १८ ॥

लिङ्घेरी

देवासुरैर्निर्मर्थ्यमानात् सम्भ्रान्ता मीना उत्कृष्टमकराः, अहयः सर्पाः, कच्छपाः कूर्मास्तिमयो दशयोजनपरिमिता मीनाः, द्विपा गजाः, ग्राहा नक्रास्तिमीन् गिलन्ति ग्रसन्तीति तिमिंगिलाः शतयोजनपरिमिता मीनास्तैराकुलाच्चञ्चलादुदधेः क्षीरसमुद्रादग्रतः प्रथमं महोल्बणं हालाहलाख्यं विषमभूदुत्पन्नम् ॥ १८ ॥

तदुग्रवेगं दिशि दिश्युपर्यधो विसर्पदुत्सर्पदसह्यवीर्यम् ।

भीताः प्रजा दुद्रुवुरङ्ग सेश्वरा अरक्ष्यमाणाः शरणं सदाशिवम् ॥ १९ ॥

तात्पर्यम्

‘रुद्रस्य यशसेऽर्थाय स्वयं विष्णुर्विषं विभुः ।

न सञ्जह्रे समर्थोऽपि वायुं चोचे प्रशान्तय’ इति च ॥ १९-२२ ॥

पदरत्नावली

दुद्रुवुः शीघ्रं जग्मुः ॥ १९ ॥

सत्यधर्मीया

ननु सति भगवति किमिति दुद्रुवू रुद्रं प्रति प्रजा इत्यतस्तात्पर्यं प्रमाणेनाह ॥ रुद्रस्येति ॥ दिशि दिशि प्रतिदिशम् । विसर्पद्विसारि । उत्सर्पदूर्ध्वमागच्छत् । उग्रवेगमसह्यवीर्यम् । तद्विषं विलोक्य अरक्ष्यमाणाः सदागतिसदाशिवयोः कीर्त्यर्थमुदासीनेन हरिणाऽरक्ष्यमाणाः प्रजा भीताः । अङ्ग हे राजन् । सेश्वराः सहेन्द्राः सदाशिवं शरणं रक्षकं विलोक्य ध्यात्वा तं दुद्रुवुर्जग्मुः ॥ १९ ॥

छलारी

उत्सर्पत्समुद्रादुद्गच्छद्विषमप्रतिमं प्रतिक्रियाशून्यमिति वा । कुतः । उग्रो वेगो यस्य तत् । तदेवाह ॥ दिशीति ॥ सर्वदिक्षूपर्यधश्च विसर्पदत एवासह्यं विलोक्य भीता अन्येन केनाप्यरक्षमाणाः प्रजाः सदाशिवं शरणं दुद्रुवुर्जग्मुः ॥ १९ ॥

लिङ्घेरी

अङ्ग हे प्रिय । सेश्वराः स्वस्वस्वामिसहिताः प्रजा जना असह्यवीर्यमुग्रवेगमत एव दिशि दिशि विसर्पत्प्रसरन् उपर्युत्सर्पदधश्चेति सर्वतो गच्छत्तद्विषं वीक्ष्य भीताः संत्यः केचिदरक्ष्यमाणाः संत्यः सदाशिवं शरणं दुद्रुवू रक्षकत्वेन तं प्राप्ताः ॥ १९ ॥

विलोक्य तं देववरं त्रिलोक्या भवाय देव्याऽभियुतं मुनीनाम् ।

आसीनमद्रावपवर्गहेतोस्तपो जुषाणं स्तुतिभिः प्रणेमुः ॥ २० ॥

सत्यधर्मीया

त्रयाणां लोकानां समाहारस्त्रिलोकी । तस्या भवाय मङ्गलाय । देव्या पार्वत्याऽभियुतम् । अद्रौ पर्वते अपवर्गहेतोर्मोक्षमुद्दिश्य । मुनीनां तपस्तद्योग्यं तपो जुषाणं सेवमानं स्तुतिभिः सह प्रणेमुः । बहुवचनेन स्तुतिभिरिति एतत्सम्भाव्यभगवत्सम्भाव्यगुणयुक्ततां ज्ञापयति ग्रन्थकृदिति ज्ञेयम् ॥ २० ॥

छलारी

त्रिलोक्या भवायैहिकश्रेयसेऽपवर्गहेतोर्मोक्षार्थं च देव्योमया सहाद्रौ कैलास आसीनं मुनीनामभिहितं हरिप्रीत्यर्थमेव तपोजुषाणं तपः कुर्वन्तम् । ननु समर्थस्य हरेर्विद्य-मानत्वात्कथमरक्ष्यमाणा इति चेन्न । रुद्रस्य यशो दातुमेव हरेरुपेक्षया स्थितिः स्यात् । रुद्रस्य यशसेऽर्थाय स्वयं विष्णुर्विषं प्रभुः । न संजह्रे समर्थोऽपि वायुं चोचे प्रशान्तये इति वचनादिति ज्ञेयम् ॥ २० ॥

लिङ्घेरी

प्रजास्त्रिलोक्या भवाय मङ्गलायाभिमुखं देव्या पार्वत्याऽभियुतमद्रौ कैलासे मुनीनां मध्ये आसीनं स्वस्यापवर्गहेतोर्मोक्षार्थं तपो जुषाणं कुर्वाणं देवानामिन्द्रादीनां वरमुत्तमं महादेवं स्तुतिभिर्महादेवाय धीमहीत्यादिभिः स्तुवन्त्यः प्रणेमुर्नमश्चक्रुः ॥ २० ॥

प्रजा ऊचुः–

देवदेव महादेव भूतात्मन् भूतभावन ।

त्राहि नः शरणापन्नान् त्रैलोक्यदहनाद् विषात् ॥ २१ ॥

सत्यधर्मीया

भूतात्मन् प्रमथनाथ । भूतानि स्वाधमानि भावयतीति स तथा । नैरवध्यं भगवद्विषये ज्ञेयम् । एवमुत्तरत्रार्थोऽनुसन्धेयः । त्रैलोक्यदहनाद्विषान्नस्त्राहि त्रायस्व अद्यात्वन्तर-स्येदं रूपम् । विस्तृतं चास्माभिः सप्तमस्कन्धव्याख्यायामवलोकनीयम् ॥ २१ ॥

छलारी

भूतात्मन् भूतानां स्वामिन् भूतानां भावयतीति भूतभावन ॥ २१ ॥

लिङ्घेरी

अत्र प्रजाः श्रीपार्वतीपतिं तदन्तर्यामिणं शिवाख्यं नारायणं च मोक्षायोग्यानां संसारिणां तमोयोग्यानां च हरिहरयोर्भेदविषये संदेहविपर्ययजननाय संकलय्य स्तुवन्ति । अत्र चान्तरंगाद्युपपत्तिभिरयमेवार्थ इति विज्ञायेत । तथा हि । हे देवानामिन्द्रादीनां देव भूतानां प्रमथानामात्मन् स्वामिन् । भूतानि स्वावरप्राणिनो भावयत्युत्पादयतीति भूतभावन । हे महादेव पार्वतीपते त्वच्छरणापन्नान्नस्त्रैलोक्यदहनाद्विषात्त्राहीत्यधिष्ठानभूतरुद्रस्तुतिः ॥ २१ ॥

त्वमेकः सर्वजगत ईश्वरो बन्धमोक्षयोः ।

तं त्वामर्चन्ति कुशलाः प्रपन्नार्तिहरं गुरुम् ॥ २२ ॥

सत्यधर्मीया

जगतो बन्धमोक्षयोरीश्वरः स्वामी । कुशलाः शिक्षिताः साधवः । ‘कुशलः शिक्षित’ इति विश्वः ॥ २२ ॥

छलारी

सर्वजगतो बन्धमोक्षयोस्त्वमेक ईश्वरः कर्ता । कुशलाः पुण्यवन्तो मोक्षार्थिनो वा ॥ २२ ॥

लिङ्घेरी

तदन्तर्यामिदृष्ट्या स्तुवन्ति ॥ त्वमेक इत्यादिना ॥ हे शिवान्तर्यामि नारायण । त्वमेक एव सर्वजगतो ब्रह्मरुद्रादिलक्षणस्य बन्धमोक्षदाने ईश्वरः समर्थः । अत एव कुशलाः स्वपुरुषार्थेष्वभिनिविष्टाः प्रपन्नार्तिहरं गुरुं श्रुत्यादिभिर्हितोपदेष्टारं तं पूर्वोक्तगुणविशिष्टं त्वामर्चयन्ति । न हीयं स्तुतिः पार्वतीपतौ सम्भवति । तस्य नारायणादिस्वातिरिक्तसर्वचेतन-बन्धमोक्षदातृत्वस्य स्वमोक्षार्थं तपःकरणादिना बाधितत्वात् । न हि स्वातिरिक्तसर्वमोक्षादिदः स्वमोक्षार्थं तपः कुर्यात् ।

सृष्टिः स्थितिः संहृतिश्च नियमोऽज्ञानबोधने ।

बन्धमोक्षौ च पुरुषाद्यस्मात्स हरिरेकराट् ॥ इति स्कान्दपुराणवचनात् ।

अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः ।

आनन्ददश्च मुक्तानां स एवैको जनार्दनः । इति वचनाच्च ।

यत्तच्छिवाख्यं परमात्मतत्त्वं देवः स्वयंज्योतिरवस्थितिस्त इत्युत्तरग्रन्थे । हे देव महारुद्र । यद्यस्मात्ते तव चावस्थितिरवस्थानं तत्परमात्मतत्त्वं शिवाख्यं स्वयंज्योतिः स्वप्रकाशो नारायण इति । न ते गिरित्रेत्यत्र च हे गिरित्र गिरिश । ते हृदि यत्परंज्योतिर्नारायणाख्यं ब्रह्म वर्तते तदखिला ये लोकपाला इन्द्रादयो विरिंचश्चर्तुर्मुखो वैकुण्ठाख्याः सुरेन्द्राः शुभ्राख्यादृषेर्विकुण्ठायां जाता वैकुण्ठैः सुरसत्तमैरेतत्स्कन्धप्राक्तनपञ्चमाध्यायोक्तैश्च गम्यं साकल्येन ज्ञातुमशक्यमिति च विस्पष्टं रुद्रान्तर्यामिहरिस्तुतिप्रतीतेश्च प्रजानामभिमुखतया स्थितरुद्रान्तर्यामिण्यपि । अन्तर्यामिणमीशेशमहेक्ष्याहं त्वमित्यपि, सर्वे शब्दाः प्रयुज्यन्ते सति भेदेऽपि वस्तुष्वित्यादि-प्रमाणैस्त्वमित्याद्युपपत्त्याऽस्मदुक्तार्थो युक्त इत्यास्तां तावत् ॥ २२ ॥

गुणमय्या स्वशक्त्याऽस्य सर्गस्थित्यप्ययान् विभो ।

धत्से यदा स्वदृग् भूमन् ब्रह्मविष्णुशिवाभिधाम् ॥ २३ ॥

पदरत्नावली

यदा सर्गादीन् धत्से तदा ब्रह्माद्यभिधां धत्से ॥ २३ ॥

सत्यधर्मीया

स्वदृक् स्वप्रकाशः । भूमन् पूर्ण । गुणमय्या स्वशक्त्या । सर्ग-स्थित्यप्ययान् यदा जगतो धत्से तदा ब्रह्मविष्णुशिवाभिधां धत्स इत्यन्वयः । भावस्तु पूर्वकः

॥ २३ ॥

छलारी

‘सदेहमानिहरये प्रणमेत्केवलाय वा’ इति वचनाद्रुद्रान्तर्यामिणमपि स्तुवन्ति ॥ गुणमय्येति ॥ हे प्रभो रुद्रान्तर्यामिन् । गुणमय्या त्रिगुणात्मिकया स्वशक्त्या स्वाधीनप्रकृत्या ज्ञानादिगुणात्मिकया स्वरूपशक्त्याऽस्य जगतो यदा सर्गादीन् धत्से । तदा हे भूमन् स्वदृक् सिद्धज्ञानो ब्रह्मादिसंज्ञां धत्से धारयसि ॥ २३ ॥

लिङ्घेरी

हे भूमन्पूर्ण । रुद्रान्तर्यामिन्विष्णो । यदाऽस्य जगतः सत्त्वादिगुणमय्या सत्त्वगुणनियामिकया स्वशक्त्या सर्गस्थित्यप्ययान् उत्पत्तिस्थितिसंहारान् धत्से विधत्से करोषि तदा स्वयमेव स्वं साकल्येनैक्षत इति स्वदृक् क्रमेण ब्रह्माविष्णुशिवाभिधां धत्से धारयसि । अत्रायं विवेकः । चतुर्मुखे ब्रह्मरूपेण स्थित्वा सर्गं करोषि । विष्ण्वभिधेन साक्षाद्रूपेण स्थितिं, शिवनामकेन रुद्रे प्रविष्टरूपेण संहारमिति ।

‘ब्रह्मणि ब्रह्मरूपोऽसौ शिवरूपी शिवे स्थितः । अहं ब्रह्मा च शर्वश्च जगतः कारणं परम् ।

आत्मेश्वर उपद्रष्टा स्वयं दृगविशेषणः । आत्ममायां समाविश्य सोऽहं गुणमयी द्विज ।

सृजन् रक्षन्हरन्विश्वं दध्रे संज्ञाः क्रियोचिताः’ ।

इत्यादि समाख्यानात् । सत्त्वादिगुणनियामकशक्त्या जगज्जन्मस्थितिसंहारकर्तृत्वं विष्णोरेव मुख्यम् । निमित्तमात्रमीशस्य विश्वसर्गनिरोधयोः । ब्रह्मा च शर्वश्च, कालाख्या रूपिणस्तवेति दशमस्कन्धे चतुर्मुखरुद्रयोरीश्वरं प्रति तयोः प्रत्येकं सृष्टिसंहारमात्रकरणयोर्मध्ये शिवस्येशशब्दित-हरिणा क्रियमाणजगत्संहारनिमित्तमात्रत्वस्य विस्पष्टत्वाच्च भूमा संप्रसादादध्युपदेशादिति सूत्र-भाष्यादौ भूमशब्दस्य विष्ण्वेकनिष्ठत्वावगमाच्चात्र स्तूयमानो विष्णुरेव न तु पार्वतीश इत्यविवादम् ॥ २३ ॥

त्वं ब्रह्म परमं गुह्यं सदसद्भावभावनम् ।

नानाशक्तिभिराभासस्त्वमात्मा जगदीश्वरः ॥ २४ ॥

पदरत्नावली

सदसद्भावा देवासुरतिर्यगादयस्तान् भावयत्युत्पादयति वर्धयति वशीकरोति चेति सदसद्भावभावनम् । अनेन ब्रह्मशिवयोरन्तर्यामित्वेन स्थितमेव जगदुत्पत्यादि करोतीति निरणायि । नानाशक्तिभिर् आभास आ समन्ताद्भासो भासनं यस्य स तथा ॥ २४ ॥

सत्यधर्मीया

सद्भावा देवाः । असद्भावा दानवाः । सदसद्भावा मिश्रास्तान् भावयत्युत्पादयतीति स तथा । नानाशक्तिभिर्विचित्राभिः शक्तिभिराभासत इत्याभास आभासनं यस्य स वा ॥ २४ ॥

छलारी

सदसतः सुरासुरतिर्यगादिरूपान् भावान् जीवान् भावयत्युत्पादयतीति तथा । नानाशक्तिभिर्विचित्रशक्तिभिर् आ समन्ताद्भासो भासमानं यस्य स तथा । त्वं जगतामादानादि-कर्ता जगदीश्वरो जगन्नियामकः ॥ २४ ॥

लिङ्घेरी

तमेव विष्णुं स्तुवन्ति । हे भूमन् विष्णो । गुह्यमतिरहस्यं परमं ब्रह्म त्वमेव । नारायणपरं ब्रह्म, परंधाम, परमं यो महद्ब्रह्म इत्यादिप्रत्यक्षश्रुतिस्मृतिभ्यः । सदसतां पृथिव्यादि-पञ्चभूताख्यानां भावानां भावनमुत्पादकम् । आत्मन आकाशः सम्भूत इत्यादेः । यदन्यद्वायो-श्चान्तरिक्षं चैतदिति माध्यन्दिनश्रुत्यादेः । नानाशक्तिभिः सृष्ट्यादिहेतुभिराभासः प्रकाशमान आत्माऽन्तर्यामी जगदीश्वरः ॥ २४ ॥

त्वं शब्दयोनिर्जगदादिरात्मा प्राणेन्द्रियद्रव्यगुणस्वभावः ।

कालः क्रतुः सत्यमृतं च धर्मस्त्वय्यक्षरं यत् त्रिवृदामनन्ति ॥ २५ ॥

पदरत्नावली

शब्दो योनिर्ज्ञप्तिकारणं यस्य स तथा । प्रणादिसत्ताप्रदः, तत्तत्स्व-भावप्रवर्तकः। क्रतुः सत्यकामः, सङ्कल्पप्रवर्तको वा । सत्यं सच्चिदानन्दरूपम् । ऋतमेक-प्रकारम् । धारकत्वाद् धर्मः । यत् त्रिवृदकारादिवर्णत्रयात्मकं तदक्षरं प्रणवलक्षणं त्वयि त्वद्वाचकत्वेन प्रवर्तत इत्यामनन्ति, ओमित्येकाक्षरमित्यादि वेदान्ताः ॥ २५ ॥

सत्यधर्मीया

शब्दो योनिर्ज्ञप्तिकारणं यस्य स तथा । आत्माऽहंकारतत्त्वं जगदादि-र्महत्तत्त्वम् । प्राणेन्द्रियद्रव्यगुणस्वभावः । प्राणा इन्द्रियाणि भूतानि गुणाश्च शब्दादय एतदादि-स्वभावप्रवर्तकः । कालो हर्ता । क्रतुः स क्रतुर्ज्ञानरूपत्वादित्यादेर्ज्ञानात्मा । सत्यं सत्यशब्द-वाच्यम् । ऋतम् ‘ऋ गताविति धातोस्तु पूर्वावगतवत्सदा । स्थिते ब्रह्मर्तमित्युक्तम्’ इति वचनाच्छश्वदेकप्रकारम् । धर्मो धारकत्वात् । यत्त्रिवृद् अकारोकारमकारांस्त्रीन्वर्णान्वृणोतीति त्रिवृत् । अक्षरं प्रणवात्मकम् । त्वयि वाचकतया वर्तत इत्यामनन्ति । ओमित्येकाक्षरं ब्रह्म । ओमित्येतदक्षरमुद्गीथमुपासीतेत्यादि वेदान्ताः ॥ २५ ॥

छलारी

शब्दः सदागमो योनिर्ज्ञप्तिकारणं यस्य शब्दयोनिर्जगदादिर् महत्तत्त्वम् आत्माऽ-हङ्कारः प्राण इन्द्रियाणि द्रव्याणि भूतानि गुणाः शब्दादयस् त्वमेव महदादिसत्ताप्रदस्त-त्स्वभावप्रवर्तकः । क्रतुः संकल्पः सत्यं सच्चिदानन्दरूपम् ऋतं सर्वदैकप्रकारम् । ‘ऋ गताविति धातोस्तु पूर्वावगतवत्सदा । स्थितं ब्रह्मर्तमित्युक्तम्’ इति वचनात् । धारकत्वाद्धर्मः । अकारोकारमकाराख्यवर्णत्रयात्मकमक्षरमक्षराख्यं तत्त्वयि त्वद्वाचकत्वेन प्रवर्तत इत्यामनन्ति पठन्ति । ओमित्येकाक्षरमित्यादि वेदान्ताः । यद्वा । त्रिवृत्त्रिगुणात्मकं यदक्षरं प्रकृतिस्तत्त्वयि त्वदाश्रयमामनन्ति । त्वं जगदादिरित्यादिना हरेर्महत्तत्त्वाद्यैक्येनोक्तिस् तत्तत्सत्तायास्तदधीन-त्वेनेति ज्ञेयम् । ‘यदधीनं यस्य सत्ता तत्तदित्येव भण्यत’ इत्युक्तेः । एवं सर्वं ज्ञेयम् ॥२५॥

लिङ्घेरी

त्वमेव शब्दयोनिः पूर्वोक्तानेकगुणविशिष्टतया ऋगादिशास्त्रप्रतिपाद्यो, जगत आदिकालस्थितः, आत्मशब्दवाच्यस्त्वमेव । ‘आत्मा वा इदमेक एवाग्र आसीत्’ इत्यादेः । प्राणेन्द्रियद्रव्यगुणः स्वाधीनो भावः सत्तावतो यत्स्मात्स तथोक्तः । त्वमेव कालः, क्रतुः सत्य-सङ्कल्पो यज्ञात्मा च, सत्यं चिदानन्दरूपं, ऋतं सर्वदैकप्रकारेण स्थितं, धारकत्वाद्धर्मः । यत्त्रिवृद् अकारोकारमकाररूपवर्णत्रयवद्यदक्षरमोङ्काररूपं तत्प्रतिपाद्यं च त्वमेवेति । ॐ इत्येकाक्षरं ब्रह्मेति वेदे वेदान्त आमनन्ति ॥ २५ ॥

अग्निर्मुखं तेऽखिलदेवतात्मा क्षितिं विदुर्लोकभवाङ्घ्रिपङ्कजम् ।

कालो गतिस्तेऽखिलदेवतात्मनो दिशश्च कर्णौ रसनं जलेशः ॥ २६ ॥

पदरत्नावली

अखिलदेवतात्मा अखिलदेवताभ्यो हरिर्भागदाता, हे लोकभव जगत्कर्तः। अखिलदेवतान्तर्यामिणः ॥ २६ ॥

सत्यधर्मीया

युष्मद्धितं करोमीति भगवता सङ्कल्पितत्वात्तदसाधारणलक्षणैस्तद-न्तर्यामिणमेव लक्षीकृत्य स्तुवन्ति ॥ अग्निरिति ॥ अखिलदेवतात्मा अखिलानां देवानामात्मा-ऽऽहुत्याद्यादानकर्ताऽग्निस्ते मुखमिति विदुः । हे लोकभव जगन्मङ्गल । क्षितिं ते अङ्घ्रिपङ्कजं विदुः । कालस्ते गतिर्गमनमिति । अखिलदेवतात्मनस्ते दिशः कर्णौ । जलेशो वरुणो रसनम् । रसना जिह्वेति ॥ २६ ॥

छलारी

अखिलदेवतात्माऽखिलदेवताभ्यो हविर्भागदाताऽग्निस्ते मुखं विदुः । हे लोकभव जगत्कर्तः । द्वितीयान्तेषु विदुरित्यस्य सम्बन्धः । कालस् ते गतिर् गमनमखिलदेवता-नामन्तर्यामिणः ॥ २६ ॥

लिङ्घेरी

अखिलानां देवतानां हरिराधारतयाऽऽत्मदेहस्थानां योऽग्निस्ते मुखं मुखा-ज्जातस्तदाश्रितश्च । मुखादिन्द्रश्चाग्निश्चेत्यादिश्रुतेः । हे लोकभव सर्वलोकोत्पादक हरे क्षितिं तवाङ्घ्रिपङ्कजं, पद्भ्यां भूमिरित्यादिश्रुतय आमनन्ति । अखिलदेवतानामात्मनः स्वामिनस्ते कालो, गतिः । दिशश्च कर्णौ, जलेशो वरुणो रसनं जिह्वाम् ॥ २६ ॥

नाभिर्नभस्ते श्वसनं नभस्वान् सूर्यश्च चक्षूंषि जलं स्म रेतः ।

परावरात्मा द्रुहिणस्तवात्मा सोमो मनो द्यौर्भगवंच्छिरस्ते ॥ २७ ॥

पदरत्नावली

द्रुहिणस्तवात्मा सत्वलक्षणचित्तम् ॥ २७ ॥

सत्यधर्मीया

नभो नाभिरिति । श्वसनं प्राणं नभस्वान्वायुरिति विदुः । श्वस प्राणधारणेऽस्माल्ल्युट् । श्वसनः स्पर्शनः । नभस्वान्नभ आश्रयत्वेनास्ति । तसौ मत्वर्थ इति भत्वाद्रुत्वाभावः । नभस्वद्वातेति चामरैः । सूर्यश्च चक्षूंषि । जलं रेतः स्म । परावरात्मा । नीचोच्चोत्तमः । द्रुहिणो द्रुह्यति दुष्टेभ्य इति द्रुहिणः । द्रुहक्षिभ्यामिनान्निति तु नांद्रुदक्षिभ्यामिति तत्र पाठात् । द्रविणदक्षिणेत्युदाहरणात् । अतो बहुलमन्यत्रापीतीनच् । बाहुलकादेव गुणो न । ब्रह्मात्मभूः स्याद्द्रुहिणो द्रुघणश्च पितामह इति भागुरिः । तवात्मा स्वामी च । तं वा । सोमो मनः । हे भगवंस्ते द्यौः शिर आमनन्ति ॥ २७ ॥

छलारी

नभोऽन्तरिक्षं श्वसनं श्वासं नभस्वान् वायुरात्मा मध्यदेहः परेऽपरे च ये आत्मानो जीवास्तेषामाश्रयणम् । द्यौः स्वर्गलोकः ॥ २७ ॥

लिङ्घेरी

हे भगवन् । नभोऽन्तरिक्षं ते नाभिः । ‘नाभ्या आसीदन्तरिक्षम्’ इति श्रुतिः । नभस्वान्वायुस्ते श्वसनं श्वासलक्षणप्राणजन्यः । ‘प्राणाद्वायुरजायत’ इति श्रुतिः । सूर्यस्ते चक्षूंषि । ‘चक्षोः सूर्योऽजायत’ इति श्रुतेः । जलं ते रेतो वीर्यस्थानीयम् । तवात्मा देहः परावरात्मा मुक्तामुक्तचेतनानामाश्रयः । ‘मुक्तानां परमा गति’ इत्यादेः । सोमश्चन्द्रस्ते मनः । ‘चन्द्रमा मनसो जात’ इति श्रुतेः । द्यौस्ते शिरः । ‘शीर्ष्णो द्यौः समवर्तत’ इति श्रुतेः । ‘यथा हि पौरुषं सूक्तं नित्यं विष्णुपरायणम्’ इत्यादिप्रमाणेन विष्ण्वेकविषयतया प्रमितपुरुषसूक्त-समाख्यया चात्र विष्णुरेव स्तूयत इत्यविवादम् ॥ २७ ॥

कुक्षिः समुद्रा गिरयोऽस्थिसङ्घा रोमाणि सर्वौषधिवीरुधस्ते ।

छन्दांसि साक्षात् तव सप्तधातवस्त्रयीमयात्मन् हृदयं स धर्मः ॥ २८ ॥

सत्यधर्मीया

कुक्षिरुदरम् । छन्दांसि गायत्र्युष्णिगनुष्टुप्बृहतीपङ्क्तीत्रिष्टुप्जगत्याख्यानि सप्त छन्दांसि । ते सप्त धातवस्त्वक्चर्ममेदोमांसरुधिरमज्जास्थ्याख्याः । त्रयीमयात्मन् सकल-वेदप्रतिपाद्यमूर्ते ॥ २८ ॥

छलारी

कुक्षिरुदरम् । छन्दांसि गायत्र्युष्णिगनुष्टुप्बृहतीपङ्क्तीस्त्रिष्टुप्जगत्याख्यानि सप्त छन्दांसि । ते सप्त धातवः । त्वक्चर्ममेदोमांसरुधिरमज्जास्थ्याख्याः । त्रयीमयात्मन्वेदत्रय-प्रतिपाद्यमूर्ते ॥ २८ ॥

लिङ्घेरी

हे त्रयीमयात्मन् ऋगादिवेदत्रये प्रधानचेतनतया प्रतिपाद्य, शिवान्तर्यामिन् । ‘वेदैश्च सर्वैरहमेव वेद्यः’ । ‘नारायणपरा वेदा’ इत्यादिस्मृत्या वेदे हरेरेव मुख्यप्रतिपाद्यताव-गमात् । ते समुद्राः सप्त, कुक्षिरुदरं गिरयः पर्वता अस्थिसङ्घाः सर्वे ओषधयः फलपाकान्ता व्रीहियवादयो वीरुधो लता रोमाणि तनुरुहस्थानीयाः । गायत्र्यादिसप्तछन्दांसि तव सप्तत्वगादि-धातवः । धर्मदेवता यमस्तव हृदयम् ॥ २८ ॥

मुखानि पञ्चोपनिषत् तवेश यैस्त्रिंशदष्टोत्तरमन्त्रवर्गः ।

यत् तच्छिवाख्यं परमात्मतत्वं देव स्वयंज्योतिरवस्थितिस्ते ॥ २९ ॥

पदरत्नावली

ईशानः सर्वविद्यानामित्यादिपञ्चमन्त्राः । यैर्मन्त्रैस्त्रिंशदष्टोत्तरमन्त्रवर्गो ऽष्टत्रिंशत्कलालक्षणो मन्त्रसमूहः, उत्पन्न इति शेषः । यच्छिवारव्यं तद्वस्तु तेऽवस्थिति-रवस्थानम्, त्वदनुग्रहादिति शेषः ॥ २९ ॥

सत्यधर्मीया

पञ्चोपनिषदुपनिषदस्तव मुखानि । ‘ध्येयः पञ्चमुखो रुद्रः स्फटिकामल-मूर्तिमान्’ इत्यादेः । पञ्चमन्त्राः । ‘सद्यो जातं प्रपद्यामि । वामदेवाय नमो ज्येष्ठाय । अघो-रेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः । तत्पुरुषाय विद्महे । ईशानः सर्वविद्यानाम्’ इति । यैर्मन्त्रै-स्त्रिंशदष्टोत्तरवर्गोऽष्टोत्तरत्रिंशन्मन्त्राणां वर्गस्तेषामेव पञ्चमन्त्राणां पदच्छेदेनाष्टोत्तरत्रिंशत्कलात्मका मन्त्रा जाता इत्यर्थः । यत्तत्तच्छिवाख्यं ते तव स्वयंज्योतिःशब्दवाच्यम् । परमात्मतत्त्वं त्वदन्तर्यामित्वेन रहस्यम् । अवस्थितिराश्रयः परमार्थतत्त्वमित्यपि पठन्ति । तच्छिवाख्य-विष्ण्वाश्रयको भव भवानिति भावः ॥ २९ ॥

छलारी

हे ईश रुद्र । पञ्चोपनिषदः ‘सद्योजातं प्रपद्यामि । वामदेवाय नमो जेष्ठाय । अघोरेभ्यः । तत्पुरुषाय विद्महे । ईशानः सर्वविद्यानाम्’ इति मन्त्राः । तव मुखानि तव मुखेभ्यो जाताः । यैर् मन्त्रैस्त्रिंशदष्टोत्तरमन्त्रवर्गोऽष्टोत्तरत्रिंशन्मन्त्राणां वर्गस् तेषामेव पञ्चमन्त्राणां पदच्छेदेनाष्टोत्तरत्रिंशत्कलात्मका मन्त्रा उत्पन्ना इत्यर्थः । यच्छिवाख्यं परमात्मतत्त्वं तदन्त-र्यामित्वेन विद्यमानं परमात्मरूपं वस्तु तदेव तत्स्वयंज्योतिशब्दवाच्यं तत्तवावस्थितिरवस्थान-माश्रयम् ॥ २९ ॥

लिङ्घेरी

इदानीमधिष्ठानभूतपार्वतीपतिं स्तुवन्ति । हे ईश पार्वतीपते । उपनिषद् ईशानः सर्वविद्यानामित्यादिरूपा, तव पञ्चमुखानि मुखेभ्यो जाताः । यैः । ‘ईशानः सर्वविद्यानाम् । वामदेवाय नमो ज्येष्ठाय । अघोरेभ्यः । सद्यो जातं प्रपद्यामि’ इत्यादि पञ्चमन्त्रैरष्टोत्तरात्त्रिंश-न्मन्त्रसमुदायः कलारूपो जात इति शेषः । हे महादेव । यद्यस्मात्ते तवावस्थितिः कैला-साधिवासादिपदं प्राप्तं तत्ते हृद्यवस्थितं ज्योतिः शिवाख्यं परमात्मनो विष्णोस्तत्त्वं स्वरूपम् । विष्णुरिति यावत् । ‘अस्य देवस्य मी्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः । विदेहि रुद्रो रुद्रियं महित्वम्’ इति श्रुतौ, रुद्रो विष्णोर्देवस्य प्रभृथे पूजने कृते सति रुद्रियं रुद्रसंबन्धिमहित्वं कैलासाधिपत्त्यादिरूपं विदे विविदे हि इति स्पष्टत्वात् । ‘सर्वस्य चाहं हृदि संनिविष्टः । ‘ज्योतिर्हृदयमाहितं यत्’ । ‘यो वेद निहितं गुहायाम्’ । ‘नारायणः परं ज्योतिः’ इत्यादि-श्रुत्यर्थपर्यालोचनायां प्रस्तुतस्वयंज्योतिषो विष्णुत्वावगमात् । ‘आत्मा नारायणः परः’ । ‘तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः’ । ‘स ब्रह्मा स शिवः स हरिः सेन्द्रः सोऽक्षरः परमः स्वराट्’ इत्यादिश्रुतिस्मृतिषूच्यमानपरमात्मनः, ‘द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यस्मात्क्षरमतीतोऽहम्’ इत्यादिना क्षराक्षरशब्दित-रमाब्रह्मादिचेतनान्यचेतनस्य विष्णुत्वावगमात् । अयमेवैतच्छ्लोकार्थः । न तु पार्वतीपतिरत्र शिवपरमात्मादिशब्दाभिधेयः । तस्य, हित्वा भवद्भव– उदीरितकालवेगध्वस्ताशिषोऽब्जभवनाक-पतीन् कुतोऽन्यानिति दशमोत्तरार्धे रुग्मिण्या, ‘अद्भिः संभूतो हिरण्यगर्भ’ इति श्रुत्याऽजशब्द-

वाच्यतया सम्भावितेन चतुर्मुखेन सह भवशब्दवाच्यस्य नश्वरैश्वर्यत्वेनैतत्स्तुत्ययोग्यत्वात् ॥२९॥

छाया त्वधर्मो मृड यैर्विसर्गो नेत्राणि ते१ सत्वरजस्तमांसि ।

साक्षान्मनुः शास्त्रकृतस्तवेक्षा छन्दोमयो देवऋषिः पुराणः ॥ ३० ॥

पदरत्नावली

यैः सत्वादिभिः सर्गो भवति तानि सत्वादीनि तव नेत्रत्रयम् । साक्षा-न्मनुः शास्त्रकृतस्तवेक्षा ततो जातः । देवर्षिस्तव छन्दोमय इच्छातो जातः ॥ ३० ॥

सत्यधर्मीया

छाया व्याख्यातचरमिदम् । यैर्विसर्गो विविधव्यापारस् ते सत्त्वादयो गुणास्तव नेत्राणि नयनरूपाणि । हे मृड शास्त्रकृतः पौरुषेयापौरुषेयागमोत्पत्तिव्यक्तिकर्तु-स्तवेक्षातो जातः साक्षान्मनुर्ज्ञानजनकः पुराणो देवर्षिर्गायत्र्याद्यभिमानी । छन्दोमय इच्छाजात इत्यर्थः । ऋत्यक इति देवऋषिरिति प्रकृतिभावः । पुराणः पुराणानि । ‘इतिहासपुराणः पञ्चमो वेदानां वेद’ इत्येतद्विवृतौ तत्त्वनिर्णये । नपुंसकत्वं तु नाश्रितम् । पुराणशब्दस्य विशेष्य-लिङ्गत्वात् । ग्रन्थविशेषणत्वेन पुल्लिङ्गत्वमेवाश्रितमित्युक्तेरत्रापि साक्षान्मनुपदेनान्वयाद्वा न दोषः । पुराण इति देव ऋषिपदेनान्वितं सद्व्यक्तिव्यवस्थापकं भवतीति वा ज्ञेयम् ॥ ३० ॥

छलारी

मृड यैः सत्त्वादिभिर्विसर्गो विविधः सर्गस्तानि सत्त्वादीनि तव नेत्रत्रयम् । हे देव । साक्षान्मनुर्मुख्यतो बोधस्वभावः पुराणोऽपौरुषेयश्छन्दोमयो गायत्र्यादिछन्दोरूपो ऋषि-र्वेदशास्त्रकर्तुस्तवेक्षेक्षणेनाभिव्यक्ता इति ॥ ३० ॥

लिङ्घेरी

हे मृड रुद्र । अधर्मो निर्ऋतिस्ते छायाऽऽश्रितः। यैः सत्त्वादिभिर्विसर्गो जगत्स्थितिसृष्टिसंहारास्तानि सत्त्वरजस्तमांसि ते नेत्रत्रयम् । साक्षान्मुख्यो मनुः स्वायम्भुवः शास्त्रकृतः पाशुपतादिकर्तुस्तवेक्षा दृष्ट्याश्रयः । देवर्षिर्नारदस्ते तव छन्दोमय इच्छानुसारी

॥ ३० ॥

न ते गिरित्राखिललोकपाल विरिञ्चवैकुण्ठसुरेन्द्रगम्यम्१ ।

ज्योतिः परं यत्र रजस्तमश्च सत्वं न यद् ब्रह्म निरस्तभेदम् ॥ ३१ ॥

पदरत्नावली

ते तव परंज्योतिः रूपं तद्विरिञ्चादिभिर्गम्यं न, सर्वात्मनेति शेषः । निरस्तभेदं ‘नेह नानास्ति किञ्चन’ इति श्रुतेः ॥ ३१ ॥

सत्यधर्मीया

गिरिं त्रायत इति स तथा तत्सम्बुद्धिः । ते तवान्तर्गतं यत्तत्परं-ज्योतिरूपम् । यच्च रजस्तमःसत्त्वं तत्कार्यं नेत्यर्थः । यच्च निरस्तभेदम् । ‘नेह नानाऽस्ति किञ्चन’ इत्यादेर्गुणकर्मावयवभेदरहितम् । अखिललोकपालाश्च ते । विरिञ्चो ब्रह्मा । वैकुण्ठेति काकाक्षिन्यायेन विरिञ्चपदेन सुरेन्द्रपदेनाप्यन्वेति । वैकुण्ठो मुक्तो ब्रह्मा च । मुक्ताः सुरेन्द्राश्च तदादिगम्यं ब्रह्म न साकल्येन नेत्यर्थः । न च प्रतियत्ने विपूर्वकादस्मात्स्वार्थण्यन्तादच इः । पृषोदरादित्वादकारस्येकारः । नुमागमोऽपि तत एवं विरिञ्चश्च पचाद्यचीति ज्ञेयम् । ‘विरिञ्चो द्रुहिणः सिञ्जो विरिञ्चिर्द्रुहिणो मत’ इति शब्दार्णवः ॥ ३१ ॥

छलारी

हे गिरित्र ते तव परंज्योतिरूपमखिललोकपालैर्विरिञ्चादि वैकुण्ठसुरेन्द्रैर्वैकुण्ठ-स्थितदेवश्रेष्ठैश्च मुक्तामुक्तैरित्यर्थः । गम्यं साकल्येन ज्ञेयं न भवति । किन्तु तस्य ज्योतिः । यस्य रज आदिकं नास्ति । यच्च ब्रह्म निरस्तभेदो अवताराणां गुणक्रिया हस्ताद्यवयवानां च यस्मात्तथा ॥ ३१ ॥

लिङ्घेरी

हे गिरित्र कैलासपालक पार्वतीश । ते हृदि स्थितं परंज्योतिः शिवाख्यं नारायणः । ‘नारायणः परं ज्योति’ इति श्रुतेः । विरिञ्चो ब्रह्मा अखिललोकपाला निःशेष-लोकपालका अष्टदिक्पालकैश्च, वैकुण्ठसुरेन्द्रः शुभ्राख्याद्विजाद्विकुण्ठायामुत्पन्नास्तैश्च साकल्येन गम्यं न किमस्माभिः । यत्र परंज्योतिषि रजस्तमः सत्त्वं च गुणत्रयं च बाधकतया नास्ति । न हि द्वितीयो गुणसंगवर्जितः सृजत्यवत्यत्ति न बध्यतेऽजः । यद्ब्रह्म गुणपूर्णम् । यच्च निरस्त-भेदम् । स्वावतारेष्वन्योन्याभावरूपपृथक्त्वशून्यम् । ‘अथ कस्मादुच्यते ब्रह्मेति । बृहन्तो ह्यस्मिन् गुणाः’ । ‘मय्यनन्तगुणे’ । ‘नेह नानाऽस्ति किञ्चन’ । ‘न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि’ इत्यादेः ॥ ३१ ॥

कामाध्वरत्रिपुरकालहराद्यनेकभूतद्रुहः क्षपयतः स्तुतये न तत् ते ।

यत्त्वन्तकाल इदमात्मकृतं स्वनेत्रवह्निस्फुलिङ्गशिखया भसितं तवेश ॥ ३२॥

पदरत्नावली

कामाद्यनेकभूतहिंसकस्य क्षपयतः संहरतस्तव स्तुतये तज् जगन् न शक्तम् । कुत इति तत्राह– यदिति ॥ हे ईश प्रलयकाले तव स्वस्य नेत्रस्य नेत्रवह्नेः स्फुलिङ्गशिखया भसितं भक्षितमिदमात्मकृतं जगदिति यत् तस्मादित्यन्वयः । अत्र हरेति पदोपादनादियं स्तुतिः श्रीहरिविषयेति ज्ञायते । ‘सर्वात्मा प्रीयते हरिः’ इति वक्ष्यमाण-वाक्याच्च । ‘तत्र तत्र स्तुतिपदैर्हरिरेव तु तद्गतः । स्तूयतेऽतो युक्तमेव गुणधिक्यवचोऽपि तु ॥’ इति वचनाच्च ॥ ३२ ॥

सत्यधर्मीया

कामो मन्मथो ऽध्वरो दक्षयज्ञस्त्रिपुरं च तेषां काल । यमरूप । संहारकेति यावत् । हे हर । आद्यनेकभूतद्रुहो ऽनेकानि च तानि भूतानि च तेभ्यो द्रुह्यन्तीति । ते आदिनो राक्षसाश्च ते भूतद्रुहाश्च तान्क्षपयतो नाशयतः । ‘आदिनो राक्षसाः प्रोक्ता’ इति तात्पर्यान्तरात् । कालो हरश्च दैत्यविशेषाविति वेति केचित् । हरतीति हरः । कालश्चासौ हरश्चेति केचित् । ते स्तुतये तज्जगन्न शक्तम् । गिरेति पठित्वा गरभक्षणस्याप्यवश्यंभावित्वेन सिद्धवन्निर्देश इति व्याकरणमन्तःकरणम् आनेयं सम्भवदसम्भवद्वेति विद्वद्भिः । यदि दृश्येत सोऽनेकेषु कोशेषु सर्पकल्पत्वेन गरनिगरणस्याभावेऽपि भवस्य तत्परिभावनं सम्भवतीति गरगी-रुपपन्नेत्यर्थापनं सम्भवत् । तत्स्वरूपं निरूप्याशक्ततां द्रढयति ॥ यदिति ॥ अन्तकाले प्रलयकाले । आत्मकृतं स्वनिर्मितं स्वनेत्रं तृतीयं नयनम् । स्वशब्देन तस्यामायिकता द्योत्यते । तत्स्थो यो वन्हिस्तस्य विस्फुलिङ्गाः । वन्हिपदसमभिव्याहाराद्विस्फुलिङ्गस्य केवलकरणपरता ज्ञेया । तेषां शिखा ज्वाला । तया भसितम् । हे ईश । तव स्वनेत्रवन्हिस्फुलिङ्गशिखया भसितमिति न शक्तमित्यन्वयार्थः । एतत्कामादिक्षपणं ते जगत्क्षपकस्य कियदिति भावः । हरं प्रति कालहरेत्युक्त्या हरिविषयता स्तुतेः प्रस्तुताया ज्ञापितेति भावोऽवसेयः ॥ ३२ ॥

छलारी

कामश्च दक्षश्च यज्ञश्चाध्वरश्च तथा त्रिपुरकालहराद्यनेकप्राणिहिंसकाश्च तान्क्षप-यतः कालगरमतिश्यामं विषकामाध्वरौ सर्वभूतहिंसकान् त्रिपुरविषादींश्च नाशयत इत्यर्थः । गरभक्षणस्याप्यवश्यंभावित्वेन सिद्धवन्निर्देशः । तत्कामादिनाशनं स्तुतये नालमित्यर्थः । स्तुतये नालमित्यत्र हेतुमाह ॥ यदिति ॥ यस्मादात्मकृतमिदं जगदन्तकाले प्रलयकाले तव स्वनेत्रा-न्मुख्यात्तृतीयनेत्राज्जातवन्हेः स्फुलिङ्गस्य शिखया ज्वालया भसितं भस्मीभूतं तस्माल्लोकत्रय-नाशकस्य तवैकदेशत्रिपुरादिनाशनं नाश्चर्यमिति भावः ॥ ३२ ॥

लिङ्घेरी

हे ईश रुद्र । कामो मदनोऽध्वरो यज्ञस्त्रिपुरा दैत्याः कालहराख्याद्या येऽनेक-भूतद्रूहो बहुप्राणिद्रोहिणस्तान् क्षपयतः संहरतस्ते यच्चरितं तत्ते स्तुतये नालम् । यद्यस्मात्त्व-मन्तकाले प्रलयकाले आत्मकृतं स्वनिर्मितं जगत् स्वनेत्रवन्हेः स्फुलिङ्गैरग्निकणैः सहितया शिखया ज्वालया भसितं भस्मीकृतम् ॥ ३२ ॥

ये त्वात्मरामगुरुभिर्हृदि चिन्तिताङ्घ्रि

द्वन्द्वं चरन्तमुमया तपसाऽभितप्तम्१ ।

कत्थन्त उग्रवपुषं निरतं श्मशाने

ते भूतभूतिमविदस्तव हीनलज्जाः ॥ ३३ ॥

पदरत्नावली

ये त्वामुमयोमाया अर्थे तपसे चरन्तमत एवाभितप्तम्, श्मशाने निरतमत एवोग्रवपुषं घोराकारं कत्थन्ते भाषन्ते ते तव भूतभूतिं पूर्णैश्वर्यम् अविदो न जानन्तोऽत एव निर्लज्जाः ॥ ३३ ॥

सत्यधर्मीया

‘निवासनिलयश्चिता तव शिरस्ततिर्मालिका । कपालमपि ते करे त्वम-शिवोऽस्यनन्तर्धियाम्’ इत्यादेस्तदनन्तर्धीचर्यां दर्शयन्ति ॥ ये त्विति ॥ आत्मारामाश्च ते गुरवो महान्तश्च । आत्मारामेषु गुरवस्तैर्वा । हृदि मनसि । चिन्तिताङ्घ्रिद्वन्द्वम् । तदपि चिन्तनमेतत्कारणकमितीरयन्ति ॥ तपसेति ॥ उमया सह चरन्तं त्वामुग्रवपुषं श्मशाने निरत-मभितप्तं कण्ठाग्निना । हीनलज्जा निर्लज्जा भूतभूतिं भूता प्रभूता भूतिरैश्वर्यं यस्य । तमविदः कत्थन्ते हे अविदस्तव । अविद्भिर् न विद्यते स्तवः यस्य तत्सम्बुद्धिरिति वा । हीनलज्जा इति वा । अविद इति वाऽन्वेति ॥ ३३ ॥

छलारी

एतादृशं त्वां ये निन्दन्ति ते मूर्खा इत्याहुः ॥ ये त्विति ॥ ये उमया सह चरन्तं त्वां तस्यां निरतमत्यासक्तं कामिनं कत्थन्ते प्रलपन्ति । तथा स्मशाने चरन्तमुग्रं वपुषं क्रूराकारं कत्थन्ते । कथम्भूतं त्वाम् । आत्मारामो गुरवो हितोपदेष्टारस्तैर्हृदि चिन्तितमङ्घ्रिद्वन्द्वं यस्य स तथाभूतमपि तपसाभितप्तमपि तपः कुर्वन्तमपि ते जनास्तव भूतभूतिं पूर्णैश्वर्यमविदः न जानन्तीत्यर्थः । मूर्खा इति भावः । अत एव हीनलज्जास्त्यक्तलज्जाः कथमात्मारामैः सेवित-चरणयुगलस्य कामित्वसम्भवः । कथं वा शान्तस्य तपस्विन उग्राकारत्वं संभवतीत्यविचार्यैव प्रलपन्तीत्यर्थः ॥ ३३ ॥

लिङ्घेरी

हे ईश । येऽविवेकिन आत्मारामे स्वरमणे नारायणेऽभिविष्टान्तःकरणतया गुरुभिः सनकादिभिः स्वहृदि चिन्तिताङ्घ्रिद्वन्द्वमुमया सह तपसाऽभितप्तं धर्मान्तरं च चरन्तं त्वा त्वां स्मशाने निरतमुग्रवपुषमस्थिमालादिना भयंकरदेहं कत्थन्तेऽतिक्रम्य वदन्ति निन्दन्ति । ते भूतभूतिं प्राणिनामैश्वर्यप्रदं त्वामविदोऽज्ञानिनस्तव सकाशाज्जायमानभूतभूतिं न जानन्ति । ये ज्ञात्वाऽपि निन्दन्ति ते हीनलज्जा लज्जाहीनाः ॥ ३३ ॥

तत् तस्य ते सदसतोः परतः परस्य

नाञ्जः स्वरूपगमने प्रभवन्ति भूम्नः ।

ब्रह्मादयः किमुत संस्तवने वयं तु

तत्सर्गसर्गविषया अपि भक्तिमात्रम्१ ॥ ३४ ॥

पदरत्नावली

यतस्तव चर्या दुर्बोधा तत् तस्मात्सदसतोः परतः प्रकृतेः परस्य तस्य भूम्नस् ते स्वरूपगमने ब्रह्मादयोऽन्तर्यामिविषये विरिञ्चादयः, अन्यत्र सनकादयो नाञ्जः प्रभवन्ति । वयं ब्रह्मपुत्राः स्तवने न प्रभवाम इति किमुत ? वयं न तन्निकटवर्तिनोऽपीत्याह– तत्सर्गेति ॥ तस्य ब्रह्मणः सृष्टिप्रवाहे निपतिताः । तर्हि क्रियमाणा केयमिति तत्राह– भक्तिमात्रमिति ॥ अस्मत्स्तुतिर्भक्तिप्रकटनमात्रमित्यर्थः । तुशब्दोऽर्चनाद्योतकः ॥ ३४ ॥

सत्यधर्मीया

ब्रह्मादयः । भगवत्पक्षे ब्रह्मा विरिञ्च आदिर्येषामिति तद्गुणसंविज्ञानो बहुव्रीहिः । त्र्यक्षपक्षे ब्रह्माऽऽदिः कारणं येषां सनकादीनामिति तद्ग्रहः । अतद्गुणसंविज्ञानं ब्रह्मा बृहस्पतिर्वेति ज्ञेयम् । तेऽपि सदसतोः परतः परस्योत्तमोत्तमस्य प्रकृतेः परस्येति वा । भूम्नस्तव । स्वरूपगमने साकल्येन तदवगमे न प्रभवन्ति । तत्सर्गसर्गविषयास् तत्सृष्ट-सृष्टिविषया वयं संस्तवने सम्यक्कीर्तने न प्रभवाम इति किं वक्तव्यम् । तर्हीयता कृतं किमित्यत आह ॥ भक्तिमात्रमिति ॥ केवलं भक्तिरेवैतत्प्रयोजिकेति भावः । तुस्तु हरिपक्षे हरपक्षे चार्थविशेषद्योतकः ॥ ३४ ॥

छलारी

आस्तां तावन्निन्दकानां वार्ता महतोऽपि तव स्वरूपं न जानन्तीत्याहुः ॥ तत्तस्येति ॥ यतस्तव चर्या दुर्बोधा । तत्तस्मात्सदसतोर् मूर्त्तामूर्त्तजगतोः । ‘मूर्त्तं सदिति संप्रोक्तममूर्त्तमसदुच्यत’ इत्युक्तेः । परतो विलक्षणायाः प्रकृतेः परस्य भूम्नः पूर्णस्य ते तवांजः साकल्येन स्वरूपगमने स्वरूपज्ञानेऽपि ब्रह्मादयो न प्रभवन्ति न समर्थाः संस्तवने न शक्ता इति किमु वाच्यम् । यदा ब्रह्मादयोऽप्यसमर्थास्तदा वयं संस्तवने न शक्ता इति किमु । कुतः । यतो वयं तेषां ब्रह्मादीनां सर्गे सृष्टिप्रवाहे सर्गविषया उत्पन्ना अत्यन्तार्वाचीनाः । अपि तथाऽपि अस्मत्कृतस्तवनं भक्तिमात्रं भक्तिप्रकटनमात्रमित्यर्थः । शक्तिमात्रमिति पाठे एतत्स्तवन-मात्मशक्तिपरिमितमात्रमित्यर्थः ॥ ३४ ॥

लिङ्घेरी

हे ईश । यस्मात्सदसतोः पञ्चमहाभूताभिमानिदेवेभ्यः परत उत्तमस्य तस्य ते हृदिस्थनारायणस्यांजः सम्यक् स्वरूपगमने ज्ञाने, न ते गिरित्रेत्याद्युक्तरीत्या ब्रह्मादयोऽपि न प्रभवन्ति । तत्सर्गसर्गविषया ब्रह्मसृष्टस्वायंभुवादिसृष्टिविषया वयं न प्रभवाम इति किमुत । यद्यपीत्थं वयं स्तुतावशक्तास्तथाऽपि येयं स्तुतिः सा भक्तिमात्रं केवलं भक्तिः । न चात्र किञ्चिद्गुणोत्कर्षख्यापनं तदुचितमस्तीति भावः । नन्वत्र रुद्रस्वरूपमेव ब्रह्माद्यगम्यमित्युच्यते, इति किं न स्यादिति चेन्न । अप्रामाणिकत्वात् । प्रत्युतास्मिन्स्कन्ध एव रुद्रेण ‘नाहं परायू ऋषयो न मरीचमुख्याः । जानन्ति यद्विरचितं खलु सत्वसङ्घाः । यन्मायया मुषितचेतस एत्य’ इत्यादिना स्वेन चतुर्मुखाद्यैश्च विष्णोरत्राज्ञेयत्वमुच्यते । ‘अजशक्रशङ्कराद्यैर्दुरवसितस्तवमच्युतं नतोऽस्मि’ इत्यादि दशमस्कन्धादौ च ॥ ३४ ॥

एतत्परं प्रपश्यामो न परं ते महेश्वर ।

मृडनाय हि लोकस्य व्यक्तिस्तेऽव्यक्तकर्मणः ॥ ३५ ॥

तात्पर्यम्

‘तत्र तत्र स्तुतिपदैर्हरिरेव तु तद्गतः ।

स्तूयतेऽतो युक्तमेव गुणाधिक्यवचोऽपि तु ॥’ इति च ॥ ३५ ॥

पदरत्नावली

अव्यक्तकर्मणस्ते व्यक्तिर्लोकस्य मृडनाय पालनायेत्येतत् परं केवलं प्रपश्यामः, परमन्यत् तव प्रयोजनं न प्रपश्याम इत्यन्वयः । हे महेश्वर, परं तवैतद्रूपं पश्यामः, तवान्तर्यामिरूपं परं हरिं न पश्यामः । एतद्रूपप्रयोजनमाह– मृडनायेति ॥ व्यक्तिस्त्रिनेत्रादि-लक्षणाकृतिः ॥ ३५ ॥

सत्यधर्मीया

अव्यक्तकर्मकत्वादिकं कथं प्रमथनाथस्येत्यत अन्तर्यामिविवक्षया सम्भवि सर्वं विभाव्य योज्यमिति मानेनाह ॥ तत्र तत्रेति ॥ तद्गतः शिवादिगतो हरिरेव स्तुति-पदैरसम्भावितैः स्तूयते । अतो गुणाधिक्यवचः । त्वमेकः सर्वभूतानामित्यारभ्य श्रीशुक इत्ये-तत्पर्यन्तं यदेतदसम्भावितगुणाधिक्यवचनं तद्युक्तमेवेत्यन्वयः ॥ अथ मूलार्थः ॥ हे मृड । मृडयति सुखयतीति मृडः । मृड सुखनेऽस्मादिगुपधः कः । तत्सम्बुद्धिः । अव्यक्तकर्मणः । साकल्येनाव्यक्तव्यापृतेस्ते तव । व्यक्तिः प्रादुर्भावो लोकस्य जनस्य मृडनाय सुखनाय । एतद् अन्यसुखनमेव । परं मुख्यम् । प्रयोजनं पश्यामः । हे महेश्वर । परं स्वप्रयोजनरूपं न पश्यामः । तदेतद्रूपमात्रपरं त्वदन्तर्गतं भगवद्रूपं वस्तु न पश्याम इति । त्वदन्तर्यामिरूपमिति च निरूपयन्ति ॥ ३५ ॥

छलारी

असामर्थ्यमेवाहुः ॥ एतदिति ॥ एतत्पुरतः स्थितं तव वपुः परं केवलं प्रपश्यामः । परं केवलं सर्वोत्कृष्टं तवैतदन्तर्यामिरूपं न पश्यामः । तथाऽपि त्वद्दर्शनादेव कृतार्था इत्याशयेनाहुः ॥ मृडनाय हीति ॥ अव्यक्तकर्मणस्ते व्यक्तिः प्रादुर्भावो लोकस्य मृडनाय पालनायेत्येतत्परं केवलं प्रपश्यामो विद्मः । परमन्यत्ते तव प्रयोजनं न प्रपश्यामः । तस्मादस्माद्विषाद्रक्षेति भावः । अत्र देवदेवेत्यारभ्य रुद्रस्तुतौ रुद्रेऽसंभाव्यमानप्रकृतिपरत्व-ब्रह्माज्ञेयत्वादिगुणाधिक्यकथनं रुद्रान्तर्यामिविषयत्वेन । न तु हरिहरयोरभेदाभिप्रायेण । सर्वात्म-प्रीतये हरिरित्युक्तम् । यत्र रुद्रेणैव विषपानेन मम हरिः प्रीतो भवतीति भवानीं प्रत्युक्तत्वेन भेदस्यैव प्रतीतेः ॥ ३५ ॥

लिङ्घेरी

हे महेश्वर । तव हृदि स्थितमेतच्छिवाख्यं नारायणं परं सर्वोत्तमं पश्यामः । तस्मात्परमुत्तमं न प्रपश्यामः । ‘मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय । पुरुषान्न परं किञ्चित्’ । ‘सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्’ इत्यादेः । अव्यक्तकर्मणोऽविचारेऽ-प्रतीतचरित्रस्य ते व्यक्तिर्जन्म लोकस्य जनस्य मृडनाय सुखाय । भवतीति शेषः । अनेन मदुत्तमत्वान्मदन्तर्यामिनारायणस्तुतिवन्नारायणादुत्तमस्तुतिः किं न क्रियत इति निरस्तम् । तदुत्तमाभावस्य प्रमापनात् ॥ ३५ ॥

श्रीशुक उवाच–

तद् वीक्ष्य व्यसनं तासां कृपया भृशपीडितः ।

सर्वभूतसुहृद् देव इदमाह सतीं प्रियाम् ॥ ३६ ॥

सत्यधर्मीया

तत्स्तुतिमिति मतिपूर्वकं श्रुत्वा किं तूष्णीकः किं वा पर्यायत उत्तर-याञ्चक्रेऽथापिबदिति श्रोतृशङ्कामपाकर्तुमन्तिमपक्षं स्वीकृत्य तत्रेतिकर्तव्यं कैश्चिछ्लोकैः शुक आहेत्याह ॥ श्रीशुक इति ॥ तासां प्रजानाम् । व्यसनं दुःखम् । विना भगवताऽसनं तदौ-दासीन्यं च वीक्ष्य । ‘रुद्रस्य यशस अर्थाय स्वयं विष्णुर्विषं प्रभुः । न सञ्जह्रे समर्थोऽपि वायुं प्रोचे प्रशान्तय’ इत्यादेः । स्वयशोदानार्थमिति वीक्ष्य । सतीं प्रियां भार्याम् ॥ ३६ ॥

छलारी

तासां प्रजानां व्यसनं क्लेशं भृशपीडितो द्रवीभूतचित्तः सन् ॥ ३६ ॥

लिङ्घेरी

एवं प्रजाभिः स्तुतः सर्वेषां भूतानां प्राणिनां सुहृदुपकारी देवो रुद्रस्तासां प्रजानां तद्व्यसनं क्लेशं वीक्ष्य जनितया कृपया भृशपीडितो भृशमत्यन्तं पीडितः सञ्जातक्लेशः सतीं प्रतिव्रतां स्वस्य प्रियां पार्वतीं प्रतीदं वक्ष्यमाणमाह ॥ ३६ ॥

शिव उवाच–

अहो बत भवान्येतत् प्रजानां पश्य वैशसम् ।

क्षीरोदमथनोद्भूतात् कालकूटादुपस्थितम् ॥ ३७ ॥

पदरत्नावली

वैशसं नाशलक्षणम् ॥ ३७ ॥

सत्यधर्मीया

भवानि । काव्यप्रकाशकादिविरोधमादौ प्रदर्श्य षष्ठविवृतौ समाधि-रभिहितोऽनुसन्धेयः । बतेत्यव्ययं खेदार्थकं सदत्र खिन्नार्थकम् । तेन च बत भवानि । खिन्नोऽहं भवानि । तत्र हेतुरितरदिति वा । बत भवानि हे भवानीति वा । बतामन्त्रण-सन्तोषखेदसंबोधनेऽपि चेति विश्वः । वैशसं नाशनमुपस्थितं पश्य ॥ ३७ ॥

छलारी

विषपाने प्रवृत्तं मां मत्प्रभावमविचार्य कथंचिदियं प्रिया वारयेदिति शङ्कया तामनुमोदयन्नाह ॥ अहो बतेति ॥ हे उमे । वैशसं दुःखमुपस्थितं प्राप्तम् ॥ ३७ ॥

लिङ्घेरी

हे भवानि पार्वति प्रजानामेतद्वैशसं क्लेशं त्वं पश्य । एतद्वैशस्यमहो आश्चर्यम् । बत खेदो जायते । द्रष्टॄणामिति शेषः । उक्तक्लेशनिमित्तमाह । क्षीरोदमथनोद्भूता-त्कालकूटादुपस्थितं वैशसमिति ॥ ३७ ॥

आसां प्राणपरीप्सूनां विधेयमभयं हि मे ।

एतावान् हि प्रभोरर्थो यद् दीनपरिपालनम् ॥ ३८ ॥

सत्यधर्मीया

प्राणं परीप्सवो हि प्राणपरीप्सव इति विग्रहः । नलोकेति षष्ठीनिषेधात् । आसामभयं विधेयम् । कृत्यानां कर्तरि वेति स्मरणान्म इति सम्भवति । सामान्यार्थान्तर-मुखेनाह ॥ एतावानिति ॥ ३८ ॥

छलारी

प्राणपरिप्सूनां प्राणरक्षणेच्छूनाम् । विधेयं कर्म । मे मया । कुतः । हि यस्मात्प्रभोः समर्थस्यैतावानर्थः प्रयोजनम् ॥ ३८ ॥

लिङ्घेरी

हे भवानि । प्राणपरिपालनेच्छूनामासां प्रजानामभयं भयपरिहरणं मे मया विधेयम् । हीत्यस्य प्रामाणिकत्वं दर्शयन्नाह । प्रभोः समर्थस्य दीनपरिपालनं यद् एतावान्हि इयानेवार्थः प्रयोजनम् । हिर्हेताववधारण इत्यमरः ॥ ३८ ॥

प्राणैः स्वैः प्राणिनः पान्ति साधवः क्षणभङ्गुरैः ।

बद्धवैरेषु भूतेषु मोहितेष्वात्ममायया ॥ ३९ ॥

पदरत्नावली

पान्ति रक्षन्ति ॥ ३९ ॥

सत्यधर्मीया

आत्ममायया भगवदिच्छातः । मोहितेषु, परस्परं बद्धवैरेषु । भूतेषु जिघांसत्सु । क्षणभङ्गुरैः स्वत एव गच्छन्तीति ते तथा तैर्नश्वरैरिति यावत् । स्वैः प्राणैः साधवः । प्राणिन इति प्रथमा द्वितीया बहुवचनं च । प्राणिनः कर्म । प्राणिनः कर्तृ । पान्ति । साधुताऽसाधुता न भवेदिति भवानि भवानि तत्पातेति भवभावः ॥ ३९ ॥

छलारी

दीनपरिपालनविषये शिष्टाचारोऽप्यस्तीत्याह ॥ प्राणैरिति ॥ आत्ममाययेश्वर-मोहकशक्त्या मोहितेषु भूतेषु बद्धवैरेषु सत्सु परस्परं जिघांसुषु सत्सु क्षणभंगुरैः प्राणैः पान्ति रक्षन्ति । लोके हि साधवः प्राणिषु केनचिन्निमित्तेन मिथो हन्तुमिच्छत्सु स्वप्राणं दत्वाऽपि तान् आपत्सु मोचयन्ति । तद्वदहमप्येतान्प्राप्तापदो मोचयिष्यामीति भावः ॥ ३९ ॥

लिङ्घेरी

अस्मिन्नर्थे सदाचारमाह । साधवः प्राणिन आत्मनो नारायणस्य मायया मोहनस्य मोहनशक्त्या भ्रान्तेष्वत एव स्वेषु बद्धवैरेष्वपि क्षणभंगुरैः स्वैः स्वकीयैः प्राणैर्भूतानि पान्ति संरक्षन्ति ॥ ३९ ॥

पुंसः कृपयतो भद्रे सर्वात्मा प्रीयते हरिः ।

प्रीते हरौ भगवति प्रीयेऽहं सचराचरः ।

तस्मादिदं गरं भुञ्जे प्रजानां स्वस्तिरस्तु मे ॥ ४० ॥

पदरत्नावली

कृपयतः कृपां कुर्वतः । गरं विषम् ॥ ४० ॥

सत्यधर्मीया

स्वासम्भावितगुणोपन्यसनबीभत्सुर् भवश्चिकित्सां सर्वस्य तात्पर्यरूपिणीं स्वयं दर्शयति ॥ पुंस इति ॥ कृपयतः । सर्वात्मा सर्वस्वामी हरिः प्रीयते । तत्प्रीत्या तव किमित्यत आह ॥ प्रीत इति ॥ तद्दासत्वान्ममैव मद्दासत्वाच्चराचरस्येति भावः । फलित-मभिलपति ॥ तस्मादिति ॥ मे मम । सकाशात्स्वस्त्यस्तु । गरं विषम् । भुञ्जे भोक्ष्यामि । तस्मात्सर्वात्महरेः सकाशान्मे ममापि स्वस्तिरस्त्वित्यान्तरङ्गिको भावः ॥ ४० ॥

छलारी

कृपयतः कृपां कुर्वतः सर्वात्मा सर्वान्तर्यामी सर्वस्वामी वा प्रीयतेऽहं चराचरसहितः सन् ॥ ४० ॥

लिङ्घेरी

हे भद्रे । भूतेषु कृपयतो दयां कुर्वतः पुंसः, सर्वेषां भूतानामात्मा स्वामी हरिः प्रीयते प्रीतो भवति । भगवति हरौ प्रीते सति सचराचरो जंगमस्थावरचेतनसहितोऽहं प्रीतः सन्तुष्टो भवामि । मदादिसर्वचेतनानां सर्वैः स्वधर्मैः सर्वपुरुषार्थसाधनहरिप्रीतिरेव संपाद्या । ‘तत्कर्म हरितोषं यत्’ । ‘किमलभ्यं भगवति प्रसन्ने श्रीनिकेतन’ इत्यादेः । अत्र सर्वात्मा हरिरित्यनेनान्तर्यामी बृहदारण्ये पृथिव्याद्यन्तर्यामितयोक्तो विष्णुरेवेति वेदनात् । स्वान्तर्यामित्व-मपि हरेः प्रकटितम् । तेनात्र रुद्र एव परमात्मेत्याशङ्काऽनवकाशस् तस्माद्धरिप्रीतिसद्भावादहं गरं विषं भुञ्जे । मे सकाशात्प्रजानां स्वस्ति क्षेमोऽस्तु ॥ ४० ॥

श्रीशुक उवाच–

एवमामन्त्र्य भगवान् भवानीं विश्वभावनः ।

तद् विषं जग्धुमारेभे प्रभावज्ञाऽन्वमोदत ॥ ४१ ॥

पदरत्नावली

भवान्यास्तदात्मार्धत्वाद् विषभोजनं किं न निवारितमिति तत्राह– प्रभावज्ञेति ॥ ४१ ॥

सत्यधर्मीया

सतीं प्रियामिति शुकोक्त्यनन्तरमहो इति श्लोकात्पूर्वं च शिव उवाचेति ग्रन्थ उत्सन्नः । क्वचित्पुस्तकसंपुट््यां दृश्यते । स चावश्यकः । अन्यथा पुनरन्यवागभावे स्वस्तिरस्तु म इत्यनन्तरमेवमामंत्र्येत्यतः प्राक् श्रीशुक इत्यवक्तव्यापातादिति ज्ञेयम् । पत्न््नयामन्त्रणं चातिसाहसकार्यत्वात्तत्सुमुखीकरणार्थमिति ज्ञेयम् । विश्वभावनः भावयतीति भावनो विश्वो वायुर्भावनो यस्य सः । विश्वं स्वयोग्यं भावयतीति वा । ‘विश्वो वायुरुदाहृत’ इत्यादेः । तद्वातपीतशेषम् । तदप्यस्तबलम् । तद्दत्तं विषम् । जग्धुं गतम् । पातुमारेभे । सती कुतः समीपे सति न निषेधेत्यत आह प्रभावज्ञा तत्सामर्थ्यज्ञाऽन्वमोदताङ्गीकृतवतीति । (अत्र प्रासङ्गिकी कथा अत्र सर्वत्र श्रुत्यादयो भवन्ति । तमेताः सप्ताक्षितय उपतिष्ठन्ते । तवाथवे इमा अक्षित्रोहिन्यो राजयस्ताभिरेनं रुद्रोऽन्वायत्तः । वायुरस्मा उपामन्थत् पिनष्टि स्म । कुनन्नमा । केशी विषस्य पात्रेण यद्रुद्रेणापिबत्सह । पूषण्वते मरुत्वते विश्वेदेवाय वायवे । बलमिन्द्रस्य गिरिशो गिरिशस्य बलं मरुत् । बलं तस्य हरिः साक्षान्न हरेर्बलमन्यत इत्याद्याः । व्याख्याता-श्चैता बृहदारण्यकऋग्भाष्यादौ । दक्षिणाक्षिस्थितं वायुं सप्त देवा उपासते । अनन्तादवरेशाना तस्याः प्राणस्ततश्च वाक् । तस्या रुद्र उमा तस्मादिन्द्रिस्तस्यास्ततोऽपरे । सौपर्णश्रुतिरित्याह सप्ताक्षितय इत्यपि । वायुरस्मा उपामन्थद्विश्वेदेवाय वायवे । विश्वैर्देवैः सह इत्याद्याः प्रमा अत्रापरा इति । तट्टीकायां च । ईशाना लक्ष्मीर् वायो रुद्रादुत्तमत्वे सति तमक्षिणिस्थितं वायुमेव । वक्ष्यमाणाक्षितयोऽक्षीणगुणाः सप्त देवा उपतिष्ठन्ते सेवन्ते । तत्तत्र । या इमा अक्षिन् अक्षिणि लोहिता राजयो रेखास्ताभिस्तदधिष्ठानेनैनं वायुं रुद्रोऽन्वायत्तस्तदधीनो वर्तते । कुत्सितान्नमयतीति कुनन्नमा । केशी प्रशस्तकेशवान् । वायुर्यद्यदा रुद्रेण सह । पात्रेण विषस्य विषमपिबत् । तदा तस्मै रुद्राय । तदनुजिघृक्षयेति यावत् । तद्विषमुपामन्थत् । तस्यैव विवरणं पिनष्टि स्मेति । विश्वेषां देवानां रुद्रादीनामित्यादि । वायो रुद्रादुत्तमत्वे । तथा वायुकर-पिष्टतत्पीतशेषविषपाने चैतदाद्युक्तिर्ज्ञेया ।

तथा जगद्ग्रासि विषं समुत्थितं त्वदाज्ञया वायुरधात् करे निजे ।

कलेः स्वरूपं तदतीवदुःसहं वराद्विधातुः सकलैश्च दुःस्पृशम् ।

करे विमथ्यास्तबलं विधाय यदा स किञ्चिद्ददौ गिरिशाय वायुः ।

स तत्पिबन् कण्ठगतेन तेन निपातितो मूर्छित आशु रुद्रः ।

हरेः करस्पर्शबलात्स संज्ञामवापनीलोऽस्य गलस्तदाऽऽसीत् ।

अथ त्वदाज्ञां पुरतो विधाय निधाय पात्रे तपनीयरूपे ।

स्वयं त्वनिर्मथ्य बलोपपन्नं पपौ स वायुस्तदुतास्य जीर्णम् ॥ इति भगवदुक्तेः ।

उक्तं च पद्मपुराणे उत्तरखण्डे ।

महाविषं महाघोरं संवर्ताग्निसमप्रभम् ।

दृष्ट्वा प्रदुद्रुवुः सर्वे भयार्तादेवमानताः ।

ततस्तद्विद्रुतान्दृष्ट्वा ब्रह्मा लोकपितामहः ।

जगाद वायुं तरसा हरेराज्ञापुरःसरम् ।

निःशेषं कुरु वायो त्वं लोकसंहारकं विषम् ।

त्वदन्यो नास्ति मद्ग्रस्तुं सर्वजीवहितं कुरु ।

इति धातुर्वचः श्रुत्वा दशप्रमतिरब्रवीत् ।

भक्षयामि हरेराज्ञां पुरस्कृत्य विधेर्वचः ।

हरेर्नामोच्चारणेन तद्भक्त्या च विशेषतः ।

सर्वव्याधिविषं घोरं पात्रे न्यस्य करे दधत् ।

बिन्दुमात्रं पृथग्गृह्य तद्विषं मर्दयंस्ततः ।

परीक्षणार्थं चान्येषां देवादीनां च पार्वति ।

मम हस्ते ददौ किञ्चिद्भक्षस्वेति स मारुतः ।

नाममात्रेण सहितं मन्त्रानुग्रहमादिशन् ।

तद्विषप्राशनादेव मम दाहोऽभ्यवर्तत ।

जिह्वाग्रधारणादेव मम प्राणा विनिर्गताः ।

कृपया पवमानस्य तथा नामत्रयेण च ।

अच्युतानन्तगोविन्दनाममाहात्म्यतः शुभे ।

जीवितोऽस्मि तदा काले विष्णोर्नामत्रयादहो ।

पश्चात्तु तद्विषं सर्वमेकीकृत्य स पात्रके ।

अनायासात्पपौ वायुः सर्वेषां रक्षणाय च ।

हरेश्च प्रीतये देवि ब्रह्मणो वचनात्तथा ।

ऋचोऽब्रुवंश्च देवस्य केशीति ब्रह्मवादिनः ।

इत्थं वायोर्महत्त्वं हि विष्णुभक्तस्य पार्वती ॥ इति ॥ ४१ ॥

छलारी

प्रभावज्ञा रुद्रसामर्थ्यं जानन्ती ॥ ४१ ॥

लिङ्घेरी

विश्वभावनो जगदुपास्यो भगवान् ऐश्वर्यादिषड्गुणवान् रुद्रो भवानीं पार्वतीं प्रत्येवमामन्त्र्य कथयित्वा तद्विषं जग्धुं भक्षितुमारेभे उपक्रान्तवान् । भवानी च यतो रुद्रस्य प्रभावं सामर्थ्यं जानातीति प्रभावज्ञाऽतो रुद्रकार्यमन्वमोदत सुखमनुज्ञातवती ॥ ४१ ॥

ततः करतलीकृत्य व्यापि हालाहलं विषम् ।

अभक्षयन्महादेवः कृपया भूतभावनः ॥ ४२ ॥

सत्यधर्मीया

ततः सत्यनुमोदानन्तरम् । अल्पत्वात्करतलीकृत्येत्युक्तिः । व्यापि करतल एव । ततो रुद्रपानानन्तरं व्याप्युत्सर्पद् उर्वतिमुरुहालाहलम् । ततो वायुरपिबत् । ततं वीणादिवाद्ये च पवमाने ततः पुनरिति विश्वः । अन्यथा गोनासगोनसौ हालाहलं हालहलं विषमिति लिङ्गानुशासनानाममरोक्तेरत्रैकातिरेकशङ्का न पारणीया स्यात् । विषमिति श्रुत्यनु-कृतेरावश्यकं च । एवमन्वये पद्मपुराणमपि सर्वात्मना सत्कृतम् । केचित्सूर्य एवात्र केशी । केशाश्च किरणाः । विषं च जलं चैतत्प्रतिपाद्यमादित्यमुदितं चक्रुश्चेदपि पद्ममुकुलीभवनमित्यहो । माधवभाष्येऽष्टमाष्टकसप्तमाध्यायचतुर्विंशतिवर्गीये । केशीति सप्तर्चमष्टमं सूक्तम् । अग्निसूर्य-वायुदेवताकमित्युक्तेर्वायुपरता नास्यानुपपन्नेति दिक् ॥ ४२ ॥

छलारी

करतलीकृत्य करतलपरिमितमात्रं कृत्वा व्यापि सर्वत्र प्रसारितं हालाहलं विषं रुद्रोऽभक्षयत् ॥ ४२ ॥

लिङ्घेरी

ततस्तदनन्तरं भूतभावनो महादेवो जगद्व्यापि हालाहलं विषं भूतकृपया स्वस्य करतलीकृत्याभक्षयत् । वायुभक्षणावशिष्टं रुद्रोऽपिबदित्यत्र तात्पर्यम् । मुख्यप्राण एवात्र प्रजाभिः प्रथमं प्रार्थितः समुद्रमथनोत्पन्नं विषं सुवर्णपात्रे स्वयं संपूर्यापिबत् । अविशिष्टं किञ्चिद्विषं स्वकराभ्यामुन्मथ्य रुद्रायादात् । वायुरस्मा उपामन्यत् पिनष्टस्म कुनन्नमा । केशी विषस्य पात्रेण यद्रुद्रेणापिबत्सहेत्यादिश्रुतेः ॥ ४२ ॥

तस्यापि दर्शयामास स्ववीर्यं गलकल्मषः ।

यच्चकार गले नीलं तच्च साधोर्विभूषणम् ॥ ४३ ॥

पदरत्नावली

गले कण्ठे कल्मषं यस्य स तथा, तस्य विषम्य स्ववीर्यं स्वरूप-भूतवीर्यम् । किं तद्वीर्यमिति तत्राह– यदिति ॥ साधोर्देवस्य भूषणमभून्न दूषणमित्यर्थः ॥४३॥

सत्यधर्मीया

गलस्य किल्बिषं यस्मिन्स विषः । यूषकरीषविषमिषचर्षाणि नपुंसके चेति लिङ्गानुशासनात् पुल्लिङ्गोऽपि विषशब्दःपापकिल्बिषकल्मषमित्यमरात्, तथा किल्विषकल्मषाणि नपुंसक इति लिङ्गानुशासनाच्च नित्यनपुंसकलिङ्गः किल्बिषशब्दः । तस्यापि शक्तस्यापि स्ववीर्यं स्वसामर्थ्यं दर्शयामास । तत्किमात्मकमित्यत आह ॥ यदिति ॥ गले नीलवर्णं चकार । तत्साधोः परपीडापीडितस्य कृपालोर्विभूषणं न दूषणमित्यर्थः । गलकल्मषमिति पठन्तो व्याचक्रुश्च । कर्म शुभं स्यति समाप्तं करोति । कर्मशब्दोपपदात् षोन्तकर्मणीत्यस्मादुदात्तो-नुपसर्गेति कप्रत्यये पृषोदरादित्वात्वषत्वयोः कल्मषमिति भवति नित्यनपुंसकः शब्दः । कल्मषं किल्बिषे क्लीबं पुंसि स्यान्नरकान्तर इति भानुनोक्तेर्नरकविशेषरूपार्थस्यात्रायोगात्पुंस्त्वं दुर्घटम्

॥ ४३ ॥

छलारी

तस्यापि महासमर्थस्यापि रुद्रस्य वीर्यं स्वसामर्थ्यं गलकल्मषो गलदोषो विषम् । किं तद्वीर्यं यस्माद्गले नीलं नीलरूपं चकार ॥ तच्च गलनैल्यं साधोर्दयालो रुद्रस्य विभूषणमभूत्

॥ ४३ ॥

लिङ्घेरी

कलेरसुरश्रेष्ठस्याभिमन्यमानं शरीररूपं यत्कल्मषं विषं तत्तस्याप्युक्तरीत्या महानुभवस्य स्वल्पपायिनोऽपि रुद्रस्य स्ववीर्यं दर्शयामास । किं तद्विषदर्शितं सामर्थ्यमित्यत आह । गले रुद्रस्य कण्ठे नीलं नीलरूपं यच्चकार तदेव तत्सामर्थ्यमिति । तच्च तदपि ॥४३॥

तप्यन्ते लोकतापेन साधवः प्रायशो जनाः ।

परमाराधनं तद्धि पुरुषस्याखिलात्मनः ॥ ४४ ॥

पदरत्नावली

लोकोपकारार्थमेव विषपानमित्याशयेनाह– तप्यन्त इति ॥ अनेन किमस्य प्रयोजनमिति तत्राह– परमेति ॥ ४४ ॥

सत्यधर्मीया

लोक एवंविधा लोका लोकोपकृत्या एव प्रवर्तमाना बहव इत्याह । तप्यन्ते प्रायशः । उदासीनसमर्थैतद्यश आद्यर्थे प्रवर्तमानव्यावृत्तये प्राय इत्युक्तिः । साधवो जनाः । परेषां तापेन स्वयं तप्यन्ते सन्तप्ता भवन्ति । तेषां चानुसन्धानमेवंविधमिति विधत्ते । अखिलात्मनः पुरुषस्य हरेः परं मुख्यमाराधनं पूजा तदिति ॥ ४४ ॥

छलारी

दयालूनां लोकोपकारार्थं प्रवृत्तानामेतादृशासह्यकार्यकरणं स्वभाव इत्याह ॥ तप्यन्त इति ॥ लोकतापेन तप्यन्ते लोकानां तापं दृष्ट्वा स्वयमपि सन्तापं प्राप्नुवन्ति । तेन च परतापं परिहरन्तीति भावः । अनेन किं प्रयोजनमित्यत आह ॥ परमेति ॥ अखिलान्तर्यामिणः पुरुषस्य हरेस्तत्परमाराधनं महापूजा भवति ॥ ४४ ॥

लिङ्घेरी

नीलरूपं साधो रुद्रस्य विभूषणत्वमुपपादयति । साधवो जना लोकतापेन जन-सन्तापेन स्वयं तप्यन्त इति यत्तद् अखिलानां चेतनानामात्मनोऽन्तर्यामिणः पुरुषस्य पूर्णषड्-गुणस्य हरेः परमाराधनं हीति । अन्तर्बहिः पूरुषकालरूपैरित्यादेरत्र सर्वचेतनान्तर्या-मिपुरुषशब्दितो विष्णुरेव ॥ ४४ ॥

निशाम्य कर्म तच्छम्भोर्देवदेवस्य मीहलुषः ।

प्रजा दाक्षायणी ब्रह्मा वैकुण्ठश्च शशंसिरे ॥ ४५ ॥

पदरत्नावली

शशंसिरे इत्यनेन रुद्रस्य यशोऽर्थं हरिणा विषं न पीतमिति ज्ञायते । ‘रुद्रस्य यशसोऽर्थाय स्वयं विष्णुर्विषं विभुः । न सञ्जह्रे समर्थोऽपि वायुं चोचे प्रशान्तये ॥’ इति वचनाच्च ॥ ४५ ॥

सत्यधर्मीया

मी•ुषो भक्ताभिलाषसेचकस्य । देवदेवस्य शम्भोस्तत्कर्म । निशाम्य दृष्ट्वा प्रजाः, दाक्षायणी दक्षपुत्री । विवृतं प्राक् षष्ठे । ब्रह्मा, वैकुण्ठो विष्णुश्चैते शसंसिरे तुष्टुवुः

॥ ४५ ॥

छलारी

मीढुषोऽभीष्टकर्तुर्दाक्षायणी उमा वैकुण्ठो हरिः । शसंसिर इत्यनेन रुद्रस्य यशो दातुमेव हरिणा विषं न पीतमिति ज्ञायते ॥ ४५ ॥

लिङ्घेरी

प्रजा जना, दाक्षायणी सतीरूपा पार्वती, ब्रह्मा चतुर्मुखो, वैकुण्ठश्च विष्णु-रपीत्येते देवानामिन्द्रादीनां देवस्य मीढुषो भक्ताभीष्टवषर्कस्य शंभोर्महारुद्रस्य तद्विषपानलक्षणं कर्म कार्यं निशाम्य दृष्ट्वा शशंसिरे । हे रुद्र । त्वं समर्थ इति स्तुवन्तः । वैकुंठश्चेत्यनेन विष्णो-र्विषपानसामर्थ्ये सत्यपि मुख्यप्राणरुद्रयोः कीर्त्यभिवृद्धये तन्न पीतवानिति सूच्यते ॥ तदुक्तम् ॥ ‘रुद्रस्य यशसेऽर्थाय स्वयं विष्णुर्विषं विभुः । न संजह्रे समर्थोऽपि वायुं चोचे प्रशान्तये’ ॥

इति । ‘प्राणादीनां विश्वसृजां शक्तयो याः परस्य ताः । पारतन्त्र्याद्वै सादृश्याद्वयोः श्रेष्ठे चेष्टितम्’ ॥ इति दशमस्कन्धे मुख्यप्राणादीनां जगत्स्रष्टृणां शक्तीनां स्वतन्त्रत्वेन प्रमितश्रीनारायणाधीनत्ववर्णनेन शास्त्रेणोपाध्यायमितिवत् । वायुर्यद्रुद्रेणापिबत्सहेति पूर्वमस्माभिरुक्तरीत्या विषपाने प्रधानाप्रधानयोर्मुख्यप्राणरुद्रयोर्विषपानादिशक्तीनामपि हर्यधीनत्वाविवादाच्चायमेवार्थो युक्तः ॥४५॥

प्रस्कन्नं पिबतः पाणेर्यत् किञ्चिज्जगृहुः स्म तत् ।

वृश्चिकाहिविषौषध्यो दन्दशूकाश्च ये परे ॥ ४६ ॥

॥ इति श्रीमद्भागवते अष्टमस्कन्धे सप्तमोऽध्यायः ॥

पदरत्नावली

विषौषध्यः लाङ्गलीप्रभृतयः ॥ ४६ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायाम्

अष्टमस्कन्धे सप्तमोऽध्यायः ॥

सत्यधर्मीया

यत्किञ्चित्पिबतोऽपि हरस्य पाणेर्हस्तात्तन्मध्ये प्रस्कन्नं तद्विषम् । वृश्चिकाः शूककीटाः । वृश्चिकश्च द्रुमे राशौ शूककीट इति विश्वः । अहयः सर्पा विषौषध्यो वत्सनाभ्यादयोर् दन्दशूकाः सर्पविशेषाः । अपरे ते जगृहुः ॥ ४६ ॥

॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्याम् अष्टमस्कन्धे सप्तमोऽध्यायः ॥ ८–७ ॥

छलारी

पाणेर्हस्तात्प्रस्कन्नं गलितम् । अहयोऽजगरा विषौषध्यो वृक्षादयोऽपरे च ये दन्दशूका महासर्पास्ते विजहुः ॥ ४६ ॥

॥ इति श्रीछलारी शेषाचार्यकृतायां भागवतटिप्पण्याम्

अष्टमस्कन्धे सप्तमोऽध्यायः ॥ ८–७ ॥

लिङ्घेरी

विषं पिबतो रुद्रस्य पाणेर्यद्विषं किञ्चित्प्रस्कन्नं गलितं भूमौ पतितं तद्वृश्चिकाः प्रसिद्धाः कृमिविशेषा विषौषध्यो लांगलाद्या दंदशूका दंशनशीलसर्पा अपरे च व्याघ्रादयो ये विषदन्तास्ते जगृहुः स्वीकृतवन्तः । स्म हीति निपाताभ्यामस्य सामर्थ्यस्य श्रुत्यादिप्रसिद्धिं दर्शयति ॥ ४६ ॥

**॥ इति श्रीलिङ्घेरी श्रीनिवासाचार्यकृतायां भागवतटिप्पण्यां **

अष्टमस्कन्धे सप्तमोऽध्यायः ॥ ८–७ ॥