एवं स्तुतः सुरगणैर्भगवान् हरिरीश्वरः
॥ अथ षष्ठोऽध्यायः ॥
श्रीशुक उवाच–
एवं स्तुतः सुरगणैर्भगवान् हरिरीश्वरः ।
तेषामाविरभूद् राजन् सहस्रार्कोदयद्युतिः ॥ १ ॥
पदरत्नावली
ज्ञानवज् ज्ञानपूर्वकं यथातत्वस्तुतिरपि हरेः प्रीतिजननीत्येतमर्थं प्रपञ्च-यत्यस्मिन्नध्याये । तत्रादौ हरिराविर्भावप्रकारं वक्ति- एवमित्यादिना ॥ ब्रह्माणं पुरस्कृत्येति शेषः ॥ १ ॥
सत्यधर्मीया
स्तुतिस्तु ज्ञानपूर्वं कृताऽर्थजननीति प्रपञ्चयंस्तत्रादौ प्रस्तुतस्तुतितो हरिराविरासीदुदासीनः किं किं वाऽवादीदिति क्षितिपतिसन्देहमाद्यान्तिमौ पक्षावङ्गीकृत्य समाधत्ते ॥ श्रीशुक इति ॥ एवम् । ब्रह्मादिभिरिति शेषः । स्तुतः ब्रह्मणः साक्षात्स्तावकस्य कण्ठतोऽत्राननुवादः सुरगणैरित्यप्रस्तुतोक्तिश्च उत्तरत्र प्रोच्यमानप्रतिहतेक्षणत्वं, विरिञ्चो भगवा-न्दृष्ट्वेति तदवलोकयितृत्वं विशेषतः संभवत इति ज्ञेयम् । उदयकालिकी द्युतिरुदयद्युतिः । सहस्रं सहस्रसङ्ख्याश्च तेऽर्काश्च तेषामुदयद्युतिर्यस्य सः । अभूतोपमेयम् । ‘सहस्रलक्षामित-भानुदीधितिम्’ इत्याद्युक्तेरिदमपि मध्यमसुरगणग्रहण इवोत्तमविध्याद्यग्रहणे च निमित्तम् ॥ १ ॥
छलारी
हरेराविर्भावप्रकारं वर्णयति ॥ एवमिति ॥ सहस्रार्काणामुदये द्युतिरिव द्युतिर्यस्य सः ॥ १ ॥
लिङ्घेरी
परमात्मज्ञानमिव परमात्मविषयस्तुतिरपि तत्प्रसादाद्यशेषपुरुषार्थहेतुरिति सूच्यतेऽस्मिन्नध्याये । अत्रापि प्रथमं हरेः प्रकटनप्रकारमाह ॥ एवमित्यादिना ॥ हे राजन् । सहस्रसंख्याकानामर्काणां सूर्यानामुदये सति यादृशी द्युतिः कान्तिः स्यात्तादृक्कान्त्युपेतः सन् हरिराविरभूत् प्रकटो बभूव । प्राकट्ये निमित्तमाह ॥ एवं स्तुत इति ॥ चतुर्मुखादिसुरगणैरेवम् । प्रकटितस्य हरेः सुरकार्यकरणसामर्थ्यसूचनाय भगवान्नीश्वर इति विशेषणद्वयम् ॥ १ ॥
तेनैव महसा सर्वे देवाः प्रतिहतेक्षणाः ।
नापश्यन् खं दिशः क्षोणीमात्मानं चाग्रतो विभुम्१ ॥ २ ॥
पदरत्नावली
आत्मानं स्वान्, जातावेकवचनम् । अग्रतः स्थितम् ॥ २ ॥
सत्यधर्मीया
महसा तेनैव तावतैव तेजसा । प्रतिहतानि चाकचक्येनेक्षणानि नेत्राणि येषां ते तथा । खमाकाशम् । क्षोणीं भूमिम् । आत्मानं स्वं स्वदेहम् । विभुमग्रतोऽग्रगं ब्रह्माणं च नापश्यन् । कुतो विभुमिति पाठे परमात्मानं वा । धातारं कुतः पश्येयुरित्यर्थः ॥ २ ॥
छलारी
महसा तेजसा प्रतिहतानि तिरस्कृतानीक्षणानि चक्षूंषि येषां ते । खमन्तरिक्षं क्षोणीं भूमिमात्मानम् । जातावेकवचनम् । स्वान् । अग्रतः पुरतः स्थितं विभुं विष्णुं च ॥२॥
लिङ्घेरी
सर्वे देवा ब्रह्मादयस्तेनाविर्भूतहरिसंबन्धिना महसा कान्त्या प्रतिहतानि तिरस्कृतानीक्षणानि नेत्राणि येषां ते तथा सन्तः खमाकाशं, दिशः, क्षोणीं भूमिमात्मानं स्वं स्वदेहमग्रतः पुरतः स्थितं विभुं स्वस्वामिनं हरिं च नापश्यन् । कांत्युत्सवे तु महसीति नानार्थरत्नमाला ॥ २ ॥
विरिञ्चो भगवान् दृष्ट्वा सह शर्वेण भारत ।
स्वच्छं मरकतश्यामं कञ्जगर्भारुणेक्षणम् ॥ ३ ॥
सत्यधर्मीया
सह शर्वेणेत्यनेन सूचिताप्राधान्येन दर्शनेऽपि तरतमभावो ध्वन्यते । कञ्जगर्भवदरुणे ईक्षणे यस्य तम् ॥ ३ ॥
छलारी
आविर्भूतं परं पुरुषं विरिञ्चो दृष्ट्वा तुष्टावेति सप्तमश्लोकेनान्वयः । स्वच्छं निर्मलं कंजगर्भवदरुणे लोहिते ईक्षणे यस्य तम् ॥ ३ ॥
लिङ्घेरी
भगवान् । विरचयति सृजति सनकादीनिति विरिञ्चश्चतुर्मुखः शर्वेण देवगणेन सह स्वच्छं निर्मलं मरकतवच्छ्यामवर्णं कञ्जस्य कमलस्य गर्भवदुदरभागवदरुणे रक्ते ईक्षणे यस्य तम् ॥ ३ ॥
तप्तहेमावदातेन लसत्कौशेयवाससा ।
प्रसन्नचारुसर्वाङ्गं सुमुखं सुन्दरभ्रुवम् ॥ ४ ॥
पदरत्नावली
अवदातेन पीतेन । ‘अवदातोऽरुणे पीते श्वेते श्यामे च कथ्यते’ इति । वाससोपलक्षितम् ॥ ४ ॥
सत्यधर्मीया
तप्तं हेम । निष्टापिताष्टापदं तद्वदवदातेन निर्मलेन पीतेन च । ‘अवदातः सिते पीते विशुद्धे प्रवरेऽपि च’ इति विश्वः । लसद्भासुरं कौशेयम् । कोशाढ्ढञिति ढञ् । ‘कौशेयं कृमिकोशोत्थम्’ इत्यमरः । तद्रूपं यद्वासो वस्त्रं तेन सहितम् । वृद्धो यूनेत्यादि-निर्देशादनिर्देशेऽपि सहेति लभ्यते । वाससा करणेन । प्रसन्नं चारु सर्वाङ्गमित्यन्वयो वा । प्रसन्नानि चारूणि सर्वाङ्गानि यस्य तम् । एतेन वाससः सौक्ष्म्यमङ्गानां चासृण्यं सूचितं भवतीति मन्तव्यम् । सुमुखम् । सुन्दरे भ्रुवौ यस्य तम् । प्रसन्नचारुसर्वाङ्गमित्यनेनैव सुमुखस्य भ्रुवोश्च चारुत्वे लब्धे पुनरुक्तिस्तु कार्योन्मुखीभवनरूपसौमुख्यस्यैतत्कार्यस्यापि यद्भ्रूविभ्रममात्रसाध्यतेति विशेषद्योतनायेति ज्ञेयम् ॥ ४ ॥
छलारी
तप्तहेमवदवदातेन पीतेन । अवदातोऽरुणे पीते श्वेते श्यामे च कथ्यत इत्यभिधानात् । लसत्कौशेयवाससा युक्तेन । प्रसन्नानि पुष्टानि चारूण्यंगानि करचरणाद्यवयवा यस्य तम् । सुमुखं प्रसन्नवदनम् ॥ ४ ॥
लिङ्घेरी
तप्तहेम सुवर्णवदवदातेन शुद्धेन ॥ ४ ॥
महामणिकिरीटेन केयूराभ्यां च भूषितम् ।
कर्णाभरणनिर्भातकपोलश्रीमुखाम्बुजम् ॥ ५ ॥
पदरत्नावली
कपोलश्रिया युक्तमुखाम्बुजम् ॥ ५ ॥
सत्यधर्मीया
केयूराभ्यामङ्गदाभ्यां भुजगाभ्यां कपोलश्रीमुखाम्बुजम् ॥ ५ ॥
छलारी
महान्तो मणयो यस्मिंस्तेन किरीटेन । कर्णाभरणाभ्यां मकरकुण्डलाभ्यां निर्भान्तौ दैदीप्यमानौ कपोलौ ताभ्यां श्रीः कान्तिर् मुखाम्बुजं यस्य तम् ॥ ५ ॥
लिङ्घेरी
किरीटेन शिरोभूषणेन । केयूराभ्यां बाहुभूषणाभ्यां च भूषितं, कर्णाभरणाभ्यां कुण्डलाभ्यां निर्भातावतिप्रकाशितौ कपोलौ गण्डस्थले, श्रिया युक्तं मुखांबुजं च यस्य तम् ॥५॥
काञ्चीकलापवलयहारनूपुरशोभितम् ।
कौस्तुभाभरणं लक्ष्म१ बिभ्रतं वनमालिनम् ॥ ६ ॥
पदरत्नावली
कलापो भूषणम् । लक्ष्म लाञ्छनं श्रीवत्सनाम ॥ ६ ॥
सत्यधर्मीया
काञ्ची मेखला तदात्मा कलापो भूषणम् । ‘काञ्ची स्यान्मेखला दामि्न’, ‘कलापो भूषणे बर्ह’ इति विश्वौ । नूपुरं पादभूषणम् । तैश्च शोभितम् । कौस्तुभाभरणं लक्ष्मीचिह्नं श्रीवत्सनामकं च बिभ्रतमित्यन्वयः ॥ ६ ॥
छलारी
काञ्च्याख्यकलापेन कटिभूषणेन । वलयाभ्यां कङ्कणाभ्यां पादभूषणाभ्यां कर-भूषणाभ्याम् । हारैर्मुक्तावलिभिः कण्ठभूषणैः । नूपुराभ्यां च शोभितम् । कौस्तुभ आभरणं यस्य कण्ठे तम् । लक्ष्म श्रीवत्साख्यं लक्षणं दक्षिणस्तनादूर्ध्वं बिभ्रतम् । लक्ष्मीमिति पाठे लक्ष्मीं वक्षसि बिभ्रतमित्यर्थः । वैजयन्तीवनमालया युक्तम् ॥ ६ ॥
लिङ्घेरी
काञ्चीकलापेन कटिभूषणेन वलयाभ्यां करभूषणाभ्यां महाहारेण मुक्तामालया नूपुराभ्यां पादभूषणाभ्यां शोभितं, कौस्तुभाख्याभरणं, लक्ष्म श्रीवत्साख्यलक्षणं च बिभ्रतं, वैजयन्त्याख्यवनमालिनम् ॥ ६ ॥
२सुदर्शनादिभिः स्वास्त्रैर्मूर्तिमद्भिरुपासितम् ।
तुष्टाव देवप्रवरः सर्वेशं३ पुरुषं परम् ।
सर्वामरगणैः सार्धं४ सर्वाङ्गैरवनिं गतैः ॥ ७ ॥
पदरत्नावली
देवप्रवरो ब्रह्मा ॥ ७ ॥
सत्यधर्मीया
औरायुधैः । ‘अस्त्रं प्रहरणे चाप’ इति विश्वः । मूर्तिमद्भिः शरीर-वद्भिः । देवप्रवरो ब्रह्मा । इदमपि वृन्दारकवृन्दाक्षिमन्दीभवन इवैतस्य सम्यग्दर्शनं च निमित्त-मिति ध्येयम् । सर्वांगैरष्टाङ्गैर् अवनिं गतैः । उरसा शिरसेत्यादेः, नत्वा, तुष्टाव स्तोत्रं कृतवानित्यर्थः ॥ ७ ॥
छलारी
सुदर्शनादिभिः सुदर्शनचक्रादिभिः स्वास्त्रैः स्वायुधैः । ‘अस्त्रं प्रहारे चापे’ इत्यभिधानम् । मूर्तिमद्भिः शरीरधारिभिः कामादिभिः । देवप्रवरो ब्रह्मा सर्वाङ्गैरुरसा शिरसेत्युक्ताङ्गैरवनिंगतैर्भूमौ पतितैः साष्टाङ्गप्रणामैरित्यर्थः ॥ ७ ॥
लिङ्घेरी
सुदर्शनादिभिश्चक्रप्रभृतिभिर्मूर्तिमद्भिः शरीरधारिभिः स्वास्त्रैः कामादिभिः सुदर्शनाद्यभिमानिभिरुपासितं सेवितम् । सर्वेषां रमाब्रह्मादीनामीशं स्वामिनं परं सर्वोत्तमं पुरुषं नारायणं दृष्ट्वा सर्वाङ्गैरवनिं भूमिं गतैर्दण्डप्रणामं कुर्वद्भिः सर्वामरगणैः सार्धं तुष्टाव स्तुतवान् । यतः स्वयं देवानां प्रवरः श्रेष्ठः ॥ ७ ॥
ब्रह्मोवाच–
अजाय जन्मस्थितिसंयमाय गुणाय निर्वाणसुखार्णवाय ।
अणोरणिम्नेऽपरिगण्यधाम्ने महानुभावाय नमो नमस्ते ॥ ८ ॥
पदरत्नावली
अजाय विष्णवे । ‘अजा विष्णुहरच्छागाः’ इत्यतोऽजशब्दस्योभयत्र वृत्तावप्यत्र विष्णुरेवोच्यते । सर्वेति सर्वकारणत्वेन निर्देशात्ततो परत्वप्रतीतेर् जन्मस्थितिसंयमाय जन्मादीनां तदेकाधीनत्वात्तथोक्तिः । गुणाय, विज्ञानमानन्दं ब्रह्म’ इति श्रुतेरभिप्रायाद्गुण-त्वोक्तिः । निर्वाणसुखार्णवाय शरीराभिमानानुत्थसुखसमुद्राय अपरिगण्यमहिम्ने ॥ ८ ॥
सत्यधर्मीया
अजायोत्पत्तिरहिताय । जन्मस्थितिभ्यां सहितः संयमः संहारो जगतो येन स तथा । गुणाय विज्ञानमानन्दं ब्रह्मेत्यादेस्तदात्मकाय । जन्म च स्थितिश्च संयमश्च तानाययन्त्यवगमयन्ति त आयास्ते गुणा यस्य तस्मा इति पदमेकं वा । नास्मत्तुलोऽभिमानेन भगवन् भवानित्याह ॥ निर्वाणेति ॥ निर्वाणसुखं शरीराभिमतिव्यतिरेकोत्थसुखम् । तेनार्णव इवार्णवः । अणोरणुवस्तुनोऽपि सकाशादणिम्ने । अणिमानं न निभालयसे इत्यादाविव भावि-भवित्रोरभेदादणिमाऽणुस्तस्मै । इमनजन्तः शब्दः । अणोरणीयानिति श्रुतेः । परिगणयितुं योग्यं परिगण्यम् । तन्न भवतीत्यपरिगण्यम् । अनन्तमिति यावत् । धाम तेजो यस्य तस्मै । अपरिच्छिन्नतेजस्त्वमणोरणीयस्त्वं नासम्भावितमित्यत्र हेतुमाह ॥ महानुभावायेति ॥ महा-ननुभावो ऽघट्यघटनापाटवं यस्य स तस्मै । ‘यस्मिन्विरुद्धगतयोऽप्यनिशं पतन्ति’ इत्यादेर्महानुभावत्वादचिन्त्यशक्तित्वात्सर्वं सुघटं त्वयीति । ते नमो नमः । आदराद्द्विरुक्तिः । अस्त्विति शेषः ॥ ८ ॥
छलारी
हे विष्णो । तव ते नमो नमः । कथंभूताय । उत्पत्तिस्थितिशून्याय । जन्मस्थितिसंयमाय जन्मादिकारणायेत्यर्थः । जन्मादीनां तदेकाधीनत्वादभेदव्यपदेशः । अजात-जन्मस्थितिसंयमायेति पाठे न जातास्ते जन्मादयो यस्येत्यर्थः । गुणाय ज्ञानादिरूपाय । ‘विज्ञानमानन्दं ब्रह्म’ इति श्रुतेः । निर्वाणसुखार्णवाय निर्वाणसुखस्य शरीरजन्यरूपसुखस्य समुद्राय । अणोरप्यतिसूक्ष्मादपि वस्तुनोऽणिम्नेऽतिसूक्ष्मरूपाय । अपरिगण्यमियत्तारहितं धाम देहो यस्य तस्मै । अनेन महतो महीयस्त्वमुक्तं भवति । न चैकस्यैव युगपदणुत्वं महत्वं चा-सम्भावितमिति वाच्यम् । महान् अघटितघटकोऽनुभावः सामर्थ्यं यस्य तस्मै । अचिन्त्यै-श्वर्यादित्यर्थः । अगण्यप्रभवायेति वा ॥ ८ ॥
लिङ्घेरी
अजायोत्पत्तिशून्याय जन्मस्थितिसंयमा उत्पत्तिस्थितिसंहारनियमनादयो जगतो यस्माद्भवन्ति तस्मै । गुणायानन्दादिगुणस्वरूपाय । आनन्दो ब्रह्मेति श्रुतेः । निर्वाणसुखार्णवाय अप्राकृतशरीरजन्यसुखसमुद्राय । अणोः सकाशादप्यणिम्नेऽतिसूक्ष्मपरिमाणाय । अणोरणीयानिति श्रुतेः । अपरिगण्यं परिगणयितुमशक्यं धाम पराक्रमादिरूपं तेजो यस्य तस्मै । ‘विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि’ इत्यादेः । महाननन्तोऽनुभावः सामर्थ्यं यस्य तस्मै ते नमो नमोऽस्तु ॥ ८ ॥
रूपं तवैतत् पुरुषर्षभेड्यं श्रेयोऽर्थिभिर्वैदिकतान्त्रिकैश्च ।
योगेन धातः सह नस्त्रिलोकान् पश्याम्यमुष्मिन् भुवि१ विश्वमूर्ते ॥ ९ ॥
पदरत्नावली
हे पुरुषर्षभः मोक्षादिपुरुषार्थाकाङ्क्षिभिर् वैदिकैस्तान्त्रिकैश्च यदेतत् तव रूपम्, हे धातः, अमुष्मिन् रूपे योगेन सह त्रिलोकान् पश्यामि । हे विश्वमूर्ते त्वं नः शरणं भवेत्यन्वयः । भुवीति पाठे आधार इत्यर्थः ॥ ९ ॥
सत्यधर्मीया
पुरुषर्षभ क्षराक्षरपुरुषश्रेष्ठ । ‘उत्तमः पुरुषस्त्वन्य’ इत्यादेः । तवैतद्रूपमीड्यं स्तुत्यम् । तदीडनाधिकारिण आह । वैदिकतान्त्रिकैर्वेदावेदितकर्मकर्तारः पञ्चरात्र्याद्युक्तानुष्ठातारस्तैः । उभयत्रापि तदधीते तद्वेदेत्यर्थे ठक् । श्रेयोऽर्थिभिः । हे धातः । भुव्याधारभूतेऽमुष्मिंस्तस्मिन् रूपे । योगेन समाध्याद्युपायेन । नोऽस्मांस्त्रिलोकांश्च । विशेषण-समासः । सह युगपत्पश्यामि । न भ्रमो ममायमित्युपपत्तिमाह ॥ विश्वमूर्त इति ॥ विश्वं जगन्मूर्तौ तनौ यस्य तस्मै । स्त्रियां मूर्तिस्तनुस्तनूरित्यमरः । भवेति पाठे मङ्गलात्मकेत्यर्थः । ते नम इत्यन्वयः । अतो न वाक्यभेदाध्याहारादिदोषः ॥ ९ ॥
छलारी
हे पुरुषर्षभ । तवैतद्रूपं श्रेयोर्थिभिर्मोक्षादिपुरुषार्थाकाङ्क्षिभिः पुरुषैर्वैदिकैर्वेदोक्तेन तान्त्रिकेण पञ्चरात्राद्यागमोक्तेन च योगेन साधनेनेज्यं पूज्यम् । हे धातः । भुवि सर्वाधारेऽमुष्मिन् रूपे नोऽस्मांस्त्रिलोकांश्च सह युगपत्पश्यामि । तत्र हेतुः । हे विश्वमूर्ते विश्वं जगन्मूर्तौ देहे यस्य स तथा ॥ ९ ॥
लिङ्घेरी
हे पुरुषर्षभ क्षराक्षरपुरुषोत्तम । तवैतद्रूपं श्रेयोर्थिभिः सर्वपुरुषार्थकांक्षिभिर्वैदिक-तान्त्रिकैः श्रुतिपञ्चरात्र्यादिवाक्यैरीड्यं स्तुत्यम् । हे धातर्विश्वमूर्ते । जगल्लक्षणशरीरवान् अमुष्मिंस्तस्मिंस्ते शरीरे त्रिलोकांस्त्रिलोकस्थितजनैः सह नोऽस्मान् अहं योगेन त्वध्द्यानादिज-पुण्येन पश्यामि । त्वमस्माकं सर्वाभिष्टप्रदो भव ॥ ९ ॥
त्वय्यग्र आसीदिदमात्मतन्त्रे त्वमादिरन्तो जगतोऽस्य मध्यम् ।
घटस्य मृत्स्नेव परः परस्मात् त्वमेव चाशेषविशेषनामा१ ॥ १० ॥
पदरत्नावली
इव यथा घटस्थादिरन्तो मध्यं च मृत्स्ना प्रशस्ता मृदेवोत्तमकारणं सलिलादि अवान्तरम्(कारणं), तथा त्वमप्यस्य जगत आद्यादिः, परस्मात् पर उत्तमहेतुः । अत्र मृद्वदुपादानकारणं न ब्रह्म किन्तु तदधीनसत्ताकत्वाद् दृष्टान्तोपादानमित्याशयेनाह– त्व-मेवेति ॥ चशब्देन ब्रह्मोपादानकत्वे सर्वस्य चेतनत्वापत्तिप्रसङ्गं सूचयति । अयमर्थोऽत्र विवक्षित इति कुतोऽवगतमिति तत्राह– अशेषेति ॥ १० ॥
सत्यधर्मीया
आत्मतन्त्रे स्वतन्त्रे । अग्रे सृष्टिकाले । इदं जगदासीत् । यदस्य जगतस्त्वमादिरुत्पादको ऽन्तो नाशकश्च मध्यं पालनकर्ता च । यद्यपि क्रमप्राप्तस्य मध्यस्य मध्ये निबन्धः कार्यस्तथाऽप्यार्याऽनार्याऽनुभवतस्तद्धर्येकनिष्ठतया सिद्धमिति यत्र क्वापि निबन्धे न दोष इति कर्ता धाता हर्ता हर इति प्रथा शैथिल्यायां ते निवेशस्याप्येतस्य मध्यतो निबन्धस् ततस्तत्त्रिकमपि भगवदायत्तमित्यवगमितं भवतीति ज्ञेयम् । न किञ्चिदुदञ्चयितुं कश्चिदपि समर्थ इत्यत्रानुरूपं निदर्शनं दर्शयति ॥ घटस्येति ॥ इव यथा । घटस्य मृत्स्ना प्रशस्ता मृत् । सति कुलालकीलालादौ मृदोऽभावे यथा न घटघटना तथेश्वर त्वद्य्वतिरेकेण जगज्जननं दुर्घटमिति भावः । प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिकेत्यमरः । सस्नौ प्रशंसायामिति मृच्छब्दात्स्नः । मूलकृदेव घटस्य मृत्स्नेवेत्यापातत आयातोपादानभ्रमं भ्रंशयति । आत्मतन्त्रे । परः परस्मा-दित्यादिना । परस्मादुभयविधप्रकृतेः पर उत्तमः । तर्हि तत्तच्छब्दानां का गतिरित्यत आह ॥ त्वमेव चाशेषविशेषनामेति ॥ सामान्यतोऽशेषनामविशेषनामा चेत्यर्थः । अशेषाणां विशेष-नामानि कर्ता हर्तेत्येवमादीनि यस्य स इति वा । ‘नामानि सर्वाणि यमाविशन्ति’ । ‘यो देवानां नामधा एक एव’ इत्यादेः । चशब्दो ‘न चेतनविकारः स्याद्यत्र क्वापि ह्यचेतनम् । नाचेतन-विकारोऽपि चेतनः स्यात्कदाचन’ इत्यनुव्याख्यानव्याख्यासुधायाम् । यत्र क्वापि देशे काले वाऽचेतनं चेतनविकारो दृष्टः स्यात्तदेयं व्याप्तिर्भज्येत । न चैवमित्यर्थ इत्यादिना । योऽति-प्रसङ्गोऽभिहितस्तत्सूचक इति मन्तव्यम् । विस्तरस्तु ततोऽनुसन्धेयः । त्वमेव चाशेषमशेष-नामेति क्वचित्पाठः । त्वमेवेदमशेषं जगत् । यदधीना यस्य सत्ता तत्तदित्येव भण्यत इत्यादे-रेवमुक्तिः। अशेषनामा चेति तत्रार्थः ॥ १० ॥
छलारी
विश्वमूर्तित्वमुपपादयति ॥ त्वयीति ॥ इदं जगदात्मतन्त्रे स्वतन्त्रे त्वय्यग्रे सृष्टिकाले मध्ये स्थितिकालेऽन्ते प्रलयकाले आसीदस्ति । यथा मृत्तिका घटस्यादिरन्तो मध्यं च । आद्यन्तमध्यावयवेषु मुख्यं कारणम् । तथा त्वमेवास्य जगत आदिरन्तो मध्यं चाद्यन्त-मध्यभागेषु मुख्यं कारणम् । नान्यः यथा महत्येकस्मिन्कार्येऽनेककर्तारो भवन्ति । यथा जगद्रूपे महाकार्ये त्वां विनाऽन्यो मुख्यकारणं नेत्याशयः । तत्र हेतुः परस्मात्प्रकृतेरपि पर उत्तम इति
॥ १० ॥
लिङ्घेरी
हे पुरुषर्षभ हरे । अग्रे महाप्रलये इदं जगदात्मतन्त्रे स्वतन्त्रे त्वयि त्वदुदरे स्थितमासीत् । त्वमस्य जगतो घटस्य मृत्स्नेव मृत्तिकेवादिरुत्पादको मध्यं स्थितिहेतुरन्तः संहारकः । तत्त्वं परस्माद्ब्रह्मादिचेतनराशेः पर उत्तमः । ‘अग्निर्वै देवानामवमो विष्णुः परमः’ । ‘विष्णुमुखा वै देवा’ इत्यादिश्रुतेः । अत एवाशेषाणां निःशेषाणां विशेषाणां ब्रह्मादीनां नामानि मुख्यतो यस्य सोऽशेषविशेषनामा । अनेन ‘हिरण्यगर्भः समवर्तताग्रे’, ‘एको रुद्रो न द्वितीयोऽवतस्थ’ इत्यादिश्रुतिस्थहिरण्यगर्भरुद्रादिशब्दवाच्योऽपि त्वमेवेति विष्णुरेव सर्वजग-त्सृष्ट्यादिकर्तेत्यस्य न ब्राह्मपाशुपतादिविरोध इत्युक्तं भवति । ‘नामानि सर्वाणि यमाविशन्ति’ । ‘यो देवानां नामधा एक एव’ । ‘यथा हिरण्यं बहुधा समीयते नृभिः क्रियाभिर्व्यवहारवर्त्मसु’ । एवं च वचोभिर्भगवानधोक्षजो व्याख्यायते लौकिकवैदिकजनैरित्यादि श्रुतिस्मृतिभ्यः । मृत्स्ना च मृत्तिकेत्यमरः ॥ १० ॥
त्वं माययाऽऽत्माश्रयया स्वयेदं निर्माय विश्वं तदनुप्रविष्टः ।
पश्यन्ति युक्ता मनसा मनीषिणो गुणव्यवायेऽप्यगुणं विपश्चितः ॥ ११ ॥
पदरत्नावली
ननु सृष्टिसंहृतिकर्तृत्वात् तदाद्यन्तत्वमस्तु, मध्यत्वं कथमिति तत्राह– त्वमिति ॥ आत्मैव आश्रयो यस्याः सा तथा तया, अत एव स्वया स्वकीयत्वेनाभिमतया मायया प्रकृत्या इदं विश्वं निर्माय त्वं तदनुप्रविष्ट इति यस्मात्,(तस्मात्)त्वां मध्यं वदन्तीति शेषः । ‘तत् सृष्ट्वा तदेवानुप्राविशत्’ इति श्रुतिः । अत्र किं मानमिति तत्राह– पश्यन्तीति ॥ मनीषिणो बुद्धिमन्तो मनसा मननलक्षणविचारेण युक्ता एवं पश्यन्तीति यद् यद्दर्शनं मान-मित्यन्वयः । नन्वेवं तर्हि गुणसम्पर्किणो गुणदोषलेपः स्यात् ? न स्यात् । अत्रापीदमेव मानमित्याह– गुणेति ॥ विपश्चितो गुणव्यवाये गुणकार्यसमूहे स्थितमप्यगुणं गुणनिमित्तदोषरहितं त्वां पश्यन्तीति शेषः । इतोऽपि ब्रह्मोपादानकारणं न, किन्तु निमित्तमेवेत्याशयेनाह– त्वमिति ॥ माययेदं विश्वं निर्माय तदनुप्रविष्ट इति मनसा युक्ता मनीषिणो गुणकार्ये जगति विषये अगुणं गुणव्यतिरिक्तं कारणं निमित्तमेव त्वां पश्यन्तीत्यन्वयः । विपश्चितः पण्डिता दर्शनपटव इत्यर्थः । अनेन विद्वद्दर्शनमत्र प्रमाणमिति दर्शितम् ॥ ११ ॥
सत्यधर्मीया
घटस्य मृत्स्नेवेत्यत्र निभृतनिर्भरः पूर्वपक्षी विना नासिकाकर्षणं न समाहितमानस इति पृथक् प्रकृतिमुपादानीभूतां निरूप्य निमित्तत्वनिमित्तानि मूलकृल्लपति ॥ त्वमिति ॥ आत्माश्रयया आत्मा स्वयं हरिराश्रयो यस्याः सा तया । अत एव स्वमायया । ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’ इत्यादेः । प्रकृत्योपादानकतया । इदं विश्वं जगन्निर्माय सृष्ट्वा । तद्विश्वं प्रवृत्तयेऽनुप्रविष्टः । तत्सृष्ट्वा तदेवानुप्राविशदित्यादेरैन्द्रजालिकी सृष्टिरिव सृष्टिस्तयेति संबोधयति । निर्मायेति इति वा । यस्त्वं तं त्वां मनीषिणो बुद्धिमन्तः । नोपलक्षणमित्याह ॥ मनसा युक्ता इति ॥ मननयुक्ता इत्यर्थः । गुणव्यवाये सति गुण-सम्बन्धेऽपि अगुणं तत्कार्याज्ञानादिरहितम् । चित्तः नैजाज्ज्ञानात् । विपः स्वयं सर्वपालो विगतपालकस्त्वमिति पश्यन्ति । अनेन बहु बहुज्ञदर्शनं मानमत्रेति दर्शितं भवति । मनसा पश्यन्ति युक्ता योगसम्पन्नाः शोभना इति वा । ‘युक्तशब्दः शोभनपर्याय’ इति कर्मनिर्णय-टीकोक्तेर् मनश्च साक्षी । ज्ञान्यज्ञानिदर्शने ते इत्याह ॥ अमनीषिण इति ॥ घटस्य मृत्स्ने-वेत्यनेनोपादानतैवोक्तेति ये मन्वते तेऽमनीषिणः । मनसा युक्ता विपश्चितो ज्ञानिनस्तु । उर्वरितं पूर्ववत् ॥ ११ ॥
छलारी
अत्र मृत्तिकादृष्टान्तो मुख्यकारणत्वे एव न तूपादानकारणत्वे । ब्रह्मणो जगन्निमित्तकारणत्वस्य ज्ञानिप्रत्यक्षसिद्धत्वादित्याशयेनाह ॥ त्वमिति ॥ हे हरे । त्वमा-त्मैवाश्रयो यस्याः सा तथा । अत एव स्वया स्वाधीनमाययोपादानभूतया प्रकृत्येदं विश्वं निर्माय तदनुप्रविष्टस्तन्नियमनार्थं तस्मिन् जगति प्रविष्टः । ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ इति श्रुतेः । इति मनीषिणो विवेकिनो विपश्चितः शास्त्रज्ञा युक्ता ध्यानयुक्ताः सन्तस् त्वां मनसा पश्यन्ति । ननु गुणकार्ये प्रवेशे तन्निमित्तदोषः स्यादित्यत आह ॥ गुणेति ॥ गुणानां व्यवाये कार्ये स्थितमप्यगुणं गुणनिमित्तदोषरहितमित्यर्थः ॥ ११ ॥
लिङ्घेरी
हे हरे । त्वमात्माश्रयया स्वाधारस्वकीयया स्वाधीनया जडप्रकृत्यात्मकया मायया स्वया स्वरूपभूतमायया जडप्रकृतिनियामकशक्त्या चेदं विश्वं जगन्निर्माय सृष्ट्वा तदनु-प्रविष्टो भवसि । अनेन तत्सृष्ट्वा तदेवानुप्राविशत् । ‘यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति’ इत्यादिश्रुतिप्रतिपाद्यं जगज्जन्मादिकर्तृपरं ब्रह्म विष्णुरेवेति चतुर्मुखेना-विष्कृतम् । नन्वेवं हरिर्जडप्रकत्या जगत्सृष्ट्यादिकर्ता चेत्तद्गुणसत्त्वादि सृष्ट्वा तत्र प्रविष्टः सन् तथाभूत इति वक्तव्यम् । न चैतद्युक्तम् । गुणप्रविष्टस्य गुणशक्तिविषयतया देवदत्तादिवद-स्वातन्त्र्यादिदोषप्रसक्तेरित्याशङ्क्य चतुर्मुखो, ज्ञानिनो युक्ताः परमात्मन्येव मनोयोगयुक्ताः सन्तो गुणव्यवाये सत्त्वादिगुणसमूहे स्थितमप्यगुणं सत्त्वादिगुणशक्त्यविदया तद्रहितं विपश्चितः श्रुत्यादिना परोक्षतो ज्ञानवन्तः सन्तो मनसाऽपि तादृग्रूपं हरिं पश्यन्तीत्यतो न विरोध इति समाधत्ते ॥ पश्यन्तीत्यादिना ॥ अवश्यं चैतदेवं विज्ञेयम् । एवं द्रष्टृणां मोक्षयोग्यत्वोक्ते-स्तत्साक्षात्कारस्य भ्रमत्वशङ्काऽनवकाशात् । ‘हृदा मनीषा मनसाऽभिक्लृप्तो य एवं विदुरमृतास्ते भवन्ति’ इत्यादिश्रुतेः ॥ ११ ॥
यथाऽग्निमेधस्यमृतं च गोषु भुव्यन्नम्बूत्खनने तथोर्व्याः ।
योगैर्मनुष्या अधियन्ति हित्वा गुणेषु बुध्द्या कवयोऽवयन्ति१ ॥ १२ ॥
पदरत्नावली
गुणकार्ये स्थितं गुणदोषरहितं पश्यन्तीत्युक्तम् । कथं तत्र पश्यन्तीति तत्राह– यथेति ॥ यथा एवआदिष्वग्न्यादीनधियन्ति अधिगच्छन्ति तथा कवयो बुद्ध्या गुणेषु त्वामवयन्ति जानन्तीत्यवयः । उर्व्या उत्खनने सति अम्बु यथा । तथाशब्दः समुच्चये । अमृतं क्षीरं घृतं वा । भेदस्य दोषलेपराहित्यस्य च ज्ञापनायाग्निनिदर्शनम् । सर्वस्मात् सारः स्वभक्त-मुक्तिद इति ज्ञापनायामृतदृष्टान्तः । उपजीव्यत्वज्ञापनायान्नं यथेति । भूतस्त्वतापहरत्व-दर्शनायाऽम्बु यथेति ॥ १२ ॥
सत्यधर्मीया
मननं तेषां मनस्विनामेवमिति सदृष्टान्तमाचष्टे ॥ यथेति ॥ यथाऽग्नि-मेधसि मरणौ अमृतं क्षीरं घृतं वा गोषु । भुव्यन्नं धान्यादिरूपम् । योगैर्मथनदोहनबीजा-वापादिभिरुपायैः । यथोर्व्या उत्खनने अम्बूदकं च मनुष्या अधियन्ति अधिगच्छन्ति । तथा कवयो ज्ञानिनो बुद्ध्या गुणेषु स्थितं त्वां निरनिष्टं निरवद्यमवयन्ति । अवोपसर्गपूर्वादिण् गतावित्यस्येदं रूपम् । तत्त्वप्रकाशिकाछायाव्याकृतौ जानन्तीत्युक्तेः । ये गत्यर्थन्यायेन जानत इत्यर्थः । गुणान्हित्वा गुणेषु विद्यमानमवयन्तीति वा । उपादानतावासनां विवासयितुं बहु दृष्टान्तोक्तिः । यथाऽग्निरेधश्च गौरमृतमन्नं भूरम्बु च दृश्यन्ते कारणकार्यतापन्नानि भिन्नान्येवं जगदीश्वरजगती इत्यवयन्ति कवय इति भावः । यद्वा । कविष्वेव तरतमभावेन योग्यतानु-रोधेनाज्ञानमिति दर्शयितुमियदुक्तिः । उत्खननेन वृत्तिमिति पठित्वा वृत्तिं वाणिज्यादिकमिति व्याचक्षते । परन्तु न स सरलोऽसार्वत्रिकश्च । बुद्धिपूर्वकं गुणगमनं नेतरस्येव कर्मवशत इत्याह ॥ बुद्ध्या हित्वा ॥ हि गतौ वृद्धे चेति स्मृतेः । गुणान् गुणेषु विद्यमानमिति वा ॥ १२ ॥
छलारी
गुणकार्ये प्रविष्टत्वेनैव पश्यन्ति नोपादेयत्वेनेत्येतत्सदृष्टान्तमाह ॥ यथेति ॥ यथाऽग्निमेधसि काष्ठे मथनेनामृतं क्षीरं घृतं वा गोषु दोहनादिना भुव्यन्नं व्रीह्यादिकर्षणादिना तथा भुव्येवाम्बुखननेनोद्यमेन पुरुषप्रयत्नवृत्तिजीविकां वाणिज्यादिना योगैः पूर्वोक्तमथनाद्युपायैर्मनुष्या अधियन्ति प्राप्नुवन्ति । काष्ठादिषु विद्यमाना एवाग्न्यादयः साधनेनोपलब्धा इति जानन्ति । तथा कवयो विवेकिनो बुध्या साधनेन त्वां गुणेषु गुणकार्येषु विद्यमानमेवाधियन्ति जानन्ति तथा वदन्ति । अत्र भेदस्य दोषलेपराहित्यस्य ज्ञानायाग्निनिदर्शनं सर्वस्मात्सारः स्वभक्तमुक्तिदश्चेति प्रदर्शनायामृतदृष्टान्तम् । उपजीव्यत्वं दर्शयितुमन्ननिदर्शनम् । तापहरत्वद्योतनायांबुदृष्टान्तः
॥ १२ ॥
लिङ्घेरी
हे हरे यथा मनुष्या एधसि काष्ठेऽग्निं, गोषु धेनुष्वमृतं क्षीरादि, भुव्यन्नमुर्व्याः पृथिव्या उत्खनने कृते सत्यंबूदकमधियन्ति जानन्ति तथा कवयो ब्रह्मादिज्ञानिनो योगैः सच्छास्त्रादिरूपैरुपायैर्गुणेषु सत्त्वादिषु त्वामवयन्ति जानन्ति हि । अग्निदृष्टान्तेन हरेर्गुणलेप-राहित्यं काष्ठाद्यथाग्नेर्भेदः काष्ठस्यानारोपितत्वं तथा गुणानामपि सूचितम् । अमृतदृष्टान्तेन परमात्मनो नित्यमुक्तत्वं सारत्वरूपमुत्तमत्वं मुक्तिदत्वं च ध्वनितम् । अन्नदृष्टान्तेन सर्वोप-जीव्यत्वमम्बुदृष्टान्तेन सन्तापपरिहारकत्वं च हरेर्ज्ञापितमिति ज्ञातव्यम् ॥ १२ ॥
तं त्वा वयं नाथ समुज्जिहानं सरोजनाभातिचिरेप्सितार्थम् ।
दृष्ट्वा गता निर्वृतिमद्य सर्वे गजा दवार्ता इव गाङ्गमम्भः ॥ १३ ॥
पदरत्नावली
यस्त्वं सर्वोत्तमत्वोपजीव्यत्वादिगुणसंपन्नो वयं तं त्वां दृष्ट्वा अथ निर्वृतिं गता इत्यन्वयः । अतिचिरेण कालेन वाञ्छितार्थं समुज्जिहानम् । विचार्यमाणे सति सवोत्तमं भगवन्तम् उन्नतीकुर्वाणम् । दवार्ता वनवह्निक्लिष्टा गाङ्गं गङ्गासम्बन्धि ॥ १३ ॥
सत्यधर्मीया
अविक्रियमित्यादि कवयो वयन्तीत्येतदन्तपद्यैः किञ्चित् सूचितत्वादेक-दर्शनोचितबहुगुणो यस्तं त्वाम् । सरोजनाभ । सरोजं पद्मं नाभौ यस्य स तत्सम्बोधनम् । अच्प्रत्यन्वयेत्यत्र अच् इति योगविभागादच् । नाथ सर्वस्वामिन्मम स्वामिन् । अति-चिरेप्सितार्थमतिचिरेणातिचिरं वा ईप्सितो वाञ्छितः स चासावर्थश्च तम् । समुज्जिहानमा-विर्भवन्तम् । नाथेनास्मत्प्रार्थनया समुज्जिहानमिति पदमेकं वा । नाथृ नाधृ याच्नोपतापैश्वर्याशी-ष्विति स्मरणात् । ‘यह्वा इव प्रवयमुज्जिहाना’ इति तृतीयाष्टकाष्टाध्यायद्वादशवर्गाद्या या ऋचो व्याख्याने परेण स्वाधिष्ठानं त्यजन्त इति व्याख्यातत्वात्प्रादुर्भावोऽत्र स्वस्थानत्यागस्थानान्तर-लाभात्मा ग्राह्यः । ओ हाङ् गतावस्माल्लटः शानचि लौ श्लाविति द्वित्वे सृजामित्यभ्यासेत्वे स्नाभ्यस्तयोरात इत्याकारलोपे कुहोश्चुरिति चुत्वेनाभ्यासे चर्चेति खलो जस्त्वेन जकारे जिहान इति भवति । सर्वे वयं दृष्ट्वाऽद्य । निर्वृतिं सुखं गताः । अभिलषितसिद्धौ सन्देहाभावादिति भावः । दावो दाव इति ख्यातौ वनाग्निवनयोरपीति विश्वाद् दवेन वनानलेनार्ता गजाः । गाङ्गं गङ्गासम्बन्धि कबन्धमम्भो दृष्ट्वेव ते यथा निर्वृतिं गता भवन्ति तथा वयं निर्वृतिं गता इत्यन्वयः ॥ १३ ॥
छलारी
हे नाथ सरोजनाभ पद्मनाभ । अतिचिरेण बहुतरकालेनेप्सितार्थं समुज्जिहानं भक्तैर्बहुजन्मसु प्रार्थितं मोक्षादिपुरुषार्थप्रदमित्यर्थः । यद्वा । अतिचिरेण वाञ्छितार्थभूतम् उक्तगुणसंपन्नत्वात्सम्यगुज्जिहानमाविर्भवन्तं प्रत्यक्षतो दृष्ट्वाऽद्य वयं निर्वृतिं सुखं गताः प्राप्ताः । तत्र दृष्टान्तः । दवार्ता वनवह्निना पीडिता गजा यथा गाङ्गं गङ्गासम्बन्ध्यम्भः प्राप्य सुखभरिता भवन्ति तद्वत् ॥ १३ ॥
लिङ्घेरी
हे सरोजनाभ नाथ स्वामिन् । सर्वे वयं समुज्जिहानं भक्ताभीष्टप्रदानाय सन्नद्धमानं भक्तानामभिवृद्धिकरं चात एव चिरेप्सितं चिरं बहुकालमपेक्षितम् । अथ बहुकाला-पेक्षितपुरुषार्थरूपं यं त्वां दृष्ट्वाऽद्य दवेनारण्याग्निनाऽऽर्ता दुःखिता गजा गांगं भागीरथिस्थमंभो जलं प्राप्येव निर्वृतिं सुखं गताः स्म ॥ १३ ॥
स त्वं विधत्स्वाऽखिललोकपाला वयं यदर्थास्तव पादमूलम् ।
समागतास्ते बहिरन्तरात्मन् किं वाद्य विज्ञाप्यमशेषसाक्षिणः ॥ १४ ॥
पदरत्नावली
योऽर्थो येषां ते यदर्था यत्प्रयोजना अखिललोकपाला वयं तव पादमूलं समागता स त्वं तमर्थमस्मभ्यं विधस्त्वेत्यन्वयः । तर्हि सोऽर्थः क इति तत्राह– ते बहिरिति ॥ हे आत्मन् स्वात्मन् बहिरन्तःसाक्षिणस् ते तवाद्य विज्ञाप्यं किं चास्ति न किमपीत्यन्वयः । अतोऽस्मदभीष्टं भवतः सिद्धमित्यर्थः ॥ १४ ॥
सत्यधर्मीया
यदर्थाः । योऽर्थो येषां ते यदर्थाः । अखिललोकपाला वयं तव पादमूलं समागतास्तमर्थं स त्वं विधत्स्व कुरु । न कृतमिदमिति विज्ञापनमविज्ञोऽहं किं करवाणीति वाणी प्रवीण तव नोचितेति विज्ञापयन्ति । हे आत्मन् । बहिरन्तश्चाशेषसाक्षिणोऽशेषं साक्षा-त्पश्यतीति स तथा । साक्षाद्द्रष्टरि सञ्ज्ञायामिति स्मरणात् । अद्य किं वा विज्ञाप्यम् । न कृत्यं विदितसर्व सम्प्रति पुनर्वचनेनेति भावः । बहिरन्तश्च व्याप्तेति वा ॥ १४ ॥
छलारी
यत्कर्तव्यं तत्कथयेत्याह ॥ स त्वमिति ॥ योऽर्थो येषां ते यदर्था यत्प्रयोजना अखिललोकपाला वयं तव पादमूलं समागतास्तमर्थमस्मभ्यो विधत्स्व कुरुष्व । असावर्थः क इत्यत आह ॥ ते बहिरिति ॥ हे आत्मन् स्वामिन् । बहिरन्तोऽशेषसाक्षिणः सर्वं पश्यतस्ते तवाद्यास्माभिर्विज्ञाप्यं किं वा प्रमेयमस्ति ॥ १४ ॥
लिङ्घेरी
हे बहिरन्तरात्मन् नियामकतया सर्वजगत्स्वामिन् । स पूर्वोक्तगुणविशिष्टस्त्वम् अखिललोकपाल । वयं यदर्था यत्प्रयोजनापेक्षाः सन्तस्तव पादमूलं समागताः प्राप्तास्तद्विधत्स्व कुरुष्व । तत्प्रयोजनस्य भवद्भिरनुक्तत्वान्मम तज्ज्ञानं कथं स्यादिति परिहारः कर्तुं न शक्य (इति न) इत्यभिप्रायेणाह चतुर्मुखः ॥ अशेषसाक्षिण इति ॥ सर्वं साक्षात्कुर्वतस्तवाद्येदानीं विज्ञाप्यं किमस्तीति ॥ १४ ॥
अहं गिरित्रश्च सुरादयो ये दक्षादयोऽग्नेरिव केतवस्ते ।
किं वा विधेमेश पृथग्विभाविता विधत्स्व शं नो द्विजदेवमित्र१ ॥ १५ ॥
पदरत्नावली
इतोऽप्यस्माभिर्विज्ञाप्यं नास्ति यतो वयं किङ्करा इति भावेनाह– अहमिति ॥ यथा केतवः ज्वाला अग्नेरुत्पद्यन्ते तमेवाश्रिताः, एवं मदादयः सर्वे त्वदुत्पन्न-त्वात् त्वत्किङ्करा इत्यर्थः । किङ्करत्वं विशदयति- किं वेति ॥ ईश सृष्ट्यादिकर्तृत्वेन पृथक् पृथग्विभाविताः प्रख्याता वयं किं वा विधेम कां तवाज्ञां कुर्मः ? हे द्विजदेवमित्र नोऽस्माकं तवाज्ञाकरणलक्षणं शं विधत्स्व इदं कुरुध्वमित्याज्ञापय । गिरित्रः सदाशिवः ॥ १५ ॥
सत्यधर्मीया
गिरित्रः गिरिं कैलासं त्रायत इति स तथा । शिवः । सुरादयो देवाद्याः प्रजेशो दक्ष आदिर्येषां ते तथा । अग्नेः केतवो विस्फुल्लिङ्गा इव यथा तथा भिन्नांशास्त्वयैव पृथग्विभावितास्त्वत्प्रोक्तकारितयोत्पादिताः । किं वा विधेम । कां त्वदाज्ञां कुर्मः । ईशेति सम्बोधनेन स्वकार्यकारितामुपजहसुरिति ज्ञेयम् । न किमपि कर्तुं शक्ता इति भावः । तर्हि मया वा किं कार्यं वदतेत्यत्राह । हे द्विजदेवमित्र । द्विजानां देवानां मित्रानिमित्तबन्धो । शं विधत्स्व । द्विजानां यजनयाजनाद्यभावात्तत एवं देवानामाहुत्याद्यं विरहात्सुखं चैतल्लभ्यमेव विधत्स्वेति द्विजदेवमित्रेत्यनेन सूच्यते । द्विजदेवमन्त्रमिति पाठे । हे द्विजदेव । शं हविरादिसुखं नास्ति । अतो मन्त्रम् । तत्प्राप्त्युपायं गुप्तभाषणं विधत्स्वेत्यर्थः । यत् शं नस् तद्विधत्स्व । भीरुभिः किमिति न वदत् तव स्वभावोऽयमिति विज्ञापयन्ति ॥ हे उद्विजदेवमित्रेति ॥ उद्विजन्मित्र एवेति पदनिष्पत्तिः । उद्विजन्त एव मित्राणि यस्य स तत्सम्बुद्धिः । न चैवकारव्यवधानात्कथं तत्पदनिष्पत्तिर्विग्रह इति वाच्यम् । तामिस्रश्चान्धतामिस्रौ द्वौ नित्यौ सम्प्रकीर्तिताविति पठित्वा तामिस्रश्चान्धतामिस्रश्चेति तामिस्रश्चान्धतामिस्रौ चेति स्वयं विगृह्य मध्येपदं चशब्दः कथं द्वन्दः कृत इत्याशङ्क्य नरावाशं शुनश्चिपेत्यादिवच्चान्वयोऽनन्तरं सम्भवीति काऽत्र कथन्तेति व्याकृतवन्तः । तद्वदत्रेति न मनो विनोदनीयम् ॥ १५ ॥
छलारी
अग्नेः सकाशात्केतवो विस्फुलिङ्गा यथोत्पद्यन्त तथाऽहं गिरिशः शिवः सुरादयः । आदिशब्देन ऋष्यादयो दक्षादयः प्रजेश्वराश्च । ते मदादयः सर्वे । हे ईश । त्वत्तः पृथग्विभाविता उत्पन्ना ये । किं वा शं सुखोपायं विधेम विद्मः । अग्निस्फुलिङ्गदृष्टान्तकथनेन यतो बहुप्रकाशाग्निवत्त्वं सर्वज्ञत्वं तव, वयं त्वल्पप्रकाशस्फुलिङ्गवदल्पज्ञा अतो यं सुखोपायं न जानीम इत्युक्तं भवति । अतस्तवैव सर्वज्ञत्वात्त्वमेव नः शं सुखोपायं विधत्स्व । इदं कुरुतेति सुखोपायमुपदिशेत्यर्थः । हे द्विजानाम् ऋषीणां देवानां मित्रानिमित्तबन्धो । द्विजदेव मन्त्रमिति पाठे द्विजदेव त्वं ब्रह्मण्यदेव मन्त्रमुपायं विधत्स्वेत्यर्थः ॥ १५ ॥
लिङ्घेरी
हे द्विजदेवमित्र ईश स्वामिन् । अहं गिरित्रश्च रुद्रोऽपि ये च सुरादयो दक्षा-दयश्चाग्नेः केतवो ज्वाला इव तव सकाशादुत्पन्नास्त्वामाश्रिताश्च । अस्वतन्त्राः किंकरा यतोऽतोऽसुरपीडितानामिन्द्रादीनां किं वा साधनं विधेम करिष्याम । इन्द्रादिभिर्विभाविता ध्यानादिना सेविता अपि वयं तदिष्टकरणासमर्थाः । नन्वग्नेः केतव एव मत्सकाशोत्पन्नमत्स्य-कूर्मवद्भवतामपि सुरकार्यसाधकत्वं किं न स्यादित्याशङ्क्याह । वयं त्वत्तः पृथगत्यन्तभिन्नाश्च मत्स्यादिवदभिन्ना अतो नोऽस्माकं शं सुखं यथा स्यात्तथा त्वं विधत्स्व ज्ञापय । पृथगुपदेशात् । ‘पृथग्भूतान्यनेकशः’ । ‘भिन्नोऽचिन्त्यः परमो जीवसंघात्’ इत्यादिश्रुत्येत्युक्त एवार्थः ॥१५॥
श्रीशुक उवाच–
एवं विरिञ्च्यादिभिरीडितस्तद् विज्ञाय तेषां हृदयं यथैव ।
जगाद जीमूतगभीरया गिरा बद्धाञ्जलीन् संवृतसर्वकामान् ॥ १६ ॥
पदरत्नावली
हृदयमभिप्रायम् । जीमूतो मेघः । संवृतसर्वकामान् अप्रकाशितस्वाभि-प्रायान् ॥ १६ ॥
सत्यधर्मीया
सुरैरिति शेषः । यथा तथैव तेषां विध्यादीनाम् । हृदयमभिप्रायम् । विज्ञाय तेषां वाक्यानां हृदयम् । ईशपृथग्विभाविता ईशस्य रुद्रस्य पृथक् पृथङ्निःसृतोंऽशो दुर्वासास्तस्य शापेन विभाविता असम्भाविता इत्यन्तर्लापिताप्राप्याभिप्रायं च विज्ञायेति वर्णयन्ति । बद्धाञ्जलीन् संवृतसर्वकामान् अनाविर्भावितसमस्तस्वकामान् । एवमपदेशाच्छादित-स्वाभिप्रायानिति तत्पक्षेऽर्थः । जीमूता घनास्तद्ध्वनिवद्गभीरा गम्भीरा तया । गभीरगम्भीराविति निपातितः शब्दः । जगाद ॥ १६ ॥
छलारी
तद्धृदयं यथैव यथावद्विज्ञाय जगाद । सुरकार्यसाधनोपायमुपदिदेशेत्यर्थः जीमूतवन्मेघवद्गम्भीरया । संवृतानि गृहीतानि सर्वाणि कार्याणीन्द्रियाणि यैस्तान् भगवत्येव निष्ठायुक्तानित्यर्थः । संवृतसर्वकामानिति पाठेऽप्रकाशितस्वाभिप्रायानित्यर्थः ॥ १६ ॥
लिङ्घेरी
एवमुक्तरीत्या विरिञ्चादिभिरीडितः स्तुतो हरिस्तेषां विरिञ्चादीनां हृदयं मनो यथा वर्तते तथैव तद्विज्ञाय बद्धांजलीन्संवृता आच्छादिताः सर्वकामा सर्वापेक्षा येषां ते तथा तान् ब्रह्मादीन्प्रति जीमूतगभीरया मेघध्वनिवद्गंभीरया गिरया वाचा जगाद ॥ १६ ॥
एक एवेश्वरस्तस्मिन् सुरकार्ये सुरश्वेरः ।
विहर्तुकामस्तानाह समुद्रोन्मथनादिभिः ॥ १७ ॥
पदरत्नावली
यतो ब्रह्मादयः श्रीनारायणं शरणं प्रापुस् तस्मादेक एवेश्वरः सुरकार्यविषये ईश्वरः समर्थः ॥ १७ ॥
सत्यधर्मीया
तस्मिन्सुरकार्ये तत्सम्पादनविषये । एक एवेश्वरः समर्थ इति, समुद्रोन्मथनादिभिर्विहर्तुकामो विहर्तुं काम इच्छा यस्य सः । ‘तुं काममनसोरपि’ इत्युक्तेर्मलोपः । अनेन न सामर्थ्याभावप्रयुक्तो वक्ष्यमाणोपायोपदेशः किन्तु लीलालालसतामूल इति द्योत्यते । तान्प्रत्याह ॥ १७ ॥
छलारी
ननु हरेरेव सुरकार्यसमर्थत्वाद्देवान्प्रति समुद्रमथनादिरूपोपायोपदेशः किमर्थ-मित्यत आह ॥ एक एवेति ॥ सुरेश्वरो हरिरेवैकः परापेक्षारहितः सन् सुरकार्यविषये ईश्वरः समर्थो यद्यपि तथा समुद्रमथनादिभिरमृतार्थं देवदैत्येः सहामृतरूपेण समुद्रमथनं कूर्मरूपेण मन्दरोद्धारणं नारायणीरूपेण दैत्यमोहनमित्यादिभिर्विहर्तुकामः क्रीडाकर्तुकाम एव तान् प्रत्याह । उपायमुपदिदेश न त्वसमर्थत्वादित्यर्थः ॥ १७ ॥
लिङ्घेरी
सुराणां ब्रह्मादीनामीश्वरः स्वामी नारायणस्तस्मिन्सुरकार्ये विषये यद्यपि स्वयमेक एवान्यसहायरहित एव कर्तुमीश्वरः समर्थस् तथाऽपि ब्रह्मादिभिः समुद्रोन्मथनादिभिर्विहर्तुकामः संस्तान्प्रत्याह । पुरा यथा तथा वः श्रेयः स्यात् ॥ १७ ॥
श्रीभगवानुवाच–
हन्त ब्रह्मन्नहो शम्भो हे देवा मम भाषितम् ।
श्रुणुतावहिताः सर्वे श्रेयो वः स्याद् यथा पुरा ॥ १८ ॥
पदरत्नावली
आरम्भे यथा येन विधिना युष्माकं श्रेयः स्यात् तं विधिम् ॥ १८ ॥ सत्यधर्मीया
अवहिता एकमनस्काः । मम भाषितं भाषणं श्रुणुत इत्याहेत्यन्वयः
॥ १८ ॥
छलारी
उपायमुपदेष्टुं ब्रह्मादीन्स्वाभिमुखीकरणाय सम्बोध्य फलेन हर्षयति ॥ हन्तेति ॥ भाषितं वचनमवहिताः सावधानाः । मदुक्तप्रकारेणोपायमनुतिष्ठेत । पूर्ववद्वो युष्माकं श्रेयः सम्पत्तिः स्यात् । अतो मम भाषितं श्रुणुतेत्यन्वयः ॥ १८ ॥
लिङ्घेरी
हे ब्रह्मन् चतुर्मुख शम्भो महादेव हे देवा इन्द्रादयः । यूयं सर्वे, वो युष्माकं यथा येन प्रकारेण श्रेयः पुरुषार्थः स्यात्तथा मम भाषितमवहिताः स्वस्थान्तःकरणाः सन्तः श्रुणुत । तच्छ्रवणाद्वो हन्त हर्ष एव स्यादतः पुरा प्रथमं तच्छणुतेति ॥ १८ ॥
यातुधानैश्च दैतेयै१स्तावत् सन्धिर्विधीयताम् ।
कालेनानुगृहीतै२स्तैर्यावद् वो भव आत्मनः ॥ १९ ॥
पदरत्नावली
यातुधानैः राक्षसैर् अनुगृहीतैर् ऐकमत्येन गृहीतैर्वा । आत्मनो युष्मदात्मनो भवः श्रेयः, वृद्धिर्वा ॥ १९ ॥
सत्यधर्मीया
कालेनानुगृहीतैर्मयैवानुगृहीतैः । इदानीं बलकालस्तेषामिति भावः । तैर्यातुधानै राक्षसैर्दैतेयैर्बल्यादिभिश्च । व आत्मनो मम सकाशाद्भवो मङ्गलं भवेत्तावत्कालपर्यन्तं तैः सन्धिः सन्धानं विधीयताम् । काव्येनानुगृहीतैरिति, यात दानवदैतेयैरिति च पाङ्क्तौ पाठौ स्फुटार्थौ च । अधुना बोधनीयबोधनस्योत्तरत्र बहुलस्यावगतेर्यातेत्यवक्तव्यत्वाच्च ॥ १९ ॥
छलारी
इदानीमुपायमुपदिशति ॥ यातुधानैरिति ॥ हे देवाः । बलिचक्रगृहं प्रति यात गच्छत । गत्वा दानवैर्दैतेयैश्च तावत्पर्यन्तं सन्धिं विधीयताम् । कुतः । कालेन कालनामक-हरिणाऽनुगृहीतैरस्मिन्काले हर्यनुग्रहेण प्रबलैरित्यर्थः । कियत्पर्यन्तं सन्धिं विधीयताम् । कालेन फलानुसारेणानुगृहीतैरनुकूलत्वेनैकमत्येन गृहीतैः स्वीकृतैरसुरैर्यावद्वो युष्माकं सुराणामात्मनः स्वामिन इन्द्रस्य भवो वृद्धिः स्यात्तावदित्यर्थः ॥ १९ ॥
लिङ्घेरी
हे ब्रह्मादयः । वो युष्माकमात्मनः परमात्मनः सकाशाद्भवः कल्याणं स्वस्थतया स्थितिश्च यावत्स्यात्तावत्कालेन सत्यसंकल्पतो विष्णुना अन्यार्था तु करिष्यतीत्यादि प्रमाणसिद्धसङ्कल्पेन हरिणा प्रेरितप्रसिद्धकालेनानुगृहीतैः प्रबलीकृतैर्यातुधानै राक्षसैर्दैतेयैश्च सन्धिं सन्धानं विधीयतां क्रियताम् । भवो भद्रे च सन्तापमिति नानार्थमुक्तमाला । कालाख्यरूपिणस्त-वेति दशमस्कन्धोक्तेः कालशब्दवाच्यत्वं हरेरपि ज्ञेयम् ॥ १९ ॥
अरयोऽपि हि सन्धेयाः सति कार्यार्थगौरवे१ ।
अहिमूषकवद् देवा ह्यर्थस्य पदवीं गतैः ॥ २० ॥
पदरत्नावली
हे देवाः कार्यार्थगौरवे कर्तव्यस्य प्रयोजनस्य गुरुत्वे सति अर्थस्य प्रयोजनस्य पदवीं गतैर्भवद्भिरसुरा अरयोऽपि सन्धेया हीत्यन्वयः । कथमिव ? अहिमूषकयो-रिव । ‘यावन्मयूरसंत्रस्तः सर्पो मूषकवेश्मनि । निलीय निर्भयः पश्चाद् भक्षित्वा मूषकं गतः ॥’ इति तान्त्रिकायाम् । सन्ति कार्यार्थगौरवादिति पाठे कार्यार्थगौरवादरयोऽपि सन्धेया इति न्यायाः सन्तीत्यन्वयः । अहिमूषकसंधानमिव । सर्पग्राहिणा सर्पमूषकौ गृहीत्वा फलकोर्ध्वद्वारखर्व-मञ्जूषायां निहितौ । तत्रोपोषितः सर्पो मनुत एकमूषिकादनाद् वरमनेन सन्धिं कृत्वेतो निर्याणमिति । मूषकमभाषत । हे मूषकोन्नतीभूतमत्फणाग्रे स्थित्वा त्वत्कृतफलकरन्ध्रेणावां निर्गच्छाव, ततः स्वस्थौ स्यावेति । तेन तौ निर्गत्य, स्थितं मार्जारभीतं मूषकं भक्षयित्वा सर्पोऽप्ययासीदिति किं वदन्ती ॥ २० ॥
सत्यधर्मीया
हे अरिधर अरिभिः सन्धानविधानं कथं कथयेत्यतः काञ्चन किंवदन्तीं तान्प्रति सूचयित्वोचिततां स्वोक्तस्यानुसृत्य कालं लपति ॥ अरय इति ॥ हि यतः कार्यार्थ-गौरवे सम्पाद्य प्रयोजनगुरुत्वे । स्वकार्यस्यार्थो नाशस्तद्गौरवे आगमिष्यत्स्वप्रयोजननाशगौरव इति वा । सति । अरयोऽपि सन्धेयाः सन्धानार्हाः । अर्थस्य पदवीं स्वार्थसिद्धिं गतैर्भवद्भिरहि-मूषकवत्तयोरिव वर्तितव्यमिति शेषः । ‘यावन्मयूरसन्त्रस्तः सर्पो मूषिकवेश्मनि । निलीय निर्भयः पश्चाद्भक्षित्वा मूषकं गत ॥’ इति तान्त्रिका इति पूर्वे । सा चेत्थं किं वदन्तीति वदन्ति । केनचिद्विषभिषजा मञ्जूषायां सर्पो मूषकश्च स्थापितौ । तदा स लोचनश्रवा आलुलोच । यदीममद्य भक्षिष्ये चेत्कनीयोऽन्नं न श्वश्चातोऽनेन सन्धिर्मम बन्धुरिति । तत आजुहावाहि-रहितमपि । मूषकसखे मम फणोपरि तिष्ठन् रन्ध्रं कुरु ततस्तद्द्वारत उभावपि निर्भीतौ गच्छावः क्षेमिणाविति बभाषे । तत ओमित्युक्त्वा सुषिरं कृतवति मूषके स्वनिःसरणं भवेदिति निरीक्ष्य तं भक्षयित्वा बहिरहिर्निःससारेति । तर्हि पद्मनाभेन छद्मोपदेशः कथं कृत इति तु निराकुर्वन् ‘निकृत्या निकृतिं हन्यात्’ इत्यादिमानिकतामेवैतदर्थस्य हिराहेति मन्तव्यम् ॥ २० ॥
छलारी
ननु वैरिभिर्देत्यैः सह दैन्येन संधानं कथं कार्यमित्यत आह ॥ अरयोऽ-पीति ॥ हे देवाः । कार्यस्यार्थस्य कर्तव्ये प्रायो जनस्य गौरवे महत्वे सति । अरयोऽपि हि सन्धेयास्ततोऽर्थस्य प्रयोजनस्य पदवीं सिद्धिं गतैः कार्यसिद्ध्यनन्तरमित्यर्थः । अहिमूषकवत् । वध्यघातुकभावेन वर्तितव्यमिति शेषः । ‘यावन्मयूरसंत्रस्तः सर्पो मूषकवेश्मनि । निलीय निर्भयः पश्चाद्भक्षित्वा मूषकं गत ॥’ इति तान्त्रिकोक्तेः । यद्वा । अर्थस्य पदवीं गतैः कार्यं साधयितुं प्रवृत्तैः पुरुषैः प्रथममरयोऽपि सन्धेयाः कथम् । अहिमूषकवत् । सर्पग्राहिणा पेटिकायां सर्प-मूषकौ निरुद्धौ । तत्र सर्पो बहिर्निर्गमनार्थं मूषकं प्रथमं संबोध्यते । हे मूषक । आवयोर्बहि-र्निर्गमनार्थं पेटिकायाश्छिद्रं कुरु तेन रंध्रेण बहिर्निर्गच्छाव इति । ततस्तत्कृतेन छिद्रेण ततो निर्गत्य मूषकं भक्षितवान्सर्प इति किंवदन्ती ॥ २० ॥
लिङ्घेरी
हे देवाः स्वेषां कार्यार्थगौरवे कर्तव्यप्रयोजनस्य महत्वे सति अर्थस्य प्रयोजनस्य पदवीं मार्गं गतैर्जनैररयः शत्रवोऽपि अहिमूषकवत्सन्धेयास्तात्कालिकसमाधान-वचनैर्वशीकर्तव्याः । ‘यावन्मयूरसंत्रस्तः सर्पो मूषकवेश्मनि । निलीय निर्भयः पश्चाद्भक्षित्वा मूषकं गतः ॥’ इति तान्त्रिकोक्तोऽहिमूषकन्यायो ज्ञेयः । अथ च सर्पग्राहेण केनचित्पुरुषेण सर्पमूषकौ गृहीत्वा कस्यांचिन्मंजूषायां स्थापितौ । तत्रातिक्षुधितसर्पोऽत्रैकमूषकभक्षणादप्यस्मा-द्बन्धनाद्बहिर्गत्वाऽनेकतद्भक्षणमेवोचितं मत्वा स्वसहायमूषकेणालोचनमकरोत् । रे मूषक त्वं मे शिरसि स्थित्वा तदूर्ध्वभागं खादि च छिद्रं कुरु । तेनावां बहिः सुखवन्तौ स्याव इति यथाऽहिर्मूषकेन संधानमकरोत्तथेत्यप्यहिमूषकन्यायमाहुः ॥ २० ॥
अमृतोत्पादने यत्नः क्रियतामविलम्बितम् ।
यस्य पीतस्य वै जन्तुर्मृत्युग्रस्तोऽमरो भवेत् ॥ २१ ॥
पदरत्नावली
अविलम्बितं शीघ्रम् । यस्य शक्त्या । वैशब्देन योग्यतां सूचयति ॥२१॥
सत्यधर्मीया
पीतस्य यस्य सकाशान्मृत्युग्रस्तो जन्तुः । अविलम्बितमिति ॥ यत्नपदेनेवामरोऽविलम्बितं शीघ्रं भवेदित्यप्यन्वेति ॥ २१ ॥
छलारी
ततस्तैः सह यत्कार्यं तदाह ॥ अमृतोत्पादन इति ॥ अविलंबितं शीघ्रं यस्यामृतस्य पीतस्य सतो मृत्युग्रस्तो जन्तुरमरो मरणरहितो भवेत् ॥ २१ ॥
लिङ्घेरी
हे देवाः । युष्माभिरमृतस्योत्पादने यत्नोऽविलंबितं शीघ्रं क्रियताम् । पीतस्य यस्यामृतस्य बलान्मृत्युग्रस्तः सम्भावितमरणोऽपि जन्तुः प्राण्यमरो मरणरहितो भवेत् ॥ २१ ॥
क्षिप्त्वा क्षीरोदधौ सर्वा वीरुत्तृणलतौषधीः ।
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ॥ २२ ॥
पदरत्नावली
नेत्रं रज्जुम् । ‘रज्जौ चक्षुषि नेत्रं स्याज्जटायामपि नेतरत्’ इत्यभिधानम्
॥ २२ ॥
सत्यधर्मीया
वीरुत्तृणलतौषधीः क्षीरोदधौ क्षिप्त्वा प्रक्षिप्य । बीजावापरूपं प्रक्षेपणम् । विना किञ्चिद्बीजं कार्यानिष्पादात् । वीरुत्तृणादेः सहकारिभगवदिच्छासमवधानाद्दावदहनदग्ध-वेत्रबीजानां कदलीकाण्डजनकत्ववद्विचित्रफलोपलम्भकत्वोपपत्तेस्तद्युक्तमिति ज्ञेयम् । नेत्रं मन्थनरज्जुः । ‘नेत्रं मन्थगुणे वस्त्रे तरुमूले विलोचन’ इति विश्वः ॥ २२ ॥
छलारी
मन्दरं पर्वतम् । नेत्रं रज्जुम् । रज्जौ च चक्षुषि नेत्रं स्यादित्यभिधानम् । वासुकिं तन्नामकं सर्पम् ॥ २२ ॥
सहायेन मया देवा निर्मथध्वमतन्द्रिताः ।
क्लेशभाजो भविष्यन्ति दैत्या यूयं फलग्रहाः ॥ २३ ॥
सत्यधर्मीया
परस्परं मार्गान्तरं यापयसि किं दयापयोध इत्यत आह ॥ मया सहायेन तद्रूपेणेति । सन्धिस्तन्मथनकरणे तदभिसन्धिरपि स्यादित्यत आह ॥ दैत्याः क्लेशभाजो दुःखपात्रं भविष्यन्तीति ॥ इतरानिष्टमेवास्मदिष्टं किमित्यत आचष्टे । यूयं फलग्रहाः पीयूषरूपफलस्य ग्रहो येषां ते तथा ॥ २३ ॥
छलारी
ननु दैत्यैः सह मथने तेऽप्यमृतपानेनामराः स्युः । तत्राह ॥ क्लेशभाज इति
॥ २३ ॥
लिङ्घेरी
हे देवाः । यूयं क्षीरस्योदधौ समुद्रे सर्ववीरुधो भूम्यामेव प्रसरंत्यो लतातृणानि लतावृक्षाद्यारूढवल्लीः क्षिप्त्वा मन्दरं पर्वतं मंथानं मथनसाधनकाष्टसंमितं कृत्वा वासुकिं सर्पं नेत्रं मथनकाष्टपरिवेष्टनरज्जुं कृत्वा दैत्यैः सहातन्द्रिता आलस्यरहिताः सन्तः क्षीरोदधिं निर्मथध्वम् । तत्र दैत्याः क्लेशभाजो भविष्यन्ति यूयं तु मया सहायेन निमित्तेन फलग्रहाः फलभागिनो भविष्यथ
॥ २२-२३ ॥
यूयं तदनुमोदध्वं यदिच्छन्त्यसुराः सुराः ।
न संरम्भेण सिद्ध्यन्ति सर्वेऽर्थाः सान्त्वया यथा ॥ २४ ॥
पदरत्नावली
इच्छन्ति, कार्यसिद्धिमिति शेषः । सन्धानं वा । संरम्भेण द्वेषेण कोपेन वा । सान्त्वया क्रियया ॥ २४ ॥
सत्यधर्मीया
हे सुराः । असुरा यदिच्छन्ति तदेवानुमोदध्वम् । तदनुमोदने युक्तिमाह । सान्त्वया समाधानक्रियया यथाऽर्था सिद्ध्यन्ति तथाऽकाले संरम्भेण आरभट्या न सिद्ध्यन्ति । अतः सोऽसमयत्वान्न कार्य इति ॥ २४ ॥
छलारी
बलिभिः सहकारिभिः साध्या येऽर्थास्तदनुसारिणं विना न सिध्यतीति कृत्वा सामादिकमुपदिशति ॥ यूयमिति द्वाभ्याम् । असुरा मथनेन समुद्रोत्पन्नवस्तुषु यदिच्छन्ति । हे सुराः । यूयं तदनुमोदध्वमङ्गीकुरुध्वम् । संरम्भेण कोपेन । सांत्वया मार्गेण यथा सिद्ध्यन्ति
॥ २४ ॥
लिङ्घेरी
हे सुराः । यूयम् असुरा यदिच्छन्ति तदनुमोदध्वम् । सर्वेऽर्थाः पुरुषार्थाः सान्त्वया समाधानेन यथा सिद्ध्यन्ति न तथा संरम्भेणासमाधानेन सिद्ध्यन्ति ॥ २४ ॥
न भेतव्यं कालकूटाद् विषाज्जलधिसम्भवात् ।
लोभः कार्यो न वो जातु रोषः कामस्तु वस्तुषु ॥ २५ ॥
पदरत्नावली
वो युष्मभिः ॥ २५ ॥
सत्यधर्मीया
भावि चोक्त्वा जाग्रद्भिर्भवद्भिर्भाव्यमिति निर्जरान्विजरांस्तनोति ॥ न भेतव्यमिति ॥ जलधिः प्राक् क्षीराब्धिः । यथोक्तमादिपर्वणि । ततस्तस्य समुद्रस्य तज्जात-मुदकं पयः । रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्धृतमिति । कालकूटात्तन्नामकाद्युष्माभिर्जात्वपि रोषः कोपस्तेषु न कार्यः । येषु मथनोद्भूतेषु वस्तुषु कामस्तेषामिच्छा भवेत्तेषु लोभ आकाङ्क्षा न कार्य इत्यन्वयः । लोभो दीनता वा न कार्य इति वा ॥ २५ ॥
छलारी
तद्वो युष्माभिर्जातु कदाऽपि वस्तुषु मथनादुत्पन्नेषु काम इच्छा रोषः कोपः
॥ २५ ॥
लिङ्घेरी
हे सुराः । वो युष्माभिर्जलधिसंभवात्कालकूटाद्विषान्न भेतव्यम् । जातु कदाचिदपि समुद्रोत्पन्नवस्तुषु लोभो न कार्यः । रोषः–कोपः, कामस्तु–कामोऽपि न कार्यः
॥ २५ ॥
श्रीशुक उवाच–
इति देवान् समादिश्य भगवान् पुरुषोत्तमः ।
तेषामन्तर्दधे राजन् स्वच्छन्दगतिरीश्वरः ॥ २६ ॥
पदरत्नावली
तेषां पश्यताम् ॥ २६-२७ ॥
सत्यधर्मीया
स्वच्छन्दगतित्वं नासम्भवीति दर्शयितुमीश्वर इति विपरीतहेतुहेतुमद्भावः
॥ २६ ॥
छलारी
स्वच्छन्दगतिरिच्छानुसारप्रवृत्तिः ॥ २६ ॥
लिङ्घेरी
हे राजन् । भगवान्पुरुषोत्तमो देवान्प्रतीति सामादिश्याज्ञाप्य यतः स्वयं स्वच्छन्दगतिः स्वेच्छाधीनप्रवृत्तिरत ईश्वरो हरिस्तेषां देवानामन्तर्दधेऽदृश्योऽभूत् ॥ २६ ॥
अथ तस्मै भगवते नमस्कृत्य पितामहः ।
भवश्च जग्मतुः स्वं स्वं धाम चेयुर्बलिं सुराः ॥ २७ ॥
सत्यधर्मीया
तस्मै अन्तर्धानमीयुषे । स्वं सत्यलोकम् । स्वं कैलासं च । सुरा इतरे
॥ २७ ॥
छलारी
सुरास्तु बलिमुपेयुर्जग्मुः । गम्लृ गतौ लिट् ॥ २७ ॥
लिङ्घेरी
अथ हरेरदर्शनानन्तरं पितामहश्चतुर्मुखो भवो रुद्रश्च तस्मै भगवते नारायणाय नमस्कृत्य स्वं स्वं धाम सत्यलोककैलासरूपमाश्रयं जग्मतुः । सुराश्चेन्द्रादयो बलिमीयुः प्राप्ताः
॥२७ ॥
दृष्ट्वाऽरीनप्यसम्पन्नान्१ जातक्षोभान्२ स्वनायकान्३ ।
न्यषेधद् दैत्यराडुच्चैः सन्धिविग्रहकालवित् ॥ २८ ॥
पदरत्नावली
क्ष्वेलो दर्पः सिंहनादो वा । स्वो नायको येषां ते तथा ॥ २८ ॥
सत्यधर्मीया
जातक्षोभान् सञ्चलच्छरीरान् । जातक्ष्वेलान् । जातः क्ष्वेलो दर्पः सिंहनादो वा येषां ते तथेति पाठान्तरेत्यर्थः । त्रिक्ष्विदास्नेहनमोहनयोरस्मादच् । क्ष्वेलते मोहयति । ‘क्ष्वेलोध्वनौ सिंहनादे च योषिति’ इति भानुः । अरीन् सुरान् असम्पन्नान् आयुधादिसम्पद्रहितान्दृष्ट्वाऽपि । स्वनायकान् । स्व आत्मा नायको येषां तान् । दैत्यराड्-बलिः । उच्चैरिति योग्यसर्वान्वयि । न्यषेधत् । निषेधः कुत इत्यत आह । सन्धिः समाधानं विग्रहो विरोधस्तयोर्यः कालस्तं वेत्तीति स तथा । असंयतानिति पाठः स्फुटार्थः । अरींस्तदरीन् । असुरानित्यप्यर्थः । आज्ञाऽनवज्ञाने निमित्तं स्वनायकान्दैत्यराडिति । स्वनाय-कानिति अरिसुरविशेषणं वा । सु अत्यन्तमनायकान्निःस्वामिकान् । अतो नैकतरव्यर्थतेति ज्ञेयम् ॥ २८ ॥
छलारी
दैत्यराट् बलिररीन्सुरान् असंयतानपि युद्धसामग्रीरहितानपि दृष्ट्वा जातक्षोभान् जातः क्षोभः कोपाटोपो येषां तान्स्वः नायको येषां तान् स्वभृत्यान्न्यषेधत् । शस्त्रादिकं परित्यज्यागच्छमानानपि सुरान्दृष्ट्वा जातकोपेन तन्निवारणे प्रयतमानान्स्वभृत्यान् सर्वेषामपि ज्ञानार्थमुच्चैर्ध्वनिना निवारयामासेति भावः । निवारणे हेतुः संधिविग्रहयोः कालं वेत्तीति स तथोक्त इति । सन्धिकालं विरोधिकालं च जानातीत्यर्थः ॥ २८ ॥
लिङ्घेरी
सन्धिविग्रहकालवित् सन्धानविरोधकालज्ञो दैत्यराड् बलिरथ स्वसमीपगमना-नन्तरं संपन्नान्स्वसमीपप्राप्तान् अरीन् शत्रून् देवान्दृष्ट्वा जातक्ष्वेलान् जातदर्पान् जनितसिंह-ध्वनींश्च स्वनायकान्स्वसेनानायकान् स्वः स्वयं नायकः स्वामी येषां ते तथा तान् स्वभृत्या-न्दैत्यान् दृष्ट्वोच्चैरत्यन्तं न्यषेधत्क्ष्वेलादि मा कुरुध्वमिति न्यवारयत् । दृष्ट्वाऽरीन्नप्यसंपन्नानिति पाठेऽसम्पन्नानैश्वर्यरहितानरीन्दृष्ट्वाऽपीति योजना । शेषं पूर्ववत् । ‘क्ष्वेलोदर्पे सिंहनादे आस्फोटे भुजसक्थिनोः’ इति मुक्तमाला ॥ २८ ॥
ते वैरोचनिमासीनं गुप्तं चासुरयूथपैः ।
श्रिया परमया जुष्टं जिताशेषमुपागमन् ॥ २९ ॥
सत्यधर्मीया
जिता अशेषाः स्वादयो येन स तम् ॥ २९ ॥
छलारी
वैरोचनिं विरोचनपुत्रं बलिम् । जितमशेषं त्रैलौक्यं येन तम् ॥ २९ ॥
लिङ्घेरी
ते इन्द्रादयो देवाः स्वसभायामासीनमुपविष्टं सुराणां यूथपैः समूहरक्षकैर्गुप्तं रक्षितं परमयोत्कृष्टया श्रिया संपदा जुष्टं सेवितम् । जिता अशेषाः सर्वलोका येन स तथा । तं वैरोचनिं विरोचनाख्यासुरसुतं बलिमुपागमन् ॥ २९ ॥
महेन्द्रः श्लक्ष्णया वाचा सान्त्वयित्वा महामतिः ।
अभ्यभाषत तत्सर्वं शिक्षितं पुरुषोत्तमात् ॥ ३० ॥
सत्यधर्मीया
यत्पुरुषोत्तमाच्छिक्षितं तत्सर्वं स्वहिंसकं प्रतीति वाऽभ्यभाषतेत्यन्वयः । एवं सर्वपदार्थवर्णनेनानुवृत्तिक्लेश इति ज्ञेयम् ॥ ३० ॥
छलारी
श्लक्ष्णया मधुरया । तत्सर्वममृतमथनादिकम् । शिक्षितमुपदिष्टम् ॥ ३० ॥
लिङ्घेरी
तत्र महेन्द्रः शचीपतिः पुरुषोत्तमाद्यत्स्वशिक्षितं तदेव सर्वमभ्यभाषत । यतः स्वयं महामतिरत एव श्लक्ष्णयाऽक्षरतः सूक्ष्मया मृदुभूतया च वाचा बल्यादीन्सांत्वयि-त्वाऽभ्यभाषत ॥ ३० ॥
तदरोचत१ दैत्यस्य तत्रान्ये येऽसुराधिपाः ।
शम्बरोऽरिष्टनेमिश्च ये च त्रिपुरवासिनः ॥ ३१ ॥
पदरत्नावली
तेऽसुराः । दैत्यस्य भृत्याः ॥ ३१ ॥
सत्यधर्मीया
तदरोचतेति पाङ्क्तः पाठः । आत्यन्तिकप्रीयमाणत्वाभावात् शैषिकी षष्ठी तस्येति । तत्र सभायां येऽसुराधिपा अन्ये ये च शम्बरोऽरिष्टनेमिस्त्रिपुरवासिनश्च तेषामप्यरोचत सम्मतमभूत् । अन्वरोचन्तेति पाठे दैत्यस्य भृत्या इत्यन्वये मुख्यायारोचतेति मुखतो न प्रतीयते । आर्थिकः सोऽर्थ इति भाति ॥ ३१ ॥
छलारी
तन्महेन्द्राद्दैत्यस्य बलेररोचन्त । तत्र समीपे येऽन्येऽसुराधिपाः पौलोमादयः शम्बरादयश्च ये च त्रिपुरवासिनस्तेषामप्यरोचन्तेत्यन्वयः । महेन्द्रोक्तं बल्यादयः सर्वेऽप्यङ्गी-कुर्वन्निति भावः ॥ ३१ ॥
लिङ्घेरी
दैत्यस्य बलेर्भृत्यास्तथा तत्र सभायामुपविष्टशंबरारिष्टनेमित्रिपुरवासिप्रभृतयो येऽन्येऽसुराधिपास्ते सर्वे तन्महेन्द्रोक्तमन्वरोचन्त प्रीत्याऽङ्गीचक्रुः ॥ ३१ ॥
ततो देवासुराः कृत्वा संविदं कृतसौहृदाः ।
उद्यमं परमं चक्रुरमृतार्थे परन्तप ॥ ३२ ॥
पदरत्नावली
संविदं सन्धिलक्षणवार्ताम् ॥ ३२ ॥
सत्यधर्मीया
देवासुराः । अविरोधस्य तात्कालिकत्वादेषां शाश्वतिको विरोध इत्यनेन देवासुरमिति भावीति शङ्काऽनवकाशः । देवैः सहिताश्च तेऽसुराश्चेति वोत्तरपदलोपी समासः । संविदमेकान्तभाषणम् ॥ ३२ ॥
लिङ्घेरी
ततोऽङ्गीकारानन्तरं देवासुराः परस्परं कृतं सौहृदं स्नेहो यैस्ते तथा सन्तः संविदं ‘यूयं वयं च मिलित्वा समुद्रमथनं कुर्मः’ इति संकेतं कृत्वाऽमृतार्थे परममुद्यममुद्योगं चक्रुः । हे परन्तपेति शुकः परीक्षितं संबोधयति ॥ ३२ ॥
ततस्ते मन्दरगिरिमञ्जसोत्पाट्य दुर्मदाः ।
नदन्त उदधिं निन्युः शक्ताः परिघबाहवः ॥ ३३ ॥
पदरत्नावली
दुर्मदा दुःसहमदाः ॥ ३३ ॥
सत्यधर्मीया
दुर्मदा अचलतोलनातुलावलेपसहिताः । नदन्तः सिंहनादं कुर्वंतो नदवत्समुद्रवदाचरन्तः । सङ्घबाहुल्यादिति भावः ।
तमुद्धर्तुमशक्ता वै सर्वे देवगणास्तदा ।
विष्णुमभ्येत्य ब्रह्माणं चेदमब्रुवन् ।
भवन्तावत्र कुर्वीतां बुद्धिर्नैश्रेयसीं पराम् ।
मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः ।
तथेति चाब्रवीद्विष्णुर्ब्रह्मणा परिनोदितः ।
नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान् ।
अथ पर्वतराजानं तमनन्तो महाबलः ।
उज्जहार बलाद्ब्रह्मन् सवनं सवनोकसम् ।
इत्यादिपर्वोक्तेः कथमत्र शक्ता इत्याद्युक्तिरिति चेन्न । अत्र प्रथमतो वक्तव्यस्य भगव-दुत्कर्तनस्य गरुडस्थापनादेर्मध्येऽध्वपुनर्वहनं तदुत्कलनकरतो भरतश्च चूर्णतेत्यादिकथानु-सन्धानेनाविरोधसम्भवात् । उक्तं चाचार्यैः ।
वृन्दारका मन्दरमेत्य बाहुभिर्न शेकुरुद्धर्तुमिमे समेताः ।
तदा त्वया नित्यबलत्वहेतुतो योऽनन्तनामा गरुडस्तदंसके ।
उत्पाट््य चैकेन करेण मन्दरो निधापितस्तं स सह त्वयाऽवहत् ।
पुनः परीक्षद्भिरसौ महागिरिः सहासुरैरुन्नमतस्तदंसतः ।
व्यचूर्णयत्तानखिलान्पुनश्च ते त्वदीक्षया पूर्ववदुत्थिताः प्रभो ।
पुनश्च वामेन करेण वीश्वरे निधाय तं स्कन्धगतस्त्वमस्य ।
अगाः पयोब्धिमिति ॥ ३३ ॥
लिङ्घेरी
अन्येषां दुःशकः प्राप्तुमशक्यो मदो येषां ते दुर्मदास्ते देवासुरास्ततः संकेतानन्तरं मन्दरगिरिमंजसा सम्यगनायासेनोत्पाट््य यतः परिघवद्दृढतरबाहवः शक्ताश्चातस्तं गृहीत्वाऽपि नदन्तः सन्त उदधिं क्षीरसमुद्रं निन्युः प्रापितवन्तः ॥ ३३ ॥
दूरभारोद्वहश्रान्ताः शक्रवैरोचनादयः ।
अपारयन्तस्तं वोढुं विवशा विजहुः पथि ॥ ३४ ॥
पदरत्नावली
दूरदेशं प्रति भारो भरणं यस्य स दूरभारो गिरिस्तस्योद्वहो वहनं तेन श्रान्ताः । अपारयन्तः पारं गन्तुमशक्नुवन्तः ॥ ३४ ॥
सत्यधर्मीया
दूरं भारोद्वहो भारवहनं तेन श्रान्ताः श्रमं प्राप्ताः । अपारयन्तः क्लृप्तस्थानेऽवस्थापयितुं वोढुमशक्नुवानाः । पथि विजहुस्तत्यजुः । पारयन्तीति इण् गतौ पारयन्तस्ते न भवन्तीत्यपारयन्तः ॥ ३४ ॥
छलारी
दूरदेशे प्रतिभारभूतस्य गिरेरुद्वहनेन श्रान्ता अपारयन्तः पारं गन्तुमशक्नुवन्तः सन्तो विजह्रुरपातयत् ॥ ३४ ॥
लिङ्घेरी
शक्रवैरोचनादयो देवेन्द्रबलिप्रभृतयो दूरं भारोद्वहन भारभूतमन्दरपर्वतधारणेन श्रान्ताः सन्तोऽत एव विवशाः परवशाः सन्तस्तं मन्दरं वोढुं धर्तुमपारयन्तोऽसमर्थाः सन्तः पथि मार्गे तं मन्दरं जहुस्त्यक्तवन्तः ॥ ३४ ॥
निपतन् सगिरिस्तावद् बहूनमरदानवान् ।
चूर्णयामास महता भारेण कनकाचलः ॥ ३५ ॥
सत्यधर्मीया
कनकाचलः सुवर्णगिरिः । निपतन्हस्तच्युतो यावत्तावन्महता स्वभारेणा-मरदानवान्देवदैत्यांश्चूर्णयामास । यः कोऽपि धार्ष्ण्यात्सगिरिर्धृतपर्वतः सोऽपि पतन्स्वपार्श्ववर्तिनः कांश्चिदमरदानवांश्चूर्णयामासेत्यन्वयः । अतो न गिरिपदेन भाव्यं कनकाचल इति वचनादिति निरस्तम् ॥ ३५ ॥
छलारी
चूर्णने हेतुमाह ॥ महता भारेणेति ॥ बहुभाररूपत्वादित्यर्थः ॥ ३५ ॥
लिङ्घेरी
कनकाचलः स गिरिर्मन्दरस्तावत्तदा निपतन्सन् महता भारेण निमित्तेन बहूनमरदानवांश्चूर्णयामास ॥ ३५ ॥
तांस्तथा भग्नमनसो भग्नबाहूरुकन्धरान् ।
विज्ञाय भगवांस्तत्र बभूव गरुडध्वजः ॥ ३६ ॥
पदरत्नावली
नाम्ना गरुडध्वज इति रूपधारी बभूव ॥ ३६ ॥
सत्यधर्मीया
अत्र गिरिपातस्थले । भगवान् गरुडध्वजो बभूव प्रादुर्बभूव ॥ ३६ ॥
छलारी
भगवान् गरुढध्वज इति नामा सन् प्रादुर्बभूव ॥ ३६ ॥
लिङ्घेरी
तत्र तदा भगवान्नारायणस्तानमरदानवांस्तथा तेन प्रकारेण भग्नबाहूरुकंधरान् अत एव कर्तव्ये भग्नमनसश्चाज्ञाय नाम्ना गरुडध्वज इति रूपवानाविर्बभूव ॥ ३६ ॥
गिरिपातविनिष्पिष्टान् विलोक्यामरदानवान् ।
ईक्षया जीवयामास निर्जरान् निर्व्रणान् यथा ॥ ३७ ॥
सत्यधर्मीया
हे अमर द्रौण्यस्त्रमरणशून्य । एतेन हर्यनुग्रहमहिमा त्वदनुभूतः । ‘द्रौण्यस्त्रविप्लुष्टमिदं मदङ्गं सन्तानबीजं कुरुपाण्डवानाम् । जुगोप कुक्षिं गत आत्तचक्र’ इति त्वदुक्तेरेवेति द्योत्यते । परीक्षित् । दानवान्निर्जरान्देवांश्च यथा पूर्वं तथाए सम्यगिति वा । ईक्षयाऽऽलोकमात्रेण निर्व्रणान्कृत्वोज्जीवयामास । अमरदानवान् जरारहितान्निर्व्रणान्निःक्षतानिति केचिद्वर्णयन्ति ॥ ३७ ॥
छलारी
ईक्षया स्वदर्शनेन निर्जरान् जरारहितान्निर्व्रणान् क्षतरहितान् यथा सम्यगित्यर्थः
॥ ३७ ॥
लिङ्घेरी
स गरुडध्वजो गिरिपातविनिष्पिष्टानमरदानवान्विलोक्येक्षया स्वकृपादृष्ट्या जीवयामास । तत्रापि निर्जरान्देवान्यथा पूर्वं व्रणरहितास्तथा विव्रणान् पर्वताभिघातजक्षत-तच्चिन्हरहितान् । चकारेति शेषः ॥ ३७ ॥
गिरिं चारोप्य गरुडे हस्तेनैकेन लीलया ।
आरुह्य प्रययावब्धिं सुरासुरगणैर्वृतः ॥ ३८ ॥
सत्यधर्मीया
गिरिमारोप्य स्वयं चारुह्य ॥ ३८ ॥
छलारी
गिरिं चेति ॥ चशब्दः समुच्चये । स्वयं गरुडे आरुह्य ॥ ३८ ॥
लिङ्घेरी
गरुडध्वजो गिरिं मन्दरमेकेन हस्तेन लीलयाऽनायासेन गरुडे आरोप्य स्थापयित्वा स्वयमप्यारुह्य सुरासुरगणैर्वृतः सन् अब्धिं क्षीरसमुद्रं प्रति प्रययावगच्छत्
॥ ३८ ॥
अवरोप्य गिरिं स्कन्धात् सुपर्णः पततां वरः ।
ययौ जलान्त उत्सृज्य हरिणा स विसर्जितः ॥ ३९ ॥
॥ इति श्रीमद्भागवतेऽष्टमस्कन्धे षष्ठोऽध्यायः ॥
तात्पर्यम्
‘अनन्तोढो मन्दरस्तु यदा वैवस्वतान्तरम् ।
अमृतार्थं सुपर्णोढो रैवतस्यान्तरे मनोः’ इति ब्राह्मे ॥ ३९ ॥
पदरत्नावली
सुपर्णो गरुडः जलान्ते जलमध्ये । अत्र सुपर्ण इति कथनेनेदं तात्पर्य-मवबोद्धव्यम् । वैवस्वतरैवतमन्वोरन्तरयोरमृतमथनमस्ति तत्र वैवस्वतमन्वन्तरेऽनन्तनाम्ना गरुडेनोढो गिरिः, सुपर्णनाम्नोढो रैवतमन्वन्तरे । ‘अनन्तोढो मन्दरस्तु यदा वैवस्वतान्तरम् । अमृतार्थे सुपर्णोढो रैवतस्यान्तरे मनोः ॥’ इत्यनेन निश्चयोक्तेरिति ॥ ३९ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायाम्
अष्टमस्कन्धे षष्ठोऽध्यायः ॥
सत्यधर्मीया
अवरोप्य गिरिमिति श्लोके पूर्वमारोप्य गरुड इति । अत्र च स्कन्धात्सुपर्ण इति वैचित्र्यमानुपूर्व्याः किं कृतमित्यत्रार्थविशेषमशेषसंविन्मानेनाह ॥ अनन्तोढ इति ॥ द्विवारं वारिनिधिमथनम् । वैवस्वतेऽन्तरे रैवतेऽन्तरे चेति । अमृतार्थं तत्प्राप्त्यर्थं वैवस्वतेऽन्तरे मन्दरोऽनन्तोढः । अनन्तश्च । योऽनन्तनामा गरुडस्तदंसक इत्याचार्यैर्विवृतत्वा-द्गरुडः । रैवतस्य मनोरन्तरे सुपर्णनामगरुडोढ इति । अतो नानन्तोढ इति ग्रन्थान्तरविरोध इव सुपर्णनामग्रहणासङ्गत्यं च ब्रह्माण्डवचनतः परिहृतेति ज्ञेयम् ॥ अथ मूलार्थः ॥ सुपर्णोऽ-नन्तनामा गरुडो हरिणा विसर्जितः कृतकार्यत्वाद्विनाऽमृतपानमजरामरणवरदानाच्च । कृतकार्यः गच्छेत्याज्ञप्तः । यद्यपि सति पतगेशे, ईशः सर्जने विषस्य वासुकिसमानयने च । तथाऽपि कृतकार्यस्य तस्य संमाननार्थं विससर्जेति तात्पर्यं ज्ञेयम् ॥ ३९ ॥
॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्याम् अष्टमस्कन्धे षष्ठोऽध्यायः ॥ ८-६ ॥
छलारी
पततां वरः पक्षिश्रेष्ठः सुपर्णसंज्ञः । गिरिं स्कन्धादवरोप्य जलान्ते समुद्र-जलमध्ये उत्सृज्य प्रक्षिप्य । हरिणा विसर्जितः । इतः परं त्वं गच्छेति प्रस्थापित इत्यर्थः । सुपर्णे तत्र स्थिते वासुकेरागमनाभावोऽत्र गरुडेति वक्तव्ये सुपर्ण इति विशेषेण संज्ञाग्रहणेनायमर्थः सूचितः । चाक्षुषमन्वन्तरेऽमृतार्थं मथनं भवति । तत्र वैवस्वतमन्वन्तरेऽनन्तनाम्ना सुपर्णेन मन्दरः पर्वत ऊढश्चाक्षुषमन्वन्तरे सुपर्णनाम्ना गरुडेनोढ इति । ‘अनन्तोढो मन्दरस्तु यदा वैवस्वतान्तरम् । अमृतार्थे सुपर्णोढ’ इति तात्पर्योदाहृतवचनात् ॥ ३९ ॥
॥ इति छलारीशेषाचार्यकृतायां भागवतटिप्पण्याम् अष्टमस्कन्धे षष्ठोऽध्यायः ॥ ८-६ ॥
लिङ्घेरी
पततां पतनं कुर्वतां पक्षीणां श्रेष्ठः सुपर्णनामा गरुडः स्वस्य स्कन्धाद्गिरिं मन्दरमवरोप्यावतारयित्वा जलान्ते क्षीरसमुद्रोदकमध्ये उत्सृज्य हरिणा गरुडध्वजेन विसर्जितस्त्वं गच्छेति त्यक्तः सन् स्वस्थानं ययौ । ‘अनन्तोढो मन्दरस्तु यदा वैवस्वतेऽन्तरे । अमृतार्थे सुपर्णोढो रैवतस्यान्तरे मनो’ इत्यत्र तात्पर्यसूचनाय सुपर्ण इत्युक्तम् । एवं च वैवस्वतमन्वन्तर इव रैवतमन्वन्तरेऽप्यमृतार्थं क्षीरसमुद्रमथनं कृतम् । तत्र रैवतमन्वन्तरे सुपर्णनामकेन गरुडेन मन्दरो धृतः । वैवस्वतान्तरे त्वनन्तनाम्ना गरुडेनेति विशेषो ज्ञातव्यः ॥ ३९ ॥
**॥ इति श्रीलिङ्घेरी श्रीनिवासाचार्यकृतायां भागवतटिप्पण्यां **
अष्टमस्कन्धे षष्ठोऽध्यायः ॥ ८-६ ॥