राजन्नुदितमेतत् ते हरेः कर्माघनाशनम्
॥ अथ पञ्चमोऽध्यायः ॥
श्रीशुक उवाच–
राजन्नुदितमेतत् ते हरेः कर्माघनाशनम् ।
गजेन्द्रमोक्षणं पुण्यं रैवतं त्वन्तरं शृणु ॥ १ ॥
पदरत्नावली
भक्त्या स्तुवतः पुरुषस्यापि प्रसन्नो भवति हरिरित्ययमर्थः प्रतिपाद्य-तेऽस्मिन्नध्याये । तत्रादौ क्रमप्राप्तमन्वन्तराधिपकथां प्रसञ्जयति– राजन्निति ॥ रेवतस्य विद्यमानं रैवतम् ॥ १ ॥
सत्यधर्मीया
अधुनाऽपि मधुनाथं स्तुवतो भक्त्याऽधिकृतः प्रसत्तिस्तस्य भवतीति परमप्रमेयं निरूपयंस्तत्रादौ क्रमप्राप्तां मन्वन्तरकथां कथयति ॥ राजन्निति ॥ राजन्निति प्रथमतः सम्बोधयन् बोधयति नेन्द्रद्युम्नवद्भव भव च जाग्रदितीति ज्ञेयम् । रैवतं रेवतस्येदं रैवतम् । विशेषेणान्तरं शृृणु ॥ १ ॥
छलारी
इदानीं क्रमात्प्राप्तमन्वन्तराधिपकथां प्रसंजयति ॥ राजन्निति ॥ रैवतमन्तरं रैवतमन्वन्तरम् ॥ १ ॥
लिङ्घेरी
अत्रापि भगवानभिवृद्धभक्त्युदयाय ब्रह्मादिस्तुतात्प्रसन्नादजितनाम्नो नारायणा-द्ब्रह्मादीनामिष्टप्राप्तिमाह । तत्रादौ क्रमप्राप्तपञ्चममनुस्थितिं शुकः परीक्षितेऽविस्मरणाय पूर्व-कथानुवादपूर्वमाह ॥ राजन्नित्यादिना ॥ हे राजन् । अघानां पापानां नाशकं पुण्यं पुण्यकरम् । एतद्गजेन्द्रमोक्षणं ते तवोदितम् । इतः परं त्वं मयोच्यमानं रैवतमन्वन्तरं शृृणु ॥ १ ॥
पञ्चमो रैवतो नाम मनुस्तापससोदरः ।
बल१विन्ध्यादयस्तस्य सुता अर्जुनपूर्वकाः ॥ २ ॥
पदरत्नावली
बलविन्ध्यावादी येषां ते तथा । अर्जुनः पूर्वः प्रधानो येषां ते तथा
॥ २ ॥
सत्यधर्मीया
तापससोदरस्तापसेन सह सदृशं तुल्यम् । ‘सहसाकल्यसादृश्य-यौगपद्यसमृद्धिषु’ इति विश्वः । उदरं यस्य सः । वोपसर्जनस्येति सभावः । केचित्तु सहस्य सोऽन्यतरस्यामिति पाक्षिके सभावे सोदर इति जगुः । तन्न । सूत्रस्यैव तादृशस्याभावात् । बलश्च विंध्यश्चेत्येतावादी येषां ते तथा । बलिश्चेति पाठेऽपि बलीयान् । ते चार्जुनपूर्वका अर्जुनस्तन्नामा पूर्वकः प्रधानो वाऽग्रजो वा येषां ते तथा ॥ २ ॥
छलारी
तापसस्य मनोः सोदरो भ्राता बलविंध्यावादी येषां ते तथा । अर्जुनः पूर्वः प्रधानो येषां ते तथा ॥ २ ॥
लिङ्घेरी
तापसश्चतुर्थो मनुस्तस्य सोदरो नाम्ना रैवतः पञ्चमो मनुरभवत् । तस्य रैवतस्य बलिविंध्यादयोऽर्जुनप्रभृतयश्च सुता आसन् ॥ २ ॥
विभुरिन्द्रः सुरगणा राजन् भूतरयादयः ।
हिरण्यरोमा वेदशिरा ऊर्ध्वबाह्वादयो द्विजाः ॥ ३ ॥
पदरत्नावली
विभुर्विभुनामा हरिः, द्विजाः सप्तर्षयः ॥ ३ ॥
सत्यधर्मीया
विभुर्नाम्ना । हिरण्यरोमा वेदशिराश्चेति द्वौ । ऊर्ध्वबाह्वादयश्च द्विजाः । वेदश्रीरित्यपि वेदशिरोनाम । ऊर्ध्वजानुरिति चोर्ध्वबाहोः । यथोक्तं मात्स्ये- ‘हिरण्यरोमा वेदश्रीरूर्ध्वजानुस्तथाऽपरः’ इति ॥ ३ ॥
छलारी
तदाऽश्विनोर्मध्ये दस्रो विभुस्तन्नामेन्द्र आसीत् । द्विजाः सप्तर्षयः ॥ ३ ॥
लिङ्घेरी
रैवतेऽन्तरे नाम्ना विभुर्विष्णुरिन्द्रो भूतरयादयः सुरगणाः । हिरण्यरोमा, वेदशिराः, उर्ध्वबाहुनामप्रभृतयो द्विजाः सप्तर्षयः ॥ ३ ॥
पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठैः सुरसत्तमैः ।
तयोः स्वकलया जज्ञे वैकुण्ठो भगवान् स्वयम् ॥ ४ ॥
पदरत्नावली
विकुण्ठायाः पुत्रो वैकुण्ठः । तयोर्विकुण्ठाशुभ्रयोः । कलया अंशेन ॥ ४ ॥
सत्यधर्मीया
शुभ्रस्त्वेतत्सप्तर्ष्यन्यतमोऽन्यो वैतन्मन्वन्तरभव ऋषिर्वा । तस्य पत्नी विकुण्ठा । तयोर्वैकुण्ठैः स्वावरजतया तज्जातत्वेन तन्नामभिरमरश्रेष्ठैः सह जज्ञे । स्वकलया कलयांशेन । जननमात्रे सहभावो न तु कलायामिति ज्ञेयम् । विकुण्ठाया अपत्यं वैकुण्ठः । शिवाद्यण् ठगपवादेनेति ज्ञेयम् ॥ ४ ॥
छलारी
शुभ्रस्य शुभ्रनामकस्य ऋषेर्विकुण्ठानाम्नी पत्न््नयासीत् । तयोः शुभ्रविकुण्ठयो-र्विकुण्ठापुत्रत्वेन वैकुण्ठैर्देवश्रेष्ठैः सह विशेषो भगवान् विष्णुः स्वयं साक्षात्कलयांऽशेन विकुण्ठायाः पुत्रो वैकुण्ठस्तन्नामा सन् जज्ञे ॥ ४ ॥
लिङ्घेरी
शुभ्रस्य ऋषेर्विकुंठाख्यपत्न््नयभूत् । तयोर्विकुण्ठाशुभ्रयोः स्वयं साक्षाद्भगवा-न्विष्णुर्नाम्ना वैकुण्ठैः सुरसत्तमैर्देवोत्तमैः सह स्वकलया स्वांशेन नाम्ना वैकुण्ठः सन् जज्ञे प्रादुरभूत्
॥ ४ ॥
वैकुण्ठः कल्पितो येन लोको लोकनमस्कृतः ।
रमया प्रार्थ्यमानेन देव्या तत्प्रियकाम्यया ॥ ५ ॥
सत्यधर्मीया
तस्य कर्माह ॥ वैकुण्ठ इति ॥ तस्येदमित्यण् । कुतो लोको लोकोत्तरेण रचित इत्यत आह ॥ रमयेति ॥ तत्प्रियकाम्यया रमाप्रीतीच्छया । प्रियशब्दात्काम्यच्चेति काम्यच् प्रत्ययान्तादप्रत्यय इत्यकारप्रत्यये टापि रूपम् ॥ ५ ॥
छलारी
अवतारप्रयोजनमाह ॥ वैकुण्ठ इति ॥ येन वैकुण्ठेन तत्प्रियकाम्यया तस्या लक्ष्म्याः प्रियचिकीर्षया ॥ ५ ॥
लिङ्घेरी
रमया लक्ष्म्या प्रार्थ्यमानेन येन वैकुण्ठनाम्ना हरिणा तत्प्रियकाम्यया श्रीदेवीष्ट-करणेच्छया लोकैर्जनैर्नमस्कृतो वैकुण्ठलोकः कल्पितो निर्मितः ॥ ५ ॥
तस्यानुभावः कथितो गुणाश्च परमोदयाः ।
भौमान् रेणून् स विममे यो विष्णोर्वर्णयेद् गुणान् ॥ ६ ॥
पदरत्नावली
भौमान् रेणून् पृथ्वीरजांसि । विममे मानं संख्यां करोति ॥ ६ ॥
सत्यधर्मीया
तस्य वैकुण्ठस्यानुभावो माहात्म्यं कथितः । अथ ते मुनयो दृष्ट्वा नयनानन्दभाजनम् । वैकुण्ठं तदधिष्ठानं वैकुण्ठं च स्वयं प्रभुमित्यादिना । गुणाः परमोदयाः । परम उदयः समृद्विर्येषां ते तथा कथिता इति सदावर्तितमन्वेति । किं सामस्त्येन कथिता इत्यत आह ॥ य इति ॥ यो ज्ञानी ब्रह्मा स । भौमान् भूमेरिमे भौमास्तान्रेणून्धूलीर्विममे गणयेत् । विष्णोर्गुणांस्तु यः को वर्णयेत् । आनन्त्यान्न कोऽपि समर्थः । यच्छब्दः किंशब्दार्थे । यत-श्चोदेति सूर्य इत्यादेर्यः क इति सम्भवति । यथोक्तं द्वितीयतात्पर्ये । यच्छब्दः प्रश्न इत्यादि । ‘विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि’ इत्यादिश्रुतेः ॥ ६ ॥
छलारी
तस्य वैकुण्ठस्यानुभावो महिमा गुणाश्च ब्रह्मण्यादयः परमोदया महासमृद्धा याश्च कथितास्तृतीयादिषु स्कन्धेषु । यः सर्वसत्वेन प्रसिद्धो ब्रह्मा । भूमान् रेणून् पृथिवीरजांसि विममे गण्यात् । परिच्छिन्नत्वात् । विष्णोर्गुणांस्तु यः को वर्णयेत् साकल्येन वदेन् न कोऽपि । अपरिच्छिन्नत्वादिति भावः ॥ ६ ॥
लिङ्घेरी
तस्य वैकुण्ठाख्यस्य हरेरनुभावः सामर्थ्यलक्षणो महिमा गुणाश्च ज्ञानानन्द-स्वातन्त्र्यादिरूपाः शुभधर्मा अपि वक्तृश्रोतॄणां परमोदया उत्तमैश्वर्याद्यभिवृद्धिप्रदाः । ‘न कर्मणा लिप्यते पापकेन’ । ‘विज्ञानमानन्दं ब्रह्म’ । ‘आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चनेति’ । ‘एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीयान्’ । ‘यो वेद निहितं गुहायाम्’ । ‘सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता’ । ‘मन्मना भव । मामेवैष्यसि’ इत्यादि श्रुति-स्मृतीषु कथिताः । तर्हि तान् गुणान्मे वदस्वेत्यत आह । यो गुणान् वर्णयेत्स भौमान् भूमिसम्बन्धिनः रेणून् विममे संख्यातुं समर्थः स्यात् । यथा भूरजसां संख्यायां समर्थो नास्ति तथा विष्णोर्गुणानामपीति । अनेन मय्यनन्तगुण इत्यादिना प्रमापितं विष्णोरनन्तगुणत्वं प्रकटि-तम् । श्रूयते चैवम् । ‘विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि’ इत्यादि
॥ ६ ॥
षष्ठश्च चक्षुषः पुत्रश्चाक्षुषो नाम वै मनुः ।
पुरुः१ पुरुषसुद्युम्नप्रमुखाश्चाक्षुषात्मजाः ॥ ७ ॥
पदरत्नावली
पुत्राः, उच्यन्त इति शेषः । चाक्षुषात्मजा पुरुषादय इत्यन्वयः ॥ ७ ॥
सत्यधर्मीया
चक्षुषस्तन्नाम्नो मुनेः पुत्रस्ततश्चाक्षुषः । षष्ठो मनुरित्यन्वयः । पुरुःपुरुष-सुद्युम्नप्रमुखाश्चाक्षुषात्मजा इति पाङ्क्तः पाठः । पुत्रा इति क्वाचित्कः पाठः । पुरुषादयः पुत्रास्ते च न चानौरसाः किन्तु साक्षादिति वक्ति चाक्षुषात्मजा इत्यनेनेति किञ्चित्क्लेशिष्टो मार्गः । पुरुः पुरुषेति पाठे गतिः प्रागुक्तानुसन्धेया ॥ ७ ॥
छलारी
चाक्षुषमन्वन्तरं निरूपयति ॥ षष्ठश्चेति ॥ चक्षुषस्तन्नामकस्य ऋषेः पुरुषादयश्चाक्षुषस्य मनोरात्मजाः ॥ ७ ॥
लिङ्घेरी
चक्षुषः पुत्रोऽत एव चाक्षुषो नाम प्रसिद्धो यः सः षष्ठो मनुः । चाक्षुषात्मजा उच्यन्ते । पुरुषसुद्युम्नप्रमुखाश्चाक्षुषस्य पुत्रा वै प्रसिद्धाः ॥ ७ ॥
इन्द्रो मन्द्रद्युमस्तत्र१ देवा आप्यादयो गणाः ।
मुनयस्तत्र वैराजहरिमद्वीरकादयः ॥ ८ ॥
पदरत्नावली
अत्रादिशब्दार्थो ग्रन्थान्तरादवगन्तव्यः ॥ ८ ॥
सत्यधर्मीया
इन्द्रश्च मन्द्रद्युम आप्यादयो गणा देवाः । ‘चाक्षुषस्यान्तरे देवा लेखानामपरिश्रुताः । ऋजवोऽथ ऋभाद्याश्च परिसूता दिवौकसः । चाक्षुषस्यान्तरे प्रोक्ता देवानां पञ्चयोनय ॥’ इति मात्स्योक्तेराप्योऽप्येतन्मध्यस्थऋभाद्येक इति ध्येयम् । अत एव गणा इति शोभते । मन्द्रद्युम्न इति न स्वरसम् । छन्दश्छेदात् । मूलकोशेष्वदर्शनाच्च । तत्र तन्मन्वन्तरे वैराजहरिमद्वीरकादयो मुनयोऽभवन् । वैराजन्निति लेखकप्रमादः । वैराजस्येत्यनुवादस्वारस्यात्
॥ ८ ॥
लिङ्घेरी
हे राजन् तत्र चाक्षुषेऽन्तरे मन्द्रद्युमनामेन्द्रः । आप्यादयो गणा देवा । हविष्मद्वीरकादयो मुनयः सप्तर्षयो वै प्रसिद्धाः ॥ ८ ॥
तत्रापि देवः सम्भूत्यां वैराजस्याभवत् सुतः ।
अजितो नाम भगवानंशेन जगतः पतिः ॥ ९ ॥
सत्यधर्मीया
वैराजस्यर्षेः सम्भूत्यां तन्नाम्नयां तद्भार्यायां जगतः पतिर्भगवान्देवोंऽशेन नाम्नाऽजितः सन् सुतोऽभवदित्यन्वयः ॥ ९ ॥
छलारी
तथा चाक्षुषमन्वन्तरेऽपि वैराजस्य तन्नामकस्य सम्भूत्यां तन्नाम्नयां पत्न््नयाम् अजितो नामाऽजित इति ख्यातः सन् अंशेन स्वकलया ॥ ९ ॥
लिङ्घेरी
तत्रापि चाक्षुषमन्वन्तरेऽपि जगतः पतिर्भगवान्विष्णुर्नाम्ना वैराजस्य ऋषेः सम्भूतिनाम्नयां भार्यायाम् । अंशेनाजितो नाम सुतोऽभवत् ॥ ९ ॥
पयोब्धिं येन निर्मथ्य सुराणां साधिता सुधा ।
भ्रममाणोऽम्भसि धृतः कूर्मरूपेण मन्दरः ॥ १० ॥
सत्यधर्मीया
येनाजितेन पयोब्धिं निर्मथ्य सुराणां सुधा साधिता । तत्कथं साधन-मित्यतो बोधयति ॥ भ्रमेति ॥ अजितेनैव कूर्मरूपं गृहीतवताऽम्भसि भ्रममाणोऽन्तर्मज्जन्मन्दरः पृष्ठे धृत इति च सुधा साधितेत्यर्थः । हे गिरे । त्वं यथेच्छं भ्रम चल । अन्तर्गच्छामि किल । कथमिदं भ्रमणं ममेति न वदेत्याह ॥ मा अणेति ॥ नान्तराण गच्छेति । उपायस्तत्र क इत्यत आह ॥ कूर्मरूपेण मयेति । पृष्ठे धृतो मन्दरस्त्वम्, उम्भसि पूरयसि कार्यं पर्यवसाय-यसीत्यर्थः । इति निर्मथ्यालोच्य सुधा साधितेत्यप्यन्वयः । भ्रममाण इति कथमिति शङ्कायां व्यत्ययश्चान्द्रादिर्वेति चोत्तरायासो नेति ज्ञेयम् ॥ १० ॥
छलारी
अवतारप्रयोजनमाह ॥ पयोब्धिमिति ॥ येनाजितनाम्ना हरिणा धृतः स्वपृष्टे तेनैव हरिणा कूर्मरूपेण कूर्मावतारेण मन्दरगिरिः ॥ १० ॥
लिङ्घेरी
येनाजितेन पयोब्धिं क्षीरसमुद्रं निर्मथ्य सुराणां सुधाऽमृतं साधिता प्रापितम् । कूर्मरूपेण येनाजितेनांभसि क्षीरसमुद्रोदके भ्रममाणः स्वस्थानात्परितोऽतिलंघ्य गच्छन्, तत्रापि विशेषतोऽधो गच्छन् मन्दरो धृतः, सोऽजितः सुतोऽभवदिति पूर्वेणान्वयः ॥ १० ॥
राजोवाच–
यथा भगवता ब्रह्मन् मथितः क्षीरसागरः ।
यदर्थं वा यतश्चान्द्रिं दधाराम्बुचरात्मना ॥ ११ ॥
पदरत्नावली
यथा कथम्, यतः कुतः । अम्बुचरात्मना कूर्मरूपेण ॥ ११ ॥
सत्यधर्मीया
अब्धिमन्थनं कुतः । कथं च तत् । किं किमापुः सुरा मथित्वा मथित्वा । सर्वज्ञ सर्वं वदेति परीक्षित्पृच्छति ॥ यथेति ॥ यथा कथम् । यतः कुतः । यदर्थं किमर्थम् । अम्बुचरात्मना कूर्मरूपेण ॥ ११ ॥
छलारी
हरेः क्षीराब्धिमथनादिकं चरितं विशेषाकारेण श्रोतुं राजा पृच्छति ॥ राजो-वाचेति ॥ यथा कथम् । यदर्थं किमर्थं यतः कुतो हेतोरम्बुचरात्मना कूर्मरूपेण ॥ ११ ॥
लिङ्घेरी
हे ब्रह्मन् शुक । भगवताऽजितेन क्षीरसागरो यथा येन प्रकारेण मथितो यदर्थं वा यत्प्रयोजनाय च यतश्च कस्माच्च कारणात् । अम्बुचरात्मना कूर्मरूपेणाद्रिं मन्दरं दधार ॥ ११ ॥
यथाऽमृतं सुरैः प्राप्तं किमन्यदभवत् ततः ।
एतद् भगवतः कर्म वदस्व परमाद्भुतम् ॥ १२ ॥
सत्यधर्मीया
ततः समुद्राद्धरेरेतत्कर्म वद । स्वपरमाद्भुतं स्वेषां परेषां च माया ज्ञानस्याद्भुतमाश्चर्यरूपम् । तदविषयस्वरूपमित्यर्थः । भासनोपेत्यादिना आत्मनेपदमिति वा । प्रकाशमानः सन्वदेत्यर्थः ॥ १२ ॥
छलारी
दैत्येषु सत्सु सुरैर्यथा कथममृतं प्राप्तम् । ततोऽमृतप्राप्त्यनन्तरम् ॥ १२ ॥
लिङ्घेरी
सुरैरमृतं यथा प्राप्तम् । ततोऽमृतपानानन्तरम् । अन्यत्किमभवत् । तथा तेन प्रकारेण परमाद्भुतमेतत्क्षीरसागरमथनप्रयोजनादितद्धेतुभूतं भगवत्कर्म च मे वदस्व ॥ १२ ॥
त्वयेत्थं कथ्यमानेन महिम्ना सात्वतां पतेः ।
नातितृप्यति मे चित्तं सुचिरं तापतापितम् ॥ १३ ॥
पदरत्नावली
तापैराध्यात्मिकादिदुःखैस् तापितं क्लेशितम् ॥ १३ ॥
सत्यधर्मीया
सात्त्वतां ब्रह्मादिभक्तानां पतेरिति पदमेकम् । पतिरित्याख्यातः । पतिरिति सीतायाः पतय इत्यादिवदुपपत्तिर्ज्ञेया वा । ‘अथो अहल्यां पतिनाऽभिशप्ताम्’ इत्ये-तद्व्याख्यानावसरे वितत्योक्तमस्माभिरनुसंधेयम् । अंचासौ व्यासात्मकश्चासौ पतिश्च । सात्त्व-तानाम् अम्पतिस्तस्मा इति समासे वोपपत्तिः । ‘अम् आ अः पुराणर्षिर्व्यास’ इति गीताभाष्य-प्रमेयदीपिकोक्तेः । सात्त्वतर्षभ इत्यादिप्रयोगात् । तापैस्तापितम् । मुख्यकर्ता कर्मद्वारा हरि-रित्यवान्तरप्रयोजकताऽऽध्यात्मिकानां तापानामिति ध्वनयति तापितमित्यनेनेति ज्ञेयम् ॥१३॥
छलारी
सात्त्वतां ब्रह्मादीनां पतेः । हरेः । तापैराध्यात्मिकादिदुःखैस्तापितं क्लेशितम्
॥ १३ ॥
लिङ्घेरी
हे शुक । त्वयेत्थं कथ्यमानेन सात्वतां पाञ्चरात्राणां पतेः पालकस्य हरेर्महिम्ना सुचिरं बहुकालं तापैराध्यात्मिकाधिभौतिकाधिदेवैस्तापितं सन्तप्तं मे चित्तं मनो नातितृप्यति । भगवन्महिमाश्रवणादिविषयेऽलंबुद्धिमन्न भवति ॥ १३ ॥
सूत उवाच–
सम्पृष्टो भगवानेवं द्वैपायनसुतो द्विजाः ।
अभिनन्द्य हरेर्वीर्यमभ्याचष्टुं१ प्रचक्रमे ॥ १४ ॥
पदरत्नावली
सूतशौनकादिसंवादाविस्मरणार्थं राज्ञा पृष्टः श्रीशुकस्तस्य चोद्यं परिहर्तु-मुपक्रमत इत्याह– सूत इति ॥ १४ ॥
सत्यधर्मीया
अभ्याचष्टुं वक्तुम् । ख्याञादेशाभावश्छान्दसः । प्रचक्रमे आरब्धवान्
॥ १४ ॥
छलारी
द्वैपायनसुतो वेदव्यासपुत्रः शुकः । हे द्विजा इति शौनकादीन् सूतः सम्बोधयति ॥ अभिनन्द्य साधु पृष्टमिति अनुमोद्य । वीर्यं चरितम् अभ्याचष्टुं वक्तुं प्रचक्रमे आरब्धवान् ॥ १४ ॥
लिङ्घेरी
हे द्विजाः शौनकादयः । भगवान्स्वोचितैश्वर्यादिगुणवान् द्वैपायनसुतो व्याससूनुः शुकः परीक्षितैवं संपृष्टः सन् । अभिनन्द्य सन्तुष्टो भूत्वा परीक्षितं च सन्तोषयित्वा हरेर्वीर्य-मभ्याचष्टुं स्पष्टं वक्तुं प्रचक्रमे उपक्रान्तवान् । व्याख्यातुमिति पाठेऽप्ययमेवार्थः ॥ १४ ॥
श्रीशुक उवाच–
यदा युद्धेऽसुरैर्देवा बाध्यमानाः शितायुधैः ।
गतासवो निपतिता नोत्तिष्ठेरन् स्म भूयशः ॥ १५ ॥
पदरत्नावली
कथमुपक्रान्तवानिति तत्राह– यदेति ॥ गतासवः प्राणबलरहिताः, यदा च नोतिष्ठेरन् ॥ १५ ॥
सत्यधर्मीया
गतासवस्तत्प्रायाः । शितानि निशितानि च तान्यायुधानि तैः करणै-र्येषामित्यसुरविशेषणं वा । भूयशोऽतिशयेन बहु । बहोर्लोपो भू च बहोर् ईयसुन् । भूयश इति । भूयःशब्दसलोप आर्षः । पृषोदरादिलोपो वा । स्वार्थे शः । भूयशो बहुवारमित्यर्थः । बह्व-ल्पार्थादित्यर्थग्रहणात्पर्यायेभ्यो विशेषेभ्यश्च शस् । भूरिशस्त्रिश इति तत्त्वसुबोधिन्युक्तेः ॥१५॥
छलारी
यदा युद्धे देवासुरयुद्धे शितानि निशितान्यायुधानि येषां तैर्गतासवो मृतप्रायाः सन्तो भूयशो बहुशो देवाः ॥ १५ ॥
लिङ्घेरी
यदा यस्मिन्काले युद्धे देवाः शितानि शाणोल्लीढान्यायुधानि येषां तैरसुरै-र्बाध्यमानाः पीड्यमानाः सन्तो गतासवो विगतप्राणादिशक्तयः सन्तः । भूरिशो बहवो निपतिता नोत्तिष्ठेरन् स्म । उत्थितुमपि शक्ता नाभवन्स्मेति ज्ञापकाद् एष्यदर्थस्यापि लिङः भूतार्थत्वम्
॥ १५ ॥
यदा दुर्वासशापेन सेन्द्रा लोकास्त्रयो नृप ।
निःश्रीकाश्चाभवंस्तत्र नेशुरिज्यादिकाः क्रियाः ॥ १६ ॥
पदरत्नावली
यदा च निःश्रिका अभवन् तत्र तदा इज्यादयः क्रिया नेशुरित्यन्वयः
॥ १६ ॥
सत्यधर्मीया
पराजययोजकं किमित्यत आह ॥ यदेति ॥ दुर्वासस्य दूर्वाससः । सदुःखवासनामकेत्याचार्यवर्यप्रदर्शितव्युत्पत्त्या ह्रस्वादिर्दुर्वासःशब्द इति बोध्यम् । शापेन ‘स्वदत्तमाला भुवि पातकोपतो दूर्वाससः शापत आशु हि श्रिया । शक्रे विहीने दितिजैः पराजित’ इत्याद्याचार्योक्तेः । नीतिरपि ‘तृणेनापि समं सख्यं कर्तव्यं भूतिमिच्छता । अर्क-पुष्पावमानेन महेन्द्रोऽभूत्पदच्युत ॥’ इत्येवंजातीयका । न कपीति न ह्रस्वः । निःश्रीका निः-सम्पत्का अभवन्यदा तत्र तदा इज्यादिका इज्याध्ययनदानादिकाः क्रिया नेशुर्नष्टाः । कदाचि-द्दूर्वासा मध्येऽध्वनो गजमैरावतमारुह्य गच्छन्तं दुश्चवनं निरीक्ष्य रुद्रावतारत्वाद्धार्यामर्ककुसुममालां गलविलसितामुन्मुच्य शचीशाय व्यतारीत्स च तत्कुसुमौदासीन्येन कुम्भिकुम्भयोरादधौ । स च तां क्ष्मातले पातयामास । ततः कुपितो दूर्वासाः स्वत एव कोपनो यन्मदेन ‘मदवमतिः सा श्रीः सह त्रिलोक्या त्वां जहातु सद्यः’ इति शशापेति तत्प्रकारोऽनुसन्धेयः ॥ १६ ॥
छलारी
यदा च दूर्वाससो मुनेः शापान्निःश्रीका ऐश्वर्यभ्रष्टाश्चाभवन् । तत्र तदेज्यादयो यागादयो नेशुः । शापप्रकारस्तु इत्थम् । दुर्वाससा हि कदाचिन्मार्गे गच्छन्तमिन्द्रं दृष्ट्वा स्वकण्ठस्थमालेन्द्राय दत्ता । तेन च श्रीमदेनानादृत्यैरावतस्य कुंभस्थले निक्षिप्ता । स च गजराट् भूमौ पातयामास । ततः कुपितो दुर्वासास्तमिन्द्रं शशाप । त्रिभिर्लोकैः सह त्वं निःश्रीको भवेति
॥ १६ ॥
लिङ्घेरी
हे नृप । यदा सेन्द्रास्त्रयो लोका दुर्वासशापेन निःश्रीका अभवन् तत्र तस्मिन्काले इज्यादयो देवपूजारूपयागादयः क्रियाश्च नेशुरदृश्या अभवन् ॥ १६ ॥
निशाम्यैतत् सुरगणा महेन्द्रवरुणादयः ।
नाध्यगच्छन् स्वयं मन्त्रैर्मन्त्रयन्तो विनिश्चयम् ॥ १७ ॥
ततो ब्रह्मसभां जग्मुर्मेरोर्मूर्धनि सर्वशः ।
सर्वं विज्ञापयाञ्चक्रुः प्रणताः परमेष्ठिने ॥ १८ ॥
पदरत्नावली
यदा देवा निश्चयं नाध्यगच्छन् ततस्तदा ब्रह्मसभां जग्मुरित्यन्वयः
॥ १७-१८ ॥
सत्यधर्मीया
निशाम्य दृष्ट्वा । मन्त्रैर्गुप्तालोचनभाषणैर्विनिश्चयं निर्णयं नाध्यगच्छन् नागुर्यदा ततस्तदा मेरोर्मूधर्ि्न स्थितां ब्रह्मसभां शतकोटिसञ्ज्ञाम् । यथोक्तं पञ्चमे- ‘मेरोर्मूधर्ि्न भगवत आत्मयोनेरुपक्लृप्तामयुतयोजनसहस्रीं समचतुरस्रां शातकौम्भीं शतकोटिं वदन्ति’ इति । सर्वशो महेन्द्रवरुणादय इति सर्वे सुरगणा जग्मुः । पुरुहूतपुरस्करणं श्रैष्ठ्यात् । विहितागस्कत्वाच्च विहितं तदव्यवधाननिर्देशः । पाशिनः सत्स्वन्तरा तदधीशेष्वितरेषु न समञ्जस इति तु तन्मथनसमयत्वात्तत्सुमुखतासम्पत्त्या जल्पनमित्यल्पीकरणीयम् । परमेष्ठिने प्रणताः सन्तः सर्वं विज्ञापयाञ्चक्रुः ॥ १८ ॥
छलारी
स्वयं मन्त्रैः स्वविचारैः कार्यनिश्चयं नाध्यगच्छन्न प्रापुः । मेरोर्मूर्धनि स्थितां ब्रह्मसभाम् ॥ १७-१८ ॥
लिङ्घेरी
तदा महेन्द्रवरुणादयः सुरगणा एतत्स्वैश्वर्यादिनाशं निशाम्य दृष्ट्वा परस्परं स्वयं मन्त्रैर्विचारहेतुभिर्वाक्यैर्मन्त्रयन्तो विचारयन्तोऽपि विनिश्चयं स्वकर्तव्यनिर्णयं नाध्यगच्छन्न प्राप्ताः ॥ ततस्तदनन्तरं सर्वशः सर्वे इन्द्रादयो देवा मेरोः पर्वतस्य मूधर्ि्न शिखरे स्थितां ब्रह्मसभां जग्मुर्गताः । तत्र परमेष्ठिने चतुर्मुखाय प्रणताः सन्तः सर्वं स्वाभिभवादि विज्ञापयांचक्रुः सम्यग्ज्ञापितवन्तः ॥ १७-१८ ॥
स विलोक्येन्द्रवाय्वादीन् निःसत्वान् विगतप्रभान् ।
लोकानमङ्गलप्रायान् सुरांश्चैव यथा विभुः ॥ १९ ॥
सत्यधर्मीया
स धाता । इन्द्रवाय्वादीनिति पुरुहूतपुरस्कृतिरागस्कृत्त्वात् । आधिकारि-कत्वाच्च । यदि न तरतमभावो निर्देशे तर्हि शिवानन्तरं वायूक्तिर्न कुत इति चेत् । भावि-विषपानमनितरसाध्यं साध्यं मरुत एव तदनन्तरं किञ्चिच्छिवोऽपिबदिति विशेषसूचनार्थं वायुरादावुदाहृत इत्येव हि । मानं चात्र स्वावसरे वक्ष्यामः । इन्द्रश्च वायुश्चेन्द्रवायू तावादी येषां तान् । न वायुपरस्येत्युक्तेर्नानङ् । निःसत्त्वान्निर्बलान् । विगतप्रभान् गतकान्तीन् । लोकांस्त्रीन् । अमङ्गलप्रायांस्तत्प्रचुरान् असुरान् । यथा पूर्वप्रकारेण निःसत्त्वत्वादिना नेत्ययथा । ससत्त्वत्वादिना विलोक्य । दुर्बलकोपः स्वदंष्ट्रापीडामूल इतिवन्नेत्याह ॥ विभुरिति ॥ समर्थः । विप्रसंभ्यो ड्वसञ्ज्ञायामिति डुः ॥ १९ ॥
छलारी
निःसत्त्वान्विगतबलान्विगतप्रभान्कान्तिरहितान् । इन्द्रवाय्वादीन्देवान् । अमङ्गलप्रायान् अमङ्गलप्रचुरान् । लोकांश्चासुरांश्चान्यथा देवविलक्षणत्वेन बलयुक्तानित्यर्थः
॥ १९ ॥
लिङ्घेरी
विभुः स्वप्रपन्नसमाधानसमर्थः स चतुर्मुख इन्द्रवाय्वादीन्सुरान्निःसत्त्वान्विगत प्रभान् लोकांश्चामङ्गलप्रायान्विलोक्य ॥ १९ ॥
समाहितेन मनसा संस्मरन् पुरुषं परम् ।
उवाचोत्फुल्लवदनो देवान् स भगवान् परः ॥ २० ॥
पदरत्नावली
परः पूरकः, सृष्ट्येति शेषः ॥ २० ॥
सत्यधर्मीया
परं कामितपूरकम् । उत्फुल्लवदनो ज्ञातैतत्सम्पत्तिसम्पादनोपायत्वादुत्फुल्लं वदनम् । उत्फुल्लानि वदनानि वा यस्य स तथा । परः प्रस्तुतोत्तमः ॥ २० ॥
छलारी
समाहितेन सावधानेन पुरुषं पूर्णं हरिं परं भक्ताभीष्टरूपकम् । पालकं वा । पालन पूरणयोरिति धातोः । संस्मरन्नुत्फुल्लवदनः परः सर्वदैवोत्तमः ॥ २० ॥
लिङ्घेरी
भगवान् ऐश्वर्यादिगुणपूर्णः परो रुद्राद्युत्तमः स चतुर्मुखो यथा श्रुतिस्मृत्यादि तथा समाहितेन सम्यग्भगवति स्थापितेन मनसा परं पुरुषं नारायणं संस्मार । तदनन्तरमुत्फुल्लं विकसितं वदनं यस्य स तथा सन् देवान्प्रत्युवाच ॥ २० ॥
अहंभवो१ यूयमथो सुरादयो मनुष्यतिर्यग्द्रुमघर्मजादयः ।
यस्यावतारांशकलाविसर्जिता व्रजाम सर्वे शरणं तमव्ययम् ॥ २१ ॥
पदरत्नावली
धर्मजातयः स्वेदजाः ॥ २१ ॥
सत्यधर्मीया
अहंभवो रुद्रः । अहंभव इति वदन् रुद्रस्याहंतत्त्वविग्रहकत्वं सूचया-मासेति ज्ञेयम् । सुरादयः सुरासुरादयः । मनुष्यशब्दो जरायुजमात्रोपलक्षकः । तिर्यञ्चोऽण्डजाः । द्रुमा उद्भिजाः । घर्मजादयः स्वेदजा मत्कुणादयः । यस्य नारायणस्यावतारः पुरुषो वा पद्मनाभो वा तस्यांशो मात्रा तस्य कला भिन्नोंऽशस्तया विसर्जिता उत्पादिताः । सर्वे वयं तमव्ययं निर्नाशम् । तमस्य तमस एतदाद्यापदापादकस्याज्ञानस्य ग्लानेर्वाऽव्ययो नाशो यस्मात्स तम् । तमिति शेषः । तमन्तु तमसा सार्धमिति द्विरूपकोशः ॥ २१ ॥
छलारी
हे इन्द्रादयो देवाः । अहं भवो रुद्रो यूयं सुरादयो । आदिशब्देन दैत्याः । मनुष्यशब्देन जरायुजाः सर्वेऽपि गजाश्वादयो ग्राह्याः । तिर्यंचोऽण्डजाः पक्ष्यादयः । द्रुमा उद्भिजाः । घर्मजादयः स्वेदजा मूर्धजाः कृमयः । एते सर्वे जीवा यस्य मूलनारायणस्यावतारः पुरुषनामा तस्यांशो भिन्नांशो ब्रह्मा तस्य कला मरीचादयस्ताभिर्विसर्जिताः पुत्रपौत्रद्वारा जनिताः । यद्वा । तस्यावतारः पुरुषस्तस्यांशः सामर्थ्यं तस्य कलयैकांशेन विसर्जिता उत्पन्नाः । मच्छक्तयैकांशसंभूतं जगदेतच्चराचरमिति वचनात् । तं हरिम् ॥ २१ ॥
लिङ्घेरी
इदानीं चतुर्मुखः स्वप्रभृतिदेवानां पारतन्त्र्यमाविष्कुर्वन् हरिरेव नः शरण-मित्याह ॥ अहमित्यादिना ॥ अहं चतुर्मुखो भवो रुद्रो यूयमथोऽसुरादयो मनुष्यास्तिर्यक् पश्वादि, द्रुमा वृक्षा घर्मजाः स्वेदजनितकृमिमुखा यस्य हरेरवताररूपस्यांशस्य पुरुषादेः कलया विसर्जिताः संसृष्टाः । अव्ययं चतुर्विधनाशशून्यं तं नारायणं शरणं रक्षकं सर्वे वयं व्रजाम ॥२१॥
न यस्य वध्यो न च रक्षणीयो नोपेक्षणीयादरणीयपक्षः ।
अथापि सर्गस्थितिसंयमार्थं धत्ते रजःसत्वतमांसि काले ॥ २२ ॥
तात्पर्यम्
‘अनुग्राह्यतया पक्षा देवा नात्मार्थतो हरेः’ इति च ॥ २२ ॥
पदरत्नावली
यस्य वध्यादयो न सन्ति । नन्वादरणीयपक्षे नास्तीति कथं सङ्गच्छते ? ‘परा पूर्वेषां’ इति श्रुतेर् देवानां भगवत्पक्षत्वावगमादत्रापि देवार्थममृतमथनादिति चेन्न । भक्ति-वशः पुरुषः । ‘यमेवैष वृणुते तेन लभ्यः’ इत्यादिश्रुतेः । ‘देवानामनुग्राह्यत्वात् तत्पक्षत्वं स्वार्थं नेति विवेकात् । ‘अनुग्राह्यतया पक्षा देवा नात्मार्थतो हरेः’ इति वचनात् ॥ २२ ॥
सत्यधर्मीया
न यस्य वध्यो इति श्लोके उपेक्षणीयादरणीयपक्षप्रतिक्षेपः क्रियत इति प्रतीयते । सा चोपेक्षणीयानां दैतेयानामादितेयानां चादरणीयानां च बाधितेत्यतः प्रमाणेनैव निषेधतात्पर्यमाह ॥ अनुग्राह्यतयेति ॥ हरेरनुग्राह्यतया निमित्तेन पक्षा इत्युच्यन्ते । आत्मार्थतः स्वप्रयोजनार्थं ते पक्षा नेति योजना । निग्राह्यतया दैतेया उपेक्षणीयाः, स्वभावतो न तु भगवान्विषमः सन् तानुपेक्षते । आत्मार्थत इत्युपलक्षणीयम् । अथवा । आदरणीयपक्षो नेति न । देवानां तथात्वादित्यतः प्रतिषेधतात्पर्यमाह । अनुग्राह्यतयेत्येकपक्षे योजना ज्ञेया । अनु हीनतया ग्राह्यतया ये देवा न तेऽसन्तः । हरेरपक्षा उपेक्षणीयाः । आत्मार्थतः स्वविनाश-मुद्दिश्येति वेतरपक्षेऽन्वयः । इति च ब्रह्मतर्क इति शेषः ॥ अथ पद्यार्थः ॥ यस्य वध्यो योग्यताऽनतिक्रमेण न रक्षणीयोऽपि तथा । उपेक्षणीयादरणीयपक्षः । उपेक्षणीयसहितश्चासावा-दरणीयपक्षश्चेत्युत्तरपदलोपी समासः न । भक्तिवशः भक्त्यैव तुष्टिमभ्येति । ‘यमेवैष वृणुते तेन लभ्य’ इत्यादेः । देवानामनुग्राह्यतया तत्पक्षत्वं स्वार्थं नेति तात्पर्यम् । उपेक्षणीयश्चासावा-दरणीयपक्षात्मा । उपेक्षणीयो देवादिः पूर्वदेवादिर्नास्तीति क्रमादन्वयो वा । उत्तरत्र वक्ष्यमाणः समुद्रमथनादिर्मधुमथनस्य नासम्भाव्यत एवेति ज्ञेयम् । अथाऽपि परेभ्यः स्वप्रयोजनाभावेऽपि सर्गस्थितिसंयमार्थं काले तत्तत्कार्यानुकूले रजःसत्त्वतमांसि क्रमात्सृष्ट्यादिकारणानि धत्ते ॥२२॥
छलारी
ननु तर्हि सर्वदेवस्य समत्वेनानादरणीयत्वेनादरणीयपक्षाभावात्किं तच्चरणा-श्रयेण । सत्यम् । तथाऽपि । अनुग्राह्यतयोपदेवानामात्माऽर्थतो हरेरित्युक्तेः । देवानामनु-ग्रहपात्रत्वेनादरणीयपक्षत्वादस्मत्पक्षपाती भविष्यतीत्याशयेनाह ॥ न यस्येति द्वाभ्याम् । उपेक्षणीययुक्तश्चासावादरणीयपक्षश्चेति मध्यमपदलोपी समासः । यद्यपि हरेः स्वार्थं वध्यादिपक्षो नास्ति तथाऽपि परार्थं काले तत्तत्कालविशेषे सृष्टिस्थितिसंहारार्थं रजःसत्त्वतमोगुणान्क्रमेण धत्ते
॥ २२ ॥
लिङ्घेरी
यस्य नारायणस्य स्वप्रयोजनाय योग्यतां विना च वध्यादिर्नास्ति । यद्य-प्यथाऽपि काले जगतः सर्गस्थितिसंयमार्थं सृष्टिपालनसंहाराय रजःसत्त्वतमोगुणान्धत्ते धारयति । तस्यायं स्थितिपालनलक्षण इत्युत्तरेणान्वयः । वध्यादिर्नास्तीत्यस्यायमेवार्थः न तु स्वरूपत एव कदाऽपीति । ‘प्रतिहन्मि भूरि किमन्यं निन्दति शत्रवोऽनिन्द्राः । अनन्याश्चिन्तयन्तो माम् । योगक्षेमं वहाम्यहम् । तानहं द्विषतः क्रूरान् । सुरप्रियः । ‘असुराणां सुधादानं सर्पाणामिव दुर्नयम्’ इत्यादिश्रुतिस्मृतिविरोधपरिहारात् । देहिनां भवाय सत्त्वं जुषाणस्येत्यादिना स्वप्रयोजना-भावे स्थित्यादिप्रवृत्त्यवगतेः ॥ २२ ॥
अयं तु तस्य स्थितिपालनक्षणः सत्वं जुषाणस्य भवाय देहिनाम् ।
तस्माद् व्रजामः शरणं जगद्गुरुं स्वानां स नो धास्यति शं सुरप्रियः ॥ २३ ॥
पदरत्नावली
तस्य हरेरयं कालः स्थितिपालनावसरः । धास्यति ददाति । शं सुखम्
॥ २३ ॥
सत्यधर्मीया
नायं समयस्तार्तीय इत्यार्तिः सम्पादनीयेत्याह ॥ अयं त्विति ॥ स्थितेः पालनं नामाव्यत्यासेन तत्स्थापनम् । तस्य क्षणः समयः । तत्र हेतुमाह । देहिनाम-स्मदादीनां भवाय श्रेयसे । भवः संसारसत्तास्ति श्रेयः शङ्करजन्मस्विति विश्वः । सत्त्वं गुणं जुषाणस्य सेवमानस्य तस्माज्जगद्गुरुं शरणं व्रजामः । स नः स्वानां ज्ञातीनामस्माकं शं सुखं धास्यति स्वत्वं दर्शयति सुरप्रिय इति ॥ २३ ॥
छलारी
ते च देहिनां प्राणिनां भवाय सुखाय सत्त्वं जुषाणस्य सत्त्वगुणधारकस्य हरेरयं स्थितिपालनस्य पालनरूपायाः स्थितेः क्षणः कालस्तस्माद्रक्षणकालत्वात्तत्रापि भक्तवशत्वात्सुर-प्रियः स हरिः स्वानां स्वभक्तानां नः सुराणां शं सुखं विधास्यति अतः शरणं व्रजाम इति
॥ २३ ॥
लिङ्घेरी
अयं तु कालस्तस्य हरेर्जगत्स्थितिपालनलक्षणः । तत्र हेतुमाह । देहि-नामधिकारिजीवानां भवाय क्षेमादिमङ्गलाय सत्त्वं गुणं जुषाणस्येति यस्मादेवमयं कालोऽस्मदनु-कूलस्तस्माद्वयं जगद्गुरुं हरिं शरणं रक्षणं व्रजामः । यस्मात्स हरिः सुरप्रियस्तस्मात्स्वानां स्वकीयानां नोऽस्माकं शं सुखं धास्यति करिष्यति ॥ २३ ॥
श्रीशुक उवाच–
इत्याभाष्य सुरान् वेधाः सह देवैररिन्दम ।
अजितस्य पदं साक्षाज्जगाम तमसः परम् ॥ २४ ॥
पदरत्नावली
अजितस्य हरेः ॥ २४ ॥
सत्यधर्मीया
वेधाः सुरानाभाष्य देवैः सह । तमसः परं तदतीतं प्रकाशात्मकं साक्षान्मुख्यतया पदमावासस्थानम् । भाविमथनकार्यस्य साक्षात्पदमिति वा । क्षीराब्धिं जगाम
॥ २४ ॥
छलारी
वेधा ब्रह्मा अरिन्दम शत्रुसंहारहेतुं राजानं संबोधयति । अजितस्य हरेस्तमसः परं दूरे विद्यमानं प्रकाशात्मकं साक्षात्सर्वदा प्रत्यक्षत्वेनावासयोग्यं पदं क्षीराब्धिरूपं स्थानं जगाम
॥ २४ ॥
लिङ्घेरी
हे अरिन्दम बाह्यान्तःशत्रुशिक्षक । वेधाश्चतुर्मुखः । ‘स्रष्टा प्रजापतिर्वेधा’ इत्यमरः । सुरान्प्रति इति उक्तरीत्याऽऽभाष्य देवैः सह तमसः परं साक्षादनुपचारेणाजितस्य विष्णोः पदं स्थानं जगाम ॥ २४ ॥
तत्रादृष्टस्वरूपाय श्रुतपूर्वाय चाभ्यधात् ।
स्तुतिमद्भुतदैवीभिर्गीर्भिस्त्ववहितेन्द्रियः ॥ २५ ॥
पदरत्नावली
नित्यत्वेन अद्भुताभिः, देवस्य हरेर् विद्यमानाभिः, हरिगुणगणान् प्रतिपादिकाभिः ॥ २५ ॥
सत्यधर्मीया
तत्र क्षीरनीरधौ । अदृष्टस्वरूपाय अदृष्टं स्वरूपं यस्य तस्मै । इदानीं श्रुतपूर्वाय । पूर्वं श्रुतः श्रुतपूर्वस्तस्मै । अद्भुतदैवीभिरद्भुता देव्यो देवसम्बन्धिन्यस्ताभिर्गीभि-र्वेदवाणीभिः । अवहितेन्द्रियः । संस्तुतिं तद्गुणवर्णकशब्दरूपाम् । अभ्यधादुच्चचार ॥ २५ ॥
छलारी
अदृष्टं स्वरूपं यस्य तस्मै । अद्भुताभिर् लोकेऽप्रसिद्धत्त्वेनाद्भुताभिर्देवीभिर्देवस्य क्रीडादिगुणविशिष्टस्य हरेः संबन्धिनीभिर्हरिगुणगणप्रतिपादकादिभिरित्यर्थः । गीर्भिर्वेदवाग्भिः स्तुतिं व्यधात् । देवैः सहेति शेषः । अवहितेन्द्रियो वशीकृतेन्द्रियः ॥ २५ ॥
लिङ्घेरी
तत्र स्थानेऽदृष्टं स्वरूपमाकारो यस्य तस्मै श्रुतपूर्वाय पूर्वं श्रुताय हरयेऽद्भुत-दैवीभिरत्याश्चर्यरूपहरिविषयाभिर्गीर्भिर्वेदानुकारिभिरवहितेन्द्रियः सन् स्तुतिमभ्यधात् ॥ २५ ॥
ब्रह्मोवाच–
अविक्रियं सत्यमनन्तमाद्यं गुहाशयं निष्कलमप्रतर्क्यम् ।
मनोग्रयाणं वचसाऽनिरुक्तं नमामहे देववरं वरेण्यम् ॥ २६ ॥
पदरत्नावली
वेदशिरोविशारदानामस्मिन् स्तोत्रेऽधिकार इति ज्ञापयन् ब्रह्मा वेदान्तोक्त-विशेषणविशिष्ठत्वेन स्तौतीत्याह– ब्रह्मेति ॥ ‘निष्कलं निष्क्रियं शान्तम्’‘सत्यं ज्ञानमनन्तम्’ ‘आत्मा वा इदमेक एवाग्र आसीत्’ ‘हृदय आहितं यत्’‘नैषा तर्केण मतिरापनेया’ ‘न हि सुज्ञेयमणुरेष धर्मः’ ‘महतो भूतस्य निःश्वसितमेतदृग्वेदः’ ‘विद्यानां प्रथमो वक्ता’ ‘यद्वाचाऽ-नभ्युदितं’ ‘यो देवानां नामधा एक एव’ ‘तत्सवितुर्वरेण्यम्’ इत्यादिश्रुतयः प्रतीकतो ग्राह्याः । बहुश्रुतिसंग्रहरूपत्वात् पूर्वोत्तरसंबन्धोऽत्र नान्वेषणीयः ॥ २६ ॥
सत्यधर्मीया
‘निर्विकारोऽक्षरः’ । ‘सत्यं ज्ञानमनन्तम्’ । ‘आत्मा वा इदमेक एवाग्र’ आसीत्’ । ‘हृदय आहितं यत्’ । ‘निष्कलं निष्क्रियं शान्तम्’ । ‘नैषा तर्केण मतिरापनेया’ । ‘मनसो जवीयः’ । ‘यद्वाचाऽनभ्युदितम्’ । ‘यतो वाचो निवर्तन्ते’ । ‘तत्सवितुर्वरेण्यम्’ । ‘अग्निर्वै देवानामवमो विष्णुः परमः’ इत्यादि वेदपदानीदं प्रतीकतो गृह्णानः स्तौति हरिं हंसवाह इत्याह ॥ अविक्रियमिति ॥ न विद्यते क्रिया विकारो यस्य तम् । सत्यं साधुगुणं भूतहितभूतं वा । अनन्तमपरिच्छिन्नमबद्धं वा । आद्यं पुराणपुरुषम् । आ धात्रीत्यैतरेयोपनिषदुक्ते-रुपजीव्यमिति वा । गुहाशयम् । अधिकरणे शेतेरित्यच् । गुहायां शेत इति स तथा । गुहां प्रविष्टावित्यादेः । निष्कलं भिन्नावयवादिविकलम् । अप्रतर्क्यं शास्त्रयोनित्वात्केवलानुमाना-गोचरम् । मनोऽग्रयाणं मनसोऽप्यग्रे यानं गमनं यस्य तम् । रषाभ्यामिति नस्य णत्वम् । वचसा साकल्येनानिरुक्तम् । वरेण्यम् । वृञ एण्य इति कर्मणि एण्यप्रत्ययः । तत्सवितुर्वरेण्यमित्यृ-ग्व्याख्यावरणीय इति भाष्यटीकायाम् । वरणीयो भजनीय इति वरेण्यः । वृञ एण्य इति वृणोतेः कर्मणि एण्यप्रत्यये वरेण्यशब्द इत्युक्तेः । हे देव वरं नमामि इत्यन्वयः ॥ २६ ॥
छलारी
ब्रह्मा वेदान्तोक्तविशेषणविशिष्टत्वेन हरिं स्तुवन्प्रणमतीत्याह ॥ ब्रह्मो-वाचेति ॥ हे विष्णो । वयं देववरं त्वां नमामहे नमाम । हे देव वरं त्वां नमामेति वा । कथंभूतम् अविक्रियं वृद्ध्यादिविकारशून्यम् । ‘न कर्मणा वर्धते नो कनीयान्’ इति श्रुतेः । सत्यमबाधितस्वरूपम् । ‘सच्छब्द उत्तमं ब्रूयादानन्दं तीति वै वदेत् । येति ज्ञानं समुद्दिष्टं पूर्णानन्दस्य दर्शितम् ॥’ इति वचनात् । सत्यं पूर्णानन्दज्ञानरूपं वा । अनन्तम् । ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति श्रुतेः । आद्यं जगदादौ वर्तमानम् । ‘आत्मा वा इदमेक एवाग्र’ इति श्रुतेः । गुहाशयं हृदयगुहायां निहितं नियामकत्वेन स्थितम् । हृदय आहितं यदिति श्रुतेः । न विद्यन्ते कला भिन्नावयवा यस्य तं निष्कलम् । ‘निष्क्रियं शान्तम्’ इति श्रुतेः । अप्रतर्क्य-मनुमानाविषयम् । ‘नैषा तर्केण मतिरापनेया’ इति श्रुतेः । मनोग्रयाणं मनसापेक्षयाऽधिक-वेगयुतम् । ‘अनेजदेकं मनसो जवीय’ इति श्रुतेः । वचसाऽनिरुक्तं निर्वक्तुमशक्यं साकल्येन वागिन्द्रियाविषयत्वात् । यद्वा । वक्तुमशक्यमिति श्रुतेः । देववरं देवोत्तमम् । ‘आत्मा देवानां भुवनस्य गर्भ’ इति श्रुतेः । वरेण्यं वरणीयम् । ‘तत्सवितुर्वरेण्यम्’ इति श्रुतेः ॥ २६ ॥
लिङ्घेरी
वयमविक्रियं सर्वविकाररहितं सत्यमनारोपितमनन्तं देशकालगुणैः परिच्छेद-रहितम् । आद्यं पुरातनं गुहाशयं हृद्गुहस्थं निष्कलं भिन्नदोषयुक्कलारहितमप्रतर्क्यं प्रत्यक्षा-गमाननुगृहीतयुक्त्यगोचरं सदागृणानं वाग्व्यापारोपेतम् । वचसा वेदादिरूपेणाधिकारिणां साकल्येनानिरुक्तं वरेण्यं भजनीयं देववरं सर्वदेवोत्तमं त्वां नमामहे । इति स्तुत्या चतुर्मुखो हरेः शबलब्रह्मत्वमतिरिक्तस्य निर्गुणस्याविक्रियादिरूपस्य सत्वं निवारयति । अन्यथा तद्गुणैर-विक्रियादिभिरयथाभूतहरिस्तवनानुपपत्तेः । मायाशबलेऽपि हरौ चिद्भागदृष्ट्येयं स्तुतिरित्यस्य देववरत्वस्तुतिप्रहृतत्वात् । चिन्मात्रे देववरत्वादिविकारस्य परमतेऽङ्गीकारानर्हत्वात् । विष्णु-व्यतिरिक्ताविक्रियादिरूपस्य पराभिमतचितः प्रमाणतोऽसिद्धेः । एतद्विषये विस्तरोऽस्मत्कृतमध्व-तन्त्रमुखमर्दनत्वेन परसंकेतितग्रन्थमर्दने द्रष्टव्यः । निर्विकारोऽक्षरः शुद्धः । सत्यं ज्ञानमनन्तम् । आद्यं पुरुषम् । यो वेद निहितं गुहायाम् । निष्कलं निष्क्रियं शान्तम् । नैषा तर्केण मतिराप-नेया । येन वागभ्युद्यते । यद्वाचाऽनभ्युदितम् । वरेण्यं तत्सवितुरित्यादिश्रुतिप्रतिपाद्यो हरिरेवेत्येतच्छ्लोकार्थः ॥ २६ ॥
विपश्चितं प्राणमनोधियात्मनामर्थेन्द्रियाभासमनिद्रमव्रणम् ।
छायातपौ यत्र न गृध्रपक्षौ तमक्षरं खं त्रियुगं व्रजामहे ॥ २७ ॥
तात्पर्यम्
‘छाया त्वविद्या सम्प्रोक्ता जन्यविद्याऽऽतपः स्मृतः ।
जीवगृध्रस्य तौ पक्षावध ऊर्ध्वपथोः१ पृथक् ।
तौ विष्णोस्तु न विद्येते नित्यं विद्यास्वरूपिणः’ इति च ॥ २७ ॥
पदरत्नावली
प्राणमनोधियात्मनां विपश्चितं वेदितारम् ‘यः प्राणे तिष्ठन्’ ‘प्राणस्य प्राणमुत चक्षुषश्चक्षुः’ इत्यादि । ‘य आत्मनि तिष्ठन्’ इत्यादि । अर्थानिन्द्रियाणि चाभासयति दीपयतीत्यर्थेन्द्रियाभासः । अर्थेन्द्रियाणां सन्निकर्षमुत्पाद्य तद्विषयं ज्ञानं जनयतीत्यर्थः । ‘यस्य भासा सर्वमिदं विभाति’ ‘यस्तत्रोभयविच्छेदः’ ‘एतमस्यामेतं दिवि’ ‘अजमनिद्रमस्वप्नम्’ ‘अकायमव्रणम्’ अकायं लिङ्गशरीररहितम् अव्रणम् अक्षतं यत्र यस्मिन् हरौ गृध्रस्य सर्वं काङ्क्षमाणस्य जीवस्य पक्षौ पतत्रवद् वर्तमानौ पृथगधोर्ध्वमार्गहेतू छायातपौ अविद्याशास्त्र-जन्यविद्यालक्षणौ न स्तः । ‘छाया त्वविद्या सम्प्रोक्ता जन्यविद्याऽऽतपः स्मृतः । जीवगृध्रस्य तौ पक्षावध और्ध्वपथोः पृथक् । तौ विष्णोस्तु न विद्येते नित्यविद्यास्वरूपिणः ॥’ इति वचनादुक्त एवार्थ इति । तं त्रियुगं व्रजामह इत्यन्वयः । त्रीणि युगानि यस्य स तथा तम्, तेष्ववतारादिति । ‘स्वयम्भूस्त्रियुगः कृष्णः शार्ङ्गी दामोदरस्तथा’ इत्यभिधानम् । ‘अक्षरात् सम्भवतीह विश्वम्’ ‘एतद्ध्येवाक्षरं ब्रह्म’ । खं सुखरूपं ज्ञानरूपं वा । कं ब्रह्म खं ब्रह्म
॥ २७ ॥
सत्यधर्मीया
छायातपौ यत्रेति श्लोके गृध्रः पक्षिविशेषः । गृध्रः खगान्तरे गृध्रो वाच्य-वाच्यार्थलुब्धक इति विश्वः । तस्य पक्षौ छाया चातपश्चेत्येतौ लोकप्रसिद्धावेवेति किं केन सङ्गतमुच्यत इत्यतस्तदर्थं मानेनाह ॥ छाया त्विति ॥ नातपाभावादिश् छायापदार्थः किं त्वविद्याऽज्ञानम् । ज्ञानविरोधित्वाच्छायेत्युच्यते । जन्यविद्या शास्त्रजनितं ज्ञानम् । आतपः प्रकाशः स्मृतः । आतपपदविवक्षया स्मृत इति पुल्लिङ्गप्रयोगः । गृध् अभिकाङ्क्षायाम् । विषयादिकं सदा काङ्क्षतीति जीवो गृध्रस्तस्य । तौ छायातपौ पक्षौ अध ऊर्ध्वपथोर-धरोर्ध्वमार्गयोः । ऋक्पूरब्धूःपथामिति निर्दिशन्ननित्यताम् अप्रत्ययस्य प्रत्यजिज्ञपदिति ना-प्रत्यय इति प्राञ्चः । नवीनास्तु अंश्यादिगणे राजन् शब्दस्य पाठात् तदनित्यतेत्याहुः । अध ऊर्ध्वं पथोरिति ऋजुः पाठः । तत्प्रसक्तेरेवाभावात् । पृथक् पृथगिति पाठोऽतिनिःशठः । ताव-विद्याजन्यविद्यापक्षौ विष्णोर्नैव विद्येते । किं तन्त्रं तत्रेत्यत आह ॥ नित्यं विद्यास्वरूपिण इति चेति ॥ ऊर्ध्वाधरगतिसाधनत्वात्तौ पक्षाविव पक्षौ जीवश्चाभिकाङ्क्षावानिति गृध्रवद्गृध्र इत्यर्थः ॥ अथ मूलयोजना ॥ प्राणमनोधियात्मनाम् । प्राणा इन्द्रियाणि । प्राणो मुख्यो वा वायुः, मनश्च धीश्चात्मा देहश्च तेषाम् । धियात्मनामित्यत्र त्रियाद्यवयवात्मिका । स्त्रियादिक-मित्यादाविव यणागमो ज्ञेयः । विस्तृतं च तत्त्वनिर्णयटीकाप्रमेयदीपिकादिष्वनुसन्धेयमित्यत्र त्रियम्बकः साक्षी । विपश्चितं वेदितारम् । यः प्राणे तिष्ठन् । यो मनसि तिष्ठन् । य आत्मनि तिष्ठन्नित्यादेः । अर्थेन्द्रियाभासमिन्द्रियैराभासो ज्ञानमिन्द्रियाभासः । अर्थानां विषयाणामिन्द्रिया-भासो येन स तम् । अर्थानामिन्द्रियैः संनिकर्षं प्रापय्य तज्ज्ञानजनकमित्यर्थः । ‘त्वं ज्ञानदोऽज्ञानदश्चासि विष्णो’ इत्यादेः । अर्थेन्द्रियाणां संनिकर्षद्वारा भासो यस्येति वा । यस्य भासेत्यादेः । अनिद्रम् । न निद्रामित्यादेः श्रमशामकनिद्रारहितम् । अजमनिद्रमस्वप्नमित्यादेः । अव्रणं नित्यपूर्णतः । अकायमव्रणमित्यादेः । यत्र हरौ । गृध्रपक्षौ । गृध्रस्य विषयाभिलाषितया तत्तुलस्य जीवस्य । गृध् अभिकाक्षायां सुसूधागृधिभ्यः क्रन्निति क्रन् । पक्षौ ताविव तौ छाया-तपौ अविद्याशास्त्रजन्यज्ञानात्मकौ । ऊर्ध्वाधो गतिसाधकौ । न नस्तः । तमक्षरं न क्षरती-त्यक्षरस्तम् । एतद्ध्येवाक्षरमित्यादेः । त्रियुगम् । त्रियुगस्त्रीणि युगान्यवतार्यत्वेन यस्य स तथा । ‘युगत्रयावतारत्वात् त्रियुगो विष्णुरुच्यत’ इति वचनात् । ‘स्वयम्भूस्त्रियुगः कृष्णः शार्ङ्गी दामोदरस्तथा’ इत्यभिधानात् । खम् । सुखरूपत्वात् । खं ब्रह्मेति श्रुतेः । व्रजामहे व्रजामः
॥ २७ ॥
छलारी
इदानीमिन्द्रियत्वादित्यादिना हरिं स्तुवन् प्रार्थयत इत्याह ॥ विपश्चित-मिति ॥ प्राणमनोधियात्मनां बुद्धिदेहिनां विपश्चितं ज्ञातारम् । अर्थान् शब्दादिविषयान् इन्द्रियाणि श्रोत्रादीनि चाभासयति दीपयतीत्यर्थेन्द्रियाभासस्तम् । अर्थेन्द्रियाणां सन्निकर्षमुत्पाद्य तद्विषयज्ञानं जनयतीत्यर्थः । ‘तस्य भासा सर्वमिदं विभाति’ इति श्रुतेः । अक्षरं न क्षरती-त्यक्षरम् । ‘एतद्ध्येवाक्षरं ब्रह्म’ इति श्रुतेः । खं ज्ञानरूपम् । ‘कं ब्रह्म खं ब्रह्म’ इति श्रुतेः । ‘त्रियुगेष्ववताराद्युगनामकं स्वयंभूस्त्रियुगः कृष्ण’ इत्यभिधानात् । यत्र हरौ गृधु कांक्षायामिति धातोः । सर्वमाकांक्षमाणस्य जीवस्य पक्षौ पत्रवद्वर्तमानौ पृथग्गधो मार्गोर्ध्वमार्गौ छायाऽ-विद्याऽऽतपः शास्त्रजन्यविद्यैतौ न स्तः । ‘छाया त्वविद्या संप्रोक्ता जन्यविद्याऽऽतपः स्मृतः । जीवगृध्रस्य तौ पक्षावध ऊर्ध्वपथोः पृथक् । तौ विष्णोस्तु न विद्येते नित्यं विद्यास्वरूपिण ॥’ इत्युक्तेः । तं शरणं व्रजामह इत्यन्वयः ॥ २७ ॥
लिङ्घेरी
वयं यत्र भगवति नारायणे गृध्रस्य विषयकाङ्क्षिणो जीवस्य पक्षौ गरुत्व-द्वर्तमानावध ऊर्ध्वगतिहेतुच्छायातपाविद्याशास्त्रज्ञानरूपौ न स्तो नाभूतां न भविष्यतश्च ॥ तदुक्तम्– ‘छाया त्वविद्या संप्रोक्ता जन्यविद्याऽतपः स्मृतः । जीवगृध्रस्य तौ पक्षावध ऊर्ध्व-पथोः पृथक् । तौ विष्णोस्तु न विद्येते नित्यं ज्ञानस्वरूपिण ॥’ इति ॥ तं प्राणमनोधियात्मनां विपश्चितं ज्ञातारम् । अर्थान् शब्दादीन् इन्द्रियैः श्रोत्रादिभिराभासयति जीवेभ्य इत्यर्थः । अर्थेन्द्रियाभासमर्थानीन्द्रियाणि च भासयतीति च तथोक्तस्तम् । यस्य भासा सर्वमिदं विभाती-त्यादेः । अनिद्रम् अज्ञानकार्यनिद्राविधुरम् । अव्रणं क्षतादिदोषरहितम् । लिङ्गशरीरशून्यं च । तुरीयरूपम् । न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः । अजमनिद्रमस्वप्नम् । अकायमव्रणमित्यादेः । अक्षरं चतुर्विधनाशरहितम् । खं सर्वेन्द्रियनियामकम् । ‘यः प्राणे तिष्ठन्’ इत्यादेः । ज्ञानपूर्णम् । ‘कं ब्रह्म खं ब्रह्म’ इत्यादेः । त्रिष्वेव युगेषु मनुष्यादिदृष्ट्यादि-गोचरत्वात् । त्रियुगनामानं नारायणं व्रजामहे शरणं यामः ॥ २७ ॥
अजस्य चक्रं त्वजयेर्यमाणं मनोमयं पञ्चदशारमाशु ।
त्रिनाभि विद्युद्बलमष्टनेमि यदक्षमाहुस्तमृतं प्रपद्ये ॥ २८ ॥
तात्पर्यम्
गुणत्रयनाभि । विद्युद्ब्रह्मा । ‘विद्युद्ब्रह्मेत्युपासीते’ति श्रुतेः । ‘जगच्चक्र-स्याक्षभूतो बलरूपश्च केशव’ इति च ॥ २८ ॥
पदरत्नावली
अजस्य विष्णोरधीन चक्रं पुनः(पुनः)प्रवाहरूपेण परिवर्तमानत्वाच्चक्रसंज्ञं जगद् यः केशवोऽक्षमक्षस्थानीयो यस्य तत्, यदक्षमाहुः, तमृतं प्रपद्य इत्यन्वयः ।‘चक्रं न वृत्तम्’‘तदेवर्तम्’। चक्रं चेत् केनचिदीर्यमाणं परिवर्तते । अस्य किं प्रेरकमित्यत उक्तम्- अजयेति ॥ ‘कार्यते ह्यवशः कर्म चेत् केनाचिदीर्यमाणं परिवर्तते’। अस्य वैलक्षण्यमाह– मानोमयमिति ॥ कान्यस्याराणीत्यत्राह– पञ्चदशारमिति ॥ श्रोत्रादीनि दश, शब्दादयः पञ्च, पृथिव्यादीनि च प्राणादयो वा, पञ्च । एत एवाराणि दलानि यस्य तत् तथा, तत् । आशु शीघ्रभ्रमं व्याप्तं वा । त्रिणाभि त्रयो गुणाः सत्वादयो नाभिर्यस्य तत् तथा । यदक्षमित्यनेनोक्तं केशवाधारत्वं स्पष्टयति– विद्युदिति ॥ विद्युद्विशेषेण द्योजमानत्वाद् ब्रह्म बलमाधारो यस्य तत् तथा तत् । ‘विद्युद्ब्रह्मेत्युपासीत’ ‘जगच्चक्रस्याक्षभूतो बलरूपश्च केशवः’ इति च । देवासुरमनुष्यादयोऽष्टौ नेमिर्यस्य तत् तथा तम् ॥ २८ ॥
सत्यधर्मीया
अजस्य चक्रमिति श्लोके त्रिनाभीति नाभित्रयोपेतमित्यसङ्गतं भातीत्यतो विवक्षितमर्थमाह ॥ गुणत्रयेति ॥ गुणत्रयं सत्त्वादयो नाभिर्मध्यं यस्य तत् । विद्युच्चपलेति चापल्यं वारयति ॥ विद्युद्ब्रह्मेति ॥ विद्युद्ब्रह्मेत्युपासीतेति श्रुतेरिति । विद्योतते स्वातन्त्र्येणेति तत्तथा । अक्षत्वं बलरूपत्वं च प्रामाणिकमित्येकस्य युज्यत इत्याह ॥ जगच्चक्रस्येति ॥ अथ श्लोकार्थः ॥ अजस्य हरेरधीनं चक्रं, जगदाख्यम् । ‘चक्रं न वृत्तम्’ इति श्रुतेः । परिवर्तमानम् प्रवाहतश् चक्रं चेच्चक्रे कस्तत्प्रेरणमित्यत ईरयति– अजयेति ॥ अजयेर्यमाण-मित्येकं पदम् । अजयार्थं जीवापजयार्थम् ईर्यमाणं प्रेर्यमाणम् । अजया प्रकृत्येर्यमाणं प्रेर्यमाणम् । मनोमयं तत्प्रधानकम् । मन एव मनुष्याणां कारणं बन्धमोक्षयोरित्यादेरिति । पञ्चदशारम् । श्रोत्रादिदशकं शब्दादयः पृथिव्यादयः प्राणादयो वाऽराणि दलानि यस्य तत् । ‘अरं शीघ्रे च चक्राङ्ग’ इति विश्वः । आशु शीघ्रगम् । त्रिनाभि । त्रयो गुणाः सत्त्वाद्या नाभिर्मध्यभागो यस्य तत् । नाभि नरक्षत्रिये । उभावन्यत्र पुंसि । नाभिर्मुख्यनृपे चक्रमध्यक्षत्रिययोः पुमानिति लिङ्गानुशासनसूत्रविश्वाद्युक्तेः । विद्युद्ब्रह्म बलमाधारभूतं यस्य तत् । अष्टनेमि अष्टौ देवदानव-मानवगन्धर्वराक्षसपिशाचतिर्यक्स्थावररूपाणि नेमयस्तदन्तर्भागा यस्य तत् । ‘नेमिस्त्रिकायां कूपस्य चक्रान्त’ इति विश्वः । यो भगवानक्षो रथाङ्गविशेषः । अक्षमिन्द्रिये । इन्द्रिये किम् । रथाङ्गादौ मा भूदिति सविवरणलिङ्गानुशासनात् । महाचक्रान्तर्वर्ती च अवान्तरवर्तुलचक्रप्रान्तभाग इत्यर्थः । आहुर्महान्तः । ऋतं ज्ञानात्मकम् । ‘तदेवर्तं तदु सत्यमाहुः’ इत्यादेः । तं प्रपद्ये । अहमित्यस्य लाभ उत्तमपुरुषत्वात् । चक्रं द्वितीयैकवचनम् । चक्रवज्रान्धकारेत्यादिना लिङ्गानु-शासने पुल्लिङ्गताया उक्तेः । आशु यथा भवति तथेर्यमाणमित्याश्वन्वयः । त्रिनाभिविद्युद्बलमिति पदमेकम् । क्वचित्पुस्तकेऽष्टनेमिमिति लेखाऽस्ति । समूलमेवं विवरणस्येति ज्ञेयम् ॥ २८ ॥
छलारी
इदानीं जगच्चक्राधारत्वेन परमात्मानं स्तौतीत्याह ॥ अजस्येति ॥ चक्रं चक्रवत्पुनः प्रवाहरूपेण हरौ वर्तमानत्वाच्चक्रसंज्ञं जगद्यदक्षं, यः केशवोऽक्षोऽक्षस्थानीयो यस्य तद्यदक्षं यदाधारमाहुः । ‘चक्रं न वृत्तं व्यतीरवीविपत्’ इति श्रुतेः । तम् ऋतम् ऋतशब्दवाच्यं प्रपद्ये । तदेवमिति श्रुतेः । कथम्भूतम् । अजस्य विष्णोः । अधीनमिति शेषः । अजया प्रकृत्येर्यमाणं प्रेर्यमाणम् । ‘कार्यते ह्यवशः कर्म सर्वप्रकृतिजैर्गुणैः’ इति स्मृतेः । मनोमयं मनःप्रधानम् । ‘मन एव मनुष्याणां कारणं बन्धमोक्षयोः’ इति स्मृतेः । पञ्चदशारमिन्द्रियाणि दश शब्दादयः पञ्च पृथिव्यादीनि वा पञ्चेत्येवं पञ्चदशारा दलानि यस्य स तथा । आशु शीघ्रम् । त्रिनाभि त्रितयः सत्त्वादयो गुणा नाभिरिव यस्य स तथा । विशेषेण द्योतमानत्वात् । विद्युद्ब्रह्म बलं यस्य स तथा । ‘विद्युद्ब्रह्मेत्युपासीत’ इति श्रुतेः । जगच्चक्रस्याक्षभूतो बलरूपश्च केशव इत्युक्तेः ॥ अष्टनेमीति ॥ अष्ट देवदानवमानवगन्धर्वराक्षसपिशाचतिर्यक्स्थावराणि नेमयो यस्य स तथा ॥ २८ ॥
लिङ्घेरी
यस्याजस्य विष्णोर्वशमजया जडप्रकृतिनियामकचित्प्रकृत्या जडप्रकृतित्त्वादि- गुणैश्चेर्यमाणं प्रेर्यमाणम् । ‘कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः’ इत्यादेः । मनोमयमन्तः करणप्रधानकम् । ‘मन एव मनुष्याणां कारणं बन्धमोक्षयोः’ इत्यादेः । पञ्चदशारं श्रोत्रादि-दशेन्द्रियशब्दादिपञ्चकरूपपञ्चदशदलोपेतम् । पञ्चमहाभूतपञ्चप्राणश्रोत्रादि पञ्चेन्द्रियरूपपञ्चदश-दलोपेतम् । आशु शीघ्रभ्रमणं व्याप्तं च । गुणत्रयलक्षणनाभित्रयोपेतत्वात्त्रिनाभिः । विशेषतो द्योतमानत्वाद्विद्युद्धरिः स एव बलमाधारो यस्य तद्विद्युद्बलम् । विद्युद्ब्रह्मेत्युपासीत । अष्टो देवदानवमनुष्यगन्धर्वतिर्यक्पिशाचराक्षसस्थावराख्याः ॥ ‘देवदानवगन्धर्वतिर्यङ्नरपिशाचकाः । राक्षसाः स्थावरा अप्यष्टौ विटपा….॥’ इति वायुपुराणोक्ताः । नेमयो वर्तुलाकारधारा यस्य तत्तथा । प्रवाहरूपेणावृत्त्या भ्रमणात् । चक्रसंज्ञं जगत् । ज्ञानिनो यदक्षं यो हरिरक्षश्चक्रद्वय-मध्यस्थ छिद्रगस्थूलदारुस्थानीयो यस्य तत्तथा आहुः । अहं तम् ऋतं पूर्वावगतवत्सदावस्थितं निर्विकारं हरिं प्रपद्ये शरणं गतोऽस्मि । ‘जगच्चक्रस्याक्षभूतो बलरूपश्च केशव’ इति वचनबलादत्र चक्रशब्देन जगद्ग्राह्यम् ॥ २८ ॥
यदेकवर्णं तमसः परं सदलोकमव्यक्तमनन्तपारम् ।
आसाञ्चकारोपसुपर्णपत्रमुपासते योगरथेन धीराः ॥ २९ ॥
पदरत्नावली
इदानीं तुरीयमूर्तिं नमति यदिति ॥ एको वर्णो यस्य तदेकवर्णम् । स्वरव्यञ्जनविभागविवक्षामन्तरेण व्यक्तेरेकत्वम् । अन्यथा षोडशस्वरा इति संख्यानुपपत्तिः । ‘ओमित्येतदक्षरमिदं सर्वम्’ ‘प्रणवं हीश्वरं विद्यात् सर्वस्य हृदये स्थितम्’ ‘सर्वव्यापिनमोंकारम्’। तमसोऽज्ञानात् परं तद्रहितमित्यर्थः । ‘तुरीयं तत् सर्वदृक् सदा’ प्रकृतेः परं वा । ‘अक्षरात् परतः परः’ ‘कूटस्थोऽक्षर उच्यते’ ‘उत्तमः पुरुषः’ । यत् सत्यं ज्ञानम् अवसादयति नाशयत्य-ज्ञानमिति । ‘न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः’ । निर्दोषज्ञानं वा । ‘ऐकात्म्य-प्रत्ययसारम्’ । षद्लृ गताविति धातुः । अलोकं लोकव्यवहाराविषयम् । ‘अदृष्टमव्यवहार्यम-लक्षणमचिन्त्यमव्यपदेश्यम्’ अत एवाव्यक्तम्, अनन्तपारम् अन्तपारवर्जितम् । पारं पूरणं समुदायः, मात्राणामिति शेषः । अनन्तमात्रमित्यर्थ इति वा । ‘अमात्रोऽनन्तमात्रश्च’ । धीरा योगरथेन भक्तिपूर्वकध्यानलक्षणरथेन यदुपासते भजन्ति । ‘ॐकारमात्मैव संविशत्यात्म-नाऽऽत्मानं य एवं वेद’ । यश्चोपसुपर्णपत्रं सुपर्णपक्षसमीपे जीवाख्यवाहनपृष्टे आसाञ्चकार उपविवेश सर्वस्य हृदयस्थितः । ‘य आत्मनि तिष्ठन्’ ‘द्वा सुपर्णा सयुजा’ ॥ २९ ॥
सत्यधर्मीया
स्वापेक्षितापरोक्षज्ञानावाप्त्यै तं नमति ॥ यद् ब्रह्मेति ॥ एकवर्णम् अनवान्तरभेद एको वर्णः । ‘ॐ इत्येकाक्षरं ब्रह्म’ । ‘प्रणवं हीश्वरं विद्यात्सर्वस्य हृदये स्थितम् । सर्वव्यापिनमोङ्कारम्’ इत्यादेः । तमसः प्रकृतेरज्ञानाद्वा परमतीतं विलक्षणम् । ‘अक्षरात्परतः परः’ । ‘कूटस्थोऽक्षर उच्यते’ । ‘द्वाविमौ । उत्तमः पुरुषस्त्वन्य’ इत्यादेः । ‘क्वाज्ञानादिः परस्य’ इत्यादेः । सत् साधुगुणोपेतम् । ‘सद्भावे साधुभावे च’ इत्यादेः । ज्ञानात्मकं वा । ऐकात्म्यप्रत्ययसारमित्यादेः । अलोकं लोकविलक्षणम् । अव्यक्तं प्रसाद-मन्तरा । व्यक्तं विविधसङ्गोपेतं तन्न भवतीति वाऽव्यक्तम् । अनन्तपारम् अनन्तान् जीवा-न्पारयति संसृतेस्तारयतीति तत्तथा । अनंतः स्वयं स्वतोऽबद्धः पारयति तत्तथेति वा । अन्तो नाशः पारो गुणेयत्ता न स्तो यस्य तत्तथा । यद् उपसुपर्णपत्रं सुपर्णा जीवा त एव । ‘पत्रं तु वाहने पर्णे पक्ष’ इति विश्वात्पत्रं वाहनम् । तस्योप समीपे । उपसुपर्णपत्रम् । तदुपरीति यावत् । आसाञ्चकारोपविवेश । यदेकवर्णमित्यादि न देवतान्तरपरं किन्तु श्रीहरिविषयक-मेवेत्युपसुपर्णपत्रमासाञ्चकारेत्यनेन ध्वनयति । तस्यैव गरुडारूढत्वादि मुख्यमिति विख्यातेः । द्वा सुपर्णा सयुजेत्यादेः । य आत्मनि तिष्ठन्नित्यादेः । तद् धीरा धिया रमन्त इति रमेर्यमन्ताड्ड इति डः । ते योगरथेन । योगानां समाध्यादीनां रथो गतिस्तेन भक्तिपूर्वकध्यान-जनितावान्तरज्ञानेन । उपासते तं नमामीत्युत्तरेणान्वयः । योगो योगी उपायवान् । रथः कायस्तेन । ‘रथः स्यात्स्यन्दने काय’ इति विश्व इति वा ॥ २९ ॥
छलारी
एवं जगच्चक्राधारत्वेन स्तुत्वेदानीं सर्वजीवनियंतृत्वेन हरिं स्तौतीत्याह ॥ यदिति ॥ एकवर्णमेको मुख्यो वर्ण ओङ्कारो यस्य स तथा तम् । प्रणवप्रतिपाद्यमित्यर्थः । ‘प्रणवं हीश्वरं विद्यात्सर्वस्य हृदये स्थितम्’ इति श्रुतेः । तमसः प्रकृतेः परम् । ‘अक्षरात्परतः पर’ इति श्रुतेः । सीदति जानातीति सत् । षद्लृ गताविति धातोः । गत्यर्थस्य ज्ञानार्थ-त्वात् । निर्दोषज्ञानमित्यर्थः । ऐकात्मप्रत्ययसारमिति श्रुतेः । अलोकं लोकविलक्षणम् । स आत्मा नेति नेतीति श्रुतेः । अव्यक्तं स्वप्रसादमन्तरेणाप्रत्यक्षम् । ‘यमेवैष वृणुते तेन लभ्य’ इति श्रुतेः । न विद्यतेऽन्तपारौ यस्येत्यनन्तपारं कालतो देशतश्चापरिच्छिन्नमित्यर्थः । एतादृशं यद्रूपमुपसुपर्णपत्रं सुपर्णो जीवः । द्वा सुपर्णा स युजेति श्रुतेः । पत्रं वाहनम् । ‘पत्रं वाहन-पक्षयोः’ इत्यभिधानात् । जीवाख्यवाहनस्योपोपर्यासांचकार तं नियन्तृत्वेनोपविवेश । ‘प्राज्ञे-नात्मनाऽन्वारूढ’ इति श्रुतेः । तदेतद्रूपं धीरा ज्ञानिनो योगरथेन योगेन भक्तिपूर्वकध्यानलक्षणेन रथेन विष्णुप्राप्तिसाधनेनोपासते भजन्ते । तं नमामीत्युत्तरेणान्वयः ॥ २९ ॥
लिङ्घेरी
यन् नारायणाख्यं ब्रह्म । एकवर्णं ॐकाररूपैकाक्षरप्रतिपाद्यम् । ओमित्येकाक्षरं ब्रह्मेत्यादेः । तमसः प्रकृतेः परमुत्तमम् । सन्निर्दोषम् । अलोकं लोकविलक्षणमव्यक्तं स्वप्रसाद-मन्तराऽधिकारिप्रयत्नेन व्यक्तिशून्यम् । अनन्तपारं विनाशदेशकालादिपरिच्छेदाभ्यां विधुरम् । यच्चोपसर्पणपत्रं गरुडपक्षसमीपे । तत्स्कन्ध इति यावत् । आसांचकारोपविवेश । धीरा ज्ञानिनो योगरथेन रथवद्वेगवता ध्यानादिरूपयोगेनोपासते ॥ २९ ॥
न यस्य कश्चातिपिपर्ति मायां यया जनो मुह्यति वेदनार्थम् ।
तं निर्जितात्मात्मगुणं परेशं नमामि भूतेषु समं चरन्तम् ॥ ३० ॥
तात्पर्यम्
आत्मा च आत्मगुणाश्च निर्जिता येन ॥ ३० ॥
पदरत्नावली
जनो यया मायया वेदनार्थं ज्ञानविषयं हरिं प्रति, ज्ञानाख्यपुरुषार्थं वा (प्रति)मुह्यति । ‘अनीशया शोचति मुह्यमानः’ । कश्चन तामसप्रकृतिर्यस्य तां मायां नाति-पिपर्ति नातिक्रामति अत्येतुं समर्थो न भवति । सात्विकश्चेदस्य प्रसादेन जानाति । ‘अनादि-मायया सुप्तो यदा जीवः प्रबुध्यते’ ‘यमेवैष वृणुते’ । तं नमामीत्यन्वयः । नितरां जित आत्मा, आत्मगुणाश्च येन स तथा तम् । ‘निवृत्तेः सर्वदुःखानामीशानः प्रभुरव्ययः’ । ‘एको देवः सर्वभूतेषु गूढः’ ‘स एष सर्वेश्वरः’ एष सर्व एवोन्तर्याम्येष योनिः सर्वस्य ॥ ३० ॥
सत्यधर्मीया
तं निर्जितात्मात्मगुणमित्यप्रतीतेर्व्याकरोति ॥ आत्मा चेति ॥ आत्मा चात्मगुणाश्च निर्जिता येन स तम् । आत्मा मनश्च । आत्मगुणा रागादयो निर्जिताः पराजिता येन स तथा तम् ॥ अथ मूलार्थः ॥ यस्य हरेः । कश्च कोऽपि । मायां नातिपिपर्त्यत्येति । विना तद्दयाम् । ‘दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥’ इत्यादेः । वेदनार्थम् । वेदना ज्ञानं तस्यार्थो मुख्यविषयस्तं प्रति । यथा मायया मुह्यति विचित्रो भवति । मुह्यत्यर्थं भगवन्तं न वेदेति वा । ज्ञानरूपप्रयोजनमुद्दिश्य जनो मुह्यतीति वा । ज्ञानी चेदर्थं वेद न मुह्यतीति । स च नयस्य नीतेः सकाशात् । यया जन इतरो मुह्यति तां मायां कश्च कोऽप्यतिपिपर्त्यत्येतीति वा । निर्जितात्मात्मगुणम् । निर्जिता आत्मा प्रकृति-रात्मगुणा दुःखाज्ञानादयो येन स तथा । आत्मा जीव आत्मगुणा दुःखादयो निर्जिता येन स तं वा । अनीशया शोचति मुह्यमानः । ‘अनादिमायया सुप्तो यदा जीवः प्रबुद्ध्यते । निवृत्तेः सर्वदुःखानामीशानः प्रभुरव्यय ॥’ इत्यादेः । परेशं, सर्वभूतेषु समं तत्तद्योग्यतामनुसृत्य चरन्तम् । ‘एको देवः सर्वभूतेषु गूढः । एष सर्वेश्वर’ इत्यादेः । समं निर्दोषमिति वा । ‘निर्दोषं हि समं ब्रह्म’ इत्यादेः । परेषां मुक्तानामीशः । ‘उतामृतत्वस्येशान’ इत्यादेः । परा च ई तस्याः शं येन तमिति वा । समं मया सहितं रमापतिमिति वा ॥ ३० ॥
छलारी
इदानीं मायानियन्तृत्वेन स्तौतीत्याह ॥ न यस्येति ॥ यस्य हरेरधीनां यां मायां प्रकृतिं कश्च कोऽपि तत्प्रसादं विना नातिपिपर्ति नातिक्रामत्यत्येतुं समर्थो न भवति । ‘दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥’ इति स्मृतेः । तं नमामीत्यन्वयः । मायाकार्यमाह ॥ ययेति ॥ यया प्रकृत्या जनो मुह्यति बद्ध्यते तेनार्थं भगवत्स्वरूपं स्वस्वरूपं च न वेद न जानाति । न चानिष्टं प्राप्नोतीति भावः । ‘अनीशया शोचति मुह्यमान’ इति श्रुतेः । कथम्भूतम् । निर्जितात्मात्मगुणं नितरां जिताऽऽत्मा प्रकृतिरात्मगुणा दुःखाज्ञानादिदोषा येन तम् । यद्वा । निर्जिता आत्मगुणा रागादयो येन तमिति । ‘निरनिष्टो निरवद्य’ इति श्रुतेः । परेषां मुक्तानामीशम् । ‘उतामृतत्वस्येशान’ इति श्रुतेः । भूतेषु सर्वेषु प्राणिषु विषये समं तत्तद्योग्यतानुसारेणाचरन्तं प्रवर्तकम् ॥ ३० ॥
लिङ्घेरी
कश्च कोऽप्यधिकारी यस्य हरेर्मायां बन्धनादिशक्तिं जडप्रकृतिं च यस्य प्रसादेन विना नातिपिपर्ति नातितरति । ‘दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥’ इत्यादेः । यया मायया जनोऽसुरस्वभावो मुह्यति विपरीतज्ञान-वान्भवति । ‘सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी’ इत्यादेः । जनो ययाऽऽवृतोऽर्थं स्वस्वरूपादिलक्षणं न वेद । निर्जिता आत्मानो रमादिचेतनास्तद्गुणाश्च येन स तथा । सर्व-चेतनोत्तमत्वतन्नियामकत्वा देरात्मेश्वरम् । ‘शाश्वतं शिवमच्युतं’ ‘नारायणं महाज्ञेयम्’ ‘य आत्मानमन्तरो यमयति’ इत्यादेः । परेशं मुक्तस्वामिनम् भूतेषु सर्वप्राणिषु समं ज्ञानानन्दादिभि-श्चरन्तं नियामकतया संचरन्तम् । तं हरिं नमामि । सर्वेषां भूतानामन्तरपुरुषः सम आत्मेति विद्यात् । ‘ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिन’ इत्यादेः ॥३०॥
इमे वयं यत्प्रिययैव१ सृष्टा२ सत्वेन सृष्टा बहिरन्तरं विभो ।
गतिं न सूक्ष्मामृषयश्च विद्महे कुतोऽसुराद्या इतरप्रधानाः ॥ ३१ ॥
पदरत्नावली
सात्विकानामपि भगवत्कटाक्षवीक्षामन्तरेण तज्ज्ञानं दुरापमित्यर्थादुक्तम् । तत् स्पष्टमाह– इम इति ॥ विभो यत्कृपयैव ये तु येन सत्वेन गुणेन सृष्टा, येन बहिरन्तरं च सृष्टाश्चेमे वयं यस्य तव सूक्ष्मां गतिं विश्वव्यापिनीं सच्चिदानन्दाकृतिं न विद्महे, यदनुग्रह-मन्तरेणेति शेषः । न च ज्ञानाभावात् तज्ज्ञानाभाव इत्याह– ऋषयश्चेति ॥ ज्ञानिनोऽपि । अन्यथा ब्रह्मादीनामप्राधान्यं स्यात् । कैमुत्यन्यायमाह– कुत इति ॥ हेतुगर्भविशेषणमाह– इतरेति ॥ इतरस्तमोगुणः प्रधानो येषां ते तथा ॥ ३१ ॥
सत्यधर्मीया
सात्त्विका अपि तात्त्विकीं यत्कृपामपहाय न शक्ता ज्ञातुमितरे तामसराजसा न समर्था इति किं वक्तव्यमिति स्पष्टमाचष्टे ॥ इमे वयमिति ॥ सत्वेन सृष्टा अपि यत्कृपयैव सृष्टा इत्यन्वयः । इमे वयम् । यत्प्रियया सृष्टाः सन्निधानपात्रत्वेन प्रियया तन्वा प्रतिमास्थानीयेन सत्वेनेत्यन्वयः । यत्कृपयेति स्फुटार्थः पाठः । अनेन संवित्सम्पत्ता-वनुबन्धः सूचितः । अत एव ऋषयश्चेदप्यन्तरं बहिश्च । हे विभो व्याप्त । एतेनासन्निकर्षा-न्निष्कृष्य संविदसम्भवासम्भावित्वं वारितं भवति । सूक्ष्मां तव गतिं स्वरूपम् । न विद्महे न जानीम इति वा । विदो लटो वेति मसो मादेशः । सुदृशामपि दशेदृशी यदा तदेतरेषां कथा केत्याह ॥ कुतोऽसुराद्या इति ॥ तामसा असुरा राजसा नित्यसंसारिणश्च कुतो जानीयुः । उभयत्र क्रमाद्धेतू ॥ सूक्ष्मामितरप्रधाना इति ॥ सूक्ष्मत्वादृषीणामपि विना कृपां (न) पदप्राप्तिरसुरादीनामितरौ तमोरजोगुणौ प्रधानौ सृष्टिनष्टिहेतुभूतौ येषां ते तथेति तेषां च तदप्राप्तिरिति ज्ञेयम् ॥ ३१ ॥
छलारी
इदानीं साकल्येनाज्ञेयत्वेन हरिं स्तौतीत्याह ॥ इम इति ॥ यस्य हरेः प्रियया तन्वा प्रतिमास्थानीयेन सत्त्वेनैव ज्ञानहेतुसत्त्वगुणेनैव सृष्टा उत्पादिताः । यत्कृपयैव सृष्टा इति पाठे यस्य कृपया सृष्टाः संबद्धाः कृपाविषयभूता इत्यर्थः । अत एव ऋषयश्च ज्ञानिन एतादृशा अपीममेव यं देवाः । हे विभो सर्वत्र व्याप्त । बहिरन्तरं ब्रह्माण्डाद्बहिरन्तरश्च सूक्ष्मामाकाश-वदतिव्याप्य द्योतत्वेन स्थिताम् । ‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थित’ इति श्रुतेः । तव गतिं त्वद्वपुर् न विद्महे न जानीमः । साकल्येनेति शेषः । इतरप्रधाना इतरौ तमो-गुणरजोगुणौ प्रधानौ प्रचुरौ येषां ते तथा तामसराजसस्वभावा असुराद्याः । असुरशब्देन तामसा-स्तमोयोग्या ग्राह्याः । आदिशब्देन राजसा नित्यसंसारिणो ग्राह्याः । कुतो हेतोर्न जानीयुरिति शेषः । तं नमामीति पूर्वेणान्वयः ॥ ३१ ॥
लिङ्घेरी
इमे सप्तलोकाधिपत्यादिनाऽतिप्रसिद्धा वयं यस्य हरेः कृपयैव केवलं दयया न तु स्वप्रयोजनाद्यर्थं दृष्टा दृष्टिविषयीकृताः सन्तः सत्त्वेन गुणेन ब्रह्माण्डाद्बहिः सृष्टा ब्रह्माण्डादन्तरं च सृष्टाः । तदैक्षत । स इदं सर्वमसृजतेत्यादेः । ऋषयश्च ज्ञानिनोऽपि वयं यस्य विभोः सूक्ष्मां तदनुग्रहमन्तरा स्वप्रयत्नेन ज्ञातुमशक्यां गतिं स्थितिं न विद्महे । इतरप्रधाना तमोगुणप्रधाना अतितामसा असुराद्यास्तां गतिं कुतः कस्माद्धेतोर्विद्युर् न कुतोऽपि । स नः प्रसीदता-मित्युत्तरेणान्वयः ॥ ३१ ॥
पादौ महीयं स्वकृतैव यस्य चतुर्विधो यत्र हि भूतसर्गः ।
स वै महापूरुष आत्मतन्त्रः प्रसीदतां ब्रह्म महाविभूतिः ॥ ३२ ॥
पदरत्नावली
स्वकृतेयं मही यस्य पादाविव न स्वरूपपादौ, यत्र यस्यां मह्यां जरायुजादिचतुर्विधः भूतसर्गः, स वै स एव प्रसीदतामित्यन्वयः । महापूरुषः पुरुषोत्तमः महद् विविधं भवनं यस्य स तथा । विविधभवनमेकस्य कथमुपपद्यत इति तत्राह– ब्रह्मेति ॥ अपरिच्छिन्नगुणपूर्णत्वम् । ‘अथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन् गुणाः’ इति श्रुतेः । पादावित्यनेन ‘पादोऽस्य विश्वा भूतानि’ इति श्रुत्युक्तार्थः पातालमेतस्य हि पादमूलमिति स्मृत्युक्तार्थश्चेत्युभयं वक्ष्यत इति ज्ञातव्यम् ॥ ३२ ॥
सत्यधर्मीया
अन्यस्या देवताया नैवंविधं विविधभवनमिति वन्दनीयोऽयमेवेति वक्तुं विराड्रूपिणः प्रसादमाशास्ते ॥ पादाविति ॥ स्वकृता हरिणैव रचितेति मही इयं पादौ । स्वशब्देन पादयोर्ग्रहणम् । यस्य हरेः स्वाभ्यां पदाभ्यामियं मही कृतेति । इयं पादावुच्यत इति वा । तदुत्पन्ना तदाश्रितेत्येव तच्छब्दवाच्या । न तु तादात्म्येनेति ज्ञेयम् । पद्भ्यां भूमि-रजायत । यत्र मह्याम् । चतुर्विधो जरायुजस्वेदजाण्डजोद्भिजेति चतुस्रो विधा यस्य सः । भूतसर्गो भूतोत्पत्तिर्भवति सेयं महीत्यन्वयः । महापुरुषः पुरुषोत्तमो विराट्पुरुषः । हेतुस्तत्र आत्मतन्त्र इति ॥ स्वतन्त्रः । आत्मानोऽस्मदादयस्तन्त्रं कुटुम्बव्यापारे सेवका इति यावत् । ‘तन्त्रं कुटुम्बव्यापार’ इति विश्व इति यस्य स वा । आत्मनां तन्त्रं स एव येन कुटुम्बी । महाविभूतिर्महती मेदिनी पादकत्वादिकाऽत्रोक्ता विभूतिर्विविधभवनमैश्वर्यं यस्य सः । महती विभूतिर्महालक्ष्मी यस्येति स वा । किमभिधेयं तस्येत्यत आह ॥ ब्रह्मेति ॥ ‘अथ कस्मा-दुच्यते ब्रह्मेति । बृहन्तो ह्यस्मिन् गुणा’ इति श्रुतेः । अत्रोक्तं सर्वं युक्तमित्याह ॥ ब्रह्मेति ॥ गुणपूर्णमिति हेतोर्नासम्भावितमिदमिति । वै हि । ‘विश्वतः परमां नित्यम्’ इत्यादिश्रुतिसिद्धिं महापुरुषत्वादेर्द्योतयत इति ज्ञेयम् ॥ ३२ ॥
छलारी
इदानीं विराड्रूपेण स्तुवन् प्रार्थयते ॥ पादौ महीति ॥ यत्र यस्यां मह्यां जरायुजाण्डजस्वेदजोद्भिज्जत्वेन चतुर्विधो भूतसर्गो जीवसृष्टिरभूत् । सेयं स्वकृतैव स्वपादो-त्पन्नैव । ‘पद्भ्यां भूमिर्दिश’ इति श्रुतेः । मही भूमिर्यस्य विराड्रूपस्य पादाविव न स्वरूपपादौ । स महापुरुषः स्थूलरूपी पुरुषनामा हरिः । सहस्रशीर्षा इति श्रुतेः ॥ ३२ ॥
लिङ्घेरी
यस्येयं मही भूमिः पादौ स्वकृतैव पादजत्वेन पादाश्रिततया परमात्मकृतैव । यत्र भूमौ चतुर्विधोऽण्डजादिभेदेन चतुःप्रकारो भूतसर्गः प्राणिसृष्टिरभूत् । वेत्यनेन पद्भ्यां भूमिरित्यादि श्रुतिप्रसिद्धिं च सूचयति । स महापुरुषो ब्रह्मा परं ब्रह्म गुणपूर्णत्वाद्ब्रह्म नाम । ‘अथ कस्मादुच्यते ब्रह्मेति । बृहन्तो ह्यस्मिन् गुणा’ इत्यादेः । महाविभूतिः साक्षाच्छ्री-पतित्वेनापरिच्छिन्नैश्वर्यः । आत्मतन्त्रः स्वसत्ताप्रतीतिप्रवृत्त्यादिषु परानपेक्षो हरिर्नः प्रसीदतां प्रसन्नो भवतु ॥ ३२ ॥
अम्भस्तु यद्रेत उदारवीर्यं सिध्यन्ति जीवन्त्युत वर्धमानाः ।
लोकास्त्रयोऽथाखिललोकपालाः प्रसीदतां ब्रह्म महाविभूतिः ॥ ३३ ॥
तात्पर्यम्
‘सूर्यसोमयमेन्द्रादीनृतेऽन्ये लोकपा अपि ॥ अद्भिर्जीवन्ति सोमाच्च महेन्द्रादीनृतेऽखिलाः । अपां सोमस्य चेन्द्राद्याः सर्वे वै जीवनप्रदाः’ इति च ॥ ३३ ॥
पदरत्नावली
इदं चैकं महाविभूतित्वं हरेर्युक्तमित्याह– अम्भ इति ॥ त्रयो लोका, अथाखिललोकपालाश्चोदारवीर्यम् उत्कृष्टबलं यदम्भो यस्य रेतो भवति तेन वर्धमानाः सिध्यन्ति सिद्धा अवाप्तफला भवन्ति, जीवन्त्युत अन्तरमपि तृप्तिलक्षणं जीवनमाप्नुवन्त्यपि । ‘सोऽर्चन्न-चरत् तस्यार्चत आपोऽजायन्त’ ‘आपो नारा इति प्रोक्ता आपो वै नरसूनवः’ ‘तद्यत् प्रथम-ममृतं तद्वसव उपजीवन्ति’ इत्यादि । सूर्यसोममहेन्द्रादीन् विनाऽन्येऽखिललोकपाला अद्भि-र्जीवन्ति । किञ्चापां सोमस्य च जीवनप्रदा इन्द्राद्या इतीमं विशेषं तुशब्दो ज्ञापयति । इयमेव विशेषं तुशब्दो ज्ञापयतीति कुतो ऽन्यत् किं न स्यादितीयं शङ्का, ‘सूर्यसोमयमेन्द्रादीनृतेऽन्ये लोकपा अपि । अद्भिर्जीवन्ति सोमाच्च महेन्द्रादीनृतेऽखिलाः । अपां सोमस्य चेन्द्राद्याः सर्वे वै जीवनप्रदाः’ इत्यनया परिहृतेति ज्ञायते । महती विभूतिः सूर्यसोमविधिविशेषकल्पकैश्वर्यलक्षणा यस्य स तथा । एवंविधः क इति तत्राह– ब्रह्मेति ॥ ३३ ॥
सत्यधर्मीया
अम्भस्तु यद्रेत इति श्लोके लोकेशानामिन्द्रादीनां जीवानां जीवनमुच्यते । तथा सोमं मनो यस्येति श्लोके च तेषामेव सोमो बलद इत्युच्यत इति भाति । अत उभयत्र विवक्षितमर्थं मानेनैवाह ॥ सूर्येति ॥ सूर्यः सोमो यमश्चन्द्रश्चादयो येषां ते तान् ऋते विना । अन्ये वरुणावराः । अद्भिस्तदभिमानिना वरुणेन जीवन्ति । तमुपजीव्य वर्तंत इत्यर्थः । महेन्द्रादीनृतेऽखिला लोकपा इत्यन्वेति । ते च चन्द्रावरा वरुणाद्याः । तर्हि वरुणस्य चन्द्रस्य च क उपजीव्य इत्यत आह ॥ अपामिति ॥ वरुणस्य चन्द्रस्य चेन्द्राद्याः सर्वे उत्तमा जीवनप्रदा इत्यर्थः ॥ अथ श्लोकद्विकयोजना ॥ उदारवीर्यमुदारमुत्कृष्टं वीर्यं बलं यस्य तद्यद्रेतः शुक्रमंभ उदकम् । तज्जातमिति यावत् । ‘शिश्नाद्रेतो रेतस आप’ इति श्रुतेः । त्रयो लोकाः, अखिललोकपाला वरुणवरान्विहायान्ये तदवराः । तथा सोमोत्तमानतिहाय तदवराश्चेति सर्वे । यदिति विश्लिष्टमावर्तते । तच्च यत इति विपरिणतमन्वेति । रेतस इति पञ्चमी । श्रुतेः श्रुतौ । यतो रेतसो वर्धमानाः सिद्ध्यन्ति सिद्धिमाप्नुवन्ति । उतापि जीवन्ति तृप्ता भवन्ति । यतस्त्रयो लोकास्तत्स्था जनाः । सिद्ध्यन्त्युत्पद्यंते । जीवन्ति प्राणान्धारयन्ति । उत वर्धमाना बलादि-मन्तो भवन्ति । तदम्भो यद्रेतः स महाविभूतिः । सोऽर्चन्नचरत्तस्यार्चत आपोऽजायन्त । ‘आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।’ ‘तद्यत्प्रथमममृतं तद्वसव उपजीवन्ति’ इत्यादि पूर्वाचार्योदाहरणं हरिजत्वमात्रविवक्षयेति ज्ञेयम् । तुश्च त्याज्यत्यागग्राह्यग्रहणरूपमानिक-विशेषद्योतकः । इयमेका महाविभूतिस्तद्वान्प्रसीदतामित्यन्वयः ॥ ३३ ॥
छलारी
अप्स्रष्ट्रत्वमंभसा त्रिलोकजीवनादिप्रदत्वरूपमाह । विभूतियुक्तत्वेन परमात्मानं स्तौति ॥ अंभस्त्विति ॥ उदारमुत्कृष्टं वीर्यं शक्तिर्यस्य तदुदारवीर्यमंभो यद्रेतो यस्य रेतसो जातम् । ‘शिश्नात्तारो रेतस आप’ इति श्रुतेः । सप्तसु प्रथमेति सूत्राद् रेत इति प्रथमा पञ्चम्यर्थे । सः प्रसीदताम् । उदारवीर्यत्वमेवाह ॥ सिद्ध्यन्तीति ॥ त्रयो लोकास्त्रिलोकस्था जना अथाखिललोकाश्च येनांभसा सिद्ध्यन्ति जायन्ते । जीवन्त्युत जीवनमपि प्राप्नुवन्ति । वर्धमानाः पुष्टिबलादिनाऽभिवृद्धा भवन्ति ॥ ३३ ॥
लिङ्घेरी
उदारवीर्यं वक्ष्यमाणोत्कृष्टसामर्थ्यमंभो जलं यस्य हरे रेतो वीर्यस्थानीयम् । यद्रेतः कर्म । त्रयो लोकास्त्रिलोकस्था जना जीवन्त्युपजीवन्ति । रेतोपजीवनेन सिद्ध्यन्ति न निवृत्तिलक्षणं फलं प्राप्नुवन्ति । वर्धमानाः शरीरोपचयेनैधमानाश्च भवन्ति । न केवलमेवं साधारणा जनाः किं त्वखिललोकपालाः सूर्यसोमयमेन्द्रादिव्यतिरिक्ताः सर्वलोकपालाः । अथाऽपि उपजीवनादिकं कुर्वन्ति । ‘यद्यत्प्रथमममृतं तद्वसव उपजीवन्ति’ इत्यादिश्रुतेः । न त्विन्द्र-सूर्यादयोऽपि येषामबादिसर्वैरुपजीव्यत्वात् । अपां सोमस्य चेन्द्राद्याः सर्वे वै जीवनप्रदा इत्यादेः । एवं ब्रह्मणि श्रुतिस्मृत्यादिरूपशब्दराशयः । महतां मुख्यप्रतिपाद्यविभूतिरैश्वर्यं यस्य स हरिर्नः प्रसीदताम् ॥ ३३ ॥
सोमं मनो यस्य समामनन्ति दिवौकसां१ वै बलमन्ध आयुः ।
ईशो नगानां प्रजनः प्रजानां प्रसीदतां नः स महाविभूतिः ॥ ३४ ॥
पदरत्नावली
यो दिवौकसां बलमन्ध आयुर्वै बलाद्यभिवृद्धिहेतुर् यश्च नगानां वृक्षाणाम् अङ्कुरजननसामर्थ्यप्रदत्वेनेशः, यश्च प्रजानां प्रजनः सुरतानन्दगर्भलक्षणहेतुस्तं सोमं यस्य मनः समामनन्तीत्यन्वयः । तं देवानाम् अन्धो ऽन्नम्, इन्द्रादीन् ऋत इति शेषः । ‘अथ यच्चतुर्थ-ममृतं तन्मरुत उपजीवन्ति सोमेन मुखेन’ इति । सोमं यस्य मनः समामनन्ति, यो देवानां बलादिहेतुर् यश्च नगानामीशो, यश्च प्रजानां प्रजनः स हरिः प्रसीदताम् इति वा । सोमेन देवादिबलप्रदत्वेन महाविभूतिः । ‘सोमोऽददद्गन्धर्वाय’ ‘सोमः प्रथमः’ ‘ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणां श्येनो गृध्राणां स्वधितिर्वनानां, सोमः पवित्रमत्येति रेभन्’ अथवा देवादिबलप्रदमहाविभूतिः ॥ ३४ ॥
सत्यधर्मीया
यश्च सोमो दिवौकसां दिवमोको येषां ते । अदन्तो दिवशब्दः । दिवोकसामिति पाठोऽपि अछन्दो विच्छेदात् । ‘मन्दरः सौरभः शक्रभवनं खं दिवं नभ’ इति त्रिकाण्डशेषात् । द्यौरोको येषामित्येकमात्रपक्षे विग्रहः । ‘स्याद्दिवोका दिवौकाश्च देवे वापीह पक्षिणी’ इति रन्तिदेवः । ‘दिवोकाश्च दिवौकाश्च पुंसि देवे च चातके’। शब्दपरविप्रतिषेधात् । परयणादेशः । स्थानिवत्त्वेन पूर्वस्य न यण् । सकृद्गताविति न्यायान् नात्र भाष्यकृदिष्टिर्यद्यपि तथाऽपि प्रयोगानिर्वाह्या इति भान्वादयः । स्वावराणां देवानामन्धोऽन्नरूपम् । आयुस्तद्धेतुरेव बलं च । नगानां वनस्पतिमुखानामोषधीनां वा ईशो ऽङ्कुरजननशक्तिदः । प्रजानां प्रजनः प्रजोत्पादेन बलदस्तं सोमं यस्य मनस्तज्जातं तदाश्रितं च । समामनन्ति आम्नायाश्चन्द्रमा मनसो जात इत्याद्याः । स प्रसीदतामित्यन्वयः । ‘सोमो ददद्गन्धर्वाय’ । ‘सोमो वै राजा वनस्पती-नाम्’ । ‘सोमः प्रथम’ इत्यादेः ॥ ३४ ॥
छलारी
यः सोमो दिवौकसां स्वाधमानां देवानां बलमन्धोऽयमायुर्बलाभिवृद्धिहेतुः । नगानां वृक्षाणामंकुरजननसामर्थ्यप्रदत्वेनेशः । प्रजानां प्रजनः सुरतानन्दहेतुः । तं सोमं चन्द्रं यस्य मनो मनसो जातं समामनन्ति विदन्ति । ‘चन्द्रमा मनसो जात’ इति श्रुतेः । स इत्यन्वयः । देवादिबलादिप्रदसोमजनकत्वलक्षणमहाविभूतिः ॥ ३४ ॥
लिङ्घेरी
ज्ञानिनो यश्चन्द्रो दिवौकसां देवानां बलं शक्तिप्रदोऽन्धोऽन्नप्रद आयुरायुष्यहेतुः शैत्यकरः स्वरश्मिभिरोषधाद्यभिवृद्धिहेतुत्वाच्चन्द्रस्य देवानामप्यन्नादिदातृत्वं ज्ञेयम् । यश्चन्द्रो नगानां वृक्षानामुक्तरीत्यैवाङ्कुरोत्पत्त्यादिहेतुत्वेनेशः । यश्च प्रजानां जनानां प्रजननः स्वदर्शनेन स्त्रीपुंसां सुरतोद्योगहेतुत्वात्सन्तानहेतुः । ‘प्रजा स्यात्सन्ततौ जन’ इत्यभिधानम् । तं सोमम् । यस्य विष्णोर्मनः समामनन्ति मनसो जातं मनःश्रितं चाहुः । वेति स्वोक्तार्थे ‘चन्द्रमा मनसो जात’ इत्यादिकं प्रमाणयति । ‘ज्ञानिनः सोमं हरेर्मन’ इत्युक्तत्वादस्मिन्नर्थे प्रमाणान्तरं संवाद-यति । वेत्यनेनैवमग्रे ज्ञातव्यम् ॥ ३४ ॥
अग्निर्मुखं यस्य तु जातवेदा जातः क्रियाकाण्डनिमित्तजन्मा ।
अन्तः समुद्रे पचतः१ स्वधातून् प्रसीदतां नः स महाविभूतिः ॥३५॥
तात्पर्यम्
समुद्रे उदरे ॥ ३५ ॥
पदरत्नावली
अग्निर्यस्य मुखं मुखाज्जातः । ‘सप्तसु प्रथमा’ इति पञ्चम्यर्थे प्रथमा । मुखमाश्रित्य वर्तते च । अग्रणीत्वादग्निरित्यग्निशब्दस्यान्यत्र प्रवृत्तिसम्भवात् कथं निर्णयः स्यादिति तत्राह– जातवेदा इति ॥ ‘अग्निर्वा अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मि’ इति । जातं सर्वं वेत्तीति जातवेदश्शब्दस्यापि सावकाशत्वेन पूर्वोक्तसंशयानिस्तारः स्यादिति तत्राह– क्रियेति ॥ क्रियाकाण्डमेव निमित्तं तत् तथा तेन जन्म यस्य स तथा । ‘अग्निर्वै देवानां मुखं हृदयतमः’ इति श्रुतेरग्निमुखेनेन्द्रादिदेवानां स्वहविर्भागप्राप्त्यर्थमग्निहोत्रादौ मथनादिना अग्नेः प्रसिद्धस्य जन्मोपपत्तिरिति । ‘तद् वसव उपजीवन्ति अग्निनैव मुखेनेति च’ । अग्नेः पाचकत्व शक्तिरपि श्रीहरिनियतेत्यभिप्रायेणाह– अन्तःसमुद्रेति ॥ उदरान्तः स्थित्वा स्वधातून् स्वाधीनानि चतुर्विधान्यन्नानि पचतः जरयतः । ‘अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस् तत् पुरीषं भवति यो मध्यमस्तन्मांसं, योऽणुस्तन्मनः’ इति । ‘पचाम्यन्नं चतुर्विधम्’ इति । सर्वोपकारकाग्निजनकत्वलक्षणमहाविभूतिः । तुना वाचोऽपि हरेर्मुखं क्षेत्रमिति सूचयति ‘वाचो वह्नेर्मुखं क्षेत्रम्’ इति स्वोक्तेः ॥ ३५ ॥
सत्यधर्मीया
अन्तः समुद्र इति श्लोके समुद्रश्च न प्रसिद्ध इत्याह ॥ समुद्र उदर इति । कुक्षिः समुद्रा गिरय इत्युक्तेः । जन्यशब्देन जनकग्रहः । मुखमग्निः । यस्माद्यज्जायते चाङ्गाल्लोकवेदादिकं हरेः । तन्नामवाच्यमङ्गं तद्यथा ब्रह्मादिकं मुखमित्यादेः सामानाधिकरण्यं सम्भवति । पूर्वत्रोत्तरत्र संभवत्स्थलेऽत्र च जातपदस्य सत्वात्प्रथमा पञ्चम्यर्थे । सप्तसु प्रथमेति चिरन्तनव्याकरणसूत्रात् । ‘मुखादिन्द्रश्चाग्निश्च’ इत्यादि श्रुतेः । जातं वेत्तीति स तथा । जातं वेदो धनं यस्मादिति वा । उभयपक्षेऽपि ‘विदृ लाभे’, ‘विद ज्ञान’ इत्याभ्यां क्रमादसुन् । श्रुतिप्रतीकग्रहणमेतदादिनात्रेवान्यत्रापि क्रियत इति न कृत्यविचारणेनायासः सम्पादनीयः । अग्निर्वाऽहमस्मीत्यब्रवीज्जातवेदा वाऽहमस्मीत्यादि श्रुतेः । क्रियाणां यज्ञादीनां काण्डं वर्गः । समूह इति यावत् । ‘काण्डं वर्गे समीरितम्’ इति विश्वः । तदेव तन्निष्पत्तिरेव निमित्तं यस्य तज्जन्म । यस्य क्रियाकाण्डस्य क्रियाकलापस्य निमित्तं जन्म यस्य स वा । अग्निर्वै देवानां मुखम् । तद्वसव उपजीवन्ति । अग्निनैव मुखेनेत्यादेः । समुद्रे । कुक्षेः समुद्रकारणत्वा-त्तथोक्तिः । कुक्षावन्तस् तदन्तरस्थान् स्वधातून् स्वकीया स्वाधीना इति यावत् । तान्धातू-न्पाकविषयान् । ‘धातुः स्यादश्मविवृतौ विषयेषु’ इति विश्वः । ‘अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥’ इत्यादेर्मुख्यतो भगवतोऽमुख्य-तस्त्वग्नेरपि पचनं कार्यमिति चतुर्विधं यथा तथाऽन्नादीन्पचतः । ‘अन्नमशितं त्रेधा विधीयते । तस्य यः स्थविष्ठो धातुस्तत्पुरीषं यो मध्यमस्तन्मांसं योऽणुस्तन्मन’ इत्यादेरेवं जरयतः । अनुपचन्निति पाठः सरलः । अनुपदेनामुख्यपाचकत्वमेवाग्नेरावेदितमिति । यस्य मुखा-ज्जातोऽग्निः स महाविभूतिः प्रसीदताम् ॥ ३५ ॥
छलारी
अग्निर्यस्य मुखं मुखाज्जातः । ‘मुखादिन्द्रश्चाग्निश्च’ इति श्रुतेः । कथम्भूतः । जातं वेत्तीति जातवेदाः । क्रियाकाण्डं कर्मप्रतिपादकवेदप्रतिपाद्यं यज्ञादिकर्म निमित्तं जन्म यस्य सः क्रियाकाण्डनिमित्तजन्मा । ‘अग्निर्वै देवानां मुखम्’ इति श्रुतेः । अग्निमुखेनेन्द्रादिदेवानां स्वस्वहविर्भागप्राप्त्यर्थमग्निहोत्रादौ मथनादग्नेर्जन्मनः प्रसिद्धत्वात् । पुनः कथम्भूतः । अन्तः समुद्रेऽनुचरन् । अत्र समुद्रशब्देन यज्जनकः कुक्षिर्लक्ष्यते । ‘कुक्ष्यः समुद्रा गिरयोऽस्थिसंघा’ इत्युक्तेः । तथा चान्तःसमुद्रे उदरान्तः स्थित्वा स्वधातून् स्वपाकार्हान् अन्नादीननुपचन् । तथा प्रसिद्धसमुद्रेऽपि वडवानलरूपेणोदकान्यनुपचन् । सः सर्वोपकाराग्निजनकत्वलक्षणमहाविभूतिः
॥ ३५ ॥
लिङ्घेरी
जातं सर्वं वेत्तीति जातवेदाः । क्रियाकाण्डनिमित्तं यागादिसर्वकर्मसमुदाय-निर्वाहाय जन्मोत्पत्तिर्यस्य स तथा । जातः । अग्निर्यस्य हरेर्मुखं मुखाज्जातो मुखाश्रितश्च । ‘मुखादिन्द्रश्चाग्निश्च’ । ‘यस्माद्यज्जायते चांगाल्लोकवेदादिकं हरेः । तन्नामवाच्यमङ्गं तत्’ इत्यादे-रग्निर्मुखमित्यादि सामानाधिकरण्योपपत्तिः । एवंविधोऽग्निरन्तः शरीरेऽन्तः समुद्रे च स्वधातू-न्पच्यतया स्वकीयान् जलान्नादीन् पचतो यस्य विष्णोर्मुखं द्वारम् । सोऽग्निप्रेरकत्वादि-महाविभूतिर्नः प्रसीदताम् । अग्निर्वाऽहमस्मीत्यत्र जातवेदा वाऽहमस्मीत्युपनिषद्यग्निनैव चास्य जातवेदत्वोक्तेर्नैतस्येतरसाधारण्यम् । अहं वैश्वानरो भूत्वा पचाम्यन्नं चतर्विधम् । तुशब्देन वाचोऽपि हरेर्मुखत्वं सूचयति । ‘वाचो वह्नेर्मुखं क्षेत्रम्’ इति स्वोक्तेः ॥ ३५ ॥
यच्चक्षुरासीत् तरणिर्देवयानं त्रयीमयो ब्रह्मण एष धिष्ण्यम् ।
द्वारं च मुक्तेरमृतस्य मृत्योः प्रसीदतां नः स महाविभूतिः ॥ ३६ ॥
तात्पर्यम्
अमृतस्येति मुक्तेरित्यस्य विशेषणम् ॥ ३६ ॥
पदरत्नावली
तरणिः सूर्यः यस्य चक्षुष आसीदित्यन्वयः । ‘चक्षोः सूर्यो अजायत’ । तरन्त्यनेन संसारं पुरुषा इति तरणिरिति नामसूचितमर्थं स्पष्टमाह– देवेति ॥ देवानां संसारं मुक्त्वा गतानां यानं मार्ग उत्तरायणमार्गदेवतेत्यर्थः । ‘अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययाऽऽत्मानमन्विष्यादित्यमभिजायते’ । त्रय्या मीयत इति त्रयीमयः, वेदप्रतिपाद्येषु प्रधानं वा । ‘त्रयीमयाय त्रिगुणात्मधारिणे’ । एष तरणिर्ब्रह्मणः परमात्मनो धिष्ण्यमभिव्यक्तिस्थानम् । ‘यश्चासावादित्ये’‘ध्येयः सदा सवितृमण्डलमध्यवर्ती’ मृत्योः संसारान्मुक्तोर्द्वारम् । द्वयोर् मुक्त्योः कस्या इति तत्राह– अमृतस्येति ॥ विदुषां विषयस्येत्यर्थः । ‘स यावत् क्षिपेन्मनस्तावदादित्यं गच्छत्येतयैव खलु लोकद्वारं विदुषां प्रपदनं निरोधोऽविदुषाम्’ । विषयस्यामृतस्य मुक्तेर्मृत्योश्च प्राप्तिहेतुरिति वा । एवंविधमाहात्म्योपेतसूर्यजनकमहाविभूतिः ॥ ३६ ॥
सत्यधर्मीया
यच्चक्षुरासीदिति श्लोके मुक्तेरमृतस्येत्यनतिभिन्नार्थे पदे इत्यन्यतर-वैय्यर्थ्यमित्यतो विवक्षितार्थपरां योजनां दर्शयति ॥ अमृतस्येति मुक्तेरित्यस्य विशेषण-मिति ॥ अतो न पौनरुक्त्यप्रयुक्तवैय्यर्थ्यमिति भावः । मृतं मृतिर् नास्ति यत्र तदमृतमिति विग्रहः । ननु बहुव्रीहौ मुक्तिशब्दानुरोधेन तद्विशेषणस्यामृतपदस्य स्त्रीलिङ्गतायाममृताया इति वक्तव्यं कथममृतस्येतीति चेत् । सत्यम् । मुखनासिकावचनसूत्रमहाभाष्यकैयटादिदिशोपपत्ति-सम्भवात् । तथा हि तत् । मुखद्वितीया वा नासिकावचनमस्य सोऽयं मुखनासिकावचनः । मुखोपसंहिता नासिका वचनमस्य सोऽयं मुखनासिकावचनः ॥ मुखद्वितीयेति मुखसहायेत्यर्थः । तत्र नासिका मुखसाहचर्यान्मुखशब्देनोच्यते । मुखं च तन्नासिका च सा वचनमस्येति । मुखोपसंहितेति । मुखस्य नासिकायाश्च यदन्तरालं स्थानान्तरमेवानुनासिकस्य दर्शयति । अत्र सामीप्यान्मुखं च तन्नासिका चेत्युभाभ्यामन्तरालं व्यपदिश्यते । पदसंस्कारपक्षे च मुखनासिका-पदनिरपेक्षं वचनमित्येतत्पदं लिङ्गसर्वनामनपुंसकताश्रयेण संस्क्रियते । पश्चात्स्त्रीत्वस्य पदान्तर-सम्बन्धेन प्रतीयमानत्वाद्बहिरङ्गत्वात् ङीप् प्रत्ययो न भवति । अन्यथा मुखनासिकावचनीक इति स्यादिति । शक्यं चक्षुदपहन्तुमिति । अमृतपदाद्बहिरङ्गटाबभावेऽमृतस्य मुक्तेरित्यनयो-र्विशेष्यविशेषणभावो भिन्नलिङ्गयोरुपपन्नः । यद्वा । मृतं मर्त्यस्थानं तन्नेत्यमृतम् । तस्य मुक्तेः । वनपर्वणि सावित्र्युपाख्याने स च दोषः प्रयत्नेन न शक्यमतिवर्तितुमिति प्रयोगाच्चेति दिक् ॥ अथ मूलार्थः ॥ यस्य । तरणिस्तरन्त्यनेनानिष्टनिचयमिति सूर्यः । अर्ति सृधृ इत्यादिना तरतेरनिः । ‘द्युमणिस्तरणिर्मित्रः’ । ‘तरणिर्द्युमणौ पुंसि कुमारीनौकयोः स्त्रियाम्’ इत्यमरो रभसश्च । चक्षुरासीत् । तत्तारकतां व्यनक्ति ॥ देवयानमिति ॥ अर्चिरादिमार्गदेवतात्वात् । चक्षोः सूर्योऽजायत । अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययाऽऽत्मानमन्विष्यादित्यादेः । त्रयीमयस्त्रय्या वेदेन गायत्र्याद्यात्मना मय्यते गम्यते ज्ञायत इति यावत् । सैषा त्रय्येव विद्या तपतीति श्रुतेर्मुख्यवेद्य इति वा । ब्रह्मण । एष धिष्ण्यमावासस्थानम् । ‘य एषोऽन्तरादित्ये हिरण्मयः’ । ‘योऽसावादित्ये पुरुषः’ । ‘ध्येयः सदा सवितृमण्डलमध्यवर्ती’ इत्यादेः । मृत्योः संसारात् । मुक्तेः । सा च सत्यसती चेति द्विविधा । तत्र का ग्राह्येत्यत आह ॥ अमृत-स्येति ॥ न विद्यते मृतं मृतिर्याचनं तदुपलक्षितदैन्यं यत्र तदमृतम् । ‘मृतं स्याद्याचिते मृत्यौ’ इति विश्वः । तस्य सतो मोक्षस्य । द्वारं मार्गो मृत्योश्च द्वारमिति वा । स यावत्क्षिपेन्मन-स्तावदादित्यं गच्छत्येतयैव खलु लोकद्वारं विदुषां प्रपदनं निरोधो विदुषामिति श्रुतेः । चक्षुःस्थितजगच्चक्षुष्ट्वरूपमहाविभूतिः प्रसीदतां नः । अस्मदादीनामुपरि समहाविभूतिरिति पदमेकं वा । महाविभूत्या सहित इति तदर्थः ॥ ३६ ॥
छलारी
तरणिः सूर्यो यच्चक्षुर्यस्य चक्षुष आसीत् । ‘चक्षोः सूर्योऽजायत’ इति श्रुतेः । कथम्भूतः । देवयानमर्चिरादिमार्गदेवता त्रय्या वेदेन मीयते ज्ञायत इति त्रयीमय एष तरणि-र्ब्रह्मणो विष्णोर्धिष्ण्यमुपासनास्थानम् । ‘य एषोऽन्तरादित्ये हिरण्मयः पुरुष’ इति श्रुतेः । ध्येयः सदा सवितृमण्डलमध्यवर्तीति स्मृतेः । अरिष्टस्वरूपात्संसारान्मुक्तेर्द्वारम् । देवयानमार्गात्सुख-दुःखात्मकत्वेन मुक्तेर्द्वैविध्यात्तद्दुःखात्मकतमोरूपमुक्तिव्यावृत्त्यर्थममृतस्येति मुक्तेर्विशेषणम् । अमृतरूपायाः सुखरूपाया मुक्तेरित्यर्थः । एतादृशमाहात्म्योपेतसूर्यजनकत्वमहाविभूतिः स नः प्रसीदताम् ॥ ३६ ॥
लिङ्घेरी
देवस्य कांत्यादिगुणवतः, उत्तरायणमुच्यमानचेतनवर्गस्य । य एवं विद्वा-नुदगयने प्रमीयते देवानामेव महिमानं गत्वाऽऽदित्यस्य सायुज्यं गच्छति । यानं मुक्तेर्मार्गभूतः । स यावत्क्षिपेन्मनः । मनस्तावदादित्यं गच्छत्येतयैव खलु लोकद्वारम् । विदुषां प्रपदनिरोध इत्यादेः । त्रय्याम् ऋग्यजुःसामरूपायां श्रुतौ प्रतिपाद्येषु वर्णादिषु मयः प्रधानः । आकृष्णेन रजसेत्यादिवेदप्रतिपाद्यः । ब्रह्मणो नारायणाख्यस्य धिष्ण्यमधिष्ठानभूतः । ‘य आदित्ये तिष्ठन् । यश्चासावादित्ये । ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायण’ इत्यादेः । अमृतस्य मुच्यमान-जीवजातस्य मृत्योः संसाराख्यान्मुक्तेर्मोचनस्य द्वारम् । स्वाधिष्ठितहरिध्यानादिना सन्मोक्षहेतुः । एष प्रत्यक्षप्रतीयमानमण्डलस्थस्तरत्यनेनाधिकारी संसारमिति तरणिः सूर्यः यस्य हरेश्चक्षुरासीत् । चक्षुषो जातोऽभूत् । सप्तसु प्रथमेति स्मरणात् । चक्षोः सूर्योऽजायतेति श्रुतेः । स सूर्यजनक-श्चक्षुष्ट्वादिमहाविभूतिर्नः प्रसीदताम् ॥ ३६ ॥
प्राणादभूद् यस्य चराचराणां प्राणः सहो वै बलमोजश्च वायुः ।
अन्वास्म सम्राजमिवानुगा वयं प्रसीदतां नः स महाविभूतिः ॥ ३७ ॥
पदरत्नावली
चराचराणां सहोबलौजो हेतुः, स्वयं च तादृग्गुणः, आधिभौतिकं वायुरध्यात्मं प्राणो यस्य हरेः प्राणात् सहआदिगुणवदात्मनोऽभूत् । ‘आत्मन एष प्राणो जायते’ । ‘तान् वरिष्ठः प्राण उवाच । मा मोहमापद्यथ । अहमेवैतत् पञ्चधाऽऽत्मानं विभज्यै-तद्बाणमवष्टभ्य विधारयामीति’ । ‘ते प्रीताः प्राणं स्तुवन्त्येषोऽग्निस्तपत्येष सूर्यः प्राणैक ऋषिरत्ता विश्वस्य सत्पतिर् वयमाद्यस्य दातारः पिता त्वं मातरिश्व नः’ । वयं यं च सम्राज-मन्वास्म । वयं प्राणनामानं चक्रवर्तिनम् अनुवर्तामहे इव । प्राणचतुर्मुखयोरेकत्वादिवेति, अन्यत्रावधारणार्थम् । ‘यथा सम्राडेवाधिकृतान् नियुङ्क्त एतान् ग्रामानधितिष्ठस्वैतान् ग्रामा-नधितिष्ठस्वेत्येवमेवैष प्राणः स्वयं प्रतिष्ठते’ इति शेषः । सम्राजं यं भगवन्तमन्वास्मैवेति वा । सर्वोत्तमप्राणजनकमहाविभूतिः । ‘प्राणस्य प्राणमुत चक्षुषश्चक्षुः’ ॥ ३७ ॥
सत्यधर्मीया
सम्राजमखण्डेशम् । अनुगा अनुचरा इव । वयं यमन्वास्म अनुसृत्य वर्तामहे । इवावधारणे । यस्य प्राणाद्वायुराधिभौतिकः । प्राण आध्यात्मिकः । चराचराणां जङ्गमाजङ्गमानां सह ओजो बलं तद्धेतुः । तैः सहाभूदिति वा । महाविभूतिश्चराचरबलादिद-प्राणसर्जकप्राणवतात्मकमहाविभूतिमान् । वैशब्दः ‘आत्मत एष प्राणो जायते । तान्वरिष्टः प्राण उवाच । मा मोहमापद्यथ । अहमेवैतत्पञ्चधाऽऽत्मानं विभज्यैतद्बाणमवष्टभ्य विधारयामीति । ते च प्रीताः प्राणं स्तुवन्ति । एषोऽग्निस्तपत्येष सूर्यः । प्राणैकऋषिरत्ता विश्वस्य सत्पतिः । वयमद्यस्य दातारः पिता त्वं मातरिश्वनः । यथा सम्राडेवाधिकृतो नियुङ्क्त एतान्ग्रामानधितिष्ठ-स्वैतान्ग्रामानधितिष्ठस्वेत्येवमेवैष प्राण इतरान्प्राणान्पृथक् पृथगेव सन्निधत्त इत्यादिप्रसिद्धि-द्योतकः । कथं यमन्वास्म यस्येत्यादि प्राग्वत् । इतरे प्राणा इति शेषः । सम्राजमनुगा इव यस्य वर्तन्ते स कथं प्राण इति वाऽन्वयः ॥ ३७ ॥
छलारी
यश्चराचराणां जन्तूनां सहः सहनशक्तिर्बलं शारीरमोजोऽवष्टंभशक्तिश्च सहनादि-धर्महेतुः स्वयं तादृग्गुणोऽधिभूतं वायुनामाऽध्यात्मं प्राणनामा पञ्चप्राणमनुगा भृत्याः सम्राजमिव वयं सूर्यादयो देवा अन्वास्मानुसृत्य वर्तामहे । यथा सम्राडेवाधिकृतान्नियुंक्त एतान्ग्रामानधि-तिष्ठस्वैतान् ग्रामानधितिष्ठस्वेत्येवमेवैष प्राण इतरान्प्राणान् पृथगेव संन्निधत्त इति श्रुतेश्च । यद्वा । उक्तगुणो वायुर्यस्य प्राणादभूत् । यन्तेति श्रुतेः । वयं ब्रह्मादयो देवाः पञ्च परमात्मान-मनुगाः सम्राजमिवान्वनुसृत्य वर्तामह इति योजना । स सर्वोत्तमः प्राणजनकमहाविभूतिर्नः प्रसीदताम् ॥ ३७ ॥
लिङ्घेरी
चराचराणां जंगमस्थावरचेतनानां प्राणो जीवधारणहेतुः । प्रकृष्टव्यापारहेतुश्च । सहः सहनशक्तिप्रदः । बलं शक्तिदः । ओजः परप्रहारनिरोधशक्तिप्रदः । आयुरायुष्यप्रदतया देहधारकः । ‘‘तान्वरिष्ठप्राण उवाच । मा मोहमापद्यथ । अहमेवैतत्पञ्चधाऽऽत्मानं विभज्यै-तत्प्राणमवष्टभ्य विधारयामीति । ते प्रीताः प्राणं स्तुवंत्येषोऽग्निस्तपत्येष सूर्यः प्राणैकऋषिरत्ता विश्वस्य सत्पतिः । वयमासाद्य दातारः पिता त्वं मातरिश्व न इत्यादेः । एवंभूतो मुख्यप्राणो यस्य प्राणादभूत् । यं च वयं सम्राजमिवान्वनुसृत्यानुगाः स्मः । स प्राणादिनियामकमुख्यप्राण-जनकत्वादिमहाविभूतिर्नः प्रसीदताम् । मुख्यप्राणस्य प्राणादिनियामकत्वं च । यथा सम्राडेवाधि-कृतान्नियुङ्क्त एतान् ग्रामानधितिष्ठस्वैतान् ग्रामानधितिष्ठस्वेत्येवमेवैष प्राण इतरान्प्राणान् पृथक् पृथगेव सन्निधत्ते । पायूपस्थेऽपानं चक्षुः श्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रतितिष्ठत इत्यादि प्रसिद्धम् ॥ ३७ ॥
श्रोत्राद् दिशो यस्य हृदश्च खानि प्रजज्ञिरे खं पुरुषस्य नाभ्याः१ ।
प्राणेन्द्रियात्मा स्वशरीरबन्धुः प्रसीदतां नः स महाविभूतिः ॥ ३८ ॥
पदरत्नावली
यस्य श्रोत्राद्दिशो, यस्य हृदः हृदयाच्च खानीन्द्रियाणि यस्य पुरुषस्य नाभेश्च खमाकाश इत्येते प्रजज्ञिरे इत्यन्वयः । अत्र ‘चन्द्रमा मनसो जातः’ इत्यारभ्य दिशः श्रोत्रादित्यन्तं वाक्यं प्रमाणं दर्शयति । तैजसाहङ्कारगुणव्यञ्जकहृदयादीन्द्रियाणीत्यर्थः । तैजसा-नीन्द्रियाणीत्युक्तेः । सहस्रशीर्षा पुरुषः प्रसन्नो भवत्वित्यन्वयः । प्राणेन्द्रियाणि व्याप्य तिष्ठतीति प्राणेन्द्रियात्मा । ‘ब्रह्मणो वा एतानि करणानि’ ‘एवं ह वै तत् सर्वं परे आत्मनि सम्प्रतिष्ठते । पृथिवी च’ इत्यारभ्य ‘प्राणश्च विधारयितव्यं च’ इत्यनेन षट्प्रश्नोपनिषद्गतेन वाक्येन-(एतत्सर्वं)सविस्तरमुच्यते । स्वशरीरभूतायाः पृथिव्या बन्धुः । यस्य पृथिवी शरीरम्’ । दिङ्नामदेवतादिसर्जनप्रतीतमहाविभूतिः ॥ ३८ ॥
सत्यधर्मीया
यस्य श्रोत्राद्दिशः । यस्य हृदो हृदयाच्च खानीन्द्रियाणि । यस्य नाभ्या नाभेः । यद्यपि नाभेरित्यभिधाने न छन्दश्छेदस्तथाऽपि ‘नाभ्या आसीदन्तरिक्षम्’ इति श्रुति-स्मारणार्थमुक्तं तथेति ज्ञेयम् । नाभीशब्दो वाऽयम् । मुरजिन्नाभीसरोजेत्यादिप्राचीनप्रयोगस्य सत्वात् प्राणिप्रतीके स्यात्स्त्रियामियं नाभिरिति लिङ्गानुशासनोक्तेः कृदिकारङीषि नाभीति लोके भवतीति ज्ञेयम् । खमन्तरिक्षं चेति प्रजज्ञिरे । दिशः श्रोत्रादित्यादिश्रुतेः । तैजसाहङ्कारकार्य-व्यञ्जकत्वाद्धृदयस्येन्द्रियाणां च तैजसानीन्द्रियाण्याहुरित्यादेस्तज्जत्वमिति ज्ञेयम् । अतीतपद्योक्त-प्राणैः सहितानामिन्द्रियाणां चात्मा स्वामी व्याप्य तानि वर्तत इति वा । ‘ब्रह्मणो वा एतानि कारणानि एतत्सर्वं परे आत्मनि संतिष्ठते । पृथिवी चेत्यादीकृत्य प्राणश्च विधारयितव्यं च’ इत्यन्तषट्प्रश्नोपनिषद्भाष्यादितो विशेषोऽवसेयः । पूर्वटिप्पणे काठकोपनिषदिति लेखकह-स्तदोषत इति ज्ञेयम् । स्वशरीरबन्धुः । यस्य पृथिवी शरीरमित्युक्तेस् तस्याः स्वशरीररूपिण्या बन्धुः । दिशां वत्सं वेदेत्यादेर्दिङ्नामकतद्देवता रमा । तदितराविर्भावाभिमत्युत्पादनादि-महाविभूतिः प्रसीदतामित्यन्वयः ॥ ३८ ॥
छलारी
यस्य पुरुषस्य पुरुषनामकस्य श्रोत्राद्दिशो जज्ञिरे । दिशः श्रोत्रादिति श्रुतेः । हृदो हृदयात् । खानीन्द्रियाणि प्रजज्ञिरे । नाभ्या नाभेः खमन्तरिक्षं जज्ञिरे । ‘नाभ्या आसीदन्तरिक्षम्’ इति श्रुतेः । स प्रसीदतामित्यन्वयः । कथम्भूतः । प्राणान् प्राणापानादीन् इन्द्रियाणि च व्याप्य तिष्ठतीति । प्राणेन्द्रियात्मा स्वशरीरबन्धुः स्वशरीरभूतायाः पृथिव्या बन्धुः । ‘यस्य पृथिवी शरीरम्’ इति श्रुतेः । दिङ्नामदेवतादिसर्जनप्रतीतमहाविभूतिः ॥३८॥
लिङ्घेरी
यस्य श्रोत्राद्दिशो दिगभिमानिचन्द्रादयो यस्य हृदयाच्च खानीन्द्रियाणि प्रजज्ञिरे । यस्य पुरुषस्य नाभेः खमन्तरिक्षं जज्ञे । ‘दिशः श्रोत्रात्, नाभ्या आसीदन्तरिक्षम्’ इत्यादेः । यश्च प्राणानां मुख्यप्राणानामिन्द्रियाणां श्रोत्रादीनां च नियामकतया तत्स्थितः स्वामी च । ‘यः प्राणे तिष्ठन् यः प्राणमन्तरो यमयति’ । ‘प्राणस्य प्राणमुत चक्षुषश्चक्षुः श्रोत्रस्य श्रोत्रम्’ इत्यादेस् तत्तच्छक्तिप्रदतया तत्र तत्र स्थित्युक्तेः । स्वशरीरस्यात्मशरीररूपस्य जीवस्य बन्धुः सखा । यस्यात्मा शरीरम् । द्वासुपर्णा सयुजा सखायेत्यादिश्रुतेः । स दिग्देवतादिजननादिमहा-विभूतिर्हरिर्नः प्रसीदताम् ॥ ३८ ॥
बलान्महेन्द्रस्त्रिदशाः प्रसादान्मन्योर्गिरीशोऽशरणाद्विरिञ्चः ।
खेभ्यश्च छन्दांस्यृषयस्तु मेढ्रतः२ प्रसीदतां नः स महाविभूतिः ॥ ३९ ॥
पदरत्नावली
गुणगुणिनोरभेदाभिप्रायेणाह– बलादिति ॥ बलादिगुणेभ्य इन्द्रादीना-मुद्भवः । निर्दोषत्वेन मन्युरहितस्य न मन्युस्वभावस् तादृक् स्वभावरूपीति सर्जनाभिप्राया-द्दर्शितम् । कारणगुणः कार्येषु समवैतीति न्यायरक्षणार्थं च । अशरणात् स्वाधिष्ठानाद् लयोदधौ पृथिव्याद्यधिष्ठानाभावात् स्वमहिम्न एवेत्यर्थः । ‘किंस्विदासीदधिष्ठानमारम्भरम्’ ‘स्वे महमि्न’ । धिषणादिति केचित् पठन्ति । सप्तेन्द्रियैः सप्तछन्दांसि । ऋषयः प्रजापतयः । कस्तस्य मेढ्रादित्युक्तेः । विरिञ्चादिदेवजनकमहाविभूतिः ॥ ३९ ॥
सत्यधर्मीया
एवं धर्मानित्यादेर्गुणानां तदभेदाद्गुणेभ्योऽप्युत्पत्तिमाह ॥ बलादिति ॥ त्रिदशास्तृतीया दशा नित्यं यौवनमेव येषां ते तथा । प्रसादात् । प्रसादो नामेच्छाविशेषो गुणान्तरं वा । न नः काचित्क्षतिर् इति सुधोक्तेः । अनुग्रहः । प्रसादोऽनुग्रह इति विश्वा-द्गुणान्तरपदेन ग्राह्यस्तस्मात् । देवास्त्रिर्दश येषाम् । सङ्ख्यायाव्ययेति बहुव्रीहिः । बहुव्रीहौ सङ्ख्येय इति डच् । जन्मसत्ताविनाशाख्यास्तिस्रो दशा येषामिति वेति व्याख्या उपेक्ष्या । माहात्म्यातिशयालाभात् । केचित्तु राजदेवादयस्त्रींस्तापान्दंशन्ति । पचाद्यच् । नलोपः पृषो-दरादित्वादिति विगृह्णन्ति । तथात्वे कर्मण्यण्प्रसङ्गेन त्रिदांश इत्यापत्तेः । दंशन्तीति दशास्त्रयाणां तापानां दशा इति विग्रहे तु ओमिति वदामः । मन्योः क्षमारूपात् । क्रोधः क्षमात्मकस्तस्य चिदानन्दात्मकस्तथेत्यादेः । अशरणात् स्वव्यतिरिक्तं शरणमधिष्ठानं नास्ति यस्य स तथा तस्मात् । किंस्विदासीदधिष्ठानमारंभणमित्यादिश्रुतिव्याख्याभाष्ये कतमस्वित्कथाऽऽसीदिति ह्याक्षेपः । अधिष्ठानाद्यनुक्तेरित्युक्तेः । स्वे महम्नीति श्रुतेः स्वाधाराद्विरिञ्चो ब्रह्मा । धिषणादिति पाठे बुद्धेरित्यर्थः । लिङ्गमात्रं चातन्त्रम् । लिङ्गमशिष्यं लोकाश्रयत्वादिति महाभाष्योक्तेः । अथवा । आगमशासनस्यानित्यत्वाच्छे चेति न तुक् । खेभ्यः सप्तेभ्यो ज्ञानेन्द्रियेभ्यः सप्त छन्दांसि । धिषणाया आतत्यागच्छतीति स तथेति प्रथमान्तं सद्विरिञ्चपदेनान्वेति । ब्रह्म च तथा । तदध्येतारो ऋषयश्च मरीच्याद्याः । मेढ्रतः शिश्नात् । तुस्तु तज्जन्यदक्षवाचक-पदाध्याहाररूपविशेषसूचक इति ज्ञेयम् । कस्तस्य मेढ्रमित्युक्तेर्विरिञ्च इति परोक्षत उक्ती रूपान्तराभिप्राया । क इति निरङ्कः पाठः ॥ ३९ ॥
छलारी
यस्य हरेर्बलादिभ्य इन्द्रादयो जाताः । स विरिञ्चादिदेवजनकत्वमहाविभूतिः प्रसीदताम् । मन्योः क्रोधात् । नायं क्रोधो दोषरूपः । किन्तु क्षमादिरूपत्वाद्गुणरूप एव । ‘क्रोधः क्षमात्मकस्तस्य चिदानन्दात्मकस्तथा’ इत्युक्तेः । धिषणाद्बुद्धेः । खेभ्यो गायत्र्यादि सप्तच्छन्दांसि ऋषयो मरीच्यादिसप्तर्षयश्च जज्ञिरे । मेढ्रतः शिश्नात् कः दक्षप्रजापतिः ॥ ३९ ॥
लिङ्घेरी
यस्य बलान्महेन्द्रः शचीपतिः, प्रसादात्त्रिदशा देवा, मन्योः कोपसदृशाच्छत्रु-निग्रहेच्छाया गिरिशो रुद्रो, धिषणाद् बुद्धेर्विरिंचश्चतुर्मुखः, खेभ्य इन्द्रियेभ्यश्च सप्तच्छन्दासि । ऋषयः कर्दमादयो मेढ्रतो जाताः । स महेन्द्रादिजनकत्वविभूतिर्नः प्रसीदताम् ॥ ३९ ॥
श्रीर्वक्षसः पितरश्छाययाऽसन् धर्मः स्तनादितरः पृष्ठतोऽभूत् ।
द्यौर्यस्य शीर्ष्णोऽप्सरसो विहारात् प्रसीदतां नः स महाविभूतिः ॥ ४० ॥
सत्यधर्मीया
श्रीश्च सम्पच्छोभा वा । पितरश् छायया । तदर्थमेव सृष्टया । इतरोऽधर्मः । द्यौः शीर्ष्णः शिरसः । विहारात्क्रीडायाः । युक्तोपयुक्तत्वेन साक्षात्परम्परया सहस्रशीर्षा पुरुष इत्यादि पुरुषसूक्तं मूलमनुसन्धेयं पूर्वत्रात्रोत्तरत्रेति ज्ञेयम् ॥ ४० ॥
छलारी
यस्य पुरुषस्य वक्षसः श्यादय आसन् स इत्यन्वयः । इतरोऽधर्मो । द्यौः स्वर्गलोकः ॥ ४० ॥
लिङ्घेरी
यस्य वक्षसः श्रीरासीत् । छायया पितर आसन् । स्तनाद्धर्मस्तदभिमानी यमः । स्तनादितरोऽधर्मस्तदभिमानी निर्ऋतिः पृष्ठतोऽभूत् । शीर्ष्णः शिरसो द्यौरभूत् । विहारा-त्क्रीडाविशेषादप्सरसोऽभूवन् । सः लक्ष्म्यादिजननविभूतिर्नः प्रसीदताम् ॥ ४० ॥
विप्रो मुखाद् ब्रह्म च यस्य गुह्यं राजन्य आसीद् भुजयोर्बलं च ।
ऊर्वोर्विशोऽङ्घ्रेरभवंश्च१ शूद्राः प्रसीदतां नः स महाविभूतिः ॥ ४१ ॥
सत्यधर्मीया
यस्य मुखाद्विप्रा ब्राह्मणाः । गुह्यं रहस्यम् । ब्रह्म वेदः । भुजयोः सकाशाद्राजन्यः क्षत्रियो बलं च । ब्रह्मबलयोर्द्विजराजयोग्यत्वात् । एवमुत्तरत्रापि ज्ञेयम् । ऊर्वो-रुत्सङ्गाभ्यां विशः । बहुवचनमाद्यर्थे । वैश्यस्तद्व्यापाराः कृष्यादय इत्यर्थः । एवमङ्घ्रेः शूद्रा इत्यपि । ‘ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्र’ इति श्रुतौ श्रुतैकवचनाभिप्रायकथनमिति मन्तव्यम् । ऊर्ध्वोविडोजोऽङ्घ्रिरवेदशूद्राविति पाठे । ओजः कृष्यादिकौशल्यम् । अवेदं वेदाध्ययनरहितम् परिचर्यात्मकं कर्म । शूद्रस्यापि स्वभावजमित्युक्तेस्तत्कर्मापि ॥ ४१ ॥
छलारी
यस्य मुखाद्यवयवेभ्यो ब्राह्मणादयो वर्णास्तत्कर्माण्यभवन् स इत्यन्वयः । गुह्यं रहस्यं, ब्रह्म वेदश्च ब्राह्मणवृत्तिर्भुजयोः सकाशाद् बलं च क्षत्रियवृत्तिरूर्वोः सकाशाद् विशो वैश्यास्तेषां वृत्तिश्च क्रियादि । ओरङ्घ्रिभ्यां शूद्रास्तद्वृत्तिस्त्रिवर्णसेवा च ॥ ४१ ॥
लिङ्घेरी
यस्य मुखाद्विप्रा ब्राह्मणाः । गुह्यं रहस्यं ब्रह्म च वेदराशिरासीत् । ब्राह्मणोऽस्य मुखमासीत् । ‘अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा’ इत्यादेः । भुजयो राजन्यः क्षत्रियो बलं चासीत् । ‘बाहूराजन्यः कृत’ इत्यादेः । ऊर्वोर्विशो वैश्याः । ओः पादाच्छूद्रा आसन् । ‘ऊरु तदस्य यद्वैश्यः पद्भ्यां शूद्रोऽजायत’ इत्यादेः । स ब्राह्मणादिजननमहाविभूतिर्नः प्रसीदताम्
॥ ४१ ॥
लोभोऽधरात् प्रीतिरुपर्यभूद् द्युतिर्नस्तः पशव्यं स्पर्शेन कामः ।
भ्रुवोर्यमः पक्ष्मभवस्तु कालः प्रसीदतां नः स महाविभूतिः ॥ ४२ ॥
पदरत्नावली
उपरि उत्तरोष्ठात् प्रीतिर् द्युति कान्तिश्च । पशव्यं पशुजीवनं नस्तो नासिकायाः । स्पर्शेन गुणेन जातः कामः स्त्रीविषयः । कालो मृत्युः ॥ ४२ ॥
सत्यधर्मीया
लोभो ऽधरात् । अधरादित्यावर्तनीयम् । अधरादधो वर्तिनोऽधरा-दोष्ठादिति । ‘अधरो दन्तवसन’ इति विश्वः । पुनश्चोपरितनात्तस्यान्वयः । उपरितनाद-धरोष्ठादिति । द्युतिः कान्तिः । नस्तो नासिकायाः । पशव्यं पशुभ्यो हितं तृणाद्यपि । स्पर्शेन कामः । स्त्र्यभिलाषरूपः । भ्रुवोर्यमः । पक्ष्मभ्यां भवतीति स तथा । कालो मृत्युः स महाविभूतिः ॥ ४२ ॥
छलारी
अधरादोष्ठादुपर्योत्तरोष्ठात्प्रीतिर्द्युतिः कान्तिश्च । नस्तो नासिकायाः पशव्यं पशुजीवनं तृणादि आदि शब्देनौषधानि । नासाऽश्विनावभवतामित्यर्थः । स्पर्शेन गुणेन कामः स्त्रीविषयेच्छा । कालो मृत्युः पक्ष्मभवश्चक्षुःपद्मजन्यः । यस्याधरादिभ्यो लोभादिकमुत्पन्नं स इत्यन्वयः ॥ ४२ ॥
लिङ्घेरी
यस्याधरोष्ठाल्लोभाभिमानी जातः । उपर्युत्तरोष्ठात्प्रीत्यभिमानी अभूज्जाता द्युतिः कान्तिश्च जाता । नस्तो नासिकायाः पशव्यं पशुहितं तृणादि । स्पर्शेन गुणेन कामः स्त्र्यादिविषयेच्छा । कालो मृत्युः पक्ष्मभवः । स लोभादिजननमहाविभूतिर्नः प्रसीदताम् ॥४२॥
द्रव्यं वयः कर्म गुणाश्च शेषं यद्योगमायापहिताः पतन्ति ।
यद् दुर्विभाव्यं प्रबुधावबोधं प्रसीदतां नः स महाविभूतिः ॥ ४३ ॥
पदरत्नावली
द्रव्यं भूतपञ्चकम्, वय आयुर्लक्षणम्, कर्म त्रिविधम्, गुणा भक्त्यादयः शुक्लादयो वा, शेषं स्वभावजीवकालादयः, यस्य हरेर्योगमायया स्वरूपभूतेच्छया विहता उपेक्षिताः पतन्ति प्रच्युता भवन्तीत्यर्थः । ‘द्रव्यं कर्म च कालश्च’ इति । किञ्च यद्दुर्विभाव्य-मेवंविधमिति भावयितुमशक्यम् । ‘स वा एष आत्मा नेति’ । किञ्च(प्रबुधानां)प्रबुद्धज्ञानिनाम् अवबोधो ज्ञानं यस्मात् तत् तथा । अनेन स्वानुग्रहेण स्वविषयज्ञानं सुशकमित्युक्तं भवति । ‘अज्ञानां ज्ञानदो विष्णुः’ ‘यमेवैष वृणुते’ इत्यादि । द्रव्यादिसत्ताप्रदत्वेन ब्रह्माद्यचिन्त्यमहिमा-त्वेन ज्ञानदातृत्वेन परिपूर्णैश्वर्यः प्रसीदतामित्यन्वयः । नवत्वसंख्याविशिष्टं द्रव्यं, वयगताविति धातोर् वयत्यवगच्छत्यनेन नीलोत्पलमित्यादिव्यवहारं पुरुष इति समवायः, उत्क्षेपणादीनि पञ्च कर्माणि, शब्दस्पर्शरूपरसगन्धादिचतुर्विंशति गुणाः, सामान्यविशेषौ शेषमित्यनेनोच्यते, एते यद्योगमायया विहता अहितीकृताः पतन्ति पातयन्त्यधः, पुरुषमिति शेषः । नरकहेतव इत्यर्थः । ‘विषकण्ठकणभक्षशङ्करत्रिदशबलपञ्चशिखाक्षपादवादान् । महदपि सुविचार्य लोकतन्त्रं भगवदुपास्तिमृते न सिद्धिरस्ति’ इति प्रमितेनायमुक्तार्थ इति सिद्धम् । कणादाक्षपादमतज्ञानात् सिद्धिर्मा भूदद्वैतज्ञानेन सा स्यादिति तत्राह– यदिति ॥ औतमतोक्तविधया भावयितुमशक्यम् । अनेनान्येऽपि दुर्वादिवादा अपि निरस्ता इति ज्ञातव्यम् । कर्मणा पुरुषार्थसिद्धिः स्यात् तर्हि इति नेत्याह– प्रबुधेति ॥ अनेन भाट्टादिमतमपि प्रत्युक्तम् ॥ ४३ ॥
सत्यधर्मीया
सृष्टसत्ताऽप्येतदायत्तेत्याह ॥ द्रव्यमिति ॥ द्रव्यं भूतपञ्चकम् । वय आयुष्कालः । कर्म पुण्यपापलक्षणम् । गुणा भक्त्याद्याः । शेषम् । मान्तमव्ययम् । जसो लोपः । शिष्टाः स्वभावादयः । यद्योगमायापहिता यस्य योगमाया स्वरूपभूतेच्छाविशेष-स्तयाऽपहिता अहिततया कृताः । उपेक्षिता इति यावत् । पतन्ति अकार्यकारिणः प्रच्युता भवन्ति । स वा एष आत्मा नेतीत्यादेः । यच्च दुर्विभाव्यमिदमित्थमिति भावयितुमशक्यं सौमुख्याभावे । तद्भावे च प्रबुधावबोधम् । प्रबुधानां ज्ञानयोग्यानामवबोधो ज्ञानं यस्मात्तम् । प्रगतो बुधोऽवगमो ज्ञानं येषां ते ज्ञानयोग्याश्चेति वा । ‘अज्ञानां ज्ञानदो विष्णुः’ इत्यादेः । ‘द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । यदनुग्रहतः सन्ति न सन्ति यदुपक्षया ॥’ इत्यादेः । प्रबुध्यत इति प्रबुद् वेदस्तेनावबोध इति । अवबोधमिति वा छेदः । आ ईषदवबोधो यस्य तमिति वा । न विद्यतेऽवबोधो यस्येति वा विग्रहः । वष्टिभागुरिरल्लोपमवाप्योरुप-सर्गयोरित्युक्तेः । विशेषस्त्वत्र सुधाऽभिधानं षष्ठे स्पष्टीकृतोऽस्माभिरवलोकनीयः ॥ ४३ ॥
छलारी
एवं स्थूलरूपमुपवर्ण्येदानीं सूक्ष्मरूपमुपवर्णयन्प्रार्थयते ॥ द्रव्यमिति ॥ द्रव्यं भूतपञ्चकं वय आयुर्लक्षणं कर्मादृष्टं गुणा भक्त्यादयः । शब्दादयो वा । शेषं स्वभाव-जीवकालादिकमेते यस्य हरेर्योगमायया स्वरूपभूतेच्छयाऽपहिता उपेक्षिताः पतन्ति प्रच्युत-स्वरूपा भवन्ति । ‘द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया’॥ इति वचनात् । किञ्चिद्रूपं दुर्विभाव्यमेवंविधमिति चिन्तयितुमशक्यम् । स एष आत्मा नेति नेतीति श्रुतेः । प्रबुधावबोधं प्रबुधानां तत्त्वज्ञानयोग्यानामवबोधो ज्ञानं यस्मात्तथा । अनेन हर्यनुग्रहेण तद्विषयं ज्ञानं सुखमित्युक्तं भवति । ‘अज्ञानां ज्ञानदो विष्णुः’ इति श्रुतेः । ‘यमेवैष वृणुत’ इति श्रुतेश्च । द्रव्यादिसत्ताप्रदत्वेन ब्रह्माद्यचिन्त्यमहिमत्वेन ज्ञानदातृत्वेन च पूर्णैश्वर्यः सः नोऽस्माकं प्रसीदतामिति ॥ ४३ ॥
लिङ्घेरी
द्रव्यमाकाशादिरूपं, वयो बाल्यतारुण्यादि, कर्म प्रवृत्तिनिवृत्तिरूपं धर्माधर्म-साधनं च गुणाः सत्त्वादयः शुक्लादयश्च, शेषं प्रकृत्यादि यस्य हरेर् योगमायया तत्कार्योपाय-भूतस्वेच्छया अपहिता उपहिताश्च नश्यन्तु न नश्यंत्विति विषयीकृताः पतन्ति नश्यन्ति न पतन्ति चेति ग्राह्यम् । ‘द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया’ ॥ इत्यादेः । द्रव्यं पृथिव्यादिनवकम् । वयस्तरणिपरस्पंदज्ञाप्यं परत्वा-परत्वादिरूपम् । कर्मोत्क्षेपणादिपञ्चकम् । गुणा रूपरसादिचतुर्विंशतिः, शेषमवशिष्टं समवायादि-रूपम् । गौतमकणादादीनां बुद्धौ यद्योगमाययाऽपहिता नरकादिहेतुतयाऽनिष्टा निरर्थकाश्च पतन्ति वक्तव्यतया पतन्ति । आन्वीक्षकीं तर्कविद्यामनुरक्तो निरर्थक इति सृगालोक्तेर्विषकण्ठकणभक्ष-संकरोक्तिदशबलपञ्चशिखाऽक्षपादवादान् । महदपि सुविचार्य लोकतन्त्रं भगवदुपास्तिमृतेन सिद्धिरस्तीत्यादेः । नन्वेवं गौतमादयो भगवत्स्वरूपमविज्ञाय किं विपरीतमाचख्युरित्यत आह ॥ यद्दुर्विभाव्यमिति ॥ गौतमाद्ययोग्यजनोक्तप्रकारेणाष्टगुणत्वादिना ज्ञातुमशक्यम् । नन्वेवं हरेः स्वरूपत एव दुर्विभाव्यत्वे कथंकारं मुक्तियोग्यानां तज्ज्ञानं स्यादित्यत उक्तम् ॥ प्रबुधावबोधमिति ॥ प्रबुधानां प्रकृष्टज्ञानयोग्यानामवबोध सम्यग्ज्ञानं यस्मात्तथोक्तम् । ‘अज्ञानां ज्ञानदो विष्णुः’ इत्यादेः । महाविभूतिरेवमाकाशादिसत्त्वप्रदत्वायोग्यमोहत्वाज्ञेयत्वज्ञान-योग्यदेयत्वादिलक्षणापरिच्छिन्नैश्वर्यः स हरिर्नः प्रसीदताम् ॥ ४३ ॥
नमोऽस्तु तस्मा उपशान्तशक्तये स्वाराज्यलाभपरिपूरितात्मने ।
गुणेषु मायारचितेषु वृत्तिभिर्न सज्जमानाय नमः स्वभूतये ॥ ४४ ॥
पदरत्नावली
उपात् सर्वाधिकाद् विष्णोः शान्ता आनन्दमूर्तयो यासां तास् तादृश्यः शक्तयो भार्या यस्य स तथा तस्मै । निवृत्तस्पष्टशक्तय इति च(वा) । स्वाराज्यलाभः स्वयं प्रकाशमानानन्दस्तेन परिपूरित आत्मा यस्य स तथा तस्मै । नित्याविर्भूतानन्दस्वरूपायेत्यर्थः । मायया स्वाधीनप्रकृत्या रचितेषु निर्मितेषु गुणेषु विषयेषु वा प्रवर्तमानायापि तद्योग्याभि-र्वृत्तिभिर्दुःखलक्षणाभिर्न सज्जमानाय निरवद्यत्वेन दुःखानुभूतिरहितायेत्यर्थः । स्वभूतये स्वयम्भवे स्वरूपपूर्णैश्वर्यायेति ॥ ४४ ॥
सत्यधर्मीया
न शक्ता वयं वक्तुं वितत्येति नम इति प्रह्वत्वमेवार्हणं हरेरिति नियमं स्फोरयितुमभ्यस्यन्वक्ति ॥ नमोऽस्त्विति ॥ उपशान्ता अकार्यकाले व्यक्ताः शक्तयो हि सर्जनादिसामर्थ्यानि यस्य । सर्वोपेता च तद्दर्शनादित्यादेः । शान्ताः शस्य सुखस्यान्तोऽ-वधिर्यासां ताः शक्तयो भार्या यस्येति वा । उं पातीत्युपश्चासौ शस्यान्तो निर्णयो यया सा शक्तिर्यस्य चेति । तस्मै । स्वाराज्यलाभपरिपूरितात्मने । स्वाराज्यशब्दोऽयमखण्डः । स्वयं-प्रकाशमानो लाभ आनन्दादेस् तेन परिपूरित आत्मा देहो यस्य तस्मै । स लाभोऽस्मज्ज्ञान-विषयोऽल्पीयानिति द्योतयितुं लघुः पः सन् न करोति गुरुं भमिति वा भो न दैर्ध्यादिकं भेज इति वा मन्तव्यम् । प्रतिपूरितात्मन इति पाठस्तु वृत्तविच्छित्तिभीत्या कल्पित इति ज्ञेयम् । अनेकेषु मूलकोशेष्वदर्शनात् । ‘स्वित्यानन्दः समुद्दिष्ट’ इत्युक्तेः । सुनाऽऽनन्देन राज्यः प्रकाश्यः परिपूरितो व्याप्त आत्मा देहो यस्य तस्मै वा । मायया मुख्यया स्वेच्छया मायया प्रकृत्या च रचितेषु गुणेषु सत्त्वादिषु वृत्तिभिस् तद्विषय प्रवृत्तिभिर्न सज्जमानाय । तत्र सन्नपि न तद्बाधि-तस्वप्रवृत्तिरित्यर्थः । या मा रमा चितेषु । सदा सम्बन्धेषु गुणेषु निमित्तभूतेषु सत्सु यम् । वृत्तिभिर् अनुवृत्तिभिः । उपसर्गाश्च धातुलीनार्थद्योतका इति वृत्तिरनुवृत्तिः सेवा प्रकारभेदाद्भेदः । आर । सर्वान्विहाय प्राप । मा स्वा यद्यपि तथाऽपि तस्यां न सज्जमानायानासक्ताय । सज्ज-मानाय न इवेति । स्वभूतये स्वकमङ्गलरूपाय । स्वा भूतिर्महालक्ष्मीर्यस्य तस्मै । दक्षिणाभिः साकमित्युक्तेः । बहुवारं महाविभूतिस्वभूतिरित्युक्तिस् तथोपासनं महाफलदमिति भावेन । नभ-स्वदूतय इत्यपपाठः । क्रमातिक्रमात् । नभस्वान्वायुस्तस्योतिर्लीलेव लीला यस्येति व्याकरणमपि वैय्याकरणैरूतिजूतीति निपातित ऊतिशब्दोऽभिप्रायार्थतया विवृत इति नेदमर्थता तच्छशब्द-स्येति कथं नोपेक्षणीयं स्यात् ॥ ४४ ॥
छलारी
इदानीं भगवत्प्रसादसाधनं नमस्कार एवेत्यादराद्भगवन्तं नमतीत्याह ॥ नमोऽस्त्विति ॥ तस्मै पूर्वोक्तमहिम्ने हरये नमो नमोऽस्त्वित्यन्वयः । कथम्भूताय । उपशान्ता अव्यक्ताः शक्तयो यस्य तस्मै । उपोऽधिके समीपे चेति वचनात् । उप सर्वाधिका अघटि-तघटकाः शान्ताः सुखस्वरूपशक्तयो यस्य तस्मा इति वा । ‘पराऽस्य शक्तिर्विविधैव श्रूयते’ इति श्रुतेः । स्वाराज्यलाभप्रतिपूरितात्मने स्वाराज्येन स्वयं प्रकाशमानेन लाभेनानन्देन प्रति-पूरितः पूर्ण आत्मा स्वरूपं यस्य तस्मै । सर्वदाऽऽविर्भूतानन्दस्वरूपायेत्यर्थः । मायया स्वाधीनप्रकृत्या रचितेषु निर्मितेषु गुणेषु देहेषु विषयेषु वा । प्रवर्तकत्वेन विद्यमानाया अपि तद्योग्याभिर्वृत्तिभिर्दुःखलक्षणाभिर्मनोवृत्तिभिर्न सज्जमानायालिप्ताय । ‘निरनिष्टो निरवद्य’ इति श्रुतेः । दुःखानुभूतिरहितायेत्यर्थः । स्वभूतये स्वरूपभूताणिमाद्यष्टैश्वर्याय ॥ ४४ ॥
लिङ्घेरी
उपशान्ता अधिकानन्दपूर्णाः शक्तयः शक्तिप्रतिष्ठादिरूपा यस्य तस्मै । स्वाराज्यलाभेन स्वरूपभूतानन्दलाभेन परिपूरित आपूर्ण आत्मा स्वरूपं यस्य तस्मै । मायया स्वेच्छया जडप्रकृत्या च रचितेषु निर्मितेषु सत्त्वादिषु नियामकतया स्थितोऽपि यस्तद्वृत्ति-भिर्दुःखादिकार्यैर्न सज्जमानो निर्लिप्तस्तस्मै । स्वभूतये स्वरूपभूतानन्याधीनसर्वेश्वरत्वादिरूपसंपदे तुभ्यं नमोऽस्त्वित्यादराद्द्विरुक्तिः । उपोऽधिक इति सूत्रम् । शर्मशान्तसुखानि चेत्यमरः । भूतिर्भस्मनि संपदीति च । ‘असंगो ह्ययं पुरुष’ इत्यादिश्रुतिः ॥ ४४ ॥
स त्वं नो दर्शयात्मानमस्मत्करणगोचरः ।
प्रपन्नानां१ दिदृक्षूणां सस्मितं ते मुखाम्बुजम् ॥ ४५ ॥
पदरत्नावली
अस्मत्करणगोचरोऽस्मादिन्द्रियविषयो भूत्वा ॥ ४५ ॥
सत्यधर्मीया
प्रसादसाधनीयं शंसति हंसवाहः ॥ स इति ॥ सस्मितं ते मुखाम्बुजं दिदृक्षूणां दर्शनेच्छावतां नः । न शठा वयमित्याह ॥ प्रपन्नानामिति ॥ शरणागतानाम् । य इत्थं प्रसादितः स त्वम् । अस्मत्करणगोचर इन्द्रियविषयः सन् आत्मानं स्वं दर्शय नः । मद्रूपं कदापि न प्रत्यक्षविषयं कृतमित्यतो नेत्याह ॥ करणगा इति ॥ पूर्वं प्रत्यक्षविषयः सन् त्वं यस्मादचरस् तस्माद् आत्मानं दर्शयेति । सस्मितमिति प्रसन्नताहेतुकथनम् । उत्तरत्र भावि-भाषणादेर्मुखसाध्यत्वात्तद्दिदृक्षूणामित्युक्तिः । सर्वाभिलषितसम्पत्सम्पत्त्यै चात्मानमित्युक्तिः । वयं दुर्बला इतः परीक्षार्थं सत्त्वं तव बलं नो दर्शय । नायं परीक्षावसर इति वा भावः ॥ ४५ ॥
छलारी
प्रसीदतामित्युक्तम् । इदानीं तत्प्रसादफलमाशास्त इत्याह ॥ स त्वमिति ॥ सस्मितं प्रसन्नं ते तव मुखांबुजं दिदृक्षूणां द्रष्टुमिच्छतां प्रपन्नानां त्वच्छरणं प्राप्तानां नोऽस्माकं त्वन्मुखं प्रसन्नत्वेन यथाऽस्मत्करणगोचरमस्मच्चक्षुर्विषयो यथा भवेत्तथा सस् त्वमात्मानं स्वरूपं दर्शय । प्रसन्नमुखः सन् प्रसन्नो भवेत्यर्थः ॥ ४५ ॥
लिङ्घेरी
हे हरे सः पूर्वोक्तमहिमोपेतस्त्वमस्माकं करणानां चक्षुषां गोचरोऽयं भवत्विति त्वां प्रपन्नानां शरणागतानां दिदृक्षूणां साक्षात्कर्तुमिच्छावतां नोऽस्माकं तवात्मानं देहं स्मितेन हासेन सहितं ते मुखांबुजं च नोऽस्माकं दर्शय ॥ ४५ ॥
तैस्तैः स्वेच्छाकृतै रूपैः काले काले स्वयं विभो ।
कर्म दुर्विषहं यन्नो भगवान् वै करोति हि ॥ ४६ ॥
पदरत्नावली
भक्तानुकम्पामन्तरेण तवान्यत् कृत्यं न विद्यत इत्याशयेनाह– तैस्तैरिति ॥ हे विभो यद् यदा नोऽस्माकं दुर्विषहं सोढुमशक्यं कर्म दुःखलक्षणम् असुरादेः स्यादिति शेषः । तदा भगवान् स्वयमसुरादेर्दुर्विषहं कर्म पराक्रमलक्षणं करोति वा इत्यन्वयः । कथम् ? स्वेच्छाकृतैस्तैस्तै रूपैः । ‘यदा यदा हि धर्मस्य’ इति स्मृतिर्हिशब्देन गृहीता ॥४६॥
सत्यधर्मीया
विना नावतारं सिद्ध्यत्यस्मत्कार्यमिति सूचयितुं प्राक् तथाऽनुष्ठानं स्मारयति ॥ तैस्तैरिति ॥ काले काले । नोऽस्माकं प्रत्यापत्कालम् । हे विभो । स्वेच्छा-कृतैरिच्छयैवोपात्तैस्तैस्तै रूपै रामकृष्णादिरूपैर् नोऽस्मदर्थम् । दुर्विषहमितरासह्यं कर्म रावणहननादिकम् । भगवान्करोति । वै हीति बह्वनुभवसिद्धतामिदमर्थस्य द्योतयतः । यद्यस्मातत्ते मुखाम्बुजम् । दर्शय । स्वेच्छाकृतैः स्वकीयाद्यस्मदिच्छाद्यनुरूपरूपैरिति वा । तैरागतैस् तैश्चोरैरसुरैः । तकारश्चागते चोर इत्येकाक्षरनिघण्टुर्विश्वोऽप्येवम् । स्वेच्छाकृतैर्मायिकै रूपैः । अकाले काले नाशे प्रसक्ते । दुर्विषहं तदसह्यं नोऽस्मदर्थं स्वेच्छाकृतै रूपैर्भवान् भगवान्करोति । ‘यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम्’ इत्यादेरिति वा ॥ ४६ ॥
छलारी
भक्तानुकंपामन्तरेण तवान्यप्रयोजनं नास्तीत्याशयेनाह ॥ तैस्तैरिति ॥ नोऽस्माकं दुर्विषहमशक्यं यत्कर्म धर्मसंरक्षणं तत्कर्म भगवान्स्वयमेव करोति हि । कथम् । काले काले तत्तत्काले विशेषे स्वेच्छया भक्तानुजिघृक्षया कृतैः प्रादुर्भूतैस्तै रूपै रामकृष्णादिरूपैः । यद्वा हे विभो । यद्यदा दुर्विषहं सोढुमशक्यं कर्म दुःखरूपमसुरादेः सकाशादिति शेषः । तदा भगवान्स्वयमसुरादीनां दुर्विषहं कर्म पराक्रमरूपं करोति । शेषं पूर्ववत् । ‘धर्मसंस्थापनार्थाय दैत्यानां निधनाय च’ इत्यादि स्मृतिप्रसिद्धिं हिशब्देनाह । अतोऽस्मत्प्रयोजनाय प्रीत्या प्रत्यक्षो भवेति भावः ॥ ४६ ॥
लिङ्घेरी
हे विभो अघटितघटनासमर्थ हरे । भगवांस्त्वं नोऽस्माकं दुर्विषहं मनसाऽपि धर्तुमशक्यं कर्म असुरहननसुरसंरक्षणादिरूपम् । काले काले असुरैर्धर्माद्युच्छेदकाले स्वेच्छा-कृतैस्तैस्तैर्मत्स्यादिरूपैः करोति हि । वा इत्यनेन ‘यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् ॥’ ‘परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥’ इत्यादिप्रमाणं सूचयति ॥ ४६ ॥
क्लेशभूर्यल्पसाराणि कर्माणि विफलानि च ।
देहिनां विषयार्तानां न तथैवार्पितं त्वयि ॥ ४७ ॥
पदरत्नावली
ज्ञानमेव मुक्तिसाधनं न कर्म, तन्मतदूषणादित्यभिप्रायो यदि तर्हि कर्मकरणं व्यर्थमित्याशङ्क्य सत्यं भगवदर्पणाख्यचिकित्साभावे, साऽस्ति चेत् फलवदित्या-शयेनाह– क्लेशेति ॥ विषयार्तानां देहिनां कर्माणि विफलानि विरुद्धफलान्यनभीष्टफलानीत्य-न्वयः । कथम् ? भूरिक्लेशानि अल्पसाराणि च । ईश्वरार्पितं कर्म तथाऽनर्पितवद्विफलं न स्यादित्यन्वयः ॥ ४७ ॥
सत्यधर्मीया
अस्मदनुष्ठितानि कर्माणि त्वत्समर्पितानीति न निष्फलानि भाव्यानीव सकामानीति विज्ञापयति ॥ क्लेशेति ॥ क्लेशो भूरिः । भूरिः प्राज्यसुवर्णयोरिति विश्वः । येषु तानि च । अल्पः सारः फलोपलम्भकता बलं येषां तानि च तानि तानि च । विषयार्तानां हीनदेहधारिणाम् । कर्माणि विफलानि स्वर्गाद्युक्तफलविकलानि । किञ्च विरुद्धफलकानि च भवन्ति । हर्यर्पितमेकं कर्म तथा विफलं नैव भवति । एकवचनेन बहुकर्माणि त्वय्यर्पितानि तानि न जातुचिद् विफलानि भवेयुरिति दर्शयेः स्वमस्मान्निष्कर्ष इति ध्वनयतीत्याशयः ॥४७॥
छलारी
किञ्चित्त्वद्भक्तैरस्माभिस्त्वत्प्रीत्यर्थं कृतानि त्वयि समर्पितानि पूर्वपुण्यानि सकामानामिव विफलानि भवितुं नार्हन्ति । अतश्च प्रत्यक्षो भवेत्याशयेनाह ॥ क्लेशभूरीति ॥ विषयार्तानां सकामानां देहिनां कर्माणि त्वय्यनर्पितत्वाद्यथा विफलानि विरुद्धफलान्यभीष्ट-फलरहितानि च स्युस् तथा त्वय्यर्पितं कर्म न विफलं स्यादित्यन्वयः । कथम्भूतानि क्लेशभूरीणि । बहुक्लेशेन कृतान्यल्पसाराण्यैहिकाल्पफलानि च ॥ ४७ ॥
लिङ्घेरी
हे विभो । विषयार्तानां शब्दादिविषयाकांक्षया दुःखितानां तत्तद्विषयप्राप्त्यर्थं क्रियमाणकर्माणि क्लेशभूर्यल्पसाराणि बहुक्लेशहेतुदेहायासद्रव्यनाशादियुक्तानि स्वल्पसुखप्रदानि च कदाचिद्भवन्ति कदाचिद्विफलानि च व्यर्थानि विरुद्धफलानि च भवन्ति यथा तथा त्वय्यर्पितं कर्म न भवति ॥ ४७ ॥
नाधमः कर्मकल्पोऽपि विफलायेश्वरार्पितः ।
कल्पते पुरुषस्यैव स ह्यात्मा दयितो हितः ॥ ४८ ॥
पदरत्नावली
साङ्गं कर्म ईश्वरार्पितं सफलमस्तु, अनङ्गं कथमिति तत्राह– नेति ॥ पुरुषस्य कर्मकल्पः कर्माभासो ऽङ्गसाकल्येन रहितो ऽत एवाधमोऽपि यदीश्वरार्पितस् तर्हि विफलाय न कल्पते किन्तु फलवानेव स्यादित्यन्वयः । तत्र किं कारणम् ? अत्राह– स इति ॥ यत्प्रीत्यै कर्म करोति स आत्मा परमात्मा हितः प्रेक्ष्येष्टकारी दयितोऽनिमित्तबन्धुर् हि यस्मात्, तस्मादिति शेषः । नाधर्म इति केचित् पठन्ति । स्मृत्यविहितः । ‘सर्वधर्मान् परित्यज्य’ इत्युक्तेः ॥ ४८ ॥
सत्यधर्मीया
साङ्गं चेत्कर्म शर्म यच्छेद्धर्यर्पितं व्यङ्गं चेद्विफलं स्यादित्यतो मन्त्र-तस्तन्त्रतश्छिद्रं देशकालार्हवस्तुतः । सर्वं करोति निच्छिद्रमनुसङ्कीर्तनं तवेत्यादेस्तदपि प्राप-यत्यर्पितं पुरुषार्थमित्याह ॥ नाधम इति ॥ नायं कल्पशब्दः किन्तु तदाभासार्थकः कल्पप्-प्रत्ययः । ईषदसमाप्तौ कल्पप् । परिगणनाभावात्प्रातःकल्पमिति तत्त्वसुबोधिन्युक्तेर् देवकल्प इत्यादिवत् कर्मकल्प इति भवति । कर्मकल्पो व्यङ्ग्यत्वात्तद्वदवभासमानो ऽत एवाधमो यः सोऽपीश्वरार्पितश्चेत्पुरुषस्य विफलाय फलाभावाय विरुद्धफलाय । न कल्पते नैव भवति । कुत इत्यत आह । हि यतो यदुद्देशेन कर्म क्रियते स आत्माऽऽदानादिकर्ता स्वामी दयितोऽनिमित्त-बन्धुर्हितो नित्यवृद्धश्चेति ॥ तस्मादिति ॥ नैरपेक्ष्येणोपेक्ष्य न्यूनतां दयां तनोतीति भावः । नाधर्म इति पाठे तत्तुल्योऽपीत्यर्थः । ‘अल्पमात्रकृतो धर्मो भवेज्ज्ञानवतो महान्’ इत्यादेः । व्यङ्गकर्मकार्यपि सह्योऽकिञ्चित्कर्ताऽपि सहनीय आत्माऽधिकारी यस्य स इति वा ॥ ४८ ॥
छलारी
तत्र वैकल्यमुपपादयति ॥ नाधम इति ॥ पुरुषस्य कर्मकल्पः कर्मा-भासोऽङ्गसाकल्येन रहितोऽधमोऽप्यल्पोऽपीश्वरार्पितश्चेद् विफलाय न कल्पते न भवति । किन्तु फलवानेव स्यात् । कुतः । यत्प्रियायैव कर्म कृत्वा तस्मिन्समर्पयति स आत्मा परमात्मा हितः प्रेष्ठकारी दयितोऽनिमित्तबन्धुर्हि यस्मात्तस्मादित्यर्थः । नाधर्म इति पाठे कर्माभासत्वादधर्म-तुल्योऽपीत्यर्थो ज्ञेयः । अल्पमात्रकृतो धर्मो भवेत्ज्ञानवतो महान् । महानपि कृतोऽधर्मो ह्ययोग्यान्निष्फलो भवेदित्युक्तेः ॥ ४८ ॥
लिङ्घेरी
अधिकारिकृतोऽङ्गवैकल्येन कर्मकल्पः कर्माभासोऽत एवाधमोऽपि यदीश्वरार्पितः कृष्णेऽर्पितस्तर्हि विफलाय फलाभावाय न कल्पते समर्थो न भवति । किन्तु फलायैव कल्पते । हि यस्मादस्य पुरुषस्याधिकारिणः स आत्मा परमात्मा दयितः प्रिय एव । अस्य हरेरपि पुरुषोऽधिकारी हि यस्माद्धितस्तस्मात्पुरुषार्थायैव कर्मकल्पो भवतीति । ‘अहं ज्ञानिप्रियो नित्यं ज्ञानिनोऽपि मम प्रियाः’ । ‘तपस्विनो दानपरा यशस्विनो मनस्विनो मन्त्रविदः सुमङ्गलाः । क्षेमं न विन्दन्ति विना यदर्पणं तस्मै सुभद्रश्रवसे नमो नम ॥’ इत्यादेः । नाधर्मकर्मकल्पोऽपीति पाठान्तरम् । तत्राविवेकिनां कर्मकल्पः कर्माभासतया प्रतीतोऽपि यदीश्वरार्पितस्तर्हि सोऽधर्मो न भवति । ‘धर्मो भवत्यधर्मोऽपि कृतो भक्तैस्तवाच्युत’ इत्यादेः ॥ ४८ ॥
यथा हि स्कन्धशाखानां तरोर्मूलावसेचनम् ।
एवमाराधनं विष्णोः सर्वेषामात्मनश्च हि ॥ ४९ ॥
पदरत्नावली
ननु यजेतेत्यादिविहितकर्म परित्यज्य भगवदेकाराधनायामितरदेवतातृप्त्य-भावेन पुरुषार्थः स्यादिति तत्राह– यथेति ॥ स्कन्धानां शाखानाम्, तृप्तिं जनयतीति शेषः । तेनांकुरफलपुष्पसमृद्धिलक्षणपुरुषार्थो यथा भवति तथा सर्वेषामिन्द्रादीनामत्मनः स्वस्वापि तृप्त्याऽऽनन्दानुभवलक्षणपुरुषार्थः स्यादिति भावः । मुखादिन्द्रश्चाग्निश्चेत्यादिवाक्यं हिशब्देन दर्शयति । तेनेन्द्रादीनां श्रीनारायणशाखिशाखात्वं दर्शितं भवति । तथाहीतिवद् यथाहीत्येकं वाक्यम् ॥ ४९ ॥
सत्यधर्मीया
यदि कर्म सर्वं सर्वेश्वरार्पितं सफलं तर्हि का गतिर्वायव्यं श्वेतमालभे-तेत्यादिवचसामित्यतः सर्वशब्दवाच्यहरिप्रसत्त्या तदङ्गदेवताप्रसत्तिर्भविष्यतीत्येतत्सनिदर्शनं दर्शयति ॥ यथा हीति ॥ तरोर्वृक्षस्य । मूलावसेचनम् । मूल उदकसेकः । स्कन्धाश्च महान्तः शाखाश्चोपस्कन्धास्तेषाम् । तृप्तिजनकमिति शेषः । एवं तथा विष्णोर्व्याप्तस्य हरेराराधनं सर्वेषां तदङ्गाश्रितानां वाय्वादीनां देवानामात्मनः कर्तुः स्वस्य । आत्मनो विष्णोरिति सामानाधिकरण्यं वा । इति सर्वेषां तृप्तिजनकमिति न तद्वचननैरर्थक्यमिति भावः । विष्णुर्विटपी विटपाश्च देवा इति तत्तृप्तावेतत्तृप्तिस्ततः स्वस्यानन्दाविर्भाव इति भावः ॥ ४९ ॥
छलारी
ननु भगवदर्पितकर्मणा भगवत्प्रीतिरेव स्यान्न देवानाम् । तत्प्रीत्यभावे स्वस्य फलं न स्यादित्यत आह ॥ यथा हीति ॥ यथा तरोर्मूले जलावसेचनं स्कन्धानां शाखा-नामुपशाखानां च तृप्तिम् । जनयतीति शेषः । परं विष्णोराराधनं सर्वेषामिन्द्रादिदेवानां तृप्तिकरं भवति । आत्मनः स्वस्यापि स्वरूपानन्दानुभवकरं भवति । अनेनेन्द्रादीनां नारायणावयवत्वेन शाखास्थानीयत्वं दर्शितं भवति ॥ ४९ ॥
लिङ्घेरी
ननु ‘ज्ञात्वा शिवं शान्तिमत्यन्तमेति’ । ‘कस्मै देवाय हविषा विधेम’ इत्यादि श्रुतिविहितब्रह्मरुद्रादिसेवापरित्यागेन विष्ण्वैकविषयतया कृतः कर्मकल्पोऽपि यदि धर्मस्तर्हि रुद्रादिसेवा तत्प्रसादादि चास्याधिकारिणो न स्यादित्याशङ्क्याह ॥ यथा हीति ॥ लोके तरोर्मूलावसेचनं यथा तत्स्कन्धशाखानामपि हितं भवति । एवं विष्णोराराधनं च सर्वेषां ब्रह्मादीनामात्मनश्च स्वस्यापि हितं भवति ॥ ४९ ॥
नमस्तुभ्यमनन्ताय दुर्वितर्क्यात्मकर्मणे ।
निर्गुणाय गुणेशाय सत्वस्थाय च साम्प्रतम् ॥ ५० ॥
॥ इति श्रीमद्भागवते अष्टमस्कन्धे पञ्चमोऽध्यायः ॥
पदरत्नावली
अनन्तायेत्यनेन मुखाम्बुजमिति परिच्छिन्नत्वशङ्कां निवारयति । दुर्वितर्क्येत्यादिना न स्वरूपस्यानन्त्यमपि तु तत्कर्मणामपीत्युच्यते । निर्गुणायेत्यनेन शबलत्वं निवारयति । गुणेशायेत्यनेन गुणैः प्रवर्तमानस्यापि गुणसम्पर्कप्राप्तं दोषं निरुणद्धि । सत्वस्था-येत्यनेन गुणैर्यौगपद्यप्रतीतिं निवारयति । साम्प्रतमित्यनेन सत्वगुणयुक्तत्वं स्थितिकालं च दर्शयति । यतस्त्वं सत्वगुणप्रवर्तकोऽधुना तस्मादस्मान् आपदः पालयेति चार्थः ॥ ५० ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायाम्
अष्टमस्कन्धे पञ्चमोऽध्यायः ॥
सत्यधर्मीया
फलितमभिलप्योपसंहरति ॥ नम इति ॥ अनन्तायेति स्ववद्बद्धतां वारयति । दुर्वितर्क्याणि अनूह्यानि आत्मकर्माणि यस्य तस्मै । आत्मा च कर्माणि च दुर्वितर्क्यानि यस्येति वा । निर्गुणाय सत्त्वादिगुणैः स्वभिन्नगुणै रहिताय वा । गुणेशाय सत्त्वादिप्रवर्तकत्वेन तत्स्वामिने । सर्वं सत्यं सत्यलोकेश न कालस्तादृश इत्यतो नैवमित्याह साम्प्रतम् ॥ सत्त्वस्थायेति ॥ पालनकालोऽयमिति नोपेक्षणीयाः । किन्तु रक्षणीया वयं विभो । अतस्तुभ्यं नमोऽस्तु । उपक्रमे पालनक्षण इत्युक्तम् । पुनरुपसंहारेऽपीरयन्सत्त्वस्यापीति सर्वथा सर्वरक्षणं कर्तव्यमिति दृढयति ॥ तुभ्यमिति ॥ दर्शयामात्मानमिति निश्चित्योक्तिः ॥ ५० ॥
॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्याम्
अष्टमस्कन्धे पञ्चमोऽध्यायः ॥ ८-५ ॥
छलारी
स्वाभिप्रेतं सूचयन् प्रणामेन स्तुतिमुपसंहरतीत्याह ॥ नम इति ॥ अनन्ताया-परिच्छिन्नाय । दुर्वितर्क्यात्मकर्मणेऽचिन्त्यानि आत्मकर्माणि स्वभावचेष्टितानि यस्य तस्मै । निर्गुणाय सत्त्वरजस्तमोगुणकार्यशून्याय । गुणानां सत्त्वादिगुणानाम् । इदानीं सत्त्वगुणं प्रवर्तयसि तस्मादस्मान्न आपदः पालयेति भावः सूचितो भवति ।
॥ इति श्रीछलारी शेषाचार्यकृतायां श्रीभागवतटिप्पण्याम्
अष्टमस्कन्धे पञ्चमोऽध्यायः ॥ ८-५ ॥
लिङ्घेरी
इदानीं चतुर्मुखः स्वकर्तृकहरिकर्मकस्तुतिसमापने निमित्तं सूचयन्नेव हरिं स्तुवन् तत्स्तुतिं समापयति ॥ नमस्तुभ्यमित्यादिना ॥ दुर्वितर्क्यान्यूहितुमशक्यान्यात्मदेहकर्माणि च यस्य तस्मै । सत्त्वादिगुणविधुरतया निर्गुणाय । सृष्ट्याद्यर्थगुणानामीशाय प्रेरकतया स्थित-स्वामिने । सांप्रतमिदानीं सत्त्वगुणस्थाय स्थितिपालकाय तुभ्यं नमोऽस्त्विति ॥ ५० ॥
**॥ इति श्रीलिङ्घेरी श्रीनिवासाचार्यकृतायां श्रीभागवतटिप्पण्यां **
अष्टमस्कन्धे पञ्चमोऽध्यायः ॥ ८-५ ॥