तदा देवर्षिगन्धर्वा ब्रह्मेशानपुरोगमाः
॥ अथ चतुर्थोऽध्यायः ॥
श्री शुक उवाच–
तदा देवर्षिगन्धर्वा ब्रह्मेशानपुरोगमाः ।
मुमुचुः कुसुमासारं शंसन्तः कर्म तद्धरेः ॥ १ ॥
पदरत्नावली
प्रणष्टदुरितस्य हरौ निरतिशयभक्तिः स्यादिति तन्नाशसाधनादि निरूप्यतेऽस्मिन्नध्याये । तत्र प्रथमं देवादीनां पुष्पवर्षादिकं भगवत्प्रीतिसाधनमाह– तदेति ॥ यदा गजेन्द्रममूमुचत् तदा स पश्चात् पूर्वचीर्णपुण्योदयेनाविर्भूतज्ञानो हरिं स्तुत्वा तत्प्रसादेन देवलशापेन, तृतीया पञ्चम्यर्थे, तस्माच्छापान्मुक्तः परमाश्चर्यरूपधृक् हरिं शिरसा प्रणम्य यशोधामागायतेन्यन्वयः । कीर्तनीया गुणरूपाः सत्यः कथा यस्य स तथा तम् । यस्मिंस्तथेति वा । अनेन हरिगुणकीर्तनरूपं गानं गायकशापादिमोक्षसमर्थमित्युक्तं भवति ॥ १-५ ॥
सत्यधर्मीया
दूरीकृतदुरितस्य हरौ निरतिशयभक्तिर्भवति । तद्दूरकारणानि निरूपयन्नादौ गजेन्द्रमोचनानन्तरं का कथा प्रवृत्तेति राजसमाजसंशयं पराकरोति ॥ तदेति ॥ यदाऽमूमुचद्गजं तदा देवा ऋषयो वसिष्ठाद्या देवर्षयो नारदाद्याश्च गन्धर्वाश्च ते । ब्रह्मेशानौ पुरोगमौ येषां ते तथा । कुसुमानामासारो धारासम्पातस्तम् । तत्कर्म शंसन्तः सन्तो मुमुचुः ॥ १ ॥
छलारी
देवादीनां गजेन्द्रमोक्षणमहिमानं दृष्ट्वा पुष्पवर्षादिकमाह ॥ तदेति ॥ तदा गजेन्द्रमोचनकाले कुसुमानामासारं वृष्टिं मुमुचुश्चक्रुः । तद् गजेन्द्रमोचनरूपं कर्म चरितम् ॥१॥
लिङ्घेरी
अत्रापि भगवति श्रीनारायणे दृढतरभक्तिजननाय हरेर्माहात्म्यं निरूप्यते ॥ तदेत्यादिना ॥ हरिर्यदा गजेन्द्रममूमुचत्तदा ब्रह्मेशानपुरोगमाश्चतुर्मुखपुरःसरा देवर्षिगंधर्वा हरे-र्गजेन्द्रमोचकस्य तत्कर्म तन्मोक्षणरूपचरितं शंसन्तः स्तुवन्तः कुसुमासारमविच्छिन्नधारपुष्पसमूहं हरौ मुमुचुः क्षिप्तवन्तः ॥ १ ॥
नेदुर्दुन्दुभयो दिव्या गन्धर्वा ननृतुर्जगुः ।
ऋषयश्चारणाः सिद्धास्तुष्टुवुः पुरुषोत्तमम् ॥ २ ॥
सत्यधर्मीया
दिवि भवा दिव्याः । दुन्दुभयो विनेदुः स्वयमेव । देववाद्यान्यवाद्यंत स्वयमेवेति हरिवंशोक्तेः । दुन्दुभयो दिव्या देवसम्बन्धिन्य इति व्याख्यानम् । दुन्दुभिरक्षेषु । अक्षेषु किम् । अयं दुन्दुभिर्वाद्यविशेष इति । तथोभावक्षत्रिय इति च लिङ्गानुशासने विशिष्योक्ते-र्विश्वे, दुन्दुभिर्दितिजे भेर्याम् । भेरीस्त्रीदुन्दुभिः पुमान् इत्यमरोक्तेर्लेखकदोषायातमवसेयम् । गन्धर्वा ननृतुर्जगुश्च । गन्धर्व्यश्च गन्धर्वा अप्सरसो ननृतुः । पुमांसश्च जगुरिति वा । पुमांस्त्रियेत्येकशेषः ॥ २ ॥
छलारी
नेदुरवाद्यन्त । दिव्या देवसंबन्धिन्यः ॥ २ ॥
लिङ्घेरी
तदा दिव्यादुंदुभयो भेर्यो नेदुर्ध्वनियुक्ता बभूवुः । विद्याधरा अप्सरसो ननृतुर्नर्तनं चक्रुर्गन्धर्वा जगुर्गानं चक्रुः । ऋषयश्चारणाः सिद्धाश्च पुरुषाभ्यां क्षराक्षराभ्यामुत्तमं हरिं तुष्टुवुर् अस्तुवन् ॥ २ ॥
योऽसौ ग्राहः स वै सद्यः परमाश्चर्यरूपधृक् ।
मुक्तो देवलशापेन हूहूर्गन्धर्व१ सत्तमः ॥ ३ ॥
सत्यधर्मीया
ग्राहं च किमनुजग्राह हरिः किं वा न । स च किं जात्या तथा किंवा द्विपवच्छापोपात्ततद्देहस्तथा चेत्स च प्राक्व इत्येतत्सर्वं निरूपयति ॥ य इति ॥ देवलशाप-प्रकारस्तु भारतोक्तेर्वक्ष्यते । परमाश्चर्यरूपधृक् पुरुषाकारधरो देवलशापेन यो ग्राहोऽसावित्य-न्वयः । मुक्तो दुर्योनेः । मुक्तशब्दयोगेऽपादानपञ्चम्या भाव्यम् । कथं तृतीयेति निरस्तमनेनेति ज्ञेयम् । हूहूर्गन्धर्वसत्तम इति सुपठम् । हू इति ह्वयतेः । ह्वेञः क्विप् । वचिस्वपीति सम्प्रसारणम् । हल इति दीर्घः । ‘हाहाहूहूश्चैवमाद्या गन्धर्वा’ इत्यमरः । हूहूगन्धर्वेति पाठेऽपि हूहूश्चासौ गन्धर्वसत्तमश्चेति ऐकपद्येन व्याख्येयम् । भोजस्त्वनयोरव्ययत्वमाहेति भानुराहेति न कोऽपि क्लेशस्तत्पक्ष इति ज्ञेयम् ॥ ३ ॥
छलारी
नक्रगजेन्द्रयोर्मध्ये प्रथमं नक्रस्य स्वरूपमवदत् । तस्य गतिमाह ॥ योऽ-साविति ॥ योऽसौ ग्राहो देवलस्य ऋषेः शापेन शापप्राप्तग्राहयोनेः सद्यो मुक्तः परमाश्चर्यरूपं पुरुषाकारं धरतीति तथोक्तः । उत्तमश्लोकमगायतेत्यन्वयः । स पूर्वं क इत्यत आह ॥ हूहूनामको गन्धर्वसत्तम इति ॥ अत्रैवं हि कथा । कस्मिंश्चित्सरसि स्त्रीभिः सह जलक्रीडां कुर्वन्नसौ हूहूगन्धर्वस्तत्र स्नातुं प्रविष्टं देवलं मुनिं पदि प्रगृह्य विचकर्ष । स कुपितः सन् ग्राहो भवेति तं शशाप । पुनस्तेन प्रसादितः सन्नुवाच । एवमेव गजेन्द्रं गृणीष्व । तदा गजेन्द्र-मुद्धृतवान्हरिस्त्वामपि शापान्मोचयिष्यतीति ॥ ३ ॥
लिङ्घेरी
ग्राहदेहवान् यश्चेतनोऽसौ पूर्वं हूहूनामकगन्धर्वोत्तमो देवलस्य ऋषेः शापेन ग्राहोऽभूदिदानीं तस्माच्छापाद्भगवत्स्पर्शमहिम्ना मुक्तः सन् । परमाश्चर्यरूपं धृग्धारी सन् ॥ ३ ॥
प्रणम्य शिरसाऽधीशमुत्तमश्लोकमव्ययम् ।
अगायत यशोधाम कीर्तन्यगुणसत्कथम् ॥ ४ ॥
सत्यधर्मीया
यशोधाम कीर्तिविशेषाश्रयम् । कीर्तन्यगुणसत्कथम् । कीर्तनशब्दादर्हार्थे तद्धितो यत्प्रत्ययः । कीर्तन्याः कीर्तयितुं योग्यास्तत्र साधुरिति । यद्वा । सदिति देहलीदीप-न्यायेन सन्तो गुणाः सत्यः कथाश्चेत्यन्वेति । यस्य स तम् । अगायतागायत् ॥ ४ ॥
छलारी
यशसः कीर्तेर्धामाश्रयम् । अत एव कीर्तन्यगुणसत्कथं कीर्तनीया गुणाः सत्यो निर्दोषाः कथा यस्य तम् ॥ ४ ॥
लिङ्घेरी
उत्तमश्लोकं ब्रह्मादिस्तुत्यमव्ययं यशोधाम सत्कीर्तिसागरं कीर्तन्यगुणसत्कथं कीर्तनीयभक्तानुकंपित्वादिगुणनिर्दुष्टकथावन्तमधीशमधिकस्वामिनं हरिं शिरसा प्रणम्यागायतास्तौत्
॥ ४ ॥
सोऽनुकम्पित ईशेन परिक्रम्य प्रणम्य तम् ।
लोकस्य पश्यतो लोकं स्वमगान्मुक्तकिल्बिषः ॥ ५ ॥
सत्यधर्मीया
अनुकम्पितः कृपापात्रीकृतः । इतजन्तः । मुक्तकिल्बिषो लोकस्य देवादेः पश्यतः सतः । स्वं लोकं गन्धर्वस्थानमगमद्गतवान् ॥ ५ ॥
छलारी
सोऽनुकंपित ईशेन नारायणेन स गन्धर्वोऽनुकंपितः कृपापात्रीकृतः परिक्रम्य प्रदक्षिणीकृत्य प्रणम्य नमस्कृत्य पश्यतः सतो मुक्तकिल्बिषो गतपापः सन् स्वलोकं प्रत्यगात्प्राप ॥ गम्लृ गतौ ॥ ५ ॥
लिङ्घेरी
स हूहूनामगन्धर्व ईशेन हरिणाऽनुकंपितोऽनुग्रहीतो मुक्तदोषः सन् । तं हरिं परिक्रम्य प्रदक्षिणीकृत्य प्रणम्य लोकस्य तत्र स्थितजनस्य पश्यतः सतः । स्वं स्वकीयलोक-मगादगच्छत् । इणो गा लुङीति गत्यर्थादिष्टो लुङि गादेशः ॥ ५ ॥
गजेन्द्रो भगवत्स्पर्शाद् विमुक्तोऽज्ञानबन्धनात् ।
प्राप्तो भगवतो रूपं पीतवासाश्चतुर्भुजः ॥ ६ ॥
पदरत्नावली
ननु किमनेनान्यगुणकीर्तनेनेदानीं गजेन्द्रस्य भगवत्स्तुत्या किमभूदित्या-शङ्क्य स्तुत्या प्रसन्नस्य हरेर्दर्शनेन मुक्तकिल्बिषस्य तत्सारूप्यं फलमभूदित्याह– गजेन्द्र इति
॥ ६ ॥
सत्यधर्मीया
प्रसङ्गसङ्गत्या वक्तव्यमुक्त्वा प्रकृतमनुसरति ॥ गजेन्द्र इति ॥ भगव-त्स्पर्शात्सग्राहमाशु सरसः कृपयोज्जहारेत्युक्तभगवत्स्पर्शात् । उपलक्षणमेतत् । दृष्ट्वा गरुत्मति हरिमितीरिताद्दर्शनाच्च । अज्ञानबन्धनादज्ञानेन बन्धयतीति तत्तथा च । तस्माद्गजजन्मनो भगवतो रूपं सदृशाकारम् । तदेव व्यनक्ति ॥ पीतवासाश्चतुर्भुज इति ॥ ६ ॥
छलारी
किमिदानीं फलमभूदित्यतः स्तुत्या प्रसन्नस्य हरेर्दर्शनेन मुक्तकिल्बिषस्य तत्सारूप्यं फलमभूदित्याह ॥ गजेन्द्र इति ॥ अनेन बन्धयतीत्यज्ञानबन्धनं गजयोनि-स्तस्मात् । रूपं समाकारं सारूप्यमित्यर्थः । तदेवाह ॥ पीतवासाश्चतुर्भुज इति ॥ ६ ॥
लिङ्घेरी
गजेन्द्रो भगवत्स्पर्शादज्ञानबन्धनात्परमात्माविद्याप्राप्तसंसारबन्धनाद्विमुक्तः सन् । पीतवासाश्चतुर्भुजश्च सन् भगवतो रूपसदृशं रूपं प्राप्तः ॥ ६ ॥
स वै पूर्वमभूद्राजा पाण्ड्यो द्रविडसत्तमः ।
इन्द्रद्युम्न इति ख्यातो विष्णुव्रतपरायणः ॥ ७ ॥
पदरत्नावली
हरेर्नाममात्रतोऽवाप्तविष्णुप्रसादः पूर्वं क इति तत्राह– स वा इति ॥ ७ ॥
सत्यधर्मीया
जन्मकर्मावदातः प्रागिति खडिति भगवदनुग्रहपात्रमासीदयमिति तत्स्वरूपं निरूपयति ॥ स इति ॥ पाण्ड्य इति ॥ तद्देशभवः । द्रविडसत्तम इति तज्जा-त्युक्तिः । इन्द्रद्युम्न इति ख्यात इति नामोक्तिः । विष्णुव्रतपरायणो विष्णुव्रतासक्त इति तदाचारोक्तिः ॥ ७ ॥
छलारी
गजेन्द्रः पूर्वजन्मनि क इत्यत आह ॥ स वा इति ॥ पाण्ड्यः पाण्ड्यदेशाधिपो द्रविडसत्तमो द्राविडो विष्णोर्व्रतमर्चनमेव परं मुख्यमयनमाश्रयो यस्य स तथा । इन्द्रद्युम्नस्तन्नामकराजाऽभूदासीत् । भू सत्तायां लङ् ॥ ७ ॥
लिङ्घेरी
गजेन्द्रस्य पूर्वं स्वरूपं शापेन गजत्वप्राप्त्यादि वर्णयति ॥ स वा इत्यादिना ॥ स गजेन्द्रः पूर्वं द्रविडसत्तमो द्राविडेष्वत्युत्तमः पाण्ड्यदेशाधिपतिर्विष्णुव्रतपरायण इन्द्रद्युम्न इति ख्यातो राजाऽभूत् ॥ ७ ॥
स एकदाऽऽराधनकाल आत्मवान् गृहीतमौनव्रत ईश्वरं हरिम् ।
जटाधरस्तापस आप्लुतोऽच्युतं समर्चयामास कुलाचलाश्रयः१ ॥ ८ ॥
पदरत्नावली
गजेन्द्रयोनिप्राप्तिनिमित्तं वक्तुमुपोद्घातं रचयति- स एकदेति ॥ ८ ॥
सत्यधर्मीया
एतादृशस्येन्द्रद्युम्ननाम्नः कुतो दशेदृशीत्यतस्तन्निदानं वक्तुमुपोद्धातमाह ॥ स इति ॥ आत्मवान् यतमना आराधनकाले गृहीतमौनव्रतो गृहीतं मौनं व्रतं येन स तथा । आप्लुतः शिरस्नात ईश्वरमच्युतं हरिम् । कुलाचलाश्रयः कुलाचलो मलयाद्रिराश्रयो यस्य सः । कुलाचलाश्रम इति पाठेऽप्याश्रम आश्रयो यस्य स इति तदर्थः । जटाधरो धरतीति धरो जटानां धरो हि सः । अत एव तापसः । एकदा समर्चयामासापूजयत् ॥ ८ ॥
छलारी
तस्य गजयोनिप्राप्तौ निमित्तं वक्तुमुपोद्घातं रचयति ॥ स एकदेति ॥ आत्म-वान्मनोजयवान् । परमात्मज्ञानीति वा । आराधनकाले गृहीतं मौनव्रतं लौकिकसंभाषणराहित्यं व्रतं येन स तथा । तापसस्तपस्व्याप्लुतः स्नातः कुलाचलपर्वतमाश्रयतीति स तथोक्तः ॥८॥
लिङ्घेरी
स इन्द्रद्युम्न एकदा हरेराराधनकाले कुलाचले माहेन्द्रनाम्नयाश्रयो यस्य स तथा सन् । तापसस्तपःकरणे प्रवृत्तः सन् जटाधरोऽप्याप्लुतस्तत्रस्थनद्यां स्नातः सन् गृहीतमौनव्रत आत्मवान्मनोनिग्रहवांश्च सन् अच्युतं देशकालगुणैश्च च्युतिरहितमीश्वरं सर्वस्वामिनं हरिं समर्चयामास सम्यगाराधितवान् ॥ ८ ॥
यदृच्छया तत्र महायशा मुनिः समागमच्छिष्यगणैः परिश्रितः ।
तं वीक्ष्य तूष्णीमकृतार्हणादिकं रहस्युपासीनमृषिश्चुकोप ह ॥ ९ ॥
सत्यधर्मीया
यदृच्छा तु तदिच्छा स्यादित्युक्तेर्हरीच्छया । परिश्रितः परिवारितः । अकृतमर्हणादिकं येन तम् । रहस्येकान्ते तूष्णीमुपासीनम् । अनेनानुत्थानं च सूचयति । ऋषिर्वीक्ष्य । तस्मा इत्युत्तरपद्यादाकृष्यते । तस्मै चुकोप । ह खेदे । अनेन क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोप इति स्मरणात्कथमुपासीनमिति द्वितीयेति परास्तम् । यद्वा शब्दशक्तिप्रकाशिकोक्त-रीत्या शिष्यमीर्ष्यति ॥ ९ ॥
छलारी
इदानीं तन्निमित्तमाह ॥ यदृच्छयेति ॥ तत्रेन्द्रद्युम्नाश्रमे । मुनिरगस्त्यः । परिश्रितः परिवृत इत्यर्थः । अकृतमर्हणादिकं प्रत्युत्थानाद्यर्चनादिकं येन तं तूष्णीं रहस्युपा-सीनमिन्द्रद्युम्नं वीक्ष्य ऋषिर्ज्ञानी चुकोप कोपं चकार ॥ ९ ॥
लिङ्घेरी
यदृच्छयाऽदृष्टप्रेरकहरीच्छया तत्रेन्द्रद्युम्नतपःस्थले महायशाः प्रशस्तकीर्तिर्मुनि-रगस्त्याख्यः शिष्यगणैः परिश्रितः सन् समागमत् । तमगस्त्यं वीक्ष्याकृतार्हणादिकं प्रत्यु-त्थानाभिवादनरूपपूजारहितं रहस्येकान्ते उपासीनं तूष्णीं स्थितं चलनमात्रेणापि विधुरमिन्द्रद्युम्नं दृष्ट्वा ऋषिरगस्त्यश्चुकोप । कोपं चकार । हेत्यनेन राज्ञोऽनिष्टं सूचयति ॥ ९ ॥
तस्मा इमं शापमदादसाधुरयं दुरात्माऽकृतबुद्धिरद्य ।
मद्धेलनात् प्राविशतां तमिस्रं यथा गजः स्तब्धमतिः सदोषः१ ॥१०॥
सत्यधर्मीया
अत्राप्यन्वेति तस्मा इति । इमं वक्ष्यमाणम् । दुरात्मा दुर्मनस्कोऽ-कृतबुद्धिः कृता पाद्यार्ध्यादौ बुद्धिर्यस्य स तथा । स न भवतीति तथा । अतो न दुरात्मेत्यनेनार्थिकी पुनरुक्तिः । मद्धेलनान्ममानादरणात्तमिस्रमज्ञानप्रचुरं जन्म । तिरस्कार्यं जन्मेति वा । तमिस्रेव तमिस्राऽस्त्यत्रेति पक्षद्वयेऽप्यर्श आद्यच् । ज्योत्स्ना तमिस्रेति साधु । ‘क्षेपे तमिस्रं तिमिरे कोपे स्त्री तु तमस्ततौ’ इति विश्वो मेदिनी च । प्राविशतां प्रविशतु । सूचितं जन्म निदर्शनद्वारा दर्शयति ॥ यथेति ॥ स्तब्धमतिर्मन्दबुद्धिस्तथाऽयं सदोष इति । तथा तज्जातिर्भवत्विति शेषः । विशापमपीदं व्यपदेशेन दत्तवानित्यप्याह । सदा कृतबुद्धिः शिक्षितमनाः । अद्य मद्धेलनात् । हेडृहोडृनादर इति स्मरणात् । स्तब्धमतिर्गजो भवतु । यदा तदेत्यध्याहार्यौ । उषः ब्रह्म कृतबुद्धिः । त्वदुद्धृतौ कृतमतिर्भवति । तदा हे रद्य । रदावश्यस्य इति मत्त्वर्थे तद्धिता इति बहुवचनज्ञापितो यः । दन्तिन् । अगजो गजेतरः । भवसीति शेषः । नक्तोषासेत्यृग्भाष्ये । उषा प्रकाशरूपत्वादिति तट्टीकायां च । नक्तेति रात्रिदेवतोष इत्यपर-रात्रिदेवतेति प्रसिद्धम् । शब्दद्वयं विष्णौ योजयति ॥ नक्तेति ॥ वश कान्तावित्यस्मात्युसन् । प्रकाशरूपत्वादुषेत्युक्तेरुषो ब्रह्म । वशेः कसुनि कित्वाद् ग्रहिज्येति सम्प्रसारणे पूर्वरूपत्वे शेषत्वे चोष इति भवतीति ज्ञेयम् । उषः किच्चेत्युणादावुषा रात्रिविशेष इति व्युदपादि । तथाऽप्युपायस्योपायान्तरादूषकत्वात्प्रकृतोपयोगायेत्थमाश्रितं टीकायामित्यदोषः ॥ १० ॥
छलारी
इमं वक्ष्यमाणं शापमेवाह ॥ असाधुरिति ॥ अकृताऽशिक्षिता बुद्धिर्यस्य स तथा । मम हेलनादवज्ञानान्निमित्तात्तमिस्रमज्ञानजं प्राविशतां प्राप्नुयात् । अज्ञानजन्मैवाह ॥ यथेति ॥ गजो यथा स्तब्धमतिस्तथैवायं राजा स्तब्धमतिरभूदिति यतोऽतः स एव । गज एव त्विति शेषः ॥ १० ॥
लिङ्घेरी
दुरात्मा दुष्टान्तःकरणोऽकृतबुद्धिरशिक्षितबुद्धिमानत एवासाधुरयमिन्द्रद्युम्नः । मद्धेलनान्ममावज्ञानाद्द्रोहाद्गजो यथा स्तब्धमतिस्तथाऽयं यतः सदोषस्ततस्तमिस्रमज्ञानप्रचुरं गजदेहं प्राविशतां प्रविष्टो भवतु । स एवेति पाठे गज एवास्त्वित्यर्थः । इतीमं शापमगस्त्य-स्तस्मा इन्द्रद्युम्नायादाद्दत्तवान् ॥ १० ॥
श्री शुक उवाच–
एवं शप्त्वा गतोऽगस्त्यो भगवान् नृप सानुगः ।
इन्द्रद्युम्नोऽपि राजर्षिर्दिष्टं तदुपधारयन् ॥ ११ ॥
सत्यधर्मीया
शप्त्वैवं विशापं च दत्वाऽगस्त्यः । इदं शापान्तरमेकस्येति ज्ञेयम् । सानुगः सदासो भगवान्पूज्यः । दिष्टं दैवविहितमुपधारयन् ॥ ११ ॥
छलारी
भगवान्पूज्यः सानुगः सशिष्यस्तद्गजजन्म दिष्टं प्रेरकेश्वरेण प्रापितमवश्य-मनुभोक्तव्यमित्युपधारयन्नालोचयन् ॥ ११ ॥
लिङ्घेरी
हे नृप । भगवान् अगस्त्य एवमिन्द्रद्युम्नं शप्त्वा सानुगः सन् गतः । राजर्षि-रिन्द्रद्युम्नोऽपि एतद्दिष्टं मददृष्टोद्बोधकेश्वरप्रापितमिति मत्वा तच्छापवचनमुपधारयद्दधार ॥ ११ ॥
आपन्नः कौञ्जरीं योनिमात्मस्मृतिविनाशिनीम् ।
हर्यर्चनानुभावेन यद्गजत्वेऽप्यनुस्मृतिः ॥ १२ ॥
सत्यधर्मीया
कौञ्जरीं गजसम्बन्धिनीं योनिमापन्नः । तज्जन्ममहिमानमाह । आत्म-स्मृतिविनाशिनीमात्मा स्वयं हरिश्च तत्स्मृतिविनाशिनीम् । नः, एवमापदिति कौञ्जरीं योनिमापन्न इत्यावृत्त्याऽन्वयो वा । अत्रेन्द्रद्युम्नः प्राक्क इति शङ्का भारते आनुशासनिके शान्तिपर्वणि भीष्मयुधिष्ठिरसंवादे । युधिष्ठिर उवाच- ‘कथं शापोद्भवं नागं गन्धर्वाणां महात्मनाम् । एत-दिच्छाम्यहं श्रोतुं विस्तरेण पितामह ॥’ भीष्मः- ‘हाहाहूहूरिति ख्यातौ गीतवाद्यविशारदौ । इति तौ शापितौ तेन देवलेन महात्मना ॥’ ततो दृष्ट्वा शक्रेण । ‘एकस्य नौ जयं देहि यत्ते मनसि वर्तते’ । पृथक् चिरन्तौ गायन्तौ । मौनस्य धारणात्तदा तौ कुपितौ । ‘ऊचतुस्ते तदा वाक्यं गन्धर्वौ कालनोदितौ । मूढोऽयं नाभिजानाति निश्चयं द्वन्द्वगीतयोः’ । निशम्य तद्वचस्तेषां क्रोधादुत्थाय… । एष हूहूर्दुरात्मा तु ग्राहत्वं यातु मूढधीः । त्वमेव गजराजस्तु भवस्व गिरि-गह्वरे । ततस्तौ शापितौ तेन…. । प्रणम्य शिरसा विप्रं गन्धर्वाविदमूचतुः । सरोवरे रम्ये नित्यं ग्राहो वसिष्यति । तृषार्तस्तत्र मातङ्गो गमिष्यति न संशयः । तदैवं देवदेवेशं स्तोष्यते नात्र संशयः । ततो नारायणः प्रीतो मोचयिष्यति शापितौ । शापाद्विमुक्तौ युगपद्गजो गन्धर्व एव तु । गजोऽपि यक्षतां यातः श्रीकृष्णेन विमोक्षितः । पस्पर्श पाणिना तौ’ इत्यादिग्रन्थेन वारणीया । अतो हस्ती हाहाः । तस्य चैतद्वचोऽनुरोधेन देवलशापानन्तरं गजजन्मनः प्राक् राजजन्माप्येकं कल्पनीयम् । कल्पभेदो वा कल्प्य इति । अथवा । त्वमेव गजराजस्तु इति देवलो गजश्चासौ राजा च गजराजः । प्राग्राजानन्तरं गज इत्यभिप्रायेण शशापेत्यर्थकरणे भागवतैककण्ठ््य-सम्भवात् । न च प्रायो यदि मुनेरभिप्रायोऽयं स्याद्धन्त तर्हि जन्मक्रममनुरुध्य राजगज इति वक्तव्यं स्यादिति वाच्यम् । तस्यात्युल्बणतया बह्वनिष्ठतया पूर्वमुक्तेरिति सम्भवत्वसम्भवात् । अगस्त्योऽपि मौनविघातकतया मौनकाल एव देवलः शशापेत्यानुरूप्यं च । दिष्टमित्यस्य पूर्वं देवलेनातिसृष्टमित्यप्यर्थः । गजश्रेष्ठतया च भाव्यमिति भावाद्वा सर्वमनवद्यम् । हर्यर्चनानुभावेन तन्महनमाहात्म्येन । न भक्त्या नधिया हत इति पाठे भक्त्या धिया च न हतो न त्यक्तः । यद्गजत्वेऽप्यनुस्मृतिरिति सुगमार्थः पाठः ॥ १२ ॥
छलारी
आत्मनः स्वपरमात्मनश्च स्मृतिविनाशिनीं कौञ्जरीं गजसम्बन्धिनीं योनिं जन्म प्रपन्नः प्राप्तवान् । तर्ह्येतादृशगजजन्मनि पूर्वजन्मस्मृतिः कथं जातेत्यत आह ॥ हरेरिति ॥ गजत्वेऽप्यात्मस्मृतिविनाशकगजजन्मन्यप्यनुस्मृतिः पूर्वजन्मस्मृतिरभूदिति यद्धरेरर्चनस्य पूर्व-जन्मनि कृतस्यातिशयितपूजाया अनुभावेन महिम्नेति ज्ञेयम् ॥ १२ ॥
लिङ्घेरी
इन्द्रद्युम्न आत्मनः स्वस्य परमात्मनोऽपि स्मृतिविनाशिनीं कौञ्जरीं गजसंबन्धिनीं योनिं देहमापन्नः प्राप्तः । तथाऽपि हरेरर्चनानुभावेन पूजामहिम्ना भक्त्या चाहं धिया न हतः । गजत्वेप्यनुस्मृतिरिति यत्तद्धर्यर्चनानुभावेनेति पाठान्तरेऽर्थः ॥ १२ ॥
एवं विमोक्ष्य गजयूथपमब्जनाभ
स्तेनापि पारिषदतां१ गमितेन युक्तः ।
गन्धर्वसिद्धविबुधैरुपगीयमान
कर्माऽद्भुतं स्वभवनं गरुडासनोऽगात् ॥ १३ ॥
पदरत्नावली
उपगीयमानानि कर्माणि यस्य स तथा । अगाल्लोकदृष्ट्या । तत्त्वं तु तत्रैवांतर्दध इति ॥ १३ ॥
सत्यधर्मीया
गजयूथपं गतम् । पारिषदताम् । परिषदि साधुः । परिषदो ण्य इत्यत्र योगविभागाण्णः । भक्ताण्ण इत्यनुवृत्तेः । अणिति प्रमादतः । पर्षदोण्य इति पाठे एकाक्षर-न्यौन्यस्य छन्दस्यदोषत्वेन पार्षदतामित्यपि सम्भवति । योगविभागादिकं तु प्राग्वत् । प्रमथाः स्युः पारिषदा भूताः शिवस्य पार्षदा इति चामरसंसारावर्तौ । यक्षताया भारत उक्तेः श्लिष्टता ज्ञेया । गमितेन प्रापितेन । चतुर्भुजत्वपीताम्बरत्वादिसारूप्यं तु सांसारिकं तात्कालिकमेव ज्ञेयम् । अमुक्तिसमयत्वात् । गरुडासनः । गरुडध्वज इत्याद्यवचनेन गरुडासन इति वचनेन चावतीर्येत्यनेन सूचितम् । गरुडस्यासनं येन प्राक् स गरुडासनः सन् अगादिति कारुणिकत्वं हरेर्द्योत्यते । गरुड आसनं यस्य सोऽगात् । त्रिकूटादित्यप्यावृत्त्यार्थो ज्ञेयः । त्रिकूट इति विश्रुत इति प्रागुक्तेः । अगाल्लोकलोचनापेक्षया । पारिषदतायास् तत्सम्बन्ध्यङ्गं तदितेनेत्यप्यर्थः । अनेन रूपपदप्राप्ततादात्म्य भ्रमो भ्रंशित इति ज्ञेयम् ॥ १३ ॥
छलारी
गजेन्द्रस्य गजयोनिप्राप्तौ निमित्तमुक्त्वेदानीं गजेन्द्रमोक्षणानन्तरं किं कृतवा-नित्याकाङ्क्षायामाह ॥ एवमिति ॥ पार्षदगतिं पार्षदस्वरूपं गमितेन प्रापितेनापीन्द्रद्युम्ने-नाप्युपगीयमानानि कर्माणि चरितानि यस्य स तथा । अद्भुतं स्वभवनमावासस्थानम् ॥ १३ ॥
लिङ्घेरी
अब्जं नाभौ यस्य स हरिर्गजयूथपं गजेन्द्रमेवमुक्तरीत्या विमोक्ष्य स्वस्य पार्षदगतिं समीपवर्तिसेवकतां गमितेन प्रापितेन तेनापि युक्तः सन् । गन्धर्वैः सिद्धैर्विबुधै-र्देवैश्चोपगीयमानकर्मा स्त्युत्यचरितः सन् । गरुडासनो गरुडारूढः सन् अद्भुतं स्वभवनं स्वमंदिरमगात् ॥ १३ ॥
एवं महाराज तवेरितो मया
कृष्णानुभावो गजराजमोक्षणम् ।
स्वर्ग्यं यशस्यं कलिकल्मषापहं
दुःस्वप्ननाशं कुरुवर्य शृृण्वताम् ॥ १४ ॥
पदरत्नावली
दुःस्वप्नस्य नाशो यस्माद्गजेन्द्रमोक्षणात् स तथा तम् ॥ १४ ॥
सत्यधर्मीया
स्वर्ग्यं तदधिकारिणाम् । पूर्वस्कन्धविवृतरीत्या मोक्षसाधनं वा । दुःस्वप्न- नाशं दुःस्वप्नानां नाशो यस्मात् । तन्नाशो नाम तत्सूचितदुष्फलानुपलम्भकता ॥ १४ ॥
छलारी
गजेन्द्रमोक्षणरूपहरिमाहात्म्यश्रवणे आदरजननाय तत्स्तौति ॥ एवमिति ॥ गजराजमोक्षणं नाम कृष्णस्योत्कृष्टानन्दरूपस्य हरेरनुभावो महिमा तवेरितः कथितः । कथंभूतं गजेन्द्रमोक्षणमित्यत आह ॥ स्वर्ग्यमिति ॥ शृृण्वतां स्वर्गसाधनं यशःसाधनं कलिदोषनाशनम्
॥ १४ ॥
लिङ्घेरी
हे महाराज कुरुवर्य कुरुश्रेष्ठ । शृृण्वतां वक्तॄणां च स्वर्ग्यं स्वर्गप्रदं यशस्यं कीर्तिकरं कलिकल्मषाणि कलियुगेन कलिनाऽसुरेण च प्राप्तपापान्यपहन्ति संहरतीति तथोऽक्तम् । दुःस्वप्नसूचितारिष्टनाशकं कृष्णस्य पूर्णसुखस्य हरेरनुभावो गजेन्द्रमोक्षणं चेत्येतदेवं मया तवेरितं कथितम् । कृषिर्भूवाचकः शब्दो णश्च निर्वृत्तिवाचक इत्यादिकृष्णशब्द उक्तार्थ एव ॥ १४ ॥
अथानुकीर्तयन्त्येतच्छ्रेयस्कामा द्विजातयः ।
शुचयः प्रातरुत्थाय दुःस्वप्नाद्युपशान्तये ॥ १५ ॥
सत्यधर्मीया
श्रेयस्कामाः केचन दुःस्वप्नाद्युपशान्तय इति वा सामानाधिकरण्येनेष्ट-प्राप्त्यनिष्टनष्ट्या इति वाऽन्वयो ज्ञेयः ॥ १५ ॥
छलारी
आदरजननाय शिष्टाचारमप्याह ॥ अथेति ॥ श्रेयस्कामाः पुरुषार्थकामा द्विजातयो ब्राह्मणवर्याः प्रातरुत्थाय शुचयः सन्तो दुःस्वप्नादीनां दुःस्वप्नप्रभृत्यपायानामुपशान्तये नाशाय यथावद्भक्तिपूर्वकमित्यर्थः । एतद्गजेन्द्रमोक्षणस्तोत्रमनुकीर्तयन्ति ॥ १५ ॥
लिङ्घेरी
अथ गजेन्द्रमोक्षणादिरूपहरिचरितस्य स्वर्गादिफलहेतुत्वादेव श्रेयस्कामाः पुरुषार्थापेक्षा द्विजातयस्त्रैवर्णिकाः प्रातरुत्थाय शुचयः शौचाचमनादिना निर्मलाः सन्तो दुःस्वप्ना-द्युपशान्तये एतद्गजेन्द्रमोक्षणरूपं हरिचरितमनुकीर्तयन्ति पठन्ति ॥ १५ ॥
इदमाह हरिः प्रीतो गजेन्द्रं कुरुसत्तम ।
शृृण्वतां सर्वभूतानां सर्वभूतमयो विभुः ॥ १६ ॥
सत्यधर्मीया
सर्वभूतमयस् तत्प्रधानः । तानि मयत इति स तथेति वा । केचिद्यथेति पठन्तो यथा यथावद्भक्तियुक्ततयेति व्याकुर्वन्ति । हरिगिरैवेदं पुण्यस्थानमिति ज्ञायत इति भावः
॥ १६ ॥
छलारी
अनेन स्तोत्रेण श्रेयो भवतीति कस्मात्ज्ञातम् । साक्षाद्भगवद्वचनादेवेत्याह ॥ इदमिति ॥ सर्वभूतमयः सर्वभूतेषु प्रधानः । स्मर्यमाणपदार्थानां भगवदधिष्ठानत्वं ज्ञेयमिति भावेनेदं विशेषणम् । अत एव विभुर्व्याप्तः ॥ १६ ॥
लिङ्घेरी
हे कुरुसत्तम । सर्वभूतानां मयः प्रधानो विभुः सर्वसामर्थ्यवान् हरिः प्रीतः सन् सर्वभूतानां शृृण्वतां सतां गजेन्द्रं प्रति वक्ष्यमाणमाह ॥ १६ ॥
श्रीभगवानुवाच–
ये मां त्वां च सरश्चेदं गिरिकन्दरकाननम् ।
वेत्रकीचकवेणूनां गुल्मानि सुरपादपान् ॥ १७ ॥
सत्यधर्मीया
स्मरन्तीत्यष्टमश्लोकस्थेन मामित्यादीनामन्वयः । यद्यपि विश्वादौ गुल्मः स्तम्ब इत्यादिना पुल्लिङ्गतैवोक्ता तथाऽपि लिङ्गानुशासने मोपधेरुग्मसिद्ध्युग्मगुल्माध्यात्मकुङ्कुमानि नपुंसक इत्युक्तेर्गुल्मानि स्तम्बान् । सर्वस्यापि स्मरणीयत्वे स्वचरणादिसंस्पर्शो निमित्तमिति ध्वनयितुमादौ मामित्युक्तिः । तत्काननमित्युत्तरपदलोपिसमासतो वा सम्भवति । गिरिकन्दर-काननमिति सर्वो द्वन्द्व एकवद्भवतीति वा गिरिकन्दरसहितं च तत्काननमित्युत्तरलोपसमासतो वा सम्भवति ॥ १७ ॥
छलारी
ये मां चेत्यादि श्लोकेषु सर्वेषां द्वितीयान्तानां स्मरन्तीत्यनेनान्वयः । कन्दरं गुहा । गुल्मानि समूहान् ॥ १७ ॥
लिङ्घेरी
इदमित्युक्तं विवृणोति ॥ ये मामित्यादिना ॥ सुरपादपान् मन्दारपारिजातादि देववृक्षान् ॥ १७ ॥
श्रृङ्गाणीमानि धिष्ण्यानि ब्रह्मणो मे शिवस्य च ।
क्षीरोदं मे प्रियं धाम श्वेतद्वीपं च भास्वरम् ॥ १८ ॥
सत्यधर्मीया
धिष्ण्यानि स्थानानि । क्षीरोदं क्षीरसमुद्रम् । यथोक्तं भारते– ‘क्षीरोद-जलवीच्युग्रैर्धौतामलशिलातल’ इति । शृृङ्गाणि त्रीणि । तत्रैकं काञ्चनात्मकं द्वितीयं राजतं तृतीयं पद्मरागसमकान्ति । यथोक्तं तत्रैव । ‘तस्यैकं काञ्चनं शृृङ्गं द्वितीयं राजतं स्मृतम् । तृतीयं ब्रह्मसदनं प्रकृष्टं शृृङ्गमुत्तमम् । पद्मरागसमप्रख्यम्’ इति । तदेतदैककण्ठ्यं ज्ञेयम् ॥ १८ ॥
छलारी
शृृङ्गाणि शिखराणि । धिष्ण्यानि गृहभूतानि । प्रसङ्गादन्यस्यापि स्मरणे फलमाह ॥ क्षीरोदमित्यादिना ॥ क्षीरोदं क्षीरसमुद्रम् ॥ १८ ॥
लिङ्घेरी
धिष्ण्यानि स्थानानि । ‘धिष्ण्यमोको निवासनम्’ इत्यमरः ॥ १८ ॥
श्रीवत्सं कौस्तुभं मालां गदां कौमोदकीं मम ।
सुदर्शनं पाञ्चजन्यं सुपर्णं पतगेश्वरम् ॥ १९ ॥
सत्यधर्मीया
कौस्तुभं ब्रह्माभिमन्यमानं मणिम् । ‘तत्कण्ठगं कौस्तुभमास धाता’ इत्याचार्योक्तेः । कुं भुवं स्तुभ्नाति व्याप्नोतीति कुस्तुभोऽब्धिस्तस्यायम् । कुं स्तोभत इति कुस्तुभो भगवांस्तस्यायं वा । ष्टुभस्तम्भे । मूलविभुजादित्वात्कः । मालां वैजयन्तीम् । गदां गदतीति गदेः पचाद्यच् । तन्नामाह ॥ कौमोदकीमिति ॥ कोः पृथिव्या मोदको हरिस्तस्ये-यम् । विष्णुः कुमोदकः शौरिरिति दुर्गः । तस्या एव कौपोदकीति नामान्तरम् । कूपोदक-जातत्वात्कौपोदकीति तत्पक्षे व्युत्पत्तिः । ममेति श्रीवत्समालापदेन वा सुदर्शनमित्यादिना वाऽन्वेति । कौस्तुभकौमोदकीपदार्थयोः प्रत्ययेनैव भगवत्सम्बन्धिताबोधनादिति मन्तव्यम् । सुदर्शनं शोभनं दर्शनमस्येति । सुखेन दृश्यत इति वा सुदर्शनस्तम् । भाषायां शासि युधि-दृशिधषिमुषिभ्यो युजिति युचि युवोरनाकावित्यनेन सुदर्शन इति भवति । ‘सुदर्शनो हरेश्चक्रे मेरुवंशे द्रुमे पुमान् । सुदर्शनोऽस्त्रियां चक्र’ इति नामनिधानम् । पाञ्चजन्यं पञ्चजने दैत्यविशेषे भवः । बहिर्देवपञ्चजनेभ्य इत्युपसङ्ख्यानाद् यञ् । पञ्चजने पाताले भव इति केचित् । पतगेश्वरं सुपर्णं शोभने पर्णे पक्षौ यस्य तम् ॥ १९ ॥
लिङ्घेरी
पतगानां पक्षिणामीश्वरं गरुडम् । पतत्त्रिपक्षिपतगेति । सुपर्णः पन्नगाशन इति च ॥ १९ ॥
शेषं च मत्कलां सूक्ष्मां श्रियं देवीं मदाश्रयाम् ।
ब्रह्माणं नारदमृषिं भवं प्रह्लादमेव च ॥ २० ॥
सत्यधर्मीया
शेषं, मम कलांशो यस्यां सा तां सूक्ष्मामणीयसीं मदाश्रयामहमाश्रयो यस्याः सा तां देवीं द्योतमानां कृताभिषेकां वा ॥ २० ॥
छलारी
मम कलांऽशो यस्यां सा तां सूक्ष्मामणुपरिमाणां मदाश्रयां मद्वक्षस्थलाश्रितां लक्ष्मीं भवं रुद्रम् ॥ २० ॥
लिङ्घेरी
भवं रुद्रम् । व्योमकेशो भव इति च ॥ २० ॥
मत्स्यकूर्मवराहाद्यैरवतारैः कृतानि मे ।
कर्माण्यनन्तपुण्यानि सूर्यसोमहुताशनान् ॥ २१ ॥
सत्यधर्मीया
अनन्तपुण्यानि तदाधायकानि ॥ २१ ॥
छलारी
अनन्तपुण्यप्रदानि कर्माणि चरितानि ॥ २१ ॥
लिङ्घेरी
हुताशनोऽग्निः ॥ २१ ॥
प्रणवं सत्यमव्यक्तं गोविप्रान् धर्ममक्षयम् ।
दाक्षायणीं धर्मपत्नीं सोमकश्यपयोरपि ॥ २२ ॥
सत्यधर्मीया
प्रणवं त्रिमात्राद्यनन्तमात्रमोङ्कारम् । सत्यं ब्रह्म । यथार्थभाषिणीं देवीम् । अव्यक्तं जडप्रकृतिमक्षयं फलतः । धर्मं हरिभक्त्यात्मकम् । धर्मपत्नीं दाक्षायणीम् । ददौ स दश धर्मायेति प्रागुक्तेर्दाक्षायणीरिति वक्तव्यमिति चेन्न । नारायणप्रसवित्र्या एव ग्रहणं मुख्यत्वात् । ‘धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्याम्’ इत्यादेः । गतम् । सोमस्य दाक्षायणी रोहिण्याद्याः कश्यपस्यादित्याद्या दाक्षायणीः पत्नीः ॥ २२ ॥
छलारी
प्रणवमोङ्कारं सत्यं यथार्थभाषिणीमव्यक्तजडप्रकृतिमव्ययं धर्मं विष्णुभक्तिलक्षणं दाक्षायणीं दक्षपुत्रीं धर्मस्य यमस्य पत्नीं सोमकश्यपयोरपि दाक्षयणीं पत्नीम् ॥ २२ ॥
लिङ्घेरी
प्रणवमोङ्कारम् । सत्यमनारोपितमव्यक्तं प्रधानम् । ‘विश्वं सत्यं मघवाना’ इत्यादिश्रुतेः । दाक्षायणीं दक्षपुत्रीं सतीम् । दक्षप्रजापतिभार्यां च । धर्मस्य यमस्य पत्नीम् । सोमस्य चन्द्रस्य कश्यपस्य च पत्नीम् ॥ २२ ॥
गङ्गां सरस्वतीं नन्दां कालिन्दीं सितवारणम् ।
ध्रुवं ब्रह्मऋषीन् सप्त पुण्यश्लोकांश्च मानवान् ॥ २३ ॥
सत्यधर्मीया
नन्दां तदभिधाम् । कालिंदीं यमुनाम् । सितवारणमैरावतम् । ध्रुवं राजानं सप्त ब्रह्मर्षीन्मरीच्यादीन् । पुण्यश्लोकान् नलगयादिकान् मानवान्पुत्रान् ॥ २३ ॥
लिङ्घेरी
गङ्गां भागीरथीं, नन्दामलकनन्दां, कालिन्दीं यमुनाम् । ‘कालिन्दी सूर्यतनया यमुना’ इत्यमरः । ध्रुवं राजानम् ॥ २३ ॥
उत्थायापररात्रान्ते प्रयताः सुसमाहिताः ।
स्मरन्ति मम रूपाणि मुच्यन्ते तेंऽहसोऽखिलात् ॥ २४ ॥
पदरत्नावली
अपररात्रान्ते अरुणोदयप्रारम्भे उत्थाय त्वां मां चेत्यादिकं स्मरन्ति ते सर्वस्मादंहसो मुच्यत इत्यन्वयः ॥ २४ ॥
सत्यधर्मीया
अपररात्रान्ते । अपररात्रिरपररात्रः । अहःसर्वैकदेशेत्यच् । उषःकाले । मां च त्वां चेत्यारभ्य मानवान्तानि मम रूपाणि कानिचित्स्वरूपभूतानि कानिचिदाविष्टानि चेति । तानि ये स्मरन्ति तेऽखिलात्समस्तादंहसः पापादितरापरिहार्यत्वेन खिलभिन्नान् मुच्यन्ते
॥ २४ ॥
छलारी
य अपररात्रान्तेऽरुणोदयप्रारंभे उत्थाय प्रयता नियमवन्तः शुद्धाः सुसमाहिता एकाग्रचित्ताः सन्तो मम रूपाणि विभूतिरूपाणि ये मां चेत्यादि पूर्वोक्तानि स्मरन्ति तेऽखिला-दंहसः पापान्मुच्यन्ते ॥ २४ ॥
लिङ्घेरी
येऽधिकारिणोऽपररात्रान्ते ब्राह्मे मुहूर्ते उत्थाय प्रयताः शुचिर्भूताः सुसमाहिता अत्यन्तसमाधानवन्मनस्काश्च सन्तो मां त्वां चेत्यादिनोक्तमानवान्तान्मम रूपाणि च स्मरन्ति तेऽखिलात्समस्तादंहसः पापान्मुच्यन्ते । ‘अंहो दुरितदुष्कृतम्’ इत्यमरः ॥ २४ ॥
ये मां स्तुवन्त्यनेनाङ्ग प्रतिबुद्ध्य निशात्यये ।
तेषां प्राणात्यये चाहं ददामि विमलां मतिम्१ ॥ २५ ॥
पदरत्नावली
नन्वस्तु पापक्षयोऽस्मात् त्वद्विषयज्ञानं कस्मादित्यतस्तत्साधनमाह– ये मामिति ॥ प्राणात्यये देहोत्क्रमणे ॥ २५ ॥
सत्यधर्मीया
तृणबिन्दुं कुरुक्षेत्रमित्यारभ्य भारते गजेन्द्रमोक्षे कथिता अत्राकथिता स्मर्तव्यत्वेन ज्ञातव्याः । अङ्ग हे राजन् । विमलां मतिम् । गतिं चेति पाठे ज्ञानं मुक्तिं चेत्यर्थः ॥ २५ ॥
छलारी
फलान्तरमाह ॥ यो मामिति ॥ अनेन गजेन्द्रमोक्षणस्तोत्रेण । हे अङ्ग प्रिय । निशात्यये अरुणोदये प्राणात्यये देहात्प्राणोत्क्रमणसमये विमलां निर्दोषाम् ॥ २५ ॥
लिङ्घेरी
अङ्ग प्रिय । हे गजेन्द्र । ये निशात्यये रात्र्यवसाने ब्राह्मीमुहूर्तेऽनेन त्वत्कृत-स्तोत्रेण मां स्तुवन्ति तेषां प्राणात्यये प्राणत्यागकाले विपुलां पूर्णां स्वयोग्यां मतिं बुद्धिं मद्विषयां गतिं च ददामि । इतीदं हरिर्गजेन्द्रमाह ॥ २५ ॥
श्रीशुक उवाच–
इत्यादिश्य हृषीकेशः प्राध्माय जलजोत्तमम् ।
हर्षयन् विबुधानीकमारुरोह खगाधिपम् ॥ २६ ॥
॥ इति श्रीमद्भागवते अष्टमस्कन्धे चतुर्थोऽध्यायः ॥
पदरत्नावली
जलजोत्तमं शङ्खोत्तमम् ॥ २६ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायाम्
अष्टमस्कन्धे चतुर्थोऽध्यायः ॥
सत्यधर्मीया
स्मरणमपि मदनुग्रहेणैवेति द्योतयितुं हृषीकेश इत्याद्युक्तिः । जलजोत्तमं शङ्खशेखरम् । अन्ते शङ्खपूरणेन ‘पाञ्चजन्यनिजध्वानध्वस्तपातकसञ्चय’ इत्यादेरेतत्स्तोत्र-पारायणपाठादितः पातकपातो भविष्यतीति स्तोत्रायातयामीकरणं द्योत्यते ॥ २६ ॥
॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां चतुर्थोऽध्यायः ॥ ८-४ ॥
छलारी
आदिश्योपविश्य जलजोत्तमं शङ्खोत्तमं प्राध्माय वादयित्वा विबुधानीकं देववृन्दम् ॥ २६ ॥
॥ इति श्रीछलारी शेषाचार्यकृतायां श्रीभागवतटिप्पण्यां चतुर्थोऽध्यायः ॥ ८-४ ॥
लिङ्घेरी
हृषीकेशो नियामकतया सर्वेन्द्रियस्वामी हरिर्गजेन्द्रमित्यादिश्य जलजोत्तमं शङ्खश्रेष्ठं पांचजन्यं प्राध्माय ध्वनयित्वा विबुधानां देवानामनीकं समूहं हर्षयन्सन्तोषयन् खगाधिपं पक्ष्युत्तमं गरुडमारुरोह ॥ २६ ॥
॥ इति श्रीलिङ्घेरी श्रीनिवासाचार्यकृतायां श्रीभागवतटिप्पण्यां चतुर्थोऽध्यायः ॥ ८-४ ॥