एवंव्यवसितो बुद्ध्या समाधाय मनो हृदि
॥ अथ तृतीयोऽध्यायः ॥
श्रीशुक उवाच–
एवंव्यवसितो बुद्ध्या समाधाय मनो हृदि ।
जजाप परमं जाप्यं प्राग्जन्मन्यनुशिक्षितम् ॥ १ ॥
पदरत्नावली
ध्यानपूर्वकस्तुत्या प्रसन्नाद्धरेर्गजेन्द्रस्य ग्रहापदो मोक्षो यथाऽभूत् तथा संसारग्रहादपि मोक्षे भगवत्प्रसादेन स्यादिति प्रदर्शनाय तन्मोक्षप्रकारो निरूप्यतेऽस्मिन्नध्याये । किंप्रकारो गजेन्द्रः शरणमयासीदिति तं प्रकारं दर्शयितुमाह– एवमिति ॥ जाप्यं मन्त्रं तिर्यग्योनेरनधिकारिण एतदसंभावितमिति तत्राह– प्रागिति ॥ १ ॥
सत्यधर्मीया
जगदीशभजका नावसीदन्तीत्यत्र दन्तीन्द्रापत्प्रच्युतिनिदर्शनेन दर्शयितुमयमध्यायः । तत्रादौ हीनयोनिजस्य कथमित्थं मतिरुदभूदित्यतः प्राचीनाचीर्णसत्कर्म-संस्कारपाटवादित्याह ॥ एवंव्यवसित इति ॥ एवं व्यवसितो निश्चयो यस्य स तथा बुद्ध्या मनो हृदि समाधाय । वृत्तिभेदादियमुक्तिः । अबुद्ध्या बुद्धिहीनया हस्तिजात्याऽप्येवं व्यवसितो मनो हृदि । हृदयमारुणय इति ुत्याद्युक्तेः । ब्रह्मणि समाधाय । परमं जाप्यम् । जप्यमिति क्वाचित्कः पाठः सुसरलः । ऋहलोर्ण्यतो बाधनेन पोरदुपधादिधिति यतो विधानात् । यदि मूलकोशेषु बहुषु जाप्यमिति वर्तेत तर्हि जप्तुं योग्यं जप्यं तदेव जाप्यमिति स्वार्थिकेऽणि रूपमिति तत्सम्भवो विभावनीयः । मन्त्रं जजाप । प्राग्जन्मन्यनु-शिक्षितमभ्यस्तम् । इन्द्रद्युम्न-जन्मनि अनुशिक्षितम् अभ्यस्तम् । तत्रापि नानुपदेशेन स्वमनीषयेत्यप्याह ॥ प्राग्जन्मनीति ॥ प्रथमजविप्रगुरौ । तन्निकट इति यावत् ॥ १ ॥
छलारी
शरणागतिप्रकारमेवाह ॥ एवमिति ॥ व्यवसितो निश्चयवान् गजेन्द्रो मनोऽन्तःकरणं हृदि । अन्तरे । बहिरिन्द्रियसंयोगं विहायेत्यर्थः । समाधाय विधाय । जाप्यं मन्त्रं जाप्यस्तोत्ररूपमन्त्रम् । तिर्यग्योनेरेतदसंभावितमिति तत्राह ॥ प्रागिति ॥ प्राग्जन्मनीन्द्रद्युम्न जन्मन्यनुशिक्षितं स्वेनाभ्यस्तम् ॥ १ ॥
लिङ्घेरी
अत्रापि गजेन्द्रस्तोत्रादिना प्रसन्नाद्धरेर् यथा गजेन्द्रस्य ग्राहान्मोक्षोऽभूत्तथा संसाराख्यग्राहग्रस्तस्यापि भगवत्स्तोत्रादिना तत्प्रसादात्तस्मादपि मुक्तिर्भविष्यतीति ज्ञापनाय गजेन्द्रकृत्यमाह ॥ एवमित्यादिना ॥ स गजेन्द्र एवमुक्तप्रकारेण बुद्ध्या व्यवसितो निश्चय-वान्सन् । हृद्ययनादवस्थिते हृच्छब्दवाच्ये हरौ मनोऽन्तःकरणं समाधाय संस्थाप्य यत्स्व-गुर्वादिभिः प्राग्जन्मनि पूर्वजन्मन्यनुशिक्षितमुपदिष्टं परममुत्तमं जाप्यं मन्त्रावृत्त्या तोषणीयं तं नारायणाख्यं परं ब्रह्म जजाप तन्मन्त्रावृत्त्या सिषेवे ॥ १ ॥
गजेन्द्र उवाच–
ओं नमो भगवते तस्मै यत एतच्चिदात्मकम् ।
पुरुषायाऽऽदिबीजाय परेशायाभि(हि)धीमहि ॥ २ ॥
पदरत्नावली
एतच्चिदानन्दात्मकं चेतनजातं यतो यस्मादेवाप्ताभीष्टं तस्मा इति । हिशब्देन पुरुषादिविशेषणानां ‘परात्परं पुरिशयं पुरषमीक्षते’ इति श्रुतिसिद्धिं दर्शयति ॥ २ ॥
सत्यधर्मीया
महामन्त्रत्वात् स्रवत्यनोङ्कृतं ब्रह्मेत्युक्तेरोमित्युक्तिः । प्राग्जन्मन्यनु-शिक्षितमिति सम्भवतीति तस्मा इत्युक्तिः । यत एतच्चिदात्मकं चेतनजातं चिदात्मा देहस्त-त्सहितं कं सुखं च यस्य तच्चिदात्मकम् । चिदात्मनां कं यत इति वा । स क्व वर्तत इत्यत आह ॥ पुरुषायेति ॥ पूर्षु शेत इति स तथा । ‘पूर्षु शेते पुरिशय’ इत्यादेः । आदिबीजाय आदित्वेन सम्प्रतिपन्नानामपि व्यञ्जकत्वाद्बीजम् । तस्मै । उपादानताऽनुपादानाय परेशाये-त्युक्तिः । एतद् एतत्सन्निहितत्वादित्यादेः । ब्रह्माभिधीमह्यन्तर्ध्यायाम च । तदपि भययुतं चेत्तव स्तवनेन तस्य किमित्यत आह ॥ अभीति ॥ धीमहि । न विद्यते भीर्यस्य तत् । भवतु स्वयमभि न भयं तस्मादन्यस्य चेन्न नक्रवक्त्रतोऽतिक्रम इत्यतोऽप्याह ॥ एतज्जगद्यतोऽभीति सम्यग्भययुतमिति । एतच्चिद् एतदपि ब्रह्मादिकमपि आत्मकं स्वरूपं सुखम् । तदाविर्भाव इति यावत् । यस्य तत् । किञ्च धीमहि धिया सहिता मही आश्रयो यस्य तत् । महीति भाव-प्रधानम् । महित्वं यस्येति वा । महित्वमस्त्वित्यादेः । धीश्च मह उत्सवश्च तौ अस्य स्त इति वा । तत्सहितश्चासौ महश्च सोऽस्यातीति । एकदेशिनेत्यादिवत्समाधिरवधेयः । हि धीमहीति पठित्वा पुरुषमीक्षत इति श्रुतिप्रसिद्धिं दर्शयतीति व्याचिख्युः । तस्मै नमः । अस्तु धीमहीति वेदवागनुकृतिः ॥ २ ॥
छलारी
तस्मै नमोऽस्तु । तमभिधीमहि ध्यायेम च । अथवा । तस्मै नमो नमो ऽभिधीमहीत्यन्वयः । केवलं ग्राहगृहीतत्वेन कायप्रणामस्याशक्यत्वात् । तस्मै च नमनहेतु-माह ॥ यत इति ॥ यस्माद्धरेरेतच्चेतनावृतं चिदात्मकं चिदात्मवच्चेतनस्वरूपभूतं कं सुखं यस्य तद्भवति । तत्प्रसादाच्चेतनजातस्य मुक्तिसुखमाविर्भवति । तस्मा इत्यर्थः । स च कुत्रास्त इत्यत आह ॥ पुरुषायेति ॥ पुरि देहे शेते इति । षष्ठीतत्पुरुषः । तस्मै ‘परात्परं पुरिशयं पुरीषमीक्षत’ इति श्रुतेः । जीवस्यापि देहस्थत्वात्तद्य्वावृत्त्यर्थमाह ॥ आदिबीजायेति ॥ आदिकरणायेति । उपादानकारणं जडप्रकृतिं व्यावर्तयति ॥ परेशायेति ॥ परेषां रमादीनां नियामकायेत्यर्थः ॥ २ ॥
लिङ्घेरी
तं प्रकारमेव दर्शयति ॥ ॐ नमो भगवत इत्यादिना । ॐ देशकालगुणैः पूर्णाय । तस्मै भगवते वासुदेवाय नमोऽस्तु । वयमादिबीजाय मूलकारणाय परेशाय ब्रह्माद्युत्तम-स्वामिने पुरुषाय पूर्णषड्गुणाय नारायणाय । तत्प्रीतय इति यावत् । अभिधीमहि स्तुमः । आदिबीजत्वादिगुणविशिष्टं पुरुषं नारायणमिति विभक्तिविपरिणामेन धीमहि ध्यायेमेति च । तं भगवन्तं स्तौति । यतो वासुदेवादेतत्प्रमाणप्रमितं चिदात्मकं चेतनसमुदायो मोक्षमुखसर्व-पुरुषार्थान् लभत इति । ‘मुक्तिप्रदो वासुदेवोऽखिलस्य’ इत्यादेः । अत्र ओं नमो भगवत इत्यनेन वासुदेवद्वादशाक्षरजपः सूचितः । धीमहीत्यनेन तत्सवितुरित्यादिगायत्रीजपः ॥ २ ॥
यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् ।
योऽस्मात् परस्माच्च परस्तं प्रपद्ये स्वयम्भुवम् ॥ ३ ॥
तात्पर्यम्
यत इति स्रष्टृत्वम् । येनेति प्रवर्तकत्वम् । य इति सत्ताप्रदत्वम् । न सन्ति यदुपेक्षयेत्युक्तत्वात् । ‘उत्पन्नस्यापि यत्सत्ता हरेस्तत्स इतीर्यते । हरेर्विश्वं भिन्नमपि परमोऽसौ यतो विभुः’ इति ब्रह्मतर्के ॥ ३ ॥
पदरत्नावली
मन्त्रोक्तविशेषणविवरणपूर्वकं ध्यानमाह– यस्मिन्निति ॥ इदं जगद् यस्मिन् हरौ प्रलीयते, ‘यत् प्रयन्ति’ इति श्रुतेः । इदं यतो यस्माच्चैव जायते, ‘यतो वा इमानि भूतानि जायन्ते’ इति श्रुतेः । चशब्देनान्यस्मादुत्पादं निवारयति । इदं येन ब्रह्मणा प्रवर्तते ‘येन जातानि जीवन्ति’ इति श्रुतेः । इदं विश्वं यः स्वयं प्राप्तसत्तादिकः ‘सर्वं खल्विदं ब्रह्म’ इति श्रुतेः । ननु यः स्वयमित्यनेन तादात्म्यं किं न स्यादिति तत्राह– अस्मादिति ॥ अस्मात् प्रत्यक्षप्रपञ्चात् परस्मात् परोक्षान्मुक्तप्रपञ्चाच्च पर उत्तमो यस्तं स्वयम्भुवं स्वत एव प्राप्तसत्ताकं शरण्यं प्रपद्य इत्यन्वयः । ‘उत्पन्नस्यापि यत् सत्ता हरेस्तत् सद् इतीर्यते । हरेर्विश्वं भिन्नमपि परमोऽसौ यतो विभुः ॥’ इति वचनान्न तादात्म्यमत्रोच्यते । किन्तु ततः प्राप्तसत्ताकं जगदिति
॥ ३ ॥
सत्यधर्मीया
यस्मिन्निदमित्यादि श्लोके यत इति पञ्चम्युपादाने ततश्च विकारिता । सा च निर्विकार इत्यादिमानबाधितेत्यतो विवक्षितं पञ्चम्यर्थमाह ॥ यत इति ॥ स्रष्टृत्वमिति ॥ ततश्च हेतौ पञ्चमी । ज्ञानादिमत्कर्ता तदर्थ इत्युक्तं भवति । कर्तृताया यत इत्यनेन बोधनात्करणत्वं तु न प्रधानस्य ब्रह्मणः सम्भवतीति येनेति निरर्थकमित्यतः कुरुपाण्डवन्यायेन समाधत्ते ॥ येनेति ॥ प्रवर्तकत्वमिति ॥ स्रष्टृत्वं बहिष्ठस्य कुलालादेरिव न भगवतः किन्तु प्रकृष्टो वर्तकः । प्रकृष्टता चान्तर्निष्ठतादिरूपिणीति । तद्वांश्चासौ वर्तकश्चेति स तथा तस्य भावस्तत्त्वम् । तृतीयार्थ इत्यर्थः । य इदं स्वयमिति जगत्तादात्म्यमुच्यत इति मतिं च्यावय-न्व्याकरोति ॥ य इति ॥ सत्ताप्रवर्तकत्वं कुतः सत्ता न तदायत्तेत्यतस्तत्र मानमाह ॥ ‘न सन्ति यदुपेक्षया’ इत्युक्तत्वादिति । द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । ‘यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया’ इति मानात्तत्सत्ता तदायत्तेति ज्ञायत इत्यर्थः । प्रस्तुतानुरोधेन द्रव्यं कर्म चेत्यादिकमादावुदाहार्यं कण्ठतस्तत्कुतो न सन्ति यदुपेक्षयेत्यंशोदाहरणमिति चेत् । सत्यम् । व्यतिरेककथनेन तत्स्थैर्यं भवतीति तत्स्थेम्न एवमाम्नानमित्यवेहि । भवतु भगवा-न्प्रवर्तको य इदमिति तादात्म्योक्तेः का गतिरित्यत इयमिति मानेनाह ॥ उत्पन्नस्येति ॥ उत्पन्नस्य विश्वस्य यत यद्यतः सत्ता हरेः सकाशात्तद्विश्वं तत्तस्मात्स हरिरितीर्यते कथ्यते । साक्षादभेदः कुतो नार्थत इत्यतस्तत्र युक्तिमभिदधत्तमंशमुदाहरति ॥ हरेर्विश्वं भिन्नमपीति । यतोऽसौ परमो विभुश्चेति ततः सत्तायास्तदधीनत्वादेव तत्त्वेनोक्तिस्तथाऽन्यत्रापि । ‘यदधीना यस्य सत्ता तत्तदित्येव भण्यत’ इत्यादेर्जगत्सत्तादि तदायत्तमिति । य इदं स्वयमित्युक्तिर्ममात्मा भद्रसेन इत्यादिवदिति ज्ञेयम् ॥ ततश्चायं मूलार्थः ॥ इदं जगद् यस्मिन्यदधिष्ठानकम् । यस्मिन्निदं खं चेत्यादेः । यस्मिंल्लये मुक्तौ चेदं वर्तत इति वा । यत्प्रयन्त्यभिसंविशन्तीत्यादेः । यत्प्रति प्रलये यदभि स्वेच्छया विशन्ति मुक्ताविति तत्त्वप्रकाशिकोक्तेः । इदं जगन्नित्यमनित्यं यथायोग्यं जायते । यतो वा इमानि भूतानि जायन्ते । येन भगवतेदं प्रवर्तते । येन जातानि जीवन्तीति श्रुतेः । एकेनेदंशब्देनात्यापेक्षितसर्वस्यान्वयसम्भवे बहुवारमुक्तिः श्रुतिगतानीमानीति बहुवचनविवक्षया वा इदंशब्दघटित ‘सर्वं खल्विदं’ ‘इदमग्रे’ ‘यस्मिन्नित्यादि’ वाक्यसङ्ग्रहाय वा । यतश्चेदमित्यत्र इदं सम्पत्प्रदम् इदं कामितदातारम् । इष्टदानात्तथेंदव इत्यृग्भाष्यटीकायाम् । ‘इः कामः समुदाहृत’ इत्युदाहृत्य इं कामं ददन्तींदव इति विवृतत्वात् । इं तमेव द्यति कदाचिद्विरक्तिविवक्षयेतीदस्तम् । य इत् । य एव इदमित्येकमेवेदं पदम् । सर्वान्वयि । अतं प्रपद्य इत्यन्वयः । इत्यर्थविवक्षया वेति ज्ञेयम् । य इदम् । यदधीनसत्तां यः स्वयं स्वसामर्थ्ये-नैव । अस्मादमुक्तवर्गात्परस्मान्मुक्तवर्गाच्च परो विलक्षणः । स्वयम्भूस्तु स्वस्मादेव भवस्तं प्रपद्ये । शरणमिति शेषः । स्वयमनन्याधीनतया शुभावहस्य दैवस्यायशब्दवाच्यस्य सुना शोभनता ज्ञेया । महादैवं वा । स्वयंभुवं स्वाश्रयं वा । ननु नावतार्यमाचार्यैस्तात्पर्यमेतत् श्लोके । य इदमित्यनेन प्रतीताभेदं बादरायण एव यो यस्मात्परस्माच्च पर इत्यनेनापववादेति चेत् । सत्यम् । य इदमिति तदपवादकं वेदं तदपवादकं वा य इदम् इति तादात्म्यं योऽस्मादित्यादिना भेदं चशब्देन समुच्चितवानिति भेदाभेदमिति वा कश्चिदविपश्चिच्छङ्केतेति ब्रह्मतर्कानुरोधेन पराक्रान्तवन्त इति नाचातुरीबोधिकत्वप्रयुक्तेति युक्तमुक्तम् ॥ ३ ॥
छलारी
पूर्वं मुक्तिप्रदत्वमुक्तमिदानीं सृष्ट्यादिहेतुत्वमाह ॥ यस्मिन्निति ॥ इदं जगद्यस्मिन्हरौ तिष्ठति । विष्ण्वधीनमित्यर्थः । इदं यतः । ‘यतो वा इमानि भूतानि जायन्त’ इति श्रुतेः । ‘इदं येन प्रवर्तते’ । ‘येन जातानि जीवन्ति’ इति श्रुतेः । इदं विश्वं यः स्वयं स्वाधीनसत्ताकम् । सर्वं खल्विदमिति श्रुतेः । य इदं स्वयमित्यनेन तादात्म्यं किं न स्यादित्यत आह ॥ योऽस्मादिति ॥ योऽस्मात्प्रत्यक्षसिद्धप्रपञ्चात्परस्मात्परोक्षान्मुक्तप्रपञ्चाच्च पर उत्तमस्तं स्वयंभुवं स्वत एव प्राप्तसत्ताकं हरिं शरणं प्रपद्ये ॥ ३ ॥
लिङ्घेरी
अभिधीमहीत्युक्तं स्तोत्रं व्यनक्ति ॥ यस्मिन्निति ॥ यस्मिन्नारायणे इदं चेतनरूपं जगत्प्रलये आसीत् । इदं यतश्च यस्मादेव नारायणाज्जातम् । येनैवेदं जीवति चेतनजातमचेतनं चावतिष्ठते । यो नारायणः स्वयमेव जगतः सृष्ट्यादिकर्तृतयोपजीव्यत्वेनास्मिन् जगति व्याप्ततया च पुरुष एवेदं तद्विश्वमुपजीवति । सर्वं समाप्नोषि ततोऽसि सर्व इति प्रत्यक्षैतरेयभगवद्गीतोक्तप्रकारेण ब्रह्मैवेदं सर्वमित्यादावुच्यते । नारायणाभिधं ब्रह्मणो जगदैक्यं किं न स्यादित्याशङ्क्य परिहरति । यो नारायणोऽस्मात्प्रत्यक्षप्रतीताज्जगतः परस्माच्चैतद्भिन्नादन-परोक्षादपि परोऽन्य इति । तम् । नारायणस्याप्यन्याधीनस्थित्यादिमत्त्वे तत्स्तुतिराविद्यैव किं न क्रियत इत्यतः स नास्तीति दर्शयति । स्वयंभुवमिति स्वयमेव भवत्यवतिष्ठत इति स्वयंभूस्तमहं प्रपद्य इति । परेऽव्यये सर्व एकीभवन्ति । यतो वा इमानि भूतानि जायन्त इत्यादिप्रमाणं यस्मिन्नित्यादिना सूचितमिति ज्ञातव्यम् । उक्तं चैवं प्रमाणेनानन्दतीर्थभगवत्पादैः । ‘उत्पन्न-स्यापि यत्सत्ता हरेस्तत्स इतीर्यते । हरेर्विश्वं भिन्नमपि परमोऽसौ यतो विभुः’॥ इति च ॥३॥
यः स्वात्मनीदं निजमाययाऽर्पितं क्वचिद् विभातं क्व च तत्तिरोहितम् ।
अविद्धदृक् साक्ष्युभयं तदीक्षते स आत्ममूलोऽवतु मां परात्परः ॥ ४ ॥
पदरत्नावली
पूर्वोक्तार्थं भेदं स्पष्टीकरणाय विवृणोति यः स्वात्मनीति ॥ यो भवान् क्वचिज् जाग्रति विभातं क्वच सुषुप्तौ तिरोहितम् अप्रकाशितं तदुभयं तदिदं जगन् निजमायया स्वेच्छया स्वात्मनि स्वोदरे अर्पितमीक्षत इत्यन्वयः । ननु शरीरे स्थित्वा ईक्षते चेज्जीववल्लुप्त-ज्ञानत्वेनेक्षणायोगः स्यादिति तत्राह– अविद्धदृगिति ॥ तर्हि कथमीक्षत इति तत्राह– साक्षीति ॥ स मामवतु इत्यन्वयः । आत्मा स्वयमेव मूलं कारणं प्रतिष्ठा च सत्तावांस्तथा । अनेन स्वयम्भूशब्दो विवृतः । ‘स्वे महिमि्न’ इति श्रुतेः ‘अक्षरात् परतः परः’ इति च । क्वचिच् चतुर्मुखादौ विभातं क्वचिदस्मदादौ तिरोहितमिति वा ॥ ४ ॥
सत्यधर्मीया
सङ्कुच्योक्तं विविच्याह ॥ य इति ॥ यः स्वात्मनि । स्वदेहे । उदर इति यावत् । निजमायया स्वशक्त्याऽर्पितम् । जगत्क्वचित्सृष्टिकाले विभातम् । क्वचिल्लयकाले तिरोहितम् । कार्योन्मुखानुन्मुखताभ्यां विभाततिरोहितत्वे ज्ञेये । तदुभयम् इति स्वयमीक्षते । सेक्षाऽव्यभिचारिणी इति ईरयत्यविद्धदृगिति । अविद्धाऽप्रतिहता दृग्ज्ञानं यस्य स तथा । अविलुप्तावबोधात्मेत्यादेः । न परतः परस्येक्षणं परवदित्याह ॥ साक्षीति ॥ ननु विरिञ्चो जगदादिरिति श्रूयतेऽतः कथं कथय हरिरादिबीजमित्यत आह ॥ आत्ममूल इति ॥ आत्मा विरिञ्चः सुमना इत्यादेर् आत्मनो विधातुर्मूलः प्रतिष्ठापकः कारणं च । तस्याप्येको मूलोऽस्ति चेत्स उपास्तियोग्यः स्यादित्यतो नेत्याह ॥ आत्ममूल इति ॥ आत्मैव मूलं यस्य सः । तव कोऽनुबन्धोऽन्येषामयं मूलश्चेदुपास्तावित्यतोऽस्ति ममाप्युक्तोऽनुबन्ध इति वक्ति ॥ आत्मनो ममापि मूलः कारणमिति । शीलमूलमङ्गलतालेति लिङ्गानुशासने पुंसि चेत्युक्तेर्मूलशब्दः पुल्लिङ्गः । विभातम् । जाग्रतिकाले । तिरोहितं सुषुप्त्यादौ । विभातं ब्रह्मादौ तिरोहितमस्मदादौ । स्वात्मनि मूलरूपेऽर्पितं स्वाभाविकं रूपं तदेव । निजमायया विभातं रामकृष्णादि । तिरोहितं तद्वद्विद्यमानं मत्स्यादिकम् । अत एव ‘नमः शान्ताय घोराय मूढाय’ इति पठित्वा मूढो मत्स्यादिरिति व्याख्यातम् । एते च परस्परसहकारिण इति ज्ञेयम् । तत्तिरोहितं विभातमित्युभयमपि । तत् ततत्वात् । तत्सर्वमीक्षतेऽविद्धदृक् च स यः स्वात्मा आत्ममूल इत्यपि योजयन्ति । पूर्णमदः पूर्णमिदमित्यादेः । स परात्परोऽत्युत्तमो मामवतु । इदं जगन्निजमायया न जायत इति निजा । सा च सा माया चेति तत् प्रकृत्याऽर्पितं सम्पृक्तं यत्तत्तस्माद् अविद्धदृक् । क्व । न क्वापि । तर्हि तज्ज्ञानं किमाकारमित्यत आह ॥ क्वचिद्विभातमिति ॥ भावे क्तः । प्रमेति यावत् । तिरोहितम् । भ्रम इति । ब्रह्मणोऽपि मध्यान्हार्कक्षोभवत् क्षोभ एव तिरोधानमिति ज्ञेयम् । तर्हि क्व तादृगित्यत आह ॥ य इति ॥ यः साक्षी सन्नीक्षते तस्यैव चित् । दृग्ज्ञानम् । यश्च परात्परः । तदसम्भावनोच्छ्रित्या इदं विशेषणम् । स मामवत्वित्यपि योजयन्ति । यत इदमवित् तत्ततो दृक् क्व । ह खेदे । यया निजमायया स्वपत्न््नया । उभयम् । ओ रुद्रस्य भयम् । ‘उः शम्भुः समुदाहृत’ इत्यादेः । ‘अहं रुद्राय धनुरातनोमि’ इत्यादेः । तां मां स्वात्मनि देहे । उरसीति यावत् । ईक्षते पश्यति स मामवतु । अनेन नारायणासाधारणलक्षणं कथितं भवतीत्यपि भावं विभावयन्ति । क्वचिद्विभातं क्व चक्षते यत्कर्तृके जाते सति छेदेन तिरोहितम् । ‘ब्रह्मचर्म-शिरःपट्टी दिक्पालोर्ध्वाङ्गभूषण’ इत्यादेः । यया । स्वात्मनि विभातं सा । ई । येन निजमा स्वरूपभूतसम्पत्काऽपि । मां पुनरीक्षते पश्यति । नवनवसुविशेषोपलम्भा । श्रियोऽपि च ज्ञानस्फूर्तिरित्यादेः । स्वात्मनि तम् । भावप्रधानोऽयम् । ‘तकारः कीर्तितश्चोर’ इति विश्वात्तत्त्वं चोरत्वम् । नान्यकृतं तदित्याह ॥ निजमायया । स्वेच्छयैव क्वचिद्विभातं प्रकाशितम् । क्वचित्तिरोहितं निलीनतां यातम् । आर्पि । ऋ गतावित्यस्माण्णिचि अर्तिर्ह्रीति पुकि तदन्ता-त्कर्मणि लुङि चिणन्तमेतत् । तर्हीदमैन्द्रजालिकं बालकृष्णकर्मेत्यतो नेत्याह ॥ अविद्ध-दृगिति ॥ अविद्धाऽप्रतिबद्धा जनानां दृग्येन तत् । चोरवदाचरेत्स्वसखिजातम् । उभयम् । उ कुत्सा । तत्सहितं भयमस्मिन्कर्मणि तद्यथा भवति तथेक्षते । यः स आत्ममूल आत्मात्मीयं मूलं दरी निकुञ्जो वासाय यस्य सः । ‘उर्वाच्ये चापि कुत्सायाम् । मूलमाद्ये शिफायां स्याद्दरीकुञ्जेति केऽपि च’ इति विश्वः । परात्परः कृष्णो मामवत्विति वेति दिक् ॥ ४ ॥
छलारी
ननु जगतो मिथ्यात्वाद्भगवतो जगत्सृष्ट्यादिकं कथमिति तत्राह ॥ य इति ॥ यः प्रलयकाले स्वात्मनि स्वोदरे निजमायया स्वेच्छयाऽर्पितं प्रकाशितमिदं जगदीक्षते पश्यति । तथा सृष्टिकालेऽपि जीवानां तज्जगत्क्वचिज्जाग्रदादौ विभातं प्रकाशितं क्वचित्सुप्त्यादौ तिरोहित-मप्रकाशितम् । एवमुभयं तज्जगदीक्षते पश्यति । तदीक्षणं स्वातन्त्र्येणेत्याशयेनाह ॥ साक्षीति ॥ साक्षाद्द्रष्टा स्वातन्त्र्येण द्रष्टेत्यर्थः । नेदमीक्षणमयथार्थमित्याह ॥ अविद्धेति ॥ अबाधितज्ञानमित्यर्थः । कुत इत्यत आह । अविद्धेति ॥ अविलुप्तज्ञानमित्यर्थः । तथा च जगतः सर्वदेश्वरेण दृश्यमानत्वान्न मिथ्यात्वमिति भावः । स मामवत्वित्यन्वयः । कथम्भूतः । आत्मा स्वयमेव मूलमाश्रयो यस्य स तथा । स्वे महिम्नीति श्रुतेः । पराच्छ्रीतत्वात्पर उत्तमः । ‘अक्षरात्परतः पर’ इति श्रुतेः ॥ ४ ॥
लिङ्घेरी
उक्तमेव भगवतो जगदाश्रयत्वादि विवृणोति ॥ यः स्वात्मनीत्यादिना ॥ यो हरिः स्वात्मनि स्वस्मिन्निजमायया स्वकीयेच्छयाऽर्पितं समर्पितम् । क्वचिदालोचनदशायां ब्रह्मा-दीनां विभातं ज्ञातं क्वचिदनालोचनदशायां तिरोहितमज्ञातं क्वचिज्जागरावस्थायां विभातम् । स्वस्वयोग्यज्ञानवत् क्व च सुप्त्याद्यवस्थायां तिरोहितं जागरवत्स्पष्टज्ञानशून्यम् । इदमुक्तं चेतनजातम् । स्वयमविद्धाऽप्रतिहता दृग्दृष्टिर् यस्य स सन् तदुभयमुभयविधं जीवजातं साक्षी सन्नीक्षते साक्षादीक्षते । आत्मनां ब्रह्मादिजीवानां मूल उत्पत्त्यादिकारणः । परब्रह्मादेरपि पर उत्तमः स नारायणो मामवतु रक्षतु । आत्ममूलः स्वाश्रयो मामवत्विति । तुरीयं तत्सवर्दृक् सदा । पतिं विश्वस्यात्मेश्वरं, स्वे महीम्नीत्यादिश्रुतेः । आत्मेश्वर उपद्रष्टा स्वयं दृगविशेषण इत्यादिस्मृतेः । यः स्वात्मनीत्यादिना ईक्षत इत्यन्तेन यस्मिन्निदमिति भागो विवृतः । आत्ममूलः परात्पर इत्यनेन स्वयंभुवमिति भागः ॥ ४ ॥
कालेन पञ्चत्वमितेषु कृत्स्नशो लोकेषु लीनेषु च सर्वहेतुषु ।
तमस्तदासीद् गहनं गभीरं यस्तस्य पारेऽभिविराजते विभुः ॥ ५ ॥
न यस्य देवा ऋषयः पदं विदुर्जन्तुः पुनः कोऽर्हति गन्तुमीरितम् ।
यथा नटस्याकृतिभिर्विचेष्टतो दुरन्वयानुक्रमणः स माऽवतु ॥ ६ ॥
पदरत्नावली
परात्परत्वं स्पष्टयन् दुर्ज्ञेयत्वमाह– कालेनेत्यादि श्लोकद्वयेन ॥ लोकेषु पृथिव्यादिभूतकार्येषु साकल्येन पञ्चत्वं पृथिव्यादिपञ्चभूतात्मतामितेषु, सर्वहेतुषु पृथिव्यादि-सर्वकारणेषु लीनेषु स्वस्वकारणतामाप्तेषु सत्सु यत् तद् गहनं दुर्ज्ञेयं गम्भीरम् अत एवागाधं तम आसीत् । यो विभुस् तस्य तमसः पारे तमःसम्पर्करहिते देशेऽभिविराजते । स्वतो नेत्याह– कालेनेति ॥ कालनाम्ना हरिणा ॥
देवादयो यस्य पदं न विदुरिति यदतः पुनः को जन्तुस् तत्पदं गन्तुम् ईरितुं वक्तुमर्हतीत्यन्वयः । हनुमदाद्याकृतिभिस् तत्तदाकारानुसारेण विचेष्टमानस्य नटस्य स्वरूपं यथा न ज्ञायते तथेति । सुदुरत्ययानुक्रमणो दुर्ज्ञेयपरिक्रमणो हरिर्मामवत्वित्यन्वयः ॥ ५,६ ॥
सत्यधर्मीया
परात्परत्वस्वरूपासिद्धिं परिहर्तुं साकल्येन सकलाज्ञेयत्वं श्लोकद्विकेनाह ॥ कालेनेति ॥ कालेन । लयरूपेण । कृत्स्नशः सामस्त्येन । लोकेषु पृथिव्यादिषु । पञ्चत्वं पञ्चभूतभूततामितेषु प्राप्तेषु सर्वहेतुषु । एतत्पृथिव्यादिकारणेषु महदादिषु च लीनेषु । स्वस्वकारणप्रवेशेनादर्शनं यातेषु । तदा तमो गहनं ज्ञातुमशक्यम् । इतरानुत्तार्यतयाऽगाधम् । गभीरम् । गाङ् गतौ । गभीरादयश्चेति गभीरगम्भीराविति वा निपातितो गभीरशब्दः । ‘निम्नं गभीरं गम्भीरम्’ इत्यमरः । दुर्गात्मकम् । तमो हि दुर्गेत्यादेः । तस्य तमसः पारेऽतत्सम्पर्कः सन् विभुर्विराजते । तदस्पृष्टदेशे । तत्र तमोगमने हेतुमाह ॥ कालेनेति ॥ तन्नाम्ना स्वेनैवेति । यस्य देवा ऋषयश्चेति प्रतिपत्तृत्वेन सम्प्रतिपन्ना अपि पदं स्वरूपं न विदुर्यद् अतः पुनर्जन्तुर्मादृशहीनयोनिः । को गन्तुमवगन्तुम् ईरितुं साकल्येन वक्तुम् अर्हति शक्तो भवति । निदर्शनं तत्राह ॥ यथेति ॥ आकृतिभिस्तत्तदाकारैर्विचेष्टितो विचेष्टमानवेषधारिणः पदम् अयमेतादृश इति अतत्कौशल्येन जना न जानते तथेति । दुरन्वयानुक्रमणो दुरन्वयं ज्ञानिभि-र्दुज्ञेयमनुक्रमणं चरितं यस्य स तथा । हरिर्मामवतु । येन कृष्णेन । काला कालो हि नीलि-माऽस्यास्तीति कालातो न ङीबिति तु न । एवं च गुणिवाचककालब्दादर्श आद्यचि गवादिपरत्वे कालीति सिद्ध्यतीति शब्देन्दुशेखरोक्तेष् टाबार्षः । ‘कालः श्यामलमेचका’ इत्यमरः । काला-न्येत्युक्ते रूढ्यान्यवाचकोऽपि कालशब्दः कालिमवदुपस्थापकोऽपि सन्नकुबेरपुरीविलोकनं ह्यधरा-सूनुकरमित्यादौ यथा ग्रहवाचिनो मङ्गलशब्दस्य पुल्लिङ्गत्वेऽपि श्रेयोवाचिनपुंसकलिङ्गकमङ्गल-पदोपस्थापतैवं कृष्णोपस्थापको भवतीति न ङीबन्तताभावदोष इति केचित् । काला कृष्णा द्रौपदी । इनपञ्चत्वम् इनानां पतीनां पञ्चत्वं पञ्चकम् । इता । उतामृतत्वस्येतिवद् वर्गार्थे त्व-प्रत्ययः । इनाः पञ्च यस्याः सा तस्या भावस्तत्त्वमिति वा । प्रियपञ्चा द्रौपदी यथा । उलोकेषु कुत्सितजनेषु । तमो दुःखमासीत् । ‘तमः शोके गुणान्तर’ इति विश्वः । तेन च सर्वहेतुषु । अर्व षर्व हिंसायाम् । हिंसाकारणेष्वपि लीनेषु पलायितेषु च । इषुकृत्स्नशा । इषुणा बाणेन तद्वारा कृत्स्नं शं सुखं यस्याः साऽऽसीत् । यद्गभीरमितरापरिहार्यं गहनं वनं चासीत् । तस्य पञ्चकस्य पारे पारणे आसीत् । विभुः समर्थः । नयस्य यन्नीतेर्देवा ऋषयश्च पदमियत्तां मा विदुर्मायं न विदुः । लीलाकाले नटस्याकृतिभिर्विचेष्टतः कृष्णस्य । नटौ रङ्गगतावित्यादेः । यश्च दुरन्वयानुक्रमणः । यस्मिन्विरुद्धगतयोऽप्यनिशं पतन्तीत्यादेर् अणुत्वमहत्त्वयौगपद्यप्रदर्शनरूप-लोकविरुद्धचर्यश्चौर्यादिचर्यावान्वा । अभिवि गरुडे । विभक्त्यर्थेऽव्ययीभावः । यश्च राजते स मामवत्विति वा । दुरत्ययानुक्रमण इति पाठ इतरानतिक्रमणीयानुक्रमण इत्यर्थः । गहनं गभीरं तमोऽन्धकारश्च तस्य पञ्चकमध्यस्थस्यार्जुनस्य । पारे सति सवितरि सैन्धववधसन्धापारणविषये येनासीद्विप्रपुत्रानयनकाले यद्गहनं गभीरं तमस्तस्य पारे च य आसीत्स मामवत्विति वा
॥ ५,६ ॥
छलारी
परात्परत्वं स्पष्टयति ॥ कालेनेति ॥ कालनाम्ना हरिणा लोकेषु भूतकार्येषु कृत्स्नशः साकल्येन पञ्चत्वं पृथिव्यादिपञ्चभूतात्मत्वम् । नाशमिति यावत् । इतेषु प्राप्तेषु सत्सु सर्वहेतुषु पृथिव्यादिमहत्तत्त्वान्तेषु सर्वकारणेषु स्वस्वकारणतां प्राप्तेषु सत्सु तदा गहनं दुरवगाहं गंभीरमगाधं यत्तमो दुर्गाभिमन्यमानमासीत्तस्य तमसःपारे तमःसम्पर्करहिते देशे यो विभुरभिविराजते प्रकाशते । ‘आदित्यवर्णं तमसस्तु पारे’ इति श्रुतेः ॥
हरेर्दुर्ज्ञेयत्वं वदन्प्रार्थयते ॥ न यस्येति ॥ देवा यस्य हरेः पदं स्वरूपं न विदुर्यतोऽतः को जन्तुरर्वाचीनः प्राणी तत्पदं गन्तुं ज्ञातुं पुनरीरितुं वक्तुं वाऽर्हति । तत्र दृष्टान्तमाह ॥ यथेति ॥ आकृतिभिर्भिन्नभिन्नस्त्रीपुरुषाद्याकारैर्विचेष्टतः प्रवर्तमानस्य नाट्यं कुर्वतः पुरुषस्य स्वरूपं निर्धार्येदृशमिति ज्ञातुं वक्तुं वा यथा नार्हति जनस्तथेति । सुदुरत्ययं दुर्ज्ञेयमनुक्रमणं चरितं यस्य दुरत्ययानुक्रमणो हरिर्मामवतु ॥ ५,६ ॥
लिङ्घेरी
परात्परात्वं प्रकृतिशक्त्यविषयत्वप्रतिपादनेनाविष्करोति ॥ कालेनेत्यादिपद्य-द्वयेन ॥ कालेन कालनियामकत्वादिनिमित्तेन कालशब्दवाच्येन कालरूपेण च हरिणा प्रेरितेन प्रसिद्धेन कालेन प्रलयेन कृत्स्नशः समस्तेषु लोकेषु भूरादिषु पञ्चमहाभूतेषु । पञ्चत्वं स्वोपादान-भूतपृथिव्यादिसूक्ष्मपञ्चात्मताम् इतेषु प्राप्तेषु सर्वहेतुषु च पृथिव्यादिसर्वकारणेषु गन्धादितन्मात्रा-महदादिषु च । लीनेषु स्वोपादाने स्वाच्छादितेषु यत्तद्गहनमज्ञेयं गभीरमगाधं तम आसीदन्धकारा-परपर्यायजडप्रकृतिस्तन्नियामिका चित्प्रकृतिश्चासीत् । यो विभुरघटितघटनासामर्थ्यवान्हरिस्तस्य तमसः पारे पराग्देशे तत्स्थितोऽपि तदशक्तिविषयतया तत्कृतविकारशून्यतया अभिविराजते सुखेन सम्यक् सर्वतः प्रकाशमानो वर्तते । ‘कालाख्यरूपिणस्तव । नासदासीन्नोसदासीत्तदानीं तमसा गू•हम् । आनीदवातं स्वधयेत्यादि प्रत्यक्ष, दशमस्कन्ध, ऋगादिप्रमाणैरस्मदुक्तार्थप्रमा-पनान्नात्र कस्यचित्क्षुद्रचोद्यावकाशः ॥
ऋषयस्त्रिकालज्ञानिनो ब्रह्मादयः, आकृतिभिर्ब्राह्मणाद्याकारैर्विचेष्टितः क्रीडां कुर्वतो नटस्य नर्तकस्य जातिकारस्य पदं स्वरूपं यथा जना न जानन्ति तथा हरेरपि । पद्यते गम्यत इति पदं स्वरूपं साकल्येन न विदुर्न ज्ञातवन्तो नोक्तवन्तश्च । पुनस्तदवतारः को वा जन्तुः प्रणीतस्य हरेः पदं गन्तुं ज्ञातुमीरितुं वक्तुं चार्हति योग्यो भवति । न कोऽपि । एवं ब्रह्मादि-भिरपि दुरन्वयो ज्ञातुमशक्योऽनुक्रमणः पराक्रमो यस्य स विष्णुर्मामवतु रक्षतु । इत्येवं गजेन्द्रो ब्रह्माद्यज्ञेयत्वं वक्तुमशक्यगुणोत्कर्षस्य हरेस्तद्गुणोत्कर्षख्यापनरूपस्तुतौ नाहं शक्तस्तथाऽपि भक्तवत्सलतया स हरिर्मां प्रकृतापदो रक्षतु रक्षत्विति स्वाभिप्रायं व्यनक्ति । व्यक्तं चैतत् । ‘द्युपतिभिरजशक्रशङ्कराद्यैर्दुरवसितस्तवमच्युतं नतोऽस्मि’ इत्यादेः ॥ ५,६ ॥
दिदृक्षवो यस्य पदं सुमङ्गलं विमुक्तसङ्गा मुनयः सुसाधवः ।
चरन्त्यलोकव्रतमव्रणं वने सर्वात्मभूताः सुहृदः स मे गतिः ॥ ७ ॥
पदरत्नावली
हरेरेवंविधस्वरूपसद्भावे मानमाह– दिदृक्षव इति ॥ अव्रणमक्षतम् अलोकव्रतं लोकैः कर्तुमशक्यं सृष्ट्यादिव्रतं यस्य स तथा तम् ॥ ७ ॥
सत्यधर्मीया
नात्र मन्मात्रस्याधिकारः किन्तु प्राचीनाः प्रेक्षावन्त एवं वासुदेवोपासां कुर्वत इति सप्रमाणकमुक्तमिति वक्ति ॥ दिदृक्षव इति ॥ यस्य सुमङ्गलं महामङ्गलदं पदम् । दिदृक्षवो द्रष्टुमिच्छावन्तः सुसाधवो मुनयो विमुक्तसङ्गा दारागारादिसम्बन्धविधुराः । सर्वात्मभूताः सर्वस्वामी हि सर्वात्मा तस्मिन् भूताः सन्तस्तत्स्थिताः स भूतो येषु त इति वा । सुहृदः शुद्धबुद्धयः । अलोकव्रतम् । जनजनितनियमविलक्षणनियमम् । अव्रणम् । निश्च्छिद्रम् । यथा तथा वने । चरन्ति । कुर्वन्ति । स मे गतिः प्राप्यं स्थानम् । दिदृक्षवः । अयसि अपदं सुमङ्गलं विम् उक्तसङ्गा इति पदानि । उक्तसङ्गाः शास्त्रे यः सत्सङ्ग उक्तस्तदुपेता विं परमात्मानं दिदृक्षवः । न स सुमिल इत्यालपति । अपदं दुर्लभ्यमयसि । तप्त इति शेषः । क्वचिदपदं श्वासनिरोधेन क्षितावक्षिप्तं यथा तथा चरन्तीति वा । तच्चूर्णे सति । तच्चरन्ति । भक्षयन्ति । वने सुमं गलम् । ‘सुमं स्यात्पुष्पफलयोः’ इति फलानि पुष्णाणि वा । ‘सूनं प्रसूनं कुसुमे सुमं च परिकीर्तितम्’ इति द्विरूपकोशः । गलं सर्जरसम् । ‘गलः सर्जरसे कण्ठ’ इति विश्वः । वने जले वा । चरन्ति भक्षयन्ति । संचरन्ति वेति विवरणमलोकव्रतस्येति ज्ञेयम् । यस्य कृष्णस्य वने कानने विमुक्तसङ्गाः । पतिसुतान्वयभ्रातृबान्धवानतिविलंघ्येति त्यक्तैतत्सङ्गाः । सुसाः । सा लक्ष्मी समुदीरितेत्येकाक्षरनिघण्टुः । सारत्वात्सा लक्ष्मीः सु शोभना यासां ताः । पदं पदानि । दिदृक्षवो मुनय इव । परस्परं वार्तावित्यै मौनव्रतधरा वा । अव्रणम् । अलोक-व्रतमेकान्तव्रतं चरन्ति । सर्वात्मना भूताः पिशाचप्रायाः सुहृदो मे स गतिः स वः पतिरिति यं चरन्ति अचरन्व्यजानन् । अगेन गोवर्धनेन तिरानन्दो यस्य सः । अगस्य माहेन्द्रस्य महेन्द्रक्लृप्तमखान्नखादनेन स्वावेशेन तिर्येनेति वा । सोऽप्यन्यगतिमांश्चेत्स एवाभ्यर्थनीयः किमन्तर्गडुनाऽनेनेत्यतो गतिरन्या न विद्यते गतिर्यस्य तथेति । यस्य पदम् । गलं कण्ठं वोद्दिश्य सुमं पुष्पाणि । दिदृक्षवः सुसाधवो मुनय इव वने विचरन्ति । स मे सुहृदः शुद्धबुद्धेर्गतिरिति वा । विम् अव्रणं छेदभेदादिरहितम् । क्व व्रणादिः क्व चाज्ञानमित्यादिना तत्त्वनिर्णयोक्तेः । विम् अव्रणं नित्यपूर्णगुणत्वत इति ईशावास्यभाष्योक्तेः । पूर्णगुणमिति वा । अलोकव्रतं लोक-नियमातीतं पदं स्वप्राप्यस्थानमुद्दिश्य वने दिदृक्षवो मुनयश्चरन्ति । न तेऽपि पञ्चशा इति भ्रमः सम्भावित इत्याह ॥ सम इति ॥ सर्व इत्यर्थः । न हि प्रेक्षावतां बहूनां प्रवृत्तिरेकविधाऽ-मानिकी भवतीति भाव इति वा । यस्य गलमुद्दिश्य सुमं सुमानि दिदृक्षव इति वा ॥ ७ ॥
छलारी
नन्वेतादृशमहिम्नो भगवतो ज्ञानं कथं स्यादित्यतो तत्ज्ञानोपायं कथय-न्प्रार्थयते ॥ दिदृक्षव इति ॥ सुमङ्गलं यस्य पदं दिदृक्षवो द्रष्टुकामा विमुक्ता सङ्गा विषया-सक्तिर्यैस्ते विरक्ता मुनयो मननशीलाः सुसाधवो वनेऽव्रणं निच्छिद्रमलोकव्रतं लोकैः कर्तुमशक्यं व्रतं तपआदि कर्माचरन्ति कुर्वन्ति । सो हरिर्मे गतिः प्राप्यो ऽस्तु । कथम्भूताः साधवः । सर्वात्मना सर्वस्वामिनि भूताः स्थिता ब्रह्मनिष्ठाः सुहृदः शुद्धान्तःकरणाः फलेच्छाशून्या इत्यर्थः
॥ ७ ॥
लिङ्घेरी
नन्वेवं हरेरज्ञेयत्वे तत्प्रसादेन मोक्षादिपुरुषार्थापेक्षा तत्साधनतत्साक्षात्काराशा चानुचितेत्याशङ्क्य हरेः स्वानुग्रहमन्तरेणाज्ञेयत्वादिमत्वेऽपि स्वानुग्रहे ज्ञेयत्वादेरपि सत्वादेव तत्साधनवैराग्यादौ ऋषयः प्रवर्तन्त इति मोक्षाद्याकांक्षाऽप्युचितैवेति परिहरति ॥ दिदृक्षव इति ॥ मुनयो ऋषयः सुमङ्गलमतिमङ्गलं यस्य हरेः पदं दिदृक्षवो द्रष्टुमिच्छवः सन्तस्तदर्थं विमुक्तसङ्गास्त्यक्तविषयस्नेहा मुनयो मननशीलाः सुसाधवो भक्त्याद्यतिसाधुभावोपेता वने एकान्तेऽव्रणं विच्छेदादिदोषरहितमलोकव्रतमसंप्रज्ञातसमाधिलक्षणं ध्यानमाचरन्ति । अलोकव्रतं स्वेतरब्रह्मादिजनाशक्यजगत्सर्जनादिलक्षणं व्रतं व्यापारो यस्य तद् अव्रणमदोषं यस्य पदमिति वाऽन्वयः । सर्वात्मभूतः सर्वचेतनस्थः स हरिः सुहृदः समीचीनान्तःकरणस्य मे गतिरस्तु । सर्वात्मभूत इत्यनेन नक्रस्याप्येवंविधशक्तिप्रदो भगवानेवेति स्वज्ञानं प्रकटितम् । जगद्व्यापार-वर्जमित्यादिनाऽन्येषां स्रष्टृत्वाद्यभावः स्पष्टः ॥ ७ ॥
न विद्यते यस्य च जन्म कर्म वा न नामरूपे गुणदोष एव वा ।
तथापि लोकाश्रयसंभवाय१ यः स्वमायया तान्यनुकालमृच्छति ॥ ८ ॥
पदरत्नावली
देवदत्तवज्जन्माद्यभावाद् दुर्ज्ञेयत्वं युक्तमित्यभिप्रेत्याह– न विद्यत इति ॥ आमघटादिश्यामादिगुणवन्नश्वरगुणो नास्ति, दोषः कुत एव ? चशब्देन ‘निरनिष्टो निरवद्यः’ इति श्रुतिं सूचयति । सर्गादिनिमित्तदोषश्च नास्तीति वा । दोषो नास्त्येव गुणयुतदोषश्च नास्तीति वा । यद्यपि देवदत्तस्येव हरेर्जन्मादिकं नास्ति तथापि स्वमायया स्वमहिम्ना स्वेच्छया वा लोकस्य तदाश्रयप्राणिनां च संभवाय सुखादिप्राप्तिलक्षणजननाय तानि जन्मादिनि सर्जनादिकालमनुसृत्य ऋच्छति प्राप्नोतीत्यन्वयः । लोकत्रयसंभवायेति केचित् पठन्ति ॥ ८ ॥
सत्यधर्मीया
देवोऽयं देवदत्तादिवन्न सम्मतजन्मादिरित्यादित उदितमुचितं दुर्विज्ञेयत्वं ज्ञेयमित्याह ॥ न विद्यत इति ॥ यस्य जन्म शुक्लरक्तसम्पर्ककायसम्पत्तिर्न विद्यत इति यथायथमविपरिणतं विपरिणतं सदन्वेति । न शुक्लप्रभवोऽस्य देहः । न जायत इत्यादेः । कर्म । दुष्टम् । नामरूपे । ‘अनामा सोऽप्रसिद्धत्वादरूपो भूतवर्जनात्’ इत्यादेरप्रसिद्ध्याऽनामा प्राकृत-रूपराहित्यादरूपश्चेति भावः । गुणदोषः गुणयुतो दोषः । सत्त्वादिगुणकृतो दोषो वा । निरनिष्टो निरवद्य इत्यादेः । गुणो नेति वैशकलित्येन निषेधे मन्दधियां निर्गुण इति भ्रमः स्यादिति समस्यैकवचनेन च निर्दिशन् दोषसमानाधिकृतैकोऽपि गुणो नास्तीति गुणनिषेधं बोधयामासेति ज्ञेयम् । तर्हि गर्हितस्य तव तद्दर्शनं कथं कथयेत्यतः कथयति ॥ तथाऽपीति ॥ स्वमायया स्वेच्छया लोकाश्रयसम्भवाय लोकानामाश्रयस्याधारस्य सम्भवो युक्तता तस्मै । मयेत्थं नटन-माटीकितं चेल्लोकाः प्रवर्तन्ते तथा नो चेन्नेति । यदि ह्यहं, मम वर्त्मानुवर्तंत इत्यादेः । तानि जन्मादिचत्वारि । अनुकालं यस्तत्तत्कालमनुसृत्य ऋच्छति प्राप्नोति स मे गतिरिति पूर्वेण तस्मै नम इत्युत्तरेण वाऽन्वयो ज्ञेयः । निर्देशक्रमानुरोधेन परवल्लिङ्गं द्वन्द्वतत्पुरुषयोरिति तानिति वक्तव्यम् । तथाऽपि तानीत्यनेन गुणदोषविषये नटनस्यापि विघटनेति त्याग एवेत्यभिप्रैति ग्रन्थकृदिति मन्तव्यम् । अथवा । विद्धवन्मुग्धवच्चैवेत्यादेर्जारत्वादेश्च प्रदर्शनं दृश्यत इति यदा तदा गुणदोषो जन्मकर्म नामरूपे इत्यन्वयः । ततश्च नपुंसकमनपुंसकेनेत्युक्तेः स च तानि च तानीत्येकशेषे तानीत्यस्य सम्भवो ज्ञेयः । विद्यते विद् विज्ञानित्वेन मतो यतिरर्जुनात्मा यस्य स तथा तस्य सम्बुद्धिः । ‘ततत्वादन्यथाज्ञानं तीत्येव समुदीर्यत’ इति तात्पर्यान्तरोक्तेर्नविद्य-वदज्ञवत्तिरन्यथामतिर्यस्य तस्य सम्बुद्धिरिति वा । हे लोकाश्रय । सहस्रशीर्ष्णोऽस्य बतैकमूधर्ि्न । ‘धराऽखिलेयं ननु सर्षपायति’ इत्यादेः । अगुण अग्रजत्वादनप्रधानबल । यस्य च न जन्म नैतत्कुले जननमिति ज्ञानमित्यर्थः । तथा कर्म च । भगवान्यं ननाम नमस्कृतवान् । यस्य रूपे आकारे । ‘रूपमाकारश्लोकयोरपि’ इति विश्वः । दोष एव विद्यते । नमनं तव मनःपूर्वक-मित्याह ॥ सु अमाययेति ॥ योऽहं च सम्भवायाग्रजानुव्रजनजनितमङ्गलार्थं भवन्तम् । अनु इति कालपदसमस्तमाकृष्यते । अतानि अनुसरामि । अनुकालं कालानुसारमृच्छति । जन इति शेषः । त्वं करोषि किं कालो बलीयानिति भावः । हे आय । सम्यग्ज्ञान । सुदैव वा । स्वं भवन्तं मां वा । अनुयाता । अनुजेति यावत् । न्यनुका निश्चयेन अनुकाः । अनुकामिकेति साधुः । ‘कामिके कमितानुक’ इत्यमरः । यस्याः सा । अलमृच्छति । गच्छति । हे अगुणद कुलापकीर्त्यादिदोषद । उष एव प्रातरेव ऋच्छतीति वा । अहं स्वमायया कापट््येन भवन्त-मतानि । स त्वनुकालं समयमनतिक्रम्य । ऋच्छतीति योऽवदत्स कृष्णो मम गतिरिति तस्मै नम इति वाऽन्वयः । यश्च स्वमाययाऽनुकालं कालयवनं निन्दित्वा ऋच्छत्यगच्छत्स इति वा । यो भगवान्मायया फल्गुणवचनेन तथा निश्चयेन । तथा निश्चय इति विश्वः । आपि प्रापित इति वा । क्लिष्टतोऽक्लिष्टता कार्ष्णी भोजना योजना पुरः कर्तुं शक्यमपि आदराद्विस्तरादुपरम्यते । यस्य जन्म कर्म वा न नास्ति तथाऽपि यस्तानि ऋच्छति तद्विषये नविदज्ञोऽप्यहं यते प्रयत्नं करोमीति वा । ‘प्रयत्नमेकमग्रत’ इत्यादेरिति वा ॥ ८ ॥
छलारी
देवदत्तवद्भगवतो जन्मादिकं नास्तीत्याह ॥ न विद्यत इति ॥ कर्मक्लेशहेतु-र्नास्ति । हरेरप्रसिद्धत्वान्नाम नास्ति । प्राकृतरूपराहित्याद्रूपं च नास्ति । गुणदोषः सत्वादि-गुणनिमित्तकदोषोऽज्ञानदुःखादिश्च । ‘निरनिष्टो निरवद्य’ इति श्रुतेः । ननु रामकृष्णादिरूपेण जन्मादिदर्शनात्कथमेतदित्यत आह ॥ तथाऽपीति ॥ यद्यपि देवदत्तस्येव हरेर्जन्मादिकं नास्ति तथाऽपि यो हरिः स्वमायया स्वेच्छया लोकत्रयस्य संभवाय सुखप्राप्तये तानि जन्मादीन्यनुकालं काले काले ऋच्छति स्वीकरोति तस्मै नम इत्युत्तरेणान्वयः ॥ ८ ॥
लिङ्घेरी
ननु नारायणस्य सृष्ट्यादिना साध्यप्रयोजनसत्वे सृष्टेः पूर्वं तदभावादपूर्णता । तस्याभावेऽपि तत्र प्रवृत्तौ ‘प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तत’ इति न्यायादतिमन्दता स्यात् । किं च जन्मकर्मादिमत्त्वे देवदत्तादिवज्जगत्स्रष्टृत्वाद्यनुपपत्तिः । अपि चास्यान्यप्रेर्यतया जन्मादिमत्त्वे तस्यैवोत्तमत्वात्तत्प्रार्थनैवोचिता नास्येतीमां शङ्कां भगवतो नारायणस्यावाप्त-सर्वाभीष्टतया जगत्सृष्ट्यादिसाध्यप्रयोजनाभावेऽपि त्रैलोक्यस्थस्वभक्तानां मोक्षादिशुभफलप्राप्त्यै अन्याप्रेरितदुष्कर्माद्यप्राप्तप्रादुर्भावलक्षणजन्मादिमत्त्वेन न काऽप्यनुपपत्तिरिति परिहरति ॥ न विद्यते यस्येति ॥ यस्य हरेः । यद्यपि जन्मादिदुष्कर्मान्यप्रेरणाप्राप्तं न विद्यते । कर्म च स्वापेक्षितफलाय कर्तव्यम् । नामरूपे निरर्थकसांकेतिकप्राकृतादिलक्षणे न विद्येते । गुणः सत्त्वादिः सादिविनाशित्वादिदुष्ट आनन्दादिरपि न विद्यते । तथाऽपि अनुकालं तत्तत्काले लोकत्रयसंभवाय त्रैलोक्यजनशुभप्राप्त्यै स्वमायया स्वेच्छयैव तानि जन्मादीनि ऋच्छति प्राप्नोति । ‘देवस्यैषः स्वभावोऽयमाप्तकामस्य का स्पृहा । ज्ञानिनां मोक्षदश्च । अनन्यचोदितम् । निष्कलङ्कः शुद्धो देव एको नारायणः । न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन । नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि । न मां कर्माणि लिंपन्ति’ इत्यादिप्रमाणप्रसिद्धिर्वाशब्द-सूचिता । नन्वेवमप्युत्पत्त्यादिदोषराहित्यं कुतः । यत्र गुणास्तत्र दोषा इति दोषस्यापि संभवादित्यतो दोष एव दोषत्वावच्छिन्नसर्वोऽपि नास्तीत्याह ॥ दोष एव न विद्यत इति ॥ वाशब्देन जन्म असतः सत्तासम्बन्धलक्षणं न विद्यते प्रादुर्भावरूपं विद्यते । कर्म च स्वप्रयोज-नाय कर्तव्यं न विद्यते भक्तानुग्रहाय कार्यं विद्यते । नाम च निरर्थकं सांकेतिकं न विद्यते सार्थकं विद्यते । रूपं च भौतिकं प्राकृतं न विद्यतेऽप्राकृतं विद्यते । गुणः सत्त्वादिर्न विद्यते आनन्दादिर्विद्यते इति व्यवस्था चोच्यते । ‘अजोऽपि सन्नव्ययात्मा । संभवाम्यात्ममायया । अरूपो भूतवर्जनात् । त्रिगुणवर्जितम्’ इत्याद्युक्तवक्ष्यमाणप्रमाणात् । तस्मै ब्रह्मणे नम इत्युत्तरे-णान्वयः । न च मन्तव्यं हरेः स्वरूपतो जन्माद्यभाव एव किं न स्यात्कुत इयं व्यवस्थेति । जन्मादिसद्भावज्ञापकोक्तप्रमाणविरोधात् । उरुरूपायाश्चर्यकर्मण इत्याद्युत्तरग्रन्थविरोधाच्च ॥ ८ ॥
तस्मै नमः परेशाय ब्रह्मणेऽनन्तशक्तये ।
अरूपायोरुरूपाय नम आश्चर्यकर्मणे ॥ ९ ॥
पदरत्नावली
अनन्तरातीतश्लोकोक्तार्थविवरणपूर्वकं यच्छब्दविशिष्टं तच्छब्दावच्छिन्नं च नमति– तस्मा इति ॥ ९ ॥
सत्यधर्मीया
तस्मै परेशाय परेषां ब्रह्मादीनामीशाय स्वामिने । या ईश ईशः पराया ईशः । परपदार्थस्य तादात्म्यसम्बन्धेन ईशदार्थे योग्यतयाऽन्वयः । गतम् । परा च सा ई च परे तस्याः परयाः शं यस्मात्स तस्मै वा । एकारान्तस्त्रीलिङ्गः परेशब्दः । अनन्तशक्तये । अनन्ता बहवोऽप्रतिबद्धा वा शक्तयो यस्य तस्मै । ‘सर्वोपेता च तद्दर्शनात्’ । ‘परास्य शक्तिर्विविधैव श्रूयत’ इत्यादेः । अनन्तस्य शेषस्य । ‘योऽनन्तनामा गरुडस्तदंसक’ इत्या-चार्योक्तेर्गरुडस्य वा शक्तिर्येन तस्मा इति वा । अरूपाय प्राकृतरूपरहिताय । उरुरूपाय उरूणि रूपाणि यस्य स तथा । सरूपत्वमरूपत्वं चासम्भावितमितरत्रात्र कथमित्यतः सम्भावकं लक्षणमाह ॥ आश्चर्यकर्मण इति ॥ आश्चर्यमद्भुतं कर्म यस्य तस्मै । आचर्यतेऽभिनीयत इत्याश्चर्यम् । आश्चर्यमनित्य इति निपातनात्साधुः । विस्मयोऽद्भुतमाश्चर्यमित्यमरः ॥ ९ ॥
छलारी
उरुरूपाय बहुरूपाय । आश्चर्यकराणि कर्माणि यस्य तस्मै नमः ॥ ९ ॥
लिङ्घेरी
हरेः स्तुतावशक्तानां भूयिष्ठान्ते नम उक्तिं विधेमेत्युक्तनतिरेव गतिरिति भावेनादराद्भूयो नमति ॥ तस्मै नम इत्यादिना ॥ परेशाय ब्रह्मादिमुक्तस्वामिने । अनन्तशक्तये देशकालापरिच्छिन्नसामर्थ्यवते । तस्मै ब्रह्मणे नारायणाख्यपरब्रह्मणे । नमोऽस्तु । प्राकृत-भौतिकरूपरहितायारूपाय । रुग्मवर्णं सुवर्णं ज्योतिः । ‘शुक्लो रक्तस्तथापीत इदानीं कृष्णतां गत’ इत्यादिश्रुतिस्मृतिप्रमिताप्राकृतभौतिकानश्वरोत्कृष्टरूपवते । अत एवाश्चर्यकर्मणे तस्मै नारायणाय नमः ॥ ९ ॥
नम आत्मप्रदीपाय साक्षिणे परमात्मने ।
नमो गिरां विदूराय मनसश्चेतसामपि ॥ १० ॥
पदरत्नावली
अरूपायेत्युक्तं विवृणोति नम आत्मेति ॥ आत्मप्रदीपाय स्वतः-प्रकाशाय । आत्मनः जीवस्य स्वरूपज्ञापनप्रकाशाय वा ॥ १० ॥
सत्यधर्मीया
आत्मप्रदीपाय स्वप्रकाशाय । जीवस्वरूपप्रकाशकाय वा । गिरां वचनानां विदूराय साकल्येनागोचराय मनसश्च विदूराय । गिरामिति चेतसामित्यत्र सति बहुवचने मनसामिति वक्तव्ये यन्मनस इति जगौ तेन ‘यतो वाचो निवर्तंतेऽप्राप्य मनसा सह’ इति श्रुतिमनुचकारेति ज्ञेयम् । चेतसां वृत्तिभेदाद्बहुवचनम् । यद्वा बहुवचनमाद्यर्थे । चेतआदीनाम् । ‘अशब्दमस्पर्शमरूपम् । न तत्र चक्षुर्गच्छति’ इत्यादेः ॥ १० ॥
छलारी
आत्मैव प्रदीपः प्रकाशो यस्य तस्मा आत्मप्रदीपाय स्वप्रकाशकायेत्यर्थः । गिरां वचसां मनसश्चेतसामपि चित्तवृत्तीनामपि विदूराय साकल्येनाविषयाय । ‘यतो वाचो निवर्तन्तेऽप्राप्य मनसा सह’ इति श्रुतेः ॥ १० ॥
लिङ्घेरी
आत्मप्रदीपाय स्वप्रकाशाय । आत्मनां मोक्षयोग्यचेतनानामेव स्वाराधनेन प्रकाशमानाय । ‘प्रकाशश्च कर्मण्यभ्यासात्’ इति सूत्रात् । साक्षिणे साक्षात्सर्वजगद्द्रष्ट्रे । परमात्मने चेतनोत्तमाय । आत्मेश्वरमिति श्रुतेः । तस्मै नमः । गिरां वेदवचसां मनसोऽन्तः-करणस्य चेतसां तद्वृत्तिज्ञानानामपि विदूराय साकल्येनागोचराय । तस्मै नमः । ‘यतो वाचो निवर्तन्तेऽप्राप्य मनसा सह’ इत्यादेः ॥ १० ॥
सत्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिताम्१ ।
नमः कैवल्यनाथाय निर्वाणसुखसंविदे ॥ ११ ॥
पदरत्नावली
अरूपप्राप्तिसाधनज्ञानं तत्सद्भावे ज्ञानिप्राप्यत्वलक्षणं मानमित्यभिप्रायेण नमति सत्वेनेति ॥ विपश्चितां सत्वेन ज्ञानेन प्रतिलभ्याय प्राप्याय । ‘बलज्ञानसमाहारः सत्त्वं केवलमेव च’ इत्यभिधानम् । नैष्कर्म्येण निवृत्तिधर्मलब्धेन ॥ ११ ॥
सत्यधर्मीया
तर्हि कथंकारं स लभ्यत इत्यत आह ॥ सत्त्वेनेति ॥ सत्त्वं ज्ञानं व्यवसायो वा । सोऽपि ज्ञानपूर्वकः । ‘बलज्ञानसमाहारः सत्त्वं केवलमेव च’ इत्यभिधानम् । सत्त्वं व्यवसाय इति विश्वः । तत्सत्त्वं कथं लभ्यत इत्यतस्तद्धेतुमाह ॥ नैष्कर्म्येण । निष्कर्म निवृत्तिमार्गस्तत्साध्यमिति नैष्कर्म्यम् । तेनेति । विपश्चितां ज्ञानिनाम् । विपश्चितेति पाठे ज्ञानिना कर्त्रेत्यर्थः । विद्वान्विपश्चिदित्यमरः । विप्रकृष्टे निश्चिनोति चिन्तयति वा विपश्चित् । सर्वः संसारः पृषोदरादिः । कैवल्यनाथाय । मुक्तिस्वामिने । केवलस्य बन्धवैधुर्येण भावः । गुणवचनेति ष्यञ् । ‘मुक्तिः कैवल्यनिर्वाणे’ इत्यमरः । स्वयं निर्वाणम् । प्राकृतशरीराभोग्यं यत्सुखं तस्य संविदनुभवो यस्य । निर्वाणाः प्राकृतदेहहीनास्तेषां सुखं संविच्च येन स तस्मै वा । अथवा कैवल्यनाथाय निर्वाणसुखसंविद इति व्यधिकरणे चतुर्थ्यौ । तत्र प्रथमा षष्ठ्यर्थे । यद्वैकपदम् । कैवल्यस्य मुक्तेर्नाथो नाथनं तं प्रत्ययत इति कैवल्यनाथायः, तस्य निर्वाण-सुखसंविच्च यस्मात्स तथा तस्मै । अथवा । बहुव्रीह्यन्तर्गर्भार्थिकक्रियाभिप्रेरणाच्चतुर्थ्येव । आया लाभरूपा निर्वाणसुखसंविदोऽयेन शुभदैवेन ता येनेति तस्मै वा । कैवल्यं नाथति याचत इति स तथा । तदधिकारी तस्मै । निर्वाणं लिङ्गभङ्गस्तस्य तत्सम्बन्धिन्यौ सुखसंविदौ स्वरूपभूते येन स । तस्मै । निर्वाणं मुक्तिस्तस्य यत्सुखं तस्य संविदनुभवो येन स तस्मै वा ॥ ११ ॥
छलारी
विपश्चितां नैष्कर्मेण निवृत्तधर्मलब्धेन सत्त्वेन ज्ञानेन प्रतिलभ्याय प्राप्याय कैवल्यनाथाय मुक्तिस्वामिने निर्वाणसुखसंविदे निर्वाणसुखस्य स्वरूपसुखस्य संविदनुभवो यस्य तस्मै ॥ ११ ॥
लिङ्घेरी
वेदाद्यगोचरत्वेऽस्य ‘आत्मा वा ओ द्रष्टव्य’ इत्यादिश्रवणविध्यादिवैयर्थ्य-मित्याशङ्क्य मोक्षयोग्यानां ज्ञानभक्त्यादिना तस्य प्राप्यत्वान्न वैयर्थ्यमित्यभिप्रायेणाप्युक्तमात्म-प्रकाशायेत्येतत्स्पष्टयति ॥ सत्वेनेति ॥ विपश्चितां सम्यग्ज्ञानयोग्यानां तद्वतां च नैष्कर्म्येण निवृत्तिमार्गेण प्राप्तेन सत्त्वेन वैराग्यभक्त्यादिना शुद्धेनान्तःकरणेन तज्जन्यसम्यग्ज्ञानेन च प्रति-लभ्याय प्राप्याय । निर्वाणसुखसंविदे प्राकृतशरीरशून्याय सुखज्ञानरूपिणे । कैवल्यनाथाय मोक्षस्वामिने । तस्मै नम इति । ‘भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ ज्ञानवान्मां प्रपद्यन्त’ इत्यादेः ॥ ११ ॥
नमः शान्ताय घोराय गूढाय गुणकर्मणे ।
निर्विशेषाय साम्याय नमो ज्ञानघनाय च ॥ १२ ॥
पदरत्नावली
उरुरूपायेत्युक्तरूपविशिष्टं तात्पर्यादरूपविशिष्टं च नमति– शान्ता-येति ॥ शान्तायेत्यनेन सत्त्वप्रवर्तकवासुदेवादिरूपं लक्षयति, घोरायेत्यनेन रजःप्रवर्तक-जामदग्न्यादिरूपं, मूढायेत्यनेन तमःप्रवर्तकवराहादिरूपम् । गुणकर्मण इत्यनेन तत्तद्योनिविशिष्ट-गुणकर्मवते । ज्ञानघनायेत्यनेनारूपस्य शून्यत्वं निवारयति । सत्वेनेत्याद्युक्तविशेषण-समुच्चयार्थश्चकारः ॥ १२ ॥
सत्यधर्मीया
बाहुरूप्यमरूपायेत्युक्तं निरूपयति ॥ नमःशान्तायेति ॥ शान्ताय सौम्यरामादिरूपाय सुखनिर्णायकाय वा । अन्तो निर्णय इति गीताभाष्योक्तेः । घोराय वैरिघो-रनृसिंहादिरूपिणे । गूढायेति ॥ स्वप्रसादमन्तरेणाप्रकाशायेत्यर्थः । मूढायेति पाठे मीनादि-हीनयोनय इत्यर्थः । गुणत्रयकार्यप्रवर्तकत्वेनैकोऽप्येवं व्यवह्रियत इति भावः । सत्त्वादिमत्त्वे-नैवैवंविध इति किं नाभिधास्यत इत्यतोऽभिधत्ते ॥ गुणकर्मण इति ॥ गुणानां सत्त्वादीनां कर्माणि व्यापाराः सन्तोऽसन्तश्च येन स तस्मै । स्वतन्त्रत्वात्सर्वं नासम्भवीति वाऽऽह ॥ गुणकर्मण इति ॥ गुणाः कर्माणि जीवा अप्रधाना यस्मात् । ‘करोऽस्मिन्मीयत इति कर्म जीव उदाहृत’ इति गीतातात्पर्योक्तेः । विस्तरस्तु प्राक् स्कन्धे सटीकोदाहृतिकृतोऽनुसन्धेयः । निर्विशेषायावतारेषु विशेषविकलाय । साम्याय । अर्श आद्यचि वा, स्वार्थे ष्यञि वा । समाय तत्तद्योग्यतानुसारेण । अमगत्यादौ । अम्याः स्वप्रसादासादकत्वेनाङ्गदेवतास्तत्सहितायेति वा । पोरदुपधादिति यद् इति वा । ज्ञानघनाय ज्ञानात्मा तस्मै । ज्ञानामृतवर्षणमेघरूपाय वा । ज्ञानेन महते वा ॥ १२ ॥
छलारी
शान्ताय सतां सौम्यरूपाय खलानां घोराय क्रूरायासतां मूढाय मोहजनकाय । मुह वैचित्य इति धातोः । गूढायेति पाठेऽव्यक्तायेत्यर्थः । गुणकर्मणे तत्तद्योनिगुणकर्महेतवे निर्विशेषायावतारेषु विशेषरहिताय । साम्याय । भावप्रधानो निर्देशः । तत्तद्योग्यतानुसारेण समाय ज्ञानघनाय ज्ञानमूर्तये ॥ १२ ॥
लिङ्घेरी
शान्ताय वासुदेवादिरूपाय । घोराय संकर्षणजामदग्न्यादिरूपाय । गूढाय वराहमत्स्यादिरूपाय । गुणकर्मिणे ज्ञानानन्दादिगुणवते सृष्ट्यादिप्रशस्तकर्मवते । तस्मै नमः । निर्विशेषाय स्वोत्तमरहिताय । स्वमूलरूपावताररूपेषु गुणकर्मादिभिर्विशेषशून्याय । स्वनियम्य-नीचोच्चतया प्राप्तविशेषशून्याय । तत्तद्योग्यतातिरेकेण शत्रुमित्ररहिताय । ज्ञानघनाय च पूर्ण-ज्ञानाय । तस्मै नमः । मत्तः परतरं नान्यत् । न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हीत्यादेः
॥ १२ ॥
क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे ।
पुरुषायाऽत्ममूलाय मूलप्रकृतये नमः ॥ १३ ॥
पदरत्नावली
रूप्यरूपित्वेन निरूप्यमाणस्य हरेर्मिथो न कोऽपि विशेषोऽस्तीति ज्ञाप-यितुम् उभययोग्यविशेषणविशिष्टत्वेन नमति– क्षेत्रज्ञायेति ॥ सर्वाध्यक्षाय सर्वस्वामिने आत्मैव मूलं यस्य तथा तस्मै, आत्मनां मूलाय वा ॥ १३ ॥
सत्यधर्मीया
नैर्विशेष्यस्थेम्नेऽवतारानवतारयोग्यैर् गुणैर्विशिष्टं भगवन्तमभिष्टौति ॥ क्षेत्रज्ञायेति ॥ क्षीयतेऽत्रेति क्षेत्रं शरीरादि । तज्जानातीति स तथा । ज्ञा अवबोधने अतोऽनुपसर्गे कः । क्षेत्रमव्यक्तम् । महदहङ्कारादिकं जानातीति स तथा । तस्मै । महाभूता-न्यहङ्कारो बुद्धिरव्यक्तमेव च । एतत्क्षेत्रमिति गीतागीतेः । विवृतं विस्तरतः षष्ठेऽनुसन्धेयम् । सर्वाध्यक्षाय सर्वस्वामिने । साक्षिण इति गतम् । पुरुषायेति चात्ममूलाय चेतिवत् । मूल-प्रकृतये । मूलस्य प्रतिष्ठापकस्य तत्सम्बन्धिनी प्रकृष्टा कृतिर्यस्य तस्मै । प्रकृतिः प्रकृष्टकरणा-दित्युक्तेर्मूलश्चासौ प्रकृतिस्तस्मा इति वा ॥ १३ ॥
छलारी
क्षेत्रमव्यक्तं महदहंकारादिकं जानातीति क्षेत्रज्ञस्तस्मै महाभूतान्यहंकारो बुद्धि-रव्यक्तमेव च । एतत्क्षेत्रं समासीनेति गीतावचनात् । सर्वाध्यक्षाय सर्वव्यापिने साक्षिणे जीव-कर्मद्रष्ट्रे पुरुषाय पूर्णषड्गुणायात्मनां जीवानां मूलायाश्रयाय मूलप्रकृतये मूलप्रकाराय ॥ १३ ॥
लिङ्घेरी
क्षेत्रज्ञाय सर्वप्राणिशरीरान्तर्नियामकतयाऽन्तःस्थितसर्वव्यापाराद्यभिज्ञाय । सर्वाध्यक्षाय सर्वजगत्स्वामिने साक्षिणे तुभ्यं नमः । आत्ममूलाय ब्रह्मादिचेतनसृष्ट्यादिकर्त्रे । मूलप्रकृतये चिज्जडप्रकृत्योरप्याश्रयत्वादिना मूलप्रकृतिनाम्ने । पुरुषाय तुभ्यं नमः । क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारतेत्यादेः । क्षेत्रज्ञायेत्यनेन हरेर्जीवाभेद उच्यत इति प्रतीतिस्तत्त्व-वादिकण्ठाभरणेऽस्मत्कृते परिहृता द्रष्टव्या ॥ १३ ॥
सर्वेन्द्रियगुणद्रष्टे्रे सर्वप्रत्ययहेतवे ।
असत्याच्च विमुक्ताय सदाभासाय ते नमः ॥ १४ ॥
पदरत्नावली
साक्षिशब्दविवरणपूर्वकमस्मदादिज्ञाने हेतुत्वेनास्मदादिप्रपञ्चाद् भिन्नं नमति सर्वेति ॥ असत्यादस्वतन्त्रात् प्रपञ्चाद्विमुक्ताय । सन्निर्दोष आभासो देहो यस्य स तथा तस्मै । ‘सद्देहः सुखगन्धश्च’ इत्यादेः । अनेन प्राकृतरूपं नास्तीत्युक्तं भवति । सन् आभासः प्रकाशो यस्य स तथा तस्मा इति वा । ‘परञ्ज्योतिरुपसम्पद्यते’ इति श्रुतेः ॥ १४ ॥
सत्यधर्मीया
सर्वेन्द्रियगुणद्रष्टे्र । सर्वेतीन्द्रियविशेषणमिव गुणविशेषणम् । सर्वाणि च तानीन्द्रियाणि च तेषाम् । सर्वे गुणाः शब्दाद्यास्तान् द्रष्टा तस्मै । सर्वप्रत्ययहेतवे । सर्वेषां प्रत्ययानां ज्ञानानां कारणायोपदेशेनार्जुनादिसर्वविश्वासकारणाय । असत्यात् सति सज्जनसङ्घे साधु सत्यं तन्न भवतीत्यसत्यं दुर्जनजातं तस्माद्विमुक्तस्य । सदाभासाय । सन्नाभासो यस्य प्रकाशः स तस्मै । सन्तो वाय्वाद्याः साक्षात्परम्परया वा आभासाः प्रतिबिम्बरूपा यस्येति । आभास एव च । आभासकोऽस्य पवनः पवनस्य रुद्र इत्यादेः । सदा शाश्वतिकोऽविलुप्त आभासो ज्ञानं यस्येति वा । सदाभासम् आ सम्यक् स्वातन्त्र्येणैतीति सदाभासयन् तस्मा इति पदमेकं वा
॥ १४ ॥
छलारी
सर्वेन्द्रियाणां ये गुणाः शब्दादिविषयास्तेषां द्रष्टे्र । सर्वेषां प्रत्ययानां ज्ञानानां कारणाय । असत्यादसाराद्विमुक्ताय नित्यमुक्तायेत्यर्थः । अनृताद्विमुक्तायेति वा । सदाभासाय सन्वायुराभासः प्रकाशो यस्य तस्मा इति वा ॥ १४ ॥
लिङ्घेरी
क्षेत्रज्ञायेत्याद्युक्तं विवृणोति ॥ सर्वेति ॥ सर्वेन्द्रियगुणद्रष्ट्रे श्रोत्राद्यन्तः-करणान्तैकादशेन्द्रियाणां गुणानां शब्दादितद्विषयाणां साक्षात्कारवते । सर्वेषां जीवानां प्रत्यायानां ज्ञानानां हेतवे कारणाय । असत्यादयथार्थवचनाद् विमुक्ताय । ‘अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्’ इत्यादि सत्यप्रतिज्ञाय च । सदा सर्वविषयकाप्रतिहतज्ञानतया सदाभासाय । तुभ्यं नम इत्यनेन गजेन्द्रेण स्वस्यापि तद्भक्ततया स्वानुद्धरणमनुचितं हरेरिति ज्ञाप्यते । सन्निर्दुष्ट आभासो देहो यस्य स तथा तस्मै । नम इत्यनेन स्वकृतस्तोत्राश्रोतृत्वादिकं तस्य निवारयति । तस्य देहस्य मायाकल्पितत्वं परिहरति ॥ असत्याच्च विमुक्तायेति ॥ ‘सद्देहःसुखगन्धश्च ज्ञानभाःसत्पराक्रमः । ज्ञानज्ञानः सुखसुखः स विष्णुः परमोऽक्षरः । उपलब्धिमात्रधाम्ने ज्ञानविज्ञानमूर्तय’ इत्यादेः ॥ १४ ॥
नमो नमस्तेऽखिलकारणाय नारायणायार्तिविनाशनाय ।
सर्वागमाम्नायमहार्णवाय नमोऽपवर्गाय परायणाय ॥ १५ ॥
पदरत्नावली
अखिलकारणत्वादिविशिष्टत्वेनोक्तः क इत्याशङ्क्य श्रीनारायण एव नान्य इति तन्नामनिर्देशपूर्वकं पूर्वोक्तानुक्तविशेषणविशिष्टत्वेन नमति– सर्वेति ॥ सर्वैरागमैः पञ्चरात्रा-दिभिर् आम्नायैर्ऋगादिभिर्वेदैश्च समुद्राय ॥ १५ ॥
सत्यधर्मीया
इयता प्रबन्धेन प्रस्तुतं स्तुतं च वस्तु धर्मैरसाधारणैर्धारणावद्भिर्ज्ञातं सदपि न ज्ञातं साधरणैर्नेदं मुद्रणेन दर्शितमिति पामरामरप्रमितनाम्ना प्रकाश्य नमति ॥ नमो नमस्ते नारायणेति ॥ अखिलकारणाय समस्तकारणाय । अदृढकारणं चास्वतन्त्रकारणम् । तन्न भवतीति । अखिलकस्य समग्रसुखस्य स्वरूपसुखस्य वाऽरणाय शरणायेति । नारायणाय गतम् । आर्तिविनाशनाय पीडापीडकाय । रामादेतस्य च न विशेष इत्यप्याह ॥ आर्तिः पिनाककोटी । तस्य विनाशनस्तस्मै । आर्तिः पीडाधनुष्कोट््योरिति विश्व इति । हे नारायण ते नमः । अया अज्ञास्तेषामार्तिरपि येन स च । येति ज्ञानं समुद्दिष्टमिति तात्पर्यान्तरात् । विनाऽशनेनाशनं वा । अनश्नन्नन्योऽभिचाकशीतीत्यादेर्वर्तत इति स च तथा । तस्मै । एवमुपासने ममापि विनाऽशनं न तु तनुयाद्विनाशनमिति समयोचितं वच इति ज्ञेयम् । सर्वागमाम्नायमहार्णवाय । सर्वे चागमाः पौरुषेया आम्नाया वेदास्तेषाम् । महार्णवास्तन्नदीनां तदधिप इव तस्मा इत्यर्थः । नदीनां सागरो गतिः । ‘सर्वे वेदा यत्पदमामनन्ति’ इत्यादेः । सर्वागमानां पौरुषेयापौरुषेयाणामाम्नायः सन्ततिस्तस्य महार्णव इति वा । आगमः शास्त्र आम्नाये । ‘आम्नायः सम्प्रदाये स्याद्वेदाभ्यासे च सन्ततौ’ इति विश्वः । अपवर्गाय मोक्षरूपाय षड्वर्गरहिताय वा । परायणाय मुख्याश्रयाय ॥ १५ ॥
छलारी
पूर्वोक्तविशेषणविशिष्टः क इत्यतस्तं निर्दिशति ॥ नारायणायेति ॥ आर्तेर्दुःखस्य नाशाय । एवंभूते नारायणे किं प्रमाणमित्यत आह ॥ सर्वागमेति ॥ सर्वागमानां पञ्चरात्रादीनामाम्नायानां साङ्गवेदादीनां च महार्णवाय नदीनामिव पर्यवस्थानाय वेदादिमुख्य-तात्पर्याय विश्वासाय विषयायेत्यर्थः । अपवर्गाय मोक्षहेतवे परायणाय परेषां मुक्तानामाश्रयाय
॥ १५ ॥
लिङ्घेरी
इदानीं गजेन्द्रः स्वस्तुत्यं प्रसिद्धतन्नाम्ना नारायणेत्यनेन ख्यापयन्स्वोक्त वक्ष्यमाणगुणैस्तस्य विशिष्टत्वे वेदशास्त्रमेव प्रमाणमिति सूचयन्सर्वापत्परिहारकतया तं स्तुवन् भूयो भूयो नमति भक्त्युद्रेकेण ॥ नमो नमस्त इति ॥ अखिलकारणाय निःशेषचिद-चिज्जगत्कर्त्रे । स्वशरणागतार्तेर् विपदो विनाशनाय निःशेषपरिहारकाय । स्वोक्तवक्ष्यमाण-गुणविशिष्टत्वे प्रमाणतया पञ्चरात्रभारताद्यागमऋगादिवेदलक्षणसमुद्रवते । परायणाय मुक्ताश्रयाय । अपवर्गाय नित्यमुक्ताय । नारायणाय ते नम इति । ‘स इदं सर्वमसृजत’ । ‘अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा’ । ‘नारायणपरा वेदाः’ । ‘वेदैश्च सर्वैरहमेव वेद्यः’ । ‘वेदे रामायणे चैव पुराणे भारते तथा । आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते ॥’ ‘मुक्तोपसृप्य-व्यपदेशात्’ । ‘मुक्तानां परमा गतिः’ । ‘द्वावेतौ नित्यमुक्तौ प्रकृतिश्च परमश्च’ इत्यादेः ॥१५॥
गुणारणिच्छन्नचिदुष्मपाय
तत्क्षोभविस्फूर्जितमानसाय ।
युक्तात्मभिः स्वहृदये परिभाविताय
ज्ञानात्मने भगवते नम ईश्वराय ॥ १६ ॥
पदरत्नावली
सर्वप्रत्ययहेतव इत्येतद्विशेषणं विवृण्वन्नाह– गुणेति ॥ गुणारविच्छन्नं सत्वादिगुणलक्षणकाष्ठेन छन्नं चिदुष्म ज्ञानाख्यज्योतिर्यत् तत् पाति रक्षतीति सस् तस्मै । ‘बलमानन्द ओजश्च’ इत्यादेः । अन्यथा तद्रक्षणकथनं व्यर्थं स्यात् । शान्तायेत्यादिना यद् गुणलुब्धत्वं तद् विडम्बनमात्रमित्यभिप्रेत्याह– तत्क्षोभेति ॥ तत्क्षोभे गुणक्षोभेऽपि विस्फूर्जितं समुच्छ्वसितं मानसं यस्य स तथा तस्मै । गुणशक्त्युद्रेकावस्थायामपि मनोविकाररहितायेत्यर्थः । स्वतन्त्रोऽपि भक्तवश्यो भवतीत्याह– युक्तात्मभिरिति ॥ वशीकृतमनआदीन्द्रियैः पुरुषैः । ज्ञानघनायेत्यनेन ज्ञानं किं स्वरूपमुत भिन्नमुच्यत इति विकल्पावकाशो नास्तीत्याह– ज्ञानेति ॥ न केवलं ज्ञानं गुणोऽस्य, अन्येऽपि सन्तीत्याशयेनाह– भगवत इति ॥ गुणानां गुणिनो भेदे ‘विज्ञानमानन्दं ब्रह्म’ इति व्यवहारानुपपत्तिरित्याशङ्क्योभयविधव्यवहाराघटकत्व शक्तियोगोऽस्यास्तीत्याशयेनाह– ईश्वरायेति ॥ १६ ॥
सत्यधर्मीया
सर्वप्रत्ययकारणमयमिति सर्वप्रत्ययहेतव इत्यनेनोक्तम् । तर्ह्यन्यस्तदा-विकः किमित्यतो नेत्याह ॥ गुणारणीति ॥ गुणाः सत्त्वाद्या एवारणिर्निमर्थ्यदारु । तत्र छन्न-श्चिदाख्य ऊष्मो घर्मस्तेन तत्कारणं वह्निर्गृह्यते । यद्वा तपो वा ऊष्मा । पूर्ववदेव विग्रहः । त्विड्वाचकः स्त्रीलिङ्गः । ऊष्मा घर्मेऽश्रुणि तथा ज्येष्ठेऽप्युष्मा स्त्रियां त्विषि । तथानान्ते च ऊष्मातपनिदाघयोरिति वोपालितः । तं तद्वा पातीति स तथा तस्मै । ‘निर्मर्थ्यदारुणि त्वरणिर्द्वयोः’ इत्यमरः । स्वयं तदसम्बद्ध इत्याह ॥ तदिति ॥ तेषां गुणानाम् । तत्कारणी-भूतप्रकृतिरप्युपलक्षणीया । तदादिगुणानां क्षोभे कार्योन्मुखीभवनेऽपि विस्फूर्जितं स्फूर्जितं तद्विकारस्तद्विरुद्धं विस्फूर्जितम् । मानसं यस्य स इति । ‘प्रकृतिं पुरुषं चैव प्रविश्य पुरुषोत्तमः । क्षोभयामास भगवान्सृष्ट्यर्थं जगतो विभुः ॥’ इत्यादेस् तत्क्षोभे विस्फूर्जितं व्यावृत्तं मानसं यस्येति स तस्मै । टु ओ स्फूर्जावज्रनिर्घोष इति स्मरणं यद्यपि तथाऽप्यनेकार्था हि धातव इत्यादेरिदमाद्यर्थतेति ज्ञेयम् । अज्ञेयोऽपि दयापयोधिरिदंगुणलुब्धोऽस्मद्देव इत्यावेदयति ॥ युक्तात्मभिरिति ॥ युक्त आत्मा मनो येषां ते तथा तैः । परिभाविताय चिन्तिताय । परिभावितपदं तदुक्तीः परिभाव्येत्युदाहरणपूर्वकं विभावितार्थं प्रागस्माभिस्ततोऽनुसन्धेयम् । योगिनां हृदये हरिरित्युक्तेः स्वहृदय इत्यनेन योगित्वं तेषामभिप्रैति । युक्तात्मभिः परितो भाविताय वा । सर्वत्र विदितात्मनामित्यादेः । ‘परि स्यात्सर्वतो भावे व्याप्तौ’ इति विश्वः । नमो ज्ञानघनाय चेत्यनेन ज्ञानेन घन इति वा, ज्ञानं घनं यस्मिन्निति वा विग्रहे मन्दानां भेद-शङ्का स्यात्तां शमयितुमाह ॥ ज्ञानात्मन इति ॥ अनेन भगवत इत्यपि शोधितार्थम् । तर्हि गुणित्वादिव्यवहाराणां किं भैषिज्यमित्यत आह ॥ ईश्वरायेति ॥ तादृशवृत्तिर्नान्यत्र तत्रैश्वर्या-भावादिति भावः ॥ १६ ॥
छलारी
सत्त्वादिगुण एवारणिः काष्टविशेषस्तत्र छन्नं तिरोहितं चिदुष्मपाय ज्ञानाख्याग्निं पाति व्यञ्जयतीति गुणारणिच्छन्नचिदुष्मपस् तस्मै । तेषां गुणानां क्षोभोऽपि कार्योन्मुखत्वे विस्फूर्जितमेकप्रकारं मानसं यस्य तस्मै । सत्त्वादिगुणशक्त्युद्रेकावस्थायामपि मनोविकारशून्या-येत्यर्थः । युक्तात्मभिर्वशीकृतमनआदीन्द्रियैः पुरुषैः परिभावितायेश्वरायाचिन्त्यैश्वर्ययुक्ताय ॥१६॥
लिङ्घेरी
सर्वप्रत्ययहेतव इत्युक्तं स्पष्टयति ॥ गुणेति ॥ गुणारणिच्छन्नं सत्त्वादिगुण-रूपाग्निमथनकाष्ट आच्छादितं यच्चिदूष्म ज्ञानाख्यं तेजस्तत्पातीति गुणारणिच्छन्नचिदूष्मप-स्तस्मै । बलमानन्दओजश्चेत्यादेः । शब्दादिगुणारणिच्छन्नज्ञानदानादिना तद्रक्षकाय । तेषां सत्त्वादिगुणानां क्षोभे उद्रेकावस्थायामपि विस्फूर्जितं निर्विकारतयाऽतिप्रकाशमानं मानसं मनो यस्य तस्मै । युक्तात्मभिर्वैराग्यभक्त्याद्युपेतान्तःकरणैरधिकारिभिः स्वहृदये परिभाविताय ध्याताय । ज्ञानात्मने केवलज्ञानात्मकशरीरवते । ईश्वराय सर्वस्वामिने भगवते नारायणाय नमः । ज्ञानात्मन इत्यस्य ज्ञानस्वरूपायेत्यर्थो जीवसाधारण्येन परमात्मस्तुतावनुचितः ॥ १६ ॥
यं धर्मकामार्थविमुक्तकामा भजन्त इष्टां गतिमाप्नुवन्ति ।
किन्त्वाशिषो१ रात्यपि देहमव्ययं करोतु मेऽदभ्रदयो विमोक्षणम् ॥ १७ ॥
पदरत्नावली
मोक्षादिसर्वपुरुषार्थावाप्तिरप्यस्मादेव स्यात् तदर्थमन्यसेवा न कार्येत्या-शयेनाह– यमिति ॥ यं भजन्ते तत्प्रसादादिष्टां गतिमाप्नुवन्तीत्यन्वयः । नन्ववान्तरपुत्राद्याशा-प्राप्तयेऽन्यसेवाऽपेक्षितेति तत्राह– किञ्चेति ॥ पुत्राद्याशिषोऽपि प्राप्नुवन्तीति शेषः । मोक्षं ददातीति न निराकारलक्षणं किन्त्वनाद्यन्तकालीनं साकारं ददातीत्याह– रातीति ॥ राति ददाति । मनोमात्रास्वाशीष्वियमेवाशीः प्रार्थ्यत इत्याह– करोत्विति ॥ १७ ॥
सत्यधर्मीया
सर्वेऽपि पुरुषार्थाः सर्वेश्वरादेतस्मादेव भवन्तीति न भवन्ति तदितरे केऽपि नाकनिकेतनास्तदर्थमर्थ्या इत्याह ॥ यमिति ॥ धर्मकामार्थविमुक्तिकामाः पुरुषार्थ-चतुष्टयेच्छावन्तो यं भजन्तः सेवमाना इष्टां स्वस्वापेक्षितां गतिमाप्नुवन्ति । आशिष ऐहिकीः सम्पदः प्राप्नुवन्तीति किमाश्चर्यमिति भावः । तुशब्दो यथाऽधिकारं फललाभ इति विशेष-द्योतकः । साऽपि विमुक्तिर्निराकारब्रह्मभाव इति नेत्याह ॥ अव्ययम् । कदाऽपि विनाशरहितम् । देहम् । ज्ञानानन्दात्मकं राति वितरति । यद्वा । आशिषो राति । देहमिदानीन्तनम् । अव्ययं प्रस्तुतबाधाबाध्यत्वेन नाशशून्यं करोतु । अप्यनन्तरं विमोक्षणं च करोत्वित्यन्वयः । एतत्पक्षे विशब्द एव मुक्तेः साकारतां द्योतयति । अभद्रदयः पुरुकरुण इति सर्वत्र हेतूक्तिः । अदभ्रधिय इत्यप्यदभ्रधियः पठन्ति । तत्र अदभ्राऽनल्पा धीर्यस्य स इत्यर्थो ज्ञेयः ॥ १७ ॥
छलारी
भजतां सर्वपुरुषार्थावाप्तिरनेनैव स्यादिति भावेन स्वापेक्षितं प्रार्थयते ॥ यमिति ॥ यं भजन्तस्तत्प्रसादादिष्टां गतिं स्वापेक्षितं पुरुषार्थमाप्नुवन्ति । कामितमेव प्राप्नुवन्ति किमिति शङ्कते ॥ किं त्विति ॥ उत्तरमाह ॥ आशिष इति ॥ प्रार्थितान्पुत्राद्यवान्तर-पुरुषार्थानपि प्राप्नुवन्तीत्यन्वयः । मोक्षमपि साकारमेव ददाति न निराकारमित्याशयेनाह ॥ रातीति ॥ अव्ययं नाशरहितं देहमपि मुक्तिं च राति ददाति । यः सोऽदभ्रदयो बहुदयो हरिर्मे विमोक्षणमेव केवलं करोतु नाधिकं प्रार्थय इति ॥ १७ ॥
लिङ्घेरी
धर्मकामार्थविमुक्तिकामा धर्मार्थकामविमोक्षाख्यप्रधानचतुर्विधपुरुषार्था कांक्षिणोऽ-प्यधिकारिणो यं नारायणं भजन्ते तेन नारायणेन स्वेष्टां स्वापेक्षितां गतिमाप्नुवन्ति । यश्च स्वभक्ताभिलषितं पुत्रैश्वर्याद्याशिषोऽपि राति ददाति । अव्ययं ध्वंसाप्रतियोगिनं ह्रासादिदोषवर्जितं च । देहं ज्ञानानन्दात्मकं तदावरणनिवर्तनादिना राति ददाति । स उक्तगुणविशिष्टो भगवा-न्नारायणो मे हृदयग्रन्थेर्लिंगशरीरादिरूपान्मोक्षणं करोतु । अनेन मम स्तुतिना ग्राहान्मोक्षमात्रेच्छा न किन्तु परममोक्षेच्छाऽपीति सूचितम् ॥ १७ ॥
एकान्तिनो यस्य न कञ्चनार्थं वाञ्छन्ति ये(ते) वै भगवत्प्रधानाः ।
अत्यद्भुतं यच्चरितं सुमङ्गलं गायन्त आनन्दसमुद्रमग्नाः ॥ १८ ॥
पदरत्नावली
आशीःप्रार्थनमल्पभक्तलक्षणं यत एकान्तभक्तैस्तन्न क्रियत इत्याह– एकान्तिन इति ॥ ये एकान्तिनस्ते यस्य सकाशात् कञ्चन पदार्थं न वाच्छन्ति तं परेशम् ईड इत्यन्वय एकान्तिन इत्यस्य विवरणं– भगवत्प्रधाना इति ॥ अनाकाङ्क्षणे निमित्तमाह– यच्चरितमिति ॥ १८ ॥
सत्यधर्मीया
‘एकान्तानां न कस्यचिदर्थे नारायणो देवः सर्वमन्यत्तदर्थकम्’ इति श्रुत्यर्थमनुसन्दधदभिधत्ते ॥ एकान्तिन इति ॥ स्वयमेकान्तिलोकान्तर्निविष्टोऽपि पारोक्ष्येण निर्दिशन् स्वस्यापक्वभक्तित्वमभिप्रैति । न त्वनैकान्तित्वम् । पार्षदतां गमितेनेति वक्ष्यमाण-त्वात् । केचित्त्वेकान्तिन इत्यच्छिन्नभक्ता इत्यभ्युपगम्य परशुक्लत्रयमिति वर्णयन्ति । तत्पक्षेऽयं नैकान्तभक्त इति परोक्षव्यवहारः सम्भवति सुलग्न इति ज्ञेयम् । यस्य सकाशाद्ये कञ्चन कमप्यर्थं न वाञ्छन्ति । नार्थयन्ति । वै यतः । ते भगवत्प्रधाना इति एकान्तिनः । यच्चरितम् एकान्ति-लोकव्यापारं गायन्त इतरेऽपि आनन्दसमुद्रमग्ना भवन्तीति भगवानेव प्रधानो मुख्येष्टो येषां ते तथा । अनेनार्थे नारायणो देव इत्यंशो विवृतः । कुतो नाकाङ्क्षन्ति मोक्षादिकमित्यत आह ॥ यच्चरितम् । भगवच्चरितं गायन्त आनन्दसमुद्रमग्नास्तस्मान्न वाञ्छन्तीति । यस्य सकाशाद् ये कञ्चनार्थं न वाञ्छन्ति वै यतोऽत्यद्भुतं सुमङ्गलं ते भगवत्प्रधाना इत्येकान्तिनो यच्चरित-मेकान्तिलोकव्यापारं गायन्त इतरेऽप्यानन्दसमुद्रमग्ना भवन्तीति तच्चरितमत्यद्भुतमिति भिन्न-वाक्यतया योजयन्ति । तेषां भगवत्प्रधानपदेनैव गानानन्दसमुद्रमग्नतादेः सर्वस्य लाभभीति-र्मूलम् । तमक्षरमित्यस्य व्यवहितान्वयदोषश्च । प्राचीनविवरणे चोक्तविवरणरूपता चेति किञ्चित्सङ्कोचश्चेति ज्ञेयम् ॥ १८ ॥
छलारी
अल्पभक्तत्वादहं पुरुषार्थं प्रार्थये । एकान्तभक्तास्तु न पुरुषार्थं प्रार्थयन्त इत्याह ॥ एकान्तिन इति ॥ एकान्तिनो ये ते यस्य सकाशात्कञ्चनार्थं न वाञ्छन्ति । तं हरिमीड इत्युत्तरेणान्वयः । एकान्तिन इत्यस्य विवरणम् ॥ भगवत्प्रधाना इति ॥ भगवानेव प्रधान इष्टत्वेन प्रार्थ्यो येषां ते तथोक्ताः । अनाकांक्षणे निमित्तमाह ॥ अत्यद्भुतमित्यादिना
॥ १८ ॥
लिङ्घेरी
ये एकान्तिनो भगवत्प्रपन्ना नारायणशरणागतास्ते यस्य भगवतो नारायणात् कञ्चन कमप्यर्थं न वाञ्छन्ति । एकान्तानां न कस्यचिदर्थे नारायणो देव इत्यादेः । तदाकाङ्क्षा-भावे निमित्तमाह । अत्यद्भुतं सुमङ्गलं यच्चरितं गायन्तः सन्त आनन्दमग्ना यत इति । नाहं तथैकान्तिकेष्वेकः । येन कस्यापि पुरुषार्थस्यानाकाङ्क्षी स्याम् । किं चैवमापद्गतोऽप्यहं हृदय-ग्रन्थिमोक्षणमेवाशासे नास्य विपदो मोक्षणं प्राधान्यादिति स्वस्य मध्यमभक्तत्वं प्रकटित-मित्यवगन्तव्यम् । एवंविधोऽहं तमनन्तमीड इत्युत्तरेणान्वयः ॥ १८ ॥
तमक्षरं ब्रह्म परं परेशमव्यक्तमाध्यात्मिकयोगगम्यम् ।
अतीन्द्रियं सूक्ष्ममिवातिदूरमनन्तमाद्यं परिपूर्णमीडे ॥ १९ ॥
पदरत्नावली
‘अक्षरात् सम्भवतीह विश्वं’ ‘एतस्य वा अक्षरस्य’ ‘ब्रह्मविदाप्नोति परम्’ ‘परात् परम्’ ‘परमः परार्घ्यः’ ‘अव्यक्तमचलं शान्तम्’ ‘अध्यात्मयोगेन सुनिष्ठितेन’ ‘मत्वा देवं शोकमोहौ जहाति’ ‘विमे कर्णा पतयतः सूक्ष्मात् सूक्ष्मतरं प्रपद्ये’ ‘तद् दूरे तद्वन्तिके’ इत्याद्युपनिषत्प्रतिपाद्यं मया स्तूयत इति द्योतनायाक्षरादिशब्दप्रयोग इति अनेन न पुनरुक्तिः पदानामिति ज्ञायते । न क्षरतीत्यक्षरम् । जीवव्यावृत्त्यर्थं परं ब्रह्मेति । ब्रह्मणि मुक्तव्यावृत्यर्थं परेशमिति । आराधनेऽप्यनुग्रहमन्तरेण न व्यज्यत इत्यव्यक्तम् । प्रसादे सति ज्ञायत इत्यध्यात्मयोगगम्यमिति । वागादीन्द्रियमतीत्य वर्तमानत्वादतीन्द्रियम्, ‘यतो वाचो निवर्तन्त’ इति श्रुतेः । यथा सूक्ष्मं तथा महान्तमिति सूचनाय इवशब्दः । ‘अणोरणीयान्’ इति श्रुतेर् आनन्त्यघटनाय– परिपूर्णमिति ॥ १९ ॥
सत्यधर्मीया
उपनिषदुक्तगुणकत्वेन स्तवने स हरिः स्वस्योपनिषीदतीति मन्वानस्तथा स्तौति ॥ तमिति ॥ ‘ॐमित्येकाक्षरं ब्रह्म । अक्षरात्सम्भवतीह विश्वम् । ब्रह्मविदाप्नोति परम् । अव्यक्तमचलम् । अध्यात्मयोगेन सुनिष्टितेन । नेन्द्रियाणि नानुमानम् । वेदा ह्येवैनम् । वि मे कर्णा पतयतो विचक्षुः । सूक्ष्मात्सूक्ष्मतरं प्रपद्ये । तद्दूरे तद्वन्तिके । पूर्णमदः पूर्णम्’ इत्यादि श्रुतिप्रतीकानि पदानीति न परस्परकृत्यान्वेषणेन मनः खेदनीयमिति ज्ञेयम् । न क्षरतीत्यक्षरं ब्रह्म गुणपूर्णं परं लोकविलक्षणं परेशं तत्त्वेन सम्मतब्रह्माद्युत्तमम् । ब्रह्मपरम्परायाः । ‘ब्रह्माणि जीवाः सर्वेऽपि परब्रह्माणि मुक्तिगा’ इत्युक्तेर्ब्रह्मणां जीवानां परम्परायास्तत्सहितरमाया वा ईशः स्वामी शं सुखं यस्मात्स तं वा । अव्यक्तम् । अन्तरेण स्वप्रसादम् । व्यक्तं विशेषेण संसारसम्बद्धं तन्न भवतीति वा तं तथोक्तम् । नक्तोषा सेत्यृग्भाष्ये, नक्ता स्यान्नाक्तो यस्मात्स सर्वत इति तट्टीकायां चाञ्जतेः क्त इति । आध्यात्मिको योगोऽधिक आत्मा नारायण-स्तस्यायमाध्यात्मिकः । स चासौ योग उपायस्तेन गम्यो हि प्राप्यः । योगः प्राणायामादिस्तेनेति वा । अतीन्द्रियमितरेन्द्रियाण्यतिक्रम्य वर्तमानम् । अतीन्द्रियं तत्तदिन्द्रियव्यापारमतिक्रम्य ‘अपाणिपादो जवनो गृहीता पश्यत्यचक्षुः स शृृणोत्यकर्णम्’ इत्यादेः सर्वेन्द्रियैः कृतसर्व-व्यापृतित्वात्तथोच्यत इति तम् । स्तुत्येन्द्रियमुत्कृष्टेन्द्रियं वा । ‘अतिशब्दः प्रशंसायामुत्कर्षे लम्भनेऽपि च’ इति विश्वः । अतिदूरम् । अतिक्रान्तो दूरमित्यन्तिके च विद्यमानमिति तद्वन्तिक इत्यर्थस्य च ग्रहणे समग्रश्रुत्यानुपूर्वी भवत्यनुकृतेति ज्ञेयम् । अनन्तं नाशरहितम् । अनितरप्रेरणया चेष्टमान इत्यनन् । तमबद्धं वा । आद्यमिदमग्र इत्यादेर् आदौ जगतो भवम् । सर्वोपजीव्यं वा । ‘आद्यात्त्रीभोग्यत्त्वादाद्य इत्युक्त’ इत्याद्यैतरेयोपनिषद्भाष्ये उपजीव्यत्व-मेवाद्यत्वमिति भाष्योक्तेश्च । परिपूर्णं विश्वव्यापिनम् । पूर्णं पुरि वैकुण्ठे भवो णो निवृत्तिः पुराणस्तत्सम्बन्धिसुखम् । परि योग्यतानुसारेण व्याप्तः पूर्णो येनेति तं वा । ‘परि स्याद्व्याप्तौ निवसनेऽपि च’ इति विश्वः । ईडे स्तौमि । वृत्त्यन्तरे वाक्यान्तरं मूलमिति नोदाहृतं श्रुतिवैसंवाद्यमिति ज्ञेयम् ॥ १९ ॥
छलारी
उपनिषद्गुणवत्तया हरिं स्तौति ॥ तमक्षरमित्यादिना ॥ कथम्भूतम् । अक्षरं नाशरहितम् । ‘अक्षरात्सम्भवतीह विश्वम्’ इति श्रुतेः । जीवस्यापि नाशरहितत्वात्तद्व्यावृत्त्यर्थं परं ब्रह्मेति । परब्रह्मशब्दवाच्यमित्यर्थः । ‘ब्रह्मविदाप्नोति परम्’ इति श्रुतेः । एतादृशं ब्रह्म कुतो न दृश्यत इत्यत आह ॥ अव्यक्तमिति ॥ ‘अव्यक्तमचलं शान्तम्’ इति श्रुतेः । नन्व-व्यक्तस्य ज्ञानं कथं स्यादिति तत्राह ॥ आध्यात्मिकेति ॥ अधिकश्चासावात्माचाध्यात्मा हरिस्तत्सम्बन्ध्यात्मिको तेन योगेन श्रवणादिसाधनेन तज्जन्यप्रसादेनेत्यर्थः । गम्यं ज्ञेयमध्यात्म-योगाधिगमेन देवमत्येतीति श्रुतेः । अतीन्द्रियं साकल्येन सर्वेन्द्रियागोचरम् । ‘न चक्षुर्गच्छति न वाग्गच्छति न मन’ इति श्रुतेः । सूक्ष्ममणुपरिमाणम् । ‘सूक्ष्मात्सूक्ष्मतरं प्रपद्यत’ इति श्रुतेः । महत्परिमाणमप्यस्तीति सूचनायेवशब्दः । ‘महतोऽपि महीयान्’ इति श्रुतेः । अतिदूरमभक्ता-नामप्राप्यम् । ‘तद्दूरे तद्वदन्तिक’ इति श्रुतेः । अनन्तं देशतः कालतो वस्तुतः परिच्छेद-शून्यम् । ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति श्रुतेः । आद्यम् आदिकालीनम् । ‘तं च ब्रह्म’ इति श्रुतेः । ‘आत्मा वा इदमेक एवाग्र आसीत्’ इति श्रुतेः । परिपूर्णं सर्वरूपेषु सर्वगुणपूर्णम् । ‘पूर्णमदः पूर्णमिदम्’ इति श्रुतेः ॥ १९ ॥
लिङ्घेरी
अहं तं पूर्वोक्तगुणविशिष्टमक्षरं चतुर्विधनाशशून्यम् । परेशं चतुर्मुखादिमुक्त-स्वामिनम् । अव्यक्तं पुरुषप्रयत्नेन स्वप्रसादमन्तरेण व्यक्तीकर्तुमशक्यम् । आध्यात्मिकयोगगम्यं मनःप्रणिधानभक्त्याद्युपायप्राप्यम् । चक्षुरादीन्द्रियाविषयम् । सूक्ष्ममिव स्थितम् । स्थूलत्वाद् अनियतपरिमाणम् । दूरमिवान्तिकेऽपि सत्वात् । व्याप्तत्वात् । आद्यम् आदिकाले स्थितम् । परिपूर्णं देशकालगुणैः पूर्णमनन्तं नारायणाख्यं परं ब्रह्म ईडे स्तौमि । ‘अनित्यत्वं देहहानिर्दुःख-प्राप्तिरपूर्णता । नाशश्चतुर्विधः प्रोक्तस्तदभावो हरेः सदा ॥’ ‘तदव्यक्तमाह हि’ । ‘न चक्षुषा पश्यति कश्चनैनम्’ । ‘वि मे कर्णा पतयतः’ । ‘अणोरणीयान्महतो महीयान्’ । ‘तद्दूरे तद्वन्तिके’ । ‘यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा’ । ‘नारायण एवेदमग्र आसीत्’ । ‘मय्यनन्तगुणे’ । ‘अनन्त इत्यहं पार्थ’ । ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यादेः । अत्र स्तोत्रेऽधिकगुणविधानायोक्तगुणस्यापि पुनरुक्तौ न वैय्यर्थ्यम् । ‘अक्षरात्संभवतीह विश्वम्’ । ‘ब्रह्मविदाप्नोति परम्’ । ‘परात्परं पुरिशयम्’ । ‘अव्यक्तमचलं शान्तम्’ । ‘अध्यात्मयोगाधि-गमेन धीरः । मत्वा देवं हर्षशोकं जहाति । सूक्ष्मात्सूक्ष्मतरम्’ इत्याद्युपनिषत्प्रतिपाद्यत्वं विष्णोरेवेति प्रकटितम् ॥ १९ ॥
यस्य ब्रह्मादयो देवा वेदा लोकाश्चरचराः ।
नामरूपविभेदेन जल्प्या च कलया कृताः ॥ २० ॥
पदरत्नावली
ब्रह्मादिस्थावरान्तं जगद् यस्य भिन्नांशो न तु स्वरूपांश इति ज्ञानं मुक्तिसाधनं नान्यदित्याशयेनाह– यस्येति ॥ यस्य कलया जल्प्या वचसा । वाचेति पाठेऽप्ययमेवार्थः । ‘गीर्वाग्वाणी भारती च ब्राह्मीला गौः सरस्वती’ इत्यभिधानाम् ॥ २० ॥
सत्यधर्मीया
परेशत्वासिद्धिं परिहर्तुमितरानवकाशं लिङ्गं विशेषकेनाह ॥ यस्येति ॥ यस्य कलया भिन्नांशेन जल्प्या च वाचा ब्रह्मादयो देवा वेदा लोकाश्चेति चराचराः । चेतनाचेतनात्मकं जगदिति यावत् । चशब्देनोपादानप्रकृत्युपादानम् । नामरूपविभेदेन नाम्नां विध्यादीनां रूपाणां चतुर्मुखत्वाद्याकाराणां विभेदो विलक्षणता तेन कृता उत्पादिताः । स जयतादित्यन्वयः । अंशो नाना, स्मरन्ति चेति सूत्रभाष्ये स्वांशश्चाथो विभिन्नांश इति द्वेधांऽश इष्यते । ‘विभिन्नांशोऽल्पशक्तिः स्यात्’ इत्युक्तेरिममेवांशं शंसयन्व्यासो विभेदेनेत्यूच इति ज्ञेयम् । आभास एव चेति सूत्रभाष्ये, वाराहे च ‘द्विरूपावंशकौ तस्य परमस्य हरेर्विभोः । प्रतिबिंबांशकश्चाथ स्वरूपांशक एव च । प्रतिबिम्बांशका जीवाः प्रादुर्भावाः परे स्मृताः । प्रतिबिम्बेष्वल्पसाम्यम्’ इत्युक्तेः । नाम च रूपं च तयोर्विभेदश्च स इति इनोऽयमेतत्पतिरिति च जल्पिर्व्यवहृतिस्तयेति वा । नामरूपादीनां कार्याणां ग्रहणे प्रकृतिरुपादानभूता गृहीत-प्रायेत्यभिप्रायेणानुक्तिवदनुपलक्षणीयता चशब्देनेति वा बोध्यम् । जल्पेर्भावे इकारप्रत्ययः । ब्रह्मादयः सर्वेऽपि न समर्था इत्यभिन्नांशा नेत्यप्याह ॥ चराचरा इति ॥ चरन्ति सामान्यतो जानन्त्याज्ञया सञ्चरन्तीति ते तथा वा । चरिचलीति वार्तिकाद् द्वित्वमागागमश्च नात्रेति ज्ञेयम् । वाण्येत्यादि वाणीं विना जल्प्येति जल्पन्, नामरूपविभेदेन नाम्नां रूपाणां च विना साक्षान्नारायणांशेन भेदेन । उत्तरश्लोकादाकृष्टं यत इत्येतत् तसेः सार्वविभक्तित्वेन येति भूतं सदन्वेति । या जल्प्या भिन्नेति व्यवहार्या । तया कलया कृता इति भावमाविरकार्षीदृषिऋषभ इति मन्तव्यम् । यस्यादय आ समीचीना दया यस्य स आदयो ब्रह्मा । आदय इति बहुवचनान्तं देवपदेनाप्यन्वेति । भाविकार्यभावकदयावन्तो देवाश्च ये तैर्नामरूपविभेदेन वेदा-श्चराचरा लोका ज्ञान्यज्ञानिनो जना जल्प्या कलया च । ‘दत्तं दूर्वाससं सोममात्मेश-ब्रह्मसम्भवान्’ इत्युक्तेर्यथायथमावेशाभिमानसाक्षादंशेन सोमदूर्वासोऽर्जुनादिविभेदेन कृतः स जयतादिति वा । ब्रह्मादयो देवा वेदा लोकाश्चराचरा नामरूपविभेदेन । कलया साक्षादंशेन । कृता आविर्भूता मत्स्यादिवदिति वादा जल्प्या । अन्यथाज्ञानहेतुवाचा । दुःशास्त्रेणेति यावत् । कृता इत्यप्यर्थः । यथोक्तम् । जल्प्या वृत्तमिति व्याख्यावसरे द्वितीयतात्पर्ये, ‘अन्यथा-ज्ञानहेतुर्या वाक् सा जल्पिः प्रकीर्तिता’ इति तन्त्रमालायामिति । न च प्राचीनविवरणं तर्हि कथमिति वाच्यम् । यत्रेतरोऽर्थो न सम्भवति तत्र तदर्थतेत्येवंपरत्वात्तत्तात्पर्यस्य । अन्यथा या याऽन्यथाज्ञानहेतुर्वाक् सा सेत्यवक्षदिति ज्ञेयम् ॥ २० ॥
छलारी
इदानीं जगत्सर्जकत्वं वर्णयति ॥ यस्येति ॥ यस्य नारायणस्य कलया पुरुष-रूपेण जल्प्या वचसा । चशब्दोऽनुक्रमसमुच्चायकः । प्रकृत्या ब्रह्मादयो नामभेदेन भिन्नभिन्न-नामवत्तया रूपभेदेन भिन्नभिन्नाकारतया कृता उत्पन्नाः । हरिर्जडप्रकृतिमुपादानीकृत्य ब्रह्मादि-स्थावरान्तं जगच्चतुर्मुखपञ्चमुखत्वादिभिन्नभिन्नाकारं सृष्ट्वा वागिन्द्रियेण विरिञ्चरुद्रेत्यादि नाम चकारेति भावः । यच्छब्दस्य स जयतादिति तृतीयेनान्वयः ॥ २० ॥
लिङ्घेरी
यस्य नारायणस्य ब्रह्मादयो देवाश्चराचराः स्थावरजंगमरूपा लोकाश्च तथा वेदा अपि कलयांऽशेन जल्प्या वाचा च नामरूपविभेदेन शब्दा अर्था इत्येवं भेदेन कृतास्तमीड इति पूर्वेणान्वयः ॥ अत्रायं विवेकः ॥ भगवदवतारपुरुषादिरूपैर् ब्रह्मादय उत्पादिताः । वेदास्तु नारायणस्य वचनरूपा इति । यस्य वाक्तन्तिः । ‘नारायणाद्ब्रह्मा जायत’ इत्यादेः ॥ २० ॥
यथाऽर्चिषोऽग्नेः सवितुर्गभस्तयो निर्यान्ति संयान्त्यसकृत् स्वरोचिषः ।
तथा यतोऽयं गुणसम्प्रवाहो बुद्धिर्मनः खानि शरीरसर्गः ॥ २१ ॥
पदरत्नावली
गुणसम्प्रवाह इत्यस्य विवरणं– बुद्धिरित्यादि ॥ अनेन जगत्प्रवाहस्य नियत्वं ज्ञापितमिति ज्ञातव्यम् ॥ २१ ॥
सत्यधर्मीया
तदेव देवमाहात्म्यं निदर्शनेन विशदयति ॥ यथेति ॥ अग्नेरर्चिषो ज्वालाः । अर्चतेरचिशुचिहुसृपिच्छादिछर्दिभ्य इसिः । ‘ज्वालकीलावर्चिर्हेतिः’ इत्यमरः । अर्चिष इति सवितृपदेनाप्यन्वेति । न च वाच्यं वह्नेर्द्वयोर्ज्वालकीलावित्याद्यमरोक्तेः कथं तन्मात्रसम्भव-दन्वयकस्यार्चिःपदस्य सवितृपदेनाप्यन्वयः सम्भावित इति । वह्नेरिति प्रायो वादः । हेतिः स्यादायुधज्वालासूर्यतेजः सयोषितीति दर्शनादिति भानुनोक्तेस्तत्पर्यायशब्दानामप्येतद्वाचक ताऽभ्युपगमे तद्बाधावैधुर्यात् । ‘अर्चिर्मयूखशिखयोः’ इति विश्वोऽपि । सवितुः सकाशाद्गभस्तयः किरणा अर्चिषो ज्वालाश्च निर्यान्ति संयान्ति । ‘किरणोऽस्त्री मयूखांशुगभस्तिघृणी’ इत्यमरः । गम्यतेऽन्यत्रापीति डः गो ज्ञेयवर्गस्तं बभस्ति दीपयतीति गभस्तिः । भस भर्त्सनदीप्त्योः । जुहोत्यादेः क्तिच् । स्वरोचिष इति द्वयोरग्निसूर्ययोर्विशेषणमिति केचित् । तत्र स्वेन ‘परः स्व’ इत्यादेर्हरिणा रोचिर्यस्येति विग्रहो ज्ञेयः । भीषोदेतीत्यादेर् न स्वरोचिष्टं तदादेः । स्वरोचिषः स्वप्रकाशाद्यत इति भगवतोऽन्वयोऽपि सम्भवी । बहिरायान्त्यन्तः सयान्ति निविशन्ते यथा तथा । स्वरोचिष इति गुणकार्याज्ञानादिसम्बन्धव्युदासार्थम् । यतो हरेर्गुणसम्प्रवाहोऽसकृत्सन्ततं निर्याति कार्योन्मुखी भवति संयान्ति स्वकारणप्रवेशद्वाराऽन्तर्निलीयते । तमेव प्रकटयति ॥ बुद्धिरित्यादिना ॥ खानीन्द्रियाणि । मनो बुद्धिरिति वृत्तिभेदादुक्तिः । शरीरसर्गः । शरीरपदं कार्यमात्रोपलक्षकम् । तत्सृष्टिरसकृदिति प्रवाहाविहतिमाचष्टे ॥ २१ ॥
छलारी
सृष्टिं विवृण्वन् भगवतः सकाशाज्जगतो लयप्रकारमपि दृष्टान्तमुखेनाह ॥ यथेति ॥ यथाऽग्नेः सकाशादर्चिषो ज्वाला यथा वा सवितुर्गभस्तयः किरणा असकृत्पुनः पुनर्निर्यांत्युद्गच्छन्ति संयान्ति लीयन्ते च । स्वरोचिषः स्वेन रोचिः प्रकाशो यस्य तस्मात् । इदं चाग्निसूर्यविशेषणम् । तद्वद् यतो यस्माद्धरेर्गुणसंप्रवाहोऽसकृद्भवति लीयते च । स जयतादि-त्युत्तरेणान्वयः । गुणसंप्रवाहः क इत्यत आह ॥ बुद्धिरित्यादिना ॥ खानीन्द्रियाणि । शरीरसर्गः कार्यदेहप्रवाहश्च । असकृदित्युक्त्या जगत्प्रवाहस्य नित्यत्वं ज्ञापितं भवति ॥ २१ ॥
लिङ्घेरी
यथाऽग्नेः सकाशादर्चिषो ज्वालादिरूपसूक्ष्मभागाः । सवितुः सूर्याद्गभस्तयः किरणा निर्यान्ति निर्गच्छन्ति संयान्त्यागच्छन्ति तथा स्वस्माद्रोचिषः स्वप्रकाशाद्धरेर्बुद्धिर्मनः खानीन्द्रियाणि शरीरसर्गः शरीरोत्पादनम् इत्येवंरूपोऽयं गुणसंप्रवाहः सत्त्वादिगुणजसृष्ट्यादि-प्रवाहोऽसकृन्मुहुर्मुहुर्निर्याति संयाति । स देवादिषु नियमेनैको भवतीत्युत्तरेण तमीड इति पूर्वेण वाऽन्वयः ॥ २१ ॥
स वै न देवासुरमर्त्यतिर्यङ् न स्त्री न षण्ढो न पुमान् न जन्तुः ।
नायं गुणः कर्म न सन् न चासन् निषेधशेषो जयतादशेषः ॥ २२ ॥
पदरत्नावली
अधुना श्रीनारायणसद्भावे प्रमाणदर्शनपूर्वकं स्तौति- स इति ॥ यस्माद् गुणसम्प्रवाहः स देवासुरमर्त्यतिर्यग्जातिर्न वै यस्मादित्यन्वयः । यतो बहुव्यक्त्यभावाद्विशेषतो निषेधति– न स्त्रीति ॥ नियतस्त्रियाद्याकाराभावान्न जन्तुः कृमिलक्षणः । अमूर्ताकारोऽपि नास्तीत्याह– नायमिति ॥ देवादिशरीरकारणपृथिव्याद्यन्यतमोऽपि न स्यादित्याह– न सन्निति ॥ इति मूर्तामूर्तनिषेधेन शेषो यस्य स निषेधशेषस् ततो विलक्षणत्वेन परिशेष-प्रमाणसिद्धः । स जयतान्ममानर्थभूतसंसारमभिभूय वर्ततामित्यन्वयः । तत्स्वरूपमाह– अशेष इति ॥ परिपूर्णत्वेन सिद्धः । निषेधशिष्टश्चेदुच्छिष्टवत् त्यागयोग्य इत्यतो वाह– अशेष इति ॥ परिपूर्णत्वेन सिद्धः ‘स एष आत्मा नेति नेति’ इत्यादिश्रुतेः ॥ २२ ॥
सत्यधर्मीया
एतद्रूप इति चेतसा न निश्चेतुं योग्य इति निरूपयन् स्तौति ॥ स वा इति ॥ यो ब्रह्मादिकर्ता स देव एव न । असुरस्तु सर्वथा न षंढोऽप्यसुरवत् । भगवान्न नपुंसक इत्यादेः । मर्त्य एव न । तिर्यक् पश्वादिकम् । न स्त्री । न पुमान् । जन्तुर्न । चेतनः । चेतनो जन्मी जन्त्वित्यमरः । जायते । कमिगमिजनीति तुन् । अयं गुणो रूपादिः । कर्म परिस्पन्दः । सत्पृथिव्यादित्रिकमसद्वाव्याकाशद्विकम् । ‘यदन्यद्वायोश्चान्तरिक्षाच्चैतत्सद्वायुरन्तरिक्षं चासत्’ इति श्रुतेः । तर्हि मन्ये स शून्यप्राय इत्यतो न देवासुर इत्यादेरभिप्रायमाह ॥ निषेधशेष इति ॥ निषेधेन शिष्यत इति निषेधशेषः । सर्वविलक्षण इत्यर्थः । ‘स एष आत्मा नेति नेति’ इत्यादिश्रुतेः । शेषोऽप्रधान इति किं नेत्याह ॥ अशेष इति ॥ स्वप्रधान इत्यर्थः । एतादृशो जयतात् । सोऽपि न नारायणान्य इत्यप्याह ॥ नद इति ॥ नदे समुद्रे वासुर्वसतीति वासुः । अमर्त्यतिर्यगिति छेदः । वसतेरौणादिक उण् बाहुलिको वा । ‘सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः । ततोऽसौ वासुदेवेति विद्वद्भिः परिगीयत’॥ इति विष्णुपुराणात् । ‘वासनाद्वासुदेवोऽसि वासितं ते जगत्त्रयम् । सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते’॥ इत्यादेः । एतत्पक्षे अमर्त्यपदेन पूर्वापूर्वदेवग्रहणेनान्यूनता ज्ञेया । असुरत्वस्याप्रसञ्जजनीय-कोटितयाऽनुक्तिर्वेति ज्ञेयम् । समुद्रवासी श्रीनारायण इत्यर्थः । नैक एव समुद्रवासी किन्तु लक्ष्मीसहित इत्यप्याह ॥ नदेवासुरिति पदमेकम् । नदे समुद्रे या रमया सह वसतीति नदेवा-सुरिति । नो नियामकश्चासौ दे दाता चासौ वा चासौ सुश्चेति वा । वासुदेवशब्दनिर्णयप्रस्तावे यथोक्तं कर्मनिर्णयभाष्यटीकयोः । ‘वानात्सूतेर्देवनाद्वासुदेवो वासाद्युतेश् छादनात् क्रीडया च । बलादत्तृत्वाद्वा ततो वर्तनाद्वा तं वासुदेवं प्रवदन्ति वेदाः’॥ इति सौकरायणश्रुतिः । वानादिति । वानाज्ज्ञानात् । वातेर्विच् । सूतेरुत्पादनात् । सूतेर्डुः । देवनात्क्रीडनात् । दीव्यतेरच् । वाश्चासौ सुश्चासौ देवश्चेति विग्रहः । वासात्सर्वत्र वासकर्तृत्वात्सर्ववासाधि-करण-त्वाद्वा । वस निवास इत्यस्मादुण् । द्युतेर्देवः । वासुश्चासौ देवश्चेति द्वितीयोऽर्थः । छादना-त्सर्वव्यापनात् । अविद्यादिनाऽऽवरणाद्वा । वस आच्छादनेऽस्मादुण् । क्रीडया देवः पूर्ववद्विग्रह इति तृतीयः । बलाद्वो ऽसुत्वात्प्राणरूपत्वादसुः । दातृतो दातृत्वाद् दे । ददातेरेकारः । कृन्मेजन्त इत्यव्ययम् । वर्तनात्सर्वत्र वः । वृतु वर्तनेऽतो डः । वश्चासावसुश्चासौ देचासौ वश्चेति चतुर्थ इति ॥ २२ ॥
छलारी
सर्ववैलक्षण्यं प्रतिपादयन्स्वाभीष्टमाशास्ते ॥ स इति ॥ यो देवादिजगत्कर्ता सः । अत एव देवासुरमर्त्यतिर्यक् नैको देवादीनां मध्ये कोऽपि न भवति । पश्वादि न । स्त्री न । नियतस्त्र्याकाराभावात् । न षण्ढो नपुंसको न भवति । सर्वथा तदाकाराभावात् । पुमान्न । नियतेन पुल्लिङ्गाभावात् । किं बहुना न जन्तुः कृम्यादिप्राणिमात्रं न भवति । अयं गुणो रूपाद्याकारोऽपि न । कर्म परिस्पन्दादिरूपो न । स तु सच्छदवाच्यं पृथिव्यप्तेजाख्यभूतत्रयं न । असच्छब्दवाच्यवाय्वाकाशरूपभूतद्वयं च न भवति । ‘यदन्यद्वायोश्चान्तरिक्षाच्चैतत्सत्’ इति श्रुतेः । किं त्वेवं सर्वस्य निषेधे सर्वविलक्षणत्वेन विशिष्यते ॥ अवशिष्यत इति ॥ निषेध-शेषः । सर्वविलक्षण इत्यर्थः । ‘स एष आत्मा नेति’ इत्यादि श्रुतेः । शेषत्वेनाप्राधान्यशङ्कां वारयति ॥ अशेष इति ॥ शेषो न भवतीत्यशेषः स्वप्रधान इत्यर्थः । एतादृशो हरिर्जयतात् । मद्विमोक्षणायाविर्भवतु ॥ २२ ॥
लिङ्घेरी
यस्मान्नारायणाद्गुणसंप्रवाहः स देवासुरमर्त्यतिर्यग्जातिर्न । स्त्रीपुरुषषंढजातिर्न । जन्तुः कृमिविशेषजातिर्न । गुणः सत्त्वादिगुणलक्षणो न । कर्म च पुण्यपापादिलक्षणं न । सत् ‘यदन्यद्वायोश्चान्तरिक्षाच्चैतत्सत्’ इति माध्यन्दिनश्रुत्युक्तवाव्याकाशातिरिक्तपृथिव्यप्तेजोरूपं च न । असद्वाव्यन्तरिक्षरूपं च न । चशब्दादत्रानुक्तवस्त्वन्तररूपं च नेत्यर्थः । एवं निषेधे सति शेषे । अविशिष्टो यः पूर्वोक्तदेवादिविलक्षणः स जयतात् । ममानिष्टं परिहृत्योत्कृष्टो वर्तताम् । वा इत्यनेन ‘स एष आत्मा नेति नेति’ इत्यादिश्रुतिं सूचयति । अत्रायं विवेकः । असुरमर्त्यषंढजन्तु गुणकर्मसदसदात्मता सर्वथा नैव । नियतस्त्रीत्वं तिर्यक्त्वं च नास्ति । नारायणीमत्स्यरूपादेः कादाचित्कत्वात् । देवतात्वं नास्तीत्येतन्मनुष्याणामेव सतां कर्मादिना प्राप्यदेवत्ववत् । असुरजातेरेव राहोः शिरसोऽमृतसंबन्धेन नवग्रहेषु देवत्ववच्च नास्तीत्यभिप्रायेण न तु सर्वथा स्वरूपेण देवत्वं नास्तीति । ‘विष्णुमुखा वै देवाः’ । ‘सुरऋषभाय’ इत्यादि-श्रुतिस्मृतिविरोधात् । नैवं हरेरसुरत्वादिकं क्वचिच्छ्रुत्यादावावेद्यते । पुंस्त्वं नेत्येतदपि स्वरूपेण पुरुषस्यैव स्वदुष्कर्मणा प्राप्यस्त्रीत्वं षंढत्वं समानाधिकरणपुंस्त्वं नेतीति । अन्यथा ‘सहस्रशीर्षः पुरुषः’ ‘उत्तमः पुरुषस्त्वन्य’ इत्यादिश्रुतिस्मृतिविरोधात् ॥ २२ ॥
जिजीविषे नाहमिहामुया किमन्तर्बहिश्चावृतयेभयोन्या ।
इच्छामि कालेन न यस्य विप्लवस्तस्यात्मलोकावरणस्य मोक्षणम् ॥ २३ ॥
पदरत्नावली
ज्ञानसाधनमन्तरेणानेन शरीरेण चिरं रक्षितेन किं प्रयोजनमित्याशयेनाह– जिजीविष इति ॥ अहं शरीरेऽन्तर्बहिश्चावृतयामुयेभयोन्या प्रकृत्या किं न किमपि इति यस्मात् तस्मादिह तन्निर्भिते शरीरे चिरं न जिजीविषे न जीवितुमिच्छामीत्यन्वयः । स्वारम्भककर्मक्षये स्वयं नाशात् किमर्थं न जिजीविष इत्यर्थ्यत इत्यतो लिङ्गशरीरनाश एव प्रार्थ्यत इत्याह– इच्छामीति ॥ तस्यात्मलोकावरणस्य स्वज्ञानावरकस्य लिङ्गशरीरस्य मोक्षणं नाशमिच्छा-मीत्यन्वयः । अस्यापि कालेन नाशः किं न स्यात् ? अत्राह– कालेनेति ॥ विप्लवो नाशो ऽनेनात्मज्ञानमन्तरेण लिङ्गशरीरस्य नाशो नास्ति, सति तस्मिन् तत् स्यादित्युक्तं भवति । ‘तस्मिन् दृष्टे परावरे’ इति श्रुतेः ॥ २३ ॥
सत्यधर्मीया
स्वाशयं प्रकटयति ॥ जिजीविष इति ॥ अहमिह अस्यामवस्थायाम् अमुया इभयोन्या गजजन्मना किं किं प्रयोजनमिति । न जिजीविषे जीवितुं नेच्छामि । कुतः । प्रयोजनं नेत्यत आह ॥ अन्तर्बहिश्चावृतयेति ॥ तिर्यग्जन्मत्वाज्ज्ञानहीनेत्यावृता तयेति । स्वाहन्ताशान्त्यै वा जातिस्वरूपकीर्तनाय वेति ज्ञेयम् । तर्हीदं तुच्छमिति नेच्छसि चेत्किमिच्छ-सीत्यत आह ॥ इच्छामीति ॥ कालेन केवलेन । यस्य लिङ्गाङ्गस्य । विप्लवो नाशो न तस्य आत्मलोक आत्मस्वरूपभूतो लोको ज्ञानं तस्यावरणमावृतिर्येन तस्य । मोक्षणं भङ्गमिच्छा-मीत्यन्वयः । तर्हि केन कालेनैव न चेत्तस्य विलय इत्यतो लपति तदपि ॥ कालेनेति ॥ ज्ञानेन । कल ज्ञान इति स्मरणात् । आत्मलोक स्वप्रकाश आत्मनि लोका यस्येति वा । नयस्य नीतेः प्लवोऽतिक्रमः स नेति विप्लवोऽनतिलङ्घनम् । आवरणस्य पुनरिदं देहीति कामनावरणं तस्य मोक्षणं त्यागस्तं कालं ज्ञानमिच्छतीति वा । प्लवतेः । प्लुङ् गतौ पचाद्यच् । प्लवः प्लक्षे प्लुतौ कपौ क्रमान्निम्नमहीभागेविक्रमे जलवायस इति हैमः । हे इभ या रमया सह भातीति तत्सम्बुद्धिः । भातेरन्येष्वपीति डः । यद्वा भृञो डः । र्इं लक्ष्मीं बिभर्तीत्युरसि स तत्सम्बोधनम् । अन्तरावृतयाऽप्रकाशितयाऽमुया योन्या मकररक्षणोद्यमेन बहिरहं यस्यैतच्छरीरस्य विप्लवो नाशस्तं नेच्छामि । किन्तु इह अस्यामवस्थायाम् । जिजीविषे जीवितुमिच्छामि । काले दुर्मरणमात्रत्याजनेन क्लृप्ते नेच्छामीति नेत्यन्वयो वा । अत आत्मलोक । रणस्याच्छादित-जलजन्तुकृतस्य युद्धस्य मोक्षणं चेच्छामि । अतोऽन्तर्बहिश्चावेति वा । अनन्तरमनन्तैतदिच्छा-मीत्यप्याह ॥ कालेन त्वयाऽऽवरणस्य । कामनाया मोक्षणं त्यागम् । निष्कामुकमिति यावत् । इच्छामीति वा । ‘योनिर्भगे रणोद्योग’ इति विश्वः । उक्षणममुया मेतीच्छामीति वा । जिजीविष इत्यात्मनेपदता छान्दसी । ज्ञाश्रुस्मृदृगन्यतमत्वाभावात् । यद्वा । अहमित्यस्येच्छामीत्यने-नान्वयः । जिजीविषा इनेति छेदः । हे इन । यस्य मम जीवनेच्छा जिजीविषा नेत्यर्थः । ‘भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावर ॥’ इत्यादेर्ज्ञानप्रार्थनावश्यकीति ज्ञेयम् । इच्छामि । कालेन । नयसि । अविप्लवः । तस्य । आत्मलः । अकौ । अरणस्य । मोक्षणमिति पदानि । तस्यागतस्य । ‘तकारश्चागते चोर’ इति विश्वः । अरणस्य शरणरूपस्य । गतम् । सकाशात् । मोक्षणं मया उक्षणं ज्ञानामृतसेक-मिच्छामि । कालेन मा नयसि चेत् । आत्मल आत्मानं स्वस्वभावं लात्यादत्त इत्यात्मलः । ‘आत्मा यत्ने धृतौ जीवे स्वभाव’ इति विश्वः । ला दाने । आदान इत्यपि पठन्तीत्युक्तेः । आविर्भूतस्वभावः सन् । अकौ । नकुरकुः । पृथिवीभिन्नायामुपरितन्याम् । वैकुण्ठनगर्यामिति यावत् । अविप्लवः प्रच्युतिरहितः स्यामितीच्छामि । तत्र जिजीविष इति वा ॥ २३ ॥
छलारी
स्वापेक्षितं मोक्षं प्रकटयति ॥ जिजीविष इति ॥ अहमिह शरीरे गृहा-द्विमोक्षणेन न जिजीविषे । जीवितुं नेच्छामि । कुतः । अन्तर्बहिश्चावृतया अविवेकव्याप्तं यत्तिर्यग्योनित्वेन अज्ञानहेतुनाऽमुयाऽनयेभयोन्या गजशरीरेण किं प्रयोजनं न किमपि । इति यत अत इत्यर्थः । तर्हि किमिच्छसीत्यत आह ॥ इच्छामीति ॥ आत्मलोकावरणस्यात्मने स्वात्मनः परमात्मनो लोकस्य ज्ञानस्यावरकस्य तस्य लिङ्गशरीरस्य मोक्षणमिच्छामि । अस्यापि कालेन नाशः स्यात्किं तन्मोक्षप्रार्थनेनेत्यत आह ॥ कालेनेति ॥ यस्य हरेरपरोक्षज्ञानमन्तरेण विप्लवो नाशो नास्ति तस्येत्यर्थः । ‘भिद्यते हृदयग्रन्थिस्तस्मिन्दृष्टे परावर’ इति श्रुतेः ॥२३॥
लिङ्घेरी
अहं त्वां स्तोत्रेणैतद्ग्राहाद्विमोक्षणेनैतन्मम शरीररक्षणं नाशासे । किन्तु मोक्षमिति गजेन्द्रः स्वाभिप्रायं प्रकटयति । जिजीविष इति ॥ अहं न जिजीविषे जीवितुमिच्छामि । इहास्मिन्देशे काले संसारेऽन्तर्बहिश्चावृतयाऽमुया तयेभयोन्या गजशरीरेण किं प्रयोजनं साध्यमस्ति । किन्तु कालेन कालवेगेन यस्य लोकावरणस्य मत्स्वरूपप्रकाशावरकस्य लिङ्गशरीरस्य विप्लवो मत्परित्यागेनान्यत्र गमनं नास्ति । तस्य तस्मान्मोक्षणमिच्छामि । अनेन करोतु मे हृदयग्रन्थिमोक्षणमिति प्रार्थनमनुचितम् । हृदयग्रन्थेःकालान्तरेण स्वत एव नाशे परित्यागे वा तन्मोक्षसिद्धेरिति कुचोद्यं निराकृतम् ॥ २३ ॥
सोऽहं विश्वसृजं विश्वमविश्वं विश्ववेदसम् ।
विश्वात्मानमजं ब्रह्म प्रणतोऽस्मि परं पदम् ॥ २४ ॥
पदरत्नावली
ननु गुणोपसंहारलक्षणोपासना वेदान्तज्ञानेन सम्भवेत् तिर्यग्योनित्वेन तदनधिकारादात्मज्ञानासम्भवाल्लिङ्गशरीरनाशे आशामात्रं तव स्यादित्याशङ्क्यास्मज्जातिविहित-प्रणामेनापि प्रसन्नेश्वरप्रसादादुत्पन्नज्ञानेन तत् स्यादित्यतस्तमाचरति सोऽहमिति ॥ योऽहं लिङ्गशरीरमोक्षमाकाङ्क्षे सोऽहं परं पदं प्राप्तव्योत्तमं प्रणतोऽस्मीत्यन्वयः । सर्वस्मादस्योत्तमत्वं कुत इत्यतस्तदुपपादकविशेषणैः सिद्धमित्याह– विश्वसृजमित्यादिना ॥ विश्वसृजत्वाद्विश्वम् । तर्हि मृद्घटवत् तदात्मकत्वमापन्नमिति । नेत्याह– अविश्वमिति ॥ जगतो विलक्षणम् । स्वसृष्ट-पदार्थप्रविष्टत्वाद् विश्वं बहिष्ठत्वादविश्वमिति वा । दुर्भगशरीरस्थत्वेऽपि ज्ञानलेपो नेत्याह– विश्ववेदसमिति ॥ विश्वं वेत्तीति, सर्वज्ञमित्यर्थः । सर्वज्ञत्वं चास्यैव सुलभमित्याह– विश्वेति ॥ विश्वं व्याप्य वर्तमानम् । विश्वमादत्त इति वा, विश्वस्य स्वामीति वा विश्वात्मानम् । जगत्स्रष्टुरस्य जगदाकारेण परिणामः किम् ? नेत्याह– अजमिति ॥ (अजशब्देन)अहङ्कारात्मा रुद्रोप्युच्यत इति नेत्याह– ब्रह्मेति ॥ वेदो नेत्याह– परमिति ॥ मुक्तो नेत्याह– पदमिति
॥ २४ ॥
सत्यधर्मीया
प्राग्जन्मन्यनुशिक्षितमिति प्रागभिहितत्वाद्वेदान्तवेदितभगवद्गुणोपास नाधि-कारानुगुणवर्णनं विधाय स्वयं गजजन्मेति गजमुखं विश्वनामानं नमति ॥ सोऽहमिति ॥ तद्रूपैतद्रूपोभयानुकूल्यमुपासनायाः स्फोरयितुं पूर्तावहमित्येतावता सोऽहमिति वचनमिति ज्ञेयम् । स इन्द्रद्युम्नरूप्यहमिदानीं गजरूपी चेति सोऽहम् । विश्वात्मानं जगत्स्वामिनं विश्वादानादिकर्तारं वा । अजमुत्पत्तिरहितम् । परं पदं मुख्यप्राप्यम् । ब्रह्म नारायणाख्यं प्रणतोऽस्मीत्यन्वयः । नासिद्धं परत्वमिति तं तथा विशिनष्टि ॥ विश्वसृजमित्यादिना ॥ जगत्सर्जकम् । नोपादान-तयेति वक्ति ॥ अविश्वमिति ॥ विश्वविलक्षणम् । जगदन्तर्निवेशेऽपि न तस्य तत्कृतदौर्भाग्यं ज्ञानलोपादिप्रयुक्तमिति वक्ति ॥ विश्ववेदसमिति ॥ विश्वं वेत्तीति विश्ववेदाः सर्वज्ञस्तम् । विदेरसुन् । विश्वं तन्नामानम् । सप्ताङ्ग एकोनविंशतिमुखः । मध्यमं तु गजाकारमित्यादि-माण्डूकोपनिषद्भाष्योक्तेः । यद्वा विश्वात्मानं जगति तत्तदाकारेणान्तर्यामितया स्थितम् । पुरुष-स्यानुविधां विहितास्तेऽन्नादा अन्नमितरे पशवस्तस्मात्त इतरान्पशूनधीव चरन्तीत्यैतरेयोप-निषद्भाष्ये ‘पुरुषस्य हरेर्ये तु सदाकारेण संस्थिताः । देवगन्धर्व इत्याद्यास्तेषु सङ्कर्षणो हरिः । प्रद्युम्नश्च स्थितो नित्यं पुरुषाकृतिरेव तु । तौ भोक्तारौ च भोज्यानां भोजकावखिलस्य च । नारायणानिरुद्धौ तु तथाऽन्यपशुषु स्थितौ । वृषभाश्वादिरूपेण तृप्तिदावखिलस्य च । वाहनेत्याद्युक्तेः ॥ २४ ॥
छलारी
तिर्यग्योनित्वेन साधनान्तरानुष्ठानासंभवान्मोक्षार्थं भगवत्प्रणाममाचरति ॥ सोऽहमिति ॥ सः मुमुक्षुरहमुत्तमं पद्यत इति पदं गम्यं ब्रह्म नारायणं प्रणतोऽस्मीत्यन्वयः । तस्य परमगम्यत्वमुपपादयति ॥ विश्वसृजमित्यादिना ॥ विश्वसृजं जगत्स्रष्टारं विशति प्रविश-तीति विश्वनियमनार्थं स्वसृष्टजगत्प्रविष्टमित्यर्थः । ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ इति श्रुतेः । बहिष्ठत्वादविश्वम् । विश्वस्माद्विलक्षणमिति श्रुतेः । गात्रेण शरीरादिजगत्प्रवेशेऽपि ज्ञानलोपो नास्तीत्याह ॥ विश्ववेदसमिति ॥ विश्ववेदास्तं सर्वज्ञमित्यर्थः । विश्वात्मानं विश्वस्य स्वामिनमजमुत्पत्तिशून्यम् ॥ २४ ॥
लिङ्घेरी
सोऽहमुक्ताभिप्रायवानहं विश्वसृजं समस्तजगदुत्पादकम् । अविश्वं जगद्भिन्नम् । विश्ववेदसं सर्वजगज्ज्ञानिनम् । विश्वात्मानं सर्वजगत्स्वामिनम् । अजमुत्पत्तिरहितम् । विश्वस्रष्टृत्वादिना विश्वमेवेदं पुरुष इत्युच्यमानम् । विश्वं पूर्णं च । परं पदं मुख्यप्राप्यम् । ब्रह्म नारायणं प्रणतोऽस्मि ॥ २४ ॥
योगरन्धितकर्माणो हृदि योगविभाविते ।
योगिनो यं प्रपश्यन्ति योगीशं तं नतोऽस्म्यहम् ॥ २५ ॥
पदरत्नावली
ज्ञानिप्रत्यक्षमीश्वरसद्भावे प्रमाणमित्याशयेन नमति- योगेति ॥ योगेन रन्धितानि दग्धानि कर्माणि येषां ते तथा ॥ २५ ॥
सत्यधर्मीया
लुलोकिरे लोका लोके केऽपि न तमिति त्वया नतः कथमित्यतः कथयति ॥ योगेति ॥ योगेन समाध्यादिना लब्धेन ज्ञानोपायेन रंधितानि दग्धानि कर्माणि येषां ते तथा । योगेन नैष्कर्मेण । विभाविते परिशोधिते । हृदि मनसि । योगिनो यं प्रपश्यन्ति प्रकर्षेण पश्यन्ति । अनेन तत्साक्षिणमेतत्सद्भावे मानीकरोति । स च योगो वा ते च योगिनो वा तदायत्ता इति दिदर्शयिषुराह ॥ योगीशमिति ॥ रधहिंसासंराध्योरिति रधे रधादिभ्यश्च । वलाद्यार्धधातुकस्य वेट् स्यादित्युक्तेरिडागमे रधिजभोरचीति नुमि यस्य विभाषेति नेट््यलिटि रधेरिति चेण् नुमि्नषेधाच्छान्दसाविण्नुमौ ण्यन्तान्निष्ठायां सेटीति णिलोपे स्थानिवद्भावेन नुमुप-पत्तिर्वा । योगेन रन्धितानि ध्वस्तानि कर्माणि प्रतिबन्धकदुष्कर्माणि येषाम् । योगेन रन्धितानि संसिद्धानि मोक्षसाधकानि ज्ञानद्वारा कर्माणि येषां त इति वा ॥ २५ ॥
छलारी
स तादृशेश्वरसद्भावे ज्ञानिप्रत्यक्षं प्रमाणमित्याशयेन तं नमति ॥ योग-रन्धितेति ॥ योगेन ज्ञानेन रन्धितानि दग्धानि कर्माणि येषां ते योगरन्धितकर्माणो योगिनो ज्ञानिनो योगेन निष्कामकर्मणा विभाविते शुद्धे हृदि यं पश्यन्ति । तं योगानां मोक्षोपायानामीशं नियामकं हरिमहं नतोऽस्मि ॥ २५ ॥
लिङ्घेरी
योगिनो हरौ मनःस्थापनाद्युपायवन्तो योगेन हरिध्यानादिरूपेण रन्धितानि दग्धानि कर्माणि सञ्चितरूपाणि येषां ते तथा सन्तो योगविभाविते ध्यानादिना प्रकाशिते हृदि स्वहृदये यं नारायणं प्रपश्यन्ति साक्षात्कुर्वन्ति । मनसेति शेषः । अहं योगिनामीशं स्वामिनं तं नतोऽस्मि । ‘हृदा मनीषा मनसाभिक्लृप्तो य एवं विदुरमृतास्ते भवन्ति’ इत्यादिश्रुतेः ॥ २५ ॥
नमो नमस्तुभ्यमसह्यवेगशक्तित्रयायाखिलधीगुणाय ।
प्रपन्नपालाय दुरन्तशक्तये बुद्धीन्द्रियाणामनवाप्यवर्त्मने ॥ २६ ॥
पदरत्नावली
ननु तत्तच्छक्तिमतस्तत्तत्कर्म दृष्टं हरेस्तु सृष्ट्यादिकर्म कथमित्याशङ्क्य तत्तच्छक्तिविशिष्टत्वेन तं नमति– नम इति ॥ असह्यो वेगो यासां तास् तथा तादृशीनां शक्तीनाम् उत्पत्तिस्थितिसंहारविषयाणाम् उत्साहमन्त्रप्रभुविषयाणां वा त्रयं यस्य स तथा तस्मै । उत्पत्यादिशक्तयश्च ज्ञानवत एव युक्ता इत्याह– अखिलेति ॥ न चैताः शक्तयो देवदत्तशक्तिवत् परिमिता इत्याशयवानाह– दुरन्तेति ॥ परिच्छिन्नत्वमनुमानेन साध्यत इति चेत् तत्राह– बुद्धीति ॥ हेतोराश्रयासिद्धत्वेनानुमानानुदयात् ॥ २६ ॥
सत्यधर्मीया
तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तिप्रबोधकः । सर्वोपेता चेत्याद्युक्तेः प्रकृतस्य कार्यस्य शक्तिनिवर्त्यत्वेन तद्वत्त्वेन तं नमति ॥ नमो नम इति ॥ असह्यो वेगो यासां सृष्टिस्थितिसंहृतिहेतूनामुत्साहमन्त्रप्रभुविषयाणां वा शक्तीनां त्रयम् । यस्य स तस्मै । असह्यवेग असदसह्यजव । शक्तित्रयाय । ‘शक्यत्वाच्छक्तयो भार्या’ इत्यादेः शक्तीनां श्रीभू-दुर्गाणां त्रयं यस्य तस्मै । अभेदेऽपि मुनित्रयमित्यत्रेव विशेषबलेन वाऽवयवावयविभावविवक्षया यच् सम्भवति । ताश्च ज्ञाननिदानका इति तत्सर्वस्ववानयमित्याह । अखिलाः कालाद्यप्रतिहता धीगुणा धियो गुणा विशेषा यस्य स तस्मै । अखिलानां धियो गुणा वा । धियश्च गुणा इतरे यस्मदिति तस्मै वा । दुरन्ता अपरिमिताः शक्तयो यस्य स तस्मै । दुरन्तेषु दुष्टस्वरूपेषु शक्तिः प्रहरणविशेषो बलं वा तेषामप्यस्यैवेति वा प्रभावो यस्य तस्मै वा । बुद्धीन्द्रियाणामनुग्रहं विनाऽनवाप्यमप्राप्यं वर्त्म यस्य तस्मै । स्वोपयुक्तगुणकतया तमाह ॥ प्रपन्नपालायेति ॥ तर्हि सर्वथाऽनवाप्यश्चेत्त्वदर्थना व्यर्थेत्यतोऽप्याह । बुद्धीन्द्रियाणां बुद्धेरिन्द्रियाणि प्रकाशविशेषाः । ‘इन्द्रियं च हृषीकं स्यादिन्द्रियं तेजसि स्मृतम्’ इति विश्वः । तेषां सकाशात् । अनेन मुख्यप्राणेन वाप्यमवाप्यं वर्त्म यस्येति वा । अनव आद्यो हिरण्यगर्भस्तेनाप्यं वर्त्म यस्येति वा । वाप्यां वापौ वा वर्त्म उपरि परिसरणसरणिः । न यस्य स वाप्यवर्त्मा कृकलासरूपी नृगः । तस्यानो बहिर्गमनचेष्टा येन तस्मै । नञन्वयप्रकारस्तु प्राचीनस्कन्धविवृतावुक्तोऽनु-सन्धेयः । टु वप्बीजतन्तुसन्तानेऽस्माद्वसिवपियजिराजीति इञ् । कृदिकारादिति ङीष् । वाप्यां वापिरपि स्मृतेति द्विरूपकोशः । वापी तु दीर्घिकेत्यमरः । तिर्यक्ष्वप्यस्मत्पतेर्दया दृष्टचरीति मम न याञ्चाप्रच्युतिः स्यादिति तथा स्तुत्वा ननामेति भावः ॥ २६ ॥
छलारी
आदराद्गुणाद्विशिष्टत्वेन पुनर्नमति ॥ नम इति ॥ असह्यो वेगो यासां तास्तथाऽप्रतिहतमित्यर्थः । तादृशानां शक्तीनां प्रभुमन्त्रोत्सहविषयाणां त्रयं यस्य तथा तस्मै । अखिलधीगुणायाखिलाऽप्रतिहता धीर्गुणो यस्य स तथा तस्मै । प्रपन्नानां शरणागतानां पालाय दुरन्ताऽपरिमिता शक्तिरघटितघटकशक्तिर्यस्य तस्मै । बुद्धीन्द्रियाणामनवाप्यवर्त्मने बुद्धेर्मनस इन्द्रियाणां चानवाप्यमविषयं वर्त्म स्वरूपं यस्य तस्मै ॥ २६ ॥
लिङ्घेरी
असह्या वेगा यासां ताः शक्तयः शक्तिविषयत्वाच्छक्तिशब्दवाच्याः सत्त्वा-दयस्तासां त्रितयवते उत्पत्त्यादित्रितयशक्तिमते उत्साहमन्त्रप्रभुशक्तित्रयवते । अखिलगुणाय सर्वविषयकज्ञानलक्षणगुणवते । दुरन्तशक्तयेऽपरिच्छिन्नशक्तिमते । सर्वेन्द्रियाणां सर्वजीवचक्षुरा-द्येकादशेन्द्रियाणामनवाप्यवर्त्मनेऽप्राप्यस्वविषयकज्ञानमार्गाय नारायणाय तुभ्यं नमो नमः ॥२६॥
नायं वेद स्वमात्मानं यच्छक्त्याऽहं धिया हतः ।
तं दुरत्ययमाहात्म्यं भगवन्तं नतो१ऽस्म्यहम् ॥ २७ ॥
पदरत्नावली
हरेः स्तुतिफलं दर्शयति– नायमिति ॥ यः स्वमात्मानं न वेद न जानाति, पूर्वमिति शेषः ॥ २७ ॥
सत्यधर्मीया
अयमहम् । यच्छक्त्या यस्य मायया । धिया वा हतो रहितः सन् । स्वं मामात्मानं परमात्मानं न वेद । प्रागिति शेषः । दध्याविमां बुद्धिमथाभ्यपद्यतेत्युक्तेर्यच्छक्त्यैवं-विधयाऽहतः सहितः । इदानीमिति शेषः । अहं दुरत्ययं दुरतिक्रमं माहात्म्यं यस्य स तं नतोऽस्मि । अयं जनो यच्छक्त्याऽहंधिया । अहमित्यव्ययम् । अहंताधिया हतः सन् स्वमात्मानं च न वेद तं भगवन्तं नतोऽस्मीति वा । भगवन्तमितोऽस्मीति पाठे इतः प्राप्त आश्रित इति यावदित्यर्थः ॥ २७ ॥
छलारी
ननु तर्हि मोक्षप्रदं भगवन्तं सर्वेऽपि कुतो न भजन्तीत्यतस्तत्र कारणं वदन् स्तुत्या परममेव हेतुं वदन् शरणं प्रार्थयते ॥ नायमिति ॥ अयं जनो यच्छक्त्या यस्य शक्त्या मोहकशक्त्याऽहन्धियाऽहंबुद्ध्या स्वस्वातन्त्र्याश्रयेणेत्यर्थः । हतो बद्धः सन् स्वं स्वात्मान-मात्मानं परमात्मानं च न वेद न जानाति । स्वस्वातन्त्र्याश्रयेण स्वस्वातिरिक्तपरमात्म-ज्ञानाभावान्न भजन्त इति भावः । तं दुरत्ययमाहात्म्यं दुर्जयमाहात्म्यमनन्तमाहात्म्यमित्यर्थः । हरिमहमित आश्रितोऽस्मि । अनन्तमाहात्म्यस्य हरेः साकल्येन मम स्तुतौ सामर्थ्याभावादुपरम इति भावः ॥ २७ ॥
लिङ्घेरी
अयं जीवो यच्छक्त्या यस्य हरेर्मोहकशक्त्याऽहं धियाऽहमेव स्वतन्त्र ईश्वर इत्यादि बुध्या हतस्तिरस्कृतज्ञानः सन् स्वं स्वरूपमात्मानं परमात्मानं च तत्त्वतो न वेद । एवं स्वस्वरूपविधिकत्वादिना दुरत्ययमनतिलङ्घ्यं माहात्म्यं यस्य तं भगवन्तं नारायणमहं नतोऽस्मि
॥ २७ ॥
श्रीशुक उवाच–
एवं गजेन्द्रमुपवर्णितनिर्विशेषं
ब्रह्मादयो विविधलिङ्गभिदाभिमानाः ।
नैते यदोपससृपुर्निखिलात्मकत्वात्
तत्राखिलामरवरो हरिराविरासीत् ॥ २८ ॥
पदरत्नावली
अनन्तरं किमभूद् अत्राह– एवमिति ॥ उपवर्णितं निर्विशेषं समं ब्रह्म येन स तथा तम् । पृथिव्यादिविलक्षणं ब्रह्म येन स तथा तमिति वा । अवतारमूलरूपयोर्विशेषो नास्तीति वा निर्विशेषम्, तदिति वा । ‘पूर्णमदः पूर्णमिदम्’ इति श्रुतेः । विविधानि लिङ्गानि पद्मवज्रादीनि वा हंसवृषभादीनि वा । एवं भिदया भेदेन जातोऽभिमानोऽहं पद्मपाणिरहं वज्रपाणिरित्यादिलक्षणो येषां तथा, स्रष्टुत्वसंहर्तृत्वादिलक्षणो वा, ये ब्रह्मादय एते यदा गजेन्द्रं नोपससृपुस् तदा सकलदेवनाथो हरिर् यत्र गजेन्द्रस्तत्राविरासीत् । तत्स्थ एव तत्र प्रत्यक्षीभूतो न तु दूरादागत्य । कुत इति तत्राह– निखिलेति ॥ सर्वव्यापकत्वात् । यद्वा ब्रह्मादीनामनागमे निमित्तमाह– निखिलेति ॥ न हि गुरोराज्ञामन्तरेण गच्छन्ति सन्तः । हरेः सर्वस्वामित्वाद्धरेः पूर्वमागमने प्रयोजनासिद्धेरित्यर्थः ॥ २८ ॥
सत्यधर्मीया
एवं स्तुतः प्रस्तुतविषये किं कृतवान्कृतज्ञो हरिरित्यत आह ॥ एवमिति ॥ उपवर्णितनिर्विशेषमुपवर्णितो निर्विशेषः स्वगतभेदशून्यः स्वयं येन सः । समो निर्विशेषः । पूर्णमदः पूर्णमिदमित्यादेर्मूलरूपलीलारूपविशेषविकलम् । यदा विविधलिङ्ग-भिदाभिमानाः । विविधानि लिङ्गानि स्वस्वचिन्हानि हंसासनवृषभवाहनत्वादीनि तेषां या भिदा वैलक्षण्यं तेन जातो योऽभिमानोऽहन्ता येषां ते तथा ये ब्रह्मादय एते गजेन्द्रं नोपससृ-पुरस्मदाह्वयादि गृहीत्वाऽनाह्वानादिति नागतास्तदा हरिस्तापसनामा यत्र गजेन्द्रस्तत्राविरासी-त्प्रादुरभूत् । क उक्तवानेवं गजस्तुष्टाव त्वामित्यत आह ॥ निखिलात्मकत्वादिति ॥ सर्वान्तर्यामित्वादित्यर्थः । स्वयमेव विदित्वाऽऽविरभूदित्यर्थः । सर्वस्वामित्वाद्वा । अखिला-मरवर इति तदितरानागमने प्रादुर्भावे सर्वान्तर्यामित्वादौ च सम्भावककथनमिति ज्ञेयम् । यदा तदा च हेत्वर्थ इत्यादेर्यदा यस्मात् । ब्रह्मादयो विविधलिङ्गभिदाभिमाना विना भगवता विधा विधिर्नियतिर्येषां लिङ्गविकरणानि तेषां या भिदा इदानीमिदं कार्यं मयेदं तेन कारयामीति विशेषस्तस्या अभिमानम् अभीत्थमेवेत्यन्यान्प्नति कथनम् । अभीत्थंभूतकथन इति विश्वः । मानं ज्ञानं च मर्यादा वा येषाम् । मानं ज्ञानं लयश्चैव मर्यादा चापि कथ्यत इति वचनात् । केवलं भगवत्कार्यप्रवृत्तौ वित्ततच्चित्ता वयमागस्कृतः स्याम पश्याम उत्सवं तदनुपायिनः संत इति तन्नोपससृपुस्तदा हरिराविरासीदिति वा । आन्तरालिकसङ्कल्पितैतत्कं करिणमित्यपीरयति ॥ उपवर्णितनिर्विशेषमिति ॥ उपवर्णिता नमामि म इत्यादिना । सम्पदादित्वात् क्किभ्भावे । टापं चैव हलन्तानां विट् विशा । जलान्तःप्रवेशस्तस्यामीषेच्छा निर्गता विशेषा येन तम् । ईषा लाङ्गलदण्डे स्यादिच्छायामिति वोपलितः । उपवर्णितं वर्णनं यस्य स उपवर्णितः । निर्गता विशेषा यस्मात्स चासौ स चेति वा तम् ॥ २८ ॥
छलारी
अनन्तरं किमभूत् ॥ उपवर्णितमिति ॥ एवं पूर्वोक्तप्रकारेणोपवर्णितं स्तुतं निर्विशेषं ब्रह्म येन स तथा तम् । उच्चजातौ दया नीचजातौ तदभाव इत्यादिवैषम्यरहित-मित्यर्थः । अवतारमूलरूपयोर्विशेषशून्यमिति वा निर्विशेषमित्यर्थः । ‘पूर्णमदः पूर्णमिदम्’ इति श्रुतेः । गजेन्द्रं प्रति ब्रह्मादय एते देवा यदा नोपससृपुर्नागतास्तदाऽखिलामरवरः सकलदेव-नायको हरिर्मनुत्वेनावतीर्णस्तापसनामा हरिनामको नारायणो यत्र गजेन्द्रोऽभूत्तत्राविरासीत् । ‘हरिस्तापसनामाऽसौ जातस्तपसि वै मनुः । गजेन्द्रं मोचयामास ससर्ज च जगत्प्रभुः’ ॥ इति वचनात् । ब्रह्मादीनामनागमने हेतुमाह ॥ विविधेति ॥ विविधानि लिङ्गानि हंसवृषभादीनि चिन्हानि तेषां भिदा भेदेन जातोऽभिमानो येषां तेऽभिमानिनोऽहं हंसवाहनोऽहं वृषभवाहन इत्यादिलक्षणो येषां ते तथा । हंसवाहनत्वाद्यसाधारणस्वस्वनाम्नाऽऽदृतत्वान्नागता इति भावः । हरिस्तु निखिलात्मकत्वात्सर्वस्वामित्वात्पूज्यते । गजेन्द्रस्तुतिज्ञानमसन्निहितस्य हरेः कथमित्यतोऽपीदमेव पदं निखिलात्मकत्वात्सर्वान्तर्यामित्वादिति ॥ २८ ॥
लिङ्घेरी
एवं गजेन्द्रेण स्तुतौ समापितायां देवेषु को देवस्तदा तद्विमोचनाय प्रवृत्तः । हरिश्चेत्प्रवृत्त इत्युच्यते तर्हि तन्नोपपद्यते । गजेन्द्रकृतस्तुतेर्ब्रह्मादिसाधारण्यादिति परीक्षिच्छङ्कां शुकः परिहरतीत्याह सूतः शुक इत्यादिना । एवमुक्तरीत्योपवर्णितनिर्विशेषं स्वज्ञातगुणेषु कमपि गूढमविहाय स्तुवन्तं गजेन्द्रं ब्रह्मादयो ब्रह्मरुद्रप्रभृतयो देवा विविधैः । आदिबीजत्व, परेशत्व, चिदचित्सर्वजगत्स्रष्टृत्व, पालकत्व, संहर्तृत्व, स्वतन्त्रत्व, अतिलुप्तसार्वकालिकदृष्टित्व, सर्व-साक्षित्व, सर्वचेतनपतित्व, महाप्रलयावस्थितत्व, तमःशब्दितप्रकृतिशक्त्यविषयत्व, ब्रह्मादि-देवागम्यत्व, दुष्कर्मादिप्राप्तजन्मादिशून्यत्व, समस्तदोषविधुरत्व, आश्चर्यकरकर्मित्व, स्वप्रकाशत्व, साकल्येन श्रुत्याद्यगोचरत्व, ज्ञानिप्राप्यत्व, मोक्षस्वामित्व, अप्राकृतज्ञानानन्दाद्यात्मकदेहवत्व, स्वोत्तमरहितत्व, नारायणानन्तादिवाच्यत्वादिरूपैर्लिङ्गैरप्रकटितस्तुत्यवस्तुज्ञापकैर्न वयं गजेन्द्र-स्तुत्यं वस्त्विति भिदाभिमाना भेदप्रमावन्तः सन्तो नैवोपससृपुः समीपं नैव प्राप्नुवन्तो यदा तदा हरिर्नाम्ना हरिरित्यभिहितो नारायणः । निखिलात्मकत्वाद्गजेन्द्रस्तुतआदिबीजत्वादिनिःशेष-गुणात्मकत्वात्तत्र गजेन्द्रसमीपे आविरासीदाविष्कर्तुं मनश्चक्रे । ‘एको नारायण आसीन्न ब्रह्मा न च शङ्करः’ । ‘तत एते व्यजायन्त’ । ‘तमहमजमनन्तमात्मतन्त्रं जगदुदयस्थितिसंयमात्म-शक्तिम् । द्युपतिभिरजशक्रशङ्कराद्यैर्दुरवसितस्तवमच्युतं नतोऽस्मि’ ॥ ‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यत’ इत्यादि प्रसिद्धप्रत्यक्षश्रुतिस्मृतिभिर्गजेन्द्रप्रकटितस्तुत्यलिङ्गानां विष्ण्वैकनिष्ठत्वावगमात् । उक्तगुणो विष्णुरेवेत्यत्र न कश्चित्सन्देहः । विष्णोरेव सर्वोत्तमत्वादेः समर्थनमन्यत्रास्मत्कृत-विराटोद्योगपर्वटिप्पण्यादौ द्रष्टव्यः । विस्तरभिया नेहोच्यते । ननु ब्रह्मादिष्वविद्यमानं गजेन्द्रोक्त-गुणवत्वं विष्णोरेव कुत इत्यत उक्तम् ॥ अखिलामरवर इति ॥ अनेन हरेः सर्वदेवोत्तमत्व-कथनेन हरेरप्युत्तमदेवतात्वे तेनैव देवेन गजेन्द्रसमीपागमनादि किं नाकारीति शङ्का निरस्ता
॥ २८ ॥
तं तद्वदार्तमुपलभ्य जगन्निवासः
स्तोत्रं निशम्य दिविजैः सह संस्तुवद्भिः ।
छन्दोमयेन गरुडेन समुह्यमान-
श्चक्रायुधो ह्यगमदाशु यतो गजेन्द्रः ॥ २९ ॥
पदरत्नावली
तद्वद् यथा दर्शनकृपोदेति तथा तम् ॥ २९ ॥
सत्यधर्मीया
प्रादुर्भूतस्तं तत्रैव स्थित्वाऽऽवत्किं वा अत्रायात इत्यतस्तदाह ॥ तमिति ॥ जगन्निवासो जगदाश्रयस्तदाश्रयको वा । जगत्प्राणेत्यमराज्जगदाख्या स्मृता वात इति विश्वात्प्राणाश्रयो वा । चक्रायुधः प्रकृतनक्रवक्त्रविपाटनार्थम् । तद्वदार्तम् । ययाऽऽर्त्या प्रादुर्भावो भावी तादृशार्तिमत्सदृशम् । तं तद्वदेवार्तमिति तमिवार्तमित्यन्वयो वा । रामरावणयो-र्युद्धमित्यादिवत् । नैवं विधार्तिमानितरोऽस्तीति भावः । संस्तुवद्भिर्दिविजैर्दिवि जायन्त इति ते तथा तैः । हृद्युभ्यां चेति ङेरलुक् । इदानीमागमने नापराधिनो वयमित्यागतैर्देवैः सह । स्तोत्रं तत्कृतम् । निशम्य श्रुत्वा । छन्दोमयेन । छन्दसाऽऽरूढभगवदिच्छया । अयपयमयेति मयिर्गत्यर्थः । मयत इति गच्छतीति स तथा तेन छन्दोमयेन । उपलभ्य ज्ञात्वा वेदाभिमानितया तन्मुख्येनेति वा । यथोक्तमैतरेयभाष्ये– ‘सर्ववेदाभिमान्येव गरुडो वेदपूरुष’ इति । सामस्तोमोच्चारिपत्रवत्वाद्वा छन्दोमयस्तेन । यथोक्तं भागवते तृतीये– ‘आकर्णय-न्पत्ररथेन्द्रपत्रैरुच्चारितं स्तोममुदीर्णसामम्’ इति । यतो यत्र गजेन्द्रस्तत्राशु शीघ्रमगमत् । हिराह ‘या त्वरा द्रौपदीत्राणे या त्वरा गजरक्षण’ इत्यादि त्वराप्रसिद्धिम् । आश्वनाश्वासने श्वासो न स्थास्यतीत्यपि कथयति ॥ मुह्यमान इति ॥ यो मुह्यमानो मोहं वैचित्यं प्राप्नुवानो दिवादिः । कर्तरि श्यन् । चान्द्रादिरित्याऽऽत्मनेपदता । यद्वा । मोहं प्रापयिता नक्रस्तेन । मोहं प्राप्नुवान इत्यन्तर्णीतण्यर्थान्मुहेः कर्मणि शानचि अन्तर्भूतक्रियान्तरैः सर्वैरकर्मकैर्योगे कर्मत्वमुपजायत इति वचनात् । स चक्रायुध इत्यन्वयोऽस्मिन्पक्षे ज्ञेयः । गरुद्भिर्डीयते । डीङ् विहायसा गतौ । अन्येभ्योऽपीति डः । पृषोदरादित्वात्तलोपः । ‘गरुत्मान् गरुडस्तार्क्ष्य’ इत्यमरः । गरुडेन तद्रूपवाहनेन सहागमदित्यन्वयः ॥ २९ ॥
छलारी
आगमनमेव विशदयति ॥ तमिति ॥ तद्वद्दर्शनेन यथा कृपा भवेत्तथा आर्तं दुःखितमुपलभ्य ज्ञात्वा दिविजैः सह छन्दोमयेन हरीच्छानुसारिणा हरीच्छया शीघ्रगतिमित्यर्थः । यद्वा । गरुडो हरिमूढ्वा हरिगमनागमनसमये स्वपक्षाभ्यामभिव्यक्तं सामगायनं श्रीहरिं श्रावयतीति हेतोश् छन्दोमयेनोर्तं युक्तं सामवेदप्रधानेनेत्यर्थः । ‘आकर्णयन् पत्ररथेन्द्रपत्रैरुच्चरितं स्तोम-मुदीर्णसामम्’ इति तृतीयस्कन्धोक्तेः । गरुडेन समुह्यमानः समारूढो यतो यत्र तत्रागमत्
॥ २९ ॥
लिङ्घेरी
जगन्निवासः सर्वजगदाश्रयो हरिस्तं गजेन्द्रं तद्वत्तथाऽऽर्त्तं दुःखितमुपलभ्य दृष्ट्वा गजेन्द्रकृतस्तोत्रं निशम्य श्रुत्वा चक्रायुधः सन् छन्दोमयेन वेदप्रतिपाद्यदेवेन्द्रेभ्यः श्रेष्ठेन गरुडेन समूह्यमानो गरुडारूढः सन्निति यावत् । संस्तुवद्भिर्दिविजैर्देवैः सह यतो यत्र गजेन्द्रस्तत्राश्व-गमदागतः ॥ २९ ॥
सोऽन्तः सरस्युरुबलेन गृहीत आर्तो
दृष्ट्वा गरुत्मति हरिं ख उपात्तचक्रम् ।
उत्क्षिप्य साम्बुजकरं गिरमाह कृच्छ्रा-
न्नारायणाखिलगुरो भगवन् नमस्ते ॥ ३० ॥
पदरत्नावली
अखिलगुरोर्न हि परिच्छिन्नस्य सर्वगुरुत्वं घटत इति नारायणेत्यादि-हेतुगर्भविशेषणम् ॥ ३० ॥
सत्यधर्मीया
सरसि सरोवरे तत्राप्यन्त उरुबलेन बहुबलवता ग्राहेण गृहीत इत्यार्तः । खे गगने । गरुत्मति गरुडे गरुतोऽस्य पक्षाः सन्तीति स तथा । यवादिरिति वत्वं न । उपविष्टं हरिं विष्णुमुपात्तचक्रमुद्धृतचक्रं दृष्ट्वा । साम्बुजकरमम्बुजेन कमलेन सहितश्चासौ करः शुण्डा च । तमुत्क्षिप्योत्तानीकृत्य । साम्बुजकरत्वेन त्वदम्बुजाक्षीगृहाश्रयोऽहमिति दयनीय इति द्योतयति । ‘श्रीमच्छ्रीवदनाम्भोजगतसौन्दर्यसौरभम् । लिहभ्द्यां लोचनालिभ्यां भगवान्पातु नो हरिः ॥’ ‘सूर्यश् छायाश्रितानां न करोति तापम् । क्रूरोऽपि मर्त्यः स्वकलत्रसान्द्रसम्बन्धभाजां न हि तापदायी ॥’ इत्यादौ तथाऽवगतेः । अखिलगुरो । हे नारायण भगवन् । ते नम इति गिरमाह । बह्वहमनाहारात्कृच्छ्रादित्युक्तिः । या सरसी । ‘कासारः सरसी सर’ इत्यमरः । तस्या अन्तरिति । सरस्यामेवोरुबलस्तेन गृहीतोऽन्तः शरीरान्तः कृच्छ्रादिति वा । ‘रिक्तहस्तेन नोपेयाद्राजानं दैवतं गुरुम्’ इति सभाजनार्थमम्बुजं करेऽदीधरदिति वा ॥ ३० ॥
छलारी
स गजेन्द्रमुरुबलेन बहुबलेन ग्राहेण । गरुत्मत्यारूढं खे आकाशे दृष्ट्वोपात्त-मुद्यतं चक्रं येन तम् । साम्बुजकरं पद्मसहितशुण्डमुत्क्षिप्योर्ध्वमुखं कृत्वा कृच्छ्रात्कष्टाद्गिरं वचनम् । किं तद्वचनमित्यत आह ॥ नारायणेत्यादिना ॥ नमस्त इत्यतः परमिति-शब्दोऽध्याहार्यः । इति गिरमाहेत्यन्वयः ॥ ३० ॥
लिङ्घेरी
स गजेन्द्र उरुबलेन ग्राहेण सरोवरान्तर्गृहीतो यतोऽत एवार्तः सन् स्थितोऽपि स एवाकाशे उपात्तचक्रं स्वीकृतसुदर्शनं गरुत्मति गरुडे स्थितं हरिं दृष्ट्वा । साम्बुजकरं कमल-सहितं स्वशुण्डामुत्क्षिप्याखिलगुरो भगवन्नारायण ते नम इति गिरं वाक्यं कृच्छ्राद्बह्वायासादाह
॥ ३० ॥
तं वीक्ष्य पीडितमजः सहसाऽवतीर्य
सग्राहमाशु सरसः कृपयोज्जहार ।
ग्राहाद् विपाटितमुखादरिणा गजेन्द्रं
सम्पश्यतां हरिरमूमुचदुस्रियाणाम् ॥ ३१ ॥
॥ इति श्रीमद्भागवते अष्टमस्कन्धे तृतीयोऽध्यायः ॥
पदरत्नावली
ततः फलितमाह– तं वीक्ष्येति ॥ उस्त्रियाणां देवानाम् ‘उस्रिया विजया देवा आदित्या अमराः सुराः’ इत्यभिधानम् ॥ ३१ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायाम्
अष्टमस्कन्धे तृतीयोऽध्यायः ॥
सत्यधर्मीया
आगत्य किं कृतवानित्यत आह ॥ तमिति ॥ अज उत्पत्तिरहितोऽ-वतीर्य सहसा भक्तभक्तिपारवश्येन । अजः पादाभ्यां गच्छन् । अज गतिक्षेपणयोरिति स्मरणात् । विवृतं च व्यादेशाभावविषये ऋग्भाष्याद्युदाहरणेनातीतस्कन्धेऽनुसन्धेयम् । गरुडो न त्वरित-गतिरित्यर्थोपबर्हकं तं गरुडं पीडितं वीक्ष्येत्यन्वयलापने पदत्रिकं ज्ञेयम् । अतः कृपया सहसाऽवतीर्येत्यपि सुलग्नम् ।
‘त्राहीति व्याहरन्तं त्रिदशरिपुसुतं त्रातुकामो रहस्ये
विस्त्रस्तं पीतवस्त्रं निजकटियुगले सव्यहस्तेन गृण्हन् ।
वेगश्रान्तं नितान्तं खगपतिममृतं पाययन्नन्यपाणौ
सिंहाद्रौ शीघ्रपातक्षितिपिहितपदः पातु मां नारसिंहः ॥’
इति सिंहाचलमाहात्म्योक्तेः । अत्रामृतं घृतं सलिलं वा ज्ञेयम् । न तु पीयूषम् । अतत्पा-नतोऽजरामरत्ववरवितरणस्य हरिकृतस्यादिपर्वण्युक्तेः । तथा हि तत् । ‘तमुवाचाव्ययो देवो वरदोऽस्मीति खेचर । सर्वव्रतावतिष्ठेयमुपरीत्यन्तरिक्षगः । उवाच चैनं भूयोऽपि नारायणमिदं वचः । अजरश्चामरश्च स्याममृतेन विनाऽऽप्यहम् । एवमस्त्विति तं विष्णुरुवाच विनता-सुतम् ॥’ इति । ‘अमृते सलिले घृत’ इति विश्वः । अथवा । स्वचरणसञ्चरणेनोपात्त-पावित्र्याया धरित्र्याः संसर्गे तयोर्विमुक्तिर्दुष्कायात्स्यादिति मतिः सहसाऽवततारेति । पीडितं गजेन्द्रं वीक्ष्य सग्राहं ग्राहेण सहितं सरसः सरोवरात्कृपयेज्जहारोद्दधारेति फलितलपनम् । अरिणा सहस्रदलवता चक्रेण विपाटितमुखाद्विदारिताननाद्ग्राहात् । उस्रियाणाम् । ‘उस्रिया विजया देवा आदित्या अमराः सुराः’ इत्यभिधानम् । देवानां पश्यतां सतां हरिस्तापसाख्यो गजेन्द्रममू-मुचत् । मुचेर्ण्यंताल्लङि चङ् । मोचयामास । वस निवासेऽस्मात् स्फायितंचीति रकि यजादित्वात्सम्प्रसारणेन रपरत्वे षत्वे उस्रशब्दो निष्पन्नः । ततस्तद्धिता इति बहुवचनेन ज्ञापितः स्वार्थे घस्तस्यायने इत्यादि नेयि उस्त्रिय इति भवति । अविंद उस्रिया अन्वि-त्यृग्भाष्यटीकाटिप्पणीषु । प्रकाशत्वानि लब्धवान् । उस्रियाः प्रकाशत्वानि प्रकटत्वानि नानाविधं प्राकट्यम् । यद्यपि गोनामसूस्रियेति पठितम् । तथाऽपि रश्मिनामसु उस्रा इत्यस्य पठितत्वा-दित्यादेरभिधानात् । प्रकाशवताम् उस्रियाणां सम्पश्यतामित्यनादरेवाष्टी तस्य चानितरसाधारणस्य देवेष्वेवोपलब्धेरिति वा । पान्ति । शंसाधनानीति पशवो देवा इति विवृतत्वात्तद्विशेषगो-सदृशतया वा देवानामित्युक्तिरिति । प्राचीनैरभिधानाभिधानविधानेन ऋग्भाष्ये देवत्वेन विवरणा-भावेन चेति मन्तव्यम् । उस्राः किरणास्ते सन्तीति । मत्वर्थे घः । बहुवचनं चाद्यर्थे । सूर्यादीनां संपश्यतामित्यर्थः । सत्सु तदुत्तमेषु ब्रह्मादिषु तदादीकरणं साम्बुजकरमुत्क्षिप्येत्युक्ते-स्तत्तामरसाम्लानता कलनानुकूल्यायेति युक्तमिति वा मन्तव्यम् । उस्रियाणां पश्यतामित्यनादरे षष्ठी ॥ ३१ ॥
॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां तृतीयोऽध्यायः ॥ ८–३ ॥
छलारी
पीडितं महान्तं वीक्ष्येति गरुडोऽपि मन्दगतिरिति गरुडात्सहसाऽतिशीघ्र-मवतीर्यावरुह्य सग्राहं गजेन्द्रं सरसः सरोवरादुज्जहारोर्ध्वं चकर्ष । अरिणा चक्रेण विपाटितं विदारितं मुखं यस्य तस्माद्ग्राहान्नक्रात् । उस्रियाणां देवानां संपश्यतां सताम् । उस्रिया विजया देवा इत्यभिधानम् । अमूमुचन्मोचयामास । मुचि मोचने इत्यस्माद्धातोः कर्तरि लिट् ॥ ३१ ॥
॥ इति श्रीछलारी शेषाचार्यकृतायां श्रीभागवतटिप्पण्यां तृतीयोऽध्यायः ॥ ८–३ ॥
लिङ्घेरी
अज उत्पत्तिरहितो हरिर्ग्राहेण पीडितं तं गजेन्द्रं वीक्ष्य सहसा गरुडादवतीर्य सग्राहं नक्रसहितं गजेन्द्रं सरसः सरोवरात्कृपयोज्जहारोद्धृतवान् । उद्धृतेनन्तरं हरिरुस्रियाणां देवानां संपश्यतां सताम् । अरिणा चक्रेण विपाटितमुखाद्विदारितवदनाद्ग्राहाद्गजेन्द्रममूमुचन् मोचयामास । उस्रिया अमरा देवा इति नाममहोदधिः ॥ ३१ ॥
॥ इति श्रीलिङ्घेरी श्रीनिवासाचार्यकृतायां श्रीभागवतटिप्पण्यां तृतीयोऽध्यायः ॥ ८–३ ॥