आसीद् गिरिवरो राजंस्त्रिकूट इति विश्रुतः
॥ अथ द्वितीयोऽध्यायः ॥
श्री शुक उवाच–
आसीद् गिरिवरो राजंस्त्रिकूट इति विश्रुतः ।
क्षीरोदेनावृतः श्रीमान् योजनायुतमुच्छ्रितः ॥ १ ॥
पदरत्नावली
अत्र शरण्येषु शश्वदप्रतिहतशरण्यः श्रीभगवानेवेति दर्शनाय गजेन्द्रविषय इतिहासः कथ्यते । क्षीरोदेन क्षीरसमुद्रेण ॥ १ ॥
सत्यधर्मीया
मन्ये धनेत्यादिना भक्त्या तुतोष भगवान्ननु यूथपायेत्यन्तेन सप्तमे न जन्म नूनं महतो न सौभगं न चाङ्ग बुद्धिर्नाकृतिस्तोषहेतुः । तिर्यग्विसृष्टानपि नो वनौकसश्चकार सख्ये च स लक्ष्मणाग्रज इति जातिरप्रयोजिकेति पञ्चमे प्रपञ्चितमितोऽपि साऽप्रयोजिका । प्रयोजिका तु भक्तिरेव वासुदेवप्रसादन इति गजेन्द्रमोचनेतिहासमुखेन शंसति । तत्रादौ गजीभि-र्गजराजक्रीडां तत्साधनं च क्रोडीकृत्य वदति ॥ त्रिकूट इति ॥ विश्रुतः प्रसिद्धो गिरिवर आसीदिति । आसीदस्ति । क्षीरोदेन क्षीरसमुद्रेण । क्षीरवद्विद्यमानोदकवता सरोवरेणेत्यत्रोत्तरत्र च पयोनिधिं जलाशयमिति व्याकुर्वते । योजनायुतं योजनानां चतुःक्रोश्यात्मनामयुतं दशसहस्र-मुच्छ्रितस्तत्परिमाणोन्नतिमान् ॥ १ ॥
छलारी
गजेन्द्रमोक्षप्रकारं वक्तुमुपोद्घातमाह ॥ आसीदिति ॥ आसीदस्ति । क्षीरोदेन क्षीरसमुद्रेणावृतः परिवृतः ॥ १ ॥
लिङ्गेरी
अत्र द्वितीयेऽध्याये गजेन्द्रस्तुतभगवत्प्रसादेन गजेन्द्रस्य ग्रहान्मोक्षणवत्संसार-लक्षणग्रहग्रस्तानामपि हरिचरणशरणानां भगवत्स्तुत्यादिरूपाराधनेन भगवत्प्रसादेन संसारग्रहा-न्मुक्तिर्भविष्यतीति प्रदर्शनाय गजेन्द्रमोक्षप्रकार उपोद्घातेन शुकः परीक्षितं प्रति वक्तीत्याह, सूतः शौनकादीन् वा ॥ श्रीशुक उवाचेत्यादिना ॥ हे राजन् । क्षीरोदेन क्षीररूपोदकवता क्षीर-समुद्रेणावृतो वेष्टितः । श्रीमान् सम्पदुपेतो योजनायुतं दशसहस्रयोजनमुच्छ्रित उन्नतस्त्रिकूट इति विश्रुतः प्रसिद्धो गिरिवरः पर्वतश्रेष्ठ आसीत् । उदकस्योदः सञ्ज्ञायामिति उदकशब्दस्योदादेशः
॥ १ ॥
तावता विस्तृतः पर्यक् त्रिभिः शृङ्गैः पयोनिधिम् ।
दिशश्च रोचयन्नास्ते रौप्यायसहिरण्मयैः ॥ २ ॥
पदरत्नावली
पर्यक् परिवृतः । रौप्यायसहिरण्मयैः रजतायोहेममयैस् त्रिभिः शृृङ्गैः परोनिधिं दिशश्च रोचयन् विद्योतयन् ॥ २ ॥
सत्यधर्मीया
तावता योजनायुतेन पर्यक् परितो विस्तृतः । रौप्यायसहिरण्मयैः रौप्यं रूप्यं रजतं तदात्मकम् । आयसमय आत्मकं हिरण्मयं सुवर्णात्मकं चेति तैस्त्रिभिःशृृङ्गैः ककुभो दिशः पयोनिधिं च रोचयन्प्रकाशयन्नास्त इत्यन्वयः । अनेन त्रीणि कूटानि शृृङ्गाणि यस्य स इति नामनिरुक्तिर्दर्शितेति ज्ञेयम् । दाण्डिनायनेत्यादिनिपातनाद्धिरण्मयेति साधु ॥ २ ॥
छलारी
तावता योजनायुतेन पर्यक् परितः । त्रिकूट इति समाख्याबीजमाह ॥ त्रिभिरिति ॥ रौप्यायसहिरण्मयै रजतलोहसुवर्णमयैस्त्रिभिः शृृङ्गैः प्राधान्यैः । पयोनिधिं दिशश्च रोचयन् उद्योतयन् ॥ २ ॥
लिङ्गेरी
तावता दशसहस्रयोजनैः पर्यक् परितो विस्तृतस्त्रिकूटपर्वतो रौप्यायसहिरण्मयै रजतायःसुवर्णविकृतैस्त्रिभिः शृृङ्गैः पयोनिधिं क्षीरसमुद्रं दिशश्च रोचयन्प्रकाशयन् । आस्ते विद्यते
॥ २ ॥
अन्यैश्च ककुभः सर्वा रत्नधातुविचित्रितैः ।
नानाद्रुमलतागुल्मैर् निर्घोषैर्निर्झराम्भसाम् ॥ ३ ॥
पदरत्नावली
अन्यैर्नानाधातुमयैः शृृङ्गैश्च, रोचयन्निति शेषः ॥ ३ ॥
सत्यधर्मीया
रत्नधातुविचित्रितै रत्नानि धातवो गैरिकाद्यास्तैर्विचित्रितैरन्यैः शृृङ्गैश्च ककुभः सर्वा रोचयन्नास्त इति पूर्वेणान्वय इव । नानाद्रुमलतागुल्मैः । नानेति सर्वविशेषणम् । नानाद्रुमैर्नानालताभिर्नानागुल्मैः । तथा निर्खराम्भसां खरनीराणाम् । ‘प्रवाहो निर्झरो झर’ इत्यमरः । झृष् वयो हानौ । ऋदोरबित्यप् । निर्घोषैः शब्दैः ककुभो रोचयन्नास्त इत्यन्वयः
॥ ३ ॥
छलारी
रत्नैर्धातुभिश्च विचित्रितैर्नानाविधानां द्रुमाणां लतानां गुल्मो येषु तैरन्यैश्च शृृङ्गै-र्निर्झराम्भसां प्रवाहोदकानां निर्घोषैश्च सर्वाः ककुभो दिशो रोचयन्नास्त इति पूर्वेणान्वयः ॥ ३ ॥
लिङ्गेरी
रत्नैर्मणिभिर्धातुभिर्गैरिकाद्यैश्च विचित्रितैराश्चर्यकरैरन्यैः शृृङ्गैः सर्वाः ककुभो दिशः । ‘दिशस्तु ककुभः काष्टा’ इत्यमरः । रोचयन्नास्त इति पूर्वेणान्वयः । नानाप्रकारा द्रुमा वृक्षा लता वल्यो गुल्मास्तृणादिपुञ्जास्तैः । वल्ली तु व्रततिर्लता, अप्रकाण्डस्तम्बगुल्माविति चामरः । निर्झराम्भसां शैलात्प्रस्रवद्वारिप्रवाहोदकानां निर्घोषैर्ध्वनिभिश्च त्रिकूटः शोभत इति शेषः । वारिप्रवाहो निर्झरो झरो ऽम्भोर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम् । स्वाननिर्घोषनिर्ह्रादेत्यमरः ॥ ३ ॥
सदा निर्णिज्यमानाङ्घ्रिः समन्तात् पयऊर्मिभिः ।
करोति श्यामलां भूमिं शुभैर्मरकतादिभिः ॥ ४ ॥
पदरत्नावली
निर्णिज्यमानाङ्घ्रिः प्रक्षाल्यमानप्रत्यन्तपर्वतः । शुभैरन्याश्मनाऽविद्धैर्मर-कताश्मभिर् इन्द्रनीलरत्नैर् भूमिं श्यामलां नीलां करोतीति ॥ ४ ॥
सत्यधर्मीया
समन्ताच्चतुरस्रं पय ऊर्मिभिः पयसां तरङ्गैः सदा निर्णिज्यमानाः प्रक्षालनेन शुद्ध्यन्तोऽङ्घ्रयः । अङ्घ्रिशब्देन पादपदं लक्ष्यते । पादाः प्रत्यन्तपर्वता इत्यभि-धानात् । प्रत्यन्तपर्वता यस्य स गिरिवरः शुभैस्त्रासादिदोषविहीनैर्मरकताश्मभिरिन्द्रनील-रूपपाषाणैः । अनेन तत्र तत्समृद्धिर्द्योत्यते । भूमिं श्यामलां श्यामां करोति । कालश्यामलमेचका इत्यमरः । श्यामेति भावप्रधानम् । श्यामत्वमस्यास्तीति । सिध्मादीति लचि श्यामल इति ज्ञेयम्
॥ ४ ॥
छलारी
पयऊर्मिभिरुदकतरङ्गैः समन्तादवनिज्यमानाः प्रक्षाल्यमाना अङ्घ्रयः पादा मूल-प्रान्ता यस्य स तथा । सः पर्वतः शुभैरन्याश्मामिश्रितैर्मरकताश्मभिरिन्द्रनीलरत्नैर्भूमिं श्यामलां नीलकान्तिं करोति ॥ ४ ॥
लिङ्गेरी
समन्तात्परितः पयऊर्मिभिः क्षीरोदतरङ्गैः सदा सर्वकालं निर्णिज्यमानाङ्घ्रिः पुनःप्रक्षाल्यमानोपपर्वतस्त्रिकूटः । ‘भङ्गस्तरङ्ग ऊर्मिर्वा पादाः प्रत्यन्तपर्वता’ इत्यमरः । शुभैः स्फोटाल्पप्रभादिदोषशून्यैर्मरकताश्मभिः पच्चेत्यपभ्रष्टसञ्ज्ञपाषाणैः स्वस्थितां भूमिं श्यामलां दूर्वावर्णोपेतां करोति । ‘पाषाणप्रस्तरग्रावोपलाश्मान’ इत्यमरः ॥ ४ ॥
सिद्धचारणगन्धर्वविद्याधरमहोरगैः ।
किन्नरैरप्सरोभिश्च क्रीडद्भिर्जुष्टकन्दरः ॥ ५ ॥
पदरत्नावली
यश्च सिद्धादिभिर्नित्यनिषेवितगुहः ॥ ५ ॥
सत्यधर्मीया
जुष्टं जुष्टो वा कन्दरं कन्दरो वा दरी येन सः । कं जलं दीर्यतेऽनेनेति कन्दरम् । दरी तु कन्दरो वा स्त्रीत्यमरः ॥ ५ ॥
छलारी
पुनः कथम्भूतो गिरिः । क्रीडद्भिः सिद्धादिभिर्जुष्टकन्दरो नित्यसेविता गुहा यस्मिन्सः ॥ ५ ॥
लिङ्गेरी
क्रीडद्भिः क्रीडां कुर्वद्भिः । सिद्धैश्चारणैर्जयवादिभिर्गन्धर्वैर्गायकैर्विद्याधरैर्नर्तकैर् महोरगैः पूज्यश्रेष्ठसर्पैः । किन्नरैर्गायकैर्ज्युष्टकन्दरः सेवितदरिः । अप्सरोभिश्च नर्तकीस्त्रीभिर्जुष्ट-कन्दरः । उरगः पन्नगो भोगी । स्त्रियां बहुष्वप्सरसः स्वर्वेश्याः । ‘दरी तु कन्दर’ इति चामरः
॥ ५ ॥
यत्र सङ्गीतसन्नादैर्नदद्गुहममर्षया ।
अभि गर्जन्ति हरयः श्लाघिनः परशङ्कया ॥ ६ ॥
पदरत्नावली
किन्नरादिसङ्गीतसन्नादैर् नदद्गुहं प्रति ध्वनितगुहं स्थलमभि उद्दिश्य प्रतिगजशङ्कयाऽमर्षया असह्यमानबुद्ध्या श्लाघिनः प्रशस्या हरयः सिंहा गर्जन्ति ॥ ६ ॥
सत्यधर्मीया
यत्र यत्स्थलं किन्नरादिसङ्गीतसन्नादैर्नदन्त्यः प्रतिध्वनिं तन्वन्त्यो गुहा यस्मिंस्तत् । अभि उद्दिश्यामर्षया न विद्यते मर्षो मर्षणं सहनं यस्याः सा तथा । परशङ्कया स्ववैरिकरिशङ्कया । शङ्कापि यदामर्षणदा तदा निश्चयस्तु तथेति किं वक्तव्यमिति भावः । श्लाघिनोऽस्माकं धुरि करिणः कियन्त इति तद्वन्त इव दृश्यन्त इत्यर्थः । हरयः सिंहा गर्जन्ति श्लाघिन इति । शिखादिर्वा छन्दस्त्वेन विश्लिष्टस्य संशब्दस्य श्लाघावदेनान्वये णिनिर्वेति ज्ञेयम् । यत्र गिराविति वा । स्थलमिति शेष इति केऽपि ॥ ६ ॥
छलारी
यत्र पर्वते किन्नरादीनां संगीतसन्नादैर्गायनध्वनिर्भिर्नदन्त्यः प्रतिध्वनन्तो गुहा यस्मिन् प्रदेशे तम् । अभि उद्दिश्य परशङ्कया शत्रुशङ्कयाऽमर्षयाऽसहनेन श्लाघिनो मत्समः कोऽस्तीति मन्यमाना हरयः सिंहा गर्जन्ति । यत्रेत्यस्य स चेति पूर्वेणान्वयः ॥ ६ ॥
लिङ्गेरी
यत्र त्रिकूटे श्लाघिनः स्वेषामेवातिप्रबलतया प्राशस्त्यमानिनो हरयः सिंहाः । सङ्गीतसन्नादैर्गायमानां निर्दुष्टध्वनिभिर्नदद्गुहं ध्वनिकारिगुहावस्थलमभि प्रति परिशङ्कया स्वान्य-सिंहादयो गर्जन्तीति भिययाऽऽमर्षयाऽसहिष्णुतया कोपेन च गर्जन्ति गर्जनं कुर्वन्ति । सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिरित्यमरः ॥ ६ ॥
नानारण्यपशुव्रातसङ्कुलद्रोण्यलङ्कृतः ।
चित्रद्रुमसुरोद्यानकलकण्ठविहङ्गमः ॥ ७ ॥
पदरत्नावली
चित्रा द्रुमा येषु तथा तानि च सुराणामुद्यानानि चित्रद्रुमसुरोद्यानानि तेषु कलकण्ठा विहङ्गमा यत्र स तथा ॥ ७ ॥
सत्यधर्मीया
द्रौणी पाषाणमयगवादिनी । गोदिनीत्यपभ्रष्टभाषया । द्रोणी काष्टाम्बुवा-हिनीत्यमरसुधायाम् । द्रु गतौ । वहिश्रीति निः । कृदिकारादित्ुिणिश्चेति रूपरत्नाकराद्द्रुणिरपि । द्रुण हिंसागत्योः । इगुपधात्कः । द्रोणी काष्टाम्बुवाहिन्यां गवादिन्यामपीष्यते । पुनः पुनरम्बु वहतीति बहुलमाभीक्ष्ण्ये इति णिनिः । द्वे काष्टपाषाणकृतनौकाकारम्बुसेचिन्यावित्युक्तेः । अत्र तु स्वत एव तदाकारेति विशेषः । ताभिरलङ्कृतो भूषितः । चित्रद्रुमं यत्सुरोद्यानं देववनं यस्मिन् स चासौ कलकण्ठा मधुरस्वना विहङ्गमाः पक्षिणो यस्मिन् स च ॥ ७ ॥
छलारी
नाना येऽरण्या अरण्यसंबन्धिनः पशवस्तेषां व्रातैर्गणैः संकुलाभिर्द्रोणीभिर्निम्न-भूमिभिरलंकृतश्चित्रिता द्रुमा येषु तेषु सुरोद्यानेषु कलकण्ठा मधुरस्वना विहंगमाः पक्षिणो यस्मिन्सः ॥ ७ ॥
लिङ्गेरी
त्रिकूट इति वर्तते । नानारण्यपशुव्रातसङ्कुलद्रोण्यलङ्कृतो नानाविधवनगतपशु-समुदायसन्घटितनिम्नभूमिभूषितः । चित्रा आश्चर्यकरा द्रुमा वृक्षा येषु सुरोद्यानेषु तानि चित्रद्रुमसुरोद्यानानि तेषु स्थिताः कलकण्ठा अव्यक्तमधुरध्वनियुक्तगला ये विहङ्गमाः पक्षिण-स्तैर्वृत इत्युत्तरेण, द्रोण्यलङ्कृत इत्यत्रत्यालङ्कृत इत्यनेन, बुद्ध्या विवेकेन वाऽन्वयः । ‘व्रात-वारसङ्घातसञ्चय’ इत्यमरः । ‘सङ्कुलं ह्यवकाशेन हीने सत्कुल’ इति नानार्थरत्नमाला । ‘द्रोणिकाष्ठाम्बुवाहिन्यां निम्नभूमौ च सा स्त्रियाम्’ इति च । ‘आलेख्याश्चर्ययोश्चित्रम्’ इत्यमरः । ‘पलासिद्रुद्रुमागमा’ इत्यमरः । ‘पुमानाक्रीड उद्यानम्’ इति च । ‘ध्वनौ तु मधुरास्फुटे कल’ इति च । करो गल इति च । ‘खगे विहङ्गविहगविहङ्गमविहायस’ इत्यमरः ॥ ७ ॥
सरित्सरोभिरच्छोदैः पुलिनैर्मणिवालुकैः ।
देवस्त्रीमज्जनामोदसौरभाक्तानिलैर्युतः ॥ ८ ॥
पदरत्नावली
अच्छोदैर् निर्मलजलैः । मणिलक्षणानि वालुकानि येषु तानि तथा तैः । देवस्त्रीणां मज्जनादुत्पन्नो य आमोदस् तस्माद्उद्भूतं यत् सौरभं परिमललक्षणं तेन आक्ता भविता अनिला यैस्ते । आमोदोत्थः परिमल इत्यमरः ॥ ८ ॥
सत्यधर्मीया
सरितो मध्य आगच्छन्तो नद्यश्च सरांसीतराणि च तैरच्छोदैर् अच्छानि निर्मलान्युदानि जलानि यासां येषां च तास्तानि । तथा चाच्छोदाश्चाच्छोदानीति नपुंसकम-नपुंसकेनेत्येकशेषे क्रमात्सरित्सरोविशेषणता ज्ञेया । पुलिनैः । ‘तोयोत्थितं तत्पुलिनम्’ इत्यमरः । तलिपुलिभ्यां चेति पुलमहत्व इति पुलेरिनन् । द्वीपं वा । यथोक्तं त्रिकाण्डशेषे । पुलिनं द्वीपमुच्यत इति । तोयोत्थितैर्द्वीपैर्वा । मणिवालुकैर्मण्यात्मकसिकताभिः । तद्वद्विद्य-मानवालुकैरिति वा । मणिमय्यो वालुका येषु तानीति पुलिनविशेषणं वा । वालुका सिकतायां स्याद्वालुकं त्वेलवालुक इति विश्वान्मणिसदृशशैलवालकविशैषैः । तद्वाचकशब्दनपुंसक-ताऽनुशासनात् । देवस्त्रियः सुरनार्यस्तासां यन्मज्जनं स्नानं तज्जनितो य आमोदः प्रधानसौगन्ध्यं तन्निसृतं यत्सौरभं तेनाक्ताः सम्मिश्राश्च तेऽनिला वायवश्च तैर्युतः । आ सम्यङ्मोद आघ्रातवतां येन तच्च तत्सौरभमिति वा ॥ ८ ॥
छलारी
किञ्चाच्छोदैः सुनिर्मलजलैः सरित्सरोभिश्च मणय एव वालुकाः सिकता येषु तैः पुलिनैर्जलमध्यसरिद्द्वीपैश्च युतो, देवस्त्रीणां मज्जनेन स्नानेनात्यन्तो य आमोदो विमर्दस्तस्मादुद्भूतं यत्सौरभं परिमलस्तेनाक्तैर्युक्तैरनिलैश्च युतो गिरिरास्ते । ‘विमर्दः स्यात्परिमल’ इत्यमरः ॥ ८ ॥
लिङ्गेरी
सरिद्भिर्नदीभिः सहितैः सरोभिः सरोवरैरच्छोदैर्विमलजलैः । एतत्सरोवर-विशेषणम् । मणयो रत्नानि वालुकाः क्रमुकपरिमाणाः पाषाणा इव येषु तैः पुलिनैः शर्करा-सङ्गितसूक्ष्मपाषाणसमुदायैः । देवस्त्रीणां मज्जनेन स्नानेन प्राप्तो य आमोदः कुङ्कुमकेसरादि परिमलाशयद्रव्यसूक्ष्मभागः सरिदादिस्थितस्तस्य सौरभ्येन परिमलेनाक्ता लिप्ता अनिला वायव-स्तैर्युतस्त्रिकूट आसीदित्यन्वयः । तोयोत्थितं तत्पुलिनमित्यमरः ॥ ८ ॥
तस्य द्रोण्यां भगवतो वरुणस्य महात्मनः ।
उद्यानमृतुमन्नाम आक्रीडं सुरयोषिताम् ॥ ९ ॥
पदरत्नावली
आक्रीडं क्रीडारङ्गम् ॥ ९ ॥
सत्यधर्मीया
ऋतुमत्सर्वदा सर्वर्तुकार्ययुतत्वात् । आक्रीडं क्रीडास्थानम् । नाम आक्रीडमिति विवक्षाभावात्सन्ध्यभावः । स च मनुष्याद्यगम्यतासूचकः ॥ ९ ॥
छलारी
तस्य गिरेर् आक्रीडं क्रीडास्थानम् ॥ ९ ॥
लिङ्गेरी
तस्य त्रिकूटपर्वतस्य द्रोण्यां निम्नभूमौ भगवतः स्वयोग्यैश्वर्यादिगुणवतो महात्मनः प्रशस्तमनसो वरुणस्य देवस्य सुरयोषितां देवस्त्रीणामाक्रीडं क्रीडोचितस्थलं सर्वर्तूचित-पुष्पफलादिमत्वेन ऋतुमन्नामकमुद्यानमासीत् । ‘स्त्री योषिदबला योषा’ इत्यमरः ॥ ९ ॥
सर्वतोऽलङ्कृतं दिव्यैर्नित्यपुष्पफलद्रुमैः ।
मन्दारैः पारिजातैश्च पाटलाशोकचम्पकैः ॥ १० ॥
सत्यधर्मीया
मन्दारैः । ज्ञेयं प्रायः प्रतिपदं विवृतावमरस्य तु । यत्रान्यदीयं तन्नाम गृह्यतेऽत्रेति च स्थितिः । अर्कपर्णैः । पारिजातैः पारिणः समुद्राज्जातैः । पाटलैः पाटलिभिः । अशोकैर्बकुलैश्चम्पकैर्हेमपुष्पकैः ॥ १० ॥
छलारी
नित्यं पुष्पफलवद्भिर्द्रुमैः सर्वतोऽलङ्कृतं वरुणस्योद्यानमिवास्ते । गिरिमुपवर्ण्य वनं वर्णयति ॥ मन्दारैरित्यादि चतुर्भिः ॥ उद्यानं मन्दरादिभिर्विशेषैः । लिङ्गविपरिणामेना-वृतमित्यन्वयः ॥ १० ॥
लिङ्गेरी
तत्सरो वर्णयति ॥ सर्वत इति ॥ दिव्यैरलौकिकैर्निरन्तरं फुष्फफलोपेतवृक्षैः सर्वतः समन्तात् । सार्वविभक्तिकस्तसिः । अलङ्कृतं भूषितमिति । तद्वृक्षनामान्याह । मन्दारैर् हालिवालेति कन्नडभाषितैः पारिजातैः प्रसिद्धैः । पाटलाशोकचम्पकैर् हादरिमुल्लमुत्तसम्पिगीति कन्नडभाषितैः ॥ १० ॥
चूतैः प्रियालैः पनसैराम्रैराम्रातकैरपि ।
क्रमुकैर्नारिकेलैश्च खर्जूरैर्बीजपूरकैः ॥ ११ ॥
पदरत्नावली
चूतेऽङ्गनाप्रियः । प्रियालः स्फुटो नाम वृक्षः, द्रुमिलदेशभवश् चूतो वा । आम्रः पिकोदरो माकन्दनामा । स चूतः । आम्रातक आम्रवृक्षः ॥ ११ ॥
सत्यधर्मीया
चूतै रसालैः प्रियालै राजादनैः पनसैः कण्टकिफलैराम्रैश्चूतविशेषैः । अम गत्यादौ । अम्यते । अमितभ्यो र्दीर्घश्चेति रुग्दीर्घश्च । चूतः । च्युतिर् क्षरणे । अच् । च्योतति रसमिति चूतः । एतेन निर्वचनेन कश्चन विशेषोऽवसेयः । आम्रातकैः । आम्रं रलयोरभेदादाम्लं तदततीति । कृञादिवुनि युवोरनाकावित्यक आम्रातकः । कपीतनः । क्रमुकैः पूगैः । क्रामतीति क्रमेर्बाहुलकादुः संज्ञायां कन् । नारिकेलैर्लांगलिभिः । नलति नल्यते वा । णल गन्धेऽस्माद्बाहुलकादिण् । केन वायुना ईल्यते ईर्यत इति । ईर प्रेरणे घञि नारिश्चासौ केलश्च स तथा । खर्जूरैः केतकीभिः । खर्ज व्यथनेऽस्मात्खर्जपिञ्जेत्यादिना उरुप्रत्ययः । बीजपूरकै-र्मातुलिङ्गकैः ॥ ११ ॥
लिङ्गेरी
चूतैः प्रसिद्धैः । प्रियालैश् चारिवालेति कन्नडभाषितैः । पनसैर् हलसु इति कन्नडभाषितैः । आम्रैः प्रशस्तरसोपेतेनातिस्थूलफलचूतविशेषैः । आम्रातकैर् अमटीति कन्नड-भाषितैः । क्रमुकैः पूगैर्नालिकेलैः । बीजपूरकैर् दालिम्बेति कन्नडभाषितैः । माधवलेति केचित् । ‘राजादनं प्रियालुः स्यात्’ इत्यमरः । ‘पनसं कण्टकिफलम्’ इत्यमरः । ‘आम्रचूतो रसालश्च’ इत्यमरः । ‘द्वौपीतनकपीतनौ । आम्रातक’ इति च । ‘तूदस्तु पूगक्रमुक’ इति च । ‘फलपूरो बीजपूरो रुचको मातुलङ्गक’ इति च ॥ ११ ॥
मधुकैः सालतालैश्च तमालै रसनार्जुनैः ।
अरिष्टोदुम्बरप्लक्षैर्वटैः किंशुकचन्दनैः ॥ १२ ॥
पदरत्नावली
सालः सर्जविशेषः । अरिष्टो बृहत्पत्रः पिचुमन्दविशेषः । किंशुकः पलाशः ॥ १२ ॥
सत्यधर्मीया
मधुकैर्मधूकैः । मधूनीव मधुकाः । इवार्थे कन् । सालैः । ‘सालः पादपमात्रे स्यात्प्रकारे शङ्कुकुद्रुम’ इति विश्वात् । शङ्कुकुद्रुमैः । तालैस्तृणराजनामभिर्हरिताल-कैर्वा । ‘तालं तु हरितालक’ इति विश्वः । तमालैस्तिलकैः । ‘तमालस्तिलक’ इति विश्वः । असनैः सर्जकैः । अर्जुनैर् इन्द्रद्रुभिः । अरिष्टैः सर्वतोभद्रैः । उदम्बरैर्जन्तुफलैः । उल्लङ्घितमम्बरं यैस्तानि । उदतिशयेनाम्बते वा । अबि शब्दे बाहुलकादरन् । पृषोदरादिः । केचित् ‘‘उडम्बरो जन्तुफल’’ इति स लेखकप्रमादमेदिनीं दृष्ट्वा डम्बर इति पेठुः । तन्न । तन्नियमस्त्वा-द्यन्तवर्णाश्रयो न तु मध्यमवर्णाश्रय इति । उदम्बरस्तु देहल्यां वृक्षजातौ तु पण्डके । ‘उदम्बरं स्मृतं ताम्रे कुष्ठभेदोऽप्युदम्बर’ इति विश्वेऽपि तवर्गतृतीयमध्यम एव पाठः। प्लक्षैर्जटिभिः । वटैर्न्यग्रोधैः। किंशुकैः पलाशैः। चन्दनैर्मलयजैः ॥ १२ ॥
लिङ्गेरी
मधुकैर् इप्पीति कन्नडभाषितैः । मधूके तु गुडपुष्पमधुद्रुमो वानप्रस्थो मधुष्ठीलाविति च । सालैः कंसन्तीति कन्नडभाषितैः । ‘साले तु सर्जकार्शश्च कर्णिकासस्य संवर’ इति च । तालैः प्रसिद्धैः । ‘तालस्तु तृजाणरे स्यात् कांस्यवाद्यविशेषक’ इति नानार्थरत्नमाला । तमालैस् तमाल इति कन्नडभाषितैः । ‘कालस्कन्धस्तमालः स्यात् तापिच्छ’ इत्यमरः । रसनार्जुनैस् तदुक्तमत्तीति कन्नडभाषितैः । अरिष्टौदुम्बरप्लक्षैः क्रमेण अरटाल, अत्ति, बसरीति कन्नडभाषितैः । वटैर् आल इति प्रसिद्धैः । किंशुकचन्दनैर् मुत्तल श्रीगन्धेति प्रसिद्धैः । अरिष्टः फेनिलः । ‘उदुम्बरो जन्तुफलो यज्ञांगो हेमदुग्धकः । प्लक्षो जटी कर्पटी स्यान्न्यग्रोधो बहुपाद्वटः । पलाशो किंशुकः पर्ण’ इत्यमरः ॥ १२ ॥
पिचुमन्दैः कोविदारैः सरलैः सुरदारुभिः ।
द्राक्षेक्षुरम्भाजम्बूभिर्बदर्यक्षाभयामलैः ॥ १३ ॥
पदरत्नावली
पिचुमन्दः ह्रस्वपत्रः रोमशनामा वा । सरलः जीरवृक्षो गुग्गुलुर्वा ॥१३॥
सत्यधर्मीया
पिचुमन्दैर्निम्बतरुभिः । कोविदारैश्चमरकैः । कुं भूमिं विदृणाति । द्रु विदारणे कर्मण्यण् । पृषोदरादिनोकारः । सरलैः पूतिकाष्ठैः । सुरदारुभिर्मालूरैः । देवदारुतरुभिः । द्राक्षाभिर्गोस्तनीभिः । इक्षुभिः रसालैः । रम्भाभिः कदलीभिः । जम्बूभिर्जम्बुभिः । बदरीभिः कोलीभिः । अक्षैर्भूतावासैः । अभयैरव्यथाभिः । अमलैरमलाभिरामलकीभिः । जटामला झटे-त्यमरात्स्त्रीलिङ्गताबोधनात् । अमलाः सन्ति येषां तान्यमलानि । बदर्यक्षाभयानि च तान्यमलानि चेति विग्रहे न चाशङ्का न चोत्तरम् ॥ १३ ॥
लिङ्गेरी
पिचुमन्दैर् बेवु इति कन्नडभाषितैः । कोविदारैः कञ्चालेति कन्नडभाषितैः । सरलैर् एवमेव कन्नडभाषितैः । सुरदारुभिर्देवदारुभिः । द्राक्षेक्षुरम्भाजम्बूभिर् द्राक्षि, कब्बु, बा,ि नीरल, इति प्रसिद्धैः । बदर्यक्षाभयामलैर् बोरि, तारि, अर,ि नेल्लीति प्रसिद्धैः । ‘अरिष्टः सर्वतो भद्रा हिंगुनिर्यासमालकाः । पिचुमन्दश्च निम्ब’ इत्यमरः । ‘कोविदारे चमरिकः कुद्दालो युगपत्रक’ इति च । ‘पीतद्रुः सरलः पूतिकाष्टम्’ इति च । जम्बू स्त्रीति च । ‘कर्कन्धूर्बदरी कोली घोटा’ इति च । ‘अक्षस्तुषः कर्षफलो भूतावासः कलिद्रुमः । अभया त्वव्यथा-पथ्याक्यस्थापूतनामृता’ इति च ॥ १३ ॥
बिल्वैः कपित्थैर्जम्बीरैर्वृतो भल्लातकादिभिः ।
तस्मिन् सरः सुविपुलं लसत्काञ्चनपङ्कजम् ॥ १४ ॥
सत्यधर्मीया
बिल्वैः शाण्डिल्यैः । कपित्थैर्मन्मथैः । जम्बीरैर्दन्तशटैः । जम्बु अदने गम्भीरादयश्चेति साधुः । भल्लातकादिभिर्वीरवृक्षादिभिः । तस्मिन् गिरौ लसत्काञ्चनपङ्कजं लसन्ति प्रकाशमानानि काञ्चनमयानि पङ्कजानि यस्मिंस्तत् सुविपुलमतिमहत् ॥ १४ ॥
छलारी
तस्मिन्नुद्याने वने सरः पद्माकर आस्ते । तद्वर्णयति ॥ सुविपुलमित्यादिभिः सार्धैः पञ्चभिः श्लोकैः । सुविपुलमत्यन्तविशालं लसन्ति काञ्चनपङ्कजानि यस्मिंस्तत् ॥ १४ ॥
लिङ्गेरी
बिल्वैर् ब्यलवन्त्र्येति प्रसिद्धैः । ‘बिल्वे शाण्डिल्यशैलूषौ मालूर स्त्रीफलावपि’ इत्यमरः । कपित्थैर् ब्यलु इति प्रसिद्धैः । कपित्थे स्युर्दधित्थग्राहिमन्मथा । तस्मिन्दधिफले पुष्पफलदन्तशठावपीति च । जम्बीरैर् निम्बीति प्रसिद्धैः । स्युर्जंबीरे दन्तशठजम्बजम्बीरजम्बला इति च । भल्लातकादिभिः केरु इति प्रसिद्धवृक्षप्रभृतिवृक्षैर् वृतस्त्रिकूट आसीदित्यन्वयः । तस्मिं-स्त्रिकूटस्थऋतुमन्नामकवरुणोद्याने सुविपुलमतिविस्तृतम् । विस्तीर्णं विपुलं पृथ्वीत्युत्पलमाला । लसत्काञ्चनपङ्कजं प्रकाशमानसुवर्णसदृशकमलोपेतं सर आसीत् ॥ १४ ॥
कुमुदोत्पलकल्हारशतपत्रश्रियोर्जितम् ।
मत्तषट्पदनिर्जुष्टं१ शकुन्तैः कलनिःस्वनैः ॥ १५ ॥
सत्यधर्मीया
कुमदोत्पलकल्हारशतपत्रश्रिया कुमदानि कैरवाणि कुवलयानि कल्हाराणि हल्लकानि शतपत्राणि कुशेशयानि तेषां श्रीः शोभा तया । ऊर्जितमुत्कृष्टम् । आवृत्त्या सरःसु सरोवरेषु विपुलमित्यप्यन्वेति । मत्ता रसास्वादनेन षट्पदा भ्रमरास्तैर्निर्जुष्टं सेवितम् । निर्घुष्टमिति पाठे भ्रमरभ्रमणेन वेणीवत्त्रिगुणिततरङ्गमित्यर्थः । शब्देन प्रकाशितस्वसत्ततत्कमिति वाऽर्थः । अत्रागमशासनस्यानित्यतयेडभावः । घुषिर विशब्दन इति वेण्निषेध इति ज्ञेयम् । कलनिस्व-नैर्मधुरस्वनैः शकुन्तैः शकुनैः । षट्पदसमस्तस्य निर्घुष्टमित्यस्योत्कृष्यात्राप्यन्वयो ज्ञेयः ॥१५॥
छलारी
कुमुदादीनां पुष्पाणां श्रिया कान्त्योर्जितम् । मत्तषट्पदैर्भ्रमरैर्निर्जुष्टं कूजितं कलं मधुरस्वनो येषां तैः शकुन्तैः पक्षिभिश्च निर्जुष्टम् ॥ १५ ॥
लिङ्गेरी
एतत्सरो वर्णयति ॥ कुमुदेत्यादिना ॥ कुमुदोत्पलकल्हारशतपत्रश्रिया बिेनेदलु, नेदलु , कल्हार, शतदकमलेति प्रसिद्धपुष्पाणां कान्त्योत्कृष्टम् । मत्तषट्पदनिर्घुष्टं पुष्परसपानादिना मदवद्भ्रमरखङ्कारोपेतम् । ‘षट्पदभ्रमरालय’ इत्यमरः । कलनिःस्वनैरव्यक्त-मधुरध्वनियुक्तैः । शकुंतैः पक्षिभिः । ‘शकुन्तपक्षिशकुन’ इति च । ऊर्जितमिति स्वतो विविक्तेन निर्घुष्टमिति बुद्ध्या विविक्तेन वा शकुन्तैरित्यस्यान्वयः ॥ १५ ॥
हंसकारण्डवाकीर्णं चक्राह्वैः सारसैरपि ।
जलकुक्कुटकोयष्टिदात्यूहकुलकूजितम् ॥ १६ ॥
सत्यधर्मीया
हंसाः श्वेतगरुतः कारण्डवा मद्गवस्तैराकीर्णम् । चक्राह्वैः कोकैः सारसैः पुष्कराह्वैर् जलकुक्कुटैर्नीरताम्रचूडैः कोयष्टयष् टिट्टिभिका दात्यूहाः कलकण्ठकास्तेषां कुलं तेन कूजितम् ॥ १६ ॥
छलारी
चक्राह्वैरप्याकीर्णं सङ्कुलम् । जलकुक्कुटादीनां कुलेन कूजितम् ॥ १६ ॥
लिङ्गेरी
हंसकारंडवाकीर्णम् । हंसैः प्रसिद्धैः । कारण्डवेति कन्नडभाषितैः पक्षिभिराकीर्णं पूर्णम् । चक्राह्वैश् चक्रवाकेति प्रसिद्धैः सारसेति प्रसिद्धैः पक्षिभिराकीर्णम् । जलकुक्कुटकोयष्टि दात्यूहकलकूजितं नीरको,ि कण्णुकाणदबक, करिगोरल, विषपक्षीति प्रसिद्धपक्षीणामव्यक्त-मधुरध्वनिमत् । ‘हंसास्तु श्वेतगरुतः’। ‘कोकश्चक्रवाक’ इति च । ‘कुक्कुटश्चरणायुधः’ । ‘दात्यूहः कलकण्टक’ इत्यमरः ॥ १६ ॥
मत्स्यकच्छपसञ्चारचलत्पद्मरजः पयः ।
कदम्बवेतसनलनीपवञ्जुलकैर्वृतम् ॥ १७ ॥
सत्यधर्मीया
मत्स्या झषाः कच्छपाः कूर्मास्तेषां सञ्चारेण चलन्ति पद्मानि तेषां रजोभिः परागैर्युतं पयस्तोयं यस्मिंस्तत् । कदम्बा हलिप्रियाः । सुराया अधिवासनादिति भानुः । वेतसाः शतवेघिनो नलाः पोटगलाः । ‘नलः पोटगल’ इति विश्वः । नलादयस्तृणमित्यमरात्तृण-विशेषो वा । नीपा नीलाशोकाः । ‘नीपः कदम्बबन्धूकनीलाशोकद्रुमेषु च’ इति भानुः । वञ्जुलका बकुलास्तैः ॥ १७ ॥
छलारी
मत्स्यानां कच्छपानां कूर्माणां जलजन्तूनां सञ्चारेण चलतां पद्मानां रजसा परागेण युक्तं पयो यस्मिंस्तत् । जलजान्द्रुमानुक्त्वा स्थलजानाह ॥ कदंबेत्यादिना ॥ १७ ॥
लिङ्गेरी
मत्स्यकच्छपसंचारचलत्पद्मरजःपयः । मत्स्यानां मीनानां कच्छपानां कूर्माणां संचारेण चलतां पद्मानां कमलानां रजसा परागेण युक्तं पयो जलं यस्मिंस्तत्तथा । कदम्ब-वेतसनलनीपवंजुलकैः कडवु, ह्यब्बि, देवनाल, कडविनविशेषः ह्यब्विविशेषेति प्रसिद्धैर्वृक्षैर्वृतम् । ‘तूलं च नीपपियककदंबाश्च हरिप्रिय’ इत्यमरः ॥ १७ ॥
कुन्दैः कुरबकाशोकैः शिरीषैः कुटजेङ्गुदैः ।
कुब्जकैः स्वर्णयूथीभिर्नागपुन्नागजातिभिः ॥ १८ ॥
पदरत्नावली
अशोकः सितरक्तभेदेन द्विविधः । कुरबकः कुटजः । कुब्जकं भ्रमरीपुष्पम् । स्वर्णः कृतमालः ॥ १८ ॥
सत्यधर्मीया
कुन्दानि माघ्यानि कुरबकाः शोणाम्लाना अशोका मानद्रुमाः कटुरोहिण्यो वा । ‘अशोको वञ्जुले मानद्रुमे । अशोकः कटुरोहिण्याम्’ इति विश्वः । ‘अशोकोऽलिपादप’ इति मेदिनीतोऽलिपादपा वा । शिरीषाः कपीतनाः । कुटजैर्गिरिमल्लिकाभिरिङ्गुदैस्तापसतरुभिः कुब्जकैर्भ्रमरीभिर्वृक्षैः । स्वर्णयूथिभिः सुवर्णमयाम्बष्टाभिः । नागैर्नागकेसरैः । नागो नागकेसर-पुन्नागनागदन्तकमस्तक इति विश्वः । पुन्नागैर्देववल्लभैर्जातिभिर्मालतीभिः ॥ १८ ॥
छलारी
कुन्दादिभिः पुष्पवृक्षैश् च शोभितम् ॥ १८ ॥
लिङ्गेरी
वेतकुंदैर् मोल्ये इति प्रसिद्धैः पुष्पैः, कुरबकाशोकैः केंपुगोर्टि, अशोकेति प्रसिद्धैः पुष्पैः । शिरीषैः शिरस इति प्रसिद्धपुष्पैः । कुटजेंगुदैर् गिरिमल्लिका, यिंगलेति प्रसिद्धपुष्पैः । कुब्जकैर् भद्रकरणीति प्रसिद्धैः । स्वर्णयूथिभिः सुवर्णवर्णशावन्तीति प्रसिद्धपुष्पैः । नागपुन्नागजातिभिर् नागकेसर, सुरगि, जातिमालतीति च प्रसिद्धपुष्पैः । माघ्यं कुंदमित्यमरः । तत्र शोणे कुरबक इति च । शिरीषसिरसावित्युत्पलमाला । कुटजो गिरिमल्लिकेति च । इंगुदी तापसतरुरिति च । कुब्जकं भद्रकरणी चेत्युत्पलमाल । यूथिकांबष्टि इति च । ‘नागस्तु केशरे नागे सर्पे वारणलोहयोः’ इति नानार्थरत्नमाला । ‘पुन्नागः पुरुषस्तुंगः केसरो देववल्लभ’ इत्यमरः । ‘सुमना मालतीजातिः’ इति च ॥ १८ ॥
मल्लिकाशतपत्रैश्च माधवीजालकादिभिः ।
शोभितं तीरजैश्चान्यैर्नित्यर्तुभिरलंद्रुमैः ॥ १९ ॥
पदरत्नावली
कमलात् पृथक् शतपत्रं जालकम् । मत्फुलिकालता । ‘अलंद्रुमः स विज्ञेयो नित्यपुष्पफले द्रुमः’ इत्यभिधानम् । तस्मिन्नुद्याने सरोवरोऽस्ति इत्यन्वयः । तत्रोद्याने तत्सरोवराभ्याशम् अद्रवदित्यन्वयः ॥ १९ ॥
सत्यधर्मीया
मल्लिकास्तृणशूल्यानि शतपत्रैर्माधव्यो वासन्त्यो जालकानि कोरकाणि मोचनफलानि वाऽऽदयो येषां ते तैः । ‘जालकं कोरकं नपुंसि मोचनफले’ इति मेदिनी । तीरजैस्तीरे तीराद्वा जातैरन्यैर्द्रुमैरलं शोभितम् । तामेवालं शोभामाह । नित्यर्तुभिः । नित्यम् ऋतवः सर्वेऽपि स्वस्वकार्यकारितया येषां ते तथा तैरिति । अन्यैर्वृक्षैरिति शेषः । अलन्द्रुमा नित्यपुष्पफलद्रुमास्तैरिति वा । ‘अलन्द्रुमः स विज्ञेयो नित्यपुष्पफलद्रुम’ इत्यभिधानात्
॥ १९ ॥
छलारी
अन्यैरुक्तेभ्यः नित्यम् ऋतवः फलपुष्पादिसंपत्तिहेतवो वसन्तादयो येषां तैर्द्रुमैरलं शोभितम् । ‘अलं द्रुमः स विज्ञेयो नित्यपुष्पफलद्रुम’ इत्यभिधानात् । तन्नामकवृक्षविशेषैर्वा
॥ १९ ॥
लिङ्गेरी
मल्लिकाशतपत्रैर् मल्लिगि शतदलकमलेति प्रसिद्धैः । माधवीजालकादिभिर् वासन्तिकलता, जालकेति प्रसिद्धपुष्पप्रभृतिभिः । तीरोत्पन्नैर् नित्यर्तुभिः सर्वर्तुयोग्यपुष्पफल-वद्भिरन्यैश्च द्रुमैर्वृक्षैरलं शोभितं सर आसीदित्यन्वयः । तृणशाल्यं तु मल्लिका, भूपदीशीत-भीरुश्चेत्यमरः । शतपत्रं कुशेशयमिति च । वासन्ती माधवी लतेति च ॥ १९ ॥
तत्रैकदा तद्गिरिकाननाश्रयः करेणुभिर्वारणयूथपश्चरन् ।
सकण्टकं कीचकवेणुवेत्रवद्विशालगुल्मं प्ररुजन् वनस्पतीन् ॥ २० ॥
पदरत्नावली
सकण्टकं विशालगुल्पं वनस्मतीश्च प्ररुजन् ॥ २० ॥
सत्यधर्मीया
यदर्थमियदत्यर्थवर्णनं तदाह ॥ तत्रेति ॥ तत्रोद्याने तद्गिरिकाननाश्रयः स चासौ गिरिश्च तस्य यत्काननं तदेवाश्रयो यस्य सः । करेणुभिः । करेणवश्चेभ्यश्च करेणवश्चेभाश्च । पुमांस्त्रियेत्येकशेषेण द्वयं ग्राह्यम् । तैः । करेणुकरिभ्यां स्त्रीनेभ इत्यमरः । सह वारणयूथपः । यद्यपीभस्तम्वेरमः पद्मी यूथनाथस्तु यूथप इत्यमराद्यूथपदेनैव द्विपबोधस्तथाऽपि वारणशब्द-निवारितार्थं नाथमात्रमुपस्थापयति विशिष्टवाचकनीत्येति ज्ञेयम् । यद्वा । वा उदकं तदर्थ-मणतीति वारणः स चासौ यूथपश्चेति । यूथं वृन्दमात्रेऽपीत्युक्तेर्वारणानां यूथं पातीति स वा चरन् यूथनाथः । यद्यपि तेनैवैतद्वचने स्थिता इति नेत्यप्याह ॥ तद्गिरीति ॥ सा च सा गीश्च तद्गीस्तस्याम् । स्थितैरिति शेषः । काननाश्रयः सकण्टकं कण्टकैर्द्रुमांशैः । कण्टको द्रुमांशे चेति विश्वः । सहितम् । कीचकाः । ‘कीचका वेणवस्ते स्युर्ये स्वनन्त्यनिलोद्धता’ इत्यमरः । कीचकाश्च वेणवश्च मस्कराश्च वेत्रा वेतसविशेषाश्च सन्त्यस्मिन् स चासौ विशालो गुल्मस्तम्बश्च तम् । तथा वनस्पतीन् । सफलान् पुष्पान् वृक्षान् । पारस्करप्रभृतीनीति सुट् । तैरपुष्पा-द्वनस्पतिरित्यमरः । वृक्षमात्रं वा । वनस्पतिर्ना द्रुमात्रे विना पुष्पं फलद्रुम इति भानुः । प्ररुजन् भञ्जयन् । यद्वा । एकदा गिरिकाननाश्रयो गिरिकाया अननं सकलचेष्टा तस्याश्रयस्तु । वसु-रुपरिचरस्तद्वदेकदा चरन् । उपर्येव चरन्नित्यर्थः । उक्तं चादिपर्वणि । चकार पत्नीं कन्यां तु दयितां गिरिकां नृपः । वसोः पत्नीति गिरिकेति ॥ २० ॥
छलारी
तद्गिरिकाननाश्रयस्तत्पर्वतवनाश्रयो वारणयूथपो गजेन्द्रः करेणुभिर्गजादिभिश्चरन् एकदा तत्रोद्याने । प्रविवेशेति शेषः । किं कुर्वन् । सकण्टकं कीचकवेणुवेत्रवन्तं विशालं गुल्मं लतादिसन्दर्भं वनस्पतीन्वृक्षांश्च प्ररुजन्प्रभंजयन् ॥ २० ॥
लिङ्गेरी
तत्रोक्तगुणवति सरोवरे तत्समीपे । वटे गाव इतिवत्सामीप्याधिकरणे सप्तमी । तत्रोक्तोद्यान इति वा । एकदैकस्मिन्काले । सर्वैकान्यकिं यत्तत्काले देति एकशब्दात्सप्तमी समर्थात्काले दा प्रत्ययः । तस्य त्रिकूटस्य गिरेः काननानि वनान्येवाश्रयो यस्य स तद्गिरि-काननाश्रयः । वीरयूथपो गजसमुदायरक्षको गजेन्द्रः करेणुभिर्गजस्त्रीभिः संचरन् । कण्टकवृक्ष-सहितं पो•बिदरु, घट्टिबिदरु, ब्यत्तेति प्रसिद्धैर्युक्तं, विस्तृतस्तृणलतादिपुंजं पुष्पफलशून्यवृक्षांश्च प्ररुजन् प्रभंजयन् आसीत् । करेणुकरिभ्यां स्त्रीत्यमरः । तैरपुष्पाद्वनस्पतिरित्यमरः । वेणवः कीचकास्ते स्युर् ये स्वनन्त्यनिलोद्धता इति च ॥ २० ॥
यद्गन्धमात्राद्धरयो गजेन्द्रा व्याघ्रादयो व्यालमृगाः सखड्गाः ।
महोरगाश्चपि भयाद् द्रवन्ति सगौरकृष्णाः शलभाश्चमर्यः ॥ २१ ॥
पदरत्नावली
हरिप्रभृतिमर्कटान्ता यस्य गन्धमात्राद् अद्भुतभयाद् द्रवन्तीत्यन्वयः । खड्गो मृगविशेेषः । व्यालमृगः सर्पाकारो मृगः ॥ २१ ॥
सत्यधर्मीया
सिंहसंहतिरपि हिंसिका । द्रवति यद्बलमीदृक्किं गतिका इतर इतीरयति ॥ यद्गन्धेति ॥ दूरत आघ्राताद्यद्गन्धमात्रात्केवलगन्धात् । हरयः सिंहाः करिमारकाणां सिंहानां तद्भीतिः कथमिति चेत्सत्यं, स्वाभाविकगजमारकत्वं सिंहानां स्वभावः । अयं तु शाप-प्रयुक्तगजदेहवानिति राजत्वात् तद्भीषकत्वमुपपन्नम् । किं दुश्शकं हर्यर्चनानुभावस्य । गजेन्द्रा अन्ये । व्याघ्राः शार्दूला आदयो येषां ते तथा । व्यालाश्चतुष्पादाः । व्यालो ज्ञेयश्चतुष्पादा इत्यनेकार्थध्वनिमञ्जरी । मृगाः कुरंगाः । ‘मृगः पशौ कुरंगे च’ इति विश्वः । खड्गा गण्डकाः । ‘गण्डके खड्गखडि्गनौ’ इत्यमरः । तैः सहिताः । महोरगाः । उरगः पन्नगो भोगीत्यमरः । सगौरकृष्णा गौराः पीता अरुणाः श्वेतवर्णाः कृष्णाश्च तैः सहिताः सगौरकृष्णाः । शरभा गन्धर्वाः । गौरो न तृषितः पिबेत्यृग्भाष्यटीकायां मृगविशेष इत्युक्तेर्मृगविशेषाश्च कृष्णास्तैः सहिताः शरभा इति वा । ‘गौरः पीतेऽरुणे श्वेत’ इति विश्वः । चमर्यो गोकर्णाः ॥ २१ ॥
छलारी
पर्वताश्रयेण सञ्चरन्तं गजेन्द्रं वर्णयति ॥ यद्गंधेति ॥ यद्गन्धमात्राद्यस्य गजेन्द्रस्य मदगन्धादेव जाताद्भयाद्धरयः सिंहास्तदादयो वनजन्तवो द्रवन्ति पलायन्ते । व्याल-मृगाः सर्पाकारमृगाः सखड्गास्तन्नामका मृगाः सगौरकृष्णाः सहिताः कृष्णसाराः ॥ २१ ॥
लिङ्गेरी
यस्य गजेन्द्रस्य गन्धमात्रात्केवलं वासनाद्धरयः सिंहा गजेन्द्रा वारणश्रेष्ठाः, व्याघ्रादयः शार्दूलप्रभृतयो, व्यालाः क्षुद्रसर्पा, मृगाः कृष्णसाराः खड्गमृगसहिता महोरगाश्च महासर्पा अपि गौरकृष्णमृगसहिता अष्टपादमृगाश्चमर्यः स्त्रीचामरमृगा अपि भयाद्द्रवन्ति । तद्वासनाघ्राणजनितभीतेः स्वस्वस्थलं विहायाशु गच्छन्ति । गन्धो गन्धकआमोदमोदलेशस्मयेषु चेति नानार्थरत्नमाला । ‘सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः’ इत्यमरः । ‘शार्दूलद्वीपिनौ व्याघ्र’ इति च । ‘व्यालो दुष्टगजे सर्प’ इति नानार्थरत्नमाला । ‘मृगे कुरंग’ इति च । ‘शरभो राम’ इति च ॥ २१ ॥
वृका वराहा महिषर्क्षशल्या गोपुच्छशालावृकमर्कटाश्च ।
अन्ये च क्षुद्रा हरिणाः शशादयश्चरन्त्यभीता यदनुग्रहेण ॥ २२ ॥
पदरत्नावली
उक्तेभ्योऽन्ये च क्षुद्रा हरिणादयो मृगविशेषा यदनुग्रहेणाभीताश्चरन्ति सिंहादिभयराहित्यात् ॥ २२ ॥
सत्यधर्मीया
वृका ईहामृगाः । वराहाः सूकराः । महिषा लुलायाः । ऋक्षा भल्लूकाः । शल्याः श्वाविधाः । गोपुच्छा गोलाङ्गूलाः । सालावृकाः सृगालाः सारमेया वा । ‘सालवृकः सृगाले स्यात्सारमेय’ इति मेदिनी । मर्कटो वानरः । अन्ये उक्तेभ्यः । क्षुद्राः कृपणाः । हरिणा अजिनयोनयः । शशः सृमर आदिर्येषां ते तथा । एतेषां क्षुद्रता सर्वथेति ध्वनयितुं चकारस्य गौरवानापादकता वृत्तविच्छित्तिभीत्या क्षाक्षरस्येति ज्ञेयम् । यदनुग्रहेण यस्य गजराजस्यानुग्रहो दयाविशेषस्तेनाभीताः स्वस्वघातकभीतिरहिताश्चरन्ति ॥ २२ ॥
छलारी
वृकादयः क्षुद्रा अल्पबलाः । यस्य गजेन्द्रस्यानुग्रहेणाभीताः सन्तोऽन्यत्र दृष्टिपथं त्यक्त्वा चरन्ति । सिंहादिभयाभावात् ॥ २२ ॥
लिङ्गेरी
वृकास् तोा इति प्रसिद्धाः । वराहाः सूकराः । महिषाः प्रसिद्धाः । ऋक्षाः करडीति प्रसिद्धाः । शल्या येत्तु इति प्रसिद्धाः । गवां पुच्छं वालमिव पुच्छं येषां ते गो-पुच्छाः । गवया वानरविशेषाश्च । सालावृका नरीति प्रसिद्धा अरण्यशुनश्च । मर्कटा वानराः । हरिणा यरी प्रसिद्धाः । शशादयः मोल इति प्रसिद्धमृगमुख्याः । अन्ये क्षुद्रा मृगाश्च । यदनुग्रहेण यस्य गजेन्द्रस्य प्रसादेनाभीता भयरहिताश्चरंति । कोका ईहामृगो वृकः । वराहः सूकरो घृष्टिः । अथ भल्लूको ऋक्षाश्च भल्लभल्लूकाः सालावृकाः । कपिक्रोष्टुश्वानः । मर्कटो वानरः । चमरुश्चेति हरिणा अमी अजिनयोनयः ॥ २२ ॥
स घर्मतप्तः करिभिः करेणुभिर्वृतो मदच्युत्कलभैरनुद्रुतः ।
गिरिं गरिम्णा परितः प्रकम्पयन् निषेव्यमाणोऽलिकुलैर्मदाशनैः ॥२३॥
सत्यधर्मीया
स घर्मतप्तो घर्मेणातपेन । ‘घर्मः स्यादातपे ग्रीष्म’ इति विश्वः । तप्तः सन्तप्तः करिभिर्गजैः करेणुभिरिभीभिर्मदच्युन्मदं दानोदकं च्योतयतीति स तथा । ‘मदो हर्षेभदानयोः’ इति विश्वः । कलभैः करिपोतैः । मदच्युतश्च ते कलभाश्चेत्येकं पदं वा । गरिम्णा । पृथ्वादीमनजन्तो गरिमशब्दः । भारेण । मदाशनैर्दानोदकं मद एवाशनं येषां तैरलि-कुलैर्भ्रमरनिकुरम्बैर्निषेव्यमाणः सेव्यमानः । अभितः परित इति परितो योगाद्गिरिमिति द्वितीया । प्रकंपयन् । गामिति शेषः ॥ २३ ॥
छलारी
उद्यानं प्रविष्टस्य गजेन्द्रस्य सरोवराभ्याशगमने निमित्तमाह ॥ स घर्मतप्त इति ॥ घर्मेणातपेन तप्तः । मदच्युतैर्मदस्राविकरिभिर्गजैः करेणवैश्च वृतः । कलभैः कपोतैः । गरिम्णा गुरुत्वेन निमित्तेन गिरिं प्रकंपयन्मदमश्नन्तीति तथा तैरलिकुलैर्भ्रमरगणैः ॥ २३ ॥
लिङ्गेरी
स गजेन्द्रः करिभिर्गजैः करेणुभिर्गजस्त्रीभिर्मदच्युत्कलभैर्मदस्राविबालगजै-र्वृतोऽनुद्रुतश्च पृष्ठतोऽनुधावितश्च । करिभिः करेणुभिर्वृतः कलभैरनुद्रुत इति वा । गरिम्णा सपरिवारस्य स्वस्य गुरुत्वेन दुर्भरभारेण गिरिं त्रिकूटं परितः समंतात्प्रकंपयन् अत्यन्तं चलयन् । मदाशनैर्मदभोजनैरलिकुलैर्भ्रमरसमूहैर्निषेव्यमाणः सेव्यमानः सन् । घर्मेण निदाघेन तप्तः सन् । तत्सरोवराभ्याशं द्रुतमगमदित्युत्तरेणान्वयः । घर्मो निदाघः । ‘कुंजरो वारणः करी’ । ‘कलभः करिपोतः स्यात्’ इति चामरः ॥ २३ ॥
सरोऽनिलं पङ्कजरेणुरूषितं जिघ्रन्नदूरान्१ मदविह्वलेक्षणः ।
वृतः स्वयूथेन तृषार्दितेन तत्सरोवराभ्याशमथागमद् द्रुतम् ॥ २४ ॥
पदरत्नावली
सरः संबन्धिवायुम् ॥ २४ ॥
सत्यधर्मीया
सरोऽनिलं तत्सबन्धिगन्धवहम् । पङ्कजानां कमलानां रेणवः परागास्तै रूषितमलङ्कृतम् । सम्बद्धमिति यावत् । रूषभूष अलङ्कार इति स्मृतिः । अदूरात्समीपत एव । विदूरादिति पाठे परिमलवैपुल्यमिलितताऽनिलस्य ज्ञेया । स्वयूथेन स्वगजसमाजेन । यूथं तिर्यक् समूहे स्याद्वृन्दमात्रेऽपि भाषितमिति विश्वः । तृषया पिपासयाऽर्दितं पीडितम् । अनेनातीतश्लोके स घर्मतप्त इत्यत्रावृत्त्या घर्मतप्तैः सहितः सघर्मतप्त इति वृत्त्यन्तरस्य मूलमालापीति ज्ञेयम् । तत्सरोवराभ्याशं स चासौ सरोवरश्च तस्य समीपं द्रुतमगमदगच्छत् । आगमदागच्छदिति वा
॥ २४ ॥
छलारी
पङ्कजपरागेण वासितं सरोऽनिलं सरःसम्बन्धिवायुं दूराज्जिघ्रन्मदेन विह्वलितेक्षणश्चञ्चलनेत्रः ॥ २४ ॥
लिङ्गेरी
अथ घर्मजसंतापप्राप्त्यनन्तरं स गजेन्द्रो मदविह्वलेक्षणः सन् । पङ्कजरेणुरूषितं कमलपरागलिप्तं सरोऽनिलं पूर्वोक्तसरोवरसंबन्धिवायुं विदूरादतिदूरादागतं जिघ्रन् घ्राणेनानुभव-न्सन् । तृषार्दितेन जलपानेच्छापीडितेन स्वयूथेन स्वकीयगजसमुदायेन वृतः सन् । तत्सरोवरा-भ्याशं पूर्वोक्तसरोवरसमीपं द्रुतं शीघ्रमाद्रवदगमत् । ‘विह्वलं चंचलं चलम्’ इति मालतीमाला । ईक्षणं चक्षुरक्षिणीत्यमरः ॥ २४ ॥
विगाह्य तस्मिन्नमृताम्बु निर्मलं हेमारविन्दोत्पलरेणुवासितम् ।
पपौ निकामं निजपुष्करोद्धृतं स्वात्मानमद्भिः स्नपयन् गतक्लमः ॥ २५ ॥
सत्यधर्मीया
विगाह्यावगाह्यामृताम्बु तद्वद्विद्यमानं नीरम् । हेमपदमरविन्दोत्पलो-भयान्वयि । निजं च तत्पुष्करं कराग्रम् । ‘पुष्करं पयः करिकराग्रयोः’ इति विश्वः । तेनोद्धृतं पयः स्वात्मानं स्वदेहमद्भिः स्नपयन् । ग्नास्नावनुवमां चेति वैकल्पिके मित्त्वे णौ मितामिति ह्रस्वतायां स्नपयन् पक्षे स्नापयन्नित्यपि भवतीति ज्ञेयम् । गतक्लमो गततापक्लान्तिरभूत् । स सन्पुनर्निकामं पपाविति वा ॥ २५ ॥
छलारी
तस्मिन्सरसि विगाह्य प्रविश्य हेमारविन्दानामुत्पलानां च परागेण परिमली-कृतम् ॥ निजपुष्करेण तुण्डाग्रेणोद्धृताद्भिरात्मानं स्नपयन् सिंचन् गतक्लमोऽपगतश्रमः सन् अमृतांबु स्वादूदकं निकामं पपौ ॥ २५ ॥
लिङ्गेरी
स गजेन्द्रस्तस्मिन्सरोवरे विगाह्य प्रविश्य निमज्य च । हेमारविंदोत्पलरेणुवासितं सुवर्णवर्णकमलनेदलीति प्रसिद्धपुष्पपरागपरिमलितम् । निर्मलं मृत्कालुष्यादिदोषरहितं निज-पुष्करोद्धृतं स्वकीय सोंडिलु इति प्रसिद्धहस्तेनोर्ध्वं गृहीतम् । अमृतांब्वमृतसदृशजलं निकामं यथेच्छं पपौ पीतवान् । अद्भिर्जलैरात्मानं स्वदेहं स्नपयन् प्रक्षालयन् । पपावित्यनेन स्वस्या-प्यतितृषितत्वं सूचितम् । ताभ्यां स्नानपानाभ्यां गतक्लमो गत बलिकीतिप्रसिद्धश्रमवानभूदिति शेषः ॥ २५ ॥
स्वपुष्करेणोद्धृतसीकराम्बुभिर्निपाययत् संस्नपयन् यथा गृही ।
घूर्णन्१ करेणून् कलभांश्च दुर्मदो नाचष्ट कृच्छ्रं कृपणोऽजमायया ॥ २६ ॥
सत्यधर्मीया
सीकरोऽम्बुकणाः स्मृता इत्यमराद्वातप्रसृतकणीभूताम्बुभिः । शीकृ सेचने । तालव्यादिः । शम्बशूकरपांशव इति तालव्यप्रकरण ऊष्मविवेकात् । दन्त्यादिरयमिति धनपालादयः । ऋच्छेरन्निति बाहुलको रन् । तालव्याश्चैव दन्त्याश्चेत्यादेर्द्वन्द्वमप्रतिद्वन्द्वम् । सीकरोऽम्बुकणा इति पाठस्तु व्याख्यानानवलोकनमूलो लेखकहस्तदोषपतित इति ज्ञेयम् । सृता वायुनेतस्ततः प्रसृता इति भानुः । गृही गृहस्थाश्रमी । अजमायया हरीच्छया दुर्मदः कृपणः क्षुद्रजातिजत्वात्क्षुद्रः । कदर्ये कृपणः क्षुद्रेत्यमरः । घूर्णन् भ्रमन् । रमन्निति पाठे रमय-न्नित्यर्थः । कृच्छ्रमेष्यत्कष्टं नाचष्ट नापश्यत् । न ज्ञातवानिति यावत् । कृन्तति । कृती छेदने । कृतेश्चक्रचेतिरकछश्च । कृच्छ्रमम्भसि । कष्टं सन्तापने स्यात्कष्टं कृच्छ्रमाभीलमिति च हैमामरौ ॥ २६ ॥
लिङ्गेरी
अजमायया हरेर्बन्धकशक्त्या । कृपणः संसारे लुब्धो गृही गृहस्थो यथा तथा स्वस्त्रियादिषु, घृणी कृपावान् करेणूः कलभांश्च स्वपुष्करेण स्वहस्तेनोद्धृताभिः सीकराभिः शीतलाभिरम्बुभिरद्भिर्निपाययन् पानं कारयन् संस्नपयन् सम्यक् स्नानं कारयन् दुर्मदो दुष्टमदोपेतः स गजेन्द्रोऽजमायया हरेर्मोहकेच्छया मोहितः कृच्छ्रं भविष्यत्कष्टं नाचष्ट न ज्ञातवान् । पुष्करं गजशुंडे स्यात्कमले क्षेत्रभेदके इति नानार्थरत्नमाला । तुषारः सीकरः शीतो हिम इत्यमरः । करुणा घृणेति च । स्यात्कष्टं कृच्छ्रमिति च । ‘अजा विष्णुहरच्छागाः’ इत्यमरः । माया भगवदिच्छायां शक्तो बंधनमोहयोः । ‘प्रकृतौ कपटे लक्ष्म्याम्’ इति नानार्थमुक्तमाला ॥ २६ ॥
तं तत्र कश्चिन्नृप दैवचोदितो ग्राहो बलीयांश्चरणे रुषाऽग्रहीत् ।
यदृच्छयैवं व्यसनं गतो गजो यथाबलं सोऽतिबलो विचक्रमे ॥ २७ ॥
पदरत्नावली
हे नृप, पादाक्रान्तिनिमित्तरुषा यथाबलं यथाशक्ति विचक्रमे विक्रमं कृतवान् ॥ २७ ॥
सत्यधर्मीया
हे नृप । दैवचोदितो यन्माययाऽयं दुर्मदस्तेन दैवेन श्रीहरिणा चोदितः प्रेरितो ग्राहो वराहः । ‘ग्राहो ग्रहे वराहे च’ इति विश्वाज्जलजन्तुविशेषः । स च नक्रः । केचित्तु ‘ग्राहो वराहो नक्रस्तु कुम्भीलोऽथ महीलता’ इत्यमरान्नक्र इति विवृतवन्तो न त्वन्थातादीति तत्सङ्केतस्मृतिमन्त इति स्मरणीयम् । कुम्भीलनक्रपदयोरेव पर्यायतायास्तेन स्फोरणात् । स च न दुर्बल इत्याह ॥ बलीयानिति ॥ पदाघातो जातः स्वस्य । तद् ग्रहो ‘यस्यापराधः खलु तस्य दण्ड’ इति नीत्या युक्त इति तथा चकारेत्याह । रुषा स्वहतिजकोपेन । चरणे पादेऽ-गृहीद्गृहीतवानिति । चरण इत्युदीर्यानुदीर्याङ्घ्रिपादादिपदं तदुपरि सञ्चरण इति खडिति प्रकटीचकारेवोत्तरत्र चरणं पवित्रं विततं पुराणमित्यादिमानप्रमितचक्रत एव तन्मोक्षणं भवतीति चरण आगामिनि सतीति भावं ध्वनयामास व्यास इति ध्येयम् । यदृच्छया हरीच्छया । यदृच्छा तु तदिच्छा स्यादित्यर्थः । एवं व्यसनं दुःखं गतः प्राप्तो गजः । यथाबलं स्वबलानुकूल्येन । तन्न नास्तीत्याह ॥ अतिबल इति । विचक्रमे विः पादविहरण इति विपूर्वकस्य क्रमे-रात्मनेपदताऽभिधानात्पादविहरणं कृतवानित्यर्थः । यथा तमबलं निर्बलं कलयामीति तथाऽति-बलो विचक्रम इति वा । रुषा च कोपेनैव रणे युद्धविषयेऽगृहीदिति चासूचयदिति ज्ञेयम् । यद्वक्ष्यति नियुद्ध्यतोरिति ॥ २७ ॥
छलारी
हे नृप । दैवचोदितोऽदृष्टप्रेरकेश्वरेण प्रेरितः कश्चिद्ग्राहो नक्रनामकजलजन्तु-श्चरणे पादे रुषा पादाक्रान्तनिमित्तकोपेन यदृच्छयाऽदृष्टप्रेरकेश्वरेच्छया । एवं व्यसनं कष्टम् । यथाशक्ति विचक्रमे पराक्रमं कृतवान् ॥ २७ ॥
लिङ्गेरी
हे नृप परीक्षिद्राज । तत्र सरोवरे बलीयानतिबलः कश्चिद्ग्राहो नक्रो दैवचोदितः स्वादृष्टप्रेरकेश्वरप्रेरितः सन् । रुषा कोपेन तं गजेन्द्रं चरणे पादेऽग्रहीज्जग्राह । अतिबलोऽत्यन्त-शक्तिमान् स गजो गजेन्द्रो यदृच्छया हरीच्छयैवमुक्तरीत्या व्यसनं क्लेशं गतः सन् । यथाबलं स्वशक्त्यनुसारेण विचक्रमे सरोवराद्बहिः पादविक्षेपमुपक्रमे पराक्रमं चकारेति च । ‘दैवं दिष्टं भागधेयम्’ इत्यमरः । कोपक्रोधामर्षरोषप्रतिघारुट्क्रुधः स्त्रियामिति च । यदृच्छा तु तदिच्छा स्यादिति वचनम् । व्यसनं क्लेशमित्युत्पलमाला ॥ २७ ॥
तथाऽऽतुरं यूथपतिं करेणवो विकृष्यमाणं तरसा बलीयसा ।
विचुक्रुशुर्दीनधियोऽपरे गजाः पार्ष्णिग्रहाः पारयितुं१ न चाशकन् ॥२८॥
सत्यधर्मीया
तथा तरसा बलेन वेगेन च । तरो बले च वेगे चेति विश्वान्नपुंसक-लिङ्गस्तरः शब्दः । बलीयसा ग्राहेण विकृष्यमाणमातुरमार्तं करेणव इभ्योऽपरे गजाश्च पार्ष्णि-ग्रहाः । गृह्णन्तीति ग्रहाः पार्ष्णेर्ग्रहो याभिर्यैश्चेति ते तथा । ‘पार्ष्णिग्राहस्तु पृष्ठग’ इत्यमरः । सहकारिण इति यावत् । पारयितुं तारयितुं चेत्येकार्थौ पाठौ । न च नैवाशकन् शेकुरिति दीनधियो विचुक्रुशू रुरुदुरित्यन्वयः ॥ २८ ॥
छलारी
तथाऽऽतुरमेवं व्यसनं प्राप्तं बलीयसा ग्राहेण तरसा वेगेन जलान्ते विकृष्यमाणं यूथपतिं गजेन्द्रं दीनधियः खिन्नचित्ताः करेणवः केवलं विचुक्रुशुः । पार्ष्णिग्रहाः पृष्टतः सहायकारिणोऽपरे गजाश्च तारयितुं नाशकन् । शक्लृ शक्तौ इत्यस्माद्धातोः कर्तरि । अशकद् अशकताम् अशकन् लङ् ॥ २८ ॥
लिङ्गेरी
करेणवोऽपरे गजाश्च तथा पूर्वोक्तप्रकारेणातुरं भ्रान्तं बलीयसाऽतिबलेन ग्राहेण तरसाऽतिवेगेन विकृष्यमाणं यूथपतिं स्वसमुदायपालकं गजेन्द्रं दृष्ट्वा । तस्य पार्ष्णिग्रहाः पृष्ठभागग्राहिणोऽपि गजेन्द्रं तारयितुं तीरं गमयितुं नाशकन् शक्ता न बभूवुः । अत एव दीनधियो दैन्योपेतबुद्धयः सन्तो विचुक्रुशुश्चार्तध्वनिं चक्रुरपि । ‘आतुरश्चकितो भ्रान्तः’ इत्युत्पलमाला
॥ २८ ॥
नियुध्यतोरेवमिभेन्द्रनक्रयोर्विकर्षतोरन्तरतो बहिर्मिथः ।
समाः सहस्रं व्यगमन् महीपते सप्राणयोश्चित्रममंसतामराः ॥ २९ ॥
सत्यधर्मीया
एवं बहिरन्तरतोऽन्तर्मिथः परस्परं विकर्षतोर्नियुद्ध्यतोर्नियुद्धं कुर्वतोः सप्राणयोरिभेन्द्रनक्रयोः । यद्यपीभेन्द्रनक्रयोरित्येतदानुकूल्येन बहिरन्तरत इति वक्तव्यमेवमुक्तिस्तु नक्रक्रियायाः साक्षादेतत्प्रतिक्रियायोग्यत्वसूचनायेति ज्ञेयम् । सहस्रं समा विंशत्याद्याः सदैकत्वे । ‘हायनोऽस्त्री शरत्समा’ इत्युभयतश्चामरः । व्यगमन् गताः । सहस्रसंवत्सरपर्यन्तमनशनयो-र्युद्ध्यतोः सप्राणत्वममरा अपि चित्रमद्भुतममंसत व्यजानन् । वयं पीयुषपानप्राप्तामरत्वा अमू तु न तथाऽथापि जीवन्तौ वर्तेते इति विचित्रितामननं सुमनसां युक्तमिति भावः । इदं युद्धं चित्रममंसत मेनिर इति योजयन्ति । तत्पक्षेऽमरपदमस्वरसार्थमित्युपर्येव ज्ञायत इति ज्ञेयम् । सप्राणयोः सहस्रसंवत्सरगमनं चित्रममंसतेति योजना त्वेतदध्वनी नैवेति युक्ता ॥ २९ ॥
छलारी
नियुध्यतोर्द्वन्द्वयुद्धं कुर्वतोरिभेन्द्रनक्रयोर्गजेन्द्रग्राहयोः । समा वत्सराः । युद्धं चित्रममंसत मेनिरे ॥ २९ ॥
लिङ्गेरी
हे महीपते मिथः परस्परमन्तः सरसोंऽतः सरोवराद्बहिश्च विकर्षतोः कर्षणं कुर्वतोः सप्राणयोः शरीरबलवतोरिभेन्द्रनक्रयोर् गजेन्द्रन्यगु इति प्रसिद्धजलचरयोरेवमुक्तप्रकारेण नियुध्यतोर्द्वन्द्वयोधिनोः सतोः । सहस्रसंख्याकाः समाः संवत्सरा व्यगमन् गतवन्तः । अमराश्चित्रमाश्चर्यकरमिदं युद्धममंसत ज्ञातवन्तः । ‘इभस्तंबेरमः पद्मीकुंजर’ इत्यमरः । ‘ग्राहो वराहो नक्र’ इति च । ‘संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समा’ इति चामरः ॥ २९ ॥
ततो गजेन्द्रस्य सहोबलौजसां कालेन दीर्घेण महानभूद् व्ययः ।
विकृष्यमाणस्य जलेऽवसीदतो विपर्ययोऽभूत् सकलं जलौकसः ॥ ३० ॥
पदरत्नावली
इन्द्रियादीनामवसादनप्राप्तावुत्तम्भनशक्तिः सहः । प्राणशक्तिर्बलम् । शरीरसामर्थ्यमोजः ॥ ३० ॥
सत्यधर्मीया
सहो बलं स्थितस्थानमोजो दीप्तिः सहो बले । बलं गन्धरसे रूपे स्थाने निःस्थौल्यसैन्ययोः । ‘ओजो बले च दीप्तौ च’ इति सर्वत्र विश्वः । सहः सहनशक्तिर्बल-मितस्ततः सञ्चलनमोज इन्द्रियसामर्थ्यमिति वा । तेषाम् । जलेऽवसीदतः क्लिष्टस्य गजेन्द्रस्य । ततः सार्वविभक्तिकस्तसिः । तेन ग्राहेण विकृष्यमाणस्य दीर्घेण महता कालेन महान्विपर्ययो विपर्यासः । ह्रास इति यावत् । अभूत् । जलौकसो ग्राहस्य जलमोको निवसनं यस्य स तस्य । ‘धिष्ण्यमोको निवसनम्’ इत्यमरः । सकलं षोडशकलाकलितम् । कलेवरमिति यावत् । व्ययो विशिष्टमयः कालायसम् । कालायसायसीत्यमरः । तद्वत्कठिनमभूत् । गजेन्द्रस्य तेषां सहआदीनां व्ययो हानिरभूत् । जलौकसः सकलं सहआदिकं विपर्ययो विपरीतमव्ययमभूदित्यपि योजयन्ति । स्वागारगतस्य सम्भवदिदमेधनमिति भावः ॥ ३० ॥
छलारी
सहः सहनशक्तिर्बलं शरीरसामर्थ्यमोज इन्द्रियबलम् । तेषां व्ययो ह्रासः । जले विकृष्यमाणस्यावसीदतः क्लेशितस्य गजेन्द्रस्य जलौकसो जलवासिनो नक्रस्य सकलं बलादि विपर्ययो गजेन्द्रबलाद्यपेक्षया विपरीतमधिकम् ॥ ३० ॥
लिङ्गेरी
ततः सहस्रवर्षानन्तरं जले ग्राहेण विकृष्यमाणस्यात एवावसीदतः क्लिश्यतो गजेन्द्रस्य मनोबलोजसाम् अन्तःकरणशरीरशक्तिविपन्निरोधशक्तीनां महान्व्ययो ह्रासो दीर्घेण कालेनाभूत् । जलमुदकमोकमाश्रयो यस्य ग्रहस्य तस्य यत्सकलं समस्तं मन आदि तस्य मनोबलोजसां विपर्ययो वैपरीत्यमभिवृद्धिरभूत् ॥ ३० ॥
इत्थं गजेन्द्रः स यदाप सङ्कटं प्राणस्य देही विवशो यदृच्छया ।
अपारयन्नात्मविमोक्षणे चिरं दध्याविमां बुद्धिमथाभ्यपद्यत ॥ ३१ ॥
पदरत्नावली
अपारयन् पारं गन्तुमशक्तः ॥ ३१ ॥
सत्यधर्मीया
स गजेन्द्रो यदा सङ्कटं कष्टं प्राणस्य प्राणानामाप । तत्र निमित्तमाह ॥ देहीति ॥ तदभिमानवानित्यर्थः । यदृच्छयेति सङ्कटमापेत्यत्रेव दध्यौ इमां बुद्धिमथाभ्यपद्यते-त्यत्राप्यन्वेति । विवशोऽस्वाधीनेन्द्रियो भगवदधीन इति वा । आत्मविमोक्षणे स्वमोचनेऽपारयन् असमर्थो भवन् । देहीति प्रशस्तदेहवान्प्रागिति चिरं दध्यौ । अथ ध्यानानन्तरमिमामुत्तरत्र वक्ष्यमाणां बुद्धिं निश्चितमतिम् । बुद्ध्यतेऽनयेति बुद्धिस्तां स्तोत्रवाचं वा । बुद्ध्यतेऽनयेति बुद्धिः साङ्ख्यविषया यया वाचा बुद्ध्यते सा वागिति । बुद्धिं कार्याकार्यविनिश्चयम् । ‘ज्ञानं प्रतीतिर्बुद्धिस्तु कार्याकार्यविनिश्चय’ इत्यनभिदधानमिति गीताभाष्योक्तेः । अभ्यपद्यत प्राप्तवान् । आत्मनो ग्राहमोक्षण इत्यभिधानोऽभिधास्यंश्च केवलमात्मविमोक्षण इति शरीरविमोचनमोक्षप्राप्त्यै दध्याविति ध्वनयामास । विमेन विरुद्धा स्वमतिविरुद्धा मा ज्ञानं मतिर्यस्य सः विमो विमतो वैरी ग्राहस्तेनोक्षणे सेचने जलान्तःपातनेन प्रसक्तेऽपसङ्कटमपगतसङ्कटं यथा भवति तथा । इमां स्वतनुमपारयन् । यन्नितीणो रूपम् । अन्तर्णीतण्यर्थं च । पारं परतटं प्रान्तं वा यन् गमयन्नुच्यते पारयन्स न भवतीत्यपारयन् । ‘पारं परतटे प्रान्त’ इति विश्वः । स्वयं पारमगच्छन्वा । प्रस्तुतविवक्षयेदम् । कथितं कृषेरिव पलालकुलमितिवत् प्राप्तभगवद्ध्यानबुद्धेस्तु महामोक्ष एव महाफलमिति भावः ॥ ३१ ॥
छलारी
गजेन्द्रो देही । हेतुगर्भविशेषणमेतत् । देहधारित्वात् । इत्थं प्राणस्य संकटं मरणबाधां यदाऽऽप तत्तदाऽऽत्मविमोक्षणेऽपारयन्नशक्तो यदृच्छया हरीच्छया विवशः स्मरणरहितः सन् चिरं दध्यावितः परं किं कार्यमिति चिन्तितवान् । अथेमां वक्ष्यमाणां बुद्धिमभ्यपद्यतैवं करिष्यामीति निर्णीतवान् ॥ ३१ ॥
लिङ्गेरी
देही स्थूलशरीरो यदृच्छया विवशः परवशो गजेन्द्रो प्राणस्य संकटमित्थमाप । आत्मविमोक्षणे स्वस्य ग्राहान्मोक्षणविषयेऽपारयन् अन्तगमनासमर्थश्चाभूत् । तदा स गजेन्द्रश्चिरं दध्यावालोचनं कृतवान् । अथालोचनानन्तरमिमां वक्ष्यमाणप्रकारां बुद्धिमभ्यपद्यत प्राप्तवान् । स यदेत्यत्र तच्छब्दस्य एतत्तदोः सुलोपोऽकोरनञ्समासे हलीति सुलोपः ॥ ३१ ॥
न मामिमे ज्ञातय आतुरं गजाः कुतः करिण्यः प्रभवन्ति मोचितुम् ।
ग्राहेण पाशेन विधातुरावृतोऽप्यहं च तं यामि परं परायणम् ॥ ३२ ॥
पदरत्नावली
कर्मलक्षणपाशेन ग्राहेण रुद्ध उपद्रवं प्राप्तः । विधातुर्देवान् मोचितुम्
॥ ३२ ॥
सत्यधर्मीया
बुद्धिर्यमर्थमगोचरयत्तमाह ॥ नेति ॥ आतुरम् । मामिमे गजाः पुमांसो मोचितुं मोचयितुं न प्रभवन्ति न शक्ता भवन्ति । करिण्यः कुतः प्रभवेयुः । पुरुषाणामसामर्थ्ये योषितो न शक्ता इति किं वक्तव्यमिति भावः । विधातुर्जगतः स्रष्टुः पाशेन कर्मरूपेणान्तर्बहि-र्ग्राहेण वृतोऽहं चाहमपि न शक्तोऽप्यतः परं जगद्विलक्षणं परायणं मुख्याश्रयं यामि । शरणमिति शेषः । मे ज्ञातयोऽङ्गजाः पुत्रा अपि यद्यपि । आत आततुर् आतुः । अत सातत्यगमने लिट् । आतुरागतवन्तः । कुतः कौ भूमौ । ग्राहेण तद्रूपेण पाशेन सहितं मोचितुं न प्रभवन्ति कुतः भूमेः । ग्राहेण पाशेन मोचितुं न शक्तास् तथा करिण्योऽपि न । योषितामस्त्वसामर्थ्यं पुरुषा अधुना परीक्ष्या इति नेत्याह ॥ आतुरावृत इति ॥ आतुराभिरातुरैश्चावृतोऽप्यतो मे ममेयं विधा प्रकारः । दशेति यावत् । निमित्तमेवं सर्वेषामसामर्थ्य इदमित्यावेदयति ॥ न विधेति ॥ विधास्मदुपभोग्यमन्नं नास्त्यप्यतोऽपि न सामर्थ्यमिति भावः । ‘विधा गजान्ने ऋद्धौ च प्रकारे रेचने विधौ’ इति विश्वः । अं गजा इति वा । अप्यतोऽहं चतं सर्वयाचितम् । चते याचने चेति स्मरणात् । यामिपरं याम उपरमो विनाशो येषां ते यामिनः । द्वौ यामप्रहरौ समाविति व्याख्यावसरे यमयत्युपरमयतीति याम इत्युक्तेर्याम उपरमप्रापका येषामस्ति ते यामिनो नाशकसहितास्तेभ्यः परं विलक्षणं नाशनाशकातीतं परायणम् अं नारायणं नमामीत्यन्वयः । न माममी ज्ञातय इत्यनिबन्धनो न मामिम इत्यमुमप्यन्वयं सूचयामासेत्यवसेयम् । ‘यामश्चोपरमे पुंसि प्रहरे संयमेऽपि च’ इति वोपालितधनपालौ ॥ ३२ ॥
छलारी
तामेव बुद्धिमाह ॥ न मामिति ॥ ज्ञातयः स्वजातीया इमे गजा आतुरं ग्राहपीडितं मां ग्राहान्मोचयितुं न प्रभवन्ति न शक्ताः । करिण्यः कुतो न शक्ता इति किम्वहं न प्रभवामीति । यतो ग्रहरूपेण विधातुरदृष्टप्रेरकेश्वरस्याधीनेन पाशेन कर्मलक्षणपाशेनावृतो बद्धः । अपिशब्दो हेत्वर्थे । तस्मात्परेषां ब्रह्मादीनामयनमाश्रयभूतं परमेश्वरं शरणं यामि ॥३२॥
लिङ्गेरी
मे मम ज्ञातय एककुलोत्पन्ना गजाः करिण्यश्च ग्राहगृहीतमत एवातुरं मां ग्राहान्मोचितुं कुतः प्रभवन्ति समर्था न भवन्ति । अहं तु यस्य विधातुः सर्वकर्तुर्हरेर्ग्राहेण ग्राहरूपेण पाशेनावृतः । तं परायणं मुक्तानामप्याश्रयं परं सर्वोत्तमं शरणं यामि । ‘मुक्तानां परमा गतिः’ इति वचनम् । ‘सगोत्रबांधवज्ञाती’ इत्यमरः ॥ ३२ ॥
यः कश्चनेशो बलिनोऽन्तकोरगात् प्रचण्डवेगादभिधावतो भृशम् ।
भीतं प्रपन्नं परिपाति यद्भयान्मृत्युः प्रधावत्यरणं तमीमहि ॥ ३३ ॥
॥ इति श्रीमद्भागवते अष्टमस्कन्धे द्वितीयोऽध्यायः ॥
पदरत्नावली
कश्चन लोकविलक्षणः य ईशः बलिनोऽन्तकाख्यसर्पाद्भीतं प्रपन्नं प्रपाति, यस्य भयान्मृत्युरन्तको दुर्गा वा प्रधावति, ‘मृत्युर्धावति पञ्चम’ इति श्रुतेः, तमीशमरणं शरणम् ईमहि प्राप्नुम इत्यन्वयः ॥ ३३ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायाम्
अष्टमस्कन्धे द्वितीयोऽध्यायः ॥
सत्यधर्मीया
वयं तमरणं शरणमीमहि व्रजेम । स क इत्यत आह ॥ य इति ॥ यः कश्चनेत्यनेन साकल्येन वर्णनालब्धवर्णतामभिप्रैति । ईशः सर्वेशनशीलो रमारमणस्तत्सुखदो वा । बलिनः स्वदयोदयमतिहायेतरापरिहार्यबलवतः । प्रचण्डवेगात्केनाप्यप्रतिबद्धवेगादभिधावत आग-च्छतोऽन्तकोरगादन्तको यमस्तदाख्योरगात्सर्पात् । चक्षुःश्रवस्त्वेनान्तकोत्पे्रक्षणं प्रस्तुतग्राहस्य प्राणस्य सङ्कटमित्युक्तेः स्वान्तर्वातघातप्रयत्नवत्त्वाद्वाताशनत्वात्तस्य युक्तियुक्तमिव कालीयं कालिन्दितो बहिष्कृत्य निर्भीतान्कृतः वतस्तवनेऽमुमपि स तनुयाद्बहिराकृष्टमिति वा सम्भवादिति मन्तव्यम् । भृशं भीतं तथा भृशं प्रपन्नमितरानुपेक्ष्य शरणागतं जनं परिपाति । यद्भयान्मृत्युः प्रधावति । आगच्छति गच्छति च । ‘भीषाऽस्माद्वातः पवते भीषोदेति सूर्यः । भीषाऽस्मा-दग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चम’ इति श्रुतेः । ‘मृत्युमृत्युं नमाम्यहम्’ इत्यादेः । पूर्वपद्य-व्याकृत्यन्तरपक्षेऽमिति स्फुटमुक्त्यानुकूल्याय । यः कश्च यः कोऽपि यस्मान्नेशो न समर्थः । यः कश्चतुराननः । चन अपि । अथैतयोः पथोर्नैकतरेण चनेति छान्दोग्योपनिषद्भाष्यादिव्याकृत्यादौ चनेत्यप्यर्थ इत्युक्तेरित्यर्थः । अभिधावतो लोके ख्यातिमतो लोकान्प्रत्यप्यभिधावत इत्यावृत्या-न्वयो वा । यो ज्ञानात्मकः । येति ज्ञानं समुद्दिष्टमिति तात्पर्यान्तरात् । कश्चानन्दस्वरूपत इति गीतातात्पर्यात्सुखात्मकः । बलिनश्चन बलिनोऽपि । तमित्युक्तेर्य इत्यध्याहारः । बलिनोऽन्तः परिवर्तमानात् । अन्तकोरगादन्तप्रापकं कं यामुनमुदकं येन स चासावुरगः कालियस्तस्माद्भीतं प्रपन्नं शरणागतं गोपालजनं पर्यपात्स मां परिपाति । यद्भायान्मृत्युरयं यः कश्चाप्येष्यन्प्रधावति तमरणमीमहीति कृष्णप्रार्थनं वा । ‘कृष्ण कृष्णेति कृष्णेति यो मां स्मरति नित्यशः । जलं भित्वा यथा पद्मं नरकादुद्धराम्यहम् ॥’ इत्यादेः । पद्मं गजमिति जगदुः साम्प्रदायिकाः । प्रपन्नगस्य पन्नगभीतत्रायकतोचितेति वाऽन्तकोरगादिति जगादेति युक्तिमुद्भावयति । अरणं नक्रकृतयुद्धाभावमुद्दिश्य तमीमहीति वा । तमी तमो हि दुर्गेत्युक्तेस्तमस्तमीशब्दयोश्च पर्यायतया दुर्गा च मही भूश्च तयोः समाहारः । तमीमहि दुर्गाभूश्च । प्रधावति तं नमामीत्यन्वयो वा । तमं प्रवर्तनीयत्वेनास्याव्यक्तस्यास्तीति तमि । तत्त्वमव्यक्तं दुर्गा ई श्रीश्च मही भूश्च तासां दुर्गाश्रीभुवां समाहारो वा । ‘तमं तु तमसा सार्धं तमा तम्यपि गीयत’ इति द्विरूपकोशः । ‘तामसी निशि दुर्गायां तामसो भुजगे खगे’ इति भानुनाऽप्युक्तेस्तमी । तमिश्रा तामसीति पर्यायतयाऽमरेऽप्युक्ते-स्तमी दुर्गेति वा ।
य ईयौ यः । इति श्रीभूदुर्गाः । को ब्रह्मा ईशो रुद्रश्चेत्येते चन अपि न बलिनः । यद्भयात्तान्प्रत्यपि मृत्युरत्यन्तसामीप्यात्मा प्रसिद्धमृत्युश्च । प्रधावतीति तेषां दौर्बल्यं ज्ञेयमिति वा । ईशः समर्था नेति वा ।
आवृत्तमीशपदं बहुवचनमीट्शब्दस्य सदन्वेतीति ज्ञेयम् । ईमह इति क्वचित्पाठः । ईमहीति पाठेऽपि अरणमित्यस्य रणाभावार्थकत्वे प्रार्थयाम इत्यर्थः । यथोक्तम् । वचोभिरीमहे यमित्यृग्भाष्यटीकायाम् । ईमहे प्रार्थयामहे । याश्चाकर्मसु पाठादिति तट्टिप्पणे । ईमहे यामीत्यादिषु सप्तदशसु पाठादित्युक्तेः । इण गतौ । इट किटीति प्रश्लिष्टस्य चेद्बहुछान्दसं कल्पनीयमिति वा गतीत्यत्र प्रश्लिष्टस्य वा ईङ् गतावित्यस्य पूर्वत्रात्मनेपदत्वमपरत्र श्यनो लोप इति लाघवाद्रूपमिति ज्ञेयम् । माधवेन ऋग्व्याख्यायामीङ् गतावित्यस्येदं रूपमित्युक्तेः । अरणं शरणमित्यर्थपक्ष ईमहे प्राप्नुम इत्यर्थः । इदमप्यवदत् तमित्सखित्व ईमह इत्यृक्टीकाटिप्पणे प्राप्नुम इति ॥ ३३ ॥
॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां द्वितीयोऽध्यायः ॥ ८–२ ॥
छलारी
कोऽसौ यं शरणं यासीति तत्राह ॥ य इति ॥ कश्चन लोकविलक्षणो य ईशः प्रचण्डवेगादवार्यवीर्यादभिधावत आपततोऽन्तक एव मृत्युरेवोरगः सर्पस्तस्माद्भीतं प्रपन्नं स्वशरणं प्राप्तं परिपाति । यस्य भयादीदृशान्मृत्युरन्तकः प्रधावति देहिनं प्राप्नोति । मृत्युर्धावति पञ्चम इति श्रुतेः । तमीश्वरमरणं शरणमीमहि व्रजेम ॥ ३३ ॥
॥ इति श्रीछलारी शेषाचार्यकृतायां श्रीभागवतटिप्पण्यां द्वितीयोऽध्यायः ॥ ८–२ ॥
लिङ्घेरी
कश्चनालौकिको यो हरिः । बलिनोऽतिबलात् । अभ्याभिमुखेन प्रचण्ड-वेगादतितीक्ष्णजवाद्भृशं धावत आश्वागच्छतोऽन्तकोरगान्मृत्युलक्षणसर्पाद्भीतं स्वं प्रपन्नं शरणं गतं परिपाति । यस्य हरेर्भयान्मृत्युः प्रधावति हरिशरणागतं त्यक्त्वा गच्छति । प्रागपि हरिभयादेव यमदुर्गादिरूपो मृत्युर्हर्यनुग्रहरहितं प्रति प्रधावति । भीषाऽस्मादग्निश्चेन्द्रश्च, मृत्यु-र्धावति पञ्चम इति श्रुतेः । न चैवमेव हरिमपि गृहीतुं प्रवर्तते । यतः स हरिः स्वस्येशः स्वामी । अघटितघटनासामर्थ्यवांश्च । वयं तं हरिमरणं शरणमीमहे यामः ॥ ३३ ॥
॥ इति श्रीलिङ्घेरी श्रीनिवासाचार्यकृतायां श्रीभागवतटिप्पण्यां द्वितीयोऽध्यायः ॥ ८–२ ॥