०१ प्रथमोऽध्यायः

स्वायम्भुवस्येह मनो१र्वंशोऽयं विस्तराच्छ्रुतः

श्रीमद् भगवद्बादरायणप्रणीतम्

श्रीमद्भागवतम्

अष्टमस्कन्धः

अथ प्रथमोऽध्यायः

ॐ नमो भगवते वासुदेवाय

राजोवाच–

स्वायम्भुवस्येह मनो१र्वंशोऽयं विस्तराच्छ्रुतः ।

यत्र विश्वसृजां सर्गो मनूनन्यान् वदस्व नः ॥ १ ॥

**श्रीमद्विजयध्वजतीर्थविरचिता **

पदरत्नावली

अस्तावि श्रुतिमस्तकेन मनुना स्वायम्भवेनापि यो

येनारक्षि जगत्त्रयं च मुनिभिः स्वात्मानुविद्धात्मभिः ।

येनामोचि गजाधिपः क्रकचवच्चक्रेण नक्राननात्

क्षीराम्भोधिरमन्थि येन धृतभूः सोऽयं हरिः पातु नः ॥ १ ॥

येनाधारि गिरिः पपे च विबुधैर् येनामृतं प्रेरितैर्

येनातापि सुरद्विषां च हृदयं शर्वोऽप्यमोहि स्त्रिया ।

येनामायि जगन्त्यबन्धि च बलिर् येनाप्यदायि श्रुतिर्

धात्रे येन निहत्य मत्स्यवपुषा दैत्यं तमीडे हरिम् ॥ २ ॥

सप्तमस्कन्धवाराशौ निमज्योन्मज्य शुद्धधीः ।

अष्टमस्कन्धसव्द्याख्यामृतं पातुमुपक्रमे ॥ ३ ॥

अत्रापि हरिभक्तिरेव भगवन्मनःकर्षणनिपुणेति विधातुम् अनन्तोपनिषदर्थभूतस्य हरेर् जगद्रक्षणादिमाहात्म्यं निरूप्यते । तत्रापि विमलतरमुरुमथनदुरितहरचरितामृतपानाप्यायितप्राणो विस्मृतानशनक्लेशः परीक्षित् शुकम् अच्युतकथानुवादपूर्वकम् अभिलपितात्यन्तश्रोतव्यकथां प्रार्थयते– राजेति ॥ अन्यान् स्वायम्भुवव्यतिरिक्तान् ॥ १ ॥

अथ श्रीभागवतटिप्पणी सत्यधर्मयतिकृता प्रारभ्यते

सत्यधर्मीया

अष्टमस्कन्धतात्पर्यतात्पर्यस्पष्टने यते ।

पारयेत्तन्मम गुरोः पदोरुन्नतिदा नतिः ॥

श्रीमच्छ्रुतिपतिसुतेन मया श्रुतमश्रुतप्रायमिति विजिज्ञापयिषतः किञ्चिदनुविविच्योक्त्वोत्तरत उत्तारणकारणहरिचरितश्रवणेच्छुः परीक्षित्परीक्ष्यान्तर्निर्भृततत्कमनुचरितवर्णनं कुर्विति सर्वमतिं सार्वभौमोऽर्थयत इति वक्ति– राजेति ॥ इह कथाकथनप्रस्तावे । द्वितीयस्कन्धमारभ्यासप्तम-स्कन्धमिति वा । विश्वसृजां प्रजापतीनां मरीच्यादीनाम् । सर्गः सृष्टिः । अन्यान्स्वायम्भुव-व्यतिरिक्तान्मनून् । विस्तराच्छब्दवैशद्यात् । इदमपि श्रुतपदान्वयीव वदेत्यनेनाप्यन्वेति । मनोरिति मनोहरः पाठः । गुरोरिति पाठे सर्वमूलस्येत्यर्थः । गुरो इति सम्बुध्यन्तः क्वाचित्कः पाठः । सोऽपि सरलः । वदस्व वद । भासनोपसम्भाषेत्यादिना भासमानः सन्वदेत्यर्थ आत्मनेपदता वा । अनेन मच्छङ्काशङ्कूत्कर्तनं न मुनेरसुसाधमिति भाव आविष्कृतो राज्ञेति ज्ञेयम् । विस्तरस्तु ‘इत्यूदे पैङ्गिनां श्रुतिः’ इत्यनुव्याख्यानव्याख्यासुधाटिप्पण्यादितोऽवसेयः । वद इति वाग्मीति स्वनो ध्वनिः प्रसिद्धिरिति यावत् । यस्य स त्वं वदेति शेष इति वा । हे स्व नः वदेति वा । स्वे स्वकीयाश्चते वयं चेति वा स्ववयम् । तेषां तान् । स्वनः प्रति वदेति योजना ॥ १ ॥

अथ श्रीमद्भागवतटिप्पणी छलारी शेषाचार्यविरचिता प्रारभ्यते

छलारी

स्वायंभुवाद्रिपातारं सुरानमृतपायिनम् ।

इन्द्रस्य राज्यदं विष्णुं वन्दे यज्ञादिरूपिणम् ॥ १ ॥

दुर्मताख्यपलाशानि विधूयामृतवर्त्म तु ।

स्पष्टं कृतं भजे येन मध्वाख्यं तं महानिलम् ॥ २ ॥

अभेद्यमध्ववाक्यानि व्याख्यातानि सतां धिये ।

येन तं जयतीर्थार्यं लोकोपकृतिकारणम् ॥ ३ ॥

विद्यापत्यादिसंपत्तीर्यद्वृन्दावनसेवया ।

लभते मद्गुरुं मर्त्यो तं श्रीसत्यनिधिं भजे ॥ ४ ॥

श्रीमध्वदर्शनाचार्यं ममानुग्रहपूर्वकम् ।

छलारीनरसिंहार्यं वन्देऽहं श्रेयसे मम ॥ ५ ॥

श्रीभागवतटीकायाः कर्तॄनपि पुरातनान् ।

प्रणम्य ज्ञानसिद्ध्यर्थं विजयध्वजपूर्वकान् ॥ ६ ॥

छलारिनरसिंहार्यशिष्यः शेषाभिधो बुधः ।

अष्टमस्कन्धविवृतिं कुरुते मन्दबोधिनीम् ॥ ७ ॥

अथास्मिन्नष्टमस्कन्धे चतुर्दशमन्वन्तराणि निरूप्यन्ते । तत्र तावत्प्रथमाध्याये स्वायम्भुव-स्वारोचिषोत्तमतापसाख्यमनुचतुष्टयं निरूप्यते । तत्रादौ परीक्षिद्राजा वृत्तानुपूर्वकं शुकाचार्यं श्रोतव्यकथां प्रार्थयते– राजेति ॥ श्रुतश्चतुर्थस्कन्धोपक्रमे । यत्र स्वायंभुवमन्वन्तरे विश्वसृजां मरीच्यादिप्रजेश्वराणां सकाशात् । आकूत्यादिस्वायंभुवकन्यासु । सर्गः पुत्रपौत्रादिसर्गोऽभूत् । अन्यान् स्वायंभुवव्यतिरिक्तान् ॥ १ ॥

**अथ श्रीमद्भागवतटिप्पणी लिङ्गेरी श्रीनिवासाचार्यविरचिता प्रारभ्यते **

लिङ्गेरी

प्रणम्य मध्वहृत्कञ्जसंस्थं व्यासं तथा गुरून् ।

पूर्वटीकाकृतश्चाथ विजयध्वजपूर्वकान् ॥ १ ॥

अष्टमस्कन्धसद्य्वाख्या क्रियते हरितुष्टये ।

लिङ्घेरीश्रीनिवासेन रुग्मिणीशार्यसूनुना ॥ २ ॥

अस्मिन् स्कन्धेऽपि भगवति श्रीनारायणेऽतिशयितभक्त्युदयाय स्वायम्भुवमनुस्तुत्या प्रसन्नाद्धरेस्तत्संरक्षणादिरूपं माहात्म्यं भगवतो निरूप्यते । अत्राप्यादौ प्रवृत्तकथनानुवादपूर्वकं परीक्षिद्राजा स्वाभिलषितकथाकथनं शुकं प्रति प्रार्थयत इत्याह सूतः शौनकादीन् ॥ राजेत्यादिना ॥ अवश्यं मया श्रोतव्येषु चतुर्दशसु मनुषु स्वायम्भुवस्य मनोरयं प्रमाणप्रसिद्धो वंशो विस्तराच्छ्रुतः । अवश्यं श्रोतव्यत्वे निमित्तमाह स्वायम्भुववंशस्य ॥ यत्रेत्यादिना ॥ यत्र स्वायम्भुवस्य वंशे विश्वसृजां स्वयोग्यजगदुत्पादकानां सर्गः सृष्टिः । अभूदिति शेषः । अन्यान्स्वायम्भुवाद्भिन्नान्मनून् । नोऽस्माकं वदस्व ॥ १ ॥

यत्र धर्मा हि विविधाश्चतुर्वर्णाश्रिताः शुभाः ।

मन्वन्तरे हरेर्जन्म कर्माणि च महीयसः ॥ २ ॥

पदरत्नावली

तत्रापि तत्प्रसङ्गे विशेषकथापि वक्तव्येत्याह– यत्रेति ॥ महीयसः महत्तमस्य हरेः ॥ २ ॥

सत्यधर्मीया

चतुर्वर्णाश्रिता इत्यत्र पञ्चस्कन्धेभ्य इत्यादिवच्चत्वारश्च ते वर्णाश्चेति विशेषणसमासः । यद्वा । वर्णानाश्रिता वर्णाश्रिताः । चत्वारश्च ते वर्णाश्रिताश्चेति विग्रहः । सामर्थ्यादितरत्रान्वयायोगाच्च चतुष्ट्वस्य वर्णपदार्थेऽन्वयः । एतच्चर्चः प्राचीनस्कन्धद्वन्द्वविवृताव-स्माभिः सप्तघटिकाभोजनं, त्रिलोकनाथः, दीप्तानलार्कद्युतिमप्रमेयमिति प्रमेयदीपिकाद्युदाहरण-पुरःसरं प्रपञ्चितोऽनुसन्धेयः । महीयसो महन्महतो हरेः । यत्र यत्रेति वीप्सया हरिकर्माणि मनुचरिताव्यभिचरितानीति सूचयति ॥ २ ॥

छलारी

तद्वर्णने आवश्यकत्वमाह- यत्रेति ॥ हि यस्मात् ॥ तत्र तेषु मन्वन्तरेषु धर्माः प्रवर्तिताः । तस्माद्वदस्वेत्यन्वयः । अन्यच्च प्रार्थयते– यत्रेति ॥ यत्र यत्र मन्वन्तरे महीयसः सर्वोत्तमस्य हरेर्जन्मान्यवतारान्कर्माणि चरितानि ॥ २ ॥

लिङ्गेरी

अन्यमनुकथाश्रवणादेरवश्यतानिमित्तमाह– यत्र धर्म इत्यादिना । यत्र मन्वन्तरे स्वायम्भुवातिरिक्तमन्वन्तरे विविधाः शुभाश्चतुर्वर्णाश्रिता धर्माः । उक्ता इति शेषः । हरे-र्भक्तसर्वानिष्टनिवर्तकस्य महीयसः सर्वोत्तमस्य नारायणस्य जन्म प्रादुर्भावः कर्माणि चरितानि ॥२॥

गृणन्ति कवयो ब्रह्मन् तानि नो वद शृृण्वताम् ।

यदस्मिन्नन्तरे ब्रह्मन् भगवान् विश्वभावनः

कृतवान् कुरुते कर्ता ह्यतीतेऽनागतेऽथ१वा ॥ ३ ॥

सत्यधर्मीया

न सरणिरियमनुसरणीया कैरपि विवेकिप्रवेकैरननुसृतत्वादित्यत आह- गृणन्तीति ॥ तत्रापि गृणन्तीत्यादावुदीरणेन किं न गृणाति वा न गृणीत इति न गृणन्तीति मन्दसन्देहं मन्दीचकार । कवय इत्यनेन शतमप्यन्धानामिति नीतिभाजनतां त्याजयामासेत्यव-सेयम् । तानि । नः । अस्मदो द्वयोश्चेति बहुवचनम् । मदुपलक्षितानामुपलक्षितान्प्रतीति वा । वद । ब्रह्मन् योग्यतानुसारेण पूर्ण । अस्मिन्नन्तरे वैवस्वतमन्वन्तरे । विश्वं जगद्भाव-यत्युत्पादयतीति स तथा । विश्वो वायुरुदाहृत इत्यादेर्जगज्जनकमातरिश्वतात इति वा । अतीते काले यत्कृतवान् । अनागते एष्यति वा कर्ता करिष्यति । अथ वर्तमाने च यत्कुरुते । तानि नो वदेत्यन्वयः । अव्ययानामनेकार्थत्वादथेति समुच्चयार्थे । तथा हि सुधादौ चाथशब्दः समुच्चय इति वा । इवार्थेऽपि समुच्चय इति विश्वः । ओति पाठोऽप्यनवद्यः ॥ ३ ॥

छलारी

गृणन्ति कीर्तयन्ति । तदेव विशेषतः प्रार्थयते– यदिति ॥ विश्वेषु चतुर्दश-मन्वन्तरेषु भावयति । स्वार्थे णिच् । प्रादुर्भाव इति विश्वभावनः । मन्वन्तरेषु प्रादुर्भावः सन्नित्यर्थः । यस्मिन्नतीते मन्वन्तरे यत्कर्म कृतवान् । यस्मिन्ननागते भविष्यन्मन्वन्तरे यत्कर्म-कर्ता करिष्यति । अथवा । वर्तमानमन्वन्तरे यत्कर्म कुरुते तानि वदस्वयन्वयः ॥ ३ ॥

लिङ्गेरी

कवयो गृणन्त्युपदिशन्ति तानि वदस्वेति । सत्संप्रदायसद्भावात् । तवापि मत्पृष्टार्थज्ञानपूर्णत्वाच्च तवैतत्कथनमावश्यकमित्याह– ब्रह्मन्निति ॥ शृृण्वतामिति स्वस्य श्रवणादरं सूचयति । अस्मिन्नन्तरे वैवस्वतमन्वन्तरे विश्वभावनो जगदुत्पादको भगवान्नारारणो यत्कर्मादिकं कुरुते । अतीतेऽन्तरे कृतवान् । अनागते कर्ता करिष्यति ॥ ३ ॥

ऋषिरुवाच–

मनवोऽस्मिन्२ व्यतीताः षट् कल्पे स्वायम्भुवादयः ।

आद्यस्तु३ कथितो यत्र देवादीनां च सम्भवः ॥ ४ ॥

पदरत्नावली

अस्मिन् वैवस्वतान्तरे स्वायम्भुवप्रभृतिवैवस्वतान्ताः सप्तमनवो व्यतीत-प्राया उच्यन्ते । अत्र सप्तसु आद्यः कथित इत्यन्वयः ॥ ४ ॥

सत्यधर्मीया

किं शुकस्तूष्णीक उत क्षितिपतिप्रश्नस्योत्तरमवादीदित्यत आह– ऋषि-रिति ॥ अस्मिन्कल्पे मनवः षट् स्वायम्भुवादयः स्वायंभुव एवादिर्येषां ते तथा । व्यतीताः । यत्र देवादीनां च सम्भव उत्पत्तिः स आद्यः स्वायम्भुवस् ते कथितस्त्वां प्रति निरूपितः । अत्रेति पाठेऽपि स्वायम्भुवमन्वन्तर इत्येवार्थः । तु विशेषेण कथित इत्यर्थः ॥ ४ ॥

छलारी

अतीतानागतेऽथवेत्यनेन मन्वन्तराणामतीतत्वादिकमुक्तम् । तत्रातीत-मन्वन्तरकथां वक्तुमतीतमन्वन्तरसंख्यां तावदाह– मनव इति ॥ अस्मिन् ब्रह्मदिनकल्पे स्वायंभुवादयः स्वायम्भुवस्वारोचिषोत्तमतापसरैवतचाक्षुषाख्याः षण्मनवो व्यतीताः । वैवस्वतश्च सत्यधर्मोऽव्यतीतः । तर्हि प्रथममन्वन्तरकथा वक्तव्येत्यत आह– आद्य इति ॥ आद्यः स्वायभुवः कथितः । चथुर्थोपक्रमे । यत्र स्वायम्भुवमन्वन्तरे । देवादीनाम् । आदिपदेन मनुपुत्रसप्तर्षीन्द्रहरेर्वराहाद्यवतारा ग्राह्याः । तेषां संभव उत्पत्तिः । अभूदिति शेषः ॥ ४ ॥

लिङ्गेरी

स्वायम्भुवातिरिक्तमनुस्थितिं वदस्वेति परीक्षिता प्रार्थितो भगवान् शुकस् तामुक्तवान्न वेति शौनकादीनां मानसीं शङ्कां परिहरति– शुक उवाचेत्यादिना ॥ अस्मिन्कल्पे वैवस्वतमन्वन्तरे वर्तमाने स्वायम्भुवादयः षण्मनवो व्यतीताः । षट्स्वाद्यः स्वायम्भुवो यः स ते कथितः ॥ ४ ॥

आकूत्यां देवहूत्यां च दुहित्रोस्तस्य वै मनोः ।

धर्मज्ञानोपदेशार्थं भगवान् पुत्रतां गतः ॥ ५ ॥

पदरत्नावली

अत्रापि शतरूपापतिपालनादिविषयमनुदितं यज्ञमूर्तिचरितं वक्तुमाह– आकूत्यामिति ॥ ५ ॥

सत्यधर्मीया

मनोः स्वायम्भुवस्याकूत्यां देवहूत्यां चेति दुहित्रोः पुत्र्योः । धर्मज्ञानोप-देशार्थम् । भगवान्पुत्रतां गतो यज्ञः कपिलश्चेति नामवान्पुत्रत्वं प्राप्तः । अधिकरणमात्रतार्थक-सप्तम्या पुत्रतां गत इत्यनयाऽनेन चैच्छिकं तयोस्तयोर्भवनं तयोरैक्यं चैकवचनेनासूचीति मन्तव्यम् । यो भगवान् तस्य अङ्गतः शरीरग्रहणमात्रेण पुत्रतेति वा । तत्कृत्यमाह– धर्मेति ॥ धर्मश्च ज्ञानं च तद्व्यतिरिक्तं ज्ञानसाधनं च येन स चासावुपदेशश्च तस्मै प्रयोजनाय । धारकत्वाद्धर्मो भगवांस्तस्य ज्ञानं येन स चासावुपदेशश्च तस्मा इति वा । केचिदाकूत्यां देव-हूत्यामिति सुपां सुलुगिति सु इत्यस्याङ््यादेशेऽध्याहृते चेतिशब्दे आकूतिरिति देवहूतिरिति दुहित्रोः षष्ठीद्विवचनमिति व्याकुर्वते । केचित्सर्वविदः षष्ठ्येकवचनस्य दुहितुरित्यस्यौसादेशे ङसश्च ङ््यादेश आकूत्या देवहूत्याश्चेति दुहितुरिति च व्याकुर्वते । तस्य च निरूपितत्वं सप्तम्यर्थत्वेन मार्गणीयमित्ययं मार्ग आश्रित इति भावमाविर्भावयन्ति ॥ ५ ॥

छलारी

ननु तर्हि स्वायंभुवमन्वन्तरस्थं यज्ञनामकहरिकथावर्णनं कुतः क्रियत इत्यतः स्वायंभुवमन्वन्तरेऽवतीर्णस्य यज्ञानाम्नो हरेस्तन्मनुरक्षणादिरूपावतारप्रयोजनस्य पूर्वमनिरूपि-तत्वात् । तद्वक्तुमाह– आकूत्यामिति ॥ तस्य स्वायंभुवस्य मनोर्दुहित्रोराकूत्यां यज्ञनामकत्वेन देवहूत्यां कपिलनाम्ना पुत्रतां गतः प्राप्तः ॥ ५ ॥

लिङ्गेरी

तस्य स्वायम्भुवस्य मनोः । आकूतिदेवहूतीति सञ्ज्ञयोर्दुहित्रोः । भगव-न्नारायणो धर्मज्ञानोपदेशार्थम्, आकूत्यां यज्ञनामा सन्, देवहूत्यां कपिलनामा सन् पुत्रतां गत इत्यन्वयः । भगवानित्यनेन भगशब्दार्थान्तर्गतसमग्रज्ञानवत्वोक्त्या धर्मज्ञानोपदेशे सामर्थ्यं सूचितम् ॥ तदुक्तम् ॥ ‘ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानविज्ञानयोश्चैव षण्णां भग इतीरणे’ इति । ज्ञानवैराग्ययोश्चैवेत्यपि केचित्पठन्ति ॥ ५ ॥

कृतं पुरा भगवतः कपिलस्यानुवर्णितम् ।

आख्यास्ये भगवान् यज्ञो यच्चकार कुरूद्वह ॥ ६ ॥

पदरत्नावली

कपिलस्य हरेः कृतं चरितम् । पुरा तृतीयस्कन्धे ॥ ६ ॥

सत्यधर्मीया

आकूतिसुतचरितं वक्तुमुत्कमानसो वैयासकिस्तृतीयोक्तं स्मारयन्वक्तव्यं प्रतिजानीत इत्याह– कृतमिति ॥ भगवतः कपिलस्य कृतं कर्म पुराऽनुवर्णितम् । भगवान्यज्ञ-स्तन्नामाऽऽकूतिसुतः । यत्कर्म चकार तदाख्यास्ये कथयिष्ये । त्वां प्रतीति शेषः ॥ ६ ॥

छलारी

तत्र कपिलनामकमस्य भगवतः कृतं चरितम् । पुरा तृतीयस्कन्धे ॥ ६ ॥

लिङ्गेरी

हे कुरुद्वह कुरुकुलोद्धारकेति स्तुत्या सम्बोधनं परीक्षितः प्रोच्यमाने मनः-प्रणिधानार्थं शुकेन । कृतं भगवतः कपिलस्य कृतं चरितं कर्मणो भावे क्तः । पुरा तृतीयस्कन्धेऽनुवर्णितम् । भगवान्यज्ञो यच्चरितं चकार तदहं ते आख्यास्ये प्रवक्ष्यामि ॥ ६ ॥

विरक्तः कामभोगेषु शतरूपापतिः प्रभुः ।

विसृज्य राज्यं तपसे सभार्यो वनमाविशत् ॥ ७ ॥

सत्यधर्मीया

शतरूपायास्तन्नाम्नया योषितः । सभार्य इत्यनेन साऽपि कामोप-भोगविरतिमतीति सूचयति । विसृज्य राज्यमिति भाववैराग्यभाग्यं सूचयति । सभास्तारा उदासत इत्यौदासीन्यं प्राज्ये राज्ये स्वायम्भुवस्य नापि तु स तत्सत्क्रियोऽपि क्रियामिमामतनोदित्यप्याह– सभार्य इति ॥ सभानामर्यः । ‘अर्यः स्वामिवैश्ययोः’ इति स्मरणात्स्वामीत्यर्थः । आर्यः श्रेष्ठ इति वा । वनं गन्तव्यं हेति क्लेशेनावर्चस्को गत इति नेत्यप्याह- सभार्य इति ॥ सभाः प्रकाशसहितास्तेषां तेषु वाऽर्यः स्वामी । आर्य इति वा । वनते वनं मनःपूर्वकमस्येत्यनेन ध्वनयति । दुर्विषये वैराग्यवत्सद्विषयेऽपि तथा किमित्यतो नेत्यप्याह– विरक्त इति ॥ विः पक्षिपरमात्मनोरित्यभिधानाद्वौ भगवति परमविषये रक्त इति स तथा । तपसे तपोऽर्थम् ॥७॥

छलारी

शतरूपानामिकायाः पतिर्भर्ता स्वायंभुवः ॥ ७ ॥

लिङ्गेरी

यज्ञमूर्तिचरितं तदुपयुक्ततामाह- विरक्त इत्यादिना ॥ प्रभुर्विषयानुभवादि-परित्यागे समर्थः । शतरूपापतिः स्वायम्भुवः । काम्यन्त इति कामा विषयाः । तेषां भोगेष्वनुभवेषु विरक्तो हेयबुद्धिः सन् राज्यं विसृज्य तपसे तपःकरणार्थं वनमाविशत् । सभार्य इत्यनेन शतरूपायाः पातिव्रत्यसूचनेन यच्छतरूपापतिरिति शतरूपायाः प्रसिद्धत्वं ध्वनितं तदुपपादितं भवति ॥ ७ ॥

सुनन्दायां वर्षशतं पदैकेन भुवं स्पृशन् ।

तप्यमानस्तपो घोरमिदमन्वाह भारत ॥ ८ ॥

पदरत्नावली

सुनन्दायां त्रिधा भिन्नायां विष्णुपद्याम् । एतस्याम् अन्वाह स्तुतिरूपाम् उपनिषदमाह ॥ ८ ॥

सत्यधर्मीया

सुनन्दायां सीताऽलकनन्दाचक्षुर्भद्रेति पञ्चमोक्तचतुर्धाभिन्नायामलकनन्दा ख्यायां गङ्गायाम् । तस्या एव सुनन्देति नामान्तरम् । एकेन पदा भुवं स्पृशन् उत्तानी-कृतैकचरण इत्यर्थः । वर्षशतं शतसंवत्सरात्मकं कालं घोरमितरासाध्यं तपस्तप्यमानः कुर्वाण इदमुपनिषद्वचनमन्वाह आह ॥ ८ ॥

छलारी

सुनन्दायां तन्नामकविष्णुपद्यां घोरं दुष्करं तपस् तप्यमानः समाधिस्थितः सन् इदमन्वाह स्तुतिरूपं स्तवनमाह । स्वायंभुवो मनुः । स्वदौहित्रं यज्ञनामानं विष्णुं वक्ष्यमाणमन्त्रोपनिषदा तुष्टावेति भावः । ‘स्वायम्भुवः स्वदौहित्रं विष्णुं यज्ञाभिधं मनुः । ईशावास्यादिभिर्मन्त्रैस्तुष्टावावहितात्मना ॥’ इत्युक्तेः ॥ ८ ॥

लिङ्गेरी

तपःकरणप्रकारमाह– सुनन्दायामिति ॥ हे भारत । स्वायम्भुवो मनुः सुनन्दायां स्रोतसि भागीरथ्यां वर्षशतं शतवर्षपरिमितिकाले । ‘कालाध्वनोरत्यन्तसंयोगे द्वितीया’ इति सूत्रितसप्तम्यर्थे द्वितीयया शतवर्षे वक्ष्यमाणतपसो विच्छेदाभावं सूचयति । एकेन पदा पादेन भुवं स्पृशन् घोरमविरक्तजनभयङ्करं तपस्तप्यमानः सन् । इदं य आदित्यमन्तरो यमयतीत्यादिश्रुतिस्मृतिजातम् अनु अनुसृत्येदं वक्ष्यमाणं स्तोत्रमाह ॥ ८ ॥

मनुरुवाच–

येनायं तपते विश्वं विश्ववीर्यं यतस्तपः ।

यो जागर्ति शयानेऽस्मिन् नायं तं वेद वेद सः ॥ ९ ॥

पदरत्नावली

कीदृशीत्यतोऽर्थतस्तामुपलक्षयति– येनेति ॥ अयमादित्यो येन हरिणा प्रेरितो विश्वं तपते प्रकाशयति, विश्वस्य वीर्यं वीर्यप्रदं तपो यतो भवति, अस्मिन् सूर्ये शयाने निद्रामाचरति सति यो हरिर्जागर्ति, अयं सूर्यस् तं हरिं न वेद स हरिस्तम् आदित्यं वेद इत्यन्वयः । ‘भयात् तपति सूर्यः’ ‘भीषोदेति सूर्यः’ इति श्रुतेः । ‘यो न वेदेति वेद च’ ‘अनेन आप्रा द्यावा पृथिवी अन्तरिक्षम्’ इत्यादिश्रुतिप्रतीतसर्वाधिपत्यादित्यस्य श्रीहर्यधीनत्व-वर्णनेन निरतिशयमाहात्म्यं युक्तं हरेरिति ज्ञातव्यम् । अयं जीवो येन नियतो विश्वं सुख-दुःखादिकं तपते अनुभवति, तप आलोचन इति धातुः, आलोचनं ज्ञानं स एव अनुभवः ‘स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति’ इति श्रुतेः । हरिनियतोऽनुभवतीति कुत इति तत्राह– विश्ववीर्यमिति ॥ विश्वस्य वीर्यभूतं तपोऽनुभवो यस्माद् भवति । ‘एष ह्येवानन्दयति’ इति श्रुतेः । आनन्दयति सुखयति, जीवमिति शेषः, तस्मादित्यर्थः । अस्मिन् जीवे शयाने सति, ‘सता सोम्येति श्रुतेः ‘यो जागर्ति’‘न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः’ इति श्रुतेः । ‘तस्मादेनं स्वपितीत्याचक्षते च’ इति च । अयं जीवस्तं न वेद ‘न तत्र चक्षुर्गच्छति न वाग्गच्छति न मनो । न विद्म न विजानीमः’ इति श्रुतेः । स हरिः सर्वं वेद, ‘यः सर्वज्ञः’ इति श्रुतेर् इति वा ॥ ९ ॥

सत्यधर्मीया

अर्थतस्तत्प्रतीकं धृत्वाऽऽह- येनेति ॥ ध्येयः सदा सवितृमण्डल-मध्यवर्तीत्यादेरादित्यान्तर्गतं भगवंतमभिष्टौतीति वा । ‘अयमादित्यो येन भीषोदेति सूर्यो’ ‘भयात्तपति’ । ‘यस्य भासा सर्वमिदं विभाति’ इत्यादेः । भगवता प्रेरितो विश्वम् । ‘सूर्य आत्मा जगतस्तस्थुषश्च’ इत्यादेर्जगत्तपते तपति । विश्ववीर्यं विश्वस्य जगतो वीर्यं सामर्थ्यं येन तत् । विश्वं समस्तं वीर्यं प्रकाशनादिशक्तिर्यस्मादिति वा । तपो यतो यस्माद्भवति । तपतीति वक्तव्ये यदवादीत्तपत इति तेन त्वं तप, ते तव तपो यतो मत्त एव भवतीत्यान्तरङ्गिकं भावं बोधयामासेति बोध्यम् । अस्मिन्सवितरि शयाने कार्यानुन्मुखे सति यो जागर्ति । अयं सूर्यस्तं हरिं न वेद । सोऽप्येनं न वेद चेत्समः समाधिरित्यतोऽभिधत्ते- वेद स इति ॥ स हरिर्वेद तमिति कण्ठतो वचनानुत्कण्ठा पुनः स सर्वं वेदेत्यभिप्रायद्योतिकेति ज्ञेयम् । तमित्यावर्तते । तदुपलक्षितं सर्वं वेदेति वा ।

अयं जीवसङ्घो येन ज्ञानरूपेण येन हरिणा प्रेरितो विश्वं सुखं वा दुःखं वा तपते आलोचयति । अनुभवतीति यावत् । यत एतीति यंस्तस्य । नानायोनिमभिगच्छतोऽस्य तपोऽनुभवो विश्ववीर्यं विश्वस्य भगवतो वीर्यं वीर्यकारणकम् । येन भगवताऽयं जीवस्तपते आनन्दाद्यनुभवति । तदसम्भावनामवमानयति । यतो विश्वं जगद्विश्ववीर्यम् । विश्वं विष्णुरित्यादेर् विष्णुना विविधप्रकारेणेर्यम् । तदन्तर्गतस्य जीवसङ्घस्य तप आनन्दाद्यनुभवस्तत्प्रेर्य इतीति । वैभवात्पुनर्हेतूनाह– य इति ॥ अस्मिन् जीवजाते शयाने सति यो तुर्यात्मा जागर्ति । यथोक्तं माण्डूकोपनिषद्भाष्ययोः । ‘बीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते । स्वप्ननिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया । न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः । सर्वं तु दर्शयेन्मुक्तौ तुरीयः परमेश्वर इति प्रत्यये । सर्वप्रदर्शके चैव तुरीये सर्वदर्शनम् ॥’ इति ब्रह्मतर्के । ‘निद्रायुतास्तु विश्वाद्यास्तदधीना यतो हि सा’ इत्यादि । अयं जीवस्तं न वेद । स हरिस्तं जीवं वेद जानाति । न तत्र चक्षुर्गच्छतीत्यादेः । यः सर्वज्ञ इत्यादेः ।

येन अयं स्वशुभावहदैवमनुसृत्यायमादित्यस्तपते । सूर्याप्रकाशो देशो नास्ति किमित्यत आह ॥ अविश्वं स्वप्रकाश्यमसमस्तमिति । कुतः सञ्चुकोच सवितुः शक्तिरित्यत आह– यतस्तप इति ॥ तपो ब्रह्मेति श्रुतेः । ब्रह्म विश्ववीर्यं समस्तशक्तियुक्तमिति । पूर्ववदुर्वरितम्

॥ ९ ॥

छलारी

तमेवोपनिषदर्थमनुवदति- येन इत्याद्यष्टभिः श्लोकैः । अयमादित्येन हरिणा प्रेरितः सन्विश्वं तपते प्रकाशयति । ‘यदादित्यस्तपति तेजसा च’ इति श्रुतिः । विश्वस्य जगतः सृष्टौ वीर्यं सामर्थ्यप्रदं तपो यतो हरेः सकाशाच्चतुर्मुखस्य भवति । अस्मिन् जीवे शयाने निद्रिते सति यो हरिर्जागर्ति । ‘य एषु सुप्तेषु जागर्ति’ इति श्रुतेः । तं चतुर्मुखनियाम-केत्यादिनिरतिशयमाहात्म्योपेतं हरिमयं जीवो न वेद साकल्येन न जानाति । सः हरिः सर्वं चेतनाचेतनात्मकं विश्वं सम्यग्वेद । ‘यः सर्वज्ञः सर्ववित्’ इति श्रुतेः ॥ ९ ॥

लिङ्गेरी

येन श्रीनारायणेन प्ररितोऽयं सूर्यो विश्वं जगत्तपते प्रकाशयति । धातूनाम-नेकार्थत्वात् । ‘य आदित्यमन्तरो यमयति’ इति । ‘यस्य भासा सर्वमिदं विभाति’ । ‘यदा-दित्यगतं तेज’ इत्यादिश्रुतिस्मृतिभ्यः । विश्ववीर्यं चेतनजगतो मोक्षादिप्राप्तौ सामर्थ्यप्रदं तपो ज्ञानं यतो यस्माद्धरेर्भवति । ‘अज्ञानां ज्ञानदो विष्णुः’ इत्यादेः । अस्मिन्सूर्ये शयाने यो नारायणो जागर्ति निद्राभावं प्राप्नोति । सूर्यस्य जीवेष्वेकत्वात् । तुरीयस्य भगवद्रूपत्वादेतेषां च स्वपितीत्याचक्षते । ‘न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिता’ इत्यादिश्रुतिभ्यः निद्रातदभावावगतेः । अयं सूर्यस्तं स्वनियामकं नारायणं न वेद न जानाति । ‘यमादित्यो न वेद’ इति श्रुतेः । स सूर्यनियामको नारायण आदित्यं वेद । ‘यः सर्वज्ञः सर्ववित् । स वेत्ति वेद्यं न च तस्यास्ति वेत्ता’ इत्यादिश्रुतेः । येन नारायणेन प्रेरितोऽयं जीवराशिर्विश्वं समस्तं सुखदुःखादिकं तपतेऽनुभवति । ‘य आत्मानमन्तरो यमयति’ इति । ‘एष ह्येवानन्दयाति’ । ‘सुखं दुःखं भव’ इत्यादिश्रुतिस्मृतिभ्यः । विश्वस्य समस्तजीवानां वीर्यं सामर्थ्यप्रदं तपो ज्ञानं यतो हरेर्भवति । यो हरिरस्मिन् जीवे शयाने निद्रां प्राप्ते जागर्ति । अयं जीवराशिस्तं नारायणं न वेद । ‘यमात्मानं न वेद’ इति श्रुतेः । स हरिर्जीवं वेद ॥ ९ ॥

आत्मावास्यमिदं विश्वं यज्जगत्यां जगन्मनः ।

तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यचिद् धनम् ॥ १० ॥

पदरत्नावली

न राजादिवत् सूर्यप्रेरकत्वं हरेः किन्तु तदन्तःस्थितत्वेनापीत्यभिप्रेत्याह– आत्मेति ॥ इदं सूर्यादिविश्वम् आत्मन आवास्यम् आवासयोग्यं स्वसृष्टत्वात् । इदमित्यनेन कियत् कवलीक्रितय इति तत्राह– यज्जगत्यामिति ॥ जगत्यां प्रकृतौ यज्जगत् स्थावरजङ्गमलक्षणं प्रकृतावित्युक्त्योत्पन्नमनुत्पन्नं च यत् (तत्) सर्वं स्वव्यतिरिक्तं कवली-क्रियते । प्रकृतिरावासयोग्येति कैमुत्यन्यायेन सिद्धा ‘प्रकृतिं पुरुषं च’ इति वचनाच्च । अस्तु आवासयोग्यत्वम् । ततः किम् ? तत्राह– मन इति ॥ हे मनः यत इदमीशस्य विद्यमानं तेन कारणेन तेन ईशेन, त्यक्तेन दत्तेन धनेन भुञ्जीथाः स्वीकुरु, शरीरयात्रामिति शेषः । यतस्त्वं तदधीनसत्ताक अत एवं न कुर्वित्याह– मा गृध इति ॥ कस्य परमानन्दरूपस्य हरेश्चिदानन्द-स्वरूपज्ञानलक्षणं धनं मा गृधस् तेनैक्यमाप्नुवानित्याकाङ्क्षां न कुर्वतोऽनर्थहेतुत्वादित्यर्थः । भगवता दत्तं कस्यचिद् धनं मदीयमिति श्रद्धां न कुरु इति वा । ईशावास्यमिति श्रुतिः ॥१०॥

सत्यधर्मीया

(अत्र प्रासङ्गिकी कथा । ईशावास्यमिदं सर्वं यत्किञ्चिज्जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनमिति याज्ञीयोपनिषन्मन्त्रं स्वायम्भुवोक्तानुवाद-मिषेणार्थविशेषलाभलोभेनेशावास्यमिति पदभेदमवधार्य सुधीर्यथावद्व्याख्यान्नादित्यादिनियामकता राजादिवद्भहिष्ठतया चेद्गरिष्ठतावहेति अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थित इति श्रुति-समाख्यया च केवलं तदाच्छाद्यत्वस्य महामाहात्म्याप्रयोजकत्ववदुदाहृतश्रुतिविरुद्धत्वाच्च तदुपेक्षितमित्यैकपद्येन तत्राप्यात्मावास्यमिति साङ्निर्देशेन च सूचयन्कं प्रतीत्थं सम्बोधनमिति शङ्कां मन्त्रेऽध्याहार्यं दर्शयन्पराकरोति– आत्मावास्यमिति ॥ इदमेव ग्रन्थकृद्भावमवेत्य भगवान् भाषिष्ट भाष्यकृत् । स्वायम्भुवो मनुरेतैर्मंत्रैर्भगवन्तमाकूतिसूनुं यज्ञनामानं विष्णुं तुष्टाव । ‘स्वायम्भुवः स्वदौहित्रं विष्णुं यज्ञाभिधं मनुः । ईशावास्यादिभिर्मन्त्रैस्तुष्टावावहितात्मना । रक्षोभिरुग्रैः सम्प्राप्तः खादितुं मोचितस्तदा । स्तोत्रं श्रुत्वैव यज्ञेन तान्हत्वाऽवध्यतां गतान् । प्रादाद्धि भगवांस्तेषामवध्यत्वं हरः प्रभुः । तैर्वध्यत्वं तथाऽन्येषामतः कोऽन्यो हरेः प्रभुः ॥’ इति ब्रह्माण्डे । भागवते चायमर्थ एवोक्तः । ईशस्यावासयोग्यमीशावास्यं जगत्यां प्रकृतौ तेनेशेन त्यक्तेन दत्तेन भुञ्जीथाः । ‘स्वतः प्रवृत्त्यशक्तत्वादीशावास्यमिदं जगत् । प्रवृत्तये प्रकृतिगं यस्मात्स प्रकृतीश्वरः । तदधीनप्रवृत्तित्वात्तदीयं सर्वमेव यत् । तद्दत्तेनैव भुंजीथा अतो नान्यं प्रयाचयेत् ॥’ इति ब्राह्म इति । नन्वेतन्मानभाष्यटीकायां तान्हत्वेत्युपपत्तये तान् राक्षसा-नित्यध्याहरेण पुल्लिङ्गोपपत्तिरिति न गदनीयम् । विनाऽध्याहारमुक्तलिङ्गोपपत्तिर्भवति । तथाहि । रक्षोभिरुग्रैरिति पदमेकम् । रक्षःसु रक्षसां वा । निर्धारणे इमे सप्तमीषष्ठ्यौ । अभितो रुजं भङ्गं जगतो राति ददातीति ते तथा तैरिति विग्रहग्रहणादिष्टसिद्धिरिति चेन्न । ‘अशितेऽपि लशुने न शान्तो व्याधिः’ इतिवदेतद्विशेषणानुरूप्येण दानवैर्यातुधानैरित्यादेरध्याहर्तव्यत्वात् त्वयाऽपीति । किञ्च गुरुकल्पना च त्वत्पक्ष इति चमदकृतचेतस्तव विवरणमिति ऋजुर्जयतीर्थीविवरण-सरणिरिति सन्तोषं सन्तो वहंत्विति प्रासङ्गिकी चिन्ता ।)

न राजादिवत्सूर्यप्रेरकत्वं हरेः । किन्तु तदन्तःस्थितत्वेनापीत्याहेत्यवतारयन्ति । जगत्यां प्रकृतौ यज्जगज्जङ्गमं नित्यमनित्यं च तत्सर्वं स्थावरं च । आत्मावास्यमात्मन आततगुणस्य हरेर् आवासयोग्यम् । हे मनः । त्वं तेनात्मना त्यक्तेन दत्तेन दत्तं भुञ्जीथा भुङ्क्ष्व । केचित्पालय शरीरमिति व्याख्यातवन्तः । भुञ्जीथा इत्यस्य पालनार्थतायामात्मनेपदविरोधः । भुजोऽनवन इति निषेधादित्यभिप्रायकेशावास्यटीकया सम्पाद्योऽविरोधः । इदं धनं चिदपि कस्य तद्व्यतिरेकेण न कस्यापि । अतो मा गृधो माभिकाङ्क्षीः । यद्वा । कस्य सुखात्मकस्य हरेर्धनं सौभाग्यं मा गृधः । साम्यं वा नैव चिन्तयेदित्यादेः । कस्यचिद्ब्रह्मादेर्वा धनं मा गृध इति वा । तत्कामानुकूलकामो भवेति तात्पर्यम् । कामेन मे काम आगादित्यादेः । स्वार्थं कस्यचित्कस्यापि धनं मा गृधस्तेन त्यक्तेन दत्तेन दत्तं भुञ्जीथा इति विवृण्वन्ति । इदं सर्वं कस्य सुखरूपस्य मागृधो लक्ष्म्याकाङ्क्षावतः । चिदेव धनम् । अतस्तद्दत्तं भुञ्जीथा इत्यपि वर्णयन्ति ॥ १० ॥

छलारी

उपदिष्टमपि तत्त्वं वैराग्यवत एव हृदयेऽवतिष्ठते । नान्यस्येति तत्त्वं विवक्षुः प्रथमं तावद्वैराग्यं विधत्ते– आत्मेति ॥ यदि तत्सर्वं विश्वम् आत्मन ईशस्यावास्यमावासयोग्यं स्वप्रवृत्यर्थमीशानुप्रविष्टमित्यर्थः । तदेवानुप्राविशदित्यादेः । अतोऽस्वतन्त्रमिति भावः । किञ्च जगत्यामीश्वराधीनप्रकृतौ । जगत्स्थावरजङ्गमात्मकं सर्वम् । आश्रितमिति शेषः । अतोऽपि सर्वमस्वतन्त्रमिति भावः । ततः किमित्यत आह– मन इति ॥ हे मनः । यत ईश्वर एव स्वतन्त्रस्तेन कारणेन तेनेशेन त्यक्तेन दत्तेन धनेन । यदृच्छया लब्धेनेति यावत् । भुंजीथा भोजनादिकं कुर्याः । यतश्चेश्वरादन्यत्सर्वमस्वतन्त्रं तेन कारणेन । तस्य दाने सामर्थ्याभावात् । कस्यचित्कस्मादपि राजादेः सकाशाद्धनं मा गृधो माकाङ्क्षेः । अनेनेशावास्यमिदं सर्वमिति श्रुतिर्गृहीता ॥ १० ॥

लिङ्गेरी

न राजादिवत्सूर्यादिप्रेरकत्वं नारायणस्यापि तु तं नियामकतयाऽन्तःस्थत्वे-नापीत्याह- आत्मावास्यमिति ॥ आत्मनः सर्वेशस्य हरेरावासयोग्यम् । हे मनः । जगत्यां प्रकृतौ यज्जगदवस्थितमिदं विश्वं जगदात्मावास्यं विद्धि । तेन कारणेन तेन परमात्मना त्यक्तेन त्वन्निमित्तं विसृष्टेन दत्तेन द्रव्येण भुंजीथाः शरीरपालनं कुरु । कस्यचिदन्यस्य धनं द्रव्यं कस्यचित्सुखपूर्णस्य हरेर्धनं स्वातन्त्र्यादिरूपं हरिणैक्यमिति यावत् । मा गृधो मा काङ्क्षीरिति स्वायम्भुवो मनुः स्वान्तः करणं स्वाभिमुखजीवराशिं च शिक्षयति । मननान्मन उद्दिष्ट इति जीवेऽपि मनःशब्दप्रवृत्तेः ॥ १० ॥

यं न पश्यन्ति पश्यन्तं चक्षुर्यस्य न रिष्यति ।

तं भूतनिलयं देवं सुपर्णमुपधावत ॥ ११ ॥

पदरत्नावली

ननु किमस्य लक्षणं येन तत्सद्भावेन इदं तदावास्यं स्यादिति तत्राह– यन्नेति ॥ स्वप्रसादमन्तरेणाज्ञेयत्वं सर्वज्ञत्वं नित्याविनष्टचक्षुष्ट्वं च तस्यैव लक्षणं मुख्यम् । ‘अदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते’‘यच्चक्षुर्न पश्यति येन चक्षूंषि पश्यति’ इति श्रुतेः, न रिष्यति न नश्यति । सुपर्णं पूर्णानन्दम् उपधावत भजत ॥ ११ ॥

सत्यधर्मीया

ननु यर्हि स सर्वत्र तर्हि कुतो न दृश्यत इत्यतस्तस्यैवंलक्षण-कत्वादित्याह– यमिति ॥ यं पश्यन्तं योगिनोऽपि तदनुग्रहं विहाय तं न पश्यन्ति । यस्य हरेर्ज्ञानात्मकस्य वा । चक्षुर्ज्ञानं न रिष्यति प्रतिहतं न भवति । तं भूतनिलयं भूतानि निलय आवासस्थानं यस्येति भूतानां निलय इति वा । तं सुपर्णं सुष्टु परमानन्दम् । यथोक्तं ‘विसुपर्ण’ इत्यृग्भाष्यटीकयोः । सुपर्णः परमानन्दात् । सु अतिशयेन परो ण आनन्दोऽस्येतीति । णो हि निर्वृतिवाचक इत्यादेर्णकारः सुखवाची । उपधावत । स्वमनोवृत्तिविवक्षया बहुवचनम् । अभ्यर्हितत्त्वाद्दीनजनानुकम्पयोक्तिर्वा । अदृश्येऽनात्म्येऽनिलयने । यच्चक्षुर्न पश्यति । येन चक्षूंषि पश्यन्ति । तद्दूरे तद्वन्तिके । चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमित्यादेः । यद्वा । द्वा सुपर्णेत्यादेस्तत्त्वं हरेः । देवं क्रीडादिगुणम् । हे मनः । सुपर्णं देवं हंसं भगवन्तम् । उपधौ व्याजे । फलाद्यभिलाषरूपे निमित्ते सति । ‘उपधिर्व्याजचक्रयोः’ इति विश्वः । नेत्यनुवर्तते । न अत न गच्छ । निरौपधं म इत्यादेः । सु शोभनं पर्णं वटपत्रं शय्यात्वेन यस्य तमिति वा । सुपर्णोऽस्ति वाहनत्वेनास्य तमिति वा ॥ ११ ॥

छलारी

एवं वैराग्यमुपदिश्येदानीं हरिं भजस्वेत्युपदिशति– यमिति ॥ जनः पश्यन्तं सर्वं प्रत्यक्षत एव जानन्तं यं विष्णुं न पश्यति । तत्प्रसादाभावे नापरोक्षीकरोति । ‘न चक्षुषा पश्यति कश्चिदेनम्’ इति श्रुतेः । ननु तर्हि घटनाशे देवदत्तस्य तद्विषयं चाक्षुषं ज्ञानमिवेश्वर-स्यापि तद्विषयकं ज्ञानं नश्येदित्यत आह– चक्षुरिति ॥ यस्य हरेः पश्यतो चक्षुर्ज्ञानं न रिष्यति न नश्यति । रीङ् क्षये लट् । विषयनाशेऽपि यन्न नश्यति । स्वरूपभूतत्वाज् ज्ञानस्य । न हि सवितृप्रकाशः प्रकाशे नश्यति । विषयनाशस्तु वृत्तिज्ञानस्यैव । वृत्तिज्ञानं त्वीश्वरस्य नास्त्येवेति भावः । भूतानि निलयो यस्य तम् । तत्सर्वान्तर्यामिणम् । भूतानां निलयं वा । सुपर्णं शोभनपरमानन्दरूपं तं देवमुपधावत भजध्वम् । हे जनाः ॥ ११ ॥

लिङ्गेरी

लक्षणं विना वस्त्वसिद्धेर्भगवतो लक्षणमाह– यन्नेति ॥ हे मनांसि । यूयं कवयः स्वान्पश्यन्तं यद्यं तत्प्रसादेन विना तत्प्रसादेऽपि साकल्येन च न पश्यन्ति न जानन्ति । ‘साक्षी चेता’ । ‘न विद्म न विजानीमः’ । ‘यमैवैष वृणुते तेन लभ्य’ इत्यादेः । यस्य चक्षुर्न रिष्यति कदाचित्क्षीणं न भवति । न हि द्रष्टुर्दृष्टेर्विपरिलोपः । तुरीयं तत्सर्वदृक् सदेत्यादेः । भूतनिलयं सर्वप्राण्यावासं सुपर्णं सुखपूर्णं शरीरलक्षणवृक्षे गरुत्मत्पक्षिरूपं देवं क्रीडादिगुणविशिष्टं नारायणमुपधावत स्मरत भजत चेति । मनुना स्वान्तःकरणं मोक्षयोग्यजीवांश्च प्रत्युच्यते । सर्वप्राणिषु च स्थितौ, भूतावासो वासुदेवो, यो वेद निहितं गुहायां, कं ब्रह्म, द्वा सुपर्णा इत्यादिश्रुतिस्मृतिभ्यः । एतेन स्वप्रसादेन विना साकल्येन च ब्रह्माद्यज्ञेयत्वसर्वदासर्वसाक्षिकत्व-सर्वभूताश्रयत्वपूर्णसुखत्वादिलक्षणैः परमात्मलक्षणवस्तुसिद्धेः स्थावरजङ्गमात्मकसमस्तजगत-स्तदावास्यत्वं निष्कण्टकं स्थितमित्यसूचीति ज्ञातव्यम् । ईशावास्यमित्युपनिषन्मन्त्रभागस्यात्मा-वास्यमिति किञ्चिद्विवरणेन ‘आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् । न सम्भवति’ इत्यादिप्रमाणैर्विष्णावेव मुख्यात्मशब्देनेशशब्दव्याख्यानादीशावास्यमित्यादेः रुद्रपरत्वं प्रत्या-ख्यातम् ॥ ११ ॥

यस्याद्यन्तौ न मध्यं च न परो नान्तरं बहिः ।

विश्वस्यामूनि यद् यस्माद् विश्वं च तद् ऋतं महत् ॥ १२ ॥

पदरत्नावली

लक्षणान्तरमाह– यस्येति ॥ पर इत्युपलक्षणम् अपरोपि परोपि च । अत्र परापरवस्तुनोः स्वातन्त्र्यं निषिध्यते न तु शून्यत्वम् (उच्यते) । तद्रुतं महद्ब्रह्मेत्यर्थः । ‘तदेवर्तं तदु सत्यमाहुः’ इति श्रुतिः ॥ १२ ॥

सत्यधर्मीया

जनवज्जननादिमान्स चेन्न भजनीयताऽस्य स्यादित्यत आह– यस्येति ॥ आद्यन्तावादिरुत्पत्तिरन्तो नाशश्च तौ न न स्तो मध्यं स्थितिरपि न । सर्वमन्याधीनं नेत्यर्थः । न परः स्वतन्त्रो न परोऽपरश्च न नान्तरं न बहिश्च । यद्यतो यस्मादेवं विश्वस्यामून्याद्यन्तादीनि भवन्ति । तद्विश्वं तत्स्वामित्वात्तथोच्यते । व्याप्तं वा । ऋतं सत्यशब्दाभिधेयं महद्ब्रह्म । ‘तदेवर्तं तदु सत्यमाहुः’ । ‘ऋगताविति धातोस्तु पूर्वावगतवत्सदा । स्थितेर्ब्रह्मर्तमित्युक्तम्’ इत्यादेर्ज्ञातव्यम् । सदा स्थितमिति वा । अतो नासम्भावितमात्मावास्येत्यादिकमिति । नेतर इत्यनुदीरयन्नीरयंश्च न पर इति ‘परोऽरि परमात्मनोः’ इत्यादेः शत्रुरपि नास्तीति ध्वनयति । न जगाद जगत इति जगाद च विश्वस्येति यत्तेन तदृतं महदिति विश्वस्य विश्वासं कृत्वोपधावतेत्यन्वयं सूचितवानिति ज्ञेयम् ॥ १२ ॥

छलारी

ईश्वरस्य परिच्छेदशून्यत्वादिमहिमान्तरमाह– यस्येति ॥ यस्य हरेराद्यन्तावादिः पूर्वावधिरन्तश्चरमावधिर्न । अत एव न मध्यमं च । परः विप्रकृष्टो न दूरो न व्याप्तत्वादिति भावः । विश्वस्यामून्याद्यन्तादीनि यस्माद्भवन्ति विश्वं च यद्यदधीनसत्ताकम् । ‘यदधीना यस्य सत्ता तत्तदित्येव भण्यत’ इति वचनात् । तद्ब्रह्म ऋतं सत्यं महद्गुणपूर्णम् । ‘तदेवर्तं तत्सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम्’ इति श्रुतेः ॥ १२ ॥

लिङ्गेरी

तस्य परमात्मनो वैभवाल्लक्षणान्तराण्याह- यस्येत्यादिना ॥ यस्य परवस्तुन आद्यन्तावुत्पत्तिविनाशावस्थे न स्तः । मध्यं चोत्पत्त्यनन्तरं विनाशात्पूर्वं स्थित्यवस्थाऽपि नास्ति । यस्य सकाशात्पर उत्तमो नास्ति । आन्तरं बहिश्च नास्ति । सर्वव्याप्तत्वात् । यद्वस्तु विश्वस्य समस्तस्य जगतो मूलमुत्पादकम् । यस्माद्वस्तुनो विश्वमवतिष्ठते संह्रीयते च । तन्महत्परममहत्परिमाणं ‘ऋतं पूर्वावगतवत्सदास्थितेर्ऋतशब्दवाच्यं परं ब्रह्म । अनादिनिधनं विष्णुम् । न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः । यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व तद्ब्रह्मेति । तदेवर्तम्’ इत्यादेः ॥ १२ ॥

स विश्वकालः पुरुहूत ईशः सत्यं परंज्योतिरजः पुराणः ।

धत्तेऽस्य जन्माद्यजयाऽऽत्मशक्त्या तां विद्ययोदस्य निरीह आस्ते ॥ १३ ॥

पदरत्नावली

इदं च ब्रह्मलक्षणमित्याह– स विश्वेति ॥ आत्मशक्त्या आत्मभार्यया प्रकृत्या अस्य जगतो जन्मादि धत्ते, यश्च तां प्रकृतिं विद्ययोदस्य निरस्य निरीहः सृष्ट्यादिशून्य आस्ते स ब्रह्म नाम परमात्मा इत्यन्वयः । प्रलये विश्वकाय विश्वं काये यस्य स विश्वकाय उदरान्तर्गतप्रपञ्च इत्यर्थः । अतः पुरुहूतः पुरूणि बहूनि हूतानि नामानि यस्य स तथा । ‘सर्वनामा सर्वकर्मा’ इति श्रुतिः । सर्वनामवाच्यत्वे हेतुः– ईश इति ॥ तत्तच्छब्दप्रवृत्ति-निमित्तसामर्थ्योपेत इत्यर्थः । नैतदौपचारिकमित्यभिप्रेत्याह– सत्यमिति ॥ तत्तनामवाच्यत्वे तत्साधुगुणसद्भावसामर्थ्यमस्तीति वक्तुमुचितं स एव कथमित्यतो वाह– सत्यमिति ॥ साधुगुणपूर्णम् । इदं च लक्षणान्तरम् परंज्योतिरिति ॥ ‘परंज्योतिरुपसंपद्य’ इति श्रुत्या मुक्तप्राप्यत्वमुच्यते तदेवानेनोच्यत इति । परंज्योति सूर्याद्यन्यतमः किं न स्यादित्यतः– अजः पुराण इति ॥ १३ ॥

सत्यधर्मीया

अव्यभिचारिसद्गुणो रमारमण एव मदुपास्य इदानीमिति शंसति– स इति ॥ विश्वकायो व्याप्तशरीरः पुरुहूतो, विश्वं काले लयकाले यस्य सः । अनेन न पुरुहूतः शचीश इति सूचयति । पुरूणि हूतानि नामानि । यो देवानां नामधा । ‘सर्वनामा सर्वकर्मा’ इति श्रुतेः । यस्य स तथा । स ईशः सोऽसपत्नः । सत्यं ज्ञानं परं ज्योतिरूपम् । अजमनिद्रम् । पुरुषः पुराण इत्यादिश्रुतिप्रतीकग्रहणमीश इत्यादिना करोति । ईशनशील इतीशः । याः शमनेनेति वा । अस्य स्त्री ई रमा । सत्यं साधुगुणम् । परंज्योतिरिति पदैक्यपक्षे परमिति मान्तमव्ययम् । तद्भेदपक्षेऽपि परमित्यपरव्यावर्तकमिति ज्ञेयम् । अजो न जायते कर्मवशत इत्यजः । पुराण आदिपुरुषः । पुरं देहमणतीति पुराण इति वा । तद्य्वापारमाह– धत्त इति ॥ अजया प्रकृत्या शक्त्या मुख्यकारणरूपिण्या । अस्य जगतो विध्यादेर्जन्मादि तदष्टकं धत्ते विधत्ते । अयं तत्सृष्टो ब्रह्मादिरधिकारी । यस्य विद्यया ज्ञानेन तामजां बन्धकाविद्याहेतुमुदस्य निरस्य निरीहो हरीतरविषयाभिलाषविकल आस्ते । तं सुपर्णमुपधावत । विद्यायाऽमृतमश्नुत इत्यादेर्भिन्नविषयतया योजनमर्थविशेषदमिति मन्तव्यम् । आत्मशक्त्या । ‘शक्यत्वाच्छक्तयो भार्या’ इत्यादेः । स्वभार्याभूतयाऽजया प्रकृत्याऽस्य जन्मादि धत्ते । यश्च तां स्वभार्यां तदभिमन्यमानामचित्प्रकृतिं च । विद्यया स्वज्ञानेनोदस्य कार्याभिमुखीं विधाय निरीहः सर्जनादि-क्रियावर्जितो लयलवे आस्ते तमिति वा । निरस्येति निरस्य विन्यस्य चोदस्येति उदस्योदकस्य । मध्य इत्यध्याहारः । निरीह आस्ते । क्षीरसमुद्रमध्ये तं सुपर्णं वटपत्रशायिनमुपधावतेति भावमाविश्चक्र इति ज्ञेयम् । अथवा उद् अस्येति च्छेदः । अस्य यस्य नाम उत् तमुपधावतेत्यन्वयः । अस्योदिति नामेति श्रुतेः ॥ १३ ॥

छलारी

ब्रह्मणो जन्मादिकर्तृत्वरूपमहिमानमाह– स इति ॥ स सृष्टावात्मनः शक्त्या शक्तिविषययाऽजया प्रकृत्यास्य जगतो जन्मादि धत्ते करोति । स एव प्रलये तां प्रकृतिं विद्यया स्वस्योदस्य निर्व्यापारीकृत्य निरीहः सृष्ट्यादिव्यापारशून्य आस्ते । कीदृशः । प्रलये विश्वं काये यस्य सो विश्वकायः । उदरान्तर्गतप्रपञ्च इत्यर्थः । सृष्टौ विश्वमेव कायः शरीरं यस्य स तथा प्रतिमास्थानीयः प्रपञ्च इत्यर्थः । स्वसृष्टजगति भगवतः प्रविष्टत्वादिति भावः । पुरुहूतः पुरूणि बहूनि हूतानि नामानि यस्य स तथा । ‘सर्वनामा सर्वकर्मा’ इति श्रुतेः । सर्वनामवाच्यत्वे हेतुः– ईश इति ॥ तच्छब्दप्रवृत्तिनिवृत्तिसामर्थ्योपेत इत्यर्थः । अत एव सत्यं साधुगुणपूर्णः परञ्ज्योतिर्मुक्तप्राप्यपरंज्योतिशब्दवाच्यः । ‘परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पध्यत’ इति श्रुतेः । अज उत्पत्तिशून्यः पुराणः पुरातनः । ‘अजो नित्यः शाश्वतोऽयं पुराण’ इति श्रुतेः

॥ १३ ॥

लिङ्गेरी

यद्विश्वस्य मूलमित्युक्तं जगज्जन्मादिकर्तृत्वं विवृण्वन्नाह– स विश्वकाय इति ॥ विश्वकायो नियम्यतासाम्येन । जगल्लक्षणशरीरवान् पुरुहूतः बहुनामा बह्वाह्वानवांश्चेशोऽ-घटितघटनैश्वर्यवान् । सत्यं परंज्योतिरित्यादिशब्दवाच्योऽज उत्पत्तिरहितः पुराणः पुरातनः स आत्मा, आत्मशक्त्या स्वशक्तिविषयया लक्ष्म्या प्रेरितयाऽजया जडप्रकृत्याऽस्य चतुर्मुखादि-जीवराशेः सत्त्वगुणादिजडस्य च जन्मादि उत्पत्त्याद्यष्टकं धत्ते करोति । तां जडप्रकृतिं विद्यया सार्वज्ञादिस्वशक्त्योदस्य निराकृत्य तदबद्धो भूत्वा निरीहः सृष्ट्यादिव्यापाररहितः सन्नास्ते । यः पृथिव्यां तिष्ठन्सर्वनामा सर्वकर्मा । ‘उत्पत्तिस्थितिसंहारा नियतिर्ज्ञानमावृत्तिः । बन्धमोक्षौ च पुरुषाद्यस्मात्स हरिरेकराट्’ इति स्कान्दादेः ॥ १३ ॥

अथाग्र ऋषयः कर्माणीहन्ते कर्महन्तवे१ ।

ईहमानो हि पुरुषः प्रायोऽनीहां प्रपद्यते ॥ १४ ॥

पदरत्नावली

एवं सिद्धे वस्तुनि तत्साधनज्ञाने साधनमाह– अथेति ? यतो ज्ञान-प्रतिबन्धके दुष्कर्मणि सति सर्वं दुःसाधनं स्यादिति । अथ लोकसंग्रहार्थम् ऋषयोऽग्रे कर्महन्तवे दुष्कर्मपरिहाराय यागादिकर्माणि ईहन्ते कुर्वन्ति इति विज्ञाय ज्ञानार्थी पुरुष ईहमानः कर्म कुर्वाणो विधूतदुष्कर्माऽनीहां निवृत्तिपदवीं प्राप्य प्रायो बहुलं ज्ञानं प्रपद्यत इत्यन्वयः । कश्चित् फलार्थी अन्यथाऽपि भवतीति प्राय इत्युक्तम् । अनेन ‘कुर्वन्नेवेह कर्माणि’ इति श्रुतिर्गुहीता, ‘आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्माणि रतिविशेषेण समावृत्य कुटुम्बी शुचौ देशे स्वाध्यायमधीयानो धार्मिको विदधदात्मनि सर्वेन्द्रियाणि सम्प्रतिष्ठाप्याहिंसन् सर्वभूतानि अन्यत्र तीर्थेभ्यः स खल्वेवं वेदं वर्तयन् यावदायुषम्’ इति श्रुतिर्हिशब्देन गृहीता ॥ १४ ॥

सत्यधर्मीया

प्रवृत्तमपि कर्म मर्मज्ञानुष्ठितं निवृत्तौपयिकं सत्ज्ञानसाधनं भवतीती-तराञ्च्छिक्षयतो भगवतश्चरितमनुसरन्तः प्रेक्षावन्त एवमाचरन्तीतीरयति ॥ अथेति ॥ अथ भगवदवगमसम्पादनप्रारम्भदशायाम् । ऋषयो ज्ञानिनः सामान्यतोऽग्रे प्राक् कर्माणि ज्योति-रादीनीहन्ते कुर्वंति । किमर्थमित्यत आह ॥ कर्महन्तव इति ॥ ज्ञानोत्पत्तिप्रतिबन्धक-दुष्कर्माणि हन्तुम् । तुमर्थे तवेन्प्रत्ययः । ईहन्ते कर्महेतवे इति पठित्वाऽकर्म मोक्षस्तद्धेतव इति व्याख्या तु ‘कर्मणा कर्मनिर्हारः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्ट’ इति मानाननुगुणेति वाऽनीहां प्रपद्यत इत्युत्तरग्रन्थाननुसारिणी चेति ज्ञेयम् । हन्त वै इत्यपि पठन्ति । तत्र तवैन्प्रत्यय इति ज्ञेयम् । मध्यमव्यावृत्तये– प्राय इति ॥ अनेन ‘कुर्वन्नेवेह कर्माणि’ ‘न कर्म लिप्यते नर’ इति मानमनुकरोति । पुरुष ईहमानः फलमभिलषन्ननुष्ठाता क्रमादनीहां फलानिच्छाम् । निवृत्तिमार्गमिति यावत् । प्रपद्यते प्राप्नोति । न हि निवृत्तिसम्पत्तिरेव फल-मित्यतस्तया निवृत्तं सेवमानस्तु ब्रह्माभ्येतीत्याद्युक्तेर्हरिप्राप्तिर्भवतीति हिना सूचयति ॥ १४ ॥

छलारी

एवं परमात्मस्वरूपं निरूप्येदानीं तत्प्राप्तिसाधनज्ञानादिकर्माणि कुर्यादित्या-शयेनाह ॥ अथेति ॥ यतो ज्ञानप्रतिबन्धके दुष्कर्मणि सति सर्वं दुःसाधनं स्यादथ तस्माल्लोक-संग्रहार्थम् ऋषयोऽग्रे प्रथमं कर्महन्तवे कर्मणां दुष्कर्मणां हन्तवे परिहाराय योगादिकर्माणीहन्ते कुर्वन्ति । ‘यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः’ इति श्रुतेः । एवं ज्ञात्वा ज्ञानार्थी पुरुष ईहमानः कर्म कुर्वाणोऽनीहां मुक्तिसाधनीभूतज्ञानपदवीं प्रपद्यते । कश्चित्फलार्थ्यन्यथाऽपि भवतीति प्राय इत्युक्तम् । अनेन कुर्वन्नेवेह कर्माणीति श्रुतिर्गुहीता ॥ १४ ॥

लिङ्गेरी

इत्थं लक्षणैः परब्रह्मवस्तुनि सिद्धे तत्प्रसादेन तत्प्राप्त्यादिरूपमोक्षसिध्द्यै दुष्कर्मनिर्हरणद्वाराऽन्तःकरणशुद्धिवैराग्यभक्त्युपासनाऽपरोक्षभगवत्प्रसादहेतुभूतस्ववर्णाश्रमोचितकर्मकरणे पूर्वाचारमाह ॥ अथाग्र इत्यादिना ॥ अग्रे पूर्वकाले ऋषयस्त्रिकालज्ञानिनो मुनयोऽथ स्वविहितकर्मकरणेनोक्तरीत्या मोक्षलक्षणफलसद्भावात्कर्महन्तवे दुष्कर्मविनाशादिफलाय कर्माणि स्वविहितानीहन्ते कुर्वन्ति । अहरहः सन्ध्यामुपासीतेति विहितसन्ध्यादिना ‘सूर्यश्च मामन्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्ताम्’ इति श्रुत्यादिना दुष्कर्मनाशावगतेः । एवं कर्माणीहमानः कुर्वाणः पुरुषोऽधिकारी प्रायः सर्वात्मनाऽनीहां विधिनिषेधबद्धतया कर्तव्यकर्म-शून्यां मुक्तिम् । न तु सर्वात्मना चलनादिकर्मशून्यत्वादनीहात्वं मुक्तेः । मुक्तावपि जक्षन्कीडन्नित्यादिश्रुत्योक्तकर्मप्रतीतेः । प्रपद्यते प्राप्नोति । अनेन ‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छ समा’ इति द्वितीयमन्त्रोपनिषद्भागो विवृतः । ‘‘आचार्यकुलाद्वेदमधीत्य यथा-विधानं गुरोः कर्माणि रतिविशेषेण समावृत्य । कुटुम्बी शुचौ देशे स्वाध्यायमधीयानो धार्मिकान्विदधदात्मनि सर्वेन्द्रियाणि सम्प्रतिष्ठाप्याहिंसन् । सर्वभूतान्यत्र तीर्थेभ्यः स खल्वेवं विदेवं वर्तयन् यावदायुषम्’’ इत्यादिश्रुतिर्हिशब्दसूचिता ॥ १४ ॥

ईहते भगवानीशो न हि तत्र विषज्जते ।

आत्मलाभेन पूर्णार्थो नावसीदन्ति येऽनु तम् ॥ १५ ॥

पदरत्नावली

न केवलम् ऋषय एव लोकसंग्रहार्थं कर्माण्याचरन्ति अपि तु श्रीहरिरपीति भावेन आह– ईहते इति ॥ कर्मानभिषङ्गे कैमुत्यन्यायमाह– नावसीदन्तीति ॥ ये तमनुवर्तन्ते तेऽपि नावसीदन्ति किमुत श्रीहरिरित्यन्वयः ॥ १५ ॥

सत्यधर्मीया

मुनय एवं कुर्वन्तीति नाद्भुतम् । जनार्दनोऽपि जनमनुकरोतीति मनुराह ॥ ईहत इति ॥ आत्मलाभेन पूर्णार्थो भगवानीश इति सङ्गाभावे हेतूनाह । ये मुन्यादय-स्तमनुवर्तन्ते तेऽपि नावसीदन्ति । स नावसीदेदिति किं गदनीयमित्यर्थः । आत्मा स्वरूपभूतो लाभ आनन्दादेर्येषां तेषामिना विध्यादयस्तेभ्योऽपि पूर्णोऽर्थो यस्य सः । आत्मलाभेनेति तृतीयान्तं वा ॥ १५ ॥

छलारी

नन्वीहमानः कर्मभिरवकुण्ठितः केशकार इव बद्ध्यते इत्यत आह ॥ ईहत इति ॥ हि यस्माद्भगवान् रामकृष्णादिरूपो लोकसंग्रहार्थमीहते वेदोक्तं कर्म करोति तत्र न विषज्जते । अतस्तैर्येऽनुवर्तमानास्ते कर्म कुर्वाणा अप्यात्मलाभेन भगवल्लाभेन पूर्णार्थाः सन्तो नावसीदन्ति न बध्यन्ते ॥ १५ ॥

लिङ्गेरी

ननु परमात्मनोऽपि स्वफलाय कर्मप्रवृत्तिदर्शनात्कथं तत्प्रसादेन मोक्षाद्युक्तिः । तस्यान्यापेक्षायां स्वातन्त्र्येण मुक्तिप्रदानाद्ययोगादित्याशङ्कां परिहरति ॥ ईहत इत्यादिना ॥ भगवान्समग्रैश्वर्यादिमानीशः परमात्माऽपि कर्माणीहते । तथाऽपि तत्र कर्मफले न विषज्जते आसक्तो न भवति । यत आत्मलाभेन स्वरूपानन्दाद्यनुभवलाभेन पूर्णार्थो ऽवाप्तसर्वप्रयोजनः । ननु परमात्मनो दुष्कर्मबद्धत्वाद् अत एव तादृशपुत्रत्वापादककर्मणोऽनिवृत्त्या पुत्रलक्षणफलप्राप्त्यै यादवकृष्णस्य कैलासगमनरुद्रस्तुत्यादिकर्मणि प्रवृत्तिदर्शनात्कथं तस्यान्येभ्यो मुक्तिदातृत्वं युज्यत इत्यस्यापि कुचोद्यस्येदमेवोत्तरम् । भगवानीशः कर्माणीहते । कैलासगमनादि कर्म कुरुते यद्यपि तथाऽपि तव तत्कर्मविषये न विषज्जते स्वपुत्रापादकदुष्कर्मनिवर्तकं भवत्वेतदिति सङ्कटं नानु-भवति । स्वबन्धकदुष्कर्माभावात् । ‘न मां कर्माणि लिम्पन्ति’ इत्यादिस्मृतेः । कुमारश्चित्पितरं वन्दमानं प्रति ‘नानात्म रुद्रोपयन्तं भूरेर्दातारं सत्पतिं गृणिषे स्तुतस्त्वं भेषजा रास्यस्मा’ इत्यादिप्रत्यक्षश्रुतेश्च भगवतः कृष्णस्य दुष्कर्माबद्धत्वफलापेक्षाशून्यत्वेऽपि मोक्षयोग्यजनशिक्षणाय कर्मणि प्रवृत्तेः प्रमितत्वादिति । एतच्छ्रुतिस्मृत्यर्थो विस्तरादस्मत्कृततत्त्ववादिकण्ठाभरणादौ द्रष्टव्यः । अत्र कैमुत्यमाह । येऽधिकारिणस्तमनुवर्तन्ते तेऽपि नावसीदन्ति । तेषां ‘अवश्य-मनुभोक्तव्यं कृतं कर्म शुभाशुभम् । नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ॥’ इत्यादि प्रमाणेनात्यन्तमवर्जनीयतया भोक्तव्यप्रारब्धकर्मणोऽपि उपमर्दं चेत्यादि ब्रह्मसूत्रादिभिः काला-द्युपमर्दप्रमापनात् । किम्वीश्वरः स्वफलाय नावसीदतीति वक्तव्यमिति । हे रुद्र । अनेन कृष्णेन भेषजा मृषैव स्तुतः सन् अस्मै कृष्णाय पुत्रादिरूपफलं भेषजा रासि ददासीति सङ्कोचे-नैतच्छ्रुत्यर्थोऽत्र ज्ञातव्यः ॥ १५ ॥

तमीहमानं निरहङ्कृतं बुधै१र्निराशिषं पूर्णमनन्यचोदितम् ।

तच्छिक्षयन्तं निजवर्त्ममूढान् प्रभुं प्रपद्येऽखिलधर्मभावनम् ॥ १६ ॥

पदरत्नावली

पुरुषेण फलानिच्छया कर्म कर्तव्यमात्मविदेति भावेन स्तौतीत्याह– तमीहमानमिति ॥ बुधैरीहमानं निजवर्त्ममूढान् तत्कर्म शिक्षयन्तं प्रभुं प्रपद्य इत्यन्वयः

॥ १६ ॥

सत्यधर्मीया

परोक्षतः प्रेक्षावन्तः कुर्वन्त एवं नावसीदन्तीत्युक्तौ तव किमित्यतस्त-त्त्वेनोपास्तौ ममापि निरीहता भविष्यतीति तथा स्तौति ॥ तमिति ॥ ईहमानं तथाऽपि निरहङ्कृतं निर्गतोऽहङ्कृतादहङ्कारात् । अभिमानत इति यावत् । निराशिषमभिलाषशून्यमनन्य-चोदितमनितरप्रेरितम् । तन्निजवर्त्मनीह मार्गे मूढान् जनान् प्रति । निजवर्त्ममूढानिति समस्तं वा । तन्निजवर्त्म शिक्षयन्तं स्वयं बुधैः स्वेतरैरपि तच्छिक्षयन्तम् । अखिलधर्मभावनं सकल-धर्मोत्पादकं प्रभुं प्रपद्ये । बुधैरीहमानं यन्निजवर्त्म तन्मूढांस्तदविदुषस्तच्छिक्षयन्तमिति वा । बुधमित्यपि पठंति ॥ १६ ॥

छलारी

एवं हरिं स्तुत्वा स्वाभीष्टमाशास्ते ॥ तमिति ॥ अहं तं पूर्वोक्तमहिमोपेतं यज्ञनामकं हरिं प्रपद्ये शरणं प्राप्नुयामित्यन्वयः । कथंभूतम् । ईहमानं कर्माचरन्तम् । तर्हि जीवसाम्यं स्यादित्यतो जीववैलक्षण्यमाह । निरहंकृतं निराशिषम् अनन्यचोदितमिति विशेषण-त्रयेण । निरहंकारे हेतुः ॥ बुधं ज्ञानिनमिति । निराशिषं फलापेक्षारहितम् । तत्र हेतुः ॥ पूर्णमवाप्तसमस्तकाममिति । ‘आप्तकामस्य का स्पृहा’ इति श्रुतेः । अनन्यचोदितम् अन्येन नियुक्तो न भवतीत्यनन्यचोदितस्तम् । अनियम्यमित्यर्थः । तत्र हेतुः ॥ प्रभुं स्वतन्त्रमिति । एतादृशस्यापि कर्मानुष्ठानहेतुर्निजवर्त्ममूढान्मुक्तिमार्गानभिज्ञान्नृन्स्वभक्तान्स्वावरेण शिक्षयन्तमिति । तदपि किमर्थं तत्राह ॥ अखिलेति ॥ अखिलान्धर्मान्भावयतीति प्रवर्तयतीत्यखिलधर्मभावनम्

॥ १६ ॥

लिङ्गेरी

एवं परमात्मकर्मवैफल्ये परमात्मनो मौढ्यमाशङ्क्य परमात्मनः स्वप्रयोजना-भावेऽपि परप्रयोजनसिद्ध्यर्थं सम्यग्ज्ञानयोग्यानां शिक्षणाय कर्मकरणप्रवृत्तेर्न वैफल्यमिति सूचयं-स्तस्यान्यनियम्यत्वाभावमाह ॥ तमीहमानमिति ॥ अहं बुधैर्ज्ञानयोग्यनिमित्तैर्निरहङ्कृतम् अस्वतन्त्रकर्तर्यहं कर्तेति गर्वाभावेन कर्माणीहमानम् । स्वस्य स्वतन्त्रकर्तृत्वात् । निराशिषं फलाकाङ्क्षारहितं पूर्णमवाप्तसर्वकामम् । अनन्यचोदितमन्याप्रेरितं प्रभुं सर्वस्वामिनम् । अखिल-धर्मभावनं निःशेषधर्मप्रवर्तकम् । निजवर्त्ममूढान्स्वकीयमोक्षमार्गाज्ञानिनो नृन्मनुष्यान् शिक्षयन्त-महङ्कारफलापेक्षाभावेन कर्म कर्तव्यमिति दर्शयन्तं परमात्मानं प्रपद्ये शरणं गतोऽस्मि । यदि ह्ययं न वर्तेयमित्यादेः ॥ १६ ॥

श्रीशुक उवाच–

इति मन्त्रोपनिषदं व्याहरन्तं समाहितम् ।

दृष्ट्वाऽसुरा यातुधाना जग्धुमभ्यद्रवन् क्षुधा१॥ १७ ॥

पदरत्नावली

मन्त्रवर्णेन युक्तोपनिषदम् ॥ १७ ॥

सत्यधर्मीया

मन्त्रोपनिषदं मन्त्ररहस्यम् । यथोक्तं मोक्षधर्मे । ‘वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दम’ इत्यादि । मन्त्रवर्णोपेतामुपनिषदं वा । व्याहरन्तमुच्चारयन्तम् । दृष्ट्वाऽसुरा यातुधानाश्च जग्धुमत्तुमभ्यद्रवन् । कुत इत्यत आह ॥ क्षुधेति ॥ क्रुधेति पाठे हरिचरिता-श्रवणोत्सुकत्वात्कोपस्तेषामुचित इति ज्ञेयम् । सोऽपि जगतीशासितेति रणं कुर्यादेवेत्यत आह ॥ समाहितमिति ॥ यद्वा तन्मध्ये कोऽपि कोपी न चेद् एनं न मारयतेतीरयेदित्यतो नेत्यप्याह ॥ समाहितमिति ॥ समे सर्वेऽप्याहिता यस्य तम् । हरिचरणार्पितमानसं जग्धुमत्तुम् । अकि त्वल्यप्त्वाददो जग्ध्यादेशच्छांदस इत्यवसेयम् ॥ १७ ॥

छलारी

समाहितं समाधिस्थमेव सन्ततमिति । पूर्वोक्तमन्त्रोपनिषदं व्याहरन्तं स्वायंभुवं दृष्ट्वा । तत्कृतं स्तोत्रं श्रुत्वैवेति यावत् । असुरा असुभिः परप्राणैरेव स्वप्राणान् रमयन्तीत्य-सुराः । नरभक्षका इत्यर्थः । यातुधाना राक्षसाः क्षुधानिमित्तेन जग्धुं भक्षितुमभ्यद्रवन् अभिदुद्रुवुः

॥ १७ ॥

लिङ्गेरी

मन्त्रोपनिषदं संहितासहितोपनिषदं व्याहरन्तमुच्चरन्तं समाहितं स्वस्थान्तःकरणं स्वायम्भुवं दृष्ट्वा । असुराः सुरविरोधिनो यातुधाना राक्षसाः क्रुधा कोपेन जग्धुं भक्षितुमभ्याभि-मुखेनाद्रवन् शीघ्रमागतवन्तः ॥ १७ ॥

तांस्तथावसितान् वीक्ष्य यज्ञः सर्वगतो हरिः ।

यामैः परिवृतो देवैर्हत्वाऽशासत् त्रिविष्टपम् ॥ १८ ॥

सत्यधर्मीया

तान् तथाऽवसितान् । पदमेकम् । तथा वधो विधातव्य इति प्रकारेणावसितं निश्चयो येषां ते तथा । तान्वीक्ष्य । तत्र हेतुः ॥ सर्वगत इति ॥ स्तोत्रं च श्रुत्वेति शेषः । तान्हत्वा । हरवरादमृत्यूनपि । हरिर्यज्ञो यामैस्तन्नामकैर्देवैः परिवृतस्त्रिविष्टपं स्वर्गमशासत् । स्वयमिंद्रः सन् शशास स्वर्गमिति भावः । न यामसाहिती यातुधानवध इति ज्ञेयम् । मन्वन्तरस्वरूपं तु द्वादशे स्कन्धे षष्ठेऽध्याये, ‘मन्वन्तरं मनुर्देवा मनुपुत्राः सुरेश्वराः । ऋषयोंऽशावतारश्च हरेः षडि्वधमुच्यत’ इति षडि्वधं वक्ष्यति सूतः । तथाऽपि क्वचिद्धर्यवतार एव यदेंद्रस्तदा पञ्चविधं तदिति मन्तव्यम् । तदुक्तं चतुर्थे प्रथमेऽध्याये । स्वायम्भुवेऽन्तरे । ‘मरीचिमिश्रा ऋषयो यज्ञः सुरगणेश्वरः । प्रियव्रतोत्तानपादौ ’ इत्यादि । पञ्चमे सतात्पर्ये च । ‘यस्य हीन्द्रः स्पर्धमानो भगवान्वर्षे न ववर्ष’ । तदुक्तम् । ‘दुष्टानां मोहनार्थाय यज्ञ इन्द्रपदे स्थितः । पस्पर्ध ऋषभेणेव स्वरूपेण हरिः स्वयम् ॥’ इति । तथा च स्वायम्भुवमन्वन्तरे । स्वायम्भुवो मनुस्तत्पुत्रौ प्रियव्रतोत्तानपादौ ऋषयश्च मरीचिमुख्याः सत्यो यज्ञश्च हर्यवतारः । पुत्रिकापुत्रन्यायेन मनुर्गृहीतः । स एव हरिहयश्च । यामादयो देवा इति पाञ्चविध्यमवसेयम् । द्वादशोक्तिस्त्वेतदतिरिक्तविषयेति न विरोधः ।

अत्र प्रासंगिकी कथा । त्रिविष्टपं तृतीयं विष्टपं स्थानं त्रिविष्टपम् । त्रिशब्दस्यापूरण-प्रत्ययान्तस्यापि तदर्थकता त्रिदशपदव्याख्यावसरे तत्त्वसुबोधिन्यां त्रिभाग इत्युदाहृत्योक्ता । तथाऽमरसुधायां चोक्तानुसन्धेया । विशन्ति सुकृतिनोऽस्मिन्निति विष्टपं विटपविष्टपेत्यादिना विशेः कम्पन्प्रत्ययस्तस्य च तुट्व्रश्चेति षत्वं ष्टुत्वं च । यद्यपि क्लीबे त्रिविष्टपमित्यमरस्तथाऽपि विष्टपोऽप्यस्त्री नभो विष्टपो गौरित्याद्यमरमाला रत्नमालोक्तेः पुल्लिङ्गताऽपि तस्य ज्ञेयेति प्रासङ्गिक्युक्तिरिति ज्ञेयम् । ‘आग्नीध्रश्चाग्निबाहुश्च ऋभूः सवन एव च । ज्योतिष्मान्द्युतिमान्हव्यो मेधा मेधातिथिर्वसुः । स्वयम्भुवस्यास्य मनोर्दशैते वंशवर्धनाः । प्रतिसर्गममी कृत्वा जग्मुस्ते परमं पदम् । एतत्स्वायम्भुवं प्रोक्तम्’ इत्यादि मात्स्योक्ता अनुक्ताः सुता अत्रेति । तथोत्तरत्र स्वारोचिषस्य तनयाश्चत्वारो नभो नभस्यः प्रसृतिर्भानव इत्यादिपुत्रर्षिनामव्यत्यस्योक्तिश्च कथ-मिति चेत् । प्रसिद्धमात्रकथनं भागवते । नान्यनिषेधे तात्पर्यमिति न च तृतीयांशविष्णु-पुराणविष्णुरहस्यादिविरोधोऽपीति ज्ञेयम् । कल्पभेदेन वा समाधिरिति केचित् ॥ १८ ॥

छलारी

सर्वगतः सर्वत्र व्याप्तः । हेतुगर्भमेतत् । यज्ञो यज्ञनामा हरिस्तथाऽत्तुम-वसितान्निश्चितमनस्कान् राक्षसान्निरीक्ष्य हत्वा । मनुममोचयदिति शेषः । ‘रक्षोभिरुग्रैः संप्राप्तः खादितुं मोचितस्तदा । स्तोत्रं श्रुत्वैव यज्ञेन तान् हत्वाऽवध्यतां गतान् ॥’ इत्युक्तेः । ततः स्वयमेवेन्द्रो भूत्वा यामैर्यामाख्यैर्देवैः परिवृतस्त्रिविष्टपमशासदपालयत् । तत्र प्रतिमन्वन्तरं मन्वादयः षट् प्रत्येकं भवन्ति । तथा हि वक्ष्यति द्वादशस्कन्धे ‘मन्वन्तरं मनुर्देवाः प्रिय-व्रतोत्तानपादौ मनुपुत्रौ मरीचिमुखाः सप्तर्षयो यज्ञो हरेरवतारः । इन्द्रश्च स एव न पुनरन्य इन्द्र’ इति । एवंविधमेवेदं चतुर्थस्कन्धोपक्रमे वर्णितम् ॥ १८ ॥

लिङ्गेरी

सर्वगतो हरिः सर्वानिष्टानिवर्तको नाम्ना यज्ञः परमात्मा तथाऽवसितान्पूर्वोक्त-निश्चयवतस्तान् राक्षसान्वीक्ष्य हत्वा, नाम्ना यामैर्देवैवृतः सन् । त्रिविष्टपं स्वर्गमशासच्छिक्षया-मास । इन्द्रपदवीं चकारेत्यर्थः ॥ १८ ॥

स्वारोचिषो द्वितीयस्तु मनुरग्नेः सुतोऽभवत् ।

द्युमत्सुषेणरोचिष्मत्प्रमुखास्तस्य चात्मजाः ॥ १९ ॥

पदरत्नावली

तस्य स्वारोचिषस्य ॥ १९ ॥

सत्यधर्मीया

द्वितीयादिमन्वन्तरेषु मन्वादिषट्कमाह ॥ स्वारोचिषो द्वितीय इति ॥ तस्य स्वारोचिषस्य ॥ १९ ॥

छलारी

द्वितीयादिषु मन्वन्तरेषु क्रमेण मन्वादिषट्कमाह ॥ स्वारोचिष इत्यादिना ॥ तस्य स्वारोचिषस्तस्य मनोः ॥ १९ ॥

लिङ्गेरी

तदेवं परीक्षिता स्वायम्भुवमनुवंशो विस्तराच्छ्रुतो ऽन्यान्वदस्वेत्युक्तेऽपि स्वायम्भुवमन्वन्तरे वक्तव्यमवशिष्टं यज्ञमूर्तिचरितं परीक्षिते निरूप्यैतत्स्कन्धादौ परीक्षित्पृष्टः स्वायम्भुवमनुव्यतिरिक्तकथां कथयति ॥ स्वारोचिषो द्वितीय इत्यादिना ॥ अग्नेः सुतो नाम्ना स्वारोचिषो द्वितीयो मनुरभवत् । तुशब्दः प्रकृतत्वानुसन्धानार्थः । द्वितीय इत्यनेन सम्बध्यते । तस्य स्वारोचिषस्य च द्युमत्सुषेणरोचिष्मन्नामकप्रधानाः । आत्मजाः पुत्राः ॥ १९ ॥

तत्रेन्द्रो रोचनस्त्वासीद् देवाश्च तुषितादयः ।

ऊर्जस्तम्भादयः सप्त ऋषयो ब्रह्मवादिनः ॥ २० ॥

पदरत्नावली

नाम्ना रोचनः ॥ २० ॥

सत्यधर्मीया

तत्र स्वारोचिषान्तरे इन्द्रो नाम्ना रोचनः । तुषितादयस्तदादयो देवाः । ‘ऊर्जस्तम्भस्तथा प्राणो दन्तोऽग्निर्ऋषभस्तथा । निश्चरश्चार्वरीवांश्च तत्र सप्तर्षयोऽभवन् ॥’ इत्यादिविष्णुपुराणे तृतीयेंऽशे शंसिता ऋषयः सप्त ज्ञेयाः ॥ २० ॥

छलारी

तत्र स्वायंभुवादिवैवस्वतान्तेषु सप्तसु मन्वन्तरेषु विष्णुवायुयमा अश्विनौ पुरंदरश्चैते क्रमेणेन्द्रा भवन्ति । तत्र पुरन्दर एव मन्वन्तरद्वये इन्द्रो भवति ॥ तदुक्तं श्रीमन्महाभारततात्पर्यनिर्णये द्वादशेऽध्याये– ‘अतीतेन्द्रा एव ते विष्णुषष्ठाः पूर्वेन्द्रोऽसौ यज्ञनामा रमेशः । स वै कृष्णो वायुरथ द्वितीयः स भीमसेनो धर्म आसीत्तृतीयः ॥ युधिष्ठिरोऽसावथ नासत्यदस्रौ क्रमात्तावेतौ माद्रवतीसुतौ च । पुरन्दरः षष्ठ उतात्र सप्तमः स एवैकः फल्गुनो ह्येत इन्द्राः ॥’ इति । तथा चाद्ये हरिर्यज्ञनामेन्द्र उक्तः । द्वितीये इन्द्रमाह ॥ तत्रेति ॥ तत्र स्वारोचिषमन्वन्तरे वायू रोचनस्तन्नामेन्द्र आसीत् । तुषितादयस्तन्नामकदेवविशेषाः । आदि-शब्देन देवविशेषा ग्राह्याः । ऊर्जस्तंभादयस्तन्नामकाः ॥ २० ॥

लिङ्गेरी

तत्र स्वारोचिषेऽन्तरे । ईशः स्वयोग्यसामर्थ्यवान्नाम्ना रोचन इन्द्रोऽभूत् । देवाश्च तुषितप्रभृतयोऽभवन् । परब्रह्मवादिन ऊर्जस्तम्भनामप्रभृतयः सप्तर्षयो बभूवुः ॥ २० ॥

ऋषेस्तु वेदशिरसस्तुषिता नाम पत्न्नयभूत् ।

तस्यां जज्ञे ततो देवो विभुरित्यभिविश्रुतः ॥ २१ ॥

पदरत्नावली

नाम्ना विभुः ॥ २१ ॥

सत्यधर्मीया

नाम नाम्ना नामप्रसिद्धिरिति वा । तस्यां तुषितायाम् । विभुरंशावतारः

॥ २१ ॥

छलारी

तत्र हरेरवतारमाह ॥ ऋषेस्त्विति ॥ वेदशिरसस्तन्नामकस्य । तस्यां तुषितायाम् । ततो वेदशिरसो देवो विष्णुर्नाम्ना विभुरित्युक्तः ॥ २१ ॥

लिङ्गेरी

वेदशिरोनामकस्य ऋषेस्तु तुषिताख्या भार्याऽऽसीत् । तस्यां तुषितायां देवो क्रीडादिगुणविशिष्टो विष्णुर्विभुरिति नाम्नाऽभिविश्रुतोऽतिप्रसिद्धः सन् जज्ञे प्रादुरभूत् ॥ २१ ॥

अष्टाशीतिसहस्राणि मुनयो ये धृतव्रताः ।

अन्वशिक्षन् व्रतं तस्य कौमारब्रह्मचारिणः ॥ २२ ॥

पदरत्नावली

तस्य विभोः ॥ २२ ॥

सत्यधर्मीया

तच्चरितमितरविलक्षणमित्याह ॥ अष्टाशीतिसहस्राणीति ॥ कौमार-ब्रह्मचारिणः । तस्य विभोः सकाशादिति वा ॥ २२ ॥

छलारी

अवतारप्रयोजनमाह ॥ अष्टाशीतीति ॥ ये धृतव्रता धृतनियमास्ते मुनयः कौमारब्रह्मचारिणो बालब्रह्मचारिणस्तस्य विभुनामकस्य हरेः सकाशाद्व्रतं मुक्तिसाधनभूत-मनुशिक्षितवन्तो विभूपदेशात्तत्त्वज्ञानं संपादयामासुरिति भावः ॥ २२ ॥

लिङ्गेरी

अष्टाशीतिसहस्रसङ्ख्याका धृतव्रता ये मुनयस्ते कौमारब्रह्मचारिणः कुमारा-वस्थामारभ्य ब्रह्मचर्यव्रतवतस्तस्य विभुनामकहरेरिदं व्रतं कौमारब्रह्मचर्यं स्वेष्वन्वशिक्ष-न्स्वीकृतवन्तः । स्वयमन्वनुसृत्य स्वशिष्यानप्यशिक्षन्निति वा ॥ २२ ॥

तृतीय उत्तमो नाम प्रियव्रतसुतो मनुः ।

पवनः सृञ्जयो यज्ञहोत्राद्यास्तत्सुता नृप ॥ २३ ॥

सत्यधर्मीया

प्रियव्रतस्य सुतः सृञ्जयश्चेत्येतौ यज्ञहोताऽऽद्यश्चैषां स्वानन्तरजातानाम् । ते यज्ञहोत्राद्याः । पवनः प्राथमिकः सृञ्जयो द्वितीयस्तृतीयो यज्ञहोता । एतदाद्यास्तत्सुता उत्तमसुताः । पवनः सृञ्जयश्चेत्येकवचनान्तत्वेऽपि पदयोर्यज्ञहोत्राद्यास्तत्सुता इत्यनेनान्वयस्तु, ‘ब्रह्मा शिवः सुरेशाद्याःशरीरक्षरणात्क्षरा’ इति व्याख्यायां क्षरा उच्यन्त इत्यन्वयवदि ‘यादवान् बलभद्रं च प्रद्युम्नादींस्तथैव च । सचिवीकृत्य भूभारम्’ इति विष्णुरहस्योक्तेश्चान्वयो ज्ञेयः ॥ २३ ॥

लिङ्गेरी

प्रियव्रतसुतः स्वायम्भुवपुत्रप्रियव्रततनयो नाम्नोत्तमस्तृतीयो मनुरभवत् । पवनः सृञ्जयो यज्ञहोत्रप्रभृतयस्तत्सुता उत्तममनुसुता आसन् । शुकः स्वोच्यमानप्रमेये मनःस्थापनाय नृपेति परीक्षितं सम्बोधयति । एवमुत्तरत्रापि सम्बोधनकृत्यं ज्ञातव्यम् ॥ २३ ॥

वसिष्ठतनयाः सप्त ऋषयः प्रमदादयः ।

सत्या वेदश्रुता भद्रा देवा इन्द्रस्तु सत्यजित् ॥ २४ ॥

सत्यधर्मीया

सत्याद्या देवाः ॥ २४ ॥

छलारी

तृतीयमन्वन्तरस्थमन्वादिषट्कमाह ॥ तृतीय इति ॥ प्रियव्रतस्य स्वायम्भुवमनुपुत्रस्य सुतः । तत्सुता उत्तमनाममनुसुताः । अत्र यमधर्मो नाम्ना सत्यजिदिन्द्र आसीत् ॥ २४ ॥

लिङ्गेरी

उत्तमाख्यतृतीयमन्वन्तरे वसिष्ठतनयाः प्रमदादयः सप्तर्षयोऽभवन् । सत्या, वेदश्रुता, भद्रा इत्येवं नामका देवा आसन् । इन्द्रस्तु सत्यजिन्नामकोऽभवत् ॥ २४ ॥

धर्मस्य सूनृतायां तु भगवान् पुरुषोत्तमः ।

सत्यसेन इति ख्यातो जातः सत्यव्रतैः सह ॥ २५ ॥

सत्यधर्मीया

सत्यव्रतैस्तन्नामकैर्देवैः ॥ २५ ॥

छलारी

हरेरवतारमाह ॥ धर्मस्येति ॥ सूनृताख्यायां सत्यसेन इति ख्यातः प्रसिद्धः सत्यव्रतैस्तन्नामकैः सोदरैः ॥ २५ ॥

लिङ्गेरी

धर्मस्य सूनृताख्यायां भार्यायां भगवान्पुरुषोत्तमः सत्यसेननामासन् सत्य-व्रताख्यैर्देवैः सह जातः ॥ २५ ॥

सोऽनृतव्रतदुःशीलानसतो यक्षराक्षसान् ।

भूतद्रुहो भूतगणांस्त्ववधीत् सत्यजित्स्तुतः ॥ २६ ॥

पदरत्नावली

सत्यजितेन्द्रेण स्तुतः ॥ २६ ॥

सत्यधर्मीया

सत्यजित्स्तुतः सत्यजितेन्द्रेण स्तुतो यक्षरक्षोहननार्थम् ॥ २६ ॥

छलारी

अवतारप्रयोजनमाह ॥ स इति ॥ सत्यसेननामको विष्णुरनृतवादिरूपं व्रतम् । दुराचारश्च येषां तान्भूतद्रुहः प्राणहिंसकान्भूतगणान्पिशाचादीन् । सत्यजित्स्तुतः सत्य-जितेन्द्रेण स्तुतः सन् ॥ २६ ॥

लिङ्गेरी

स सत्यसेनाख्यो हरिः सत्यजिन्नामकेन्द्रेण स्तुतः सन् । अनृतव्रत-दुःशीलान्नियमेनायथार्थवादिनो दुष्टस्वभावान् । असतो नीचान्, यक्षराक्षसान्, भूतद्रुहः सर्वप्राणिद्रोहकारिणो भूतगणांश्चावधीद्धतवान् ॥ २६ ॥

चतुर्थ उत्तमभ्राता मनुर्नाम्ना च तापसः ।

(हरिरित्याहुतो येन गजेन्द्रो मोचितो ग्रहात्) ।

वृषख्यातिर्नरः केतुरित्याद्या दश तत्सुताः ॥ २७ ॥

पदरत्नावली

आहुत आहूतः ॥ २७ ॥

सत्यधर्मीया

नाम्ना च तापसः । यथोक्तं मात्स्ये– ‘हरिस्तापसनामाऽसौ जातस्तपसि वै मनुः । गजेन्द्रं मोचयामास ससर्ज च जगद्विभुः’ ॥ इति । एतस्यैव विष्णुरहस्ये ‘जातस्तमसि’ इत्याद्युक्तेस्तामसेति नामान्तरं च । अत एव विष्णुपुराणे बहुस्थले तामस इत्युक्तिः सम्भवतीति ज्ञेयम् । मार्काण्डेयपुराणे मन्वन्तरप्रस्तावे– ‘अवेक्ष्य भाविनीमृद्धिं नाम चक्रुर्महात्मनः । तामसीं भजमानायां योनिं मातर्यजायत ॥ तमसा चावृते लोके तामसोऽयं भविष्यति । ततः स तामसस्तेन पित्रा संवर्धितो वन’ ॥ इत्युक्तेः । सा च तन्माता मृगी हरिणीति तत्रैवोक्तेर्ज्ञेयम् । आचार्यवर्यैद्वितीयतात्पर्ये मात्स्यवचनमुदाहृत्यैकनिर्वचनप्रदर्शनं तु तथोपासनाभावपरम् । ‘गुणैरपि न तूपास्यो ये पूर्णत्वविरोधिन’ इत्यादेः । न तु द्वितीय-पुराणान्तरोक्तनामाभावपरमिति तात्पर्यकं ज्ञेयम् । तत्सुतास्तापससुताः । उत्तमस्तृतीय-तापसस्तद्भ्राता चतुर्थ इत्यर्थः ॥ २७ ॥

छलारी

चतुर्थमन्वन्तरगतमन्वादिषट्कमाह ॥ चतुर्थ इति ॥ उत्तमस्य प्रियव्रतपुत्रस्य तृतीयमनोर्भ्राता चतुर्थमनुः । स च हरिरित्याहुतः । स हरिनाम्नैव प्रियव्रतेन तपसि क्रियमाणे सति । जातत्वान्नाम्ना तापसश्चोक्तः । तत्कार्यमाह ॥ येनेति ॥ येन तापसेन मनुना गजेन्द्रो ग्रहाज्जलजन्तुविशेषान्मोचितः । ननु पुस्तकेष्वेवं पाठादर्शनक्रमात्कथमेवं व्याख्यानमिति चेन्न । तापसस्य भगवदवतारत्वादनुक्तिस् तच्च भागवते प्रसिद्धमिति दशमाध्यायगीताभाष्यटीकायां ‘चतुर्थ उत्तमभ्राता मनुर्नाम्ना च तापसः । हरिरित्याहुतो येन गजेन्द्रो मोचितो ग्रहात्’ ॥ इत्येवं पाठक्रमस्य श्रवणात्तदनुसारेणैवं व्याख्यातम् । तथा द्वितीयस्कन्धतात्पर्यटिप्पण्यां सप्तमाध्याये एवमेव पाठक्रमस्य श्रवणाच्च । अनेन गजेन्द्रमोचकत्वलिङ्गेन तापसस्य मनोर्हर्यवतारत्वमुक्तं भवति ॥ तदुक्तं द्वितीयस्कन्धतात्पर्ये– ‘हरिस्तापसनामाऽसौ जातस्तपसि वै मनुः । गजेन्द्रं मोचयामास ससर्ज च जगत्प्रभुः ॥ इति ॥ २७ ॥

लिङ्गेरी

उत्तमभ्राता तृतीयमनूत्तमसहोदरो नाम्ना तापसश्चतुर्थश्च मनुः प्रकृतचतुर्थ-मनुरभवत् । वृषः ख्यातिर्नरः केतुरित्याद्या दशतत्सुतास्तापसमनुसुताः ॥ २७ ॥

सत्यका हरयो वीरा देवास्त्रिशिख ईश्वरः ।

ज्योतिर्धामादयः सप्त ऋषयस्तापसेऽन्तरे ॥ २८ ॥

सत्यधर्मीया

सत्यकहरिवीरादयो देवाः । त्रिशिखस्तन्नामेश्वर इंद्रः । ज्योतिर्धामादयश्च ऋषयः ॥ २८ ॥

छलारी

तत्सुतास्तापसमनुसुताः । अश्विनोर्मध्ये नासत्यो नाम्ना त्रिशिख इतीश्वर इन्द्रो बभूव । तापसमन्वन्तरमपि स्वायंभुवमन्वन्तरवत्पञ्चविधमेव । तापसस्यैव मनोरीश्वरावतारत्वान्न पुनरीश्वरावतार इति ज्ञेयम् ॥ २८ ॥

लिङ्गेरी

तापसेऽन्तरे सत्यका हरयो वीरा इत्येतन्नामका देवाः । त्रिशिखाख्यो देवानामीश्वरः । ज्योतिर्धर्मादयः सप्त ऋषयोऽभवन् ॥ २८ ॥

देवा वैधृतयो नाम विधृतेस्तनया नृप ।

नष्टाः कालेन यैर्वेदा विधृताः स्वेन तेजसा ॥ २९ ॥

सत्यधर्मीया

देवतान्तरोत्पत्तिं तेषां नाम तत्प्रवृतिनिमित्तं चाह ॥ देवा इति ॥ केचित्तु सत्यकादीनां मातुर्विधृतिरिति नाम तेषामेव वेदसमञ्जसीकरणमिति नामान्तरमिति वर्णयन्ति । तत्र पुनर्देवपदं निरालम्बमिति ज्ञेयम् । कालेन नष्टा वेदाः स्वेन तेजसा स्वतपःसामर्थ्येन विधृता अतोऽपि वैधृता इत्यर्थः ॥ २९ ॥

लिङ्गेरी

हे नृप । तापसान्तरे एव कालेन कालशक्त्या नष्टा अपपाठादिना यथा-स्वरूपमदृश्या वेदाः । स्वेन तेजसा स्वसामर्थ्येन यैर्विधृता यथास्वरूपमुद्धृताः । विधृतेस्तनया अत एव वैधृतिनामानो देवा अभवन् ॥ २९ ॥

तत्रापि जज्ञे भगवान् हरिण्यां हरिमेधसः ।

हरिरित्याहुतो येन गजेन्द्रो मोचितो ग्रहात् ॥ ३० ॥

सत्यधर्मीया

(अत्राधिकविचारः ॥ तत्रापि जज्ञ इत्यर्धस्तु न पठनीयः । स च कल्पित इति वदन्ति । न चार्थतः । ‘तामसस्यान्तरे चैव सम्प्राप्ते पुनरेव ह । हरिण्यां हरिभिः सार्धं हरिरेव बभूव ह ॥’ इति । विष्णुपुराणे तृतीयेंऽशे प्रथमेऽध्याय उक्तेस्तदवतारान्तरं भविष्यतीति कथं कल्पिततेति वाच्यम् । तत्रापि लेखकहस्तदोषसम्भवात् । तथा चालीलिख-न्सम्प्रदायज्ञा गीताभाष्यप्रमेयदीपिकाव्याख्यावसरे । मनुर्नाम्ना च तापसः । हरिरित्याहुत इत्येवं वाक्यस्योदाहरणेन मध्ये ‘तत्रापि जज्ञे भगवान्हरिण्यां हरिमेधस’ इत्यर्धस्य कल्पितत्वं ज्ञायते । तथात्वे हरिनामकरूपस्यैव गजेंद्रमोचकत्वप्राप्त्या ‘हरिस्तापसनामाऽसौ जातस्तपसि वै मनोः । गजेन्द्रं मोचयामास ससर्ज च जगद्विभुः’ ॥ इति मात्स्य इति द्वितीयस्कन्धतात्पर्येण त्वां तापसं मोचितहस्तिमल्लमिति सङ्ग्रहरामायणेन च विरोधापत्तेः । नन्वितरमन्वन्तर इव तापसमन्वन्तरेऽपि भगवदवतारस्य वक्तव्यत्वात्तदर्थं तत्रापीत्यर्ध आवश्यक इति चेन्न । इतरमनूनां भगवद्भिन्नत्वेनासमर्थतया तत्र प्राप्तोपद्रवपरिहाराय तत्र भगवदवतारस्यावश्यं वाच्यत्वात् । अत्र पुनर्भगवत एव मनुत्वेन तद्भिन्नस्वतन्त्रावतारस्यावक्तव्यत्वादित्याद्यालोचनीयमिति सम्प्रदायविद इति । केचितु हरिरिति जातो भगवान् गजममूमुचत् तापसस्तु जगद्वृषख्यात्यादिकं ससर्जेति द्वितीयतात्पर्यं व्याकुर्वन्तो रूपद्वयमुपयन्तः पूर्वोक्तयुक्तिपारङ्गता इव ससर्ज चेति तात्पर्ये समुच्चायकचशब्दवैयर्थ्यं च नालोचितवन्त इव । हरिस्तापसरूपेणेति हरिनाम्नः पृथगवतारत्व-भ्रमभ्रंशकं तात्पर्ये तापसनामाऽसाविति च न च चेतस्यानीतवन्त इति ज्ञेयम् ।

ननु चत्वारो मनवस्तथेति गीताव्याकृत्यवसरे भाष्ये गौतमखिलेषु चोक्तम् । स्वायम्भुवं रोचिषं च तथोत्तमम् । वेद यः स प्रजावानियुक्तेश्चतुर्थ उत्तमः कथितः । कथं चतुर्थस्तापस इत्युच्यत इति चेन्न । उत्तरभाष्यतट्टीकाभ्यां गतेरुक्तत्वात् । तथाहि । तापसस्य भगव-दवतारत्वादनुक्तिः । तच्च भागवते प्रसिद्धम् । मानसत्वं च सर्वेषां मनूनामुक्तं भागवते । ततो मनून्ससर्जान्ते मनसा लोकभावनानिति । चतुर्थस्तापसो गीताऽभिप्रेततया कुतो न व्याख्यायत इत्यत आह ॥ तापसस्येति । अनुक्तिरव्याख्यानम् । भगवति च मद्भावा मानसा जाता इति विशेषणासम्भवादिति भावः । तापसस्य भगवदवतारत्वं कुत इत्यत आह ॥ तच्चेति ॥ ‘चतुर्थ उत्तमभ्राता मनुर्नाम्ना च तापसः । हरिरित्याहुतो येन गजेन्द्रो मोचितो ग्रहात् ॥’ इत्यादिनेति । मानसजातत्वं च भगवदवतारस्य तापसस्यानुपपन्नमिति चतुर्थस्य तापसस्य स्थाने पञ्चम-स्योत्तमस्य ग्रहणम् । नात्र तथा बाधकं किञ्चिदिति तापसस्य चतुर्थतया ग्रह इति ध्येयम् । केचिद्विष्णुपुराणपद्यमेतत्पद्यार्धं प्रियव्रतस्यैव हरिमेधा इत्यभिधान्तरम् । हरिणीति तद्भार्याया हरय इति च देवानां पुनरिति सत्यैर्देवैः सह सत्यनामकभगवदवतारानन्तरमिति तापस एव गृह्यत इत्येकविषयतया व्याचक्षते ।) ॥ ग्रहान्नक्राकारात् । आहुत आहूतः । येन स तत्र नाम्ना हरिमेधसोऽपि प्रियव्रताज्जज्ञ इत्यन्वयः । अत्र ‘तृतीय उत्तमो नामा प्रियव्रतसुतो मनुः’ इत्युक्त एव क्रमः । गौतमखिले तु नानुपूर्व्या क्रम इति बहवः । प्रमेयदीपिकाटिप्पणीकारा अलीलिखन्निति ततोऽनुसन्धेयो विस्तरः ॥ ३० ॥

लिङ्गेरी

तत्रापि तापसान्तरे हरिमेधोनामऋषेः सकाशात् । हरिणीनामिकायां तद्भार्यायां भगवान्विष्णुर्हरिर्नामकः सन् जज्ञे प्रादुरभूत् । प्रादुर्भावो हरेर्जनिरिति वचनात् । येन हरिणा गजेन्द्रो ग्रहात् । नेगलीति कन्नडभाषाभाषिताज् जलचरविशेषान्नक्राख्यान्मोचितः मुक्त इति साम्प्रदायकाः । ग्राहो वराहो नक्रास्त्वित्यमराभिमानिनस्तु ग्राहान्नक्रोऽभिन्न इत्याहुः ॥ ३० ॥

राजोवाच–

बादरायण एतत्ते श्रोतुमिच्छामहे वयम् ।

हरिर्यथा गजपतिं ग्राहग्रस्तममूमुचत् ॥ ३१ ॥

सत्यधर्मीया

सामान्यत उक्तं तद्विवक्षामूलमिति मत्वा तच्छ्रवणकौतुको राजा पृच्छतीत्याह ॥ राजेति । हे बादरायण इत्यन्वयः । हरिर्यथा गजपतिं ग्राहग्रस्तम-मूमुचन्मोचयामास । तथैतत्ते सकाशाद्वयं श्रोतुमिच्छामेत्यन्वयः । इच्छामह इत्यखण्डान्वयेन व्याकुर्वद्भिर् आकाङ्क्षन्नपि देवोऽसौ नेच्छते लोकवत्पर इति गीताभाष्यप्रमेयदीपिकायां व्यत्ययो बहुलमित्युक्तेर्व्यत्यय इत्युक्तरीत्याऽऽत्मनेपदोपपत्तिश्चान्द्रादिरीत्या वा कर्तव्येति क्लेशिष्टो मार्ग इति ज्ञेयम् ॥ ३१ ॥

छलारी

हे बादरायण । एतद्गजेन्द्रमोचनं ते तव सकाशाद्धरिर्नामा विष्णुर्गजपतिं गजेन्द्रं यथा येन प्रकारेणामूमुचन्मोचयामास ॥ ३१ ॥

लिङ्गेरी

हे बादरायण व्याससूनो शुक । वयं, हरिर्ग्राहगृस्तं नक्रग्रहीतं गजपतिं गजेन्द्रं यथा येन प्रकारेणामूमुचन्मोचयामास तथा तेन प्रकारेणैतद्गजेन्द्रमोक्षणं ते तव सकाशाच्छ्रोतु-मिच्छामहे ॥ ३१ ॥

तत् कथासु महापुण्यं१ धन्यं स्वस्त्ययनं शुभम् ।

यत्र यत्रोत्तमश्लोको भगवान् गीयते हरिः ॥ ३२ ॥

सत्यधर्मीया

कुतस्तवावनीश शुश्रूषाङ्कुरितेत्यत आह ॥ तदिति ॥ यत्र यत्रोत्तम-श्लोको ब्रह्मादिकीर्तनीयो भगवान्हरिर्गीयते । तत्तद्ग्रन्थप्रस्थानम् । कथासु कथासङ्घे । महापुण्यं बहुपुण्याधायकम् । महदिति पाठे श्रेष्ठं पुण्याधायकं चेत्यर्थः । धन्यं स्वस्त्ययनं शुभमिति तत्पदार्थविशेषणानि । धन्यः पुण्यवति स्मृत इति विश्वाद्धन्याः श्रोतारोऽस्य सन्तीति तत्तथा । अनेन न महापुण्यपदैकार्थ्यम् । धन्यं धनप्रापकमिति वा । स्वत्ययनं क्षेमाश्रयो मुक्तिदमिति वा । अत एव शुभमिति श्रोतुमिच्छामहेत्यन्वयः ॥ ३२ ॥

छलारी

श्रवणेच्छायां हेतुमाह ॥ तत्कथास्विति ॥ यत्र यत्र यासु यासु कथासूत्तमै- र्निर्दोषैर्देवैर्ब्रह्मादिभिर्वा श्लोक्यते कीत्यर्त इत्युत्तमश्लोको भगवान्गीयते । तासु कथासु श्रुतासु धन्यत्वप्रदं स्वस्त्ययनं क्षेमप्रदं शुभमिष्टरूपं महत्पुण्यं भवति । अतः श्रोतुमिच्छामह इत्यन्वयः ॥ ३२ ॥

लिङ्गेरी

तस्यावश्यं श्रोतव्यत्वे हरिकथात्वं निमित्तमाह परीक्षिच्छुकं प्रति ॥ तत्कथा-स्विति ॥ उत्तमैर्ब्रह्मादिभिः श्लोकः स्तुत्या कीर्तिर्यस्य स उत्तमश्लोको ब्रह्मादिस्तुत्यो भगवान्हरिर्नारायणो यत्र यत्र प्रकरणे गीयते पठ्यते स्तूयते च तत्तत्प्रकरणं कथासु सर्वकथामध्ये महत्पूज्यं पुण्यं वक्तृश्रोतॄणां पुण्यप्रापकं स्वस्त्ययनं क्षेमकरं शुभं मङ्गलप्रदमिति ॥ ३२ ॥

सूत उवाच–

परीक्षितैवं स तु बादरायणिः प्रायोपविष्टेन कथासु चोदितः ।

**उवाच विप्राः प्रतिनन्द्य पार्थिवं मुदा मुनीनां सदसि स्म **

शृण्वताम् ॥ ३३ ॥

॥ इति श्रीमद्भागवते अष्टमस्कन्धे प्रथमोऽध्यायः ॥

पदरत्नावली

हे विप्रा इति सूतः शौनकादीन् सम्बोधयति ॥ ३३ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायाम्

अष्टमस्कन्धे प्रथमोऽध्यायः ॥

सत्यधर्मीया

परीक्ष्य परीक्षित्प्रश्न उत्तरितः किं शुकेन किं वा दन्धनीकृत इति शौनकादिमनःशङ्कां स्वयं सूत आतङ्कयतीत्याह ॥ परीक्षितेति ॥ प्रायश्चानशने मृताविति विश्वादकारान्तोऽपि प्रायःशब्दपर्यायः प्रायशब्द इति ज्ञेयम् । चोदितनोदितावेकार्थौ पाठौ । हे विप्रा इति शौनकादीन् सम्बोध्य तान्प्रति परीक्षितं बादरायणिर्मुदोवाचेति सूत उवाचेत्यन्वयः

॥ ३३ ॥

॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां प्रथमोऽध्यायः ॥

छलारी

प्रायोपविष्टेनानशनव्रतकारिणा कथासु विषये चोदितः प्रार्थितः । हे विप्रा इति शौनकादीन्संबोधयते श्रीसूतः । पार्थिवं राजानं प्रतिनन्द्य साधु पृष्टमिति बहुमानं कृत्वा ॥३३॥

॥ इति श्रीछलारी शेषाचार्य कृतायां श्रीभागवतटिप्पण्यां प्रथमोऽध्यायः ॥

लिङ्गेरी

एवं परीक्षिता पृष्टः शुकः प्रत्युत्तरं परीक्षितेऽदान्न वेति शौनकादिमानसशङ्कां परिहरति ॥ परीक्षितैवमिति ॥ हे विप्राः शौनकादयः । प्रायोपविष्टेन परिक्षिता । एवमुक्त-प्रकारेण । तु विशेषाकारेण कथासु करिकथाविषये चोदितः प्रेरितः सन् । सदसि सभायां मुनीनां शृृण्वतां सतां पार्थिवं परीक्षिद्राजं प्रतिनन्द्य तद्गुणोत्कीर्तनादिना तोषयित्वा गजेन्द्रमोक्षणप्रकारं मुदा सन्तोषेणोवाचेत्यर्थः । एवमुत्तरत्र ॥ ३३ ॥

॥ इति श्री लिङ्गेरी श्रीनिवासाचार्यकृतायां श्रीभागवतटिप्पण्यां प्रथमोऽध्यायः ॥