कर्मनिष्ठा द्विजाः केचित् तपोनिष्ठा नृपापरे
॥ अथ पञ्चदशोऽध्यायः ॥
नारद उवाच–
कर्मनिष्ठा द्विजाः केचित् तपोनिष्ठा नृपापरे ।
स्वाध्यायेऽन्ये प्रवचने अन्ये च ज्ञानयोगयोः ॥ १ ॥
पदरत्नावली
कर्ममार्गो ज्ञानमार्गश्च कार्याणां कारणेषु लयः प्रवेशलक्षणं च तत्साधनं च प्रपञ्चस्वरूपं च निरूपयत्यस्मिन्नध्याये । तत्र प्रथमतो ब्राह्मणादपि ज्ञाननिष्ठमुत्तमं पात्रं, दैवोपलब्धेन द्रव्येणैव नित्यनैमित्तिकक्रियाकरणं, धर्माधर्मविवेकश्च कथ्यते । तत्र ब्राह्मणान् विवेचयति– कर्मेति ॥ कर्मनिष्ठा गृहस्थाः । तपोनिष्ठा वानप्रस्थाः । स्वाध्यायनिष्ठा ब्रह्मचारिणः । प्रवचननिष्ठाः कुटीचका बहूदकाश्च । योगनिष्ठा हंसाः । ज्ञाननिष्ठाः परमहंसाः ॥ १ ॥
सत्यधर्मीया
कर्मज्ञानमार्गलयतत्साधनप्रपञ्चस्वरूपं च निरूपयत्यस्मिन्नध्याये । तत्रोत्तमं पात्रं न विप्रमात्रं किन्तु ज्ञाननिष्ठ इति निष्टङ्कयितुं ब्राह्मणान्विवेचयति ॥ कर्मनिष्ठा इति । कर्मनिष्ठा गृहस्थास्तपोनिष्ठा वनगाः स्वाध्याये वर्तिनो ब्रह्मचारिणः । एवमुत्तरत्रापि । अन्ये प्रवचने कुटीचा बहूदकाश्चेति । ज्ञाने परमहंसा योगे हंसा इति विवेकः । स्थूलदृश्वाभिप्रायेण सर्वस्य द्व्याद्यादेर्यथायथं सुरादिषु दर्शनात् । अत एव योगज्ञानयोरिति वक्तव्ये ज्ञानयोगयोरित्युक्तिः ॥ १ ॥
मन्दनन्दिनी
उक्तसर्वधर्मान्ज्ञानादींश्च संगृह्य तत्तारतम्यं फलतारतम्यं चाह ॥ तत्रादौ ब्राह्मणान्विभजते ॥ कर्मेति ॥ कर्म अग्निहोत्रादि । तपोऽनशनादि । स्वाध्यायो वेदाध्ययनम् । प्रवचनं शिष्येभ्यो वेदाध्ययनकीर्तनम् । ज्ञानं भगवन्माहात्म्यविषयकम् । योगः समाधिः ॥ १ ॥
ज्ञाननिष्टाय देयानि कव्यान्यानन्त्यमिच्छता ।
दैवे च तदभावे स्यादितरेभ्यो यथाऽर्हतः ॥ २ ॥
पदरत्नावली
तत्र सन्ततेरानन्त्यं मुक्तिं चेच्छता ज्ञाननिष्ठाय परमहंसाय कव्यानि पितृभ्यो दीयमानान्यन्नानि दातव्यानीति विधिरित्यन्वयः । दैवे कर्मणि, च तस्मा इति शेषः । तदभावे परम-हंसाभावे इतरेभ्यो हंसादिभ्यः श्राद्धादिदानं स्यात् । तत्रापि यथार्हतः यथायोग्यम् ॥ २ ॥
सत्यधर्मीया
आनन्त्यं सन्ततेरिह परत्र मुक्तिं चेच्छता ज्ञाननिष्ठाय कव्यानि पित्र्यान्नानि देयानि । दैवे कर्मणि । चात्तस्मै कव्यानि देयानि । तदभावे परमहंसालाभे इतरेभ्यो हंसादिभ्यो देयानि । न साम्येनेत्याह ॥ यथाऽर्हत इति । तत्तद्योग्यतानतिरेकेण ॥ २ ॥
मन्दनन्दिनी
कव्येति पितृभ्यो दीयमानान्यन्नादीनि । पैत्रे इति शेषः । तदुद्देशेन क्रियमाणे कर्मणि । हव्यानीत्यपि शेषः । देवेभ्यो दीयमानानि । दैवे च तदुद्देशेन क्रियमाणे कर्मणि । तस्य कर्मण आनन्त्यमनन्तफलकत्वमिच्छता । ज्ञाननिष्टाय देयानि । तस्य ज्ञाननिष्ठस्याभावे इतरेभ्यः कर्मनिष्ठा-दिभ्यो यथार्हतो यथायोग्यं देयानीति योजना ॥ २ ॥
द्वौ दैवे पितृकार्ये त्रीनेकैकमुभयत्र वा ।
भोजयेत् सुसमृद्धोऽपि श्राद्धे कुर्यान्न विस्तरम् ॥ ३ ॥
पदरत्नावली
अत्र भोक्तुः संख्यानियमानाह– द्वाविति ॥ ३ ॥
सत्यधर्मीया
दैवादिस्थान उपवेशनीयनियममाह ॥ द्वाविति । दैवे विश्वेदेवस्थाने द्वौ । पितृकार्ये पितृस्थान उपवेश्य कर्तव्ये कर्मणि त्रीन् । एवमाहत्य पञ्च । एकैकस्मिन्स्थान इत्युभयत्रैकैकम् । एकं देवस्थाने स्थानेपितुरेकमिति द्वौ । बहुवित्तेन बहव उपवेश्याः किमित्यतो नेत्याह ॥ सुसमृद्धोऽपि श्राद्धे कुर्यान्न विस्तरमिति । न च विस्तारमिति वक्तव्यं प्रथनस्य प्रस्तुतत्वात्कथं स च शब्दस्य विस्तर इत्युक्तेरिति वाच्यम् । निमन्त्रणानन्तरं किल भोजनं तस्य चागच्छतेत्यादिशब्दरूपत्वेन तत्प्रपञ्च एव नोचित इति वक्तुमेवमुक्तिरिति ज्ञेयम् ॥ ३ ॥
मन्दनन्दिनी
श्राद्धभोक्तृत्वसंख्यानियममाह ॥ द्वाविति ॥ दैवे विश्वेषां देवानां स्थाने ॥ ३ ॥
देशकालोचितश्रद्धाद्रव्यपात्रार्हणानि च ।
सम्यग् भवन्ति नैतानि विस्तरात् स्वजनार्पणात् ॥ ४ ॥
पदरत्नावली
कुतो विस्तरो न कर्तव्य इति तत्राह– देशेति ॥ स्वजनार्पणाद् आत्मीयार्पण-लक्षणाद् विस्तराद् एतानि देशकालोचितश्राद्धादीनि सम्यङ् न भवन्तीति यत् तस्माद् विस्तारं न कुर्यादिति पूर्वेणान्वयः ॥ ४ ॥
सत्यधर्मीया
कुतो न कार्यो विस्तार आनुकूल्ये सतीत्यत आह ॥ देशेति । विस्तरान्निमन्त्रणं शब्दप्रपञ्चं निमित्तीकृत्य कृतात्स्वजनार्पणादात्मीयान्नादिदानात् । एतानि देशकालादीनि सम्यङ्न भवन्ति न सम्पद्यन्तेऽतो न श्राद्धे विस्तरं कुर्यादित्यन्वयः ॥ ४ ॥
मन्दनन्दिनी
स्वजनः स्वकीयो भोजनीयो जनः । तदीयार्पणाद्विस्तराद्विस्तरेण क्रियमाणात् । एतानि देशादीनि सम्यक् न भवन्ति अविकलानि न भवन्ति । बहूनामुद्देश्यत्वे मनोविक्षेपादिना कैवल्यस्याप्राप्तेरिति भावः ॥ ४ ॥
देशे काले च सम्प्राप्तमुत्पन्नं हरिदैवतम् ।
श्रद्धया विधिवत् पात्रे न्यस्तं कामधुगक्षयम् ॥ ५ ॥
सत्यधर्मीया
तर्हि प्रकृतानानुगुण्यप्रसङ्गात् । केचित्तु भगवदर्पितम् । पात्रे विधिवद्यथाविधि दत्तं कामधुक् कामं वाञ्छितं दोग्धीति तद् अक्षयं मोक्षरूपाक्षयफलदम् ॥ ५ ॥
मन्दनन्दिनी
तद्देशकालादावुत्पन्नं सम्प्राप्तमयाचनादिना प्राप्तं यत्तदेव हरिदैवतं पात्रे भोजनपात्रे न्यस्तं कामधुगक्षयं भवतीति भावः ॥ ५ ॥
देवर्षिपितृभूतेभ्य आत्मने स्वजनाय च ।
अन्नं संविभजन् पश्येत् सर्वतः पुरुषात्मकम् ॥ ६ ॥
सत्यधर्मीया
स्वजनायेष्टैः सह भुज्यतामित्येतदास्पदस्वजनाय । सर्वत एतत्सर्वं पुरुषात्मक-मन्तर्यामिपुरुषस्वामिकं पश्येत् । अत्र सन्निहितो भगवान्प्रीणात्वित्यनुसन्दध्यादिति भावः ॥ ६ ॥
मन्दनन्दिनी
देवर्ष्यादिभ्योऽन्नं विभजन्विभागेन समर्पयन्सर्वतः सर्वपुरुषात्मकं परमात्मस्वामिकं पश्येदिति योजना । परमात्मैव सर्वाधिष्ठानेषु भुंक्त इति चिन्तयेदिति भावः ॥ ६ ॥
न दद्यादामिषं श्राद्धे न चाद्याद् धर्मतत्त्ववित् ।
मुनीनां स्यात् परा प्रीतिर्यथा न पशुहिंसया ॥ ७ ॥
पदरत्नावली
यतेः श्राद्धभोजने मुख्याधिकारित्वे मांसविधानं कथमुपपद्यत इति तदपवादत्वेन विधत्ते– न दद्यादिति ॥ शास्त्रान्तरविधिमोहितेन केनचित् कामपरिमोक्षणेन मस्करिणा न भोक्तव्यमिति विधत्ते– न चेति ॥ न च श्राद्धभङ्ग इत्याह– धर्मेति ॥ ‘विना मांसेन मधुना विना दक्षिणयाऽऽशिषा । अक्षयं भवति श्राद्धं यतिषु श्राद्धभोजिषु ॥ ग्रामे च नगरेऽरण्ये ज्ञातभिक्षुर्वसेद् यदि । तमन्तरेण यत् श्राद्धं तदासुरमथो भवेत् ॥’ इत्यादिस्मृतेस् तद्विधायकशास्त्रमासुरजनमोहनार्थत्वेन देशकालविशेषविषयत्वेन वा योजनीयम् । आमिषाभावे भोक्तुः सौहित्याभावेन पितॄणां सौहित्यं न स्यादिति तत्राह– मुनीनामिति ॥ मुनीनां संयमिनां यथा मांसानदनेन परा प्रीतिः सौहित्यं स्यात् तथा पशुहिंसया जातमांसेन न स्यात् । यथा मुनीनां पितॄणां यतिभोजनेन परा प्रीतिस्तथा पशुहिंसया जातामिषभोजनेन न स्यादिति द्विरावृत्त्या योजनीयम् । ‘वाचंयमे च सर्वज्ञे मुनिशब्दः पितृष्वपि’ इत्यभिधानात् । मुनीनां सर्वज्ञानां देवानां यथा परमा प्रतिस्तथा पशुहिंसालक्षणेन यागेन नेति वा ॥ ७ ॥
सत्यधर्मीया
यदि यतिर्नियमतो भोज्यस्तर्हि मांसं स्थापनीयं न वास्थापनीयं नोभयं सम्भवति । यतेस्तद्भोजननिषेधात् । अस्थापने च श्राद्धसाद्गुण्यासिद्धेरित्यतो द्वितीयं पक्षमभ्युपेत्य तत्र प्राप्तासाद्गुण्यं च धर्मतत्त्ववित्पदानुगृहीतस्मृत्या परिहरति ॥ नेति । आमिषं श्राद्धे न दद्याद्यतये । यजमानः काम-मोहितश्च कदाचित्पर्यवेषयेच् चेत् किं त्याज्यं किंवा दीक्षाकालत्वाद्भक्षणीयमित्यतः प्रथमपक्ष एवोचित इत्याह ॥ नाद्यादिति । नाद्याच्च । स कीदृश इत्यत आह । धर्मतत्त्ववित् । ‘‘विना मांसेन मधुना विना दक्षिणयाऽऽशिषा । अक्षयं भवति श्राद्धं यतिषु श्राद्धभोजिषु । ग्रामे वा नगरेऽरण्ये ज्ञानी भिक्षुर्वसेद्यदि । तमन्तरेण यच्छ्राद्धं तदासुरमथो भवेदित्यादि स्मार्तधर्मज्ञ इति । तद्विधायकं शास्त्र-मसुरविषयतया वाऽऽमिषप्रतिनिधिमाषविषयतया वा यत्यलाभे गृहस्थ उपविष्टे तद्विषयतया वेति न तद्वैय्यर्थ्यम् । न चासौहित्यं भोजनेनेत्यत आह ॥ मुनीनामिति । मुनीनां सन्न्यासिनाम् । मुनीनां पितॄणां देवतानामिति वा । पशुहिंसया तल्लभ्यपललेन न परा प्रीतिः । यज्ञादावेवमेव पशुहिंसायाः साक्षाद्देवानां न परा प्रीतिरित्यावृत्त्याऽर्थो ज्ञेयः । वाचंयमे च सर्वज्ञे मुनिशब्दः पितृष्वपीत्यभि-धानात्सर्वज्ञा देवा मुनय इति । गार्हस्थ्यं च यतित्वं च देवेष्वेकत्वमागतम् । त एव गृहस्था इत्यादिस्मृतिश्रुतिसद्भावान्मुनयोऽनिमिषाः । तेषां न पशुहिंसया परा प्रीतिर्नास्तीत्येव न । किन्तु परेषां यमदूतानां निरयपतीनामप्रीतिः परत्र स्यात् । यथोक्तम् पञ्चमे ‘‘दम्भयज्ञेषु पशून्विशसन्ति तान-मुष्मिंल्लोके वैशसे नरके पतितान्निरयपतयः पातयित्वा विशसन्ति’’ इति । परेषां स्वमारितानां पशूनाम-प्रीतिः स्यात् । तत्कार्यं खादनादिकं ग्राह्यम् । यथोक्तमेकादशस्कन्धे पञ्चमेऽध्याये । ‘‘यो घ्राणभक्षो विहितः सुरायास्तथा पशोरालभनं न हिंसा । पशून्द्रुह्यन्ति विश्रब्धान्प्रेत्य खादन्ति ते च तान्’’ इत्यादि । अजसंज्ञानि बीजानि छगं नो हन्तुमर्हथेत्यादिना भारते तथा द्वितीयपञ्चकब्राह्मणाष्टमनवम-खण्डयोः स्फुटं पशुहिंसां निषिध्य पिष्टपशुयागविधानात्पशुहिंसा न कार्येति भावः ॥ ७ ॥
मन्दनन्दिनी
ज्ञाननिष्ठानां परमहंसानां भोक्तृत्वे मांसं निषेधति ॥ न दद्यादिति ॥ धर्मतत्त्व-विद्भोक्ता मुनिरपि नादद्यात् । यतः पशुहिंसया परा प्रीतिर् मुनीनां न स्यात् । अत इति योजना । मांसमधुदक्षिणाशिषामङ्गानां लोपेन न यतिर्भोक्तव्यः । किन्तु तं विहायान्यो ब्राह्मण इति तु न शङ्कनीयम् ।
‘‘विना मांसेन मधुना विना दक्षिणयाऽऽशिषा ।
अक्षयं भवति श्राद्धं यतिषु श्राद्धभोजिषु ।
ग्रामे वा नगरेऽरण्ये ज्ञानी भिक्षुर्वसेद्यदि ।
तमन्तरेण यच्छ्राद्धं तदासुरमथो भवेत् ।’’
इत्यादि स्मृतिभिर्मांसाद्यभावेऽप्यक्षयत्वस्य यतिपरित्यागे आसुरत्वस्य चोक्तत्वात् ॥ ७ ॥
नैतादृशः परो धर्मो नृणां सद्धर्ममिच्छताम् ।
न्यासो दण्डस्य भूतेषु मनोवाक्कायजस्य यः ॥ ८ ॥
पदरत्नावली
श्राद्धे चतुर्थाश्रम्येव पूज्य इति नियमः प्रायिकः । तद्धर्मो यस्यास्ति सोऽपि मान्य इत्याशयेनाह– नैतादृश इति ॥ सद्धर्ममिच्छतां नृणां भूतेषु मनोवाक्कायकर्मजस्य दण्डस्य न्यासः संत्यागो य एतादृशो धर्मः, परोऽन्यो नास्ति । अयमेव मुख्यो धर्मः । तस्मादेतादृशधर्मोऽपि, श्राद्धे मान्य इत्याशयः । ‘वेणुभिर्न भवेद् यतिः’ इति वक्ष्यति । न केवलं पश्वालम्भनलक्षणहिंसाभावान्मुनीनां प्रीतिजनको ऽपि तु मनआदिना क्रियमाणदण्डलक्षणहिंसाभावोऽपीत्यतो वाऽऽह– नैतादृशेति ॥ ८ ॥
सत्यधर्मीया
नियत्या यत्याश्रम्येव भावीति न किन्त्वेतादृशो गृही चेद्ग्रहीतव्य इत्याह ॥ नैतादृश इति । सद्धर्ममिच्छतां नृणां यो भूतेषु मनोवाक्कायजस्य मनोवाक्कायेभ्यो जायत इति स तथा तस्य दण्डस्य द्रोहादेर्न्यासस्त्याग एतादृशः । परो धर्मो न नास्ति । अत एतत्त्यागी गृहस्थोऽपि विहिताभिहितैत्कर्मयोग्य इति भावः । यद्वक्ष्यति वेणुभिर्न भवेद्यतिरिति । तत्राप्येतदेव मान्यताप्रयोजकं न तत्त्वमात्रमिति तत्त्वम् । न केवलं पश्वालम्भनलक्षणहिंसाभावो मुनीनां प्रीतिजनकोऽपि तु मनआदिना क्रियमाणदण्डलक्षणहिंसाभावोऽपीत्यतो वाऽऽहेत्यवतारयन्ति ॥ ८ ॥
मन्दनन्दिनी
अहिंसाधर्मं स्तौति ॥ नैतादृश इति ॥ मनोवाक्कायजस्य दण्डस्य हिंसाया भूतेषु न्यासः परित्यागो य एतादृशः परो धर्मः सद्धर्ममिच्छतां नृणां नास्तीति योजना ॥ ८ ॥
एके कर्ममयान् यज्ञान् ज्ञानिनो यज्ञवित्तमाः ।
आत्मसंयमनेऽनीहा जुह्वति ज्ञानदीपिते ॥ ९ ॥
पदरत्नावली
श्राद्धादिकर्मग्रामो यत्यादिपात्रमुद्दिश्य कर्तव्यमित्यभिहितम् । अधुना परम-भागवता तदपि न कुर्वन्तीत्याशयेनाह– एक इति ॥ ‘सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज’ इति शिक्षिता एके भगवदेकार्पितदेहयात्रा ज्ञानिनः कर्ममयान् श्राद्धादियज्ञान् आत्मसंयमने मनःसंयमनाग्नौ जुह्वति मानसयागं कुर्वन्तीत्यन्वयः । आत्मसंयमनं विशिनष्टि– ज्ञानेति ॥ ज्ञानेन्धनदीपिते । यज्ञ-वित्तमा मानसयज्ञप्रयोगपटवः । अनीहा इति हेतुगर्भविशेषणम् । निवृत्तमार्गप्रवृत्तत्वादित्यर्थः ॥ ९ ॥
सत्यधर्मीया
उक्तमिदं सर्वं मध्यमाधमाधिकारिविषयमुत्तमाः परमभागवतास्तु प्रवर्तन्त एवमित्यावेदयन्ति ॥ एक इति । सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज । निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनमित्यादिशिक्षितैतद्दीक्षितमनसो यज्ञवित्तमास्तत्प्रकारज्ञानिश्रेष्ठाः । कर्ममयान्पूर्वोदीरितश्राद्धादीन्य- ज्ञान् देयान्ज्ञानदीपिते आत्मसंयमने मानआदिनिग्रहवह्नौ जुह्वति ददति । अनीहा इति तत्र हेतुमाह । निवृत्तमार्गप्रवृत्ता इत्यर्थः । सर्वं मनस्येव कल्पयित्वा हरिमर्चयन्तीति भावः ॥ ९ ॥
मन्दनन्दिनी
कर्मयज्ञानधिकारिणामपि यज्ञान्तरमाह ॥ एक इति ॥ एके यतयोऽकर्ममयान् यज्ञान्मानसहविरादीन् ज्ञानदीपिते आत्मसंयमने मनोनिग्रहरूपेऽग्नौ जुह्वतीति योजना ॥ ९ ॥
द्रव्ययज्ञैर्यक्ष्यमाणं दृष्ट्वा भूतानि बिभ्यति ।
एष माकरुणो हन्यादतज्ज्ञो ह्यसुतृब् ध्रुवम् ॥ १० ॥
पदरत्नावली
ननु द्रव्ययज्ञं सन्त्यज्य ज्ञानयज्ञकरणे किं कारणमित्याशङ्क्य भूतभयजनक-हेतुत्वेन निरयहेतुरयमित्याशयेनाह– द्रव्येति ॥ एष द्रव्ययज्ञकारिसमुदायो मा मां हन्यादिति भूतानि बिभ्यतीत्यन्वयः । ‘अग्नीषोमीयं पशुमालभेत’ इति विहितत्वात् तदुक्तं कुर्वतो दृष्ट्वा कथं भयं स्यादित्यत उक्तम्– अतज्ज्ञ इति ॥ विध्यभिप्रायमजानन् । ‘ब्रह्मार्पणं ब्रह्म हविः’ इत्यादिर् विहित-विधेरभिप्रायः । अत एव अकरुण इत्युक्तम् । एतादृशोऽसुरदेश्य इत्याशयेनोक्तम्– असुनृषिति ॥ ‘नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश्चरन्ति’ इति श्रुतिर् हिशब्देन गृह्यते । ध्रुवमित्ययं शब्दः श्रीहरिविमुखस्यानर्थं निश्चाययति । ‘असुन्वन्तं समं जहि दूणाशं यो न तेमयः’ इति श्रुतेः । तेमयस् त्वत्प्रधानकः । दूणाशं दुर्नाशम् । असुन्वन्तं सुन्वविरोधिनम् अन्यथा सुन्वन्तं वा । ‘परा चिच्छीर्षा ववृजुस्त इन्द्रा यज्वानो यज्वभिः स्पर्धमाना’ इति श्रुतेः ॥ १० ॥
सत्यधर्मीया
ननु ज्योतिष्टोमेन वायव्यं श्वेतमालभेतेत्यादिश्रुत्युक्तो यदि त्यक्तो यागस्तर्हि ते प्रत्यवेयुरित्यतस्ततो भीतास्ततोऽप्युत्तमा नश्वरेश्वरप्रसादरूपफलोपलम्भकत्वान्निवृत्तं कर्मैव ज्याय इति ते कुर्वन्तीत्याह ॥ द्रव्ययज्ञैरिति । द्रव्ययज्ञैः साक्षात्पशुविशसनाद्यात्मकैर्यक्ष्यमाणं पुरुषं दृष्ट्वा भूतानि मेषाश्वादीनि बिभ्यति भीतानि भवन्ति । तदेवोपपादयति ॥ एष इति । मा मामिति पृथक् पृथक् पश्वभिप्रायेण । मा न विद्यते करुणा यस्य स इत्यैकपद्यम् । अत्र भूतान्यस्मादित्यन्वयो ज्ञेयः । विहित-मेव करोति स इत्यत आह ॥ अतज्ज्ञस् तत्प्रकारज्ञानहीनः । तर्हि कुतः प्रवर्तत इत्यत आह ॥ असुतृबिति । असून्स्वप्राणान्मांसेन तर्पयतीति स तथा । एतेनासुषु रता असुरा इत्यत्र निरुक्तेस्तत्त्वं कटाक्षयति । कुर्वतामेवं नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश्चरन्तीति श्रुतिप्रतीकमसुतृबित्यनेन धृतमिति ज्ञेयम् । अकरुण इति हननध्रौव्ये हेतुः । अथवा हन्यादकरुण इति ध्रुवं बिभ्यतीत्यन्वयः । असुन्वन्तं समं जहि दुणाशयो न ते मयः । पराचिच्छीर्षा ववृजुस्त इन्द्रा यज्वानो यज्वभिः स्पर्धमाना इत्यादि हिशब्दगृहीतश्रुत्याऽनर्थः श्रावितः ध्रुवमिति निश्चयतीत्याहुः ॥ १० ॥
मन्दनन्दिनी
मानसयज्ञं स्तोतुं द्रव्ययज्ञं निन्दति ॥ द्रव्येति ॥ द्रव्ययज्ञैः पश्वादिद्रव्यकयज्ञै-र्भूतानि पशवोऽतज्ज्ञो भगवदर्पणकर्तृत्वाभिमानत्यागकामनाराहित्यभक्त्यादिसाहित्यादिरूपयज्ञाङ्गज्ञान-रहितः । हविःशेषमांसादिनाऽसुतृप् स्वप्राणतर्पको माकरुण इत्येकं पदम् । करुणारहित एषोऽस्माद् द्रव्याद् बिभ्यतीति योजना । एतादृशभयहेतुत्वाभावान्मानसो यज्ञः प्रशस्त इति भावः ॥ १० ॥
तस्माद् दैवोपपन्नेन मुन्यन्नेनैव१ धर्मवित् ।
सन्तुष्टोऽहरहः कुर्यान्नित्यनैमित्तिकाः क्रियाः ॥ ११ ॥
पदरत्नावली
ननु तर्हि ‘नित्यनैमित्तिके कुर्यात् प्रत्यवायजिहासया’ इति विधानं व्यर्थमिति तदुपायमाह– तस्मादिति ॥ दैवोपपन्नेन अयाचितादिविधिना प्राप्तेन नीवारादिना तदभावे उत्पन्नेन फलशाकादिना ॥ ११ ॥
सत्यधर्मीया
तस्माद्दैवोपपन्नेनायाचनसञ्चितेनेश्वरप्रेरणयाऽऽयातेनेति यावत् । मुन्यन्नेन भिक्षित्वाऽऽनीतेन नीवारादिना वा । धर्मविन्निवृत्तधर्मज्ञोऽहरहः सन्तुष्ट एतत्तृप्तचित्तः । नित्यनैमित्तिकाः श्राद्धादिक्रिया नित्या नैमित्तिकाश्च देवताराधनाद्याः कुर्यात् । नैमित्तिकीरिति पाठे ठञन्तता । एतेन न नित्यनैमित्तिके कुर्यात्प्रत्यवायजिहासयेत्यादिबाधाऽपीति सूचयति ॥ ११ ॥
मन्दनन्दिनी
देशकाले इत्युपसंहरति ॥ तस्मादिति ॥ तस्मात्परपीडादेरकर्तव्यत्वादुत्पन्नेन देशकालादुत्पन्नेनानायासप्राप्तेन तुष्टो धर्मविदहरहः प्रतिदिनं नित्यनैमित्तिकाः क्रिया नित्यं कुर्यादिति योजना ॥ ११ ॥
विधर्मः परधर्मश्च आभास उपमा छलः ।
अधर्मशाखाः पञ्चेमा धर्मज्ञोऽधर्मवत् त्यजेत् ॥ १२ ॥
पदरत्नावली
धर्मवित्त्वं नाम तत्प्रतिपक्षाधर्मभेदलक्षणे ज्ञाते शुद्धं स्यादित्यतस्तच्छाखा आह– विधर्म इति ॥ १२ ॥
सत्यधर्मीया
धर्मवित्त्वं चाधर्ममर्मणि ज्ञाते तद्वर्जनेन तत्परिशुद्धं स्यादित्यतस्तद्विटपाटोपं कथयति ॥ विधर्म इति । विधर्मादिशाखा अधर्मवत्साक्षात्तद्वत्त्यजेत् ॥ १२ ॥
मन्दनन्दिनी
धर्मज्ञस्याधर्मत्यागवत्तच्छाखात्यागोऽवश्यक इत्याह ॥ विधर्म इति ॥ १२ ॥
धर्मबाधो विधर्मः स्यात् परधर्मोऽन्यचोदितः ।
उपधर्मस्तु पाषण्डो१ दम्भो वा धर्मभिच्छलः ॥ १३ ॥
पदरत्नावली
अधर्मवद् विधर्मादीनां स्वरूपं दर्शयति– धर्मेति ॥ अधर्मवद् धर्मपीडनं विधर्मः । अन्यस्य क्षत्रियादेश् चोदितो विहितो धर्मो ब्राह्मणेनानुष्ठीयमानः परधर्मः । दम्भेन क्रियमाणो धर्मो दम्भः, स चोपधर्म इत्युच्यते । धर्मशब्दार्थमिच्छतां धारको हि धर्मः । तमर्थं भिनत्तीति स छलधर्म इत्युच्यते ॥ १३ ॥
सत्यधर्मीया
विधर्मादिपदार्थं स्वयमाह ॥ धर्मबाध इति । स्वधर्मपीडा विधर्मः । अन्यचोदित इतरवर्णाश्रमविहित इतरेण विहितश्चेत्परधर्मः । दम्भेन क्रियमाणो धर्मो दम्भः पाषण्डो वोपधर्म इत्युच्यते । सच्छास्त्रपरिपन्थीत्यारभ्य पाषण्डमाश्रिता इत्यन्तेन चतुर्थ उक्तः । धर्मभित् । धर्मपद-स्यार्थान्तरवर्णनं छल इत्युच्यते ॥ १३ ॥
मन्दनन्दिनी
उक्तानां लक्षणमाह ॥ धर्मबाध इति ॥ धर्मबाधः । धर्मस्य ब्राह्मणैः क्रियमाणस्य धर्मस्य बाधो बाधको विधर्मः स्वगृहे क्रियमाणब्राह्मणभोजनलक्षणतदभीष्ठधर्मविरोधी । सर्वब्राह्मणभोजनादिलक्षण इति यावत् । क्षत्रियस्य चोदितः शत्रुदण्डनादिर्ब्राह्मणस्य परमधर्मः । पाषण्डो वेदाप्रामाण्यवादिभिः क्रियमाणः सप्तघटिकाभ्यन्तरभोजनादिः । दम्भो वा आन्तरभक्तिरहितो भक्ति-क्रियमाणेन सदृशो वोपधर्मः स एवोपमेति ज्ञेयम् । धर्मभिद्वैदिकधर्मविरुद्धः सोत्प्रेक्षयैव धर्मत्वेन कल्पितः । राजशिरोभी रुद्राहुत्यादिरूपो जरासन्धकल्पितछलधर्मः ॥ १३ ॥
यस्त्विच्छया कृतः पुम्भिराभासो ह्याश्रमः पृथक् ।
स्वभावविहितो धर्मः १कल्प्यतेऽस्योपशान्तये ॥ १४ ॥
पदरत्नावली
पुम्भिः काम्यफलेच्छया कृतो यो धर्मः स आभास इत्युच्यते । हिशब्द इयानेषां भेद इत्याह । धर्मप्रतिपक्षभेदस्वरूपमुक्त्वा धर्मप्रयोजनमाह– आश्रम इति ॥ हिशब्द उत्तरत्रापि सम्बध्यते । तेन वर्णं लक्षयति । यो ब्राह्मणादिवर्णो यश्च ब्रह्मचर्याद्याश्रमो ऽत्र तत्तत् स्वभावानुसारेण भगवदर्पणबुद्ध्या पृथक् पृथक् विहितो यो धर्मः स जीवस्योपशान्तये संसारनिर्मूलनाय कल्प्यते समर्थ्यते । शास्त्रेष्विति शेषः । स्वभावपदसामर्थ्यात् सात्विको धर्मो मुक्तिहेतुर्नान्यः । राजसतामसः स्वर्गनरकादिहेतुः । ‘धर्मो भवत्यधर्मोऽपि कृतो भक्तैस्तवाच्युत । पापं भवति धर्मोऽपि यो नभक्तैः कृतो हरेः ॥’ इति वचनात् । अस्य जीवस्य उपशान्तये मोक्षाय इति वा ॥ १४ ॥
सत्यधर्मीया
यः पुम्भिरिच्छया स्वेच्छया कृतो धर्मः फलेच्छयेति वा स आभासो धर्मवदव-भासमान इत्यर्थः । एतत्पञ्चकमशास्त्रक्रमायातमिति बोधयितुं तृतीयोऽप्याभासो व्युत्क्रमेण प्रान्ते व्याख्यात इति ज्ञेयम् । यद्बोधनार्थं विधर्मादिनिरूपणं तदिदानीमाह ॥ आश्रम इति । आ आश्रमो यत्रेति वर्णो गृहस्थाद्याश्रमश्च तन्त्रेण गृह्यते । यस्मिन्वर्णे यदाश्रमे पृथक् स्वभावविहितः शास्त्र-तस्तत्तत्स्वभावानुसारेण श्रीहरिरेवानेन प्रीणात्विति तदर्पणबुद्ध्या विहितः कृतश्च यो धर्मः सोऽस्या-नुष्ठातुः । अस्योपशान्तय इति पदमेकं वा । अस्यस्य निरस्यस्य संसारस्योपशान्तये मोक्षाय निवृत्तये यथाक्रममन्वयः । कल्प्यते समर्थो भवति । स्वंशब्दवाच्ये हरौ भावो भक्तिर्मनो वा येषां ते सात्त्विकास्तै- र्विहितो धर्म उपशान्तये मुक्त्या इति वा । ‘‘धर्मो भवत्यधर्मोऽपि कृतोः’’ भक्तै इत्यादेः । स्वभावः शीलं तेन विहितः शीलमूलक इति वा । यथोक्तं शान्तिपर्वणि शीलप्रल्हादसंवादे । श्रीरुवाच । ‘‘धर्मः सत्यं तथा वृत्तं बलं चैव तथाऽप्यहम् । शीलमूला महाप्राज्ञ सदा नास्त्यत्र संशय’’ इति ॥ १४ ॥
मन्दनन्दिनी
इच्छया काम्येच्छया पुंभिः कृतः स आभासः । तर्हि कीदृशो धर्मो मोक्षायेत्यत आह ॥ आश्रमे इति ॥ वर्णस्याप्युपलक्षणम् । तत्तद्वर्णे आश्रमे उचितः । स्वस्य परमात्मनो भावेन भक्त्या विहितोऽनुष्ठितो धर्मोऽस्य यजमानस्योपशान्तये मोक्षाय कल्पते हि प्रमाणप्रसिद्धमेतत् ॥ १४ ॥
धर्मार्थमपि नेहेत यात्रार्थं वाऽधनो धनम् ।
अनीहाऽनीहमानस्य महाहेरिव वृत्तिदा ॥ १५ ॥
पदरत्नावली
ननु निष्कर्मणा पुरुषेण धर्मकरणं दुःसाध्यम् । अर्थाभावात् । तस्मादधनेन तदर्थं कृष्यादिकं कर्म कर्तव्यमिति । तत्राह– धर्मार्थमिति ॥ तर्हि देहादियात्रार्थं कर्म कर्तव्यम् । अन्यथा तन्नाशेन पुरुषार्थानुदय इति तत्राह– यात्रार्थमिति ॥ नन्वेवं चेत् कथं देहयात्रासिद्धिरिति तत्राह– अनीहेति ॥ अत्र अनीहा स्वदेहपोषणायासनिवृत्तिः । महाहेर् अजगरस्य ॥ १५ ॥
सत्यधर्मीया
ननु विना धनं न धर्मघटनाऽतस्तदर्थं वार्तादिकर्त्रा भाव्यमित्यत आह ॥ धर्मार्थ-मिति । धर्मार्थमपि नेहेत न प्रयतेत । अतिहाय देहस्थितिं वर्णाश्रमोचितस्नानादिधर्मानुपपत्तेस्तदर्थमीहनं किं न कार्यमित्यत आह ॥ यात्रार्थं वेति । तर्हि वृत्तिः कथमित्यतोऽनीहामाहात्म्यमाह ॥ अनीहेति । अनीहमानस्याधनस्य धनमनिच्छतो महाहेरजगरस्य यथेश्वरार्पितात्मभारस्य तत्रैव शयानस्य यदृच्छयाऽऽगच्छता गात्रयात्रा तथाऽनीहा वृत्तिदा यात्रामात्रोपयुक्तदात्री ॥ १५ ॥
मन्दनन्दिनी
अयाचितवृत्तिं स्तौति ॥ धर्मार्थमिति ॥ धर्मार्थं यज्ञाद्यर्थम् । यात्रार्थं देह-यात्रार्थम् । अधनः परकीयधनं नेहेत न याचेत । स्वतः सिद्धं नीवारादिनाऽयाचितप्राप्तधनादिना वा । धर्मयात्रादिकं कुर्यादिति भावः । लोके याञ्चायामपि न ददाति धनिको धनं कथमयाञ्चायां वृत्तिः स्यादित्यत आह ॥ अनीहेति ॥ अनीहमानस्यायाचकस्यानीहाऽनीहया तुष्टो भगवान् महाहेरजगरस्येव वृत्तिदा वृत्तिप्रदो भवति । एतादृशधर्मसन्तुष्टो भगवानदित्सताऽपि धनादिकं दापयतीति भावः ॥१५॥
सन्तुष्टस्य निरीहस्य स्वात्मारामस्य यत् सुखम् ।
कुतस्तत् कामलोभेन धावतोऽर्थेहया दिशः ॥ १६ ॥
पदरत्नावली
निरन्तरं भगवदुपासनाऽमृतपायिनोऽनीहा परमानन्दकारणमित्याह– सन्तुष्ट-स्येति ॥ यदृच्छया सन्तुष्टस्य यत् सुखं (तत्)कामलोभेन कामभोगेच्छया अर्थेहया धनयाचनप्रवृत्त्या (घनप्रवृत्त्या) दिशो धावतः पुंसः कस्मात् कर्मणस् तत् सुखं लभ्यत इत्यन्वयः ॥ १६ ॥
सत्यधर्मीया
अस्ति भगवदुपास्तिर्यस्य तस्य सुखसमं सुखं न सुखलभं तदनर्पितभारस्य नरस्येतरस्येतीरयति । सन्तुष्टस्यात्मारामस्य भगवत्क्रीडस्य कामलोभे विषयविषयकगार्ध्ये । न । न संत्यपि यत्सुखं तत्सुखमर्थेहया विषयेच्छया दिशो धावतः पुंसः कुतः कर्मणो भवेन्न भवेदित्यर्थः । कुत इत्यावर्तते । कुतो भूतः । कृष्यादिकृतौ भूमितोऽपि कुतो भवेदित्यर्थ इति वा । कामलोभेन विषयगार्ध्येनार्थेहया धनार्जनव्रजनेनेति वा । तत्कामलोभेन तत्कामा आत्मारामेत्यत्रोक्तात्मा तच्छब्देन परामृश्यते । हरिकामा एकान्तिनस्तत्र लोभस्तद्गार्ध्यं स(त)त्सहवासकाङ्क्षया । आत्मारमत्वमेकमेव नालं तद्दाससहवासोऽप्यपेक्षित इत्येवमुक्तिरिति वा ॥ १६ ॥
मन्दनन्दिनी
निरीहस्य भवत्सुखमर्थं याचमानस्य नास्तीत्याह ॥ सन्तुष्टस्येति ॥ सन्तुष्टादे-र्यत्सुखं तत्कामया लोभेन काम्यस्यार्थस्य लोभेन विद्यमानस्यात्यागेच्छयाऽधिकस्य लाभेच्छया दिशो धावतः कुतो भवेदिति योजना । मनस एव सुखसाधनतया तत्सन्तोषस्यैवाभावात् । देहायासस्याधिकस्य सत्वाच्चेति भावः ॥ १६ ॥
सदा सन्तुष्टमनसः सर्वाः सुखमया दिशः ।
शर्कराकण्टकादिभ्यो यथोपानट्पदः१ शिवम् ॥ १७ ॥
पदरत्नावली
दुस्त्यजेषु विषयेषु सर्वतो दिशं जाग्रत्सु निष्कर्मणः कथं सुखमुपलभ्यत इति तत्राह– सदेति ॥ ‘यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः’ इत्यादेः । एतमर्थं निदर्शयति– शर्करेति ॥ शिवं सुखम्, आप्नोतीति शेषः । शर्करः पाषाणशकलानि ॥ १७ ॥
सत्यधर्मीया
दिग्धावने न कृत्यमित्याह ॥ सदेति । सन्तुष्टं मनो यस्य तस्य सर्वा दिशः सुखमयाः सुखं माययन्ति गमयन्ति प्रापयन्तीति तास्तथा मय गताविति स्मरणात् । उपविष्टस्थल एव शिपिविष्टकृपा भवतीति भावः । तत्र निदर्शनमाह ॥ यथेति । शर्कराः क्षुद्रपाषाणाः कण्टको द्रुमांशः । कण्टकः क्षुद्रशत्रौ च द्रुमांशे चेति विश्वः । स आदिर्येषां ते तेभ्यः । उपानट्पदः पुंस उपानहौ पादयोर्यस्य तस्य शिवं भद्रं भवति । प्रथमान्तं वा । शिवमुपैति । उपानट्पदः पादस्य शिवं भद्रं तद्वेति वा । उप पादयोरानह्यते णह बन्धनेऽस्माद्धोढ इति ढे चर्त्वे चोपानडिति रूपम् । पादूरुपानट् स्त्रीत्यमरः । शिवं मोक्षे सुखे भद्र इति विश्वः ॥ १७ ॥
मन्दनन्दिनी
अर्थेहया धावतः कुतः सुखमित्यनेनानीहया धावतः सुखमित्यायातम् । कथमिदं धावनाऽविशेषादित्यत आह ॥ सदेति ॥ उपानट्पदस्तद्युक्तपदः शर्करकण्टकादिभ्यो वेधाभावाद्दिग्जातं यथा शिवम् । एवं सदा सन्तुष्टमनसो अर्थलाभव्यथाऽभावेन सर्वा दिशः शिवमया इति योजना ॥१७॥
सन्तुष्टः केन वा राजन् न वर्तेतापि वारिणा ।
औपस्थ्यजैह्व्यकार्पण्याद् गृहपालायते जनः ॥ १८ ॥
पदरत्नावली
अन्नाद्यर्जनायासाभावेऽपि प्राणधारणार्थं पानीयादिप्रयत्नः स्यादेव । ‘आपोमया प्राणाः’ इति श्रुतेरिति । तत्राह– सन्तुष्ट इति ॥ केन वा येन केनापि प्रयत्नमन्तरेणोपनतेन द्रव्येण लोकविलक्षणेन परमात्मना वा सन्तुष्टः विषयालम्बुद्धिमान् वारिणाऽपि न वर्तेतेत्यन्वयः । ननु सर्वात्मना सर्वनिषेधस्य कोऽभिप्राय इत्याशङ्क्य किञ्चिदभ्यनुज्ञाते महान् दोषः स्याज् जलस्यन्दनवत् । विधिं विना स्वातन्त्र्यवज्जनस्य कार्पण्यदर्शनाच्चेत्याह– औपस्थ्येति ॥ गृहं पालयतेऽसौ गृहपालः सारमेयस् तद्वच्चरति । ‘कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलो व्रणी पूयक्लिन्नः कृमिकुलश-तैरावृततनुः । क्षुधाऽऽक्रान्तो जीर्णो ह्यपि वरकपालार्पितगलः शुनीमन्वेति श्वा हतमपि च हन्त्येव मदनः’ इत्यादेः ॥ १८ ॥
सत्यधर्मीया
शनैरशनत्यागेऽप्यापोमयः प्राण इति श्रुतेर्न विना जीवनं जीवनं सुशकं धर्तुमिति पानीयमानीयतामिति कञ्चित्प्रति वा यत्नेन वक्तव्यमित्येतदपि नेति वदति ॥ सन्तुष्ट इति । केन वेति । येन केन वा वासुदेवेच्छागतेन द्रव्येण नारायणाख्यपीयूषादिना वा सन्तुष्टो वारिणा यत्नतः सम्पादितपाथसा न वर्तेत । वृत्तिं न कुर्यादित्यर्थः । ‘‘करेणैकेन शिश्नं च जिह्वां चैकेन वै हसन् । प्रगृह्योन्मत्तवत्तत्र ननर्त मुनिपुङ्गवः । तथाऽपि वः प्रवक्ष्यामि दुर्घटं च द्वयं ध्रुवम् । शिश्नस्य निग्रहः पुत्र जिह्वाया अपि नित्यशः । द्वयं यदि गृहीतं स्यात्स एव स्याज्जनार्दन’’ इति वैशाखमाहात्म्ये द्वयोर्निग्रहस्य दुःसाध्यतोक्तेः । पूर्वं वारिणाऽपि न वर्तेतेति निरसनाकार्यपानीयपानादित्यागप्रसक्त्या तत्सह हेयत्वेनोक्तौपस्थ्यत्यागोऽपि कार्य इति वक्तुमेतद्द्वन्द्वनिरतनरदशां शंसति ॥ औपस्थ्येति । तत्राप्युपोषणेऽपि योषिदासक्तिदर्शनात्प्रधानतयौपस्थ्यप्राथम्यम् । उपस्थो गुह्येन्द्रियं तत्सम्बन्धि व्यवायादि । ‘‘उपस्थः शेफसि क्रोडे तथा मदनमन्दिर’’ इति मेदिनी । जिव्हासम्बन्धि रसास्वादनादि चेति तयोर्विषये तत्सम्बन्धि वा कार्पण्यं कृपणता दैन्यमिति यावत् । तस्माज्जनो गृहपालायते श्वेवाचरति । तथा हि नीतौ । कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलो व्रणी पूयक्लिन्नः क्रिमिकुलशतैरावृततनुः । क्षुधाक्रान्तो जीर्णो जठरपिठरीप्राचितगलः शुनीमन्वेति श्वा हतमपि च हन्त्येव मदन इति । गृहपालायते आचारार्थे क्विप् । गृहपालस्य शुनोऽयो ज्ञानं स्वसंविदपेक्षयाऽधिकमिति सः । हेतुस्तु पूर्वक एव जन इति शेषः ॥ १८ ॥
मन्दनन्दिनी
पुनः सन्तुष्टत्वमेव विधत्ते ॥ सन्तुष्ट इति ॥ केन वा दैवोपनीतेनान्ततो वारिणाऽपि नञ् चार्थे । लब्धेनासन्तुष्ट इत्यनेनान्वयः । असन्तुष्ठं निन्दति ॥ औपस्थ्येति ॥ औपस्थ्यजैह्यकार्पण्याद्गुह्यरसनेन्द्रियलौल्याद्गृहपालायते सारमेयवदाचरति । तर्जनभर्त्सनादिविषयो भवतीति भावः ॥ १८ ॥
असन्तुष्टस्य विप्रस्य तेजो विद्या तपो यशः ।
स्रवतीन्द्रियलौल्येन ज्ञानं चैवावकीर्यते ॥ १९ ॥
पदरत्नावली
उक्तार्थानङ्गीकारे बाधकमाह– असन्तुष्टस्येति ॥ तेजः शापानुग्रहशक्तिः रेतो-लक्षणं वा । विद्या शास्त्रविषया । ज्ञानं मनोत्थमखण्डं शास्त्रानपेक्षि दीपज्वालानिभम् । अवकीर्यते विक्षिप्यते । शिलानिक्षिप्तपांसुपिण्डवन् नश्यतीत्यर्थः । ‘कृ विक्षेपे’ इति धातोः । वृषभविषाणाहत-सेतुवत् । सुडागमाभावश्छान्दसः । ‘अवकीर्णोऽक्षतव्रतः’ इत्यभिधानम् । असन्तुष्टस्य विषयानलम्बुद्धेः
॥ १९ ॥
सत्यधर्मीया
सन्तोषाभाव इयाननर्थो भविष्यतीत्याह ॥ असन्तुष्टस्येति । तेजो वर्चः शापादि-शक्तिर्वा । विद्या वेदशास्त्ररूपिणी स्वाभ्यस्ता । तपः कृच्छ्रादिकम् । यशः कीर्तिरिन्द्रियलौल्येनैतानि स्रवन्ति अकार्यकारीणि भवन्तीत्यर्थः । ज्ञानं वेदान्तजनितं ज्ञानं चावकीर्यते विक्षिप्तं नष्टं भवतीति यावत् । एवेति विषयानलम्बुद्धेस् तेजआदिस्रंसनज्ञानावकीरणकार्यकारणभावाव्यभिचारं सूचयति । ज्ञानपर्यन्तं गृहीत्वा स्रंसन्तीत्येकक्रियान्वयः शक्यसम्पादश्चेदपि ज्ञानावकीरणस्य महाहानितां स्फोरयितुं पृथगवकीरणोदीरणमिति मन्तव्यम् । अवकीर्णी क्षतव्रत इत्यभिधानम् । वर्चस्केवस्कर इति निपातितो वस्करशब्दः । मूत्रं प्रस्राव उच्चारावस्करौ शमलं शकृदित्यमरोक्तेर्वर्चस्क इत्यस्य कुत्सितं वर्चो वर्चस्क-मन्नमलमिति व्याकृत्या तस्मिंस्तुडिति व्याकृत्या अवकीर्यत इत्यवस्कारः । वर्चस्केकिमवकर इति व्याचख्यौ भट्टोजिरिति (किरतौ उपात्किरतेर्लवने हिंसायां प्रतेश्चेत्येवोक्तेनः ।) नात्रार्थे स्फुट-साम्भवित्यमित्यनु-युक्तिप्रत्युक्ती कथमिति केचित् ॥ १९ ॥
मन्दनन्दिनी
असन्तुष्टस्य भवदनिष्टमाह ॥ असन्तुष्टस्येति ॥ न केवलं तेज आदिकं चलति । किन्तु ज्ञानं चावकीर्यते विक्षिप्यते । स्मृत्यजनकं भवतीति यावत् । विद्या वेदादिकं ज्ञानं तज्जन्यमिति भावः ॥ १९ ॥
कामस्यान्तं हि क्षुत्तृड्भ्यां क्रोधस्यैतत्फलोदयात् ।
जनो याति न लोभस्य जित्वा भुक्त्वा दिशो भुवः ॥ २० ॥
पदरत्नावली
अत्रानलम्बुद्धिर्द्वेधा । विषयाणामुपर्युपरिभोगतृष्णैका । द्वितीयाऽविश्रान्तविश्राणने न तत् पर्याप्तं भवतीत्यतो न व्ययामि, किन्तु राशीकरोमीत्याकाङ्क्षा । तत्र प्रथमाया अलाभे कामः क्रोधश्च । तयोरुभयोः शान्तिरनायाससाध्या । द्वितीयाया लोभापरपर्यायाया नाशो दुःसाध्य इत्याह– कामस्येति ॥ जनोऽङ्कुरिताभ्यां क्षुत्तृड्भ्यां कामस्य उपस्थादिविषयतृष्णापरपर्यायस्य अन्तं नाशं याति । कुत इत्यत उक्तम्– हीति ॥ ‘विषया विनिवर्तन्ते निराहारस्य देहिनः’ इति स्मृतेः प्रसिद्धेः । एत-त्फलोदयाद् एतयोः क्षुत्तृषोर् अशनपानलक्षणभोगाभ्यां तृप्तिलक्षणफलोत्पत्तेस् तदलाभोत्पन्नस्य क्रोधस्य च शान्तिं याति । दिशो जित्वा भुवो भुक्त्वाऽपि लोभस्यान्तं यागाद्युपाधिना वित्तव्ययेच्छालक्षणं न यातीत्यन्वयः ॥ २० ॥
सत्यधर्मीया
क्षुत्तृड्भ्यां निगृहीताभ्यां जनः कामस्य भामिनीभोगादेरन्तं याति । ‘‘विषया विनिवर्तन्ते निराहारस्य देहिन’’ इत्यादेः । क्रोधस्य चान्तं याति । तत्र हेतुः फलोदयात्तत्कार्यहिंसा-दण्डनादिलाभादिति । कोपकार्यसम्पत्त्यनन्तरं कुतः कोप इति भावः । लोभस्यान्तस्तु न सुसाध इति बोधयति ॥ लोभस्येति । दिशो जित्वा भुवो भुक्त्वा च तदन्तं न याति फलोदयात्कामजयफलस्य शान्तेरुदयान्निष्पत्तेः क्रोधस्यान्तं यातीति वा । क्षुत्तृड्भ्यां क्षुत्तृषोस्तत्फलोदयाद् अशनपानीयादिपानादि-नाऽन्तं याति । क्रोधस्य च तदलाभोत्पन्नकोपस्य चान्तं तत्प्रणाशं याति । पूर्ववदुर्वरितमिति वा ॥२०॥
मन्दनन्दिनी
कामक्रोधापेक्षया लोभस्य दुर्निरासत्वमाह ॥ कामस्येति ॥ कामो विषयभोगेच्छा क्रोधस्तदपकारकः । जनहननादीच्छाविनाभूतो मनोविकारविशेषभूतः । लोभश्च लब्धद्रव्यराज्यादेः कियन्मात्रस्याप्यपरित्यागेच्छाविनाभूतो वृत्तिविशेषः । तत्र जनः क्षुत्तृड्भ्यां विषयिवाचिनो विषये लक्षणाऽन्नपानाभ्याम् । उपलक्षणमेतत् । लब्धेन काम्येन कामस्यान्तं निरासं याति । एवमेतत्फलस्य क्रोधफलस्यापकारिजनहननादेरुदयात्क्रोधस्यान्तं याति । दिशो जित्वा भुवो भुक्त्वा विद्यमानोऽपि जनो लोभस्यान्तं न यातीति योजना । बहुद्रव्यराज्यादिमतो किंचित्त्यागेच्छाप्रतिबन्धको लोभो नापैतीति भावः ॥ २० ॥
पण्डिता बहवो राजन् बहुज्ञाः संशयच्छिदः ।
सदसस्पतयोऽप्येके असन्तोषात् पतन्त्यधः ॥ २१ ॥
पदरत्नावली
ननु बहुत्यागेन वित्तव्ययेन स्वयं नष्टः स्यात् । ‘अल्पसारस्तु यो मोहाद्विस्तारं कर्तुमिच्छति । स विनश्यति दुर्भेधा नारिकेलाम्बुकं यथा ॥’ इति वचनात् । तस्माल्लोभो महान् गुणो देहयात्राहेतुत्वादित्याह– पण्डिता इति ॥ पाण्डित्यं नाम सभाकम्पादिदोषराहित्यम् । तत् पूर्वस्यापि किं न स्यादित्यत उक्तम्– बहुज्ञा इति ॥ सार्वज्ञ्यं घटदीपप्रभावन्नेत्याह– संशयच्छिद इति ॥ एवंविधधर्मवन्तः के इति तत्राह– सदसस्पतय इति ॥ एतादृशाश्च केचनेत्याह– एके इति ॥ एवंविधा अपि असन्तोषाद् लोभाद् अधः कीटादियोनौ पतन्तीति यस्मात् तस्मादवैष्णवविषय एव लोभो गुणः, न तु वैष्णवविषय इति भावः । एके असन्तोषाद् इति सन्धिकार्याभावो यदि तर्हि इति पदद्वयाध्याहार-सूचनार्थः । यद्येवंविधा असन्तोषाद् यथायोग्यं यथालब्धद्रव्यं यथापात्रं न नियुञ्जते तर्ह्यधः पतन्ती-त्यभ्युपगमसिद्धान्तोऽयम् । न केवलमसन्तुष्टस्य विद्यादिनाशः । अपि तु अधःपातः स्यादित्यतो वाऽऽह– पण्डिता इति ॥ २१ ॥
सत्यधर्मीया
न केवलं विलयो विद्याद्यानामसन्तोषेण किंनामाधःपतनमपि भवतीत्याह ॥ पण्डिता इति । आगमजज्ञानयुताः । बहुज्ञा अर्थान्बहूनतीतादीन् जानन्तीति ते तथा । नैतन्मात्रनिष्ठं तज्ज्ञानमित्याह ॥ संशयच्छिद इति । परसंशयं व्यंसयन्तोऽपीत्यर्थः । तत्स्वरूपं निरूपयति ॥ सदस इति । पतयः । पातेर्डतिः । सभाप्रभवः । ते चाल्पा इति जल्पति ॥ एक इति । अनेन पण्डिता बहुज्ञाश्च बहव एके केचन सदसः पतय इत्यन्वयः । असन्तोषादधः पतन्ति । विवक्षाभावान्न सन्धिः । सदसस्पतयः कस्कादिः ॥ २१ ॥
मन्दनन्दिनी
न केवलमसन्तुष्टस्य विद्यादिनाशः किं त्वधःपातोऽपीत्याह ॥ पण्डिता इति ॥ पण्डिता आगमजन्यज्ञानवन्तो बहुज्ञा युक्त्यादिसिद्धमतिमन्तः सदसस्पतयः सभापतयः । एतादृशानां मध्येऽप्येकेऽसन्तोषान्निमित्तादधः पतन्तीति योजना ॥ २१ ॥
असङ्कल्पाज्जयेत् कामान् क्रोधं कामविवर्जनात्१ ।
अर्थानर्थेक्षया लोभं भयं तत्वावमर्शनात् ॥ २२ ॥
पदरत्नावली
इदानीं कामादिजयोपायमाह– असङ्कल्पादिति ॥ अत्र सङ्कल्पोऽपि द्विविधः । पुण्यपापविषयश्चेति । अत्र असङ्कल्पात् पापविरुद्धपुण्यविषयादित्यर्थः । कामान् निषिद्धान् । क्रोधः कामिताऽलाभकारणकः । कारणनाशेन कार्यनाश इत्यर्थः । अनर्थकार्यस्य लोभस्य नाशः केनेति तत्राह– अर्थेति ॥ अर्थेषु राजादिनिमित्तानर्थदर्शनेन । असद्व्ययो नश्वरफलहेतुरिति निरीक्षणेन च । तत्त्वावमर्शनात् तत्त्वज्ञानात् । भयं वैष्णवसिद्धान्तसञ्चलनम् । ‘भी भयसञ्चलनयोः’ इति धातुः ॥२२॥
सत्यधर्मीया
कामादिजयोपायमाह ॥ असङ्कल्पादिति । अनभिसन्धेः कामान्विषयान्हरी-तराञ्जयेदिति यथापेक्षमन्वेतव्यम् । कामविवर्जनात्त्यागात् । विसर्जनादित्यपि पाठ एकार्थावेतौ । क्रोधं कारणाभावादेव कार्याभावः । कामात्क्रोधोऽभिजायत इत्युक्तेः । अर्थान् अर्थेक्षया लोभं जयेत् । अर्थान् रायोऽर्थेक्षया निवृत्तिर्नश्वरता तदीक्षयाऽवलोकनेन । राजचोराद्यपहारादिपरावृत्तिशून्या इति । अलोभं न विद्यते लोभो यस्मिन्कर्मणि यथा भवति तथा जयेत् । सत्स्वर्थेषु लोभस्तदार्जने स कुतः स्यादिति वा । अर्थानर्थेक्षया अर्थे सञ्चितकाञ्चनादावनर्थेक्षया राजचोरादिकापहारनिरीक्षणेन लोभं तत्त्वावमर्शनात्परा-परतत्त्वविचाराद्भयं भीतिमितरस्माद्दुश्शास्त्राभ्यासतः सञ्चलनम् ॥ २२ ॥
मन्दनन्दिनी
कामादीनां दोषाणां जयोपायमाह कतिपयैः श्लोकैः ॥ असङ्कल्पादिति । प्रधान-स्वर्गस्वाराज्यादीच्छानिर्भरः सङ्कल्पस्तदभावात्तत्तदुपायकामान् तत्काले च भोगकामान् जयेदभिभवेत् । प्रधानेच्छाभावे तदुपायेच्छा तत्साध्यभोगेच्छाश्च स्वत एव न प्रादुर्भवन्तीति भावः । कामविवर्जनात्क्रोधं जयेदिति । एवं सर्वत्रापि जयेदित्यन्वेति । कामविरोधमूलत्वात्क्रोधस्य तद्विवर्जने स्वत एवानुत्पत्तिः । अर्थेष्वनर्थस्य राजचोरादिनिमित्तकस्येक्षया पर्यालोचनया लोभं जयेदिति । अर्थेष्वनर्थदर्शनेन त्यागेच्छासम्भवेन लोभो नश्यति । तत्त्वावमर्शनात् । सर्वभूतानि भगवदाश्रितानि भगवांश्च सर्वभूतेषु रक्षकत्वेन स्थित इत्येवं ज्ञानाद्भयं जयेत् । एवं जानतो भयं नोत्पद्यते । ततो न विजुगुप्सत इति श्रुतेरिति भावः ॥ २२ ॥
आन्वीक्षिक्या शोकमोहौ दम्भं महदुपाश्रयात् ।
योगान्तरायान् मौनेन हिंसां कायाद्यनीहया१ ॥ २३ ॥
पदरत्नावली
शोकमोहौ देहगतान्तःकरणस्यैव । नान्यस्य । स्वतश्चिदानन्दस्वरूपस्या-सम्भवात् । आन्वीक्षिक्या अनुकूलतर्कोपेतव्याप्तिज्ञानेन । आत्मन्यविद्यमानमहिमारोपो दम्भः । महतां प्रावण्यादिगुणाकराणाम् । आत्मस्तुतिलज्जितानां पुरुषाणां निरन्तरनिषेवया सद्गुणाभ्यासलक्षणया । योगान्तरायान् भगवदुपासनाविघ्नान् मौनेन सम्भाषणवर्जनेन जयेदिति शेषः । कामाद्यनीहया कामादि-निषिद्धेच्छाराहित्येन विवादलक्षणां हिंसां जयेदित्यन्वयः ॥ २३ ॥
सत्यधर्मीया
आन्वीक्षिक्या वलीपलिततादिकं यथा कायस्य तथा शोकादिकमन्तःकरण-कोशगतमेव यावत्सृत्यात्मनो लिङ्गभङ्गे तु न किञ्चिच्चिदानन्दघनस्येति सत्तर्केण । दम्भं विद्यमान-गूहनेनाविद्यमानप्रदर्शनम् । महदुपाश्रयादार्याणां परिचर्याया योगान्तरायान्समाध्यादिविघ्नान् । उपाय-सामान्यापायान्वा । मौनेनासम्भाष्यासम्भाषणेन हिंसां पिपीलिकादिहिंसां कायाद्यनीहया शरीराद्यचेष्टया मौनेन चक्षुर्निमील्योपवेशे हस्तादिपातेन घातो यथा न स्यात्तथा निश्चेष्ट उपविशेदित्यर्थः। कामा-द्यनीहयेति पाठे कामादिच्छानुसारात् । आद्यम् । अदधातोऽर्ऋहलोर्ण्यदिति ण्यत् । भक्ष्यं तत्रानीहेच्छा-भावस्तेन । सर्वेषां कामाऽन्तःप्रवेशेऽपि विशेषतस्तेषां तेषां जेयतया ग्रहणेन सर्वात्मना तत्त्यागा-वश्यकत्वमभिप्रैतीति प्रथमश्लोक एव क्रोधेन सह हिंसोक्तावभिलषितसिद्धेरत्र पुनः कामाद्यनीहये-त्यतिरिच्यत इति पराकरोति ॥ २३ ॥
मन्दनन्दिनी
आन्वीक्षिक्या ब्रह्मतर्काद्युक्तयुक्तिसाध्यनित्यानित्यत्वादिनिश्चयेन शोकमोहौ स्वस्नेहविषयापगमनिमित्तं शोकं तत्र नित्यत्वादिमोहं च जयेत् । नित्यत्वानित्यत्वनिश्चये न तदागमाप-गमनिमित्तौ मोहशोकौ भवत इति । महतां विनीतानामुपाश्रयात्सेवनात् । दम्भमल्पस्यापि स्वस्य महत्त्वप्रदर्शनं जयेत् । सत्यपि महत्त्वे तन्न प्रदर्शयन्त्येते । ममत्वविद्यमानमहत्त्वप्रदर्शनं जुगुप्सितमिति बुद्धिर्भवतीति भावः । मौनेन वागादीन्द्रियनियमेन योगान्तरायान् इन्द्रियाणां बहिर्व्यापारलक्षणोपासा-विघ्नान् । कामाद्यनीहया स्वर्गस्वाराज्याद्यनीहया हिंसां पशुहिंसां जयेदित्यनुवृत्तेन योजना । कामाद्यनीहायां हिंसा दोषाय न भवतीति भावः । तस्मान्नेष्टियाजुकः स्यादिति निषेधात् ॥ २३ ॥
कृपया भूतजं दुःखं दैवं जह्यात् समाधिना ।
आत्मजं योगवीर्येण निद्रां सत्वनिषेवया ॥ २४ ॥
पदरत्नावली
भूतजं भौतिकं दुःखम् उन्मादादिकं वा कृपया मन्त्रौषधादिसामर्थ्येन । ‘कृपू सामर्थ्ये’ इति धातुः । अनुक्रोशलक्षणगुणेन वा । दैवम् आधिदैविकं दुःखं समाधिना इन्द्रादिदेवता-ध्यानेन । ‘यस्यै देवतायै हविर्गृहीतं स्यात् तां ध्यायेद् वषट् करिष्यन्’ ‘कारिर्या यजेत वृष्टिकामः’ इति श्रुतेः, अनावृष्ट्यादिदुःखं जह्यात् । क्षीरसागरतरङ्गसीकराप्लुतश्रीनारायणध्यानेन वा । आत्मजम् आध्यात्मिकं दुःखं योगवीर्येण अष्टाङ्गसामर्थ्येन पवनवशीकरणेनेत्यर्थः । सत्वनिषेवया सात्विक-पुरुषनिषेवया निद्राम् अज्ञानम् ॥ २४ ॥
सत्यधर्मीया
भूतजं भौतिकं दुःखं भौतिकधात्वादिविकारजं कृपया सामर्थ्येन । दैवमाधिदैविकं मनःपीडादिकं समाधिना देवताराधनादिनाऽनावृष्ट्यादिकं वा । भूतजं प्राणिभ्यो जातं दुःखं कृपया तत्कृपया तदाधम्ये स्वकृपयेति वा । आत्मजं देहजातं योगवीर्येण प्राणायामाद्यष्टाङ्गबलेन सत्त्वनिषेवया ज्ञानमार्गसेवनेन सात्त्विकाहारेणेति वा । निद्रामज्ञानं स्वापमविहितकाले यथा स नागच्छेत्तथा जह्यादिति सर्वान्वयि ॥ २४ ॥
मन्दनन्दिनी
कृपया नृसिंहाद्युपासनासम्पादितदयया जलवाय्वादिशरीरकजलग्रहपिशाचादिजं दुःखम् । समाधिना भगवध्द्यानेन । दैवं नवग्रहादिप्रयुक्तम् । योगवीर्येण श्वासजयेनात्मजं देहजं हिक्कादिकम् । सत्त्वनिषेवया सात्त्विकगोघृतादिद्रव्यनिषेवया निद्रां जह्यादिति योजना । नृसिंहोपासनया पिशाचादेर्भगवदंघ्रिध्यानेन ग्रहचारविपत्तेः श्वासनिरोधेन दैहिकरोगादेः सात्त्विकपदार्थसेवनया तामस-निद्रादेस्त्यागस्य प्रसिद्धत्वादिति भावः ॥ २४ ॥
रजस्तमश्च सत्वेन सत्वं चोपशमेन च ।
एतत् सर्वं गुरौ भक्त्या पुरुषो मनसा जयेत् ॥ २५ ॥
पदरत्नावली
सत्वगुणेन रजस्तमसी । उपशमेन भगवन्निष्ठया । सर्वत्रापि भगवद् भक्तिरेव प्रयोजिकेत्याशयेनाह– एतदिति ॥ २५ ॥
सत्यधर्मीया
रजस्तमश्च सत्त्वेन गुणेन जयेत् । तत्सत्त्वमुपशमेन भगवन्निष्ठया । एकैकेनैकैक-जयो नेदमन्तरा भविष्यतीत्याह ॥ एतदिति । गुरौ हरौ भक्त्या मनसा तत्सहकृतमनसा जयेत् ॥ २५ ॥
मन्दनन्दिनी
सत्त्वेन सत्त्वगुणवृध्द्या रजस्तमस्युपशमेन भगवन्निष्ठया सूक्ष्मसत्त्वासादितया सत्त्वं स्थूलं जह्यात् । सर्वमपि जेतव्यम् । हरिगुरुभक्त्यादिना जय्यं भवतीत्याह ॥ एतदिति ॥ २५ ॥
यस्य साक्षाद् भगवति ज्ञानदीपप्रदे गुरौ१ ।
अभिसन्धिः २श्रुतं ३तस्य सर्वं कुञ्जरशौचवत् ॥ २६ ॥
पदरत्नावली
विपक्षे बाधकमाह– यस्येति ॥ अभिसन्धिर् अतिक्रमणम्, भक्त्यनुसन्धान-राहित्यम् । अवज्ञतेति यावत् ॥ २६ ॥
सत्यधर्मीया
एतदसत्त्वे सर्वासत्त्वमित्याह ॥ यस्येति । ज्ञानदीपप्रदे ज्ञप्त्युद्दीपके साक्षाद्भगवति तद्रूपे गुरौ यस्य पुंसोऽभिसन्धिरवज्ञा तस्य सर्वं श्रुतं कुञ्जरशौचवद्गजमज्जनवद्वृथा यथा तत्तथा श्रुतं वृथेत्यर्थः । मर्त्यासद्धीरित्यपि सद्धीपाठः । मर्त्योऽयमित्यसती च सा धीश्च सा ॥ २६ ॥
मन्दनन्दिनी
हरिगुरुभक्त्यभावे श्रवणादेर्वैयर्थ्यमाह ॥ यस्येति ॥ भगवतीति विषयसप्तमी । यस्य श्रुतं श्रवणादिकं साक्षाद्भगवद्विषयकज्ञानलक्षणदीपप्रदे गुरौ चातिसन्धिः सन्धानं हरिगुरु-माहात्म्यानुसन्धानमतिक्रान्तम् । तस्य सर्वं श्रवणादिकं कुञ्जरशौचवद्व्यर्थमिति योजना । कुञ्जरस्नानं यथा पुनर्धूल्युद्वहनकारि तथा श्रवणादिकं संसारावहमिति भावः ॥ २६ ॥
एष वै भगवान् साक्षात् प्रधानपुरुषेश्वरः ।
योगेश्वरैर्विमृग्याङ्घ्रिर्लोको यं मन्यते नरम् ॥ २७ ॥
पदरत्नावली
कथमवज्ञाप्रकार इति तत्राह– एष इति ॥ एष एवंविधमाहात्म्योपेतः । लोकोयं नरं सुखदुःखभोक्तारं मन्यत इत्येवमवज्ञाप्रकार इत्यर्थः ॥ २७ ॥
सत्यधर्मीया
लोको यं नरं साधारणमनुष्यं मन्यते । एषः साक्षात्प्रधानं प्रकृतिः पुरुषोऽक्षर-पुरुषो रमा तयोरीश्वरो योगेश्वरैर्योगेनोपायेनेश्वराः समर्थास्तैर्विमृग्यौ विचार्यावङ्ध्री यस्य स एष ईदृशः । अर्शआद्यचि योगानां योगिनामीश्वरैरिति वा । यं लोको नरं मन्यते एष श्रीकृष्णो वै इति वाऽन्वयः
॥ २७ ॥
षड्वर्गसंयमैकान्ताः सर्वा निगमचोदनाः ।
तदन्ता यदि नो ४योगमावहेयुः श्रमावहाः ॥ २८ ॥
पदरत्नावली
ननु हरेः प्रकृतिनिलीनत्वेन नरत्वं सम्भाव्यते । ‘तुच्छेनाभ्वपिहितं यदासीत्’ ‘प्रकृतौ लीनः संसारमेति’ ‘सच्च त्यच्चाभवत्’ इति श्रुतेरिति । तत्राह– षड्वर्गेति ॥ सर्वा निगम-चोदनाः ‘सन्ध्यामुपासीत’ इत्यादिवेदविधयोऽपि हरौ(यदि)भक्तियोगं न कुर्युस्तर्हि श्रमावहाः क्लेशहेतव एवेत्यन्वयः । आवहन्ति चेत् कथंकारमित्यत उक्तम्– षडिति ॥ षडिन्द्रियाणां संयमो विषयादाहृत्या हर्येकविषयीकरणलक्षणः, तस्मिन् एकान्तो निश्चयेन तात्पर्यं यासां तास्तथा । अन्यत् तात्पर्यं किं न स्यादिति तत्राह– तदन्ता इति ॥ तस्य भक्तियोगस्य अन्तो निर्णयो यासां तास्तथा । यथा षड्वर्गसंयमैकान्ताः सर्वा निगमचोदनास् तदन्ता निगमा यदि योगं नो आवहेयुरिति वा ॥ २८ ॥
सत्यधर्मीया
योगैश्वरैर्विमृग्याङ्घ्रिरिति प्रस्तुतस्तु योग एतद्धेतुक एते यदि तं नोपजनयेयुस्तर्हि गर्हिता भवेयुरित्याह ॥ षड्वर्गेति । षड्वर्गस्य षडिन्द्रियाणां संयमो निग्रह इतरदुर्विषयादाहृत्य हरौ स्थापनम् । तस्मिन्नेकान्तोऽव्यभिचारस्तात्पर्यमिति यावत् । यासां ताः सर्वा निगमचोदना वेदविधयः स च योगान्ते फलत्वेन यासां ते तथा । तादृश्योऽपि यदि योगं नो आवहेयुर्न प्रादुर्भावयेयुः श्रमावहाः केवलं श्रमापादिका एव । फलालाभादिति भावः । योगानिति पाठे धारणाध्यानसमाधीनित्यर्थः । यदि तं वहेयुस्तर्हि नो श्रमावहा इत्यप्यन्वयः ॥ २८ ॥
मन्दनन्दिनी
भक्तिहीनेन श्रुता वेदविधयोऽपि श्रमावहा इत्याह ॥ षडिति ॥ सर्वा निगम-चोदनाश्चोदितानुष्ठानेन मनोनैर्मल्यद्वारा षण्णामिन्द्रियाणां वर्गस्य संयमनमितरपरित्यागेन भगवदेक-निष्ठत्वमेकान्त उद्देश्यो यासां तास्तदन्तास्तस्य भगवतोंऽतो निर्णयो याभिः । तत्प्रयोजका इति यावत् । एतादृशा अपि यदि योगं मनोयोगं भक्तियोगं च नावहेयुस्तदा केवलं श्रमावहा इति योजना ॥ २८ ॥
यथा वार्तादयो विद्याः पुंसः स्वार्थं१ न बिभ्रति ।
अनर्थाय भवेयुश्च पूर्तमिष्टं तथाऽसतः ॥ २९ ॥
पदरत्नावली
इष्टापूर्तादिना पुरुषस्य पुरुषार्थसम्भवेन तद्विधायिवेदः पूर्णार्थो लभत इत्यतो वेदस्य श्रमावहत्वं कथम् ? अत्राह– यथेति ॥ यस्य पुंसो या वार्तादयो विद्यास्ता अर्थं न बिभ्रति । प्रत्युतानर्थाय भवेयुश्च । तथाऽसतस् तस्य पूर्तमिष्टं चार्थं न विधत्त इत्यन्वयः । पूर्तादेरनित्यफलहेतुत्वेन निन्दितत्वात् तदर्थविधायित्वं वेदस्य जुगुप्सितम् । अतस्तद्विधाने श्रमावहत्वं प्रकटमित्यर्थः । ‘इष्टापूर्तं मन्यमाना वरिष्ठम्’ इत्यादिश्रुतेः ॥ २९ ॥
सत्यधर्मीया
योगायोगे श्रमसमार्जकत्वेन चोदनाननुमोदनं प्रागुदितं तदेवोपपादयति ॥ यथेति । वार्तादयस्तत्प्रतिपादिका विद्या यथा पुंसोऽर्थं न बिभ्रति शाश्वतिककामितदा न भवन्तीत्यर्थः । न केवलं यथाऽऽलपितफललोपः किन्त्वनर्थाय संशयायैव भवेयुः साधिकाः । असतोऽमङ्गलस्य भगवदनुसन्धानविकलस्य पूर्तमिष्टं चैतेऽर्थं न विदधाते । पूर्तं पूर्णमिष्टं न बिभ्रत इत्यावृत्त्याऽर्थो वा । यथा वार्तादयो ह्यर्था योगस्यार्थं न बिभ्रतीति पाठान्तरम् । वार्तैवादिः कारणं येषां ते वार्तादयोऽर्था योगस्यार्थं मोक्षं न बिभ्रति । इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छे्रयो वेदयन्ते प्रमूढा इत्यादेः ॥ २९ ॥
मन्दनन्दिनी
इष्टापूर्तानुष्ठानेन सफला निगमचोदनाः कथं विफला इत्यत आह ॥ यथेति ॥ वार्तादयः क्रयविक्रियादिविषयाः पुंसो यथा विद्या पर्यालोचना वणिजः केवलं स्वार्थमभीष्ठवृद्धिं न बिभ्रति । प्रत्युत वृद्धीच्छया दत्ते पदार्थे मूल्यस्यैवादानेऽनर्थाय बभूवुस्तथाऽसतो भगवद्भक्तिहीनस्य पूर्तमिष्टं स्वार्थं स्वर्गादिकं न बिभ्रति । प्रत्युतासतो भगवद्वेषवतोऽनर्थाय तमसे भवेच्चेति योजना ॥२९॥
यश्चित्तविजयेच्छुः स्यान्निःसङ्गो निष्परिग्रहः ।
एको विविक्तशरणो भिक्षुर्भैक्ष्यमिताशनः ॥ ३० ॥
पदरत्नावली
यदि ‘यदि नो योग्यम्’ इत्यत्र योगशब्देन ध्यानं चोच्यते तदा तद्ध्यानं ध्येये मनो निधायोपासनापरपर्यायं भवेत् । तत्र जलचरस्येवानवस्थानस्य मनसो जयेन (चोदनं)सफलं स्यात् । अतस्तदुपायमाह– यश्चित्तेति ॥ यश् चित्तविजयेच्छुः स्यात् स ओमिति मन्त्रमुच्चार्य तस्मिन्नासी-तेत्यन्वयः । तद्विजयोपायमाह– निस्सङ्ग इति ॥ निस्सङ्गत्वं कथम् ? अत्राह– निष्परिग्रह इति ॥ तत्फलम्– एक इति ॥ एकस्यापि स्वजनरहितस्य जनतामध्यस्थितस्य नानावार्ताश्रवणेन विक्षिप्तस्य पुंसो मनोजयः कथमुपपद्यत इत्यत उक्तम्– विविक्तेति ॥ एतदपि गृहस्थस्य न घटत इत्यत उक्तम्– भिक्षुरिति ॥ तस्याशनचिन्तया द्वितीयापेक्षयोक्तं न युक्तमित्यत उक्तम्– भैक्ष्येति ॥ भैक्ष्यमपि बहुसम्पन्नं न योगोपयोगि स्यादित्यत उक्तम्– मितेति ॥ ३० ॥
सत्यधर्मीया
विना मनोजयं न ध्यानं सम्भवति तदर्थं तदुपायमाह ॥ य इति । चित्तस्य चेतसो विजयमिच्छतीति स तथा । निस्सङ्गः स्त्रीपुत्रादिस्नेहरहितः१ । एतत्कारणमीरयति ॥ निष्परिग्रह इति । तत्फलं लपति ॥ एक इति । तत्राप्यनेकलोकागतौ कथं चित्ताचाञ्चल्यमित्यत आह ॥ विविक्तशरण इति । विविक्ते रहस्यस्थाने शरणं कुटीरं यस्य सः । सांसारिकस्य कथमिदं घटत इत्यत आह । भिक्षुरिति । न च जठरपिठरीपूरणाय विनेय एकोऽपेक्षित इति कथमेकता लाभः । कथन्तरामुदरभृतिः । कथन्तमां स्वान्तस्वास्थ्यमित्यत आह । भैक्ष्येति । भिक्षया स्वयमेव सम्पादितं भैक्ष्यम् । तददनं बहुलं चेन्न चेतसः स्थैर्यं स्यादित्यत उक्तं मितेति । भैक्ष्यस्य मितमशनं यस्य सः ॥ ३० ॥
मन्दनन्दिनी
मनोजयस्यावश्यकत्वमुक्तम् । तदिच्छोस्तदुपाययोगं साङ्गं विधत्ते श्लोकचतुष्टयेन ॥ य इत्यादिना । चित्तविजयोऽनायासेन भगवद्विषयीकरणं तदिच्छुः स्यात् । तर्हि वक्ष्यमाणाङ्गविशिष्ट आसीत् । प्राणापानौ सन्निरुध्यान् मनः सन्निरुध्याद् इति योजना । निःसङ्गो दुर्विषयसङ्गरहितः । ‘‘सङ्गात्सञ्जायते काम’’ इत्यनिष्टोक्तेः । निष्परिग्रहोऽसत्यनिग्रहरहितः । असतां च प्रतिग्रहं पुनंत्विति श्रुतेः । एको जनताप्रवेशरहितः । तस्मान्न जनतामियादिति वचनात् । विविक्तशरणो विविक्तदेशी भिक्षुः परमहंसो भैक्ष्यमिताशनः । भैक्ष्ये भिक्षालब्धेऽपि मिताशनः । विविक्तदेशी लध्वाशीत्युक्तेः ॥ ३० ॥
शुचौ देशे समे राजन्नास्थाप्यासनमात्मनः ।
स्थिरं सुखं समं तस्मिन्नासीतर्ज्वङ्ग ओमिति ॥ ३१ ॥
पदरत्नावली
ऋज्वङ्गः समीकृतकायशिरोग्रीवः ॥ ३१ ॥
सत्यधर्मीया
स्थिरं समं मुखं च यथा तथा । ऋज्वङ्गो ऋजून्यवक्राण्यङ्गान्यवयवानि यस्य स तस्मिंश्चैलाजिनाद्यासने ओमिति प्रैषमुच्चार्यासीत ॥ ३१ ॥
मन्दनन्दिनी
एवं यमनियमादिकमुक्त्वाऽऽसनमुच्यते । ऋज्वङ्गः समं कायशिरोग्रीवः । ॐ इति । अनेन भुवं संमृज्येत्यर्थः । आसनप्रकारश्चासीनः सम्भवादिति सूत्रे समं कायशिरोग्रीवमित्यादिना भाष्ये विवृतः ॥ ३१ ॥
प्राणापानौ सन्निरुन्ध्यात् पूरकुम्भकरेचकैः ।
यावन्मनस्त्यजेत् कामान् स्वनासाग्रनिरीक्षणः ॥ ३२ ॥
सत्यधर्मीया
पूरकुम्भकरेचकैः श्वासग्रहणोत्सर्जनस्तम्भनरूपैर्यावन्मनः कामांस्त्यजेन्न तेषु विवशेत तावत्स्वनासाग्रस्य निरीक्षणमवलोकनं यस्य सः । प्राणापानौ सन्निरुध्यात्तन्निरोधं कुर्यात् ॥३२॥
मन्दनन्दिनी
पूरकेति । रेचकपूरककुम्भकानां क्रमेणानुष्ठानं ज्ञेयम् । अनेन प्राणायाम उक्तः
॥ ३२ ॥
यतो यतो निःसरति मनः कामहतं भ्रमत् ।
ततस्तत उपाहृत्य हृदि रुन्ध्याच्छनैर्बुधः ॥ ३३ ॥
पदरत्नावली
उपाहृत्य हृदिस्थिते हरौ ॥ ३३ ॥
सत्यधर्मीया
कामहतमिच्छाप्रतिहतं भ्रमद्यतो यतो निस्सरति ततस्तत उपाहृत्य हृदि मनसि शनै रुन्ध्यात् । एतदसम्भावनामाभासयितुं प्रवृत्तं बुध इति ॥ ३३ ॥
मन्दनन्दिनी
ततस्ततस्तस्मादुपाहृत्य प्रत्याहृत्य । अनेन प्रत्याहार उक्तः । संनिरुध्याद्भगवति मनः क्रमेण धारणध्यानसमाधियुक्तं कुर्यात् ॥ ३३ ॥
एवमभ्यसतश्चित्तं कालेनाल्पीयसा मुनेः ।
अविषण्णं च निर्वाणं यात्यनिन्धनवह्निवत् ॥ ३४ ॥
पदरत्नावली
इन्धनरहितो वह्निर्यथा निर्वाणं नाशं याति तथा चित्तं प्राकृतं नाशं याति । अप्राकृतं स्वरूपभूतं शरीराभिमानरहितं ब्रह्म यातीत्यन्वयः । ‘बाणं शरीरं सम्प्रोक्तं बाणो बलिसुते शरे’ इत्यभिधानम् । ‘निर्वाणममृतमक्षरं ब्रह्म’ इत्यभिधानम् ॥ ३४ ॥
सत्यधर्मीया
मुनेर्यतेरिति द्वावप्यद्वन्द्वार्थौ । एवमभ्यसतो ऽभ्यस्यतश्चित्तमल्पीयसा कालेन लवलवेनाविषण्णस्य विषादमनासादयतो निर्वाणं प्राङ्निवृत्तिमनन्तरं मुक्तिं याति । प्राकृतं निर्वाणं नाशं याति अप्राकृतं प्राकृतकार्यरहितं हरिं यातीत्यर्थः । निदर्शनं दर्शयति । अनिन्धनो नष्टकाष्ठो वन्हिर्यथा निर्वाणं नाशं याति तथेति । अविषण्णस्य निर्वाणमिति पदानि । विषण्णस्य विषादवतः । निर्वाणमिति लुप्तोपमम् । कुञ्जरशौचवत् । अ नेत्यर्थो वा । सर्वं कुञ्जरशौचवदित्युक्तोद्धारः कृतो ज्ञेयः । निर्वाणमस्तगमने निवृत्तौ गजमज्जने । अपवर्गे चेति विश्वः ॥ ३४ ॥
मन्दनन्दिनी
एवमनुष्ठाने चित्तविजयाख्यं फलं सिध्यतीत्याह श्लोकद्वयेन ॥ ३४ ॥
कामादिभिरनाविद्धं प्रशान्ताखिलवृत्ति यत् ।
चित्तं ब्रह्मसुखस्पृष्टं नैवोत्तिष्ठेत कर्हिचित् ॥ ३५ ॥
पदरत्नावली
एवं विषयीकृतब्रह्मणोऽप्राकृतस्य चित्तस्य स्वभावफलमाह– कामादिभिरिति ॥ यच् चित्तं कामादिभिरनाविद्धत्वात् प्रशान्ताखिलवृत्तित्वाच्च ब्रह्म पूर्णसुखरूपं स्पृष्टं विषयीकुर्वत् तत् कर्हिचित् ततो नोत्तिष्ठेत । ततोऽन्यत्र न गच्छतीत्यर्थः ॥ ३५ ॥
सत्यधर्मीया
यन् मनः कामादिभिरनाविद्धं प्रतिहतिरहितं प्रशान्ता अखिला वृत्तयः प्राकृत-चित्तभेदा यस्य तत् । तच् चित्तं ब्रह्मसुखस्पृष्टं सुखात्मकं सुखं च तद्ब्रह्म च ब्रह्मसुखं तत्स्पृष्टं येन तत् । सुखपूर्णब्रह्मरतं नैवोत्तिष्ठेत ततोऽन्यत्र कर्हिचिदपि नोत्तिष्ठेन्न गच्छेत् ॥ ३५ ॥
मन्दनन्दिनी
प्रशान्तोऽखिलवृत्तिविषयसंचलनव्यापारवर्जितं यच्चित्तं तद्ब्रह्म सुखस्पृष्टं ब्रह्मसाक्षात्काराभिव्यक्तसुखयुक्तं ब्रह्मणः सकाशात्कर्हिचित्कदाचिदन्यत्र नो तिष्ठेन्न गच्छेदिति योजना
॥ ३५ ॥
यः प्रव्रज्य गृहात् पूर्वं त्रिवर्गावपनात् पुनः ।
यदा सेवेत तान् भिक्षुः स पापो निरपत्रपः ॥ ३६ ॥
पदरत्नावली
ननु कस्यचिच् चेतोऽन्यत्र गच्छति चेत् किं दूषणमित्याशङ्क्य तस्य पाप-करणत्वेन सर्वहास्यत्वं दूषणमित्याशयेनाह– यः प्रव्रज्येति ॥ त्रिवर्गावपनाद् धर्मार्थकामबीजानामा-वपनक्षेत्रभूतात् । तान् कामादीन् (न जहातीति शेषः) । यदा सेवेत, तर्हीति शेषः ॥ ३६ ॥
सत्यधर्मीया
सन्न्यस्तस्य पुनः संसाराशाचेत्सोऽपत्रपः पापी चेत्याह ॥ य इति । गृहात् । तल्लक्षणमाचष्टे ॥ त्रिवर्गेति । त्रिवर्गस्य धर्मार्थकामात्मनां बीजानामावपनं यस्मिंस्तस्मात् । पुनस्तान्धर्मादीन्यो यदा सेवेत तर्हि स भिक्षुः पापस्तद्वान् । निरपत्रपो निर्लज्जः । स वै वान्ताश्यपत्रप इति केचित् पेठुः । वान्तं स्वच्छर्दितमेव स्वयमश्नातीति स तथा समार्थमितरत् । ननु ‘‘सन्न्यस्य पुनरन्विच्छेद्गृहं यः कोऽपि मन्दधीः । कृच्छ्रत्रयं स कृत्वा तु गृही स्यान्न हि दोषभागिति धर्मशास्त्रे यतिनोऽपि गृहीताभ्यनुज्ञानात्कथमितिकथनमिति चेन्न । किं तत्रापि महाजनसभाजनीयतोक्तेति तस्य मनुषे किं न तनुषे मन्दधीरित्यत्र धियम् ॥ ३६ ॥
मन्दनन्दिनी
परिव्राजकं पुनस्त्रिवर्गसाधने प्रवृत्तं निन्दति ॥ य इति । तांस्त्रिवर्गावपनान् गृहान्
॥ ३६ ॥
यैः स्वदेहः स्मृतोऽनात्मा मर्त्यो विट्क्रिमिभस्मवत् ।
तमेव स्वात्मसात् कृत्वा श्लाघयन्ति ह्यसत्तमाः ॥ ३७ ॥
पदरत्नावली
एवंविधा असुरजातय इत्यभिप्रायेणाह– यस्येति ॥ यस्य देहिनः । अनात्मा देहो विट्कृमिभस्मवत् स्मृतः, तस्य तमेव देहं तत्सदृशमेव भोगायतनं स्वात्मसात्कृत्वा ‘अहमेवात्मा’ इति कृत्वा ये देहं श्लाघयन्ति ते असत्तमा असुरा इत्यन्वयः । ‘आत्मैव महीयान्’ इति श्रुतिं हिशब्देन सूचयति । ‘यैः स्वदेह’ इति पाठे यैर् मर्त्यैरनात्मा स्वदेहो विट्कृमिभस्मवत् स्मृतस् ते तमेव स्वात्मसात् कृत्वा श्लाघयन्ति तर्हि असत्तमा इत्यन्वयः ॥ ३७ ॥
सत्यधर्मीया
इदं नाघटिष्टेति नेत्याचष्टे ॥ यैरिति । यैर्यतिभिः स्वदेहोऽनात्मा शिलादितुलो मर्त्यो मरणशिरस्को विट्कृमिभस्मेव तद्वत्स्मृतः । तमेव स्वात्मसात् स्वाधीनं कृत्वा मत्वैतं देहं श्लाघयन्ति तेऽसत्तमा असुराः । हिशब्दस्तदसत्तमतां२ द्योतयति ॥ ३७ ॥
मन्दनन्दिनी
देहात्मविवेकेन भाव्यमित्यभिप्रेत्य देहं श्लाघयतो निन्दति ॥ यस्येति । षष्ठी प्रथमार्थे । यो देहो वस्तुतो नात्मा कृमिविड्भस्मवद्भवति । स्वार्थे वतिः । कृम्यादिरूपः स्मृतः । तमेव देहं स्वात्मसात्कृत्य । वत्यर्थे सातिः । स्वात्मानमिव कृत्वा ये श्लाघयन्ति तेऽसत्तमा असुरा इत्यर्थः
॥ ३७ ॥
गृहस्थस्य क्रियात्यागो व्रतत्यागो वटोरपि ।
तपस्विनो ग्रामसेवा भिक्षोरिन्द्रियलौल्यता ॥ ३८ ॥
पदरत्नावली
न केवलं यतेराश्रमत्यागे दूषणम् । अपि तु गृहस्थानामपि स्वधर्मत्यागे दोषः स्यादित्याह– गृहस्थस्येति ॥ यत्यादेः कस्य धर्मस्य त्यागे दोषः स्यादित्यतो वाऽऽह– गृहस्थस्येति ॥ वटोर्ब्रह्मचारिणः ॥ ३८ ॥
सत्यधर्मीया
यतेरेव स्वाश्रमत्यागो दोषावह इति न किन्तु गृहस्थादीनामपीति तैः सह स्वस्याश्रमत्यागोऽपि तथेति यतिमपि गृहीत्वा पुनः कथयति ॥ गृहस्थस्येति । क्रियात्यागः स्वविहित-कर्माकरणम् । वटोर्व्रतत्यागो गुरुकुलवासस्वाध्यायादित्यागस्तपस्विनो वनगस्य पुनर्ग्रामसेवा भिक्षोर्यते-रिन्द्रियलौल्यता । स्वार्थे ष्यञ् । विषयभोगचञ्चलता ॥ ३८ ॥
मन्दनन्दिनी
चतुराश्रमिणो नियमत्यागे उपेक्षेत नाद्रियेतेत्याह ॥ गृहस्थस्येति श्लोकद्वयेन । क्रियात्याग औपासनाग्निहोत्रत्यागः । व्रतत्यागोऽग्निकार्यवेदाध्ययनादित्यागः । तपस्विनो वानप्रस्थ-स्येन्द्रियाणां लौल्यं विषयलोलुपत्वं तस्य भावः ॥ ३८ ॥
आश्रमापसदा ह्येते खल्वाश्रमविडम्बिनः ।
देवमायाविमूढांस्तानुपेक्षेतानुकम्पया ॥ ३९ ॥
पदरत्नावली
यदि गृहस्थादीनां क्रियात्यागादयः सन्ति तर्ह्येते आश्रमापसदा हीत्यन्वयः । नन्वेतावताऽपि फलं स्यात् किम् ? नेत्याह– खल्विति ॥ आश्रमान् विडम्बयन्ति अनुकुर्वन्तीत्याश्र-मविडम्बिनः खलु । आश्रमफलाहेतुत्वादित्यर्थः । निषेधवाक्यालङ्कारादौ खलुशब्दप्रयोगात् । न चैते पुण्याशया मान्या इत्याह– देवेति ॥ अहो भगवन्महिमेति भगवद्विषयैवानुकम्पा प्रेमविशेषः ॥ ३९ ॥
सत्यधर्मीया
एते प्रागुदीरितगुणका गृहस्थादय आश्रमापसदाः । ‘‘निहीनोऽपसदो जाल्म’’ इत्यमरः । आश्रमाधमास्तद्दूषका इत्यर्थः । खलु । तत्तदाश्रमप्राप्यं खं सुखं लुनन्ति छिन्दन्तीति खलवस्ते च त आश्रमविडम्बनाः । खलु यद्विडम्बनं यथा भवति तथेति वाऽऽश्रमविडम्बनाः । आश्रमं श्रान्तिं सोढ्वाऽपि वृथा प्रथायै विडम्बयन्त्यनुकुर्वन्तीति ते तथा । श्रम एव हि केवलमित्यादि-प्रसिद्धोऽयमर्थ इति हिराह । अनेनाश्रमापसदखल्वाश्रमविडम्बनपदयोरार्थिकपुनर्वचनभीस्त्याजितेति ज्ञेयम् । न तान्नगृहमानयेन्मानयेच्चेत्याह ॥ देवमायेति । देवस्य वासुदेवस्य मायया बन्धकशक्त्या विमूढांस्तानाश्रमापसदान् । पूर्वस्मात्खल्विति पदमाकृष्य तस्य चानुकम्पपदेनान्वयः । समस्तस्याप्याकर्षः शब्दानुशासनपदान्तर्गतशब्दशब्दस्य महाभाष्ये दृष्ट इति नापूर्वता । अनुकम्पया कृपया खलु विना उपेक्षेतोपेक्षां तनुयात् ॥ ३९ ॥
मन्दनन्दिनी
एते आश्रमापसदा आश्रमाभासा आश्रमान्विडम्बयन्त्यनुकुर्वन्तीत्याश्रम विडम्बनाः । वेषधारिण इति यावत् । भगवदिच्छया विमूढांस्तांश्चतुराश्रमापसदान्कृपया वृथा नश्यन्तीति शोकेनावैक्षत् ॥ ३९ ॥
आत्मानं चेद् विजानीयादेवं ज्ञानधृताशयः ।
किमिच्छन् कस्य वा हेतोर्देहं पुष्णाति लम्पटः ॥ ४० ॥
पदरत्नावली
यतः स्वधर्मत्यागी निन्द्योऽतो विहितातिरेकेण देहपोेषो न युक्त इत्याह– आत्मानमिति ॥ विवेकज्ञानेन धृताशयः वशीकृतान्तःकरणः पुरुष आत्मानं स्वस्वरूपं परमात्मानं च विजानीयाच् चेत् तर्हि स किं सुखमिच्छन्, कस्य हेतोः सुखस्यार्थे वा लम्पटो रागी इन्द्रियलोलुपो भूत्वा देहं पुष्णातीत्यन्वयः । ‘सुखार्थी वा त्यजेद् विद्यां विद्यार्थी वा सुखं त्यजेत्’ इति वचनात्
॥ ४० ॥
सत्यधर्मीया
उपेक्षेतेति कर्तृत्वेनापेक्षतास्य (कर्तरि षष्ठी) कटाक्षितेन प्रेक्षावतेत्थं शरीरविषये प्रवर्त्यत इत्याह ॥ आत्मानं चेदिति । आत्मानं स्वं परमात्मानं च । एवं हेयत्वेनात्युपादेयत्वेन च जानीयाच्चेत्तर्हि तेन ज्ञानेन धृतः स्थिरोऽचञ्चल इति यावत् । आशयोऽन्तःकरणं यस्य स किमिच्छन् हरीतरमर्थमिच्छन् कस्य वाऽऽपत्यादेर्निमित्तं लम्पटो देहं पुष्णाति पोषयति । लम्पटोऽभिनिवेशी स्यादिति वैजयन्ती । न पोषयतीत्यर्थः ॥ ४० ॥
मन्दनन्दिनी
तमेव स्वात्मसात्कृत्वेति देहपोषकाणामसत्तमत्वमुक्तम् । देहातिरिक्तात्मज्ञानस्य परमात्मज्ञानस्य च सुतरामभावात् । ज्ञानसत्वे तु कथं तं पुष्णीयादित्याह ॥ आत्मानमिति । आत्मानं देहातिरिक्तं जीवम् । परमात्मानं चैवमुक्तध्यानाद्युपायेन गम्यं विजानीयाच्चेज् ज्ञानधृताशयः सम्यग्ज्ञानेन निगृहीतान्तःकरणः किं प्रयोजनमन्विच्छन्नुद्दिशन् कस्य वा हेतोः केन वा निमित्तेन निमित्तकारणहेतुषु सर्वासां प्रायदर्शनमिति षष्ठी । विषयलम्पटो देहं पुष्णाति पुष्णीयात्विति योजना । अविवेकिवद्विवेकी देहं न पुष्णातीति भावः ॥ ४० ॥
आहुः शरीरं रथमिन्द्रियाणि हयानभीषुं मन इन्द्रियेशम् ।
वर्त्मानि मात्रा धिषणां च सूतं सत्वं बृहद्बन्धुरमीशधाम ॥ ४१ ॥
पदरत्नावली
नन्वयं देहो हेयश्चेत् किमनेनार्थ इत्याशङ्क्य महाप्रयोजनमस्त्येवं कृतं चेदित्या-शयेनाह– आहुरिति ॥ अमीषुं प्रग्रहम् । इन्द्रियेशं श्रोत्रादीन्द्रियनेतारम् । मात्रा विषयाः । धिषणा बुद्धिः । ईश्वस्य धाम गृहस्थानीयम् । सत्वम् अन्तःकरणविशेषः ॥ ४१ ॥
सत्यधर्मीया
देह एवं चेन्न हेय इत्यावेदयितुं ‘‘आत्मानं रथिनं विद्धि शरीरं रथमेव च । इन्द्रियाणि हयानाहुर्मनः प्रग्रहमेव च’’ इत्याद्युक्तरथरूपकतया शरीरं निरूपयति ॥ आहुरिति । आहुरिति बहुवचनेन बहुसम्मतिमाह । मनोऽभीषुं प्रग्रहम् । ‘‘मन एव मनुष्याणां कारणं बन्धमोक्षयो’’रित्यादेः । न साधारणं तदित्याह ॥ इन्द्रियेशमितरेन्द्रियेशनशीलमिति । अभीषुः प्रग्रहे रश्माविति षान्तामरः । अत एवाभीशुरिति लेखकप्रमाद इति । ‘‘शषयोः शसयोश्चैव लडयो रलयोरपि । वबयोर्नैव भेदः स्यादि’’त्यादेस्तदभेदाश्रयणेन वा समाधिरवधेयः । ईषगतिहिंसादर्शनेष्विति स्मरणादिषत इतीषुः । इषेत्युर् आदेरिद् अभिगत इषुरभीषुः प्रादिसमासः । मात्राः शब्दाद्या धिषणां सूतं बुद्धिं सारथिम् । सत्त्वमन्तःकरणं बृहन् महद् बन्धुरमुन्नतानतं त्रिवेणुम् । बधबन्धने । मद्गुरादयश्चेति साधुः । बन्धुरं तून्नतानतमित्यमरः । त्रिवेणुः कूबरश्चैव बन्धुरमिति धरणिः । बन्धुरो ये सनीला(डा) इति ऋग्भाष्यटिप्पण्याम् । मन्दिवाशीत्युरच् । बाहुलकादस्मादपीत्युक्तत्वेन मन्दिवाशिमथिचतिच-क्यङ्किभ्य उरजिति मन्द्यादिभ्यो विहित उरचि उणादयो बहुलमिति बहुलग्रहणाद्बधबन्धन इत्यस्मादपि कृत उरचि बन्धुरशब्दो निष्पन्न इत्युक्तेः । कौमुद्यां च मद्गुरादयश्चोरजन्ता निपात्यन्ते । बन्धूरबन्धुरौ स्यातां १नम्रसुन्दरयोरिति रन्तिदेव इत्युक्तेश्च धातुवृत्तौ बन्धुरो बधिरे हंसे त्रिषु स्याद्रम्यनम्रयोरिति पुल्लिङ्गतयाऽपि वैजयन्त्युक्तेस्तत्पक्षे बृहंश्चासौ बन्धुरश्च तमित्यैकपद्यं ज्ञेयम् । ईशधाम हरिमन्दिररूपम् । ईशसृष्टिमिति च स्फुटार्थः पाठः ॥ ४१ ॥
मन्दनन्दिनी
तर्हि शरीरेन्द्रियादीनामुपयोगो नास्ति किमित्यतः सदसतां मोक्षतमःसम्पादन-प्रकारं रथसाम्येनाह कतिपयैः श्लोकैः ॥ आहुरित्यादिभिः । रथिकसामग्रीं दर्शयति । इन्द्रियश्रेष्ठम् । मनो ऽभीषुं प्रग्रहम् । मात्रा विषया वर्त्मानि । धिषणां बुद्धिम् । सूतं सारथिम् । आहुरित्यन्वयः । ईशस्य धाम । सत्त्वमन्तःकरणविशेषं गुणविशेषं वा । बृहद्बन्धुरं मन्नीडम् ॥ ४१ ॥
अक्षं दशप्राणमधर्मधर्मौ चक्रेऽभिमानं रथिनं च जीवम् ।
धनुर्हि तस्य प्रणवं पठन्ति शरं तु जीवं परमेव लक्ष्यम् ॥ ४२ ॥
पदरत्नावली
दशप्राणं प्राणदशकम् । अक्षम्, आहुरिति सर्वत्र योज्यम् । प्राणापानव्यानोदान-समाननागकूर्मकृकलदेवदत्तधनञ्जयनामानो दशप्राणाः । अधर्मधर्मौ पापपुण्यलक्षणे चक्रे शकटपद-स्थानीये । अभिमानम् अहङ्कारलक्षणं जीवं रथिनं पठन्तीत्यन्वयः । शरं तु जीवमित्यत्र तुशब्देन एतत्प्रवृत्तिविशेषभेदं सूचयति न तु स्वरूपभेदम् । ‘प्रणवो धनुः शरो ह्यात्मा’ इति श्रुतेः । ‘अथ देवरथस्तस्य वागुद्धिः’ इति च । परं ब्रह्म ॥ ४२ ॥
सत्यधर्मीया
रथपरिकरैः सह रथिकसाहितीं चाह ॥ अक्षमिति । अक्षं दशप्राणम् । दशानां प्रधानप्राणापानव्यानोदानसमानानां दासानां नागकूर्मकृकलदेवदत्तधनञ्जयानां चेति दशानां प्राणानां समाहारो दशप्राणमधर्मधर्मौ पापपुण्ये चक्रे । अधर्मपुर उदीरणं च तद्भूयिष्ठजनभूयिष्ठतावेदनाय । अभिमानमहन्तावन्तं जीवं रथिनं रथाध्यक्षम् । चक्र इत्याख्यातं च । यत्परं ब्रह्म चक्रे पठन्तीति तदन्वयः । तस्य रथाधिपस्य प्रणवमोङ्कारं धनुः पठन्ति । तमेव जीवं शरं पठन्ति । तुना तस्यैकस्यैव प्रवर्त्यवैशेष्याद्वैशेष्यं द्योतयन्ति । परम्ब्रह्मैव लक्ष्यं प्राप्यस्थानम् । प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमित्यादिश्रुतेः। शरवत्तन्मयो भवेदित्युक्तेस्तल्लग्नचेता भवेदित्यर्थः ॥ ४२ ॥
मन्दनन्दिनी
स्थानीयमधर्मधर्मौ चक्रे । मणीवादित्वात्प्रगृह्यत्वम् । अभिमन्यत इत्यभिमानम् । जीवं रथिनम् । तस्य जीवस्य प्रणवं धनुः । जीवमेव शरम् । लक्ष्यं प्राप्ते निर्मितात् । परं परब्रह्मैव पठन्तीति योजना ॥ ४२ ॥
रागो द्वेषश्च लोभश्च शोकमोहौ भयं मदः ।
मानोऽभिमानो१ऽसूया च माया हिंसा च मत्सरः ॥ ४३ ॥
पदरत्नावली
अस्य रथिनो जेतव्यानाह– राग इत्यादिना ॥ ‘अपूज्ये पूज्यबुद्धिस्तु मानः सद्भिरुदाहृतः’ इति । ‘मानोऽभिमानोऽवज्ञे च परिमाणे च पूजने’ इति च । ‘अभिमानोऽर्थादिदर्पेऽ-ज्ञाने प्रणयहिंसयोः’ इति च । माया कैतवम् ॥ ४३ ॥
सत्यधर्मीया
एतज्जेयानाह ॥ राग इति । रागो रक्तिः । द्वेषः शोकश्च फलालाभादौ । मोहो वैचित्यम् । भयं स्वाधिकारात् । मदः स्वाधमविषयेऽहङ्कृतिः । मानोऽसत्कार्यसत्कारोऽभिमानोऽर्थादि-कृतावलेपविशेषः । ‘‘अपूज्ये पूज्यबुद्धिस्तु मानः सद्भिरुदाहृतः । अभिमानोऽर्थादिदर्पे ज्ञाने प्रणय-हिंसयोः’’ इत्यभिधानम् । अवमान इत्यपि पठन्ति । असूया ईर्ष्या माया कापट््यं हिंसा चौर्यवधादिः । हिंसा चौर्यादिवधयोरिति विश्वः । मत्सरो न मद्वशोऽसाविति चित्ततोदं मात्सर्यमार्याः समुदाहरन्ति
॥ ४३ ॥
मन्दनन्दिनी
रथिनः शत्रूनाह ॥ राग इत्यादिना । मानोऽपूज्ये पूज्यबुद्धिस्तु मानः सद्भिरुदाहृत इत्यभिधानम् । अभिमानोऽहङ्कारः ॥ ४३ ॥
रजः प्रमादः क्षुन्निद्रा शत्रवस्त्वेवमादयः ।
रजस्तमःप्रकृतयः सत्वप्रकृतयः क्वचित् ॥ ४४ ॥
पदरत्नावली
रागादय आन्तरीयाः शत्रवः । बाह्याः शत्रवः सहोदरादयः । आदिशब्देन दुन्दुभ्यादयः सुग्रीववाल्यादयः । ते सर्वे शत्रवो रागादय उपायेन परिहर्तव्या इति शेषः ॥ ४४ ॥
सत्यधर्मीया
रजोऽभिनिवेशः । प्रमादोऽनवधानं मानसस्य । आदिपदेन दम्भादयः । मध्येऽ-ध्वैतध्वंसनं विधाय शरः परं लक्ष्यं गच्छतीति तात्पर्यं ज्ञेयम् । रजस्तमःप्रकृतय उभयसमाहृतस्वभावा-स्तेऽपि शत्रवः । असम्प्रज्ञातसमाधेश्च सत्त्वप्रकृतयः परोपकृत्यादिव्यापारा अपि शत्रवो लब्ध्वावान्तर-लक्ष्यत्वादित्यर्थः । ते च दुर्मिला इति द्योतयितुं क्वचिदिति । तेषां चिद्बाह्यार्थविषयिणी चित् क्वेति वा
॥ ४४ ॥
मन्दनन्दिनी
रजो रक्तिर्विद्यमानेषु । रागस्त्वविद्यमानेच्छा । आदिपदेन दम्भादयः । रागादीनां मध्ये क्वचित्केचिद् रजस्तमप्रकृतयः केचिच्च सत्त्वप्रकृतयः सत्त्वरजस्तम इत्यारभ्य निबध्नन्तीति सत्त्वस्यापि बन्धकत्वोक्तेः । सूक्ष्मसत्त्वस्यैव मोक्षोपयोगित्वात् ॥ ४४ ॥
यावन्नृकायरथमात्मवशोपकल्पं
धत्ते गरिष्ठचरणार्चनया निशातम् ।
ज्ञानासिमच्युतबलं दधदस्तशत्रुः
स्वाराज्यतुष्ट उपशान्त इदं विजह्यात् ॥ ४५ ॥
पदरत्नावली
एवं वर्णनोपयोगमाह– यावदिति ॥ नृकायरथं मनुष्यशरीराख्यरथम् । ‘रथ गतौ’ इति धातोर् ज्ञानसाधनत्वात् तच्छब्दशब्दितम् । यावद् आत्मवशोपकल्पं स्ववशत्वेन कल्पितं धत्ते तावद् गरिष्ठचरणार्चनया महापुरुषश्रीपादपूजनेन निशातं धौतं ज्ञानासिं दधत् । अच्युतो बलं यस्य स तथा । अक्षरीतं बलं यस्य स तथेति वा । अस्तशत्रुर् निरस्तरागादिशत्रुः । स्वाराज्येन ईश्वरेण दृष्टेन तुष्टः विषयालम्बुद्धिमान् उपशान्तः पूर्वस्मादधिक्येनोपात्तभगवन्निष्ठः पुरुष इदं संसाराख्यं हेयत्वेन सर्पनिर्मोकवत् क्लृप्तं वस्तु जह्यादित्यन्वयः ॥ ४५ ॥
सत्यधर्मीया
एवं वर्णनोपयोगं वर्णयति ॥ यावदिति । नृकायरथम् । रथगताविति स्मरणा-त्कायरथस्य रथ्यते ज्ञायतेऽनेनेति ज्ञानसाधनताऽपि सूचिता तस्यैतेनेति ज्ञेयम् । आत्मवशोपकल्प्यम् । कल्प्यत इत्युपकल्पः, आत्मवश इति उपकल्प आत्मवशोपकल्पस्तम् । आत्मवशः स्वाधीन उपकल्पः परिकरो यस्मिन्स इति तं वा । यावद् धत्ते धरति । तावत् । अतिशयेन गुरवो गरिष्ठास्तेषां चरणाः पादास्तेषामर्चनं पूजनं तया निशातमुत्तेजितं ज्ञानासिं तदात्मकं य्वड्गमच्युतबलोऽच्युतो बलं यस्येति तथा । अच्युतं यथा भवति तथा वलते हस्त इति मनसीति च यस्तं ज्ञानासिमिति वा । अच्युतमप्रच्युतं बलं यस्य स वा दधत् । अस्ताः शत्रवो रागाद्या येन स तथा स्वे महिमि्न आराजत इति स्वराट् स एव स्वाराज्यं स्वार्थे ष्यञ् । तेन तुष्टः । स्वाराडिति प्रतीकं धृत्वा स्वः स्वर्गे राजत इति सत्सू द्विषेति क्विपि रोरीति ढ्रलोपदीर्घो जात इति विधाय व्याख्यां स्वेषु स्वेन वाऽऽराजत इति व्यातनोद्भानुः । उपशस्य स्वरूपसुखभिन्नस्य हीनसुखस्यान्तो नाशोऽव्यवहितः सन्निहितो यस्य स तथा । इदम् एवम् । इं कामितं ददातीति तं नृकायरथं विजह्यात् । इदमिति प्रागिष्टदानात्तथेन्दव इत्यृग्भाष्याद्युदाहृत्य वितत्योक्तमनु-सन्धेयम् । ममतात्याग एव तत्त्याग इत्याशयः । निशामज्ञानमातयतीति निशात् तम् । दिवा ज्ञानं समुद्दिष्टं निशाऽज्ञानमुदीर्यत इति बृहद्भाष्योक्तेः । क्विबन्तो वाऽऽकारान्तो वा ॥ ४५ ॥
मन्दनन्दिनी
उक्तरीत्या नृदेहादेर्महोपयोगसत्त्वाद्यदा नृदेहोऽस्ति यदा द्विजत्वं यथा च पङ्क्तीकरणं तदेवं नैजं पदमीक्षितव्यमित्युक्तेर्नृदेहकाल एव मोक्षसाधनं सम्पाद्य संसारं जह्यादित्याह ॥ यावदिति । आत्मवशेन स्वेच्छयोपक्लृप्तं साधनसमर्थं नृकायाख्यं रथं धत्ते तावत्तदैव गरिष्ठचरणाना-मुत्तमगुरूणामर्चनयोपासत्तिपूर्वकश्रवणादिलब्धयोपासनया निशातं तीक्ष्णीकृतं ज्ञानासिना दधदच्युतबलो भगवद्बलोऽप्रच्युतमननलक्षणबलो निरस्तरागादिश्च स्वाराज्येन निश्चितेन मोक्षेण तुष्ट इदं संसारजातं जह्यादिति योजना ॥ ४५ ॥
नो चेत् प्रमत्तमसदिन्द्रियवाजिसूता
नीत्वोत्पथं विषयदस्युषु निक्षिपन्ति ।
ते दस्यवः सहयसूतममुं तमोऽन्धे
संसारकूप उरुमृत्युभये क्षिपन्ति ॥ ४६ ॥
पदरत्नावली
इतोऽन्यथाऽस्य मुक्तिरेव न सेत्स्यतीत्याह– नो चेदिति ॥ नो चेद् इन्द्रियग्राम-मात्मवशं कृत्वा ज्ञानासिना संसारानुच्छेदः शब्दादिविषयाभिलाषश्चेद् यदि तर्हि असन्तोषिता इन्द्रियहयबुद्धिसूताः प्रमत्तं रागान्धीभूतचक्षुषम् अमुं रथिनम् उत्पथम् अशास्त्रमार्गं नीत्वा शब्दादिविषय-लक्षणेषु दस्युषु दुःखाकरेषु चोरेषु निक्षिपन्ति । ते विषयचोराः सहयसूतम् इन्द्रियबुद्धिसहितम् इमं रथम् उरुमृत्युभये तमोलक्षणाज्ञानान्धे चक्षुरविषये संसारकूपे क्षिपन्तीत्यन्वयः ॥ ४६ ॥
सत्यधर्मीया
विपर्यये गतिविपर्यय एवेत्याह ॥ नो चेदिति । असदिन्द्रियवाजिसूता असन्त इन्द्रियवाजिनो हया उत्पथमुन्मार्गं प्रति नीत्वा । उत्पथरथनेमि निमित्तं प्रमत्तमिति । रथिनं विषयदस्युषु शब्दादिचोरेषु निक्षिपन्ति । ते दस्यवश्च सहयसूतमिन्द्रियबुद्धिसहितम् । वोपसर्जनस्येति सहशब्दस्य सभावः । उरुमृत्युभये उरु नानाविधं मृत्युभयं यस्मिन्संसारकूपे तदाह्वयप्रहौ क्षिपन्ति । तस्य मर्यादा नानार्येण पर्यवलोकीत्याह ॥ तमोऽन्ध इति । तमसाऽज्ञानेनान्धयतीत्यन्धे । प्राक् संसारकूपे तदनन्तर-मन्धे तमसि क्षिपन्तीति वा । दस्यवो दस्यन्ति क्षिपन्तीति ते तथा । ‘‘दस्युतस्करमोषका’’ इत्यमरः । दसु उपक्षय इत्यस्माद् यजिमनिशुंधिदसिभ्यो युरिति युप्रत्यये बहुलवचनाद्योरनादेशाभावे दस्युरिति भवति । ते इव । यथा पान्थान्पोथयित्वा गृहीत्वाऽर्थं गर्ते निक्षिपन्ति तथेति सूचयितुं त इत्यनेन पूर्तावपि ते दस्यव इत्याहेति तात्पर्यं ज्ञेयम् । त इत्यस्येवार्थकत्वं तद्वै धनुस्त इषव इति भागवत-तात्पर्यपर्युदीरणेन प्राक्व्याख्यातं ततो मनस्यानेयम् ॥ ४६ ॥
मन्दनन्दिनी
शरीरं रथमिन्द्रियाणीत्युक्तदिशा यावन्नृकायमित्युक्तरीत्या वा । धनुर्ग्रहणेन वा । शत्रुछेदाभावेऽसदिन्द्रियादयस्तमसि संसारकूपे वा पातयन्तीत्याह ॥ नो चेदिति । प्रमत्तं प्रमादशालिनं रथिनमसदिन्द्रियवाजिसूता उत्पथं नीत्वा विषयदस्युषु निक्षिपन्ति । तमोयोग्यं तमोंऽधे नित्यसंसारिणं संसारकूपे ॥ ४६ ॥
प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ।
आवर्तते प्रवृत्तेन निवृत्तेनाश्नुतेऽमृतम् ॥ ४७ ॥
पदरत्नावली
ननु स्वर्गकामो यजेतेत्यादिशक्यार्थश्रवणसमनन्तरं तदुक्तकर्मणि प्रवर्तमानं दुष्प्रापापारसंसारकूपे पातयन्तीति कथमुच्यते ? तस्यापि वैदिकत्वेनाङ्गीकार्यत्वात् । अन्यस्य सर्वधर्म-परित्यागस्यावैदिकस्यापि संसारोच्छेदकत्वं च कथम् ? सर्वधर्मान् परित्यज्येति स्मृतेरिति तत्राह– प्रवृत्तं चेति ॥ चः समुच्चये । द्विविधमित्यनेनात्यन्तभिन्नविषयत्वं दर्शयति । ‘यद्यप्यनेवंविन्महत्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयते’ ‘नारायणोऽसौ परमो विचिन्त्यः’ इत्यादिना वैदिकत्वाच्च ॥ ४७ ॥
सत्यधर्मीया
ननु वेदविहितसवाद्यनुसवनसेवनेन कथमयमुक्तानर्थयुक्तः स्यात्तथा तथा विधनिवृत्तप्रवृत्तौ च संसृत्यपसृतिश्च कथमित्यतः प्रवृत्तवन्निवृत्तमपि वैदिकमिति सर्वं सुघटमित्याह ॥ प्रवृत्तं चेति । प्रवृत्तं निवृत्तं चेति द्विविधं कर्म । इतीत्यनध्याहारे प्रवृत्तं द्विविधं निवृत्तं द्विविधमिति च चतस्रो विधाः प्रसज्येरन् । यथोक्तमेतत्सजातीयस्थले तत्त्वसङ्ख्याव्याख्याने । स्वतन्त्रमस्वतन्त्रं चेतीति-शब्दाध्याहारेण योज्यम् । अन्यथा स्वतन्त्रमस्वतन्त्रं च तत्त्वं प्रत्येकं द्विविधमिति प्रतीतिः स्यादिति । द्वे विधे प्रकारौ यस्य तत् । वैदिकं ज्योतिष्टोमेन स्वर्गकामो यजेत । ‘‘एकान्तानां न कस्यचित् । अर्थे नारायणो देवः सर्वमन्यत्तदर्थकम् । नारायणोऽसौ परमो विचिन्त्य’’ इत्यादिवेदविहितमिति वैदिकम् । तद्द्वन्द्वफले लपति ॥ आवर्तत इति । प्रवृत्तेन कर्मणाऽनुष्ठितेनावर्तते पुनः संसरति । निवृत्तेनामृतं मुख्यामृतं हरिम् । अम् अशब्दवाच्यम् ऋतं शाश्वतस्थितिमन्तं ज्ञानात्मकमिति वा । ‘‘ऋ गताविति धातोस्तु पूर्वावगतवत्सदा । स्थितेर्ब्रह्मर्तम् इत्युक्तमित्युक्तेः । अश्नुते प्राप्नोति ॥ ४७ ॥
मन्दनन्दिनी
संसारमुक्तिकारणकर्माणि विवेचयति ॥ प्रवृत्तमिति । तयोः फलमाह– आवर्तत इति ॥ ४७ ॥
हिंस्रं द्रव्यमयं काम्यमग्निहोत्राद्यशान्तिदम् ।
दर्शश्च पूर्णमासश्च चातुर्मास्यः पशुः पुनः ॥ ४८ ॥
पदरत्नावली
कीदृशं तत् प्रवृत्तं येनानुष्ठितेन पुनरावृत्तिः स्यादिति तत्राह– हिंस्रमित्यादिना ॥ अश्वत्थादिद्रव्यच्छेदनात्मकत्वाद् हिंस्रम् । अशान्तिदं मुक्तिविपरीतफलप्रदम् । हुतं वैश्वदेवम् । प्रहुतं हुत्वा बलिहरणम् ॥ ४८ ॥
सत्यधर्मीया
यत्पुनरावृत्तिहेतुत्वेनोक्तं तत्प्रवृत्तं किंरूपमित्यतो निरूपयति ॥ हिंस्रमिति । द्रव्यमयम् । श्येनादिहिंस्रम् । काम्यं फलोद्देशेन प्रवृत्तम् । सर्वत्र काम्यमिति योग्यविभक्त्यन्तं सदन्वेति । अग्निहोत्रादि । अशान्तिदं न निर्वाणदम् । दर्शोऽमाकर्म । पूर्णमासस्तत्तिथिक्रिया । चातुर्मास्यः पशुश्च यागविशेषौ सुतो ज्योतिष्टोमः ॥ ४८ ॥
मन्दनन्दिनी
इष्टापूर्तिभेदेन प्रवृत्तं द्विविधमित्याह ॥ हिंस्रमिति । द्रव्यमयमजाश्वादिद्रव्य-साध्यम् । हिंस्रं हिंसेति कर्तव्यताकमग्निहोत्रादि दर्शः पूर्णमासश्चातुर्मास्यः पशुर्निरूढपशुः ॥ ४८ ॥
एतदिष्टं प्रवृत्ताख्यं हुतं प्रहुतमेव च ।
पूर्तं सुरालयारामकूपाजीव्यादिलक्षणम् ॥ ४९ ॥
पदरत्नावली
एतद् द्वयमिष्टम् । सुरालयादिविपाकान्ताः पूर्तम् । आजीव्याः सर्वसेव्याः कुट्टिममूला विस्तृतशाखातरवः ॥ ४९ ॥
सत्यधर्मीया
हुतं वैश्वदेवं प्रहुतं बलिहरणमेतदिष्टमित्युच्यते । एतदेवाकाम्यं काम्यं चानभि-निवेशाभिनिवेशाभ्यां भवतीति ज्ञेयम् । पूर्तं च । सुरालयो देवसदननिर्माणम् । आराम उपवनम् । कूपः प्रहिः । आजीव्या मध्येध्वमहीरुहा वा प्रपा वा । एतल्लक्षणं पूर्तमित्युच्यते ॥ ४९ ॥
मन्दनन्दिनी
हुतं वैश्वदेवं प्रहुतं बलिहरणम् । एतदिष्टम् । इदमेव काम्यं चेदिष्टाख्यं प्रवृत्तमुच्यते । तच्चाशान्तिदं मोक्षसाधनं न भवति । आजीव्यं लोकोपकारककुट्टिमादि ॥ ४९ ॥
द्रव्यमूष्मविपाकश्च धूमो रात्रिरपक्षयः ।
अयनं दक्षिणं सोमो दर्श ओषधिवीरुधः ॥ ५० ॥
पदरत्नावली
द्रव्यमूष्मविपाकः पुरोडाशादिद्रव्यजनितापूर्वं फलम् । धूम इत्यादिना धूमादि-शब्दवाच्या देवताश्चात्र गृह्यन्त इति ज्ञातव्यम् । अपक्षयः कृष्णपक्षः । सोमश्चन्द्रः पर्वदर्शशब्देन तत्प्रयुक्तकर्मविशेषः(उच्यते) । अत्र तु तदभिमानिदेवा उच्यन्ते । अनेन मार्गेण गतस्य गतिप्रकारमाह– ओषधीति ॥ पितृयानं गतो ऽम्बुवृष्ट्यादिद्वारेण भुवं प्राप्त ओषध्यादिर्भवति ॥ ५० ॥
सत्यधर्मीया
केन पथा कथं च यात्यायाति च पुनः संसारमित्यत ईरयति ॥ द्रव्येति । द्रव्यस्य चर्वादेः सूक्ष्मो विपाकः कायारम्भकता द्रव्यम् । इतरदुपयोगि ऊष्मविपाकस् तेजोमात्रया हृदयाग्र-प्रद्योतनम् । तथा च श्रुतिः । ‘‘स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्वक्रामति । तस्य हैत-हृदयस्याग्रं प्रद्योतते तेनैष आत्मा निष्क्रामति’’ इत्यादिका । धूमस्तदभिमानी देवः । एवं रात्रिः । अपक्षयः कृष्णपक्षः । सोमश्चन्द्रः । अयनं दक्षिणम् । दर्शो देवताऽत्र । पूर्वत्र तत्तिथिकर्मग्रह इति विवेकः । आगमने प्रकारमाह ॥ ओषधीति । अन्नं रेत इति पितृयानम् । वृष्ट्यादिद्वारा भूमिमाप्त ओषध्यादिर्भवति । ‘‘अग्निर्ज्योतिरहः शुक्लः षष्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः । धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते’’ इत्येतदादि गीताभाष्येऽग्न्यादेरपि वक्ष्यमाणत्वात् । ज्योतिरर्चिः । तेऽर्चिषमभिसम्भवन्तीति हि श्रुतिः । तथा च नारदीय इत्यारभ्य तच्चाह स्कान्दे । ‘‘सृतीर्ज्ञात्वा तु सोपायेऽनुष्ठाय च साधनम् । न कश्चि-न्मोहमाप्नोति न चान्या तत्र वै गतिरि’’त्यन्तेन ग्रन्थेन । तथा कुत इत्यत आह । अग्न्यादेरितीत्या-रभ्यान्यभगवत्प्राप्तेरित्यन्तप्रमेयदीपिकया चात्रानुक्ता ग्राह्या इति ज्ञेयम् । यद्यपि मूले धूमसोम इत्याद्युक्तिसंवादार्थं धूमो रात्रिरित्यादितद्गतिप्रतिपादकांश एव गीताभाष्ये टीकोदितो व्याहर्तव्यः । शुक्लेत्याद्यनावृत्तिगतिप्रतिपादकांशोदाहरणमुत्तरोपयोगितया तत्र साङ्कलित्योक्तेः कृतमिति ज्ञेयम् ॥५०॥
मन्दनन्दिनी
ऊष्मविपाको द्रव्यम् । ऊष्मणा विपच्यमानं ब्राह्मणेभ्यो दीयमानमन्नादि च । पूर्तमेतदपि काम्यं चेत्प्रवृत्तम् । एवमिष्टापूर्ताख्यं प्रवृत्तं संसारावृत्तिदम् । प्रवृत्तकर्मानुष्ठातो मार्गमाह ॥ धूम इति । अपक्षयः कृष्णपक्षो धूमरात्रिकृष्णपक्षदर्शदक्षिणायनाभिमानिनां सोमस्य लोकाः पितृयानम् । अत्राभ्रमेघादिकमपि ग्राह्यम् । ओषधिवीरुधान्नरेतश्च पुनर्भव ओषधिवीरुत्सु वा प्रविश्यान्नं रेतो द्वारा जायत इति भावः ॥ ५० ॥
अन्नं रेत इति क्ष्मेश पितृयानं पुनर्भवः ।
एकैकश्येनानुपूर्व्याद् भूत्वा भूत्वेह जायते ॥ ५१ ॥
पदरत्नावली
अन्नरूपेण पितरं प्रविश्य रेतोरूपेण मातरं चेति पुनःपुनर्भवतीति पुनर्भवः, स्यादिति शेषः । न केवलमोषध्यादिभावोऽस्य किन्तु धूमादिभावोऽप्यस्तीति विशदयति– एकैक-स्येति ॥ अत्र आनुपूर्व्यात् क्रमात् । ‘अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति’ इत्युपक्रम्य ‘यो यो ह्यन्नमत्ति यो वा रेतः सिञ्चति तद्रूप एव भवति’ इत्यनेनायमर्थः प्रपञ्च्यते ॥ ५१ ॥
सत्यधर्मीया
पुनर्भवः पुनर्भावयत्येनमिति स तथा । एकैकश्येनेत्यखण्डमव्ययम् । एकैकशः । एकैकभावप्राप्त्यानुपूर्व्यात् । भूत्वा भूत्वा धूमाद्यात्मना । इह भूमौ जायते । अथ य इमे इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्तीत्युपक्रम्य यो योऽन्नमत्ति यो रेतः सिञ्चति तद्रूप एव भवतीत्यादिना प्रपञ्चितानुपूर्व्यनुसन्धेया । विस्तरस्तु ‘‘तद्य इत्थं विदुर्ये चेमे’’ इत्यारभ्य छान्दोग्यपञ्चमप्रपाठके तथा तद्भाष्य उक्तोऽनुसन्धेयः । निषेकादिस्मशानान्ता रेतःसेकमारभ्य स्मशानस्थानस्थितिपर्यन्तैः संस्कारैः संस्कृतः सम्पन्न इत्येवार्थः । द्विजः । जायत इति पूर्वेणान्वयः ॥ ५१ ॥
मन्दनन्दिनी
एकैकस्य धूमादेः स्थानमानुपूर्व्याद्भूत्वा पुनः पुनः प्राप्येह मनुष्यलोके जायते । आनुपूर्व्यं च न गतिक्रमानुसारेण गताविति मन्तव्यम् । यथेतमनेवं चेति सूत्राद्धूमादभ्रमभ्रादाकाशमिति गतिश्रुतेः । धूमो भूत्वाऽभ्रं भवतीत्यागतिश्रुतेश्च ॥ ५१ ॥
निषेकादिश्मशानान्तैः संस्कारैः संस्कृतो द्विजः ।
इन्द्रियेषु क्रियायज्ञान् ज्ञानदीपेषु जुह्वति ॥ ५२ ॥
इन्द्रियाणि मनस्येवं वाचि वैकारिकं मनः ।
तां तु वर्णसमाम्नाये तमोङ्कारे स्वरे न्यसेत् ॥ ५३ ॥
ओङ्कारं बिन्दुनादे तु तं तु प्राणे महत्यमुम् ।
तात्पर्यम्
‘यज्ञाभिमानिनो देवान्स्मरन्तीन्द्रियमानिनाम् । वशगांस्तान्मनोमानि-सुरेन्द्रस्य वशे स्थितान् । वेदात्मिकायाः पार्वत्यास्तां रुद्रस्य वशे स्थिताम् । वर्णत्रयात्मकं रुद्रं शेषे तु प्रणवात्मके । बिन्दुरूपसरस्वत्यां तं तां तस्यां पुनर्न्यसेत् । मूलस्थानादरूपायां तां वायौ तं जनार्दने । प्रकृतावथ वा प्राणं तामेव पुरुषोत्तम’ इति ब्रह्मतर्के ॥ ५२ ॥
पदरत्नावली
अत्र च ‘तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन् ब्राह्मणयोनिं वा’ इत्यादेरभिप्रायं दर्शयति– निषेकादीति ॥ निषेको रेतःसेकः । अनेनापि पुनर्भव इत्यस्य भावो विवृत इति ज्ञायते । देवयानापरपर्यायार्चिरादिमार्गाभिमानिदेवचक्रं वदिष्यन् तन्मार्गगता-वित्थम्भूतसाधनमाह– इन्द्रियेष्विति ॥ क्रियायज्ञान् क्रियात्मकयज्ञाभिमानिदेवान् ज्ञानं दीपयन्ति जनयन्तीति ज्ञानदीपानि । ज्ञानमेव दीपो येषां तानि तथा तेषु इन्द्रियेषु इन्द्रियाभिमानिदेवेषु जुह्वति । हवनं नाम तत्तद्वशत्वेन स्मरणम् । तदुक्तम्– ‘यज्ञाभिमानिनो देवान् स्मरन्तीन्द्रियमानिनाम् । वशगान् तान् मनोमानिसुरेन्द्रस्य वशे स्थितान् । वेदात्मिकायाः पार्वत्यास्तं तां रुद्रवशे स्थिताम् । वर्णत्रयात्मकं रुद्रं शेपे तु प्रणवात्मके । बिन्दुरूपसरस्वत्यां तं तां तस्यां पुनर्न्यसेत् । मूलस्थानादरूपायां तां वायौ तं जनार्दने । प्रकृत्यामथवा प्राणं तामेव पुरुषोत्तमे ॥’ इति ॥
इन्द्रियाणि तदभिमानिदेवान् मनसि मनोऽभिमानीन्द्रवशे, एवं पूर्ववत् स्मरन्तीति शेषः । विशिष्टाकारपराक्रमलक्षणं कर्माऽस्यास्तीति वैकारिकं मनोऽभिमानिनमिन्द्रं वाचि वेदाभिमानिन्यां पार्वत्याम् । तामुमां वर्णसमाम्नाये पदवर्णस्वरक्रमाणां सम्यगाम्नायः सम्प्रदायो ऽनन्यथापाठलक्षणो यस्मिन् स तथा । अकारोकारमकाराणां त्रयाणां वर्णानां समाम्नायः मेलनं यस्मिन् ओङ्कारे स तथा तस्मिन् तदभिमानिनि रुद्रे, स्थितामिति शेषः । तुशब्देन भार्याभर्तृभावं पूर्वस्माद् विशिनष्टि । तं रुद्रम् ओङ्काराभिमानिनि, स्वं परमात्मानं रमयतीति स्वरः शेषस् तस्मिन् स्थितं न्यसेत् । मनस्तद्विषयं करोति । तमोङ्कारं शेषं बिन्दुनादे बिन्दुनादरूपसरस्वत्यां तदाधारत्वेन स्थितम् । तुशब्देन पूर्वयोरेकत्रत्वम् अत्र स्वस्वामिभावं सूचयति । तां बिन्दुरूपां मूलाधारस्थनादरूपायां प्रकृतिनाम््नयां सरस्वत्यामेकीभूय । स्थितिशब्देन तयोरेकत्वं दर्शयति । तं तां नादरूपां प्राणे प्रकृष्टानन्दरूपे वायौ स्थिताम् । अत्रापि तुना भार्याभर्तृभावमाह । अमुं वायुं महति जनार्दने स्थितं स्मरेत् । अथवा प्राणनामानं वायुं प्रधाने प्रकृतिशब्दवाच्ये स्थितम् । अमुम् अक्षरं प्रकृतिनामानं महति पुरुषोत्तमे स्थितमिति महतीति शब्दो द्विरावृत्या व्याख्येयः । एतत् सर्वं ‘बिन्दुरूपसरस्वत्यां तं तां तस्यां पुनर्न्यसेत्’ इत्यादिपूर्वोक्तेन मानेन सविस्तरमुक्तम् ॥ ५२,५३ ॥
सत्यधर्मीया
इन्द्रियेषु क्रियायज्ञानित्यादिश्लोकद्विके ज्योतिष्टोमादीनामिन्द्रियेषु होम उच्यते । स दुश्शकः । तथा वागादीनामोङ्कारेषु स्थापनमुच्यते । एतदपि तथेत्यतो होमन्यासपदार्थं मानेनोक्त्वा तच्छङ्कां परिहरन् इन्द्रियादिपदानि न जडपराणीत्याह ॥ यज्ञाभिमानिन इति । इन्द्रियाभिमानिनां तदभिमानवतां वशगांस्तानिन्द्रियाभिमानिनः । मनोमानी यः सुरेन्द्र इन्द्रस्तस्य वशे स्थितान् । वेदात्मिकायाः पार्वत्यास्तमिंद्रं तद्वशे स्थितम् । तामुमां रुद्रवशे स्थिताम् । पृथक् पृथगकारोकार-मकाररूपवर्णत्रयात्मकं रुद्रं प्रणवात्मके । एतत्संश्लिष्टोङ्काररूपे शेषे । बिन्दुरूपा या सरस्वती तस्या एव नादात्मकत्वं ज्ञेयम् । मूलरूपेण तिष्ठतीति सा च सा नादरूपा च । तस्यां बिन्द्वन्तर्गतं सरस्वत्यंशं मूलनादान्तर्गततदंशिसरस्वत्यामिति बिन्दुनादयोरेकैवाभिमानिनीति । तस्यां तं शेषम् । अत एव पुन-रित्युक्तिः । तां सरस्वतीं वायौ तं वायुं जनार्दने । विशेषमप्याह ॥ प्रकृताविति । प्रकृतौ प्राणं तां प्रकृतिं पुरुषोत्तमे । वायुर्हि ब्रह्मा भारती सरस्वती वायुः स एव सा च सैवेति लयचिन्तनमेवेदम् । उमागिरीशेत्यादिरीत्या प्रतिनामग्रहणं ग्रहणं चेन्द्रियाभिमानिनां मानिकानां तदधीनतामात्रवेदनमन्तर्गत-भागवतभगवद्रूपाणामैक्यैकानुसन्धानं ज्ञानेन्द्रियग्रहणाद्रुद्रस्य शेषे लयोक्तेः पार्वतीशर्वावस्थितयोश्च तद-सम्भवादिति द्वे दर्शने व्यवस्थाभेदेनानुकूले इति ज्ञेयम् । वायुपक्षे आह ॥ प्रकृताविति । अथवाऽयं पक्षो व्यवस्थितः । विलीनः प्रकृतौ संसारमेति विलीनः परमे ह्यमृतत्वमेतीति श्रुतेरिति कुर्वते व्याख्याम् ॥
ततश्च सार्धं सार्धं श्लोकद्विकार्थः ॥ प्रवृत्तं च निवृत्तं चेति प्राक् प्रवृत्तं तत्प्राप्यफलं तेन च पुनरावृत्तिं चोक्त्वा निवृत्तं तत्प्राप्यदेवयानापरपर्यायार्चिरादिना तत्प्रथितेरित्याद्युक्तमार्गाभिमतिमद्देवक्रमं वक्तुमुत्कमनस्कस् तन्मार्गानर्गलसाधनं बोधयति ॥ इन्द्रियेष्विति । क्रियायज्ञान् क्रिया ज्योतिष्टो-मादिस्तत्र स्थित्वा इज्यन्त इति ते तदभिमानिनो देवान् इंद्रियेषु जुह्वति तदभिमानिनिघ्नतास्मृतिर्हवनं तत्कुर्वन्तीत्यर्थः । तत्र तु प्रसिद्धो वीतिहोत्रो होमधामाऽत्रक इत्यतस्तेषामिंद्रियाणामेव तत्कर्म-कारितेतीरयति ॥ ज्ञानदीपेष्विति । ज्ञानं दीपयंति स्वरूपमुद्दीपयंति यद् वृत्तिरूपमसज् जनयन्तीति तानि तथा तेषु । इंद्रियाणि तदभिमानिनोऽनिमिषान्मनसि तदभिमानिनीन्द्रे । वैकारिकं विविधाकार-कल्पकत्वाद्वैकारिकं मन इन्द्रम् । वाचि वेदात्मिकोमायाम् । तां वाचमुमां वर्णसमाम्नाये । त्रयो वर्णा व्यजायन्त । अकारोकारमकार इति श्रुतिशंसितकेवलवर्णत्रये । यथा व्यक्तिपाठः समाम्नायस् तस्मिन् रुद्रे । तं रुद्रमोङ्कारेऽविश्लिष्टमोङ्कारे शेषे । तुशब्दस्तु वाग्वर्णसमाम्नायार्थभवानीभवयोर्भार्याभर्तृभावं तथाऽहिभूषणाहिपयोः समतायां मतायामपि तत्त्वेन मुक्तिरिति विशेषं च सूचयति । तमोङ्कारं शेषं बिन्दुनादे । यद्यपि नादो वर्णः पृथगित्यष्टवर्णात्मकतां घटयितुं कर्मनिर्णयटीकायामुक्तस्तथाऽप्य-त्रैकाभिमानिकत्वोपाधिना तात्पर्ये बिन्दुरूपसरस्वत्यां मूलस्थनादरूपतायामिति चोक्तमिति ज्ञेयम् । तन्त्रसारे च विश्वतैजसप्राज्ञतुर्यात्माऽन्तरात्मपरमात्मज्ञानात्मकानां ‘‘कृष्णो रामो नृसिंहश्च वराहो विष्णुरेव च । परं ज्योतिः परं ब्रह्म वासुदेव इति क्रमात् । अकारादेस्तथा शान्तातिशान्तादेश्च देवता इति प्रणवकल्पे च कृष्णादीनां च मुख्यानभिमानिदेवतात्वोक्तेरत्राभिमानिदेवतोक्तिरिति तु र्विशेषसूचक इति ज्ञेयम् । बिन्दौ सरस्वत्याम् । नादे तद्रूपभारत्यामेकीभूय स्थितिम् । अत एव बिन्दुरूपेत्युक्तिः । तन्नादं तदभिमानिनीं सरस्वतीं भारतीं च स्वरे । सोऽपि स्वरतेः स्वर इति वरुणः स्वर इति तैत्तिरीयोपनिषद्भाष्योक्तेर् हरिः स्यान्न स्यादिति वक्तुं प्राण इति । उष्णोऽसौ स्वर इत्याचक्षते । प्राणः स्वर इति छान्दोग्यभाष्ये ‘‘स्वरतेस्तु स्वरो विष्णुस्तद्रतेर्वायुरुच्यते । वायुं स्वरेश्वरं विष्णुमोमाख्यं समुपासिरे । स्वे विष्णौ रमयत्येनं जीवं तस्मात्स्वरः स्मृत’’ इत्युक्तेः । केशवः स्वः स्वतन्त्रत्वा-त्तद्रतेर्मारुतः स्वरः । स एनान्ब्रह्म गमयतीति श्रुतेः । मुख्यामृतामृततावत्स्वरसस्वरतास्वरता च हरिसमीरयोर्ज्ञेया । अनेनोत्कृष्य स्वरशब्दस्य प्राणपदसामानाधिकरण्येनान्वयेन पूर्वमोङ्कार इत्यनेनैव प्रकृतपर्यवसितौ स्वर इत्यतिरिच्यत इति शङ्कनं सङ्कोचितमिति ज्ञेयम् । महति परमात्मन्यमुं प्राणमोङ्कारं शेषं बिन्दौ सरस्वत्यां तं नादे भारत्यां तां स्वरे वायावमुं वायुं महति ब्रह्मणि तं महतीत्यावृत्त्याऽक्षरपुरुषे श्रीतत्त्वेऽमुं पुरुषं प्राणे स्वरे वा विष्णौ न्यसेदिति योजयन्ति । तां वायाविति मानिकवायुपदेन छान्दोग्यभाष्यगवायुपदानुकाररूपेण स्वर इत्यस्यायोजनेन चोत्कृष्य योजनाऽऽचार्यवर्यसम्मतेति सन्तोष्टव्यम् ॥ ५२,५३ ॥
मन्दनन्दिनी
आवर्तते प्रवर्तते इति पुनः पुनरावृत्तिरुक्ता । तस्याः पुनः पुनर्गतिसापेक्षत्वा-द्गतिसाधनसंस्कारानाह ॥ निषेकेति । निषेको गर्भाधानम् । स्मशानोऽन्त्यक्रिया । एवं षोडश-संस्कारैर्युतो द्विजस्त्रिवर्णः प्रवृत्तं कुरुते । तेन पुनर्गच्छति पुनरागच्छतीत्यपर्यवसानं प्रवृत्तकारिण इत्यर्थः । अत एव तद्य इह रमणीयचरणा अभ्यासो ह यते रमणीयां योनिमापद्यन्त इति । पुनः कर्म कुरुते पुनरागच्छतीति च श्रुतिः । निवृत्तेनाश्नुतेऽमृतमित्युक्तम् । तत्रार्चिरादिमार्गस्मृतिसहकारिणीति तन्मार्गं वक्तुं तत्पूर्वभाविलयचिन्तनप्रकारमाह ॥ इन्द्रियेष्विति । क्रिया यज्ञान् क्रियात्मकयज्ञाभिमानिनो देवान् ज्ञानदीपेष्विंद्रियेषु ज्ञानं दीपयन्तीति ज्ञानकरणेन्द्रियाभिमानिषु जुह्वति तद्द्वशत्वेन स्मरन्ति ॥
एवमिन्द्रियाणि तदभिमानो मनसि तदभिमानिनि सुरेन्द्रे वैकारिकं मनः । वैकारिकत्वोक्त्या तैजसेन्द्रियेभ्यो वैलक्षण्यं सूचितम् । मनस्तदभिमानिनं सुरेन्द्रं वाचि । वेदाभिमानिन्यां पार्वत्याम् । तां वर्णसमाम्नाये अकारोकारमकारलक्षणप्रणवायवाभिमानिनि रुद्रे । ॐकारे स्वरे एकदा सम्भूतोंकाराभि-मानि शेषे । अकारोकारमकार इति तानेकधा समभवत्तदेतत्तदोमिति श्रुतेः । न्यसेद्वशगत्वेन चिन्तयेत् । अनेन जुव्हति वशगत्वेन चिन्तयन्ति ज्ञानिनोऽत उत्क्रमिष्यमाणोऽपि न्यसेत् । वशगत्वेन चिन्तयेदिति सर्वत्र पदद्वयमन्वेतीति सूचयति ॥
ॐकारं तदभिमानिनं शेषं बिन्दु । सप्तम्याः सुपां सुलुगिति लुक् । बिन्दौ तदभिमानिना तदभिमानिन्याः सरस्वत्याम् । तां नादे मूलस्थानादभिमानिन्यां सरस्वत्यामेव । अत्र बिन्दुशब्दे विभक्तिलोपो मध्ये तमध्याहारः सरस्वत्या एवोभयमानित्वं तत्रापि नादाभिमानिन्यो जनकत्वमित्यादिकं वक्ष्यमाणतात्पर्यतो गम्यते । तं च । नादशब्दस्य पुल्लिङ्गत्वात्तमिति निर्देशः । नादाभिमानिनीं सरस्वतीं प्राणे ब्रह्मणि । अमुं ब्रह्माणं महति परमात्मनि । प्राणशब्देन मुख्यवायोर्ग्रहणे तु बिन्दुनादोभय-मानिनीरूपयोः । महतीत्यस्यावृत्तिः । आद्यस्य लक्ष्म्यामिति । द्वितीयस्य परब्रह्मणीति अर्थोऽनु-सन्धेयः । तदेत्सर्वमभिप्रेत्य तात्पर्यम् ॥ यज्ञाभिमानिन इत्यादि । वायौ ब्रह्मणि मुख्यप्राणस्य ग्रहण-पक्षेत्वाह प्रकृताविति । प्रकृतौ लक्ष्म्यां जयाख्यायां तामेव तद्वारेत्यर्थः । पुरुषोत्तमे सङ्कर्षणाख्य इत्यर्थः
॥ ५२, ५३ ॥
अग्निः सूर्यो दिवा वायुः शुक्लो राकोत्तरः१ स्वराट् ॥ ५४ ॥
तात्पर्यम्
स्वराडिन्द्रः ॥ ५४ ॥
पदरत्नावली
इदानीमर्चिरादिमार्गे देहादुत्क्रान्तस्य ज्ञानिनः प्राप्यान् देवानाह– अग्निरिति ॥ दिवा दिवसाभिमानी । शुक्लः शुक्लपक्षाभिमानी । राका पूर्णमास्याभिमानिनी । उत्तर उत्तरायणाभि-मानिनी । स्वराड् इन्द्रः ॥ ५४ ॥
सत्यधर्मीया
अर्चिरादिना गच्छतः प्राप्यान् देवान्प्रतिपादयति । श्लोके स्वराट्शब्दः स्वेनैव राजत इति व्युत्पत्त्या हरिपर इतीन्द्रपरत्वे च स्वरानमुचिसूदन इत्यमरामरसुधायां स्वः स्वर्गस्य राडधिप इति रोरीति दीर्घे स्वाराडिति । स्वेषु देवेष्वाराजत इत्युभयथाऽपि स्वाराडित्युक्तेरत्र तथाऽनुक्ते-स्तत्प्रसक्तिरपि नास्तीत्यतस्तदनुवादपूर्वकं व्याकरोति ॥ स्वराडिति । स्वराडिन्द्रः । अमरः स्वराडिति सुपाठस्तत्र स्वः स्वर्गे आ अटतीति स्वराट् । क्विबटतेः सम्यक्त्वमाङर्थः । तच्चाधिपत्येनेत्युपपत्तिरिति ज्ञेयम् ॥ ततश्चायं मूलार्थः ॥ अग्निः सूर्यश्च दिवा दिवसाभिमानी । शुक्लः शुक्लपक्षाभिमानी । राका पूर्णमास्यभिमानी । उत्तरमुत्तरायणाभिमानी । स्वराडिन्द्रः ॥ ५४ ॥
मन्दनन्दिनी
अर्चिरादिमार्गमाह ॥ अग्निरिति । अग्निर्ज्योतिरिति द्वेधाऽर्चिर्ल्लोके सम्प्रतिष्ठि-तोऽग्निः क्रमेण प्राप्यस्ततो वायुरातिवाहिकस्ततोऽभिजित्ततो दिवा ततः शुक्लस्ततो राका तत उत्तरस्ततः संवत्सरतटिद्वरुण प्रजायाः क्रमेण ग्राह्याः । ततः सूर्यस्ततोऽनन्तरं सोमवैश्वानरौ ततः स्वराण्णामेन्द्रः । अत्र तात्पर्यम् ॥ स्वराडिन्द्र इति ॥ ५४ ॥
विश्वोऽथ तैजसः प्राज्ञस्तुर्य आत्मा समन्वयः ।
देवयानमिदं प्राहुर्भूत्वा भूत्वाऽनुपूर्वशः ।
आत्मयाज्युपशान्तात्मा ह्यात्मस्थो न निवर्तते ॥ ५५ ॥
तात्पर्यम्
‘विश्वाद्या अनिरुद्धाद्यास्ते द्विधा सम्प्रकीर्तिताः । विष्णुरूपास्तदन्ये च तान्सर्वान्याति मोक्षगः । तदन्ये च दिवस्पुत्राः सर्वे च द्युसमीपगाः । ते दिवं प्रापयन्त्येनं सा वायुं स हरिं पृथक् । विश्वादिरूपं तुर्य(स्तु)श्च वासुदेवश्च नापर’ इति च । अधिको भूत्वा सुखादिभिः ॥ ५५ ॥
पदरत्नावली
अत्र न केवलमग्न्यादय एव प्राप्याः । अपि तु विश्वाद्या अनिरुद्धाद्या भगवतो मूर्तिविशेषश्च प्राप्या इत्याशयेनाह– विश्व इति ॥ अथशब्देनानिरुद्धादिग्रहणम् । तेषामुभयेषां विष्णुरूपत्वं सूचयति । ‘विश्वाद्या अनिरुद्धाद्यास्ते द्विधा सम्प्रकीर्तिताः । विष्णुरूपास्तदन्ये च तान् सर्वान् याति मोक्षगः ॥’ इति वचनात् । किञ्चान्ये च दिवस्पुत्रास् तन्निकटवर्तिनः सन्ति । तेऽप्यथ-शब्देन सूचिताः । ‘तदन्ये च दिवस्पुत्राः सर्वे च द्युसमीपगाः । ते दिवं प्रापयन्त्येनं सवायुं स हरिं पृथक् ॥ विश्वादिरूपं तुर्यश्च वासुदेवश्च नापरः ॥’ इत्युक्तेः । गतिक्रमोऽप्यनेन ज्ञातव्यः । न परं विश्वादिकमेवाप्तव्यम् । किन्तु तन्मूलरूपो हरिराप्तव्य इत्याह– आत्मेति ॥ आत्मा विश्वादिरूपो हरिः। सम्यगन्वीयतेऽनेन ज्ञानेनेति समन्वयः । तदुक्तम्– ‘सहरिं पृथक् । विश्वादिरूपो ।’ इति । वासुदेवस् तुर्यादन्यो नेत्याह– तुर्य इति ॥ तुर्य आत्मा वासुदेवः । ‘अत सातत्यगमने’ इति धातोः । सततगमनं व्याप्तिः । ‘यश्चास्य सन्ततो भावः’ इति स्मृतेः सर्वत्र वसनशीलत्वात्, क्रीडारूपत्वात्, जपाकुसुमा-द्युपाध्यनाविद्धस्फटिकवन्निर्मलज्ञानरूपत्वाद्वासुदेवः । ‘शुद्धस्फटिकसंकाशं वासुदेवं निरञ्जनम्’ इति स्मृतिः । ‘ऐकात्म्यप्रत्ययसारं प्रपञ्चोपशमं शिवम् । औतं तुर्यं मन्यन्ते स आत्मा स विज्ञेयः’ इति श्रुतेः । ‘तुर्यश्च वासुदेवश्च नापरः’ इति च । किञ्च मार्गस्थानां सर्वेषां देवानामपि परमात्मनि समन्वयोऽस्तीति ज्ञापनाय समन्वय इत्युक्तम् । एतस्य नाम निर्दिशति– देवयानमिति ॥ संवत्सरो वै प्रजापतिः । तस्यायने दक्षिणं चोत्तरं च’ इत्यारभ्य ‘एतस्मान्न पुनरावर्तन्त इत्येष निरोधः’ इत्यन्तं वेदान्ताः प्राहुरित्यन्वयः । अस्य फलमाह– भूत्वेति ॥ अनुपूर्वशः क्रमेणोपर्युपरि सुखादिभिरधिको भूत्वा आत्मस्थः मुक्तः न निवर्तत इत्यन्वयः कुतः ? ‘आत्मयाजी’ परमात्मपूजकत्वात् । पुनरा-वृत्तीच्छाऽपि तस्य नास्तीति भावेनाह– उपशान्तेति ॥ पूर्णानन्दस्वरूपः । धूमादिमार्गवदस्यापि पुनरावृत्तिभीरस्ति किमित्यतो भूत्वेति ॥ ५५ ॥
सत्यधर्मीया
नन्वस्मिन् श्लोके इन्द्रप्राप्यनन्तरं विश्वादिविश्वेशप्राप्तिरुच्यते । सा न साधुः । सोमं वैश्वानरं चेन्द्रं ध्रुवं देवीं तथेति ब्रह्मतर्कवाक्ये ध्रुवादिप्राप्तिसमनन्तरं हरिप्राप्तेरुक्तत्वेन तद्विरोधा-दित्यतो मानेनैव विवक्षितमर्थं दिदर्शयिषुरादौ विरोधं बाधते ॥ विश्वाद्या इति । आत्मसमन्वय इत्यस्यार्थोऽनिरुद्धाद्या इति । सम्यगन्वयोऽनिरोधेन सर्वव्यापनम् । अनिरुद्धसमन्वयपदयोरनति-भिन्नार्थत्वात्तदात्मा भगवान्वासुदेवः । सर्वत्र वसतीति वासुर् देवो गत्यर्थावगत्यर्थतादृष्टेर्ज्ञातेति स चासौ देवश्च । आततत्वादात् । प्रमातृत्वं मन्प्रत्ययार्थः । तथा च समार्थतात्मवासुदेवपदयोरित्यात्मा वासुदेवः । विश्वाद्यास्त्रयोऽनिरुद्धाद्यास्त्रयो द्विधा प्रकारद्वयोपेताः । एतत्सम्भवस्तु प्राचि विकोचितोऽनु-सन्धेयः । तद्द्वैविध्यमेव दर्शयति । विष्णुरूपास्तदन्ये तदितरे चेति । मोक्षगः सन्निहितमुक्तिगामी ।
१. तान्सर्वान्याति अन्ये किं जाता इत्यत आह । दिवस्पुत्रा भारतीसुतास्ते च सर्वे द्युसमीपगाः । पृथगेषां लोकाभावात्सरस्वतीसमीपगत्वं तेषां मार्गपादे पुरान्तराभावस्य निर्णयनात् । तटिदभिमतिमन्त इन्द्रादनन्तरं तटितोभावात् । इन्द्रप्राप्त्यनन्तरं विश्वादिकमनिरुद्धादिकं जीवजातं प्राप्यं ततो द्यौर्वायुश्चाप्यौ विद्युत्पतिर्वायुरेव नयेद्ब्रह्म न चापर’’ इत्युक्तेः । ततश्च विश्वादयोऽनिरुद्धाश्चेति भगवान्प्राप्यः । ते दिवस्पुत्रा दिवं स्वप्रसुवं सरस्वतीं सा द्यौर्वायुं स वायुरेनम् आप्तमधिकारिणं हरिं पृथक् प्रापयति । विश्वादिरूपं निजं भगवन्तम् । तर्हि तुर्यो वासुदेवश्च द्विविधौ किं विश्वादिवदिति नेत्याह । तुर्यश्च वासुदेवश्चापरस्तन्नामा जीवो न नास्तीत्यर्थ इति । केचन तुर्योऽपि जीवो वर्तत इति द्विविधा इत्यत्र सन्निवेश्य तं वासुदेवपक्ष एव न चापर इति योजयन्ति ॥ अथ श्लोकार्थप्रथनम् । इन्द्रप्राप्त्यनन्तरं प्राप्या-न्प्राह ॥ विश्व इति । विश्वस्तदाद्या अनिरुद्वाद्याः समन्वयोऽनिरुद्धस्तदादिः । विश्ववदभगवद्भगवद्रूपा इति द्विविधाः । तुर्य आत्मा वासुदेवश्च ॥
देवयानमिति श्लोके भूत्वा भूत्वेत्यस्य प्राप्यप्राप्येत्यर्थभ्रमभ्रंशं किञ्चिदध्याहृत्य तनोति ॥ भूत्वा भूत्वेति संसारप्राप्तिः प्रतीयते । सा च न निवर्तत इति बाधितेत्यतः किञ्चिदध्याहृत्य योजयतीति वा ॥ भूत्वेति । भूत्वेत्यव्ययस्याधिक इत्यर्थः । तं भूतिरिति देवा उपासाञ्चक्रिरे ते बभूवुरिति श्रुतेर्भवनमाधिक्यं तद्वान्भूत्वा । कैरित्यतः सुखादिभिरिति सुखादिभिरधिको भूत्वा ॥
ततः पद्यार्थः ॥ इदं देवयानं प्राहुः प्रेक्षावन्तः । आनुपूर्वशः क्रमाद्भूत्वा सुखादिभिरधिको भूत्वा । आत्मयाजी स्वस्मिन्स्वेनैव भगवद्याजी । उपशान्तेष्वात्मा मनो यस्य स विषयवासनाशून्यत्वेनोपशान्त आत्मा मनो यस्य स वा । आत्मस्थो भगवन्निष्ठो न निवर्तते । प्रथमभूत्वेत्यस्यार्थोऽधिक इति प्रथमं तात्पर्य उक्तं यदि तस्याप्यध्याहार्यता तर्ह्युदाहार्यता सुखादिभिरिति पदसमनन्तरं तत्पूर्वमेव वा । न तथोदाजहाराचार्यचरणः । किञ्च न निवर्तत इति न वर्तते चेत्किल धूमादिमार्गवदस्यापि पुनरावृत्ति-भीरस्ति किमित्यतोऽभूत्वेति व्याकृतिरावश्यकी स्यान्न चैवम् । किञ्च भूत्वेत्येकमेव धरता भूत्वाऽभूत्वा वेति धृत्वा व्याकुर्वता भूत्वेति भवत्यधिकभूमिकेति ध्वनितं मध्वमुनिनेति ज्ञेयम् । ‘‘निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम्’’ । ‘‘न च पुनरावर्तत’’ इत्यादिप्रसिद्धिं हिराह ॥ ५५ ॥
मन्दनन्दिनी
अथेन्द्रानन्तरं ध्रुवः । अनन्तरं विश्वतैजसप्राज्ञाः । भगवदन्ये ग्राह्याः । ते च देवविशेषाः सम्प्रदयतो ज्ञेयाः । अनन्तरमनिरुद्धप्रद्युम्नसङ्कर्षणाश्च भगवदन्ये ज्ञेयाः । एतच्चैतन्नाम्नैव प्रसिद्धाः । एते षडपि द्युनाम्नय भारत्याः पुत्राः । ततो द्युलोकाभिमानिनी भारती । ततो मुख्यवायुः । ततो वैकुण्ठः परमात्मा । ततो ब्रह्मणा सह बहिर्गमनानन्तरं नवावरणातिक्रमे विश्वादिरूपप्राप्तिः । विश्वोऽथ तैजस इत्यत्रोक्ता ज्ञेया । ततोऽनिरुद्धप्राप्तिरपि । ततोऽनिरुद्धं देवेशं प्रद्युम्नं च ततः परमित्यादि मानान्तरादवगन्तव्या । ततः समन्वयः सर्वेषामवताराणां सम्यगव्ययाधारः । आततत्वादात्मा नारायणः । अत्र ब्रह्माण्डान्तो विश्वादित्रयानिरुद्धादित्रयवत्तुरीयो वासुदेवश्च भगवदन्यो न ज्ञेयः । तन्नामकदेवस्याप्रसिद्धेः । अत्रोत्क्रान्तिस्तु शरीरात्स्वाद्गच्छत्यर्चिषमेव वेत्यादि भाष्योदाहृतं प्रमाणं ज्ञेयम् । अत्र तात्पर्यम् ॥ विश्वाद्या इत्यादि । विश्वाद्या अनिरुद्धाधार इत्यत्र त्रय एव ग्राह्याः । तुरीय-वासुदेवयोर्विष्णोरन्यत्वनिषेधेऽस्यमानत्वात् । दिवस्पुत्रा द्युनाम््नया भारत्याः पुत्रा द्युसमीपगाः । भार-त्यभिमन्यमानद्युलोकसमीपगाः । विश्वादिरूपं हरिमित्यन्वयः । अनिरुद्धादिरूपमित्यपि ग्राह्यम् । नापरो विष्णोरन्यो नेति । इममुक्तमेव मार्गं देवयानं प्राहुरानुपूर्वशः । क्रमेण पूर्वपूर्वलोकापेक्षयोत्तरोत्तरलोके सुखादिभिरधिको भूत्वाऽधिक इति सुखादिभिरिति च पदद्वयमध्याहार्यमित्यत्र तात्पर्यम् ॥ अधिक इत्यादि ॥ आत्मयाजी जीवपरमात्मपूजकः । उपशान्तात्मा सर्वोपरितनसुखातिशयस्वरूप आत्मस्थः परमात्मसमीपे वैकुण्ठादिलोके स्थितो न निवर्तत इति योजना ॥ ५५ ॥
य एते पितृदेवानामयने देवनिर्मिते ।
शास्त्रेण चक्षुषा वेद जनस्थोऽपि न मुह्यति ॥ ५६ ॥
तात्पर्यम्
‘भक्तिमान्मार्गविन्नैव नीचां गतिमवाप्नुयात्’ इति च ॥ ५६ ॥
पदरत्नावली
ननु किमेतज्ज्ञानेन प्रयोजनं येनावश्यं वक्तव्यतामियादिति तत्राह– य एते इति ॥ जनस्थो देहस्थः । ‘तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसम्भवन्ति’ इत्यादिना शास्त्रेण । केवलं मोहं न प्राप्नोति । नीचां गतिमपि न यातीत्यतोऽपीत्युक्तम् । ‘भक्तिमान् मार्गविन्नैव नीचां गतिमवाप्नुयात्’ इति स्मृतेः ॥ ५६ ॥
सत्यधर्मीया
य एते पितृदेवानामयने इत्यत्र मार्गद्विकज्ञानमात्रमपवर्गसाधनम् । नैते सृती पार्थ जानन्योगी मुह्यति कश्चनेति गीतागीतेश्च प्रतीयते । न चैतत्सम्भवति । अन्यथाज्ञानिनोऽप्येतावन्मति-सम्भवान्मुक्त्यापत्तेरित्यतस्तत्तात्पर्यमाचार्यः प्रमाणेनाह ॥ भक्तिमानिति । भक्तिमत्त्वे सति मार्गवित्त्वं नीचगतिविघटकं सदुच्चगतिघटकं भवतीति भावः ॥ ततः पद्यार्थः ॥ य एते निरूपिते पितृदेवानां पितरश्च देवाश्च तेषामयनमित्युभयान्वयि । देवनिर्मिते भगवत्कृते । शास्त्रेण चक्षुषा तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धातप इत्युपासते तेऽर्चिषमभिसम्भवन्तीत्यादिशास्त्ररूपनेत्रेण वेद । स पुमान्हरिभक्तिमांश्चेद् अतस्त्वितरज्ज्यायो लिङ्गाच्च, संवत्सरो वै प्रजापतिस्तस्यायने दक्षिणं चोत्तरं चेत्यारभ्य त एतस्मान्न पुनरावर्तन्त इत्येष निरोध इति षट्प्रश्नोक्तेः । तस्मान्न जनतामियान्नान्तमियात् । असुरा बहुला यस्मात्तस्मान्न जनतामियादित्यादिमानावमानितजनस्थोऽपि न मुह्यति न मोहं प्राप्नोति । एतेन तत्साध्यां नीचां गतिं नाप्नोतीति सूचितम् । अपिश्च मुक्तिमाप्नोतीति सूचकः । जनस्थो न मुह्यति नजनो जनार्दनस्तत्स्थोऽपि भवतीत्यर्थसूचको वाऽपिः । आत्मस्थ इत्यतीतपद्योक्तेः । गीतायामपि योगीत्युक्ते-र्योग उपायो भक्त्यादिसाधनं तद्वानिति तदर्थो ज्ञेयः । गीताभाष्यटीकयोश्च एते सृती सोपाये ज्ञात्वाऽ-नुष्ठाय न मुह्यति । तच्चाह स्कान्दे । सृती ज्ञात्वा तु सोपायेऽनुष्ठाय च साधनम् । न कश्चिन्मोहमाप्नोति न चान्या तत्र वै गतिरिति । अनुष्ठायोपायमिति शेषः । कुत एतद्योगीत्युक्तत्वादित्यादि ॥ ५६ ॥
मन्दनन्दिनी
उक्तमार्गज्ञानस्य फलमाह ॥ य एते इति । एते देवेन भगवता निर्मिते पितृ-देवानामयने याते ये शास्त्रेण चक्षुषा वेद । सो जनस्थोऽपि मर्त्यलोकस्थोऽपि न मुह्यति नीचां गतिं नाप्नोतीति योजना । अत्र तात्पर्यम् ॥ भक्तिमानित्यादि । भक्तिमानिति विशेषणान्नातिप्रसङ्गः ॥५६॥
आदावन्तेजनानाशं बहिरन्तः परावरम् ।
ज्ञानं ज्ञेयं वचो वाच्यं तमो ज्योतिश्च तत् स्वयम् ॥ ५७ ॥
तात्पर्यम्
ग्लापकत्वात्तमः ॥ ५७ ॥
पदरत्नावली
‘जाग्रदाद्यवस्थाप्रवर्तकविश्वादीन् कल्पितानतिक्रम्य प्रपञ्चोपशमतुर्यात्मा भूत्वा निर्द्वन्द्व आस्ते’ इति केचिद् व्याचक्षते । तन्मतदूषणायाह– आदाविति ॥ आदौ उत्पत्तिकाले अन्ते मुक्तिकाले च यज् जनानाशं जननं विनाशं च । ‘जनी प्रादुर्भावे’ इत्यस्मात् पचाद्यचि अजादित्वाट् टापि कृते ‘जना’ इति रूपं सिद्ध्यति । (नाशः)वध्यघातकभावो मार्जारमूषकवत् । यच्च बहिरन्त-र्विद्यमानं परावरम् उत्तमाधमं भूतभविष्यद्वा । यच्च ज्ञानादिकम् । सर्वस्य ग्लापकत्वाद् ग्लानिजनकत्वात् तमः प्रकृतिः । ज्योतिस् तदाभासकः स्वप्रकाशश्च यः । तदेतत् सर्वं स्वयं तुर्यात्मा श्रीहरिः । तत्सत्ताया अपि तदधीनत्वात् स इत्युच्यते । न तु तदात्मकत्वात् । ‘पुरुष एवेदं सर्वम्’ इति श्रुतेः । आदौ यथा तदधीनत्वं तथाऽन्तेऽपि श्रीनारायणाधीनत्वमित्यतो वाऽऽह– आदाविति ॥ आदावन्ते उत्पत्तेः प्रागूर्ध्वम् अयं परमात्मा वर्तत इति शेषः । कथङ्कारम् ? अत्राह– जनेति ॥ जनकत्वेन नाशकत्वे-नेत्यादिरूपेण सर्वकर्तृत्वस्वातन्त्र्येण तच्छब्दवाच्यत्वं हरेरप्युक्तम् । तमःशब्दस्य ‘ग्लापकत्वात्’ इति णिच्प्रत्ययान्तत्वेन विवरणादयमर्थो ज्ञायत इति ॥ ५७ ॥
सत्यधर्मीया
आदावन्ते जनानाशमिति श्लोके तमो ज्योतिरिति विरुद्धधर्मद्वयालिङ्गितत्वं हरेरीरितमिति भाति । न च तदुचितमित्यतस्तमःपदार्थमाह ॥ ग्लापकत्वात्तम इति । तमु ग्लानाविति स्मरणात् । दैत्यादिग्लापकत्वात्तमः । दुर्घटसामानाधिकरण्ययोस्तमोज्योतिषोस्तमःपदार्थवर्णनसामा-नाधिकरण्य आदावादावन्त इत्यादिनोक्तानां कैमुत्येनाविरोधः सेत्स्यतीत्येतन्मात्रव्याकृतिरिति ज्ञेयम् ॥ अथ पद्यार्थप्रथनम् ॥ आत्मस्थो न निवर्तत इत्यत्र भगवतो मोक्षदातृत्वमुक्तम् । तदितरत्रासम्भावितं सम्भावितं कथं तस्मिन्नित्याशङ्कापरिहारार्थं तन्महिमानमाह ॥ आदाविति । आदौ सृष्टिकालेऽन्ते संहारकाले न विद्यते जनो जननं यस्य तदजनं तच्च तदनाशं न विद्यते नाशो यस्य तदनाशं च । बहिर्ब्रह्माण्डादन्तस्तदन्तः । परं महदपरं परिच्छिन्नम् । बहीरूपेण परममहदन्तर्गतरूपेणाणुपरिमाणमिति विवेकः । ज्ञानं तदात्मकम् । ज्ञेयं यच्च वचो वाग्रूपं वाच्यं च तमो दैत्यग्लापकम् । अन्तर्णीत-ण्यन्तस्तमशब्दः । ज्योतिः प्रकाशरूपं च तत्स्वयं स्वातन्त्र्येणैव तुर्य आत्मा । अन्यदेतदधीनोत्प-त्त्यादिमदिति न तदसम्भावितमिति भावः ॥ ५७ ॥
मन्दनन्दिनी
सर्वस्यापि भगवदधीनत्वमुपदिशति ॥ आदाविति । सृष्टौ प्रलये च जनानाशं जायमानं नश्यच्च । जनी प्रादुर्भाव इत्यस्मात्कर्तर्याकार प्रत्ययः । नश्यते च । कर्तरि घञ् द्वन्द्वैकवद्भावः । ब्रह्माण्डस्य बहिरन्तर्विद्यमानं परावरमुच्चावचं ज्ञानं ज्ञेयं वचो वाच्यं तमोऽज्ञानमन्धकारो वा । तमु ग्लानौ अन्तर्णीतण्यर्थादसत् । अत एव तात्पर्यम् ॥ ग्लापकत्वात्तम इति ज्योतिः प्रकाशः । तदेतत्सर्वं स्वयं भगवान् सर्वस्वामीत्यर्थः । यदधीना यस्य सत्तेत्यादेः ॥ ५७ ॥
अबाधितोऽपि ह्याभासो यथा वस्तुतया स्मृतः ।
दुर्घटत्वादैन्द्रियकं तद्वदर्थविकल्पितम् ॥ ५८ ॥
तात्पर्यम्
दुर्घटत्वादर्थत्वेन परमेश्वरेणैव कल्पितम् ॥ ५८ ॥
पदरत्नावली
ननु सत्तायास्तदधीनत्वं प्रामाणिकं चेद् ब्रह्मत्वेनोक्तिर्घटेत । ततः काऽत्र युक्ति-रित्याशङ्क्योपपादयति– अबाधित इति ॥ प्राकृतवैकृतलक्षणकार्येषु विशिष्टकान्तिमत्तया भासते विद्योतत इति आभासो देहः प्रतिबिम्बलक्षणः यथा वस्तुतया ‘वसनाद् वासयेद् वस्तु नित्या-प्रतिहतत्वतः’ इति स्मृतेर् वस्तु परमात्मा तत्वेन स्मृतः ‘इदं हि विश्वं भगवानिवेतरः’‘इन्द्रो मायाभिः’ इत्यादिना । ननु देहस्य सत्वे तत्सत्ताया भगवदधीनत्वेन तद्वक्तुं युक्तम् । तस्य दग्धपटाभासवदर्थ-क्रियाऽनर्हत्वादिति तत्राह– अबाधित इति ॥ शुक्तिकायां प्रतिभासितं रजतं वलयकरणाद्यर्थक्रिया-नर्हत्वेन नेदं रजतमिति बाधितं स्याद् यथा तथाऽयं न बाधितः । हानोपादानाद्यर्थक्रियायोग्यत्वात् । अपिशब्दोऽत्र स्वातन्त्र्यशङ्कां सूचयति । हिशब्देन प्रत्यक्षसिद्धत्वेन दग्धपटाभासवैलक्षण्यं दर्शयति । तद्वत् तथा ऐन्द्रियकम् इन्द्रियविषयं घटपटादिकम् । अर्थशब्दो भावप्रधानः । अर्थत्वेन अर्थक्रियाख्य-प्रयोजनतया कल्पितं समर्थितम् । परमात्मनेति शेषः । ‘कर्तृकर्मक्रियादीनां सत्ता वृत्तिस्तथैव च विष्ण्वधीनं यतः’ इति वचनादर्थक्रियासामर्थ्यस्य भगवदधीनत्वेन ‘सर्व खल्विदं ब्रह्म’ इति सर्वस्य तत्त्वं युक्तमिति भावः । एवमनङ्गीकारे बाधकमाह– दुर्घटत्वादिति ॥ ईश्वरान्येन कर्तुमशक्यत्वात् ॥ ५८ ॥
सत्यधर्मीया
अबाधितोऽपि ह्याभास इति श्लोके यथाऽऽभासः प्रतिबिम्बो जीवश्चिता रूपेण बाधविधुरोऽपि विशिष्टेन रूपेणावस्तुतया मिथ्यात्वेन स्मृतस्तद्वत्तथार्थविकल्पितमर्थः सन्निति विकल्पितं भ्रान्तिविषयीकृतं जगदैन्द्रियकं दृश्यम् । मिथ्यात्वे हेतूक्तिः । विमतं मिथ्या ऐन्द्रियकत्वादृश्यत्वा-च्छुक्तिरूप्यवदिति दुर्घटत्वात्सच्चेन्न बाध्येतासच्चेन्न प्रतीयेतेति बाधबोधविषयतान्यथाऽनुपपत्याऽवस्तुतया मिथ्यात्वेन स्मृतमिति जीवादिजगन्मिथ्यात्वे कफोणिगुडायितं तद्विमुक्तिदत्वं हरेरेतदुपयोगितया कथित-मादावादावन्त इत्यादिनाऽसङ्गतमित्यतः किञ्चिदध्याहृत्य समीकरोति ॥ दुर्घटत्वादर्थत्वेन परमेश्वरेणेति ॥ मौलवीत्यस्यार्थः । एवकारेणेतरासामर्थ्यं सूचयति । कल्पितं निर्मितमतो न मिथ्यात्वं जगत इति भावः । सत्यसृष्टावशक्ता हि मायासृष्टिं वितन्वत इत्यादेर्वास्तविकसृष्टिक्षमता परमेश्वरेणे-त्युक्तपारमैश्वर्येण साधितेति मन्तव्यम् ॥
अथ मूलार्थः ॥ यथाऽऽभासः प्रतिबिम्बो जीवो वस्तुतया ‘‘अवस्त्वशक्तमुद्दिष्टं शक्तं वस्त्विति भण्यत’’ इत्यादेः कार्यकारितया निमित्तेनाबाधितः सत्यः । स्मृतः जीवो नित्यो धातुरस्य त्वनित्य इत्यादिश्रुतिमूलादच्छेद्योऽयमदाह्योऽयमित्यादिस्मृतिसिद्धः । इदमैन्द्रियकं दृश्यं विश्वं तद्वज्जीववदेवार्थ-विकल्पितम् । अर्थत्वेनेति भावप्रधानोऽर्थशब्दः । अर्थत्वेन वास्तवत्वेन विना भगवता कल्पितं कृतम् । नान्यस्यैतत्कल्पकतेत्याह ॥ दुर्घटत्वादिति । अन्य एतत्कल्पनेऽकल्प इति भावः । अचिन्त्यशक्तिं साधयति ॥ अबाधित इति । तत्र सर्वस्याप्यैन्द्रियकस्योपपत्तिर्दुर्घटत्वेनानिर्वाच्यत्वमुच्यत इति प्रतीतिवारणाय व्याचष्टे । दुर्घटत्वादिति । वक्ष्यमाणरीत्या दुर्घटत्वादीश्वरं विना घटयितुमशक्यत्वा-दर्थत्वेन सत्यत्वेन प्रमितविषयस्यैवार्थत्वात् । परमेश्वरेणैव कल्पितं जातमित्यर्थः ॥ तथा च मूलार्थः ॥ जीवरूप आभासः सत्याभासत्वात्प्रतिमुखादिवत् । अनित्यतया प्रसक्तोऽपीश्वरसामर्थ्येन नित्यो जातः । यथा तद्वदित्याह ॥ अबाधित इति । अबाधितः सत्योऽप्याभासो जीवो यथा वस्तुतया सदा वसनाद्वस्तु नित्यतया स्मृतः । उक्तः शास्त्रेषु तद्वदैन्द्रियकं क्षित्यादिदुर्घटत्वादर्थेनार्थत्वेनार्थोत्तमार्थेन हरिणैव विकल्पितं कृतमिति व्यातन्वन्ति । आदावन्त श्लोकमितरपरं व्याकृत्य तत्सत्ता भगवदधीनेति ‘‘यदधीना यस्य सत्ता तत्तदित्येव भण्यत’’ इति तत्स्वयमिति तात्पर्यमभिधाय, ननु सत्तायास्तदधीनत्वं प्रामाणिकं चेद् ब्रह्मत्वेनोक्तिर्घटेत ततः काऽत्र युक्तिरित्याशङ्क्योपपादयति अबाधित इत्यवतारयन्ति । आभासः प्रतिबिम्बलक्षण इत्येकं पदं योजयद्भिरबाधितपदमावृत्त्य आप आधीयन्तेऽस्मिन्नित्यधिकरणे कौ भवत्यबाधिः समुद्रादिः । सार्वविभक्तिकस्तसिः । तस्मिन्नित्यर्थः । यथा जलधौ बिम्बसूर्यादिसान्निध्ये आभासः प्रतिबिम्बः सूर्यकादिस्तथेत्यापि योजयितुं शक्यमिति मन्तव्यम् । केचिदाभासो मुख्यप्रतिबिम्बो बाधितो विध्यादिर्जीवो वस्तुतयेश्वराधीनत्वेन स्मृतः । दुर्घटत्वात्तद्विधातृविधानं भवतु । भगवदधीनं सुघटं घटादिसर्जनं हरिवर्जनेन विध्यादिभ्यो मुखेभ्य एव भवत्वित्यत आह ॥ दुर्घटत्वादिति । ऐन्द्रियकं घटादिकमर्थत्वेन विना भगवतैव कल्पितमित्यादिप्रकारेण व्याकुर्वते । दुर्घटत्वात्सत्त्वासत्त्वादि-प्रकारोररीकारस्योक्तबाधितत्वाद्यसम्भवबाधया दौर्घट््य इत्यप्यर्थ इति केऽपि । न केवलं बाधितविकलः किन्तु बाधितो बाधनिवृत्तये तद्वत्प्राप्यः । तन्न स्वयं स्वयम्भुवः सामर्थ्येनेत्याह ॥ अबाधित इति । अनेन भगवतैव बाधित इति अबाधित इति वा । यथोक्तं तत्त्वप्रकाशिकायाम् । ‘‘ते वायवे मनवे बाधिताय । संसारबाधावद्भिरिताय प्राप्ताये’’ इति ॥ ५८ ॥
मन्दनन्दिनी
ननु सत्यस्याधीनत्वं न सम्भवति । प्रपञ्चस्य त्वाभासत्वाददृश्यत्वान्मिथ्यात्वेन कथं तदधीनत्वमित्यत आह ॥ अबाधित इति । प्रपञ्च आभासोऽपि दृश्यमानोऽपि यथावस्तु ब्रह्म । तथेव सत्यत्वेन स्मृतः । अदृश्यत्वहेतोः सर्वदोषदुष्टत्वात् । मिथ्यात्वे बाधस्यैव प्रयोजकत्वात् । अयं चाबाधितः । असम्भावितोत्पत्त्यादिमत्वात्कथं ब्रह्मवत्सत्यं स्यादित्यत उक्तम् ॥ दुर्घटत्वादिति । भगवतो दुर्घटघटनाशक्तिमत्वाद्ब्रह्मवदर्थेनेति भावप्रधानो निर्देशो ऽर्थत्वेनार्थक्रियाकारित्वेन विविधतया कल्पितमुत्पादितमैन्द्रियकमिति प्रत्यक्षादिप्रमाणप्रसिद्धत्वं सूचयति । अतः सत्यमिति योजना । न हि भगवान्सत्यसर्जनासमर्थः । येन मायया मोहयेदिति भावः । अत्र तात्पर्यम् ॥ दुर्घटत्वादित्यादि । इतरैर्दुर्घटत्वात् । स्वस्य दुर्घटघटनाशक्तिमत्वाद्वा । परमेश्वरेणैव कल्पितमित्यर्थः ॥ ५८ ॥
क्षित्यादीनां पदार्थानां छाया न कतमाऽपि हि ।
न संघातो विकारोऽपि न पृथङ् नान्वितोऽपि वा ॥ ५९ ॥
तात्पर्यम्
‘छाया रीतिः प्रकारश्च भावश्चेत्यभिधीयत’ इति शब्दनिर्णये । क्षित्यादीनां पदार्थानां कतमोऽपि प्रकारो न घटते । परमेश्वरकल्पितत्वात्कार्यमित्येव वक्तुं युक्तम् । न हि बह्वपां सङ्घातमात्रं पृथिवी । न च विकारमात्रम् । न हि कालुष्यादिविकारमात्रेण पृथिवी भवति । न चाद्भ्यः पृथक्स्थितिः । न च वस्तुद्वयवत् सहावस्थानमात्रम् ॥ ५९ ॥
पदरत्नावली
दुर्घटत्वमेव दर्शयति– क्षित्यादीनामिति ॥ क्षित्यादीनामर्थानां पदार्थानां कत-माऽपि छाया कतमोऽपि प्रकारः विचार्यमाणे सति न घटत इति शेषः । ‘छाया रीतिः प्रकारश्च भावश्चेत्यभिधीयते’ इत्यभिधानम् । इह कार्यप्रपञ्चे । हिशब्दो हेत्वर्थः । निर्धारणार्थवाचिना तमप्प्रत्ययेन कस्यापि प्रकारस्यासम्भवोक्तेः परमेश्वरकल्पितत्वेनैतत् कार्यं सदिति वक्तुं युक्तम् । प्रकाराभावमुप-पादयति– न सङ्घात इति ॥ परमेश्वरकल्पनामन्तरेण कार्यं भवतीति वदन् प्रष्टव्यो भवति– क्षितिलक्षणं कार्यं केवलमपां पुञ्जः, तद्विकारो वा, तद्व्यतिरेकेणोत्पन्नं वा, वृक्षद्वयसंयोगवदुभयोः संयोगमात्रं वेति । न प्रथम इत्याह– नेति ॥ अयं संघातो न । असम्भवात् । क्षितेः कठिनावयवारब्धत्वात् केवलमपां द्रवत्वेन तत्कर्ये पर्वतादीनां मज्जनापत्या क्षितेः स्वरूपलयप्राप्तेर् आधाराभावेन सर्वप्राणिप्राणनाश-प्रसङ्गात् । न द्वितीय इत्याह– विकार इति ॥ अत्र नञोऽध्याहारः कर्तव्यः । अपां विकारः (इति) अपि नोपपद्यते । कालुष्यादिलक्षणविकारमात्रेण क्षितित्वानुपपत्तेः । न तृतीय इत्याह– न पृथगिति ॥ अद्भ्यः क्षितेः पृथक् स्यित्यदर्शनात् । नापि चतुर्थ इत्याह– नान्वित इति ॥ सहावस्थानमात्रेण कार्योत्पत्त्यदर्शनात् । क्षित्यादीनां पदार्थानां मध्ये कतमाऽपि छाया कतमोऽपि भावः पदार्थः कार्यजननशक्तिमान् न घटते । विचारासहत्वात् । तथाहि– ‘अद्भ्यः पृथिवी’ इति श्रूयते । तत्र प्रस्तुतात्मशक्तिमन्तरेण केवलानामपां पृथिवीजनकत्वं कथमिति वा । शेषं पूर्ववत् ॥ ५९ ॥
सत्यधर्मीया
क्षित्यादीनां पदार्थानामिति श्लोकादिर्दुर्घटतामैन्द्रियकमित्यभिहितमह्यादिसर्जनस्य प्रपञ्चयितुं प्रवृत्तस्तत्र क्षित्यादीनामर्थानां कतमाऽपि छाया प्रतिरूपं न सङ्घातो न च विकारो नाप्यन्वितः सम्बन्धोऽस्तीति सर्वस्वभाववैकल्येन शून्यवादसमर्थनपर इति भ्रमं भ्रंशयितुं छायापदमभिधानाभिधानेन व्याकृत्य स्वयं पूर्वश्लोकसङ्गततयेमं सम्यग्व्याचर्करीति छायेति । योजनां दर्शयति । क्षित्यादीनां पदार्थानां कतमा छाया कतमोऽपि प्रकारो न घटते यतोऽतः परमेश्वरकल्पितत्वात्तत्कर्तृकत्वात्कार्यमित्येव वक्तुं युक्तम् । अद्भ्यः पृथिवीत्यादेस्तत्सङ्घातादिरूपप्रकारसम्भवे कथं कथनं कतमोऽपि प्रकारो न घटत इति घटत इत्यत आह ॥ न हीति । बव्हपां बह्व्यश्चा ता बहवश्च ता वापश्च तासाम् । न च ऋक्पूरब्धूः पथामानक्ष इति सूत्रेणाप्रत्यये बव्हपानामिति कथनीयं तत्कथं बव्हपामिति कथितमिति वाच्यम् । अत्रैव पथामित्यभिधानात्तदनित्यतेति केचित् । समासान्तविधेरनित्यत्वान्नाप्रत्ययः । शुच्यंपि तटाकानीति महाभाष्यप्रयोगादिति वा । विस्तृतं समासान्तविध्यनित्यताविषये शब्दकौस्तुभे वृद्धिरादैजिति विवृत्यवसरे । अथवा समाहारद्वन्द्वः । न चैवं द्वन्द्वाच्चुदेति टच् स्यादिति वाच्यम् । समासान्तविधेर-नित्यत्वात् । अत्र ज्ञापकमित्यारभ्य ऋलृक्सूत्रे प्रपञ्चितत्वादिति दिगित्यन्तेन ज्ञेयम् । बहु अपां सङ्घात-मात्रमिति पदानि । अपां बहुसङ्घातमात्रमित्यन्वयः । समुदायसमुदायिनोरभेदात्तद्बहुत्वं नीरेषु निरूपयितुं सुशकमिति सुशका शङ्का शान्तिरित्यवेहि । विकारमात्रं साधारणविकारः । कुतस्तन्नेत्यत आह ॥ न हीति । कालुष्यमादिपदाच्छैवालादिग्रहणम् । तन्मात्रेण पृथिवी न हि भवतीत्यन्वयः । न पृथगिति मूलेऽद्भ्य इत्यध्याहार्यमित्याह ॥ अद्भ्य इति । क्रमाद्वैभाषिकवैशेषिकमतद्वयनिरासः कृतः । नान्वितोऽपीत्यस्यार्थो न च वस्तुद्वयवत्सहावस्थानमात्रमिति । अनेन सन्मात्रकार्यवादिसाङ्ख्यमतं निराकृतं भवति ॥
ततश्चायं श्लोकार्थः ॥ दुर्घटतामेव प्रकटयति ॥ क्षित्यादीनामिति । क्षित्यादीनां पदार्थानामिति क्षित्यादीनामिहार्थानामिति च पठन्ति । द्वितीयेऽर्थानां पदार्थानामित्यर्थः । कतमाऽपि छाया रीति-र्विचारकैर्नापि नाप्ता । प्रकारानाशङ्क्य निराकरोति ॥ नेति । किं क्षितिरपां सङ्घः किंवा तद्विकारः पृथिवी ततः पृथक् स्थितेति वा वृक्षसंयोगवत्संयोगमात्रं वा । नाद्य इत्याह ॥ नेति । नापां सङ्घातः क्षितिर्वर्णतया कठिणतया च तत्त्वानुपपत्तेः । द्वितीयं पराकरोति ॥ अविकार इति । कलुषतादिविकार-मात्रं क्षितिरित्यनुपपत्तेः । तृतीयोऽपि नेत्याह ॥ न पृथगिति । अद्भ्यः क्षितेः पृथगस्थितेः । नापि चतुर्थ इत्याह ॥ नान्वितोऽपीति । सहावस्थितिमात्रस्य तत्कार्यताप्रयोजकत्वात् । एतदनुपपत्त्या परमेश्वरकृतत्वमेव वक्तुं युक्तमिति भावः ॥ ५९ ॥
मन्दनन्दिनी
दुर्घटघटनाशक्त्या जगदुत्पादितमित्युक्तं तदनङ्गीकारे केनापि प्रकारेणोत्पत्तिर्न सम्भवतीत्याह ॥ क्षित्यादीनामिति । इह कार्यप्रपञ्चे क्षित्यादीनामर्थानां कार्याणां कतमा छाया । कः प्रकारः । न । ईश्वरशक्त्यनङ्गीकारेऽपि कोऽपि प्रकारो न सम्भवति । तथा श्रुतिः । किं क्षितिरपां सङ्घातः । आपस्तेजसामित्येवं क्षित्यादिः । माषराश्यादिवत्सङ्घातलक्षणं कार्यम् । यद्वा । चूतफलादेः पीततादिवच्छ्वेतजलस्य कालुष्यलक्षणं कार्यम् । अथवा । समुदायात्पृथग्भूतैकदेशलक्षणं कार्यं प्रस्थात्पृथ-ग्भूतमानवत् । यद्वा । सहावस्थितक्षीरनीरादिवस्तुद्वयवत्कार्यम् । आद्ये जलबुद्धेर्द्रवत्वस्य पर्वतादि-मज्जनस्यापत्तिरित्यादि दोषः । द्वितीयेऽप्येतद्दोषतादवस्थ्यम् । तृतीयेऽप्येत एव दोषाः । चतुर्थे जलातिरिक्तस्यार्थस्याभावो भावे वा परस्परकार्यकारणभावानुपपत्तिश्चेति दूषणमभिप्रेत्यैतान् प्रति-क्षिपति ॥ न सङ्घात इत्यादिना ॥ विकारोऽपीत्यपिशब्दान् नञनुवर्तते । दुर्घटघटनाशक्त्यनङ्गीकारे तु गन्धतन्मात्रायुक्तं पृथिवीभूतसूक्ष्मान्युपादानीकृत्याब्भूतैकदेशैरुपचित्य काठिण्यं सम्पाद्य पृथिवीलक्षणभूतं परिणामयतीत्यङ्गीकारे न कोऽपि दोषः । अत्र तात्पर्यम् ॥ छाया रीतिरित्यादि । क्षित्यादीनां पदार्थानां कतमोऽपि प्रकारो न घटते । परमेश्वरकल्पितत्वात्कार्यमित्येव वक्तुं युक्तम् । न हि बव्हापां सङ्घातमात्रं पृथिवी । न च विकारमात्रम् । न हि कालुष्यादिविकारमात्रेण पृथिवी भवति । न चाद्भ्यः पृथक् स्थितिः । न च वस्तुद्वयवत्सहावस्थानमात्रमिति । प्रकारश्छायेति रीतिरिति च भाव इति चाभिधीयत इत्यन्वयः । परमेश्वरे कल्पितत्वादेवेत्यन्वयः । परमेश्वरपदं च दुर्घटघटनाशक्तिमत्परम् । न हीत्यादि पक्षनिषेधे उक्तदोषा हेतवो द्रष्टव्याः ॥ ५९ ॥
धातवोऽवयवित्वाच्च तन्मात्रावयवैर्विना ।
न स्युर्ह्यसत्यवयविन्यासन्नावयवा इव१ ॥ ६० ॥
पदरत्नावली
ननु विश्लिष्टानां पदार्थानामन्योन्यं महाकार्योत्पत्तावसामर्थ्यमस्तु । संश्लिष्टानां नेयमनुपपत्तिरित्याशङ्क्य श्रीनारायणकटाक्षबीजमन्तरेणावयवावयविनोरप्यनुपपत्तिः स्यादेवेत्याह– धातव इति ॥ धातवः क्षित्यादिपञ्चभूतादिपदार्थास् तन्मात्रावयवैर्विना गन्धादिव्यतिरेकेण । सुरभि-गन्धवती पृथिवी । शुक्लभास्वरं जलमित्यादिव्यावर्तकधर्माभावे स्वरूपाभावप्राप्तिरेव स्यादित्यर्थः– अवयवित्वादिति ॥ न ह्यवयविनोऽवयवाभावेऽवयविव्यवहारो युक्तः । तस्मात् । चशब्द एवार्थे, समुच्ययार्थे वा । प्रत्यक्षसिद्धत्वादवयवित्वाच्चेति । अयं निर्णयः कुत्र दृष्ट इति तत्राह– असतीति ॥ इव यथा आ समन्तात् सन्नावयवाः सर्वात्मना तन्तुलक्षणा अवयवा नष्टा यदि तर्ह्यसदवयविनि तन्तुरहिते पटे पटव्यवहारोऽपि नष्ट इति शेषः । तन्तुव्यतिरेकेण पटाभावात् । यथाऽवयवाभावेऽवयवी नास्ति तथा अवयविनि निवृत्ते अवयवा अपि निवृत्ताः स्युरित्यतो वाऽऽह– आसन्नावयवा इति ॥ आसन्नावयवा अपि नष्टाः स्युरित्यर्थः । यथा आसन्नावयवा आतानवितानावयवत्वसंसर्गं प्राप्तास् तन्तुलक्षणा अवयवाः प्रागसत्यवयविनि पटे पटव्यवहारं न जनयन्ति तथा गन्धाद्यवयवाः प्रागसत्सु क्षित्यादिषु पश्चात् क्षित्यादिव्यवहारं न जनयन्तीत्यतस्तदभावेन तदभावः स्पष्ट इत्यन्वयव्यतिरेकौ दर्शिताविति ज्ञातव्यम् । एवं दुर्घटत्वेनाविद्याकल्पितप्रपञ्चस्याविद्याबाधानन्तरमनुवृत्तस्यापि न वस्तुत्व-मिति कल्पनमनुपपन्नम् । ‘विश्वं सत्यं मघवानायुवोरिदापश्च न प्रमिनन्ति व्रतं वाम्’ । ‘यद्धि युक्त्या विरुद्ध्येत तदीशकृतमेव हि’ इति श्रुतिस्मृतिप्रसिद्धां युक्तिं हिशब्देन दर्शयति । ‘असत्यस्यावय-विन्यासन्नावयवा न च’ इति केचित् पठन्ति । अयमर्थः– गन्धावयवव्यतिरेकेण पृथिव्याद्यवयविनो न स्युश्चेत् किं नश्छिन्नमिति तत्राह– असतीति ॥ क्षित्यामवयविन्यसति गन्धाद्यवयवा एव नासन्नित्यन्वयः । अवयवाभावेऽवयव्यभावेन कारणाभावापत्त्या सर्वासत्त्वप्रसङ्गलक्षणोच्छेद इति भावः ॥ ६० ॥
सत्यधर्मीया
ननु यथैकैकस्य मदजनकत्वाभावेऽपि मिलितानां चतुर्भागादीनां तज्जनकत्ववदेतेषां संश्लिष्टानां कार्यकारिता स्यादित्याशङ्क्यन नारायणमन्तरेणावयवावयवितादिर् उपपद्यत इत्याह ॥ धातव इति । धातवः क्षित्यादयो धारकत्वात्तन्मात्रावयवैर्गन्धादिमात्रारूपावयवैर्विनाऽवयवित्वात् । ल्यब्लोपनिमित्ता पञ्चमी । अवयवित्वं प्राप्य न स्युः सत्तावन्तो न भवेयुः । अवयविनि धर्मिण्यसति आसन्नावयवा इव । आसन् न अवयवा इव इति छेदः । अवयवा यथा नासन्नाभूवन् तथेति परस्परं दृष्टान्तदार्ष्टान्तिकता ज्ञेया । न्यसन्नवयवोऽन्तत इति क्वचित्पाठः । अवयविन्यसत्यन्ततोऽवयवी यथाऽऽसंस्तथाऽवयवी इति योजना । एतदुभयघटकेन केनचिद्भाव्यं स चेश्वर इति भावः । हिना यद्धि युक्त्या विरुध्येत तदीशकृतमेव हीत्यादिमानसिद्धतां सूचयति । तन्तूनां सत्त्वे सत्त्वमवयविनः पटस्य सति तस्मिंस्ते तत्र सन्तो निराश्रयाणामवस्थानासम्भवादिति तद्वदिति भावः ॥ ६० ॥
मन्दनन्दिनी
ननु क्षित्यादेः सङ्घातादिप्रकारः कोऽपि मा भूत् । तथाऽप्युक्तरीत्या तन्मात्र-लक्षणावयवैः क्षित्यादिलक्षणावयविनोऽब्भूतोपचयेन कार्यत्वं युक्तमेव । अत्र नेश्वरदुर्घटघटनाशक्तेरपेक्षेति चेन्न । द्रवद्रव्योपचितस्य काठिण्याद्ययोगेनेश्वरशक्तेरवश्योपक्षणीयत्वात् । किं चावयवावयविभावेऽपि ईश्वरशक्त्यपेक्षेति वक्तुम् अवयवावयविभावं तावन्निश्चिनोति ॥ धातव इति । धातवः पृथिव्यादिभूतानि तन्मात्रलक्षणावयवैर्विना न स्युः । अवयवित्वादेव । न ह्यवयवं विनाऽवयव्यस्ति । अवयविनि पटेऽ-सत्यासन्नावयवा व्यतिषङ्गविशेषविशिष्टास्तंतव इव सिद्धे त्ववयवावयविभावेऽवयविनि स्थूलत्वादि-विधिः । अवयवेषु तन्निषेधः । एवमवयवेषु सूक्ष्मत्वविधिः । अवयविनि तन्निषेधः । एवं विधित-न्निषेधलक्षणो विशेषः । ईश्वरशक्तिं विना नोपपद्यते । तयोरभिन्नत्वात् । न च भेदेनोपपत्तिः । भेदाभेदसमावेशस्यापीश्वरशक्तिं विनाऽयोगात् । न च विशेषेणोपपत्तिस् तस्यापीश्वरशक्त्या विहितत्वात् । एवं चाघटितघटकशक्तिर्भगवान्विशेषं विरोधमाशङ्कीकृत्य क्वचिद्भेदनकार्यविशेषं घटयति । सर्वथाऽ-पीश्वरशक्तिरङ्गीकार्या । तदेतदभिप्रेत्योक्तं तात्पर्ये ॥ एवमित्यदि । एवं रीत्येश्वरे दुर्घटघटनाशक्ति-रङ्गीकार्येति ॥ ६० ॥
स्यात् सादृश्यभ्रमस्तावद् विकल्पे सति वस्तुनः ।
जाग्रत्स्वप्नो यथा स्वप्ने तथा विधिनिषेधता ॥ ६१ ॥
तात्पर्यम्
एवमवयवावयविनोरपि ॥ न च सादृश्यमात्रम् । वस्तुभेदे हि तद्युज्यते । तस्मात्स्वप्न एव । जाग्रत्स्वप्नौ यथा विशेषतो दृश्येते तथा पृथिव्यबादिविशेषो दुर्घटोऽपीश्वर-कल्पनयैवासौ दृश्यते । ‘कार्यकारणवस्तूनां विशेषो न निरूपितः । तथापीशेच्छयैवासौ दृश्यते नियतोऽपि च’ इति च ॥ ६१ ॥
पदरत्नावली
नन्ववयवावयविनोः सादृश्यमात्रेण तस्यायमवयव इति व्यवहारः । तस्मात् तद्व्यतिरेकेण सोऽपि नास्तीति कथमापद्यत इति तत्राह– स्यादिति ॥ सत्यम् । सादृश्यभ्रमः स्यात्ता-वत् । कस्मिन् सन्तीति तत्राह ॥ विकल्प इति ॥ वस्तुनो विकल्पे भेदे सतीत्यन्वयः । यथा पट्टणादिषु रूप्यमवलोक्य तत्संस्कारवतः सहस्रकिरणसम्पर्केण चकासमानं क्वापि शुक्तिकाशकलं संदृश्य द्वयोः सादृश्यमात्रादिदं रजतमिति भ्रमो दृश्यते । तथा क्षित्यादेर्गन्धादेर्भेदे वस्तुसादृश्यमात्रेण व्यवहारः स्यात् । न चात्र भेदो युज्यते । स्वरूपहानेः । अतोऽवयवाभावेऽवयव्यभाव आपद्यते स्वरूपत्वादिति भावः । पटस्य प्रत्येकं तन्तुना भेदेऽपि समुदायरूपेणाऽभेदादुक्तं युक्तमिति ।
नन्ववयविपदार्थसद्भावे इयं चिन्ता । स एव नास्ति । परमाणव एव पुञ्जीभूय कार्यं जनयन्ती-त्यङ्गीकार्यत्वात् । प्रतिक्षणं नाशाच्च । अभेदग्राहिप्रत्यभिज्ञायाश्च संस्कारजनितसादृश्यमात्रविषयतया भ्रान्तित्वादित्यतो वाऽऽह– स्यादिति ॥ वस्तुनो भेदे सति तदुक्तं सत्यं स्यात् । तदेव नास्ति । एकत्वस्य साक्षिप्रत्यक्षेणानुभूयमानत्वात् । साक्षिणो भ्रान्तित्वे सर्वस्य विनाशसाधकस्यापि व्याप्तिग्राहक-प्रमाणप्रामाण्यस्य साम्यात् परमाणुपुञ्जपक्षेऽपि निगदितदोषानिस्तारात् । परमाणुभिर्विना पुञ्जाभावेन स्वरूपं न स्यात् । अतो दुर्घटघटकेन केनचिद् भवितव्यम् । स चादृष्टकर्मणोश्चेतनाश्रयत्वेन पृथक्सामर्थ्याभावाच् चेतन एव भवेत् । चेतनसामान्यस्य हिताकरणादिना पारतन्त्र्यप्रतीतेर् निरवयवत्वेन प्रवृत्त्यनुपपत्तेश्च तत्प्रवर्तकत्वेनाघटिघटकत्वेन माहात्म्याकरपरमचेतनपरिकल्पनयैव शरीरपदार्थो-पादानभूतपृथिव्यादियोगो दृश्यत इति सिद्धम् ।
कार्यकारणवस्तूनां विशेषो न निरूपितः ।
तथापीशेच्छयैवासौ दृश्यते नियतोपि च ॥ इति स्मृतेः ।
एतादृशो विशेषः कुत्र दृष्ट इति तत्राह– जाग्रदिति ॥ यथा स्वप्ने जाग्रदिदम् अयं स्वप्न इति विशेष ईश्वरेच्छया दृश्यते । ‘एष स्वप्नान् दर्शयति’ इति श्रुतेः । ‘न तत्र रथा न रथयोगा न पन्थानो भवन्ति । अथ रथान् रथयोगान् पथः सृजते’ इत्यादेः स्वप्ने प्रतीयमानं सर्वमीश्वरेच्छाकर्तृकमिति ज्ञायते । तथा विधिनिषेधविशेषोऽपीश्वरकल्पनयैव प्रवर्तत इत्याह– तथेति ॥‘अग्निष्टोमेन स्वर्गकामो यजेत’ इत्यादिमहाविधित्वम् । ‘अरुणया पिङ्गाक्ष्या एकहायन्या सोमं क्रीणाति’ इत्याद्यवान्तरविधित्वं तथा ‘ब्राह्मणो न हन्तव्यः’ इत्यादिमहानिषेधत्वं ‘न मृषा वदेत्’ इत्याद्यवान्तरनिषेधत्वं चेश्वरेच्छाक्लृप्त-मित्यन्वयः । ‘स इदं सर्वमसृजत’ इत्यादेः सङ्कोचे कारणाभावान्मुख्यार्थ एवाङ्गीकर्तव्यः । अत्र तत्तद्विशेषस्य परमेश्वरक्लृप्तत्वनिश्चयाय मिथ्याभूतजाग्रत्वग्रहणम् । न तु तद्वत् स्वप्नस्यापि मिथ्यात्व-निश्चयाय । तस्यार्थक्रियाकारित्वेन सत्यत्वनिश्चयात् । अनेन सर्वस्यापि मिथ्यात्वे रज्जुसर्पस्य मिथ्यात्वं रज्जुखण्डः सत्य इतीयं व्यवस्था कुत इत्याशङ्क्य किथ्याभूतस्वप्नेऽपि जाग्रत्स्वप्नव्यवहारवद् व्यवहार-मात्रमत्र चेत्यादिश्रुत्योच्यत इति ॥ ६१ ॥
सत्यधर्मीया
स्यात्सादृश्यभ्रमस्तावदिति श्लोके उपादानोपादेयस्थलेऽवयवावयविस्थले च प्रकारान्तरनिषेधः क्रियत इति तात्पर्येणाप्रतीतार्थकं वाक्यं व्याचष्टे ॥ एवमवयवेति । यथा स्वप्ने सत्येव जाग्रत्स्वप्नो जाग्रद्वत्स्वप्नः स्वाप्नो गजादिर्दृश्यते तदवस्थायां निवृत्तायां निवर्तते यथा तथा वस्तुनो जीवेशादेर्विकल्पे भेदे सत्येव तावत्पर्यन्तं सादृश्यभ्रमः स्यात् । स्यात्तथाविधनिषेधता च निवृत्ते भेदे च निवर्तते च सादृश्यादिकमिति जीवेशभेदादेर्मिथ्यात्वमुच्यत इत्यपार्थप्रतीतिनिरासाय तं श्लोकं योजयति ॥ न चेति । यथाऽबादिसङ्घातादिमात्रता दुर्घटैवं सादृश्यमात्रं किञ्चित्सादृश्यं च न घटते । कुतो न घटत इत्यत आह ॥ वस्त्विति ॥ तत्सादृश्यादिकं वस्तुनोर्भेदे सत्येव हि यतो युज्यते तत्तन्मिथ्यात्वे कथं तद्घटेत । तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वस्य तत्त्वादिति तदविनाभावादिति भावः । असति तस्मिन्नवस्तुनः सादृश्यं किन्तु तद्भ्रम एव स्यात् । उपसंहरन्नुत्तरार्धं सम्यग्व्याचष्टे ॥ तस्मादिति ॥ तस्मादुक्तप्रकारासम्भवात् । यथा जाग्रत्स्वप्नो जाग्रत्पदार्थारोपाधिष्ठानभूतस्वाप्नकरितुरगादिर्विशेषतो विशेषोऽवयवावयविव्यवहाररूपश्च । प्रथमार्थे तसिः । भगवत्सादृश्येन दृश्यते तथा विना कार्यत्वेन दुर्घटः पृथिव्यबादिरूपो विशेषः । इतरदुर्घटोऽपीश्वरकल्पनयैव तत्क्लृप्त्यैव दृश्यते । इदमर्थमिदं मानमिति नानादरणीयतेतीरयति ॥ कार्यकारणेति । कार्यत्वस्य साध्यत्वेन मूलानुकूल्याय वा कार्येति पुरस्कृतिः । पृथिव्यबादिपदार्थानां विशेष उक्तसङ्घातत्वादिरूपो न निरूपितः । निरूपयितुं युष्मदादिभिर्न शक्य-श्चेदपि निरूपयितारो वर्तेरन्नित्याशङ्कापनुत्तये न निरूपित इत्युक्तिः । तथाऽप्यघट््यघटकयेशेच्छयैवासौ विशेषो नियतो दृश्यते । चोऽवधारणे । तथा पृथिव्यवयवादिविशेष इति पठन्ति । अवयवावयविविशेषो दुर्घटो दृश्यत इत्यनेन मानमप्युक्तमिति व्याकुर्वते च ॥
ततश्चायं मूलार्थः ॥ सादृश्यमात्रेण प्रयोजकेन तस्यायमवयव इति व्यवहृतिर्दृश्यते तत्कथं तद्व्यतिरेकेण नास्ति स इत्युच्यत इत्यत आह ॥ स्यादिति । वस्तुनो विकल्पे भेद आत्यन्तिके सति सादृश्यभ्रमस्तद्भ्रान्तिः स्यात्तावदेव । ‘‘यावत्तावच्च साकल्येऽवधौ मानेऽवधारण’’ इत्यमरः । अत्यन्त-भेदस्यैव सादृश्यप्रयोजकत्वात्तदभावे तद्भ्रम एव स्यान्न वास्तविकं सादृश्यमित्यर्थः । ‘‘तन्तुभ्योऽन्यः पटः साक्षात्कस्य दृष्टिपथं गत’’ इत्युक्तेः प्रत्येकं तन्तुना भेदाभेदौ तत्समुदायेनात्यन्ताभेद इत्युक्तं युज्यते । ईश्वरेच्छामात्रहेतुकतायां निदर्शनं दर्शयति ॥ जाग्रदिति । यथा स्वप्नेऽयं जाग्रदयं स्वप्न इति विशेषश्चेशेच्छया दृश्यते । ‘‘य एष स्वप्नान्प्रदर्शयति । न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान्रथयोगान्पथः सृजत’’ इत्यादेः । तथा विधिनिषेधता ‘‘ज्योतिष्टोमेन स्वर्गकामो यजेतेति विधिः ‘‘ब्राह्मणो न हन्तव्य’’ इति निषेधः । तावस्य स्त इत्यर्श आद्यच् । स्वार्थे वा । तथा विधिमत्त्वं निषेधित्वं चेशकल्पनयैवेति योज्यम् । जाग्रत्त्वमिति हि भ्रम इत्यादेः सादृश्यभ्रमानुकूल्याय जाग्रत्त्व-ग्रहणम् । स्वप्नस्य स्वमते सत्यत्वादिति ज्ञेयम् । उपलक्षणं च विधिनिषेधतेति । सकलधर्मा अपि सकलेशाधीना इत्यर्थः । तावदित्यप्यर्थे । वस्तुनो वस्तुन इति वस्तुनोर्विकल्पे भेदे सत्येव सादृश्य-भ्रमोऽपि सम्भवी यदा तदा किमु वक्तव्यं वास्तविकसादृश्यं भेदं विना न सम्भवतीति कैमुत्यमुपपादयितुं भ्रमपदमिति वा ॥ ६१ ॥
मन्दनन्दिनी
नन्ववयवावयविनोरभेदे सति कार्यविशेषनिर्वाहायेश्वरशक्त्यपेक्षा । अभेद एव नास्ति । किन्तु सादृश्यमात्रम् । तेनैव परस्परभ्रम इत्यत आह ॥ स्यादिति । वस्तुनो विकल्पेऽ-वयविनोऽवयवस्य च भेदे सादृश्येनाभेदभ्रमः स्यात् । स एव नास्ति । ‘‘तन्तुभ्योऽन्यः पटः साक्षात्कस्य दृष्टिपथं गत’’ इत्युक्तेः । अस्त्ववयवावयव्यभेदस्तथाऽपि कः कार्यविशेषः । कुत्र वेश्वरशक्त्या निर्वाह्यो दृष्ट इत्यत आह ॥ जाग्रदिति । यथा स्वप्ने स्वप्नविशेषे । जाग्रत्स्वप्नौ जाग्रद्बाह्यशब्दादिः स्वप्नो वासनामयगजादिश्चेत्युभावीश्वराघटितघटकशक्त्या दृश्येते । तथा विधिनिषेधताऽवयवावयविनोः स्थूल-सूक्ष्मत्वविधिनिषेधलक्षणो विशेष उक्तशक्त्या निर्वाह्य इति । अत एव तात्पर्यम् ॥ न चेत्यादि । न च सादृश्यमित्यतः परं तेन चाभेदभ्रमोऽवयवावयविनोरिति वाक्यशेषः । तत्सादृश्यं विशेषतः । ईश्वरशक्ति-विशेषतः । विशेष उक्तविधिनिषेधलक्षणः । ईश्वरकल्पनया सामर्थ्येन विशेष ईश्वरशक्तिं विनाऽन्ये-नात्यन्तभेदादिना न निर्वाह्यः । ईशेच्छयेशशक्त्या । नियतोऽप्यवयविन्येव कश्चिदवयवे एव कश्चिदिति
॥ ६१ ॥
भावाद्वैतं क्रियाद्वैतं द्रव्याद्वैतं तथैव च१ ।
वर्तयन् स्वानुभूत्येह त्रीन् स्वप्नान् धुनुते मुनिः ॥ ६२ ॥
पदरत्नावली
एवं सर्वस्मादात्मन उपकारकत्वेन प्रेष्ठत्वाद् येन विना तत्प्रसादो न भवेद् यस्मिन् सति सञ्जाघटीति भगवति तत्समर्पणसमये, तं भावनाप्रकारं दर्शयति– भावेति ॥ मुनिः शास्त्रतत्वज्ञानी आत्मनो भावाद्वैतं क्रियाद्वैतं तथा द्रव्याद्वैतं च वर्तयन् स्मरणं कुर्वन् स्वानुभूत्याऽऽविर्भूतस्वरूपज्ञानेन इह जगति । सतस्त्रीन् स्वप्नान् जाग्रदाद्यवस्थानुभवनिमित्ताज्ञानशब्दवाच्यानर्थान् धुनुते निरस्यतीत्यन्वयः
॥ ६२ ॥
सत्यधर्मीया
सकलमपि यदधीनं तत्प्रसत्तिरुपसत्तिं विना न प्रादुष्यादिति भावनाप्रकारमाह ॥ भावाद्वैतमिति । मुनिः सत्समयतत्ववित् । भावाद्वैतं क्रियाद्वैतं द्रव्याद्वैतं च तथैव शास्त्रशंसितप्रकारेण । परस्परसमुच्चायको वा तथैवचशब्दः । वर्तयन्पुनः पुनश् चिन्तयन् स्वानुभूत्या स्वरूपप्रतिपत्त्या इह जगति विद्यामानांस्त्रीन्स्वप्नान् । बहुवचनमाद्यर्थे । स्वप्नजाग्रत्सुषुप्तिनिमित्तकाज्ञानप्राप्यानर्थान्धुनुते निरस्यति
॥ ६२ ॥
मन्दनन्दिनी
एवं भगवतो माहात्म्यमुक्त्वा समर्पणं कार्यमित्याशयेनाह ॥ भावेति । मुनिः स्वानुभूत्याऽऽत्मनः परमात्मनो भावाद्वैतादिकं वर्तयन् पुनः पुनर्विषयीकुर्वन् । त्रीन्स्वप्नान् स्वप्नाद्यव-स्थात्रयम् । संसारमिति यावत् । धुनुते जहातीति योजना ॥ ६२ ॥
कार्यकारणवस्त्वैक्यदर्शनं पटतन्तुवत् ।
अवस्तुत्वाद् विकल्पस्य भावाद्वैतं तदुच्यते ॥ ६३ ॥
पदरत्नावली
किं तद् भावाद्वैतादिकं येन तदवश्यमनुध्येयमिति तत्राह– कार्यकारणेति ॥ महदादिकार्येषु प्रकृतितद्गुणाख्यकारणेषु च स्थितस्य वस्तुनो नित्याप्रतिहतस्य हरेरेकत्वदर्शनम् । तत् कथमिव ?– पटतन्तुवत् ॥ पटस्य तन्तूनां चाभेदलक्षणैकत्वं यथा प्रामाणिकं तथेत्यर्थः । ‘प्रकृतिं पुरुषं चैव प्रविश्य पुरुषोत्तमः’ इत्यादेः । मृद् घट इति सामानाधिकरण्येन कार्यकारणयोरभेदोक्त्या श्रीहरि-सम्बन्धाप्रतीतेः प्रकृतासङ्गतं स्यात्, निदर्शनं चैकत्वप्रदर्शनपरमित्युक्त एवार्थः । प्रतीतार्थं परित्यज्य प्रतीतार्थकथने किं कारणम् ? अत्राह– अवस्तुत्वादिति ॥ घटादिप्रपञ्चस्यानित्यत्वेन प्रतिहतत्वात् स्वत एव कार्योत्पादनसामर्थ्याभावात् । अवस्तुत्वाद् असमर्थत्वाद् विश्लिष्टत्वाद् अमिलितत्वात् कार्यजनन-शक्त्यभावाद्वा । इदं च भगवन्माहात्म्यप्रकटनम् । ‘गणं युगपदाविशत्’ इति स्वोक्तेः कार्यकारणानु-विष्टानां भगवद्रूपाणां मत्यैक्यमेकत्वम् । ‘तत् सृष्ट्वा तदेवानुप्राविशत्’ ‘समधिगतोऽस्मि विधूतभेदमोहः’ इत्यादिश्रुतिस्मृतिभिरुच्यत इति ज्ञानपूर्वकमुपासनं कार्यमिति शेषः । ‘न ऋते त्वत् क्रियते किञ्चनारे महामर्कं मघवन् चित्रमर्च’ इति क्रियाद्वैतम् । आत्मजायादीनामन्येषां च देवदत्तादीनां भगवदधीनत्व-दर्शनं यद् यच्चार्थकामयोरैक्यं भगवद्विषयत्वदर्शनं तत् सर्वं द्रव्याद्वैतं ‘मन्ये तदर्पितमनोवचनात्मगेहप्राणः पुनाति’ इत्यादिनोच्यत इत्यन्वयः । अनेन जीवस्य श्रीहरिणा द्वैतमुच्यते । तत्रैव चाद्वैतशब्दार्थग्रहणम् । न स्वरूपैक्यमिति शिक्षा ग्राह्येति ज्ञायत इति ॥ ६३ ॥
सत्यधर्मीया
दुर्गमार्थत्वात्तत्त्रिकं स्वयमेव व्याकरोति ॥ कार्येति ॥ कार्यं च महदादिकारणं च प्रकृत्यादिकारणं च तयोर्वसतीति वस्तु शक्तं च भगवद्रूपं तदैक्यदर्शनं तदभेदज्ञानं यत्तद्भावाद्वैतमुच्यते । तत्र निदर्शनमाह ॥ पटतन्तुवदिति । यथा पटस्य तन्तुसमूहस्याभेददर्शनं यथा बाधितं तथेत्यर्थः । विश्वस्य विश्वेशैक्यं किं नोच्यते । उच्यते चाशाब्दोऽर्थः कुत इत्यतो वक्ति । विकल्पस्य विविधतया कल्पः कल्पनं तस्य प्रपञ्चस्य कार्यकारणरूपस्य । अवस्तुत्वादसमर्थत्वात् । तस्य समर्थत्वान्न तयो-स्तादात्म्यं सम्भवतीत्युक्त एवार्थ इति । गणं युगपदाविशत् । तत्सृष्ट्वा तदेवानुप्राविशत् । समधि-गतोऽस्मि विधूतभेदमोहः । हरिरूपाणां भेददर्श्यधरं तम इत्यादीन्यत्र मानानि भवन्ति । यदि यथाश्रुतोऽर्थः स्याद्धन्त तर्हि कार्यकारणवस्त्वैक्यदर्शनमिति मृद्घट इति सामानाधिकरण्येन कार्यकारणयो- रभेदोक्त्या हरिसम्बन्धाप्रतीतेः प्रकृतासङ्गतं स्यात् । निदर्शनं चैकत्वप्रदर्शनपरमित्युक्त एवार्थ इति भावमावेदयाञ्चक्रुः ॥ ६३ ॥
मन्दनन्दिनी
भावाद्वैतादिस्वरूपं विविच्य दर्शयति ॥ कार्येत्यादिना । पटतन्तुवत्तद्गत-रूप-भगवद्रूपद्वयवत् । कार्यकारणवस्तुषु । प्रकृतिमहदहंकारादिषु विद्यमानभगवद्रूपैक्यस्य दर्शनं यत् । विकल्पस्य भेदस्यावस्तुत्वाद् असत्यत्वात्तदैक्यदर्शनम् । भावाद्वैतमुच्यत इति योजना ॥ ६३ ॥
यद् ब्रह्मणि परे साक्षात् सर्वकर्मसमर्पणम् ।
मनोवाक्तनुभिः पार्थ क्रियाद्वैतं तदुच्यते ॥ ६४ ॥
सत्यधर्मीया
न ऋते त्वत्क्रियते किञ्चनारे । दारान्सुतान्प्रियान्प्राणान्परस्मै सन्निवेदयेदित्यादेः साक्षात्परे ब्रह्मणि मनोवाक्तनुभिः सर्वकर्मसमर्पणं यत्तत्पार्थ क्रियाद्वैतमुच्यते ॥ ६४ ॥
मन्दनन्दिनी
मनोवाक्तनुभिः क्रियमाणेत्यध्याहृतम् । सर्वकर्मेत्यनेन सम्बध्यते । यत्समर्पणं तत्क्रियाद्वैतमुच्यत इति योजना ॥ ६४ ॥
आत्मजायासुतादीनामन्येषां सर्वदेहिनाम् ।
यच्चार्थकामयोरैक्यं द्रव्याद्वैतं तदुच्यते ॥ ६५ ॥
सत्यधर्मीया
क्रमप्राप्तं द्रव्याद्वैतमाह ॥ आत्मेति ॥ आत्मा देहो जाया भार्या सुताः पुत्रा अन्येषां सर्वदेहिनां प्राणिनां यच्च तदीयार्थकामयोरैक्यं भगवद्विषयतादर्शनं तद्द्रव्याद्वैतमुच्यते ॥ ६५ ॥
मन्दनन्दिनी
स्वार्थकामयोस्तद्गतयोर्भगवद्रूपयोरैक्यं तद्द्रव्याद्वैतमुच्यत इति योजना । आत्मजायेत्यादिना स्वार्थकामयोर्विवरणं मन्तव्यम् ॥ ६५ ॥
यद् यस्य वाऽनिषिद्धं स्याद्येन यत्र यतो नृप ।
स तेनेहेत कर्माणि नरो नान्यैरनापदि ॥ ६६ ॥
पदरत्नावली
उपासनाप्रकारं निरूप्याधुनाऽर्चनादिप्रकारं दर्शयति– यद्यस्येति ॥ यस्य पुरुषस्य येन द्रव्येण यत्र यस्मिन् देशे काले वा यतो यस्मादुपात्तम् अनिषिद्धं श्रुतिस्मृतिलोकविहितं स नरस् तेन तस्मिन् देशे काले वा तस्मात् पुरुषादाप्तेन कर्माणि पूजालक्षणानि, ईहेत कुर्यात् । अन्यैर्निषिद्धैर्न कुर्यादित्यन्वयः । नन्वेवं तर्ह्यापदि उपरम एव प्राप्त इति तत्राह– अनापदीति ॥ ६६ ॥
सत्यधर्मीया
उपासनाप्रकारं निरूप्यार्चनोचितद्रव्यप्रकारमाह ॥ यद्यस्येति । यस्य पुंसो येन द्रव्येण यत्र देशे काले च यतो यस्मात्सम्पादितम् । वेदादेर्विहितमिति वा । तेन प्राप्तेनानापद्यापदभावे कर्माणि जगन्नाथपूजनादीनि ईहेत । नान्यैरापत्कालोदितैर्नेहेत न कुर्यात् । अन्यैर्निषिद्धैरिति वा ॥६६॥
मन्दनन्दिनी
अनापदि दैवलब्धेनानिषिद्धेन साधनेनार्चनं कार्यमित्याह ॥ यदिति । यत्तु-लस्यादिकं यस्याधिकारिणो येन शिष्यादिना यत्र देशे यतो वनादितो लब्धमनिषिद्धम् । स तेन कर्माणि भगवदर्चनादीनीहेत्कर्तुमिच्छेत् । नान्यैरिति योजना ॥ ६६ ॥
एतैरन्यैश्च वेदोक्तैर्वर्तमानः स्वकर्मभिः ।
गृहेऽप्यस्य गतिं यायाद्राजंस्तद्भक्तिभाङ् नरः ॥ ६७ ॥
पदरत्नावली
एतैरनापदि विहितैः । अन्यैरापदि विहितैः । अस्य हरेर्गतिं ज्ञानं स्थानं वा, यायादिति लडर्थे लिङ्, आप्नोतीत्यर्थः ॥ ६७ ॥
सत्यधर्मीया
एतैरन्यैरापत्कालोदितैर्वेदोक्तैः । वेदाः श्रुतयो वेदयन्तीति वेदाः स्मृतयश्च तदुक्तैः स्वकर्मभिः स्ववर्णाश्रमोचितैर्वर्तमानो भक्तिभाक् चेन्नरो गृहेऽपि सन् अस्य हरेर्गतिं स्थानं ज्ञानं वा यायात्प्राप्नुयादुपैतीति वा । अस्य गतिं परमहंसस्येति वा । प्रस्तुतत्वात् । गृहेऽपीति पदस्वारस्याच्च । यद्वक्ष्यति च न्यासिनामियादिति । तच्छब्दस्तु परमात्मपरामर्शकः । सा भक्तिः पूर्वोक्ता तद्भागिति वा
॥ ६७ ॥
मन्दनन्दिनी
वेदोक्तैरेतैरुक्तैर्गृहस्थधर्मैः । अन्यैश्च स्वकर्मभिर्गृहे वर्तमानोऽपि । अस्य गतिं भगवतो गतिं तद्भक्तिभाङ्नरः । यायादिति योजना ॥ ६७ ॥
यथा हि यूयं नृपदेवदुस्त्यजादापद्गणादुत्तरिता ननु प्रभो ।
यत्पादपङ्केरुहसेवया भवानहार्षीन्निर्जितदिग्गजः क्रतुः ॥ ६८ ॥
पदरत्नावली
उक्तमर्थमनुभवसिद्धं करोति– यथेति ॥ दिग्गजशब्देन दिक्पालानुपलक्षयति । तस्य सेवा कर्तव्येति शेषः ॥ ६८ ॥
सत्यधर्मीया
हरित एव दुरिततरणमिति त्वदनुभवारूढं मदनुभवारूढं चेति कैश्चित् श्लोकैराह ॥ यथा हीति ॥ हे प्रभो । नृपाश्चेतरे च देवाश्च तैर् दुस्त्यजात्त्यक्तुमशक्यादापद्गणाद्यूयं यथा उत्तरतातरत । उत्तरिता उत्तारिताः । ननु निश्चितम् । यत्पादपङ्केरुहसेवया यस्य श्रीकृष्णस्य पादावङ्घ्री एव पङ्केरुहे तयोः सेवया निर्जितदिग्गजो निर्जिता दिशन्ति समसमरमिति दिशः शत्रवस्तेषु श्रेष्ठा येन सः । भवान्क्रतुं यज्ञम् अहर्षीत्कृतवान्यथा तथा संसारादतरत् । एष्यन्निश्चयादेवमुक्तिः । तस्य सेवा कर्तव्येति शेषो वा । दिग्गजशब्दस्तत्फालोपलक्षक इति वा ॥ ६८ ॥
मन्दनन्दिनी
गृहस्थाश्रमधर्माचरणे धर्मराजमेवोदाहरति ॥ यथेति । हे प्रभो । यत्पाद-पङ्केरुहसेवया यूयम् । हे नृपदेव । दुस्त्यजादापद्गणादुत्तारिताः । ननु । यथा भवान्निर्जितदिग्गजः । दिग्गजशब्देन दिगन्तो लक्ष्यते । निर्जितदिगन्तः सन् । क्रतुं राजसूयमहार्षीदकार्षीत् । अस्य गतिं यायादिति पूर्वेण योजना ॥ ६८ ॥
अहं पुराऽभवं कश्चिद् गन्धर्व उपबर्हणः ।
नाम्नाऽतीते महाकल्पे गन्धर्वाणां सुसम्मतः ॥ ६९ ॥
तात्पर्यम्
अतीतमहाकल्पे अतीतब्रह्मकल्पे । ‘ब्रह्मकालः परश्चेति महाकल्पश्च कीर्तितः’ इति च ॥ ६९ ॥
**हह इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते **
श्रीमद्भागवतसप्तमस्कन्धतात्पर्ये पञ्चदशोऽध्यायः ॥ १५ ॥
पदरत्नावली
ममाप्यनुभवसिद्धमिति दर्शयितुं स्वचरितमाह– अहमिति ॥ कश्चिदित्यात्मानं निन्दयति । अथ नाम्ना उपबर्हणो, गन्धर्व इति । पूर्वम् अतीते महाकल्पे अतीतब्रह्मकाले ‘ब्राह्मकालः परश्चेति महाकल्पश्च कीर्तितः’ इति ॥ ६९ ॥
सत्यधर्मीया
नाम्नाऽतीते महाकल्प इति श्लोके वराहकल्पापेक्षयाऽतीते पाद्मे कल्प इति भ्रान्तिनिरासाय स्वयमनूद्य व्याकृत्य चाभिधानमभिधत्ते । अतीते महाकल्पे अतीतब्रह्मकाले । ब्रह्मकालः परश्चेति महाकल्पश्च कीर्त्यत इति चेति ॥ अथ श्लोकार्थः ॥ पुराऽतीते महाकल्पे ब्रह्मकल्पे नाम्नोपबर्हणो गन्धर्वाणां सुसम्मतः । गान्धर्व्यां विद्यायाम् । कश्चिदिति स्वाहङ्कृतिन्यक्कृत्यै । अन्यथा नाम्नोपबर्हण इतिवद्गन्धर्वाणां सुसम्मत इति चासङ्गतं स्यात् । अहम् अभवम् ॥ ६९ ॥
मन्दनन्दिनी
स्वस्य ब्रह्मपुत्रतां वक्तुं स्ववृत्तान्तमाह ॥ अहमिति । नाम्नोपबर्हणः । अतीते महाकल्पे । अत्र तात्पर्यम् ॥ अतीते इत्यादि ॥ ६९ ॥
रूपपेशलमाधुर्यसौगन्ध्यप्रियदर्शनः ।
स्त्रीणां प्रियतमो नित्यं मतस्तत्पुरलम्पटः ॥ ७० ॥
पदरत्नावली
तत्पुरलम्पटस् तासां पुरे गेहे लम्पटः स्थातुमुत्सुकमनाः ॥ ७० ॥
सत्यधर्मीया
तत्पुरलम्पटस्तासां पुराण्यङ्गानि तेषु लम्पटस्तदालिङ्गनाद्यासक्तमनाः । ‘‘पुरं पुरि शरीरे चे’’ति विश्वः ॥ ७० ॥
मन्दनन्दिनी
पेशलमवयवमार्दवं सौगन्ध्यं तैः प्रियदर्शनं यस्य सः ॥ ७० ॥
एकदा देवसत्रे तु गन्धर्वाप्सरसां गणाः ।
उपहूता विश्वसृग्भिर्हरिगाथोपगायने ॥ ७१ ॥
पदरत्नावली
गन्धर्वादिगणा अगायन् ॥ ७१ ॥
सत्यधर्मीया
विश्वसृग्भिः प्रजापतिभिः ॥ ७१ ॥
मन्दनन्दिनी
विश्वसृग्भिर्दक्षादिभिः प्रजेश्वरैः ॥ ७१ ॥
अगायं तद् विदित्वाऽहं स्त्रीभिः परिवृतो गतः ।
ज्ञात्वा विश्वसृजस्तन्मे हेलनं शेपुरोजसा ॥ ७२ ॥
पदरत्नावली
तद्विदित्वा गतः स्त्रीभिः परिवृतोऽगायम् । हेलनं विश्वसृजां पुरतः स्त्रीभिः सम्भूय मदोपरक्तगानलक्षणम् ॥ ७२ ॥
सत्यधर्मीया
तद् आव्हानम् । स्त्रीभिः परिवृतो गतः सन्नगायम् । विश्वसृजो मे मम तद्धेलनं स्वपुरतस्तरुणीभिः सम्भूय गानरूपम् । ओजसा तपःसामर्थ्येन शेपुः ॥ ७२ ॥
मन्दनन्दिनी
तद्विदित्वाऽहमगायम् । तच्च गानं मदादिपूर्वकमिति ज्ञेयम् । तच्च हेलनं ज्ञात्वांऽजसा शेपुरिति योजना ॥ ७२ ॥
याहि त्वं शूद्रतामाशु नष्टश्रीः१ कृतहेलनः ।
तावद् दास्यामहं जज्ञे तत्रापि ब्रह्मवादिनाम्
शुश्रूषयाऽनुषङ्गेण प्राप्तोऽहं ब्रह्मपुत्रताम् ॥ ७३ ॥
पदरत्नावली
तावत् तदानीमेव । अनुसङ्गेन निरन्तरसेवालक्षणसङ्गेन भक्त्या वा । ‘तीव्र-स्नेहोऽनुपाङ्गोऽथ नैरन्तर्यानुसेवनम्’ इत्यभिधानात् ॥ ७३ ॥
सत्यधर्मीया
तं शापमुपपादयति ॥ याहीति ॥ इति शेपुरित्यन्वयः । तावदुक्त्युत्तरक्षण एव दास्याम् । साऽपि न यादृशतादृशीति शंसति ॥ तत्रापि ब्रह्मवादिनामिति । अहं जज्ञे शुश्रूषया मातुर्ब्रह्मवादिनां सेवया । अनुषङ्गेण मम तीव्रभक्त्या । शुश्रूषया ममैव सेवयाऽनुषङ्गेण ‘‘तीव्र-स्नेहोऽनुषङ्गोऽथ नैरन्तर्यानुसेवन’’मित्यभिधानात् । यथा स(त)त्पादपङ्केरुहसेवया भवांस्तथाऽहं ब्रह्मपुत्रतां प्राप्त इति योजना ॥ ७३ ॥
मन्दनन्दिनी
शापप्रकारमाह ॥ याहीति । तत्रापि शूद्रजन्मन्यपि । अनुषङ्गेन भक्त्या । तीव्रस्नेहोऽनुषङ्गोऽथ नैरन्तर्यानुवेशनमित्यभिधानात् ॥ ७३ ॥
धर्मस्ते गृहमेधीयो वर्णितः पापनाशनः ।
गृहस्थो येन पदवीमञ्जसा न्यासिनामियात् ॥ ७४ ॥
पदरत्नावली
अत इत्येतदपास्तं निगमयति– धर्म इति ॥ न्यासिनां पदवीं निवृत्तिमार्गम् । अर्चिरादिमार्गेण वैकुण्ठं वा ॥ ७४ ॥
सत्यधर्मीया
न्यासिनां परमहंसानाम् । निवृत्तिमार्गस्थानामिति वा । गतिं वैकुण्ठं भगवदवगमं वा ॥ ७४ ॥
यूयं नृलोके बत भूरिभागा लोकं पुनाना मुनयोऽभियान्ति ।
२तेषां गृहानावसतीति साक्षाद् गूढं परं ब्रह्म मनुष्यलिङ्गम् ॥ ७५ ॥
पदरत्नावली
यूयमित्यादिपद्यमुक्तार्थम् ॥ ७५ ॥
सत्यधर्मीया
यूयमित्यादिश्लोकत्रिकं प्राग्विवृतम् ॥ ७५–७७ ॥
मन्दनन्दिनी
यूयमिति । येषां गृहान् मुनयोऽभियान्ति । तथा साक्षाद्गूढं मनुष्यलिङ्गं परं ब्रह्म आवसत इति । तस्माद्यूयं नृलोके भूरिभागा बत ॥ ७५ ॥
स वा अयं ब्रह्म महद् विमृग्यं
कैवल्यनिर्वाणसुखानुभूतिः ।
प्रियः सुहृद् वः खलु मातुलेय
आत्माऽर्हणीयो विधिकृद्गुरुश्च ॥ ७६ ॥
पदरत्नावली
कैवल्येन प्रकृतिप्राकृतमिश्रराहित्येन आप्तं यन् निर्वाणसुखं स्वरूपसुखं तस्य अनुभूतिर् अनुभवो यस्य स तथा । यत्र यस्य प्रेमरसस् तत्र स स्नातः ॥ ७६ ॥
मन्दनन्दिनी
भगवन्तं कृष्णमेव साक्षात्परब्रह्मत्वेनोपदिश्य तत्सम्बन्धबाहुविध्यात्पार्थान् स्तौति ॥ स वाऽयमिति । कैवल्येन जडामिश्रतया निर्वाणसुखानुभूतिः स्वरूपसुखानुभवो यस्य स तथा । एतादृशः सोऽयं महद्विमृग्यं परं ब्रह्म । एतादृशः कृष्णो वः प्रियसुहृन्मातुलेय आत्मा स्वामी । अन्तर्यामी । अर्हणीयो विविधकृदाज्ञाकारी गुरुश्चेति योजना ॥ ७६ ॥
न यस्य साक्षाद् भवपद्मजादिभी
रूपं धिया वस्तुतयोपवर्णितम् ।
मौनेन भक्त्योपशमेन पूजितः
प्रसीदतामेष स सात्वतां पतिः ॥ ७७ ॥
मन्दनन्दिनी
स्वस्य भगवत्प्रीतिं प्रार्थयते नारदः ॥ नेति । यस्य रूपं वस्तुतया साकल्येन भवादिभिर्धिया मनसोपवर्णितम् । स एष सात्वतां पतिः । मौनेन मननेन भक्त्योपशमेन विषयालम्बुद्ध्या पूजितः प्रसीदतामिति योजना ॥ ७७ ॥
श्रीशुक उवाच–
इति देवर्षिणा प्रोक्तं निशम्य भरतर्षभः ।
पूजयासास सुप्रीतः कृष्णं च प्रेमविह्वलः ॥ ७८ ॥
सत्यधर्मीया
कृष्णम् । चान् मुनिं च ॥ ७८ ॥
मन्दनन्दिनी
अनन्तरं वृत्तमाह शुकः ॥ इतीति । सुप्रीतो भक्त्युद्रेकयुक्तः प्रेमविह्वलः प्रेम्णा विगतविषयस्मरणः ॥ ७८ ॥
कृष्णपार्थावुपामन्त्र्य पूजितः प्रययौ मुनिः ।
श्रुत्वा कृष्णं परं ब्रह्म पार्थाः परमविस्मिताः ॥ ७९ ॥
सत्यधर्मीया
उपामन्त्र्य गत्वा गच्छामीत्युक्त्व• । श्रुत्वा नारदादिति शेषः । पार्थाः पञ्च
॥ ७९ ॥
मन्दनन्दिनी
उपामन्त्र्य स्वाश्रमं गच्छामीत्युक्त्वा ॥ ७९ ॥
इति दाक्षायणीनां ते पृथग्वंशाः प्रकीर्तिताः ।
देवासुरमनुष्याद्या लोका यत्र चराचराः ॥ ८० ॥
॥ इति श्रीमद्भागवते सप्तमस्कन्धे पञ्चदशोऽध्यायः ।
पदरत्नावली
परमप्रमेयमुपसंहरति– इतीति ॥ दाक्षायिणीवंशस्य शाखोपशाखाभेदेन वर्णित-त्वादितिशब्दः समाप्तिवचनः । यत्र येषु वंशेषु । ज्ञानमात्रं विहाय स्थावरसङ्ग्रहणाय चराचरा इति
॥ ८० ॥
भुजविलसितशौर्यं भुजङ्गमदजितं विष्णुम् ।
वन्दे भुजगशयनं भुजयुगकल्पितग्रीवम् ॥
पदरत्नावलिर्ह्येषा सप्तमस्कन्धसङ्गता ।
तुलसीव हरेः प्रीत्यै भूयाद् विभववारिधेः ॥
॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वतीर्थमुनीन्द्रकृतायां पदरत्नावल्यां
श्रीमद्भागवतटीकायां सप्तमस्कन्धस्य पञ्चदशोऽध्यायः ॥
सत्यधर्मीया
वंशाः शाखोपशाखाभेदाद्बहुवचनम् । यत्र वंशेषु स्थावरा अपि सन्तीत्यचरा इत्युक्तिः । प्रकीर्तिताः । प्रेणकीर्तनमस्य मङ्गलप्रकर्षहेतुतामभिप्रैतीत्यशेषमतिमङ्गलम् ॥ ८० ॥
सप्तमस्कन्धकन्धौ च विहारं गुरुसत्तरिः ।
कृतवान्सत्यधर्माव्हः कोऽपि कौपीनभाग्यभाक् ॥ १ ॥
अनेनानेनसां नाथो दययेदुदयेषणः ।
रामो रामारमोऽस्मासु व्यासो व्यासां दृशं दिशन् ॥ २ ॥
॥ इति श्रीसत्यधर्मतीर्थकृतायां श्रीमद्भागवतविवृतौ
सप्तमस्कन्धे पञ्चदशोऽध्यायः ॥ ७–१५ ॥
मन्दनन्दिनी
पूर्वं पृष्ठा दाक्षायणीवंशा उपवर्णिता इति सूचयति शुक्रः ॥ इतीति । यत्र वंशेषु देवासुरमनुष्याद्या लोका जनाः । एषां वंशाश्चराचराश्च त इमे वंशा इत्युक्ताः प्रकारेण पृथक् प्रकीर्तिताः । इति योजना ॥ ८० ॥
हिरण्यकशिपोर्वक्षोविदारिनरकेसरी ।
शरण्यः सर्वभक्तानां मुदामाप्तिं तनोति मे ॥ १ ॥
नभःकृष्णभवाष्टम्यां दृष्ट्वेमां मन्दनन्दिनीम् ।
स्मयन्नानन्दसान्द्रोऽयं नन्दयेन्नन्दनन्दनः ॥ २ ॥
व्यासप्रोक्तं भागवतं पूर्णप्रज्ञप्रकाशितम् ।
अत्र टीका मदीयाऽपि तुष्ट्यै दूर्वेव मापतौ ॥ ३ ॥
प्रमादबहुले ग्रन्थे गुणानेवान्ववेषयेत् ।
ग्रावग्रामयुतेह्यद्रावन्वेषयति हीरकम् ॥ ४ ॥
यो तनोत्प्रभया विष्णुतत्त्वकर्मविनिर्णयौ ।
तमोनिरासाच्च तमाचार्यसूर्यमहं भजे ॥ ५ ॥
सृतिकूपे निपतितं द्विजमुद्धृत्य मापतेः ।
पदाम्बुजे जहसन्तं भुवनेन्द्रमहं भजे ॥ ६ ॥
॥ इति श्रीभागवतटिप्पण्यां व्यासतत्वज्ञकृतायां मन्दनन्दिन्यां
सप्तमस्कन्धे पञ्चदशोऽध्यायः ॥
॥ इति सप्तमस्कन्धः समाप्तः ॥ ७ ॥