१४ चतुर्दशोऽध्यायः

गृहस्थ एतां पदवीं विधिना येन चाञ्जसा

॥ अथ चतुर्दशोऽध्यायः ॥

युधिष्ठिर उवाच–

गृहस्थ एतां पदवीं विधिना येन चाञ्जसा ।

यायाद् देवऋषे ब्रूहि मादृशो गृहमूढधीः ॥ १ ॥

पदरत्नावली

सर्ववर्णाश्रमाणां गृहाश्रममूलत्वात् सूचीकटाहन्यायेन वर्णाद्याश्रमधर्मं निरूप्य गृहाश्रमधर्मं निरूपयत्यस्मिन्नध्याये । तत्र नापृष्टः कस्यचिद् ब्रूयादिति न्यायाद् युधिष्ठिरः पृच्छतीत्याह– युधिष्ठिर इति ॥ एतां पदवीम् अन्याश्रमविषयाम् । विधिना प्रकारेण ॥ १ ॥

सत्यधर्मीया

ईहोपरमादिपरमहंसवनस्थादिधर्मं निरूप्याधुना गृहिणां धर्ममेवं चेच्छर्मसाधनमिति निरूपयत्यस्मिन्नध्याये । तत्र नापृष्टः कस्यचिद्ब्रूयादित्यादेर्नारदेन स्वाभीप्सितं वादयितुं युधिष्ठिरः पृच्छतीत्याह ॥ युधिष्ठिर इति । हे देवऋषे नारद । ऋत्यक इति प्रकृतिभावः । मूढधीर्मादृश इति दीनानुजिघृक्षया स्वाहन्ताशान्तिप्रथनम् । आ सर्वनाम्नो दृग्दृशवतिष्वित्याकारे मादृश इति ज्ञेयम् । अनेन लोकानामनुगृह्णतेति पुरोवचनमनुकृतं ज्ञेयम् । मद्विधो गृहस्थो येनाञ्जसाऽनुष्ठितेन विधिनैतां पदवीं परमहंसादिप्राप्यां लोकं यायात्तं विधिं ब्रूहीत्यन्वयः । मादृशो मायां दृग्यस्य तस्य हरेः पदवीमिति वा । चोऽप्यर्थे । मूढधीरपीत्यन्वेति ॥ १ ॥

मन्दनन्दिनी

वर्णाश्रमधर्माणां सर्वेषां गृहस्थाश्रममूलत्वात्तदाश्रमधर्मान्विवक्षुः प्रश्नागतिप्रकारमाह ॥ युधिष्ठिर इति ॥ एनां पदवीमवधूतादिसाध्यां मोक्षपदवीं येन विधिना गृहस्थाश्रमोचितधर्मेण । तं ब्रूहीति योजना ॥ १ ॥

नारद उवाच–

साधु पृष्टं महाभाग लोकानामनुगृह्णता ।

तत्वेन तदहं वक्ष्ये नैष्कर्म्यं येन कर्मणाम् ॥ २ ॥

पदरत्नावली

नैष्कर्म्यं मोक्षसाधनत्वम् ॥ २ ॥

सत्यधर्मीया

हे महाभाग यूयं नृलोके बत भूरिभागा इत्यादिनोक्तभूरिभाग्य । लोकानां तदुपरि अनुगृह्णताऽनुग्रहं कुर्वता । लोकानां लोकानिति वा । त्वया यत्पृष्टं तत्साधु समीचीनम् । इदं तदनवधानविधूननार्थं नोत्प्रेक्षितप्रमेयं किन्तु साधुभिः प्राक् पृष्टं चेत्यप्यर्थः । येन कर्मणां गृहस्थाचरितानां नैष्कर्म्यं मोक्षसाधनत्वम् । तद् विधानं तत्त्वेन याथार्थ्येन वक्ष्ये । कर्मणां विद्यमानानामपि नैष्कर्म्यं संसारादिदुष्फलप्रापकतापनोदेनाविद्यमानप्रायता तद्वक्ष्य इति वा ॥ २ ॥

मन्दनन्दिनी

लोकानां लोकान् । तत्त्वेन याथार्थ्येन ॥ २ ॥

गृहेष्ववस्थितो राजन् क्रियाः कुर्वन् गृहोचिताः ।

वासुदेवार्पणं साक्षादुपासीत महामुनीन् ॥ ३ ॥

पदरत्नावली

गृहोचिताः क्रियाः पञ्चयज्ञलक्षणाः । ‘पञ्चयज्ञप्रसिद्ध्यर्थं विद्यां चाध्यात्मिकीं जपेत् । बलिकर्मस्वधाहोमस्वाध्यायातिथिसत्क्रियाः । भूतपित्रमरब्रह्ममनुष्याणां महामखाः’ इति याज्ञवल्क्यः । वासुदेवार्पणम्, कुर्वन्निति शेषः ॥ ३ ॥

सत्यधर्मीया

गृहोचिताः क्रियाः पञ्चयज्ञादिकाः । पञ्चयज्ञार्थसिद्ध्यर्थं विद्यामाध्यात्मिकीं जपेत् । ‘‘बलिकर्मस्वधाहोमस्वाध्यायातिथिसत्क्रियाः । भूतपित्रमरब्रह्ममनुष्याणां महामखा’’ इति याज्ञवल्क्यः । पञ्च वा एते महायज्ञाः सतति प्रलायन्ते सतति सन्तिष्ठन्ते देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञो ब्रह्मयज्ञ इति । यदग्निं जुहोत्यपि समिधं तद्देवयज्ञः सन्तिष्ठते, यत्पितृभ्यः स्वधा करोत्यप-स्तत्पितृयज्ञः सन्तिष्ठते, यद्भूतेभ्यो बलिं हरति तद्भूतयज्ञः सन्तिष्ठते, यद्ब्राह्मणेभ्योऽन्नं ददाति तन्मनुष्य-यज्ञः सन्तिष्ठते यत्स्वाध्यायमधीयीतैकामप्यृचं यजुः साम वा तद्ब्रह्मयज्ञः सन्तिष्ठत इत्यारणस्वाध्याय-ब्राह्मणं च । तासां वासुदेवार्पणं कुर्वन्नित्यनुवर्तते । महामुनीन् गतम् । उपासीत सत्कुर्यात् साक्षात्त-त्ततोऽल्पेन ॥ ३ ॥

मन्दनन्दिनी

गृहोचितपञ्चमहायज्ञादिरूपाः क्रियाः कुर्वन् साक्षात्काम्यार्थत्वं विना मुख्यतो वासुदेवार्पणम् । कुर्वन्निति शेषः । महामुनीनपरोक्षज्ञानिन उपासीतेति योजना । तथा च काम्यकामतां विना भगवत्प्रीत्यर्थमेव क्रियमाणं गृहाश्रमोचितं कर्म महामुन्युपासनसहितं मोक्षाय भवतीति भावः ॥३॥

शृण्वन् भगवतोऽभीक्ष्णमवतारकथामृतम् ।

श्रद्दधानो यथाकालमुपशान्तजनादृतम् ॥ ४ ॥

पदरत्नावली

उपशान्तजनेन संन्यासिजनेन आदृतं कामितम् ॥ ४ ॥

सत्यधर्मीया

उपशान्तजनादृतमुपशान्तजनाः परमहंसास्तैरादृतम् । उपशान्तजनाद् भगव-न्निष्ठबुद्धिमज्जनात् । ऋतमधिगतम् । उपशान्तजनात्तन्मुखादृतमवगतं यथा भवेत्तथा शृृण्वन्निति वा । हे उपशान्त जनादृतं जनैः पामरैरप्यादृतमिति वा ॥ ४ ॥

मन्दनन्दिनी

इत्थम्भावान्तरमाह ॥ शृण्वन्निति ॥ भगवतोऽवतारकथामृतम् । अभीक्ष्णं पुनः पुनः । श्रद्दधानोऽतिविश्वासवान्सन् शृृण्वन् उपशान्तजनेन स्वोपासितमहाभक्तिमत्संन्यासिजनेनादृतः प्रीतिविषयो यथाकालं विहितकालम् ॥ ४ ॥

तत्सङ्गाच्छनकैः सङ्गमात्मजायात्मजादिषु ।

विमुञ्चेन्मुञ्चमानेषु स्वयं स्वप्नवदुत्थितः ॥ ५ ॥

पदरत्नावली

स्वप्नं दृष्ट्वोत्थितः स्वप्नदृष्टपदार्थसङ्गं यथा जहाति तथा जायादिसङ्गं मुञ्चे-दित्यन्वयः ॥ ५ ॥

सत्यधर्मीया

तत्सङ्गादुपशान्तजनसङ्गाच्छनकैर्मन्दमात्मनि देहे जायायां भार्यायामात्मजादिषु पुत्रादिषु सङ्गं विमुञ्चेत्त्यजेत् । स्वात्यागेऽपि त एव त्यजन्तीत्याह ॥ मुञ्चमानेष्विति । उत्थितः स्वप्नात् । स्वप्नवत्स्वप्ने स्वाप्न इव । तत्रेवेति वतिः । स्वप्नदृष्टे यथा सङ्गं जहाति तथा स्वयं मुञ्चेदित्यर्थः ॥ ५ ॥

मन्दनन्दिनी

सतां सङ्गात्सहवासजनितवैराग्यादात्मजायाऽऽत्मजादिषु । आत्मनि देहे जायादिषु मुञ्चमानेषु दैवात्संत्यजत्सु परस्परं सङ्गम्य वा मुञ्चमानेषूत्थितः स्वप्नवत्स्वान् पुत्रादिष्विव सङ्गं स्नेहं शनकैः क्रमेण स्वयं मुञ्चेदिति श्लोकद्वययोजना । अनेन श्रद्धापूर्वभगवत्कथाश्रवणतद्भक्तप्रीति सम्पादनस्वकीयजनस्नेहपरित्यागः कर्तव्य इत्युक्तं भवति ॥ ५ ॥

यावदर्थ उपासीनो देहे गेहे च पण्डितः ।

विरक्तो रक्तवत् तत्र नृलोके नरतां न्यसेत् ॥ ६ ॥

पदरत्नावली

यावदर्थो यावद्देहयात्राप्रयोजनो देहादावुपासीनो ऽवतिष्ठमानः । तत्र देहादौ रक्तवत् स्निग्धवन् नरतां नरत्वं न्यसेत् त्यजेत् । यतिर्भवेदित्यर्थः ॥ ६ ॥

सत्यधर्मीया

देहे गेहे गृहिण्यां गृहे च । यावदर्थो यावानर्थो यस्य स यावदर्थ उपासीनोऽ-वस्थितः । यावदर्थमिति हृदयङ्गमः पाठः । तत्र देहादौ विरक्तोऽन्तो रक्तवद्बहिरिति पण्डितः सन् नृलोके नरतामज्ञतां न्यसेज्जह्यात् । क्रमाज्ज्ञानी स्यादित्यर्थः । ‘‘नरस्तु रामे कर्पूरे नरोऽज्ञे मानवेऽर्जुन’’ इति विश्वः । नृलोके तन्मध्ये नरतां न्यसेदयमेव पुरुष इति स्वपौरुषमाविष्कुर्यादिति केचित् । पण्डित इति गतम् । नृलोके मनुष्यदेहे नरतामनश्वरतां त्यजेदिति वा । वितानितं प्राचि मनस्यानेयम् । नरतां न्यसेत्पशुप्राया देहाद्यहंममतायुता इति मतिं तनुयादिति वा । नरतां ला परिवर्तनेऽस्मात्कः । रता चञ्चलता सा नेति नरताऽचञ्चलता तां नित्यतां न्यसेत् । ऋग्भाष्यटीकयोर्धिया नराविति विवृतिसमयेऽचलौ ला परिवर्तने ततो नञ्पूर्वात्क इत्युक्तेः ॥ ६ ॥

मन्दनन्दिनी

इत्थम्भावान्तरमाह ॥ यावदिति ॥ यावान् स्वस्य परलोकसाधनीभूतस्नानध्यान-यागादिक-मनुष्ठानपाटवं देहेनातिथ्यादिभोजनवासनादिकं च गेहेन । तस्मिन्नेव प्रयोजने तत्रोपासीनो वस्तुतो विरक्तो रक्तवद्दृश्यमानो नृलोके स्थिरतां नरतामायुःपूर्त्यनन्तरं न्यसेत् क्षिपेदिति योजना । अनेन देहगेहादेः पारलौकिकप्रयोजनायैवानुसरणं कर्तव्यमित्युक्तं भवति ॥ ६ ॥

ज्ञातयः पितरौ पुत्रा भ्रातरः सुहृदोऽपरे ।

यद् वदन्ति यदिच्छन्ति अनुमोदेत निर्ममः ॥ ७ ॥

सत्यधर्मीया

पितरौ मातरपितरौ । मुख्यमातृविवक्षया द्विवचनम् । पुत्राः सुहृदो बान्धवा यद्वदन्ति यदिच्छन्त्यपेक्षन्ते तदनुमोदेत ॐकुर्यात् । तत्र हेतुर्निर्मम इति । गतम् । असन्धिरेतद्धी-सन्धिदौर्घट््यसूचनार्था । यद्यस्मात्ते वदन्ति वदवद्वाग्मिवदाचरन्ति तद्यदिच्छन्ति तदनुमोदेतेति वा ॥७॥

मन्दनन्दिनी

इत्थम्भावान्तरमाह ॥ ज्ञातय इति ॥ अनेन स्वस्य महासाम्राज्यसत्वे ज्ञात्या-द्युक्ताभीष्टदानादिकमपि भगवत्तोषसाधनमित्युक्तं भवति ॥ ७ ॥

दिव्यं भौमं चान्तरिक्षं वित्तमच्युतनिर्मितम् ।

तत्सर्वमुपभुञ्जीरन् न स्वीकुर्यात् स्वतो बुधः ॥ ८ ॥

पदरत्नावली

अन्तरिक्षं द्यावापृथिव्योर्मध्यभवम् । अच्युतेन निर्मितं यद् वित्तम् उपयुञ्जीरन्, लोका इति शेषः । तत् सर्वं जानन् स्वकीयमिति न स्वीकुर्यात् ॥ ८ ॥

सत्यधर्मीया

बुधा लोका दिव्यं दिवि भवं भौमं भूमिभवमान्तरिक्षमन्तरिक्षे द्यावापृथिवीमध्ये भवमच्युतनिर्मितं यद्वित्तं तत्सर्वमुपभुञ्जीरन् भुञ्जते तत्स्वतः स्वस्य । स्वकीयमिति यावत् । तत्त्वेन न स्वीकुर्यात् । दिव्यं वृष्ट्या जातमकृष्टपच्यम् । भौमं कन्दमूलादि । आन्तरिक्षमतर्कितायातम् । स्वत एवाच्युतनिर्मितं भगवन्निर्मितमिति यावत् । ‘‘तत्सर्वमुपभुञ्जान एतत्कुर्यात्स्वतो बुधः’’ इति सरलः पाठो विरलार्थश्च । सर्वमुपभुञ्जान एतत्कर्म स्वाश्रमविहितं कुर्यात् ॥ ८ ॥

मन्दनन्दिनी

इत्थम्भावान्तरमाह ॥ दिव्यमिति ॥ दिव्यभौमान्तरिक्षभोगसाधनवित्तं स्वयमेव न स्वीकुर्यात् । किं त्वितरेऽप्युपभुञ्जीरन् । अनेन भोगयागादिकमितरैरपि कारयेदित्युक्तं भवति ॥ ८ ॥

यावद् भ्रियेत जठरं तावत् स्वत्वं हि देहिनाम् ।

अधिकं योऽभिमन्येत स स्तेनो दण्डमर्हति ॥ ९ ॥

पदरत्नावली

यावदर्थम् इत्युक्तं विवृणोति– यावदिति ॥ जठरं यावदन्नं भ्रियेत गृह्णाति तावदन्नं स्वत्वं स्वकीयमिति स्वीकुर्यात् । ततोऽधिका(तदु)दानेदण्डयोग्यमित्याह– अधिकमिति ॥ ९ ॥

सत्यधर्मीया

नात्यश्नतस्तु योगोऽस्तीत्याद्युक्तेस्तदप्युदरपूर्तिर्यावता भवेत्तावदद्यादित्याह ॥ यावदिति । यावत्तावदित्यव्ययम् । यथा संस्वादिलोपः । यावद्यावता जठरमुदरं भ्रियेत पूर्येत तावत्तावति देहिनां स्वत्वं स्वकीयतां कुर्यात् । अधिकं योऽभिमन्येत काङ्क्षेत स स्तेनस्तत्प्रायो दण्डं शिक्षां चार्हति । यावत्तावत्परिच्छेद इत्यव्ययविश्वः ॥ ९ ॥

मन्दनन्दिनी

इत्थम्भावान्तरमाह ॥ यावदिति ॥ अनेन स्वभोगसाधनपरिमितमेव स्वभोग-साधनं करणीयम् । अन्यत्स्वं स्वत्वत्यागेनातिथ्याभ्यागतबन्ध्वादिभिर्भोजनीयम् । नो चेत्स्नेह एवेति भावः । ‘‘गोशतादपि गोक्षीरं प्रस्थं मानशतादपि । प्रासादादपि खट्वार्धं शेषाः परविभूतयः’’ ॥ ९ ॥

नृगोखराश्वमर्कांस्तु१ सरीसृपविमक्षिकान् ।

आत्मनः पुत्रवत् पश्येत् तैरेषामन्तरं कियत् ॥ १० ॥

पदरत्नावली

‘आखुभुक् पृषदंशश्च मार्जारो मर्क उच्यते’ इत्यभिधानम् । वयः पक्षिणः । अन्तरं भेदः कियान् ? न कोऽपि । पराधीनत्वाविशेषात् ॥ १० ॥

सत्यधर्मीया

नरः पुरुषा । गावः सौरभेय्यः । श्वानो गृहपाला । मर्का मार्जाराः । ‘‘आखु-भुक्पृषदंशश्च मार्जारो मर्क उच्यत’’ इत्यभिधानम् । वयः पक्षिणो मक्षिका मशकान् आत्मनः पुत्रवत्पुत्रानिव पश्येत् । तैर्नरादिभिरेतेषां पुत्राणां चान्तरं विशेषः कियान्न किमपि । भगवन्नियतत्वा-विशेषात् ॥ १० ॥

मन्दनन्दिनी

न केवलं बन्धुजनादिसंरक्षणं कर्तव्यं किन्तु भृत्यगवादिसंरक्षणमपीत्याह ॥ नृगोखरेति ॥ मर्को मार्जालः । ‘‘आखुभुक् पृषदंशश्च मार्जारो मर्क उच्यत’’ इत्यभिधानात् । वयः पक्षिणः । अन्तरं भेदः । अत्र यथायोग्यं पालनीयत्वे पुत्रदृष्टान्तो न तु सर्वथा । तेन भृत्यानां वेतनेन, यवसेन गवां, खराणां यवसभूमिविसर्जनेन, शुनामुच्छिष्ठदानेन, मर्काणां चलितपयआदिनाऽऽखूनां धान्यशेषादिना पक्षिणां भूमौ न्यस्तान्नादिना, मक्षिकानां गुडसम्पर्कादिना पालनं बोध्यम् । अनेनापि भगवत्प्रीतिरिति भावः ॥ १० ॥

त्रिवर्गं नातिकृच्छ्रेण भजेत गृहमेध्यपि ।

यथादेशं यथाकालं यावद् दैवोपपादितम् ॥ ११ ॥

पदरत्नावली

अतिकृच्छ्रेण शास्त्राविहितमार्गेण शूद्रप्रतिग्रहादिलक्षणेन । गृहमेधी गृहस्थोऽपि सर्वाश्रयत्वेऽपि दैवोपपादितं यवादिव्रीहिजातम् । अयाचितोपपन्नं वा ॥ ११ ॥

सत्यधर्मीया

गृहमेधी सन्नपि त्रिवर्गं धर्मादित्रिकमतिकृच्छे्रण परं स्वं चातिक्लेशयित्वेत्यति-कृच्छे्रण न भजेत न सेवेत । तर्हि कथङ्कारं कर्तव्यं तेनेत्यत आह । यथादेशं शास्त्रेण यथा शंसितं तथा । एष आदेश एष उपदेश इत्यादेः । देशानुसारेणेति वा । कालं वसन्तादिकालमनुसृत्येति यथा-कालम् । तत्रापि दैवेन हरीच्छयोपपादितं प्राप्तं यावत्तावद्भजेत । ओशयित्वा चात्मानं यदल्पमपि तद्बव्हित्यादेः ॥ ११ ॥

मन्दनन्दिनी

विहितं धर्मार्थकामलक्षणत्रिवर्गमपि दुष्प्रतिग्रहादिलक्षणात्यायासेन विनाऽनाया-सेन प्राप्तेनैव भजेत । तथैव करणे भगवत्तुष्टिरित्याह ॥ त्रिवर्गमिति ॥ अतिकृच्छेणात्यायासेन न भजेत । किन्तु यथादेशं यथाकालं यावद्दैवोपपादितं भजेतेति योजना ॥ ११ ॥

आश्वाघान्तेवसायिभ्यः कामान् संविभजेद् यथा ।

आप्त्वैतान् महतो दारान् नृणां सत्त्वग्रहो यतः ॥ १२ ॥

पदरत्नावली

कर्माङ्गं च दारग्रहणप्रयोजनम् । न ग्राम्यभोगः । तथात्वे तदाशापूरणस्य दुःसाध्यत्वेन तत्प्रयत्ने महान् दोष आपद्येत । तदभिप्रायेणाह– आप्त्वेति ॥ यदर्थे योषामर्थे काम-पूरणार्थं स्वप्राणान् जह्यात् । पितरं वा गुरुं वा हन्यात्, तद्विरोधे सतीति शेषः । किञ्च यतो येभ्यो नृणां सत्वग्रहो सत्वगुणग्रहो धैर्यनिग्रहः भवतीति शेषः । तानेतान् महतो दारान् आप्त्वा कामान् यथायोग्यं संविभज्य, श्रेयसे घटेतेति शेषः ॥ १२ ॥

सत्यधर्मीया

आश्वाघान्तेवसायिभ्यः श्वानश्चाघा अघमेषामस्ति ते पातकयुताश्चान्तेवसायिनः प्राग्विवृतास्ते चेति । एतानभिव्याप्य । यथा तत्तद्योग्यतामनुसृत्य सम्यगिति वा । कामानन्नादि-विषयान्संविभजेद्विभज्य बलिहरणादिद्वारा दद्यात् । एतत्प्रागङ्गमङ्गनास्वीकार इतीरयति ॥ आप्त्वेति । एतान्महतो गुणतो दारान् भार्याम् आप्त्वा प्राप्य । यतः यया भार्यया । नृणां सत्वग्रहः ज्ञानसम्पद् भवति तानाप्त्वा संविभजेदित्यतीतेनान्वयः । महता प्रयत्नेन । उदारान् उद्गता आ अरा दोषा येभ्यस्तान्दारान्महत आप्त्वेति चान्वयः ॥ १२ ॥

मन्दनन्दिनी

पुत्रवत्पश्येदित्युक्तं पालनं दर्शयति ॥ आश्वभ्य इति ॥ यथा यथायोग्यम् । तान् अन्नादीन् श्वपर्यन्तमन्तेवसायिपर्यन्तं च विभजेत् । उच्छिष्टेन भूमौ निक्षिप्तान्नादिना च यथाऽश्वादीनां प्रीतिस्तथा सम्पादयेदिति भावः । उक्तगृहस्थधर्माद्यनुष्ठानेऽनुकूलया भार्यया भवितव्यम् । तत्प्रातिकूल्ये कथमित्यत आह ॥ आप्त्वेति ॥ यत एभ्यो दारेभ्यो नृणां सत्त्वग्रहो यावद्बलधैर्यादिनिरासो भवेत्

॥ १२ ॥

जह्याद् यदर्थे स्वान् प्राणान् हन्याद् वा पितरं गुरुम् ।

तस्यां स्वत्वं स्त्रियां जह्याद् यस्तेन ह्यजितो जितः ॥ १३ ॥

पदरत्नावली

यद्यङ्गना प्राणाद्यपहारिणी तर्हि तया श्रेयसे घटनं कथमित्याशङ्क्याह– तस्यामिति ॥ सत्वग्रह इत्यादिकमुत्तरत्रापि सम्बध्यते । अजितोऽपि यस्याः सत्वग्रहस् तस्यां स्त्रियां तेन स्वत्वेन जितः वशं गतः, स्वस पुमान् तस्यां स्त्रियाम् अतस् त्वं जह्यादित्यन्वयः । यदि स्वात्मानमुल्लङ्ग्य स वर्तते तर्हि तस्यास्त्याग एव वरीयानितीममर्थं हिशब्देन दर्शयति । हृताधिकारां मलिनां पिण्ड-मात्रोपजीविनीम् । परिभूतामधःशय्यां वासयेद् व्यभिचारिणीम् ॥’ इति च । ‘यत्रानुकूल्यं दम्पत्यो-स्त्रिवर्गस्तस्य वर्तते मृते जीवति वा पत्यौ या नान्यमुपगच्छति । सेह कीर्तिमवाप्नोति मोदते चोमया सह । स्त्रीभिर्भर्तृवचः कार्यमेष धर्मः परः स्त्रियः’ इति च ॥ १३ ॥

सत्यधर्मीया

असती चेत्सा त्याज्येत्याह ॥ जह्यादिति । या यदर्थे यस्याभिलषितस्यार्थे निवृत्तौ तदननुष्ठान इति यावत् । स्वान्प्राणाञ्जह्यात् । पितरं भर्तुः स्वं गुरुमितरं भर्तुराचार्यमिति हन्या-न्मारयेत् । पतिं पुत्रं भ्रातरं वा घ्नन्त्यर्थे घातयन्ति हीति षष्ठोक्तेः । नवमेऽपि स्त्रियो ह्यकरुणाः क्रूरा दुर्मुरव्यः प्रियसाहसाः । घ्नन्त्यल्पार्थेऽपि विस्रब्धं पतिं भ्रातरमप्युतेति । तस्यां स्त्रियां यः पतिः स्वत्वं ममतां जह्यात्त्यजेत्तेनाजितः केनाप्यवशीकृतो हरिर्जितस्तद्वद्भवति । अजितोऽप्राप्तः प्राप्तो भवतीति वा । यथोक्तं छान्दोग्यभाष्ये । जिः प्राप्त्यर्थकः स्वर्जित इत्यादिवदित्यादि । हिना पूर्वोत्तरश्लोकार्थे मान-सम्मतिमाह । ‘‘यत्रानुकूल्यं दम्पत्योस्त्रिवर्गस्तत्र वर्धते । मृते जीवति वा पत्यौ या नान्यमुपगच्छति । सेह कीर्तिमवाप्नोति मोदते चोमया सह । स्त्रीभिर्भर्तृवचः कार्यमेष धर्मः परस्त्रियः । हृताधिकारां मलिनां पिण्डमात्रोपजीविनीम् । परिभूतामधश्शयां वासयेद्व्यभिचारिणी’’मिति च ते मन्तव्ये । अजितो यो विष्णुः । अकयेत्यादेः । तेनेति तच्छब्दश्रवणेन य इति स्वतो लभ्यत एतत्पक्षे इति ज्ञेयम् ॥ १३ ॥

मन्दनन्दिनी

यदर्थं यादृशदाराभीष्ठार्थम् । स्वान्प्राणान् जह्यात् । गुरुं पितरं वा हन्यात् । एतानेतादृशान्महतो दोषैर्युक्तान् दारान्कर्मवशादाप्त्वा तस्यां स्त्रियां तेषु दारेषु स्वत्वं स्वकीयाभिमानं जह्यात्परित्यजेत् । यस्तेन स्वत्वाभिमानेनाजितः स एवाजितो हि । सर्वथा स्त्रीजितो न भवेदिति योजना । एतादृशदुष्टदारान्परित्यजेदिति भावः ।

हृताधिकारां मलिनां पिण्डमात्रोपजीविनीम् ।

परिभूतामधःशय्यां वारयेद्व्यभिचारिणीम् ॥ इति वचनात् ।

यत्रानुकूल्यं दम्पत्योस्त्रिवर्गस्तस्य वर्धते ।

मृते जीवति वा पत्यौ या नान्यमुपगच्छति ।

सेह कीर्तिमवाप्नोति मोदते ह्युमया सह ।

स्त्रीभिर्भर्तृवचः कार्यम् एष धर्मः परः स्त्रियः ॥ इति ।

भगवत्तुष्टेरेव सर्वाश्रमेषु सम्पादनीयतया तत्साधनत्वाभावेन भार्यायां स्वत्वं त्याज्यमिति भावः ॥१३॥

क्रिमिविड्भस्मनिष्ठान्तं क्वेदं तुच्छं कलेवरम् ।

क्व तदीयरतिर्भार्या क्वायमात्मा नभश्छदिः ॥ १४ ॥

तात्पर्यम्

नभश्छदिर् नभोव्याप्यस्थितः परमात्मा ॥ १४ ॥

पदरत्नावली

ग्राम्यधर्मेण शरीरमेवानित्यं क्षणिकं भयग्रस्तं भयमुपजायते न तु नित्यम् । अतश्च नित्यदुःखम् । शरीरं च कृमिविड् भस्मावसायि न वरम् । अनेनाकाशशरीरब्रह्मज्ञानं दुरुत्पादमेत-त्करुणामन्तरेण । अतो दुःखहेतुत्वाद् दुश्चरित्रस्त्रीत्याग एव श्रेयानित्याशयवानाह– कृमीति ॥ तदीयदेहेन क्रियमाणा रतिर् यस्याः सा तथा । आत्मा परमात्मा । अत्रात्मा जीवः किं न स्याच्छरीर-प्रसङ्गादित्यत उक्तम्– नभश्छदिरिति ॥ नभसश् छदिर् आच्छादनं यस्य स तथा । नभो व्याप्य व्यवस्थित इत्यर्थः । ‘आकाशशरीरं ब्रह्म’ इति श्रुतेः । ‘अणुर्ह्येष आत्मा यं वा एते सिनीतः पुण्यं च पापं च’ इति श्रुतेर्जीवस्याणुपरिमाणत्वेन सिद्धत्वात् ॥ १४ ॥

सत्यधर्मीया

क्व तदीयरतिर्भार्येति श्लोके आत्मा जीवो नभच्छिदिर्नभसा विहायसाऽऽच्छाद्यत इति स तथेति वितथां प्रतीतिं पराकर्तुं नभश्छिदिपदमनूद्य व्याकुर्वन्नात्मपदं परपदेन विशेष्य जीवा-नवकाशं करोति । नभच्छदिर् नभो व्याप्य स्थितः परमात्मेति । नभश्छाद्यतेऽनेनेति स तथेति निर्वचनं ज्ञेयम् । अणुर्ह्येष आत्माऽणवश्चेत्यादेर्नभश्छदित्वं जीवस्यानुपपन्नमिवोपपन्नं चाकाशशरीरं ब्रह्मेति श्रुतेर्हराविति हृदयम् ॥ अथ मूलार्थः ॥ तदत्यागे नेश्वरावाप्तिर्भवतीत्यतः सा त्याज्येत्याह ॥ क्रिमीति । क्रिमय इति विड्विष्टेति भस्मेति निष्ठा निष्पत्तिरन्ते यस्य तत् । ‘‘निष्ठा निष्पत्तिनाशान्त-याञ्चानिर्हरणेषु चे’’ति विश्वः । यथायथमेतद्रूपता ज्ञेया । इदं तुच्छं हीनं कलेवरं शरीरं क्व । तदीयरतिस्तदीया तुच्छैतच्छरीरसम्बन्धिनी रतिरासक्तिर्यस्यां सा भार्या क्व । अत्यागेऽसत्याः सा भार्या क्व । अयं नभश्छदिराकाशं व्याप्य स्थित आत्मा परमात्मा क्व । एतदासक्तस्य स आकाशशरीरः परमात्मा दूरे भवतीति तस्यां स्वत्वं जह्यादित्यर्थः । अनश्वरशरीरेश्वरप्राप्तिः कथमीदृशशरीरसंसर्ग-निसर्गसन्मृगदृशी सक्त्या भवेदिति भावः । अयमात्मेति मूले पदं वा । अत एवात्मेत्यननुवादोऽयं परमात्मेत्यन्वयाप्रदर्शनं च ऋग्भाष्य इति ज्ञेयम् । अयमेति विवृतिः परपदेन कृतेति केचित् । छद संवरणे चुरादिः पुंसीति घश् छदेर्घ इति ह्रस्वः । तृतीयोऽतिशय इत्यादेर्दकारोपरितनेकारः स्वातन्त्र्येणा-च्छादकत्वरूपातिशयसूचकः । तेन समनेत्युक्तरमाव्यावृत्तिरिति ज्ञेयम् ॥ १४ ॥

मन्दनन्दिनी

मा भूद्भगवांस्तुष्टो कलेवरकारणकरत्याधारभार्यास्वत्वं न त्याज्यम् । त्यागे ईदृशसुखालाभादित्यत आह ॥ कृमीति ॥ कृम्यादेर्निष्ठाभावोंऽते यस्य तत् । कुणपस्य तथैव स्थितौ कृमिभावः । श्वसृगालादिभक्षणे विड्वराहः । दाहे भस्मभाव इति बोध्यम् । तुच्छं फल्गु कलेवरं रागादिग्रस्तं परिदृश्यमानं क्व । तदीयेति । एतादृशशरीरकारणकरत्याधारभूता भार्या क्व । नभश्छदि-र्नभसि छदिर्व्याप्यस्थितिर्यस्य सः । एतादृगात्मा परमात्मा क्वेति योजना । सर्वदेशकालव्यापिपरम-सुखावहपरमात्मतोषविरोध्यतितुच्छकलेवरकारणकरत्याधारस्त्रीस्वत्वं सर्वथा त्याज्यमिति भावः । अत्र तात्पर्यम् ॥ नभश्छदिरित्यादि ॥ १४ ॥

सिद्धैर्यज्ञावशिष्टार्थैः कल्पयेद् वृत्तिमात्मनः ।

शेषे स्वत्वं त्यजेत् प्राज्ञः पदवीं महतामियात् ॥ १५ ॥

पदरत्नावली

‘यज देवपूजासङ्गतिकरणदानेषु’ इति धातोर् यज्ञो नारायणाख्यदेवपूजा । तत्करणावशेषितैः सिद्धैर् ज्ञानसाधनयोग्यैरर्थैः स्ववृत्तिं देहयात्रालक्षणां कल्पयेत् । तत्रापि शेषे अवशिष्टे वस्तुनि स्वत्वं स्वकीयत्वं त्यजेद् यः सः प्राज्ञो महतां संन्यासिनां पदवीमाप्नोतीत्यन्वयः ॥ १५ ॥

सत्यधर्मीया

यज्ञावशिष्टैरर्थैर्भगवत्पूजोर्वरितैः सिद्धैर्भगवत्प्रीत्याधायकत्वेन निश्चितैरात्मनः स्वस्य वृत्तिं जीवनोपायं कल्पयेत् । आत्मन इत्येकवचनेन परिवारापरिवृतता सूच्यते । शेषे तत्राप्युर्वरिते स्वत्वं यस्त्यजेत्स प्राज्ञः । महतां परमहंसानां पदवीमियात् ॥ १५ ॥

मन्दनन्दिनी

गृहस्थस्यैव पुनरित्थम्भावान्तरमाह ॥ सिद्धैरिति ॥ यज्ञावशिष्टार्थैः । यज्ञ-शब्दस्यावृत्त्यादिः । यज्ञो विष्णुरिति श्रुतेः । यज्ञस्य विष्णोः पूजासाधनीभूतो यज्ञादिस्तदवशिष्टार्थैः । अन्नवित्तादिभिरात्मनो वृत्तिं देहधारणादिकं कल्पयेत् । शेषे ततोऽपि शिष्टो स्वत्वं परित्यजेत् । बन्ध्वतिथ्यादिभ्यो दद्यात् । एवम्भूतश्चेन्महतां पदवीं संन्यासिनां स्थानं मोक्षमियादिति योजना ॥१५॥

देवानृषींश्च भूतानि पितॄनात्मानमन्वहम् ।

स्ववृत्त्याऽगतवित्तेन यजेत पुरुषं पृथक् ॥ १६ ॥

पदरत्नावली

देवादियागेषु तदन्तर्यामित्वेन तद्भिन्नत्वेन भगवत्पूजैव विधेयेत्याशयेनाह– देवा-निति ॥ १६ ॥

सत्यधर्मीया

देवर्षिभूतपित्रित्येतानात्मानं तदन्तर्यामिणं भगवन्तमुद्दिश्यैव यजेत स्ववृत्त्याऽऽगत वित्तेन । समस्तमसमस्तं च पदम् । स्वधर्मलब्धेन । पुरुषं पृथक् अनन्तर्यामिणं स्वबिम्बं च यजेत । पृथगात्मानं तत्तदन्तर्यामिणं पुरुषमन्वहं यजेतेत्येकान्वयो वा ॥ १६ ॥

मन्दनन्दिनी

पुनरित्थम्भावान्तरमाह ॥ देवानिति ॥ भूतानि मनुष्यादीन् स्ववृत्त्यागतेन स्ववर्णाश्रमोचितशिलोंछकरस्वीकारादिना । तेन वित्तेन तत्तदन्तर्गतं पुरुषं पूर्णषड्गुणमात्मानं परमात्मानं पृथगधिष्ठानात् स्वस्माच्चात्यन्तभिन्नमुद्दिश्यान्वहं प्रतिदिनं यजेत पूजयेदिति योजना । पूजनं च यथायोगं यज्ञतर्पणान्नदानादिनेति ध्येयम् ॥ १६ ॥

यर्ह्यात्मनोऽधिकारोऽस्ति सर्वाः स्युर्यज्ञसम्पदः ।

वैतानिकेन विधिना अग्निहोत्रादिना यजेत् ॥ १७ ॥

पदरत्नावली

यर्हि यदाऽस्य यज्ञाधिकारोऽस्ति यदा वा सर्वा यज्ञसम्पदः स्युः, तदा वैतानिकविधिना अग्निहोत्रविधिना वा यजेदित्यन्वयः ॥ १७ ॥

सत्यधर्मीया

यर्हि यदाऽऽत्मनोऽधिकारो जातपुत्र इत्याद्युक्तोऽस्ति वर्तते यज्ञसम्पदः सर्वाः स्युः । वैतानिकः क्रतुकर्मसम्बन्धी । वितानो यज्ञविस्तारोल्लोचेषु क्रतुकर्मणीति विश्वः । विधिना विधानेनाग्निहोत्रादिना यजेदिष्टं भावयेत् ॥ १७ ॥

मन्दनन्दिनी

गृहस्थस्य यज्ञादिकमावश्यकमित्याह ॥ यर्हीति ॥ यर्हि यदाऽऽत्मनोऽधि-कारोऽस्ति अर्थित्वं समर्थत्वं विद्वत्त्वादिकं जातपुत्रः कृष्णकेशोऽग्नीनादधीतेत्यादिनोक्तं मध्यवयस्त्वम् । सर्वाः स्युर्यज्ञसम्पदो यज्ञसामग्रयो वैतानिकेन विधिना । वेदोक्तप्रयोगविधिनाऽग्निहोत्रादिना । स एष यज्ञः पञ्चविधः । अग्निहोत्रं दर्शपूर्णमासौ चातुर्मासं पशुः सोम इत्याद्युक्तरीत्या पञ्चविधयज्ञेन यजेत्पूज-येदिति योजना ॥ १७ ॥

न ह्यग्निमुखतोऽयं वै भगवान् सर्वयज्ञभुक् ।

इज्येत हविषा राजन् यथा विप्रमुखे हुतैः ॥ १८ ॥

पदरत्नावली

ननु होमादिकरणं मुख्यं भगवत्प्रीतिजनकं किम् ? तत्राह– न हीति ॥ १८ ॥

सत्यधर्मीया

यर्हीत्यनेन सूचितं तदनावश्यकत्वमवश्यकरणीयनिरूपणेन स्पष्टयति ॥ न हीति । अयं सर्वयज्ञभुग्भवानग्निमुखतस्तस्मिन्दत्तेन हविषा यथा नेज्येत न सङ्गममियात्तथा । कथमित्यतः कथयति ॥ यथेति । विप्रमुखे हुतैरिज्यते । नाहं तथाऽद्मि यजमानहविर्वितान इत्यादेः ॥ १८ ॥

मन्दनन्दिनी

अवैश्वदेवमतिथिवर्जितं चेत्यादिना अतिथिरहितयज्ञादेर्निषिद्धतया यज्ञाङ्गत्वेन स्वप्राधान्येन चातिथिभोजनमावश्यकमिति ब्राह्मणभोजनं स्तौति ॥ न हीति ॥ यथा हुतैर्दत्तैर्घृता-न्नादिभिरिज्येत पूज्येत तथाऽग्निमुखतो न हीज्येतेति योजना ॥ १८ ॥

तस्माद् ब्राह्मणदेवेषु मर्त्यादिषु यथार्हतः ।

तैस्तैः कामैर्यजस्वैनं१ क्षेत्रज्ञं ब्राह्मणाननम् ॥ १९ ॥

पदरत्नावली

उपसंहारमुखेनोक्तार्थं निर्धारयति– तस्मादिति ॥ ब्राह्मण आननं यस्य स तथा तम् ॥ १९ ॥

सत्यधर्मीया

इयत्पर्यन्तं पारोक्ष्येणोक्त्वाऽपरोक्षतो धर्मं प्रति धर्मं विवक्षुस्तदान्तरङ्गिकीं कुतोऽग्नितो विशेषो विप्रस्येति शङ्कामवान्तरोपसंहारमुखेन निराह ॥ तस्मादिति । यस्माद्विप्रमुखे हुतैरिज्यते तस्माद्ब्राह्मणदेवेषु मर्त्यादिषु यथार्हत एनं क्षेत्रज्ञं ब्राह्मणा आननं मुखं यस्य स तथा तम् । तैस्तैः कामैर्विषयैर्यजस्व पूजय । ब्राह्मणोऽस्य मुखमासीद्यथा ब्रह्मादिकं मुखमित्यादेः ॥ १९ ॥

मन्दनन्दिनी

ब्राह्मणभोजनं देवयजनं च कर्तव्यमित्याह ॥ तस्मादिति ॥ ब्राह्मणेषु देवेषु च मर्त्यादिषु । मर्त्येष्वमर्त्येषु यथार्हतो यथायोगं तैः कामैर्ब्राह्मणाभीष्टैर्देवाभीष्टैश्च ब्राह्मणा आननं यस्येति एनं क्षेत्रज्ञं भगवन्तं यजेदिति योजना ॥ १९ ॥

कुर्यादपरपक्षीयं मासि प्रोष्ठपदे द्विजः ।

श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान् ॥ २० ॥

पदरत्नावली

ननु यज्ञसम्भारे सति विशिष्टफलप्रदः कालः क इति तत्राह– कुर्यादिति ॥ प्रोष्ठपदे कन्याख्ये सिंहमासामावास्यामारभ्य कन्यामासामावास्यापर्यन्ते । तत्राप्यपरक्षीयकाले श्राद्धं कुर्यादित्युपर्यप्यन्वेतव्यम् । तद्बन्धूनां पितृमातृबन्धूनां पितामहमातामहादीनाम् ॥ २० ॥

सत्यधर्मीया

पित्रादीन्यजेतेत्युक्तं तत्र योग्यं कालमाह ॥ कुर्यादिति । प्रोष्ठपदे भाद्रपदे मासि । ‘‘स्युर्नभस्येप्रोष्टपदभाद्रभद्रपदाः समा’’ इत्यमरः । अपरपक्षीयं कृष्णपक्षसम्बन्धि । पित्रोः श्राद्धं यथावित्तं तद्बन्धूनां च पितामहमातामहादीनां च वित्तवान् श्राद्धं कुर्यादित्यन्वयः ॥ २० ॥

मन्दनन्दिनी

देवयज्ञमुक्त्वा पितृयज्ञप्रकारमाह ॥ कुर्यादिति ॥ प्रोष्टपदे भाद्रपदे पित्रोर्माता-पित्रोस्तद्बन्धूनां प्रत्यहं तर्पणविषयाणां श्राद्धं कुर्यादिति योजना । पञ्चापरपक्षानां मध्यमस्या-त्युत्तमत्वात्प्रोष्टपदे इत्युक्तिः ॥ २० ॥

अयने विषुवे कुह्वां व्यतीपाते दिनक्षये ।

चन्द्रादित्योपरागे च द्वादश्यां श्रवणेषु च ॥ २१ ॥

पदरत्नावली

अयने उत्तरदक्षिणसंज्ञे । विषुवे संवत्सरान्तसंक्रमणे । कुह्वाम् अमावास्यायाम् । श्रवणेषु श्रवणादित्रिषु चशब्दात् सप्तम्यादित्रिषु त्रयोदश्यां च । तदुक्तम्– ‘सप्तम्यादित्रयं चैव तथा चैव त्रयोदशी । चतस्रस्त्वष्टकाः प्रोक्ताः सर्वपक्षाद् विशेषतः ॥’ इति ॥ २१ ॥

सत्यधर्मीया

अयने दक्षिणोत्तराख्ये । तुलामेषावच्छिन्नकाले । विषुसाम्येऽव्ययं ततो मतुप् । वप्रकरणेऽन्यत्रापीत्युक्तेर्वः । विषुवद्विषुवं च तदित्यमरः । कुव्हाम् । सा नष्टेन्दुकला कुहूरित्यमरः । व्यतीपाते । व्यतीपात इति तु घञमनुष्ये बहुलमिति दीर्घः । ‘‘व्यतीति पापमुद्दिष्टं तस्य पातो यतो भवेत् । व्यतीपात इति प्रोक्त’’ इत्यादि स्मरन्ति । दिनक्षये क्षीणतिथौ । उपरागो ग्रहणम् । श्रवणेषु मघाभरणीश्रवणेषु ॥ २१ ॥

मन्दनन्दिनी

पितृश्राद्धादौ पुनः कालविशेषमाह ॥ अयने इति ॥ अयने कर्काटकायने मकरायने तयोरेव महाऽयनत्वात् । विषुवे मेषतुलासंक्रमणयोः । कुव्हां नष्टेन्दुकलायाममायाम् । पारण-योग्यद्वादश्यां श्रवणेषु श्रवणादिषु ॥ २१ ॥

तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके ।

चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा ॥ २२ ॥

तात्पर्यम्

‘सप्तम्यादित्रयं चैव तथा चैव त्रयोदशी । चतस्रस्त्वष्टकाः प्रोक्ताः सर्वपक्षा-द्विशेषत’ इति च व्यासस्मृतौ ॥ ‘हेमन्ते शिशिरे चैव नित्यश्राद्धं गुणोत्तरम्’ इति च ॥ २२ ॥

पदरत्नावली

वृश्चिकमासामावास्यामारभ्य मकरमासामावास्यापर्यन्तः कालो हेमन्तः । तदुपरि-कालः शिशिरः । ‘हेमन्ते शिशिरे चैव नित्यश्राद्धे गुणोत्तरम्’ इति वचनादयमपि विशिष्टकालः

॥ २२ ॥

सत्यधर्मीया

तृतीयायां शुक्लपक्ष इति श्लोके चतसृष्वष्टकास्वित्युच्यते । तासां च त्रित्वं प्रमितमिति तदनुपपन्नमित्यतो मानेन तच्चतुष्ट्वं दर्शयति ॥ सप्तम्यादीति । सप्तम्यादित्रयमितिमुनित्रयवत् । विवृतं प्राक् । सप्तम्यष्टमी नवमीति त्रयं तथा त्रयोदशी चेति चतस्रोऽष्टकाः प्रोक्ताः । सर्वपक्षा-त्सर्वकृष्णपक्षगततिथितो विशेषतो विशेषफलदा इत्यर्थः । विशिष्यन्त इति विशेषा विशिष्टा इति वा । अष्टका पितृदैवत्य इत्युक्तेर्न प्रत्ययेत्वम् । न च त्रयोदश्यष्टका चेदष्टकासु चतुर्दश्यां प्रतिपत्पर्वणोरपि । नाधीयीत द्विजः कश्चिदित्यादिनारदीयवचनादनध्ययनदिनं स्यादिति शङ्क्यम् । अभ्यनुज्ञानं श्राद्धमात्रे नाभ्यनुज्ञानमनध्ययन इत्येतन्मात्रविशेषसम्भवात् । न च विनिगमकाभाव इति वाच्यम् । ‘‘अपरेषु च पक्षेषु ह्यष्टकासु तिसृष्वपि । हेमन्तशिशिरयोश्चैव नाध्येया वेदसंहिते’’ति तिसृष्विति सङ्ख्याविशेषत एवाष्टका गृह्णन्त्या वसिष्ठस्मृतेस्तत्त्वात् । शिष्टाचारोऽप्येतन्मूलक इति नाप्रामाणिकः । केचन तिस्र एवाष्टकाः प्रायः प्रायोवित्सम्मतात्वियं त्रयोदशीरूपिण्यष्टकेति तत्रानधीतिनोऽपि वर्तेरंच्छ्राद्धश्रद्धाः । वासिष्ठवचनं च तन्मात्रपरमेतत्स्यादिति वदन्ति । तत्रैव हेमन्ते शिशिर इत्यष्टकानां तदृतुद्वयसम्बन्धिता-मात्रं प्रतीयते । न तत्र श्राद्धविधानमित्यतस्तत्तु श्राद्धं कुर्यादिति विहितं मानेन । तत्र हेमन्ते शिशिर इति गुणविधानेन दध्ना जुहोतीतिवदुत्तरतामाह ॥ हेमन्त इति । तदन्यत्र कृतान्नित्यश्राद्धाद्गुणोत्तरं गुणेन श्रेष्ठमुत्तमफलदमिति यावत् ॥ अथ मूलार्थः ॥ तृतीयायां शुक्लपक्षे वैशाखे अक्षयतृतीयायामित्यर्थः । शुक्लपक्ष इत्यत्राप्यन्वेति । कार्तिकेमासि । शुक्लपक्षनवम्याम् । हेमन्ते मार्गशीर्षपुष्यकृष्णपक्षे तथा शिशिरेमाघफाल्गुनकृष्णपक्षे च । एतत्सम्बन्ध्यष्टकासु तिसृषु । अपिः समुच्चायकः संस्त्रयोदश्यष्टकां चतुर्थीं समुच्चिनोति । अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेष्विति पाणिनिस्मरणात् । अपिः-सम्भावनाप्रश्नशङ्कागर्हासमुच्चय इति विश्वः । विधौ श्राद्धं कुर्यादित्येकान्वयेन सिद्धे स्वत एव श्राद्धकालः सिद्धस्तत्र हेमन्ते शिशिर इति गुणविधानं मानिकमनुसन्धेयम् ॥ २२ ॥

मन्दनन्दिनी

शुक्लपक्षे तृतीयायामक्षय्यायाम् । कार्तिके नवम्यां महानवम्यां हेमन्ते शिशिरे विद्यमानासु चतसृष्वप्यष्टकासु सप्तम्यादित्रये । त्रयोदश्यां च । तदुक्तं तात्पर्ये ॥ सप्तम्यादीत्यादि ॥ हेमन्ते शिशिरे चैव नित्यश्राद्धं गुणोत्तरमिति । अत्रापि हेमन्तशिशिराधिष्ठानकाष्टकाचतुष्ट्यमेव ग्राह्यम् । षण्णवत्यनुष्ठातृभिस्तथैवानुष्ठानात् । एवं च सप्तम्यादिदिनत्रयं त्रयोदशी चेति दिनचतुष्टय-मार्गशीर्षाद्यपरपक्षचतुष्टयं ग्राह्यम् ॥ २२ ॥

माघे च सितसप्तम्यां मघाराकासमागमे ।

राकया वाऽनुमत्या वा मासर्क्षाणि युतान्यपि ॥ २३ ॥

पदरत्नावली

राका पौर्णमासी । मघापौर्णमास्योः सङ्गमे । ‘शशिनि सिनीवाली स्याद् दृष्टे, नष्टे कुहूरमावास्या । अनुमतिरूने, राका सम्पूर्णे पौर्णमासी च ॥’ इति हलायुधः । राकयाऽनुमत्या(वा)युतानि मासनक्षत्राणि ॥ २३ ॥

सत्यधर्मीया

राका पौर्णमासी मघा च तयोः समागमे सङ्गमे । सितसप्तमी रथसप्तमी । राकया वा तथाऽनुमत्या । अनुमन्यत इत्यनुमतिः क्तिच् । ‘‘कलाहीने त्वनुमतिः पूर्णे राका निशाकर’’ इत्यमरः । राति शुभम् । रा दाने । कृदाधारेति के । राका युतानि युक्तानि मासर्क्षाणि मासनाम-प्रवृत्तिहेतुभूतानि नक्षत्राणि । ‘‘नक्षत्रमृक्षं भं तारे’’त्यमरः । श्रेयसः काल इत्युत्तरेणान्वयः । ‘‘पुष्ययुक्ता पौर्णमासी पौषी मासे तु यत्र सा । नाम्ना स पौषो माघाद्याश्चैवमेकादशापर’’ इति त्रिकाण्ड््यमरः ॥ २३ ॥

मन्दनन्दिनी

मघाया राकायाः पूर्णनिशाकरयुक्तया पौर्णमास्यां समागमे । राकयाऽनुमत्या वा कलाहीननिशाकरयुक्तया पौर्णमास्यां वा । युतानि मासर्क्षाण्याश्लेषामघापूर्वफल्गुन्यः । प्रथमा सप्तम्यर्थे

॥ २३ ॥

द्वादश्यामनुराधा स्यात् श्रवणस्तिस्र उत्तराः ।

तिसृष्वेकादशी चासु१ जन्मर्क्षं सौम्ययोगयुक् ॥ २४ ॥

पदरत्नावली

यास् तिस्त्रः श्रवणादितारा आसु तारासु प्राप्तैकादशी पुण्यकालः । अत्र श्राद्धकरणं च विकल्पः । एकादश्यां श्राद्धकरणस्य निषिद्धत्वान् न वैष्णवसिद्धान्तिनस्तदाचरन्ति । त्रैविद्याश्चरन्ति च वा । यथैकादशी पुण्यदिनम्, अत्र क्रियमाणं कर्म सफलं तथा तिसृष्वपि तारासु इति वा । जन्मनक्षत्रं श्राद्धकाल इति शेषः । सौम्ययोगयुक् मृगशिरस्सम्बन्धयुक्तं दिनं च ॥ २४ ॥

सत्यधर्मीया

द्वादश्यां यद्यनुराधा स्याच्छ्रवणः । उत्तरास्तिस्रः स्युः । उत्तरा उत्तराषाढा उत्तराभाद्रपदेति । तस्यां श्राद्धं कुर्यात् । आसु तारास्वेकादशी च यथैकादशी स्नानव्याख्यानासक्त-फलबाहुल्यदा तथाऽनुराधादिसहितद्वादशी बहुफलप्रदेति दृष्टान्तदार्ष्टान्तिकभावो ज्ञेयः । श्राद्धं यत्र सम्भवत्तत्र ज्ञेयम् । यद्वक्ष्यति त एते श्रेयसः काला नृणां श्रेयोविवर्धना इत्यादि । अतस्तद्विषये सम्भवतो न चाशङ्का न चोत्तरम् । सौम्ययोगयुक् जन्मर्क्षं मृगशिरसम्बन्धयुक्तम् । एकादशी वास्विति पाङ्क्त पाठः ॥ २४ ॥

मन्दनन्दिनी

यद्यनुराधा स्याच्छ्रवणो वा । उत्तरा उत्तरोत्तराषाढ उत्तरभाद्रपदास्तद्युक्त-द्वादश्याम् । आसु तिसृष्वनुराधाश्रवणोत्तरासु । उत्तरासु वा तिसृष्वेकादशी चेज्जन्मर्क्षं सोत्पत्तिनक्षत्रं सौम्ययोगयुक् मृगशीर्षायोगयुक् च ॥ २४ ॥

त एते श्रेयसः काला नृणां श्रेयोविवर्धनाः ।

कुर्यात् सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः ॥ २५ ॥

सत्यधर्मीया

श्रेयसः सश्रेयांसोऽतिप्रशस्ता । प्रशस्यस्य श्रः । द्विवचनेतीयसुन् । ‘‘पुण्यश्रेयसी सुकृतमि’’त्यमरः । श्रेयो मुक्तौ शुभे धर्मेति प्रशस्ते च वाच्यवदिति भानुः । कालानां श्रेय-स्त्वेऽधिकारवतः किमायातमित्यत आह ॥ नृणां श्रेयोविवर्धना इति । विवर्धनं याभिस्ता युजन्तो वा । एतेषु कालेषु सर्वात्मना सर्वप्रकारेण श्रेयोधर्मं कुर्यादायुषोऽमोघम् । भावप्रधानो निर्देशः । अमोघत्वं साफल्यमिति यावत् ॥ २५ ॥

मन्दनन्दिनी

त एते उक्तकालाः श्रेयसो हेतवः । विहितकरणे श्रेयोविवर्धनाः । तदेवाह ॥ अमोघं तदायुष इति । अमोघममोघत्वम् । साफल्यमिति यावत् ॥ २५ ॥

येषु स्नानं जपो होमो व्रतं देवद्विजार्चनम् ।

पितृदेवनृभूतेभ्यो यद् दत्तं तद्ध्यनश्वरम् ॥ २६ ॥

सत्यधर्मीया

देवद्विजार्चनं तत्पूजा पितृदेवेत्याद्युक्तार्थम् । यद्दत्तं तदनश्वरमक्षयफलम् । हीति प्रमाणप्रसिद्धिं द्योतयति ॥ २६ ॥

मन्दनन्दिनी

उक्तकालेषु कर्तव्यमेव विविच्याह ॥ येष्विति ॥ स्नानादीनां मध्ये होमो युक्तदिने कार्यम् । एवं श्राद्धमपि ‘‘हरिवासरे न जुहुयान्न श्राद्धं कुर्यात्’’ इति विशेषनिषेधात् । तत्रैकादशीग्रहणं निरवकाशमिति न वाच्यम् । जपादिविषयत्वेन विद्धैकादशीविषयत्वेन सावकाशत्वात्

॥ २६ ॥

संस्कारकालो जायाया अपत्यस्यात्मनस्तथा ।

प्रेतसंस्था मृताहश्च कर्मण्यभ्युदये नृप ॥ २७ ॥

सत्यधर्मीया

जायाया भार्यायाः संस्कारकालः षष्ठेऽष्टमे वा सीमन्त इत्याद्यनुशिष्टः । अपत्य-स्यैकादशे द्वादशेऽहनि वा पिता नाम कुर्यादित्यादेर्नामकरणादिसमयः । आत्मनो वसन्ते ब्राह्मण इत्यादिसवसेवनसमयः । प्रेतसंस्था मृतदाहादिर्मृताहः सांवत्सरिकं यदा तदा । टजन्तः पुल्लिङ्ग-प्रथमैकवचनम् । कर्मण्येतदेतस्मिन्नभ्युदये महोदये तदर्थं श्रेयः कुर्यादित्यन्वयः ॥ २७ ॥

मन्दनन्दिनी

आत्मनो जायाया अपत्यस्य च संस्कारकाले गर्भाधानजातकर्मादौ प्रेतसंस्था मृताहश्चेति । प्रथमा सप्तम्यर्थे । पित्रोः प्रेतसंस्था मृताहकालेऽभ्युदयेऽभ्युदयार्थं क्रियमाणकर्मणि पितृदेव इत्यादि पूर्वेणान्वयः ॥ २७ ॥

अथ देशान् प्रवक्ष्यामि धर्मादिश्रेयआवहान् ।

स वै पुण्यतमो देशः सत्पात्रं यत्र लभ्यते ॥ २८ ॥

सत्यधर्मीया

धर्मादिश्रेयआवहानिति पदम् । श्रेयःप्रापकान् यत्र सत्पात्रं साधुजनो लभ्यते मङ्गलदेवताऽप्यत्रैव वर्तत इत्यप्याह ॥ ईति । अस्य स्त्री ई रमाऽत्रास्मिन्देशे लभ्यत इत्यर्थः । स पुण्यतमोऽतिशयेन पुण्यप्रापकः । पूञो णुट्ह्रस्वश्चेति यत् णुट्ह्रस्वश्च । पुणति पुणकर्मणि शुभे इगुपधेति के पुणमर्हतीति वा तत्र साधुरिति वा यत् ॥ २८ ॥

मन्दनन्दिनी

देशे काले पात्रे च तद्दानं सात्त्विकं स्मृतमित्यादिना देशाद्यानुगुण्यस्य दानाद्यङ्गत्वोक्तेर्देशादिकमाह ॥ अथेति ॥ श्रेयआवहान् श्रेयःसम्पादकान् सत्पात्रं यत्र लभ्यते स वै पुण्यतमो देश इत्यनेन देशापेक्षया पात्रस्यैव मुख्याङ्गत्वं स्वाधिष्ठानेन पुण्यदेशत्वापादनात् ॥ २८ ॥

विश्वं भागवतो यत्र जगदेतच्चराचरम् ।

यत्र ह ब्राह्मणकुलं तपोविद्यादयान्वितम् ॥ २९ ॥

पदरत्नावली

सत्पात्रं विशिनष्टि– विश्वमिति ॥ यस्मिन् देशे भागवतस्तस्मिन् चराचरं सर्वं जगदस्तीति ज्ञातव्यम् । ‘यतिर्यस्य गृहे भुङ्क्ते तत्र भुङ्क्ते हरिः स्वयम् । हरिर्यस्य गृहे भुङ्क्ते तत्र भुङ्क्ते जगत्त्रयम् ॥’ इति वचनात् ॥ २९ ॥

सत्यधर्मीया

सत्पात्रमेतदिति कथयति ॥ विश्वमिति । यत्र भागवतो भगवद्भक्तो वर्तते तत्र चराचरं ज्ञान्यज्ञान्यात्मकं विश्वं समस्तमेतज्जगद्वर्तत इति ज्ञातव्यम् । तच् चराचरं विश्वमस्तीति जगदे वेदादिनेति शेषः । जगद्वर्तने को विशेष इत्यत आह ॥ एतदिति । एतत्सन्निहितत्वादित्युक्तेर्हरिस्तत्र वर्तत इति ज्ञेयम् । यद्वा विश्वं विष्णुरित्यादेस्तं तत्रानुसन्दध्यादिति वा ॥ २९ ॥

मन्दनन्दिनी

सत्पात्रं विशिनष्टि ॥ विश्वमिति ॥ भगवत उदरे स्थितं विश्वं सर्वं चराचरात्मकं जगद्यत्र पात्रे तादृशं सत्पात्रं यत्रेति पूर्वेणान्वयः । भगवता धृतस्य पात्रे स्थितत्वं कथमिति न चोदनीयम् । भगवत एव तत्र स्थितत्वात् ।

यतिर्यस्य गृहे भुङ्क्ते तत्र भुङ्क्त हरिः स्वयम् ।

हरिर्यत्र गृहे भुङ्क्ते तत्र भुङ्क्ते जगत्त्रयम् ॥

इति स्मृतेः । ब्राह्मणानां कुलं समूहो यत्र स देश इत्युत्तरेणान्वयः ॥ २९ ॥

यत्र यत्र हरेरर्चा स देशः श्रेयसां पदम् ।

यत्र गङ्गादयो नद्यः पुराणेषु च विश्रुताः ॥ ३० ॥

पदरत्नावली

अर्चाः शालग्रामादिप्रतिमाः । पुराणेषु भागवतादिषु विश्रुताः कृष्णवेण्यादयश्च

॥ ३० ॥

सत्यधर्मीया

अर्चा प्रतिमा ॥ ३० ॥

मन्दनन्दिनी

अर्चाः प्रतिमा वेंकटेशजगन्नाथादयः । पुराणेष्वष्टादशपुराणोपपुराणेषु ॥ ३० ॥

सरांसि पुष्करादीनि क्षेत्राण्यर्हाश्रितान्युत ।

कुरुक्षेत्रं गयशिरः प्रयागः पुलहाश्रमः ॥ ३१ ॥

पदरत्नावली

क्षेत्राणि पुरुषोत्तमादीनि । र्औः पूज्यैर् अगस्त्यादिभिर् आश्रितानि अधिष्ठितानि

॥ ३१ ॥

सत्यधर्मीया

अर्हाश्रितानि पूज्यागस्त्याद्याश्रितानि । गयशिरो विशिष्टसंज्ञेति ङ््यापोः संज्ञाछन्दसोरिति अजक्षीरमित्यादिवद्ध्रस्व इति । केचिद् गयस्य तन्नाम्नोऽसुरस्य शिरो यत्रेति तत्क्षेत्रमिति व्याकुर्वते ॥ आग्नेये गयामाहात्म्यमाख्यास्ये । स्थिता देवा गयायां ते । गयाक्षेत्रम् । एतद्गयाशिरः प्रोक्तम् । गयायां पितृरूपेण स्वयमेव जनार्दन इत्यादि तन्माहात्म्योक्तेः । गयाऽस्त्यस्येति गयं तच्च तच्छिरश्चेति च केचित् । क्वचिददन्तः पाठः । शिरोवाची शिरोदन्त पिण्डं दद्याद्गयाशिरे । निचकर्त शिरान् द्रौणिरित्यादेरुपपत्तिर्ज्ञेया । पुलहाश्रमः पुलहनामकस्यर्षेराश्रमः ॥ ३१ ॥

मन्दनन्दिनी

सरांसि मानससरःप्रभृतीनि । अर्हाश्रितान्युत्तमयोगिभिराश्रितान्यपि ॥ ३१ ॥

नैमिषं फल्गुनं सेतुः प्रभासोऽथ कुशस्थली ।

वाराणसी मधुपुरी पम्पा बिन्दुसरस्तथा ॥ ३२ ॥

पदरत्नावली

फल्गुनं स्थानं हरपुरं कन्यातीर्थं वा । ‘कन्यापुरं फल्गुनं स्यात् स्थानं हरपुरं च तत्’ इत्यभिधानम् । वाराणसी पुरी काशी ॥ ३२ ॥

सत्यधर्मीया

फल्गुनं स्यानंदूरं कन्यातीर्थं वा । कन्यातीर्थं फल्गुनं स्यात्स्यानंदूरपुरं च तत् । स्यानंदूरे च दैत्यं सपदि विजितवान्फाल्गुनं तीर्थमाप्त इत्यादेः । मधु मधुवनम् । पुरी काञ्ची । मधुपुरीति वा ॥ ३२ ॥

मन्दनन्दिनी

फल्गुनं स्थानं दूरपुरं कन्यातीर्थं वा । कन्यातीर्थं फल्गुनं स्यात्स्थानं दूरपुरं च तदित्यभिधानम् । कुशस्थली द्वारवती ॥ ३२ ॥

नारायणाश्रमो नन्दा सीतारामाश्रमादयः ।

सर्वे कुलाचला राजन् महेन्द्रमलयादयः ॥ ३३ ॥

सत्यधर्मीया

नारायणाश्रमो नरनारायणश्रमः । नन्दा सीता चेति गङ्गाभागौ । यथोक्तं पञ्चमे । सीता तु ब्रह्मसदनादित्यादि । अलकनन्दाया एव नन्देति नामान्तरम् । रामस्याश्रमः । सीतासहित-रामाश्रम इति वा । सीताया रामस्य चाश्रम आदिर्येषाम् । द्वयोः पृथग्ग्रहणं वियोगकालाभिप्रायेणेति व्याकुर्वता प्रायेण स्वबुद्ध्येत्थं विगृह्यानुपपत्त्या बिभ्यता तच्छान्तमिति तन्वता सुराणकाः स्मारिता इति मन्तव्यम् । सर्वे सप्त ॥ ३३ ॥

मन्दनन्दिनी

नन्दा सीतेति भिन्नं पदम् । आश्रमपदेन समस्तं वा ॥ ३३ ॥

एते पुण्यतमा देशा हरेरर्चाश्रिताः पुनः ।

एतान् देशान् निषेवेत श्रेयस्कामो ह्यभीक्ष्णशः ॥ ३४ ॥

पदरत्नावली

हरेरर्चाश्रिता हरिक्षेत्रादयः । पुनर्वचनं सर्वस्मात् तेषां श्रैष्ठ्यद्योतनाय ॥ ३४ ॥

सत्यधर्मीया

केवलं देशा एव पुण्यतमाः पुनः किम्पुनर्हरेरर्चाश्रिता अर्चा आश्रिता यांस्ते पुण्यतमा इति किं वक्तव्यमित्यर्थः । अभीक्ष्णं मुहुरश्रान्तमित्येतत्पर्यायोऽभीक्ष्णशश्शब्दो मुहुरित्यर्थः

॥ ३४ ॥

मन्दनन्दिनी

हरेरर्चाश्रिता इति पुनर्वचनं वैशिष्ट्यद्योतनाय ॥ ३४ ॥

धर्मो ह्यत्रोदितः पुंसां सहस्राधिफलोदयः ।

पात्रं चात्र निरुक्तं वै कविभिः पात्रवित्तमैः ॥ ३५ ॥

पदरत्नावली

एतद्देशनिषेवणेन किं विशेषफलमिति तत्राह– धर्म इति ॥ ‘कृष्णातरङ्ग-सम्भूतपवनस्पर्शमात्रतः निर्धूतपातकाः सर्वे जना विष्णुपदं ययुः’ इत्यादिशास्त्रेषु सहस्त्राधिकफलोदय-त्वेनोदितः । पात्रेष्वपि तारतम्यमस्ति । तत्र मुख्यपात्रं हरिरित्याह– पात्रमिति ॥ पात्रतारतम्यवित्तमैः कविभिः पात्रं च निरुक्तं वै मुख्यत्वेन निर्णीतं हीत्यन्वयः ॥ ३५ ॥

सत्यधर्मीया

उदितोऽनुष्ठेयतया वेदाद्युदितो धर्मोऽत्र कृतश्चेत्सहस्राधिफलोदयः सहस्रावध्यधिक- फलोदयकरः । इष्टप्राप्तिरिवानिष्टनिवृत्तिरपि भविष्यतीत्यप्याह ॥ सहस्राधिफलोदय इति । सहस्राणां बहूनामाधीनां मनोव्यथानां फलस्य ञिफला विशरण इति स्मरणात्तस्य विशरणस्योदयो येन स इति । सहस्राधिकफलेति लपनीये केवलं सहस्राधीत्युक्तिर्बलमेतद्व्याकृतेरिति सन्तोष्टव्यम् । तथात्वे नार्थायोगः किन्तु स्वार्थादिककल्पनया क्लेशिष्टो मार्ग इति सौलालित्यं च । पात्रवित्तमैः कविभिः पात्रं निरुक्तम् । वा इत्यविगानमाह ॥ ३५ ॥

मन्दनन्दिनी

देशानुगुण्यप्रयुक्तं धर्मस्य वैशेष्यमाह ॥ धर्म इति ॥ उक्तो धर्मोऽत्रोक्तक्षेत्रे-षूदितः । अनुष्ठितश्चेत्साधारणदेशानुष्ठितधर्मापेक्षया सहस्राधिकफलोदयो भवति । पात्रेष्वपि तारतम्य-मस्ति । तत्र हरिर्मुख्यपात्रमित्याह ॥ पात्रं चेति ॥ पात्रज्ञानिश्रेष्ठैः कविभिः पात्रं निरुक्तं वै ॥ ३५ ॥

हरिरेवैक उर्वीश यन्मयं च चराचरम् ।

देवर्ष्यर्हत्सु वै सत्सु तत्र ब्रह्मात्मजादिषु ।

राजन् यदग्रपूजायां मतः पात्रतयाऽच्युतः ॥ ३६ ॥

पदरत्नावली

किं तदित्यत उक्तम्– हरिरिति ॥ चराचरं यन्मयं यत्स्वामिकं, यद्व्याप्तं सर्वं यस्मात् तस्मात् हरिरेव मुख्यपात्रमित्यन्वयः । इदं भवतोऽपि सिद्धमित्याह– देवेति ॥ ब्रह्मात्मजादिषु सत्सु । ऋषयश्च देवर्षयः । त एव अर्हन्तः पूजायोग्या येष्वपि सत्सु । तत्र यज्ञशालायाम् । अच्युतः गुणतो वयतः स्वरूपतश्च च्युतिरहितत्वात् श्रीनारायणो ऽग्रपूजायां पात्रतया मतः, त्वया ज्ञात इति यत् । अतो मुख्यपात्रं हरिरित्यवधारणा युक्ता ॥ ३६ ॥

सत्यधर्मीया

किं तत्पात्रनिरुक्तमित्यत आह ॥ हरिरेवैक इति । त्वत्साक्षिसिद्धमित्याश्वसि-हीत्याह ॥ उर्वीशेति । यन्मयं यत्प्रधानकम् । देवाश्च ऋषयश्च तेऽर्हन्तश्च तेष्वग्रसभाजनयोग्येषु । विशेषणस्य कडारादितः परनिपातः । ब्रह्मात्मजादिषु वसिष्ठादिषु । वैशिष्ट्यद्योतनाय प्राप्तानाम-प्यृषिपदेन पुनरुत्कृष्योक्तिः । देवर्षयो देवश्रेष्ठाश्च तेऽर्हन्तश्च तेषु ब्रह्मादिषु । तथा हि दशम इव सभावपर्वणि च । ‘‘इन्द्रादयो लोकपाला विरिञ्चभवसंयुताः । आययुः प्रीतमनसो देवा ब्रह्मपुरःसरा’’ इति । द्वैपायन इत्यारभ्यागतानां नाम गृह्णता न सनकादिर् गृहीतस् तथैव च भारतेऽपि न ग्राह्यं च तेषामिति विरक्ततया सभावेशासम्भवादिति ज्ञेयम् । मदादिष्विति । साक्षान्मदादिष्वित्युक्तौ मदादिः प्रसज्येतेति परोक्षोक्तिरिति वा । सत्सु साधुषु । सत्सु वर्तमानेषु च अपि हे राजन् तत्र त्वद्राजसूयेयद् यतोऽग्रपूजायां पात्रतयाऽच्युतो मतः सम्मतस्तद्धरिरेवैकः पात्रमित्यर्थः । अपात्रस्य पात्रतया करणमिति नेत्याह । पात्रतयाऽच्युतः क्वचित्कदाचिदपि तच्च्युतिर्नास्तीति तयाऽच्युत इत्यर्थः ॥ ३६ ॥

मन्दनन्दिनी

पात्रं निरुक्तमित्युक्तं तत्किमित्यत आह ॥ हरिरिति ॥ हे उर्वशि । चराचर-जगत् । यन्मयं यत्प्रधानकं यत्स्वामिकं च स हरिरेक एव पात्रमिति पूर्वेणान्वयः । अतश्च पूज्य इत्याह ॥ देवेति ॥ देवर्षिलक्षणार्हत्सु पुज्येषु तथा ब्रह्मणि तदात्मजेषु वसिष्ठादिषु सत्सु तत्र राजसूयेऽग्र-पूजायामच्युतो भगवान् कृष्ण एव पात्रतया मतः । भीष्मादिभिः संमतः । अतो हरिरेव पात्रमित्यन्वयः

॥ ३६ ॥

जीवराशिभिराकीर्ण आण्डकोशाङ्घ्रिपो महान् ।

तन्मूलत्वादच्युतेज्या सर्वजीवात्मतर्पणम् ॥ ३७ ॥

पदरत्नावली

किञ्च प्रत्येकं पूजाऽपि न विधेया । भगवत्पूजया तत्तृप्तिसम्भवात् । तन्मूलत्वात् तेषाम् । तरुमूलनिषेचनं शाखानामिवेति मुख्यवैष्णवसिद्धान्तमाह– जीवराशिभिरिति ॥ ३७ ॥

सत्यधर्मीया

हर्यर्चने कृते सर्वसुपर्वसपर्या कृतैव भवति । तेषां तन्मूलकत्वान्न सा पृथक् कार्योति निदर्शनेन दर्शयति ॥ आण्डकोशेति । जीवराशिभिर्जीवपुञ्चैः । राशिर्मेषादिपुञ्जयोरिति विश्वः । आकीर्णः पूर्ण आण्डकोशरूपोऽङ्घ्रिपो वृक्षः । स्वार्थेऽण् । अत एव महान् । तन्मूलत्वात्तस्य महतो महीरुहस्य मूलं तस्य भावस्तत्वम् । अच्युतेति नलोपः प्रातिपदिकान्तस्येति वा डः सोलोपः । अच्युतस्येज्या तत्पूजा सर्वजीवात्मनां तर्पणं तृप्तिकरी भवति । यथा मूलासेचने तरोः शाखाप्रोङ्खनं तद्वदेव देवतृप्तिरिति भावः । ऊर्ध्वमूल इत्याद्यानुकूल्यसम्पत्त्यर्थं काचिद्विपत्तिः सोढव्या । योग्यतया समासैकदेशान्वयो वा ॥ ३७ ॥

मन्दनन्दिनी

तरोर्मूलसेचनवद्भगवत्पूजनस्यैव सर्वजीवराशितृप्तिसाधनत्वाच्च भगवानेव पूज्य इत्याह ॥ जीवेति ॥ जीवराशिभिर्ब्रह्मादिशाखाभिराकीर्णो व्याप्तो ब्रह्माण्डकोशलक्षणोंऽघ्रिपः पादपः । तन्मूलत्वादच्युतस्य तदिज्या सर्वजीवात्मतर्पणं तृप्तिहेतुरिति योजना ॥ ३७ ॥

पुराण्यनेन सृष्टानि नृतिर्यगृषिदेवताः ।

शेते जीवेन रूपेण पुरेषु पुरुषो ह्यसौ ॥ ३८ ॥

तात्पर्यम्

जीवेन रूपेण सह ॥ ३८ ॥

पदरत्नावली

ननु मुख्यपात्रालाभे विहितकर्मानुष्ठानविषयाभावेन तद्विधानं व्यर्थमित्याशङ्क्य तत्तद्योग्यपात्रं वक्तुं कञ्चन सृष्टिप्रकारमाह– पुराणीति ॥ अनेन दयालुना हरिणा नृतिर्यगादिसंज्ञितानि पुराणि शरीराणि सृष्टानीत्यन्वयः । ततः किम् ?तत्राह– शेत इति ॥ श्रीहरिरेषु पुरेषु भोगायतनेषु जीवेन रूपेण स्वप्रतिबिम्बेन सह शेत इति यत् तस्मादसौ पुरुष इत्युच्यते । जीवोऽपि तन्नामेति शेषः । ‘पुरि शयनात् पुरुष’ इति श्रुतिं हिशब्देन सूचयति ॥ ३८ ॥

सत्यधर्मीया

तर्ह्यर्हणीयो मुख्यो भगवांश्चेत्तदलाभे कर्मानुष्ठानलोप एव किमित्यतस्तत्तद्योग्यं पात्रमत्र निरूपयितुं तदुपयुक्तं किञ्चित्सृष्टिप्रकारमाह ॥ पुराणीति । अनेन भगवता नृतिर्यगृषिदेवता इति पुराणि शरीराणि सृष्टानि । शेते जीवेन रूपेणेत्यर्धे जीवात्मकत्वं प्रतीयते भगवत इत्यतस्तामपास्तां विधातुं किञ्चिदध्याहृत्य योजयति ॥ जीवरूपेण सहेति ॥ अथ तदर्धार्थः ॥ हि यतोऽसौ भगवान् जीवेन रूपेण । वृद्धो यूना । मयाऽध्यक्षेण प्रकृतिरित्यादेरसहशब्दप्रयोगेऽपि सहेति लभ्यत इत्युक्तेर्जीव-रूपेण सह पुरेषु देहेषु शेत इति पुरुषपदाभिधेयः । ‘‘पुरि शेते यतः सोऽथ पुरुषश्चेति गीयत’’ इत्यनु-व्याख्याव्याख्यावसरे सुधायामथ तस्मात्पुरि शरीरे । अत्रोपपदस्य सप्तम्या अलुक् । तस्य चेकार-स्योकारो धातुशकारस्य षकारो निर्वचनत्वात् । अधिकरणे शेतेरित्याद्युक्तेः पुरुषशब्दनिरुक्तिर्ज्ञेया । श्रुतिश्च ‘‘स वा अयं पुरिशय’’ इति । मूले पुरेष्विति बहुवचनेन श्रुतिस्थितं पुरीत्येकवचनं जात्यभि-प्रायमिति सूचयति । परायत्तपुरुषत्वं जीवानामपि ज्ञेयम् ॥ ३८ ॥

मन्दनन्दिनी

ननु भगवत एव पूज्यत्वे साक्षात्तदलाभे पूजाविलोपप्रसङ्ग इत्यतः सर्वशरीरेष्वपि भगवतः सत्वान्न तदनुपपत्तिरित्याशयेन पुरुषशब्दं भगवति निर्वक्ति ॥ पुराणीति ॥ असौ भगवान् हि यस्मात्पुरेषु देहलक्षणेषु जीवेन रूपेण प्रतिरूपेण प्रतिबिम्बेन सह शेते । अतः पुरुष इत्युच्यते । सर्वासु पूर्षु शेत इति श्रुतिप्रसिद्धिं द्योतयति हिशब्देन । अनेन जीवस्यापि पुरुषत्वे इदमेव निमित्तमिति सूचयति । पुरीति सप्तम्यन्ते उपशेतेर्डप्रत्यये सप्तम्या अलुकि इकारस्योकारे शकारस्य षकारे च रूपम् । पुराण्यपि नान्यनिर्मितानीत्युक्तम् । नृतिर्यगृषिदेवता एतल्लक्षणानि । उपलक्षणमेतत् । यक्षरक्षः पिशाचा-दीनां सर्वेषां पूज्यत्वाभिप्रायेणैतदुक्तिः । तिर्यंचो गवाश्वादयः पुराणि । अनेन सृष्टानीति योजना । अत्र रूपेण स्वरूपेणेति न मन्तव्यम् । अभेदस्य सर्वमानविरुद्धत्वात् । किन्तूक्तरीत्या सहयोगे तृतीया । अत एव तात्पर्यम् ॥ जीवेन रूपेण सहेति ॥ ३८ ॥

तेष्वीशो भगवान् राजन् तारतम्येन वर्तते ।

तस्मात् पात्रं हि पुरुषो यावानात्मा यथेयते ॥ ३९ ॥

तात्पर्यम्

ब्रह्मादिस्थावरान्तेषु न विशेषो हरेः क्वचित् । व्यक्तिमात्रविशेषेण तारतम्यं वदन्ति च’ इति ॥ ३९ ॥

पदरत्नावली

ईशो भगवान् तेषु पुरेषु स्थितः पुरुषनामसु जीवेषु च तारतम्येन तत्तद्भक्त्यादि-गुणतारतम्यानुसारेण सन्निधानतारतम्येन वर्तत इति यस्मात् तस्मात् तत्तद्योग्यतानुसारेण पुरुषो जीव-राशिश्च पात्रम्, तदन्तर्यामिहरिस्मरणपूर्वकमिति शेषः । अत्र सन्निधानतारतम्यमेव हरेः । न तु स्वरूपतारतम्यम् । तदुक्तम्– ‘ब्रह्मादिस्थावरान्तेषु न विशेषो हरेः क्वचित् । व्यक्तिमात्रविशेषेण तारतम्यं वदन्ति च’ इति । अत्रापीत्थम्भावमाह– यावानिति ॥ पुरुषे तु स्थित आत्मा यावान् महिम्ना, यथा येन प्रकारेण ज्ञायते तदानुकूल्येन जीवराशिः पात्रमित्यर्थः ॥ ३९ ॥

सत्यधर्मीया

तेष्वीशो भगवान्राजन्निति श्लोकार्धे भगवानेषु पुरेषु तारतम्येन वर्तत इति तत्तद्देहस्थितानां हरिरूपाणां तरतमभाव उक्त इति व्यक्तं भाति । स त्वेकमेवाद्वितीयमित्यादिमानबाधित इत्यतः प्रमाणेनैव तत्तात्पर्यमाह ॥ ब्रह्मादीति । पद्मभवमारभ्य यवसावसानेषु । वृत्तित्वं सप्तम्यर्थः । स्थितस्य हरेर्विशेषस्तरतमभावः क्वचिदपि न नास्ति । तर्हि तारतम्यवाचोयुक्तेः का गतिरित्यत आह । व्यक्तिमात्रविशेषेणेति । ब्रह्मादिगुणवैशेष्यादित्याद्युक्तेः । अधिष्ठानवैशेष्यात्तदधिष्ठेयभगवदभिव्यक्ति-मात्रविशेषेण तारतम्यं वदन्ति न तु तरतमभावेनेति ॥ ततश्चायं श्लोकार्थः ॥ तेषु पुरेष्वीशो भगवान् तारतम्येन स्वाधिष्ठानगुणादितरतमभावेन वर्तते । यथा यथा गुणाधिक्यमधिष्ठाने तथा तथा सन्निधाना-धिक्यं भगवतस्तस्मात्पुरुषो जीवो ब्राह्मणादिः पात्रं पूजायाः । तत्रापि ज्ञात्वेत्थं प्रवर्तनीयमित्याह ॥ यावानिति । आत्माऽन्तर्यामी भगवान्यथा येन प्रकारेण सम्यग्वा यावान्यावदेतद्गुणप्रयोजकसन्धान ईयते तथाऽयं पुरुषः पात्रमित्यर्थः । अतो न पात्रालाभप्रयुक्तनिर्विषयता तदञ्चनोदञ्चकानां वचसामिति भावः

॥ ३९ ॥

मन्दनन्दिनी

नन्वेवं भगवतः सर्वशरीरस्थत्वेन पूज्यत्वे तारतम्यं न स्यादित्यत आह ॥ तेष्विति ॥ राजन् । तेषु ब्रह्मादिषु तारतम्येनाधिष्ठानतारतम्येन निमित्तेन स्वयमपि संनिधानतारतम्येन वर्तते हि यस्मात्तस्माद्यावान्सर्वत्राप्येकप्रकारेण सर्वगुणविशिष्टेऽपि । आत्मा परमात्मा यथाऽधिष्ठान-तारतम्यानुसारि सन्निधानतारतम्येनेयते प्रमाणैर्ज्ञायते । तथा पुरुषो ब्रह्मादिः पात्रं भवतीति योजना । भगवतः सर्वत्रैकप्रकारत्वेऽपि अधिष्ठानतारतम्यानुसारेण संन्निधानतारतम्यात्पात्रतारतम्यं युक्तमिति भावः । अत एव तात्पर्यम् ॥ ब्रह्मादीत्यादि ॥ व्यक्तिमात्रं विशेषेणाधिष्ठानतारतम्यानु सारिस्व-माहात्म्यप्रकटनमात्रतारतम्येनेत्यर्थः ॥ ३९ ॥

दृष्ट्वा तेषां मिथो नॄणामवज्ञामात्मनो नृप ।

त्रेतादिषु हरेरर्चा क्रियायै कविभिः कृता ॥ ४० ॥

ततोऽर्चायां हरिं केचिच्छ्रद्धया च सपर्यया ।

उपासते उपासा हि नार्थदा पुरुषद्विषाम् ॥ ४१ ॥

पदरत्नावली

हरिप्रतिमापूजायाः पुरुषस्थितपुरुषनाम्नो हरेः पूजा सम्यक् फलवतीत्याशयेनाह– दृष्ट्वेति ॥ कविभिस्तेषां नॄणां मिथ आत्मनो हरेरवज्ञां दृष्ट्वा त्रेतायां सपर्याक्रियायै हरेरर्चा कृता यस्मात् ॥ ततः केचित् सश्रद्धया सपर्यया अर्चायां हरिमुपासते । ये तेषां पुरुषस्थितहरिद्विषां सोपासा ऐहिकफलमन्तरेण परमपुरुषार्थप्रदा न भवतीत्यन्वयः ॥ ४०,४१ ॥

सत्यधर्मीया

यद्यपि प्रतिमाऽपि प्रतिमाननार्थं लोके लोकैः कृता तथाऽपि यथा पुरुषपूजा पुरुषार्थप्रदा न तथेति वक्तुं तर्हि तन्निर्माणं व्यर्थमिति शङ्कातङ्कनपूर्वकं तत्कृत्यं पूरुषपूजौन्नत्यं चाह ॥ दृष्ट्वेति । मिथः परस्परं तेषां नृणाम् । नृचेति दीर्घः । आत्मनः पुरुषान्तर्यामिणो भगवतोऽवज्ञां मात्सर्यादिना माननं दृष्ट्वा त्रेतादिषु त्रिष्वर्चाऽर्चाक्रियायै पूजार्थं कविभिः किञ्चिद् वाञ्छितं स्यादिति मतिमद्भिः कृता निर्मिता । यतस्ततः श्रद्धया सहितया सपर्यया पूजयाऽर्चायां प्रतिमायां केचिदुपासते । सा हि सोपासा पुरुषद्विषामप्रबुद्धानां नार्थदा परमपुरुषार्थप्रदा स्वातन्त्र्येण न भवति किन्त्वैहिकार्थप्रदा भवति । प्रवृत्ति(त्त)कर्म वदन्तोऽपि सर्वत्र विदितात्मनामित्याद्युक्तप्रकारेण समालिङ्ग्य पुरुषोपास्तिं महाफलहेतुर्भवतीति तात्पर्यम् ॥ ४०,४१ ॥

मन्दनन्दिनी

यावानात्मा यथेयत इत्यनेनाधिष्ठानतारतम्यानुसारेण भगवतो व्यक्तितार-तम्योक्त्याऽधमैरुत्तमपुरुषेषु भगवान् पूज्य इत्यायातम् । एवं चलप्रतिमायां सत्यामचलप्रतिमायां पूजा-सम्प्रदायः कुत आगत इत्याशङ्कायामाह ॥ दृष्ट्वेति ॥ तेषां नृणां पूज्यपुरुषाणां मिथः परस्परम् । तदपेक्षया मय्येवात्मा विशेषतः सन्निहित इत्येकेनोच्यते । एवमपरेणेत्येवमात्मनो हरेरवज्ञामधिष्ठानावज्ञां दृष्ट्वा । कलहं दृष्ट्वेति यावत् । त्रेतादौ युगे क्रियायै सपर्यायै कविभिरर्चा कृतेति योजना । कृते ब्राह्मणानां परस्परतारतम्ये कलहाभावात्तारतम्येन चलप्रतिमासु पूजासम्भवेऽपि त्रेतादौ कलहेन तदसम्भवाद् अर्चायां पूजासम्प्रदायः कृत इति भावः ॥ सम्प्रदायानुसारेणार्चायां पूजा क्रियते । कृताऽप्युत्तमपुरुषद्विषामर्थदा न भवतीत्याह ॥ तत इति ॥ ततः सम्प्रदायागतेरुत्तमद्वेषासम्पादनेऽर्चायां पूजा तन्त्रसारोक्तरीत्याऽनुष्ठिता पुमर्थचतुष्टयसाधनं भवतीति भावः ॥ ४०–४१ ॥

पुरुषेष्वपि राजेन्द्र सुपात्रं ब्राह्मणं विदुः ।

तपसा विद्यया तुष्ट्या धत्ते वेदं हरेस्तनुम् ॥ ४२ ॥

पदरत्नावली

मुख्यपात्रमाह– पुरषेष्विति ॥ कीदृशो ब्राह्मणो मुख्यं पात्रमित्यतस्तद्विशिनष्टि– तपसेति ॥ तनुं प्रतिमास्थानम् । अत्र ‘शिलावत् प्रतिमाः सन्तो विप्राद्याश्च हरेः स्मृताः’ इति वचनाद् विप्रादिमात्रं हरिशिलास्थानीयं न । किन्तु तपआदिविशिष्टब्राह्मणकुलम् । अन्यथा ‘हरेरर्चोपासा पुरुषार्थप्रदा न स्यात्’ इति तदुपासां विनिन्द्य ‘सुपात्रं ब्राह्मणं विदुः’ इति कथनं व्यर्थं स्यात् । अत एव ब्रह्म अणतीति ब्राह्मण इति तत्पदं प्रायोजि ॥ ४२ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

सप्तमस्कन्धे चतुर्दशोऽध्यायः ॥

सत्यधर्मीया

पूर्णपात्रेषु पुरुषेषु समसमञ्चनरचनमाचरितव्यं किमित्यतस्तत्रापि तरतम-भावोऽस्तीति तदनुसरणेनोपसरणं कार्यमित्याह ॥ पुरुषेष्वपीति । ब्राह्मणमिति न सामान्यविप्रग्रह इति तत्पदार्थं विवरितुमाह ॥ तपसेति । तपसा कृच्छ्रादिना तुष्ट्या विषयालम्बुद्ध्या यस्तु वेदं धत्ते विद्ययाऽपरोक्षज्ञानेन निमित्तेन तं हरेस्तनुं सुपात्रं विदुः । बहुवचनेनास्मिन्नर्थे विगानमाह । ब्रह्माणतीति ब्राह्मण इति तद्व्युत्पत्तिरिति सूचितं भवत्यनेनेति ज्ञेयम् ॥ ४२ ॥

मन्दनन्दिनी

पुरुषाणां पात्रत्वमुक्तम् । तत्रापि विशेषमाह ॥ पुरुषेष्विति ॥ पुरुषेषु मध्ये ब्राह्मणमत्यन्तपात्रं विदुः किं वर्णमात्रेणेत्यत उक्तम् ॥ तपसेति ॥ तपसाऽनशनादितपसा विद्यया ब्रह्मविद्यया । तुष्ट्या विषयालम्बुद्ध्या हरेस्तनुं प्रतिमाभूतमिदं शरीरं धत्ते । चो यत इत्यर्थे । इति योजना । प्राणप्रतिष्ठादिना शिलायाः प्रतिमात्ववद्ब्राह्मणशरीरस्यापि हरेः प्रतिमात्वं तपआदिनेति ज्ञेयम् । अत एव तात्पर्यम् ॥ शिलावदित्यादि ॥ सन्तस्तपोविद्यादिमन्तः । आद्यपदेन क्षत्रियाद्या अपि स्वाधमवर्णानां पूज्या इत्युक्तं भवति । अत्र स्वोत्तमवर्णे तपआधिक्येऽत्यन्तपूज्यत्वम् । तदभावे पूज्यतामात्रम् । अधमवर्णे विद्याद्याधिक्ये तु मानसिकवाचनिकपूजनं कार्यं न तु शारीरमित्यादिक-मवगन्तव्यम् ॥ ४२ ॥

तन्वोऽस्य ब्राह्मणा राजन् कृष्णस्य जगदात्मनः ।

पुनन्तः पादरजसा त्रिलोकीं दैवतं महत् ॥ ४३ ॥

॥ इति श्रीमद्भागवते सप्तमस्कन्धे चतुर्दशोऽध्यायः ॥

तात्पर्यम्

‘शिलावत्प्रतिमाः सन्तो विप्राद्याश्च हरेः स्मृता’ इति च ॥ ४३ ॥

॥ इति सप्तमतात्पर्ये चतुर्दशोऽध्यायः ॥ १४ ॥

सत्यधर्मीया

तन्वोऽस्य ब्राह्मणा इति श्लोके साक्षादधोक्षजशरीरता विप्रमात्रस्येति भाति । तच्च प्रमाणपीडितमित्यतः प्रमाणेन तदर्थमाह ॥ शिलावदिति । सन्तो विप्राद्या हरेः शिलावत्प्रतिमा अधिष्ठानम् । यथा वा वासुदेवादिसालग्रावाण इति व्यवहारस्तथा सद्ब्राह्मणेषु तनुत्वव्यवहारः । राजन्यदग्रपूजायामतः पात्रतयाऽच्युत इति सुपात्रता हरेर्यथा तथा ब्राह्मणं सुपात्रं विदुरिति सुपात्रता-साम्यभ्रमः साक्षादसाक्षात्वाभ्यां शिलावदिति सूचिताभ्यां विभ्रंशित इति २ज्ञेयम् । ज्ञानादिहीनो विप्रश्चे-त्सप्रतिमाप्रतिम एवेति भावोऽपि तपसेत्यादिना सूचित इति च । इति च व्यासस्मृताविति शेषः ॥ ततश्चायं श्लोकार्थः ॥ अस्याग्रपूजाभाजनत्वेन त्वत्साक्षिगोचरस्य कृष्णस्य जगदात्मनो ब्राह्मणा अपरोक्षज्ञानिनस्तन्वः शिलावच्छरीराणि पादरजसा त्रिलोकीं पुनन्तो महद्दैवतं तत्सन्निधानपात्रमिति सुपात्रं विदुः । सर्वा देवता वेदविदि ब्राह्मणे वसन्तीत्यादेः । यद्वा यन्महद्दैवतमस्य जगतः कृष्णस्ये-त्यन्वयः ॥ ४३ ॥

॥ इति श्रीसत्यधर्मतीर्थकृतायां श्रीमद्भागवतविवृतौ

सप्तमे चतुर्दशोऽध्यायः ॥

मन्दनन्दिनी

ब्राह्मणान्स्तुत्वोपसंहरति ॥ तन्व इति ॥ हे राजन् । जगत्स्वामिनः कृष्णस्य प्रतिमास्थानीया ब्राह्मणाः । पादरजसा त्रिलोकीं पुनन्तोऽस्य जगतो महद्दैवतं तन्व इति योजना ॥४३॥

॥ इति श्रीभागवतटिप्पण्यां व्यासतत्वज्ञकृतायां मन्दनन्दिन्यां

सप्तमस्कन्धे चतुर्दशोऽध्यायः ॥