कल्पस्त्वेवं परिव्रज्य देहमात्रावशेषितः
॥ अथ त्रयोदशोऽध्यायः ॥
नारद उवाच –
कल्पस्त्वेवं परिव्रज्य देहमात्रावशेषितः ।
ग्रामैकरात्रविधिना निरपेक्षश्चरेन्महीम् ॥ १ ॥
पदरत्नावली
क्रमप्राप्तं यतिधर्मं निरूपयति– कल्प इति ॥ एवमुक्तं कृच्छ्रं सोढुं कल्पः । अप्यर्थस्तुशब्दस् तर्हि परिव्रज्य संन्यस्य महीं चरेदित्यन्वयः । देहमात्रावशेषित इत्यनेन प्रव्रजनं विशिनष्टि । ‘अधीतवेदो जपकृत् पुत्राद्यानन्ददोऽग्निमान् । शक्त्या च यज्ञकृन्मोक्षे मनः कुर्यात्तु नान्यथा ॥’ इति नियमं तुशब्देन वारयति । ‘यदहरेव विरजेत् तदहरेव प्रव्रजेत्’ इति विशेषविधानाद् ब्रह्मचारिणोऽपि तुर्याश्रमग्रहणोपपत्तेः । अत एव कल्प इत्युक्तम् । कामक्रोधादिसहजशत्रुजयसमर्थ इत्यर्थः । ‘उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् । वेदमध्यापयेत् पश्चात् शौचाचारांश्च शिक्षयेत् ॥’ इति वचनाद् ब्रह्मचारिणोऽध्ययनप्रारम्भेणाधीतवेदत्वं युज्यत इति वा । संन्यासाश्रमश् चतुर्धा भिद्यते । कुटीचको बहूदको हंसः परमहंस इति । तत्र परमहंसधर्मः कथ्यत इत्यर्थद्योतको वा तुशब्दः । निरपेक्षो ऽलोलुपः ॥ १ ॥
सत्यधर्मीया
क्रमप्राप्तं यमिधर्मनियममाह ॥ कल्प इति । यदि कल्प एवमुक्तं श्रमं सोढुं समर्थः परिव्रज्य सन्न्यासं सम्पाद्य । तर्हि देहमात्रावशेषितः केवलदेहो देहमात्रं तदवशेषितं यस्येति तेना-वशेषितः । ग्रामैकरात्रविधिना एकस्मिन्ग्राम एकारात्रिर्यस्येति स चासौ विधिश्च तेन । सङ्ख्या-पूर्वकत्वादेकरात्रमित्यजन्तम् । निरपेक्षो विषयाभिलाषशून्यो महीं चरेत् । अमुं नियमम् अधीतवेदो जपकृत्पुत्राद्यानन्ददोऽग्निमान् । शक्त्या च यज्ञकृन्मोक्षे मनः कुर्यात्तु नान्यथेति तुना तुदति । यदहरेव विरजेत्तदहरेव प्रव्रजेदित्याद्यपवादाद्ब्रह्मचारिणोऽपि यत्याश्रमग्रहणदर्शनाच्च । ‘‘उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् । वेदमध्यापयेत्पश्चाच्छौचाचारांश्च शिक्षयेत्’’ इति वचनात्पारमहंस्ययोग्यता सम्भवति बटोः ॥ १ ॥
मन्दनन्दिनी
क्रमात्प्राप्तं यतिधर्मं निरूपयति अस्मिन्नध्याये ॥ कल्प इति ॥ यदा कल्पः स्वक्रियायां व्याधिभिरित्यत्र कल्पस्यात्मारोपणेनानशनादिना विराम उक्तः । इदानीं कल्पस्तु वनस्थो विरक्तश्चेत्परिव्रजेदिति संन्यासं विधत्ते । वस्तुतो वैराग्यमात्रं सर्वाश्रमिणोऽपि संन्यासे निमित्तम् । यदहरेव विरजेत्तदहरेव प्रव्रजेदिति श्रुतेः । एवमुक्तलयमनुसन्धाय देहातिरिक्तं सर्वं परित्यज्य देहमात्रा-वशेषितो ग्रामैकरात्रविधिना निरपेक्षो वित्ताद्यनपेक्षो महीं चरेदिति योजना । कल्प इत्युक्त्या महीचरणासमर्थश्चेत्क्षेत्रादौ व्याख्यानादिना वसेदित्यपि ग्राह्यम् ॥ १ ॥
बिभृयाद् यद्यसौ वासः कौपीनाच्छादनं परम् ।
त्यक्तं न लिङ्गदण्डाभ्यामन्यत् किञ्चिदनापदि ॥ २ ॥
पदरत्नावली
देहमात्रावशेषित इत्यस्यापवादमाह– बिभृयादिति ॥ यद्यसौ भिक्षुरप्सु त्यक्तं वासः परं पश्चात् प्रतिनिधिलक्षणं बिभृयाद् धर्तुमिच्छेत् तर्हि कौपीनलक्षणम् आच्छादनं बिभृयात् । अथवा कौपीनं शीतातपनिवारकमेकमाच्छादनं च बिभृयात् । परं न बिभृयादित्यर्थः । ‘शीतातप-निवारार्थमेकमाच्छादनं यतेः । कौपीनात् परमित्याहुरेके नान्यद् विना वपुः ॥’ इति वचनात् । कौपीनाच्छादनं चेत्येकवद्भावः । नन्वयं यतिरिति केन ज्ञातुं शक्यते ? तत्राह । न लिङ्गेति । लिङ्गदण्डाभ्यां विना किञ्चिन् न बिभृयात् । लिङ्गं चक्रशङ्खादिमुद्राधारणम् । कमण्डल्वादिकं वा । ‘सर्वभूतहितः शान्तस्त्रिदण्डी सकमण्डलुः’ इति वचनात् । वाक्कायचेतसां यमनं त्रिदण्डित्वम् । लिङ्गदण्डाभ्यामिति विशेषणादेक एव तु लक्षणो दण्डोऽन्यथा परमहंसत्वं न स्यात् । दण्डो वाग्देहचेतसामिति वक्ष्यति ॥ २ ॥
सत्यधर्मीया
कुटीचो बहूदो हंसः परमहंसश्चेति चतुर्विधेषु सन्न्यासिषु परमहंसस्य देहमात्रा-वशेषितत्वमुक्तम् । तस्यापवादमाह ॥ बिभृयादिति । असौ परमहंसो यदि वासो बिभृयात् । अनेन वासोराहित्यमेव मुख्यमभिप्रैति । तर्हि कौपीनाच्छादनं कौपीनं गुह्यं तदाच्छादनं परं केवलं बिभृयात् । तदपि वर्जितस्वार्जितत्वेन कथं प्राप्यमित्यत आह ॥ त्यक्तमिति । दत्तम् । तेन त्यक्तेन भुञ्जीथा इतीशावास्योपनिषद्भाष्ये त्यक्तेन दत्तेनेत्युक्तेः । परकीयैर्दत्तमित्यर्थः । कौपीनेन सहितमाच्छादनं चेति वा । ‘‘शीतातपनिवारार्थमेकमाच्छादनं यतेः । कौपीनात्परमित्याहुरेकेनान्यद्विना वपुरि’’ति वचनात् । लिङ्गदण्डाभ्यां लिङ्गं चक्रशङ्खादिकं दण्डो मस्करः । ‘‘दण्डो वाग्देहचेतसा’’मिति वक्ष्यमाणत्वात् । एवं त्रिदण्डी परमहंसः । त्रिदण्डित्वस्यानेतल्लक्षणत्वात् । ‘‘सर्वभूतहितः शान्तस्त्रिदण्डी सकमण्डलुरि’’ति वचनं चैतदभिप्रायम् । अन्यथा लिङ्गदण्डैरित्यवक्ष्यत् । अनापद्यन्यत्किञ्चिन्न बिभृयात् । आपदि तु बिभ्रन्न भ्रश्यति यतिनियतित इति ज्ञेयम् । केचित्तु प्रसरद्वसनवासना विना समुच्चायकं चाधिकं कौपीनमेकमेकं चाच्छादनमाच्छादकं परिधानीयं परमन्यच्चोत्तरीयं चेति वर्णयन्ति । ‘‘कौपीनं स्यादकार्ये च गुह्यचीरप्रभेदयोरि’’ति विश्वः । शालीनकौपीने अधृष्टाकार्ययोरिति स्वयं तत्त्वेन निपातितौ शब्दौ । शालां प्रवेष्टुमर्हति कूपपतनमर्हतीति च । शालीनो धृष्टः कौपीनं पापं तत्साधनत्वाद्गोप्यत्वाद्वा पुरुषलिङ्गं तत्सम्बन्धात्तदाच्छादनमपि वासः खण्ड इत्यर्थः । अन्ये त्वाहुः । अकार्यशब्दे यः करोति स क्रियासामान्यवचनः । तेन लज्जाहेतुत्वेनाद्रष्टव्यत्वात्पुरुषलिङ्गं कौपीनम् । अस्पृश्यत्वात्तदाच्छादन-मित्याहुरिति सिद्धान्तकौमुदीतत्त्वसुबोधिन्यभिधानाद्वस्त्रखण्ड इत्यर्थः ॥ २ ॥
मन्दनन्दिनी
यदीत्यनेन वस्तुतो दिग्वासस्त्वमेवेति ध्वनितम् । यदि वासो बिभृयाद्गुह्यं गूहनार्थं लोकप्रार्थनया वा वासो धर्तुमिच्छेत्कौपीनाच्छादनम् । परं वासो बिभृयादिति योजना । कौपीनं चाच्छादनं च तयोः समाहारः कौपीनाच्छादनम् । सर्वोऽपि द्वन्द्वो विभाषयैकवद्भवतीत्युक्तेः । न तु कौपीनरूपाच्छादनम् । कूपपतनमर्हतीत्यर्थे कुपशब्दात् खय् प्रत्यये नरकपतनसाधनम् । पापं कौपीनम् । तत्साधनत्वाद् लिङ्गमपि कौपीनं तदाच्छादनत्वाद्वस्त्रमपि निरूढलक्षणयोच्यते । तथैव वैयाकरणेषु निरुक्तेः । सत्कौपीनः पीनकृष्णजिनश्रीरित्यादिप्रयोगाच्च । तथा च कौपीनपदेनैवाच्छादनलाभे तदन्य-नितम्बाच्छादनमेवाच्छादनपदेनैव ग्राह्यम् । अत एव मध्वविजये–
शुभशुद्धनितम्बबिम्बराजन्नवकौशेयविशेषबाह्यवस्त्रम् ।
ननु कुक्षिगलालिकेषु रेखात्रितयेन प्रकटेन शोभमानम् इति ॥
कौपीनातिरिक्तं नितम्बाच्छादनमुक्तम् । परमुत्तमम् । शीतातपादिनिवारणदक्षमन्यदाच्छादनम् । यथोक्तं मध्वविजये–
मृदुसूक्ष्मघनारुणाविकाच्छः प्रकटप्रावरणेन भासमानम् ।
अतिनूतनतिग्मभानुभासां निकरेणेव सुवर्णसानुमन्तम् ॥ इति ॥
न च शीतातपनिवारणार्थमेकमाच्छादनं यतेः कौपीनात्परमित्याहुः । एकेनान्यद्विना वपुरिति वचन- विरोधः । तत्रैकशब्दस्य शीतातपादिनिवारणदक्षत्वरूपमुख्यत्वपरत्वात् । अन्यथैकत्वपरत्वे कौपीनेन द्वित्वप्राप्त्या विरोधात् । नितम्बाच्छादनप्रापकमध्वविजयविरोधाच्च । न चेदमेव शीतातपनिवाराणार्थं नितम्बाच्छादनमपीति वाच्यम् । बहिर्वाससो नाभेरधो निषिद्धत्वात् । मध्वविजये नितम्बाच्छादनस्य कौशेयत्वस्य वातातपनिवारार्थस्याविकत्वस्योक्तेश्च । किञ्चैकत्वसंख्यार्थकत्वे करवस्त्रमपि न स्यात् । तथा च मध्वविजयविरोधः । करगपटपिण्डार्थमतिकृदिति तत्रोक्तेः । तस्मादेवमेव ज्ञेयम् । त्यक्तमप्सु त्यक्तं वासो न पुनर्बिभृयात् । देहमात्रावशेषित इत्यस्यापवादान्तरमाह ॥ लिङ्गदण्डाभ्यामिति ॥ लिङ्गं कमण्डल्वादिकम् । अत्र द्विवचनेन दण्ड एक इति सूचितम् । न तु त्रिदण्ड इति ।
त्रिदण्डधारिणं भिक्षुं द्विजं चापि त्रिशूलिनम् ।
गार्दभं यानमारोप्य स्वराष्ट्राद्विप्रवासयेद् इति ॥
बहुवचनविरोधात् । न च चतुर्धा भिक्षवो विप्राः सर्वे चैव त्रिदण्डिन इत्यादि त्रिदण्डविधिविरोध इति वाच्यम् । तस्य दण्डो वाग्देहचेतसामिति वक्ष्यमाणरीत्या दण्डत्रयदण्डनविधिपरत्वात् । तथा च लिङ्गदण्डाभ्यामन्यदनापदि न बिभृयादिति योजना ॥ २ ॥
एक एव चरेद् भिक्षुरात्मारामोऽनपाश्रयः ।
सर्वभूतसुहृच्छान्तो नारायणपरायणः ॥ ३ ॥
पदरत्नावली
अनपाश्रयो ग्रामाद्यावासविधुरः । यथाऽऽह याज्ञवल्क्यः– ‘एकारामः परिव्रज्य भैक्षार्थं ग्राममाश्रयेत् । अप्रमत्तश्चरेद् भैक्ष्यं सायाह्रेऽनुपलक्षितः ॥’ इति वचनात् ॥ ३ ॥
सत्यधर्मीया
भिक्षुः परिव्राडात्माराम आत्मनि बुद्धौ रमत इति स तथा । ‘‘आत्मा स्वभाव-धृतिबुद्धिष्वि’’ति विश्वः । अनपाश्रयो नगराद्यावासविधुरः । यथाऽऽह याज्ञवल्क्यः । ‘‘एकारामः परिव्रज्य भैक्ष्यार्थं ग्राममाश्रयेत् । अप्रमत्तश्चरेद्भैक्ष्यं सायान्हेऽनुपलक्षितः’’ इति । सर्वभूतसुहृत्सर्वभूतानि सुहृन्दि यस्य सः शान्तो निष्कोपो नारायणपरायणः सदा तदासक्तः ॥ ३ ॥
मन्दनन्दिनी
एक एव पत्न््नयादिरहित एव । तेन शिष्यपरिवृतत्वेऽपि न दोषः । आत्मारामः परमात्मालोचनलब्धसुखवान् । अनपाश्रयो ग्रामाद्यावासरहितः । यथाऽऽह याज्ञवल्क्यः ॥
एकारामः परिव्रज्य भैक्षार्थं ग्राममाश्रयेत् ।
अप्रमत्तश्चरेद्भैक्ष्यं सायान्हेऽनुपलक्षितः ॥ इति ॥
सर्वभूतेषु सुहृद्धितो नारायण एव मुख्याश्रय इति ज्ञानवान् ॥ ३ ॥
पश्येदात्मन्यदो विश्वं परे सदसतोऽद्वये ।
आत्मानं च परं ब्रह्म सर्वत्र सदसन्मये ॥ ४ ॥
तात्पर्यम्
आत्मनि परमात्मनि ॥ ४ ॥
पदरत्नावली
नारायणपरत्वं दर्शयति– पश्येदिति ॥ अदो विश्वम् आत्मनि पश्येत्, तदा-धारत्वेन स्थितमिति शेषः । आत्मनीति जीवः किं न स्यादिति तत्राह– पर इति ॥ सदसतः परे । उत्कर्षवाचित्वेन विकल्पात् सर्वनामसंज्ञा नास्ति । जीवस्य संसारित्वेनानुत्कृष्टत्वात् । नैतादृशोऽ-न्योऽस्तीत्याह– अद्वय इति ॥ नैतावता पूर्यत इत्याह– आत्मानं चेति ॥ सर्वत्र सदसन्मते जगति अवसितमात्मानं परं ब्रह्म पश्येत् । ईदृशं नाम चिन्तनम् ॥ ४ ॥
सत्यधर्मीया
पश्येदात्मन्यदो विश्वमित्यत्रात्मपदं स्ववाचकमिति प्रतीतिं वारयितुमनूद्य स्वयं व्याख्याति ॥ आत्मनि परमात्मनीति ॥ ततश्चायं मूलार्थः ॥ अदो विश्वं जगदात्मनि परमात्मनि पश्येत्तदाधारमिति जानीयात् । कुतो हरेरेतदाधाररूपतेत्यतो निरूपयति ॥ सदसतः पर इति । मूर्तामूर्तकार्याकार्योत्कृष्ट इति । अद्वये निरस्तस्वसमानवस्तुनि । सदसन्मये जगति चात्मानं स्वामित्वेन स्थितं परं ब्रह्म च पश्येत् । सदसन्मय इत्यसङ्कोचसूचकं सर्वत्रेति ॥ ४ ॥
मन्दनन्दिनी
नारायणपरायणत्वं विशदयति ॥ पश्येदिति ॥ अद्वये सदृशरहिते । सदसतो मूर्तामूर्तजगतः । परे उत्कृष्टे । उत्कषार्थकत्वादेव न सर्वनामसंज्ञा । आत्मनि यथोक्तविशेषणायोगात् । अत एव परमात्मनीति तात्पर्यम् । अदो विश्वं प्रामाणिकं सर्वजगत् । सदसन्मये मूर्तामूर्तात्मके सर्वत्र जगति परं सर्वोत्कृष्टं ब्रह्म गुणपूर्णमात्मानं परमात्मानं पश्येदिति योजना ॥ ४ ॥
सुप्तप्रबोधयोः सन्धावत्मनो गतिमात्मदृक् ।
पश्यन् बन्धं च मोक्षं च मायामात्रं न वस्तुतः ॥ ५ ॥
पदरत्नावली
सुप्तप्रबोधयोः सुप्तिजाग्रतोः । सन्धौ अरुणोदयकाले शयनप्रारम्भकाले च । आत्मनः स्वस्य गतिं ‘ सता सौम्य तदा सम्पन्नो भवति’ ‘अतः प्रबोधोऽस्मात्’ इत्यादिप्रमाणबलात् परमात्माधीनत्वलक्षणां स्थितिं हरेश्च स्वातन्त्र्यलक्षणां पश्यन् बन्धं मोक्षं मायामात्रं हरेरिच्छया निर्मितं त्रातं पश्यन् वस्तुतः स्वातन्त्र्येण, न अन्यधीनत्वेन पश्येत् ॥ ५ ॥
सत्यधर्मीया
सुप्तं सुप्तिः प्रबोधो जागरणं च तयोः सन्धावुषःप्रदोषरूपकाले । आत्मनो गतिं तदवस्थाप्रदत्वेन गम्यम् । सता सोम्य तदा सम्पन्नो भवति । अतः प्रबोधोऽस्मात् । प्राज्ञेनात्मनेत्यादेः । आत्मदृक् स्वयोग्यतामनुसन्दधद्बन्धं मोक्षं च मायामात्रं भगवदिच्छया मातं त्रातं च । तथा वस्तुतः वस्तु शक्तं स्वतन्त्रत्वेनेति यावत् । न पश्येन्नानुसन्दध्यात् ॥ ५ ॥
मन्दनन्दिनी
सुप्तप्रबोधयोः सन्धौ शयनोत्थानयोः सन्धौ । आत्मदृगात्मज्ञानी । आत्मनः स्वस्य गतिं सत आगम्य न विदुः । सत आगच्छाम इति सति सम्पद्य न विदुः सति सम्पत्स्याम इत्युक्तप्रकारेण पश्यन् बन्धं मोक्षं च वस्तुनः । स्वतन्त्रवस्तुनो भगवतः सकाशात्स्थितं मायामात्रं भगवदिच्छया निर्मितं त्रातं च पश्यन् नाभिनन्देदिति योजना ॥ ५ ॥
नाभिनन्देद् ध्रुवं मृत्युमध्रुवं वा स्वजीवितम् ।
कालं परं प्रतीक्षेत भूतानां प्रभवाप्ययम् ॥ ६ ॥
पदरत्नावली
मृत्युं ध्रुवमिति नाभिनन्देत् । स्वजीवितं वाऽध्रुवमिति । तर्हि कथं निश्चय इति तत्राह– कालमिति ॥ भूतानां प्रभवाप्ययं कालाख्यभगवदधीनं प्रतीक्षेत । किं बहुना ? सर्वं भगवदधीनमिति पश्येत् ॥ ६ ॥
सत्यधर्मीया
मृत्युं ध्रुवं स्वसामर्थ्येन नियत्या गच्छति स इति नाभिनन्देन् नानुमोदेत । स्वजीवितं स्वत एवाध्रुवमिति नाभिनन्देत् । ध्रुवं निश्चयेन मृत्युं तद्देवतां भगवदितरां नाभिनन्देत् । अन्तर्णीतण्यर्थो नाभिनन्देन्नाराधयेत् । अवर्जनीयत्वात्तस्येति भावः । स्वजीवितमध्रुवं यतोऽतो नाभिनन्देत्तेन न सन्तुष्येत् । मुख्यो वर्तत एकः स क इत्यत आह ॥ कालमिति । भूतानां प्रभवाप्यय-मिति षष्ठ्या अलुक् । भूतानां प्रभवश्चाप्ययश्च यस्मात्तं कालं कालोऽस्मि लोक इत्यादेः कालाख्यं भगवन्तं प्रतीक्षेत । अलुक्फलं तु भूतस्य भूतयोरिति सङ्कोचसङ्कोचनम् । भूतानां प्राणिनां यः प्रः प्रभेदवान्भवः केषाञ्चिद्देहाभिमानपराधीनविशेषावाप्त्यादिरूप एतत्प्रतियोगीति तादृशोऽप्ययश्च यस्मात्तम् । परं कालं भगवन्तं प्रतीक्षेतेति वा । प्रभावयतीति तथाऽऽप्यायतीति स तमिति कालविशेषणं वा । ध्रुवं मृत्युं नाभिनन्देदभि अवज्ञापूर्वकं न नन्देत् । अभिप्रेयस इति काठकखण्डार्थेऽभिरवज्ञानार्थक इति व्याख्यानादिति वा । हर्याज्ञात आगतस्यावज्ञानर्हताबोधकः कालमित्यादिग्रन्थ इति ज्ञेयम् । अथवाऽध्रुवं ‘‘अद्य वाऽब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः’’ । ‘‘जातस्य हि ध्रुवो मृत्युः’’ इत्यादेः । ध्रुवं मृत्युमध्रुवं तत्त्वेन ज्ञात्वा नाभिनन्देद् अध्रुवं१ स्वजीवितं नाभिनन्देदिति व्युत्क्रमेणान्वयः । तदभिनन्दने कारणमाह । कालमित्यादिनेति केचित् । क्षणादिव्यावृत्तये परमिति ॥ ६ ॥
मन्दनन्दिनी
ध्रुवमवश्यं भाविनं मृत्युं नाभिनन्देत् । नाकाङ्क्षेत् । नाप्यध्रुवं स्वजीवितमभिनन्देत् । अन्यतरकाङ्क्षावान्न स्यादिति यावत् । परं परन्तु । भूतानां प्रभवाप्ययहेतुभूतकालाख्यं परमात्मानं प्रतीक्षेतेति योजना ॥ ६ ॥
नासच्छास्त्रेषु सज्जेत नोपजीवेत जीविकाम् ।
अतिवादान् त्यजेत् तर्कान् पक्षं कञ्चिन्न संश्रयेत् ॥ ७ ॥
न शिष्याननुबध्नीत ग्रन्थान् नैवाभ्यसेद् बहून् ।
न व्याख्यामुपजीवेत नारम्भान्नारभेत् क्वचित् ॥ ८ ॥
तात्पर्यम्
अप्रयोजकं पक्षं न संश्रयेत् । ‘नाप्रयोजनपक्षी स्यान्न वृथा शिष्यबन्धकृत् । न चोदासी न शास्त्राणि न विरुद्धानि चाभ्यसेत् ॥ ‘न व्याख्यमुपजीवेत न निषिद्धान्समाचरेत् । एवं भूतो यतिर्याति तदेकशरणो हरिम्’ इति समाचारे ॥ ७,८ ॥
पदरत्नावली
जीविकां वेतनादिलक्षणाम् । वेदवादमतीत्य तर्कान् वैशेषिकादिशास्त्रनिष्ठितान् । अप्रयोजकं पक्षं सिद्धान्तम् । ‘नाप्रयोजनपक्षी स्यान्न वृथा शिष्यबन्धकृत् । न चोदासीनशास्त्राणि न विरुद्धानि वाऽभ्यसेत् । न व्याख्ययोपजीवेच्च न निषिद्धान् समाचरेत् । एवम्भूतो यतिर्याति तदेकशरणो हरिम् ॥’ इति निर्णीतमानम् । बहून् गन्थान् वैष्णवाभासान् मोक्षविरुद्धान् वात्स्यायनादीन् ज्योतिः-शास्त्रादीन् । व्याख्यायोपजीवनं न कुर्यात् । आरम्भान् निषिद्धान् कृष्यादीन् ॥ ७,८ ॥
सत्यधर्मीया
नासच्छास्त्रेष्विति श्लोके पक्षं कञ्चन कमपि न संश्रयेदिति सर्वपक्षप्रतिक्षेपः कृत इति प्रतीयते । प्रतीयते चोत्तरत्र छात्रमात्रपरित्याग इव शास्त्रानभ्यासः स इव कर्मत्यागश्चेत्येतदादिः ‘‘ब्रूयादपि च शिष्येभ्यः सत्सिद्धान्तमहापयन् । विष्णोः सर्वोत्तमत्वं तु सर्वदा प्रतिपादयेत्’’ इत्यादि-प्रमाणबाधित इत्यतः पूर्वत्र किञ्चिदपेक्षितमध्याहृत्य पूर्वोक्तार्थद्रढिम्ने प्रमाणेनोत्तरश्लोकं यथावद्व्याचष्टे ॥ अप्रयोजकमिति । न विद्यते प्रयोजकः प्रवर्तको यस्य स तं पक्षम् । स्वप्रेक्षोत्प्रेक्षितमिति यावत् । न संश्रयेत् । अनेन मानानुयानेन मूले किंशब्दः कुत्सितार्थ इत्यपि कटाक्षयति । एतेन प्रमाणगतप्रयोजनपदं प्रयोजयतीति प्रयोजकवाचीति सूचयति । मान एवमुक्तिस्तु निष्प्रयोजनतयाऽप्यनुपादेयत्वं पक्षस्य कटाक्षयितुमिति मन्तव्यम् । इनिना च तस्य हेयतां बोधयति । न शिष्याननुबध्नीतेत्यभिप्रायमाह ॥ नेति । स्वशास्त्राविश्वस्तशिष्यसङ्ग्रहकर्ता न भवेत् । उदासीनशास्त्राणि ज्योतिषादीनि । विरुद्धानि शास्त्राणीत्युत्कृष्यान्वयः । अभ्यसेत् । विकरणान्तरस्थासते रूपम् । नाभ्यसेत् । व्याख्यया नोपजीवेत जीवेत् । वेतनादि गृहीत्वा न पाठयेत् । न निषिद्धानाश्रमाविहितान्कर्मविशेषान्नारभेन्नारभेत । एतेन तदारम्भ एवाश्रमभ्रंशकृदिति ध्वनयति । तदेकशरणः स एकः शरणं रक्षक आश्रयो वा यस्य सः । हरिं यातीति । समाचारे तन्नामग्रन्थे उक्तमिति शेषः ॥ ततश्चेयं पद्यविवृतिः ॥ असच्छास्त्रेषु नाटकादिषु न सज्जेत नासक्तो भूयात् । जीविकां वेतनादिना नोपजीवेत तया प्राणधारणं न कुर्यात् । आजीवो जीविकामाहुरिति विश्वः। अतिवादानिति वेदवादानिति वादवादानिति च पठन्ति । अतिवादान्वाद-मतीत्य प्रवृत्तांस्तर्कान्कुयुक्तीः । वेदवादानुपक्रमाद्यनालोचनेनापातप्रतीत एव वेदार्थ इति वादान् । वादं प्रति वादा वादवादास्तानिति क्रामिकोऽर्थः । कञ्चित्पक्षमप्रयोजकं कमपि पक्षं न संश्रयेत् । शिष्यानति-विश्वस्तान्नानुबध्नीत न मेलयेत् । बहूनध्यात्मशास्त्रातिरिक्तान्नैवाभ्यसेदुपजीवेत । आरम्भान्कृष्याद्युद्यमान् । ‘‘आरम्भस्तु त्वरायां स्यादुद्यमे वधदर्पयो’’रिति विश्वः । परहिंसासाधनानि वा नारभेन्नारभेत ॥७,८॥
मन्दनन्दिनी
असच्छास्त्रेष्वद्वैतादिशास्त्रेषु । कक्कोकादिशास्त्रेषु वा । न सज्जेत् । जीविकां वेतनादिलक्षणां याजनादिलक्षणां वा नोपजीवेत् । अतिवादान्वेदवादमतीत्य वर्तमानान् शुष्कतर्कां-स्त्यजेत् । अप्रयोजकं कञ्चिदपि पक्षं न संश्रयेत् । अत एव तात्पर्यम् ॥ अप्रयोजकमित्यादि ॥ शिष्यान्नानुबध्नीयात् । सम्यग्ज्ञानलाभतदुपदेशरूपस्वप्रयोजनाभावे वृथा शिष्यबन्धं न कुर्यात् । बहून् असारानवैष्णवान् । बहून् शृृणुष्व वैष्णवं शास्त्रमिति वैष्णवशास्त्रश्रवणस्य विहितत्वात् । न व्याख्यान-मुपजीवेत जीवनोपायं न कुर्यात् । नारम्भान् आरब्धुमयोग्यान्कर्षणादीन् ॥ ७,८ ॥
न यतेराश्रमः प्रायो धर्महेतुर्महात्मनः ।
शान्तस्य समचित्तस्य बिभृयादुत वा त्यजेत् ॥ ९ ॥
पदरत्नावली
कृष्यादिनोत्पन्नद्रव्येण दानादिधर्मसम्पादनोपपत्तेः कथं नारम्भानारभेदित्युच्यत इति तत्राह– न यतेरिति ॥ प्रायो यतेराश्रमो धर्महेतुर्नभवति । किन्तु निरन्तरोपासनया ज्ञानहेतुः । ज्ञानाधिकारे प्रवृत्तस्य कर्माधिकारप्रवृत्तिरधःपातहेतुः स्यात् । ईश्वराज्ञोल्लङ्घनदोषापातात् । समे ब्रह्मणि चित्तं सततस्मरणसमर्थम् अन्तःकरणं यस्य स तथा तस्य । एवंविधस्य यतेराश्रमलक्षणं दण्डादि साधारणं न चावश्यकमित्याह– बिभृयादिति ॥ यदाह याज्ञवल्क्यः– ‘नाश्रमः कारणं धर्मे क्रियमाणो भवेद्धि सः । अतो यदात्मनः पथ्यं परस्य न, तदाचरेत्’ इति ॥ ९ ॥
सत्यधर्मीया
कृषीवलादिमुखकारितकृषिबललब्धद्रविणवितरणेन मस्करिणोऽपि यशस्करधर्म-सम्पादनसम्भवेन किं नारम्भानारभेतेति प्रोच्यत इति तत्राह ॥ नेति । महात्मनः शान्तस्य समचित्तस्य समे निर्दोषं हि समं ब्रह्म’’ इत्युक्तेर्निर्दोषे ब्रह्मणि चित्तं मनो यस्य स तस्य । यतेः सन्न्यासिन आश्रमो धर्महेतुर्न भवति । प्राय इति शिक्षया गृह्णतो द्रविणं रक्षयतस्तेन जनान्महासंस्थानिकान्व्यावर्तयति । उपासनायां धर्मे चाधिकारेसंस्थानिकानाम् उपासनायामेवान्येषामिति मन्तव्यम् । एवंविधो यतिर्दण्डादिकं बिभृयादुत वा त्यजेत् । न तस्य तदावश्यकतेति तात्पर्यम् । याज्ञवल्क्यश्चाह । ‘‘नाश्रमः कारणं धर्मे क्रियमाणे भवेद्धि सः । अतो यदात्मनः पथ्यं परस्य न तदाचरेत्’’ इति । समचित्तस्य प्रिये तत्त्वेना-तस्मिन्न तत्त्वेन समचित्तं यस्येति वा ॥ ९ ॥
मन्दनन्दिनी
नारम्भानारभेदिति द्रव्यार्जनसाधनकर्षणादेर्निषेधे कथमन्नदानादि धर्मः स्यादि-त्यत आह ॥ न यतेरिति ॥ शान्तस्य समे ब्रह्मणि चित्तवतो महात्मनो यतेराश्रमः प्रायोऽन्नदानादि-धर्महेतुर्न स्यात् । पूजनेन स्वपरिवाराणां मिष्टमन्नं दीयते चेत्तदा बहुजनान्नदानलाभो भवतीति प्राय इत्युक्तम् । यद्यनायासेन भरणं तदा बिभृयात् । नो चेत्त्यजेत् । यदाह याज्ञवल्क्यः ॥
नाश्रमः कारणं धर्मे क्रियमाणे भवेद्धि यः ।
अतो यदात्मनः पथ्यं परस्य न तदाचरेत् ॥ इति ।
अनायासेन क्रियमाणश्चेद्भवेत् । आत्मनः पथ्यमाचरेन् न परस्यैव पथ्यमित्यन्वयः ॥ ९ ॥
अव्यक्तलिङ्गो व्यक्तार्थो मनीष्युन्मत्तबालवत् ।
कविर्मूकवदात्मानमदृश्यो दर्शयेन्नृणाम् ॥ १० ॥
पदरत्नावली
‘बाह्यलिङ्गाभावेऽप्यान्तरं लिङ्गमस्तीत्याह– अव्यक्तेति ॥ अव्यक्तं जनेनाज्ञातं मानसं गुप्तं लिङ्गं यस्य स तथा । विद्यातपआदिभिरप्रकटितस्वरूपो वा । तर्ह्यस्य किं वक्तव्यम् ? अत्राह– व्यक्तार्थ इति ॥ अपरेक्षीकृतभगवत्स्वरूपलक्षणपुरुषार्थः । अनेन दण्डादिलिङ्गधारणमेवं-विधस्य नावश्यकम्, अन्यस्य नेत्युक्तं भवति । मनीषी निरन्तरमननशीलः । अव्यक्तस्वरूपं दर्शयतीति अदृश्यः । अदृश्यः प्राकृतजनाज्ञेयः । कविर् अतिक्रान्तदर्शी ॥ १० ॥
सत्यधर्मीया
विना वैष्णवादिबाह्यलिङ्गेन कथं स ज्ञातव्य इत्यत आन्तरङ्गिकं लिङ्गमपामरज्ञेयं वर्तत इत्याह ॥ अव्यक्तलिङ्ग इति । अव्यक्तं पामराज्ञातं लिङ्गं स्वोद्देश्यं यस्य स तथा । व्यक्तार्थः व्यक्तोऽपरोक्षीकृतोऽर्थो भगवान्येन स तथा । मनीषी मननशीलः । उन्मत्तवद्बालवच्च कविरतिक्रान्तदर्शी मूकवदात्मानं दर्शयेत् । अदृश्यो मूर्खैः । अव्यक्तस्य भगवतः । तदव्यक्तमाह हि । तध्द्यव्यक्ततामर्ह-तीत्यादेः । लिङ्गं चिन्हं चक्रादिकं यस्य स इति वा । अव्यक्तो भगवानर्थोऽपेक्षणीयो यस्येति वा
॥ १० ॥
मन्दनन्दिनी
अपरोक्षज्ञानिनः संन्यासिनः प्रवृत्तिप्रकारमाह ॥ अव्यक्तेति ॥ अव्यक्तं बाह्यं लिङ्गं यस्य सः । व्यक्तोऽपरोक्षीकृतार्थो भगवान्यस्य मनीषी मननशीलः । कविर्यथोचितसार्वज्ञवान् संन्यासी अदृश्यो भवेत् । दृश्यश्चेदपि लौकिकव्यवहर्तॄणामुन्मत्तवत्स्त्रीणां बालवत् । शतगोष्ठीवक्तॄणां मूकवदात्मानं दर्शयेत् ॥ १० ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
प्रह्लादस्य च संवादं मुनेराजगरस्य च ॥ ११ ॥
पदरत्नावली
अत्र अपरोक्षज्ञानियत्याचारे । इतिहासशब्दार्थमाह– पुरातनमिति ॥ आजाग-रस्य अजगरव्रतधारिणः ॥ ११ ॥
सत्यधर्मीया
अत्र समचित्तयत्याचर्यचर्यायामिममितिहासं वक्ष्यमाणम् । पुरावृत्तमुदाहरन्ति ज्ञानिन इति शेषः। बहुवचनेन बहुसम्मतिमसूचयत् । तत्स्वरूपं निरूपयति प्रल्हादस्याजगरस्य । अजगरस्य अयम् आजगरः । तद्वृत्तिमुपात्तवतो मुनेः संवादं तदात्मकमिति । ननु नाजगरस्य राजस-माजव्रजनं न व्रजनं गव्हरं प्रति क्षितिपतेः कथं घटना १तयोरभूदित्यत आह ॥ पुरातनमिति । चो यदेत्यर्थ एकः समुच्चये । पुराद्ग्रामादतनं यदा तदा प्रल्हादस्याजगरस्य च संवादमितिहासमित्यन्वयो वा । यद्वक्ष्यति लोकान्विचरन्नित्यादि ॥ ११ ॥
मन्दनन्दिनी
एतादृशाचारे इतिहासमाह ॥ अत्रेति ॥ चिरपूर्वत्वदर्शनाय पुरातनमिति । आजगरस्याजगरवृत्तिमाश्रयतः ॥ ११ ॥
तं शयानं धरोपस्थे कावेर्यां सिंहसानुनि२ ।
रजस्वलैस्तनूद्देशै३र्निगूढामलतेजसम् ॥ १२ ॥
पदरत्नावली
सह्यसानुनि सह्याख्यपर्वततटे । कावेर्यां कावेर्युत्पत्तिक्षेत्रे । तनूदेशैः शरीरावयवैः
॥ १२ ॥
सत्यधर्मीया
कावेर्यां तत्तटे । तत्रापि तदुत्पत्तिस्थल इत्याह ॥ सिंहसानुनीति । सिंहस्य सिंहाद्रेः सानुनि मार्गे । अन्यथा भूभुजनिभालनासम्भव इति भावः । ‘‘सानु शृृङ्गे बुधे मार्गे वात्यायां पल्लवेऽवना’’विति विश्वः । धरोपस्थे केवलमवनौ शयानं तं मुनिमत एव तनूद्देशैः कायावयवैः रजस्वलैर्धूलिधूसरैः । रजः कृष्येति मत्वर्थे वलच् । निगूढममलं तेजो वर्चो यस्य तम् ॥ १२ ॥
मन्दनन्दिनी
कावेर्यां कावेर्युत्पत्तिस्थाने । सैंह्यस्य गिरेः सानुनिसमीपे । तनूद्देशैः शरीरभागै रजस्वलै रजःकुण्ठितैर्निगूडममलं तेजो यस्य ॥ १२ ॥
ददर्श लोकान् विचरन् लोकतत्त्वविवित्सया ।
वृतोऽमात्यैः कतिपयैः प्रह्लादो भगवत्प्रियः ॥ १३ ॥
पदरत्नावली
विवित्सया वेदितुमिच्छया ॥ १३ ॥
सत्यधर्मीया
लोकान् । लोकानां जनानां तत्त्वं के कथं कुर्वन्तीति तत्स्वभावज्ञानेच्छया वेदितुमिच्छा विवत्सा । चरन् । कतिपयैः कैश्चिदमात्यैः । अमेहक्वतसित्रेभ्य इत्यव्ययात्यवित्यनु-वृत्तस्त्यप् । मन्त्रिभिः ॥ १३ ॥
मन्दनन्दिनी
लोकस्य जनस्य तत्त्वजिज्ञासया ॥ १३ ॥
कर्मणाऽऽकृतिभिर्वाचा लिङ्गैर्वर्णाश्रमादिभिः ।
नाविन्दत जनोऽयं वै सोऽसाविति न वेति च ॥ १४ ॥
तं नत्वाऽभ्यर्च्य विधिवत् पादयोः शिरसा स्पृशन् ।
विवित्सुरिदमप्राक्षीन्महाभागवतोऽसुरः ॥ १५ ॥
पदरत्नावली
स एव देवदत्तो ऽसौ, न वा इति नाविन्दत न ज्ञातवान् ॥ १४ ॥
सत्यधर्मीया
कर्मणा क्रिययाऽऽकृतिभिर्दिने दिने नवताऽकारस्येति आकृतिभिरित्युक्तिः । वाचा व्यवहृत्या लिङ्गैर्बहिश्चिन्हैरेतद्वर्ण एतदाश्रम एतद्धर्मेति वर्णादिभिर्जनो पामरो यं नाविन्दत नाज्ञासीत् । तत्प्रकारमाह ॥ स इति । सो ऽसौ नासौ वेत्तीति । तमवधूतं नत्वा । एतेन महात्मन-स्तस्य सामान्यज्ञानं राज्ञो जातमिति ध्वनितम् । पादयोः पादौ । विवित्सुर्विशेषज्ञानेच्छुः ॥१४,१५॥
मन्दनन्दिनी
कथं भूतं तमित्यत आह ॥ कर्मणेति ॥ जनो मुनिं कर्मणा संध्यावन्दनादिना । आकृतिभिराकारविशेषैर्वाचा व्यवहारेण वर्णाश्रमादिज्ञापकैर्लिङ्गैः सोऽसाविति वा नेति वा नाविन्दत्त-मिति योजना ॥ एतादृशमपि पूज्य इति ज्ञात्वाऽपृच्छदित्याह ॥ तमिति ॥ विधिवदभ्यर्च्यार्घ्य-पाद्याद्युपचारं कृत्वा । विवक्षुः संवादं कर्तुमिच्छुः ॥ १४,१५ ॥
प्रह्लाद उवाच–
बिभर्षि कायं पीवानं सोद्यमो भोगवान् यथा ।
वित्तं नैवाद्य भवतो भोगो वित्तवतामिह ॥
भोगिनां खलु देहोऽयं पीवा भवति नान्यथा ॥ १६ ॥
पदरत्नावली
भोगवान् सम्पन्नः । ननु परिणाममानस्य देहस्य पीनत्वविशेषः परिणामोऽपि कस्माच्चित् स्यान् मदिरासेव्यस्येव, किमत्र चोद्यम् ? अत्राह– वित्तमिति ॥ सत्यम् । कृष्याद्युद्योगवतो देहिनो व्रीह्यादिवित्तं भवति । इह लोके तद्वतां भोगः खलु । भोगिनामयं देहः पीनो भवति । हेत्वन्तरं नास्तीत्याह– नान्यथेति ॥ १६ ॥
सत्यधर्मीया
कायं शरीरं पीवानं स्थूलम् । ध्याप्योः सम्प्रसारणं च । चात्क्वनिप् । हेतुहेतु-मद्भावापन्नसर्वविरहात् स्थूलतेयम् । स्थूलदृश्वनामनुपपन्नेवावभासत इति स्वयं जानंस्तन्निदानं दीनानुजिघृक्षया प्रल्हादः शङ्कत इत्याह ॥ सोद्यमो भोगवानिति । यथा भोगवांस्तथा त्वं पीवानं कायं बिभर्षीत्यन्वयः । स च भोगः केषामित्यतो भाषते ॥ इति वित्तवतामिति । तच्च वित्तमुद्यमवतां कुसीदादिव्यवसायसम्पन्नानां भोगिनां देहः पीवा भवति नान्यथा । न निमित्तान्तरायत्तेयं पीनतेत्यर्थः
॥ १६ ॥
मन्दनन्दिनी
प्रश्नप्रकारमाह सार्धश्लोकेन ॥ बिभर्षीति ॥ सोद्यमो वित्तार्जनोपायवान् । उद्यमादीनां कार्यकारणभावमाह ॥ वित्तमिति ॥ १६ ॥
न ते शयानस्य निरुद्यमस्य ब्रह्मन्निहार्थो यत एव भोगाः ।
अभोगिनोऽयं तव विप्र देहः पीवा यतस्तद् वद नः क्षमं चेत् ॥ १७ ॥
पदरत्नावली
प्रकृतेऽपि तथा स्यादिति तत्राह– न त इति ॥ अर्थो वित्तम् । यतो वित्तात् । पीवेति यत् तस्माद् बत विस्मयो जायते । लोके निमित्तान्तराभावे सति पीनत्वं भोगित्वेन दृष्टम् । अत्र भोगित्वं न दृश्यते । पीनत्वं तु दृश्यते । तस्मिन् निमित्तान्तरमस्ति । तदस्माकं श्रोतुं क्षमं चेद् वद इत्यन्वयः ॥ १७ ॥
सत्यधर्मीया
तिष्ठतु मयि सर्वमिदं किंकारणकी तव शङ्केति चेत्तत्राह ॥ न त इति । यतोऽर्थत एव भोगा हे ब्रह्मन्सोऽर्थस्तवेहैतदवस्थायां न । तत्र तन्त्रं निरुद्यमस्येति । तत्रापि शयानस्येति । अतो भोगासम्भवादित्यभोगिनः । हे विप्र । अनेन विनावर्णनां वर्णज्ञानं तस्य जातमिति मूलं ध्वनयति । यतः पीवा तत्तत्कारणं नः श्रोतुं क्षमं योग्यं चेद्वद । इदं पीनत्वं यतः कार्यं ततो नाकारणेनानभाव्यं भाव्यं कारणेन च । न च तदस्मदादिभिर्दृष्टमूहितं वा । अतस्त्वं त्वत्सदृक्षमात्रप्रमातृवित्तं तच्च क्षमं चेद्वदेति भावः ॥ १७ ॥
मन्दनन्दिनी
शयानत्वं निरुद्यमादीनां प्रयोज्यप्रयोजकभावमुक्त्वा पीवानत्वं कथमित्याह ॥ न त इति ॥ पीवा यतः कारणात्तद्वेदितुं क्षमं चेद्वद ॥ १७ ॥
कविः कल्पो निपुणदृक् चित्रप्रियकथः समः ।
लोकस्यकुर्वतः कर्म शेषे न द्वेष्टि१ नौषि वा ॥ १८ ॥
पदरत्नावली
इतोऽपि निमित्तान्तरेण भाव्यम् । अन्यथा कवित्वादयो भोगिगुणा न स्युरित्याह– कविरिति ॥ ‘न चेत् तर्हि वेदाननुभवसि । ‘‘अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक्’ इति श्रुतेः । ‘यः कण्टकैर्वितुदति चन्दनैर्यश्च लिम्पति । अकृष्टो परिकृष्टश्च समस्तस्य च तस्य च’ इति श्रुतेः सर्वस्य समः । न द्वेक्षि न द्वेषं करोषि । नौषि स्तुतिं करोषि । अनेन समत्वं विवृतम् ॥ १८ ॥
सत्यधर्मीया
इतोऽपि त्वय्यस्मदाद्यज्ञातं निमित्तमस्तीत्युत्प्रेक्षयाम इत्याह ॥ कविरिति । कल्पो दक्षो निपुणदृक् सर्वज्ञः । चित्रप्रियकथश्चित्राः प्रियाः कथा यस्य स तथा । न चाकथयदयं न च शुश्राव चेदपि स्वपृष्टप्रतिवचनप्रोत्साहनार्थं स्वभावसिद्धमिति स्वानुभूतमवादीत्प्रल्हाद इति ज्ञेयम् । समः सुखदुःखयोः । तदेव साम्यमुपपादयति ॥ लोकस्येति । कर्म कुर्वतो लोकस्य तं न नौषि स्तौषि न द्वेष्टि किन्तु शेषे स्वपिसि । कर्मशेषे कर्तव्यावशेषे न द्वेष्टीति वा । अकुर्वतो जनान्न द्वेष्टि कर्मकृतं न नौषि किन्तु शेषे । अलौकिकः कश्चनाहं तव किं मयेत्यत आह ॥ लोकसीति । लोकवदाचरसि चातः श्रोतुं क्षमं चेद्वदेत्यन्वयः ॥ १८ ॥
मन्दनन्दिनी
पीनत्वातिरिक्तं भोगकार्यं चाह ॥ कविरिति ॥ अन्नमयं हि सौम्यमन आपोमयः प्राण इत्यादिश्रुतेर् मनआदिकरणपाटवस्य भोगसाध्यत्वाद्भोगाभावेऽपि पाटवमस्ति तत्र कारणं किमित्याशयः । कविरिति मनःपाटवम् । कल्प इति देहपाटवम् । निपुणदृगिति नेत्रपाटवम् । चित्रप्रियकथ इति वाक्पाटवम् । सम इत्यनेन साम्यं च ज्ञानिलक्षणं सूचितम् । तस्योपपादनं कुर्वतो लोकस्य यत्कर्म तन्न द्वेष्टि न नौषि वेति ॥ १८ ॥
नारद उवाच–
स इत्थं दैत्यपतिना परिपृष्टो महामुनिः ।
स्मयमानस्तमभ्याह तद्वागमृतयन्त्रितः ॥ १९ ॥
पदरत्नावली
इतरत्र विरक्त्या भक्त्या श्रीनारायणचरणारविन्दस्मरणमकरन्दपानमेव पीनत्वे निमित्तमिति परिहारमभिप्रेत्य प्रह्लादं प्रति ब्रूत इत्याह– नारद इति ॥ १९ ॥
सत्यधर्मीया
इयं पीनता वृषाकपीनता ज्ञानामृतस्यन्दितया नान्नादनादिनेति परिहारेण प्रल्हादं प्रल्हादयितुं विद्यमानगुणाभिधानेन तं सुमुखीकर्तुं पीठञ्चाचरतीति नारद ईरयति ॥ नारद इति । स्मय-मानो विद्वानप्यविद्वद्धाटीमाटीकतेऽयं दैतेय इति स्मयमानस्तस्य प्रल्हादस्य वागेवामृतं तद्यन्त्रितस्तद-धीनोऽभि भयरहितं यथा तथाऽऽह ॥ १९ ॥
मन्दनन्दिनी
नारायणपादारविन्दध्यानलक्षणमकरन्दपानेन पीनत्वमित्याशयेन वक्तीत्याह ॥ नारद इति ॥ तद्वागमृतयन्त्रितः प्रह्लादप्रश्नवचनरूपामृतेन प्रेरितः ॥ १९ ॥
ब्राह्मण उवाच–
वेदेदमसुरश्रेष्ठ भवान् नन्वार्यसम्मतः ।
ईहोपरमयोर्नॄणां पदमध्यात्मचक्षुषा ॥ २० ॥
पदरत्नावली
ज्ञानिष्वेको भवानिदं वेदेत्यन्वयः । इदमिति किम् ? केन साधनेन वेद ? अत्राह– वेदेति ॥ भवान् अध्यात्मचक्षुषा परमात्मानुग्रहोत्पन्नज्ञानेन नृणाम् ईहोपरमयोः प्रवृत्तिनिवृत्ति-लक्षणयोर्मार्गयोः, पदं निश्चितं विषयस्थानं वेदेति शेषः ॥ २० ॥
सत्यधर्मीया
हे असुरश्रेष्ठ । भवानार्यसम्मत आर्याणां सम्मत आर्य इति सम्मतो वा । ननु निश्चयः । नृणामीहोपरमयोरीहा प्रवृत्तं कर्मोपरमो निवृत्तं कर्म तयोः पदम् । एकमीहाविषयं फलं त्याज्यतया अपरमुपरमफलं हरिप्राप्तिरूपमध्यात्मचक्षुषा रमारमणसर्वौत्तम्यप्रतिपादकवेदान्तानुसेवन-रूपेणेदं पीनताहेतुं वेद यत ईहोपरमयोः पदं जिहासोपादित्सागोचरमध्यात्मचक्षुषा परमात्मनो ज्ञानेन वेदविषयीकृतवानत इदं वेदेति वा ॥ २० ॥
मन्दनन्दिनी
भगवत्पादारविन्दध्यानानन्द एव पीनताकारीति भवानपि महाज्ञानित्वाद्वेदेत्याह ॥ वेदेति ॥ अध्यात्मचक्षुषाऽध्यात्मज्ञानेन नॄणामीहोपरमयोः प्रवृत्तिनिवृत्तिलक्षणयोर्मार्गयोः पदं निश्चितं विषयं स्थानं वेद ॥ २० ॥
यस्य नारायणो देवो भगवान् हृद्गतः सदा ।
भक्त्या केवलया श्लिष्टो धुनोति ध्वान्तमर्कवत् ॥ २१ ॥
पदरत्नावली
देहिनामज्ञानसम्भवात्, तेष्वेकत्वात्, ममापि तद्विषयं ज्ञानं नास्तीति किं न स्यादित्याशङ्क्य सत्यं विशेषोऽस्ति तवेत्याह– यस्येति ॥ हृद्गतत्वं सामान्यमिति मत्वा श्लिष्ट इत्युक्तम् । केवलया फलानाकाङ्क्षया । ध्वान्तम् अज्ञानलक्षणम् । अन्यत्र अन्धकारम् । अज्ञानं तत्वा-प्रतिपत्तौ कारणत्वेन दृष्टं यतस्तव नास्ति तस्माद्भवान् जानातीत्यर्थः ॥ २१ ॥
सत्यधर्मीया
त्वं तु तत्त्वविदग्रिम इति न मदुक्तमसम्भावितमित्याह ॥ यस्येति । यस्य तव नारायणो देवः सदा हृद्गतः केवलया भक्त्याऽऽश्लिष्टोऽफललोभित्वं केवलत्वं भक्तेर्ज्ञेयम् । अर्को ध्वान्तमन्धकारं यथा धुनोति तथाज्ञानं धुनोतीति त्वं विवेकिप्रवेक इति वेदेदति भावः ॥ २१ ॥
मन्दनन्दिनी
इदमित्युक्तमेवाह ॥ यस्येति ॥ ध्वान्तमज्ञानम् । अन्यत्रान्धकारम् ॥ २१ ॥
अथापि ब्रूमहे प्रश्नान् तव राजन् यथाश्रुतम् ।
सम्भाषणीयो हि भवानात्मनः शुद्धिमिच्छता ॥ २२ ॥
पदरत्नावली
यद्यपि वक्तव्यांशो नास्ति । अथापि । इदमप्राक्षीदिति एकविषयः प्रश्नः कृतः । परिहारे प्रश्नानित्यनेकविषयः । कथमयं सङ्गच्छत इति चेत् । निरुद्यमस्य वित्तं कथम् ? निर्वित्तस्य भोगः कथम् ? अभोगिनः पीनत्वं कथम् ? इति प्रश्नानामपि बहुत्वात् । इदमित्यस्य व्यत्ययेन जाति-विषयत्वेन चोपपत्तेः । तव प्रश्नान् ब्रूमह इत्यनेन तदनुवादः क्रियते उत परिहारः । नाद्यः । अदर्शनात् । द्वितीयोऽपि तद्वाचकपदाभावादनुपपन्नः । तव प्रश्नानुद्दिश्य परिहारान् ब्रूमह इति पक्षोऽपि गौरवादयुक्त इति चेदुच्यते । ‘ब्रूञ् व्यक्तायां वाचि’ इति धातोः, व्यक्तिर्नाम स्पष्टीकरणम् । तस्य परिहारार्थोपपत्तेः । यथाश्रुतमित्यनेनापि स्पष्टीकरणप्रतीतेरिति । ननु यदज्ञातज्ञापकं तदेवोपादेयम् । न चेदं तथा प्रह्लादस्य भगवदनुग्रहेण ज्ञाताशेषार्थत्वात् । अतः कस्मै स्पष्टीक्रियत इत्याशङ्क्य तदज्ञातमस्माभिर्न बोध्यते । किन्तु महत्सम्भाषणलक्षणार्थसेवयाऽन्तःकरणशुद्धिः स्यादिति मत्वा स्पष्टीक्रियत इत्याह– सम्भाषणीय इति ॥ अनेन ब्रूमहे इत्यात्मनेपदार्थो विवृत इति ज्ञायते ॥ २२ ॥
सत्यधर्मीया
पूर्वमिदमिति महाप्रश्नाभिप्रायम् । प्रश्नानिति तु निरुद्यम इति तव स्वापतेयं कथं निर्वित्तस्य भोगः कथमभोगिनश्च पीनतेत्यवान्तरप्रश्नविवक्षया बहुवचनं युक्तम् । प्रश्नमनिति चेष्टते करोतीति यावत् । प्रश्नकर्तो राजन् तव त्वां प्रति । अथाऽपीत्यनेन न नवीनज्ञानप्राप्तिर्मद्वचनेन ज्ञात-तत्वस्येति सूचयति । तत्कस्य हेतोर्ब्रूमह इत्युक्तिरिति चेन्न । मम महान् लाभोऽस्तीत्याह । आत्मनः स्वस्य शुद्धिं वाङ्मनसशोधनमिच्छता पुरुषेण मदादिना भवान्सम्भाषणीयः । हि यतस्तस्माद्ब्रूमहे व्यक्तं वक्ष्याम इति । मद्वचनं च न स्वकपोलकल्पितमित्यल्पीकर्तुमुचितमित्यूचे । यथाश्रुतमिति । गुरुमुखश्रुतमनतिक्रम्येति वचनक्रियाविशेषणम् ॥ २२ ॥
मन्दनन्दिनी
अथाऽपि तव ज्ञाने सत्यपि प्रश्नान् ब्रूमहे प्रतिवच्मः । तत्र निमित्तमाह ॥ सम्भाषणीय इति ॥ सम्भाषणस्यापि प्रयोजनमात्मनः शुद्धिमिति ॥ २२ ॥
तृष्णयाभववाहिन्या१ ग्राम्यकामैरपूर्णया ।
कर्माणि कार्यमाणोऽहं नानायोनिषु योजितः ॥ २३ ॥
पदरत्नावली
निवृत्तिमार्ग एव संसारोन्मूलनहेतुरित्युक्तम् । प्रवृत्तिमार्गस्तु नानादुःखहेतुत्वेन हेयः प्रेक्षावतेत्येतत् स्वानुभवसिद्धमित्याह– तृष्णयेति ॥ भववाहिन्या नदीवद् वर्धमानया संसारा-पादिकया वा । इतरनदीनामृतुभेदेन पूर्त्यपूर्ती स्याताम्, नास्याः कदापि पूर्तिरित्याह– ग्राम्येति ॥२३॥
सत्यधर्मीया
इहोपरमयोरित्युक्तिमनतिक्रम्य प्रवृत्तिकर्मफललाम्पट््यं न प्रेक्षावता सम्पाद्य-मित्यत्रात्मानमेव निदर्शनीकृत्य वक्ष्यति ॥ तृष्णयेति । अभववाहिन्याऽमङ्गलनद्या । ‘‘भवः संसार-सत्ताऽस्ति श्रेयःशङ्करजन्मस्वि’’ति विश्वः । ‘‘वाहिनी स्यात्तरङ्गिण्या’’मिति च । संसारप्रापिकया नद्या वा ग्रीष्मादावूष्मणादीना नदी वर्षासु वार्भिरभिवृद्धा भवति । नेयं तथेत्याह । ग्राम्यकामैर्व्यवायादि-विषयैरपूर्णयाऽतृप्तिं गतयेति । कर्माणि कार्यमाणः प्रयोजनयित्र्यैतयाकरिष्यमाणोऽहं नानायोनिषु तिर्यगादिषु योजितो योगवान्कारितः सैव नानाहीनाहीनयोनिरिति भावः । वेदेदमसुरश्रेष्ठेत्येतन्नार्थ-वादमात्रं किन्तु स्वयमादौ तृष्णया भववाहिन्येति यदाह तेन कोन्वर्थतृष्णां विजहेत्प्राणेभ्योऽपि य ईप्सित इत्याद्यादित एव प्रल्हादोदितमनुचक्रे । तेन तद्वास्तवतां बोधितवानिति ध्येयम् । तर्हि सा त्वतन्त्रेति तव तन्त्रं किमित्यत आह ॥ य इति । योऽजितः केनाप्यपराजितः स्वतन्त्रस्तेन हरिणा । योजित इत्यावर्त्य अन्वेतव्यम् । एतेन प्रयोजकतामात्रं तत्तृष्णानिष्ठमिति ध्वनयति । पातित इत्यादिपदं विहाय वक्त्रावक्त्राद्योजित इति प्रामाणिकोऽयमर्थो ममान्तरङ्गिक इति भाव आवेदित इति वेदितव्यम् । णिजप्युचितार्थ एतत्पक्ष इति ज्ञेयम् । अत एवानुपदं प्रतिपाद्यमानं यदृच्छयेति सुलग्नम् ॥ २३ ॥
मन्दनन्दिनी
स्वस्य पूर्ववृत्तमाह ॥ तृष्णयेति ॥ भवं वहति प्रवहतीति भववाहिनी । ग्राम्यकामैर्मुक्तिसाधनेतरविषयकामैरपूर्यया तृष्णया प्रयोजककर्त्र्या कर्माणि कार्यमाणोऽहं नानायोनिषु योजित इति योजना ॥ २३ ॥
यदृच्छया लोकमिमं प्रापितः कर्मभिर्भ्रमन् ।
स्वर्गापवर्गयोर्द्वारं तिरश्चां पुनरस्य च ॥ २४ ॥
पदरत्नावली
यदृच्छया दैवेच्छया । लोकं शरीरम् । ‘अस्माल्लोकात् प्रेत्य’ इति श्रुतेः । न केवलं स्वर्गादेर्द्वारम् । किन्तु तिर्यगादिजन्मनोऽपि कारणमित्याह– तिरश्चामिति ॥ अस्य मनुष्य-शरीरस्यापि, द्वारमिति शेषः ॥ २४ ॥
सत्यधर्मीया
यदृच्छा तु तदिच्छा स्यादित्युक्तेर्भगवदिच्छया इमं लोकं मानुष्यदेहं कर्मभि-र्भ्रमन्प्रापितः । अस्माल्लोकात्प्रेत्येति श्रुतेः । तिरश्चां तज्जन्मनः पुनरस्य मानुषस्य शरीरस्य च द्वारम् । न केवलमेतावत्किन्तु स्वर्गापवर्गयोर्द्वारं तत्तत्साधनसामग्य्रा तत्तदनुरूपफलाधायकता कायस्येति भावः
॥ २४ ॥
मन्दनन्दिनी
यदृच्छया दैवेच्छयेमं लोकं ब्राह्मणमानुषदेहं स्वर्गापवर्गयोस्तिरश्चां तिर्यग्योनी-नामस्य च मनुष्यशरीरान्तरस्य द्वारं कारणभूतं कर्मभिर्भ्रमन् अधुना प्रापित इति योजना ॥ २४ ॥
अत्रापि दम्पतीनां च सुखायान्यापनुत्तये ।
कर्माणि कुर्वतां दृष्ट्वा निवृत्तोऽस्मि विपर्ययम् ॥ २५ ॥
पदरत्नावली
कृष्याद्युद्योगवतो वित्तं स्यादित्यादिना यदुक्तं सुखं स्यादिति तत् परिहरति– अत्रापीति ॥ अत्रापि मनुष्यशरीरेऽपि । दम्पतीनां विपर्ययं दुःखं दृष्ट्वा निवृत्तिमार्गमाश्रितोऽ-स्मीत्यन्वयः । अन्यापनुत्तये सुखादन्यस्य दुःखस्य निरासाय । ‘सुखाय कर्माणि करोति लोको न तैः सुखं नान्यदुपारमं वा’ इति स्वोक्तेः ॥ २५ ॥
सत्यधर्मीया
उद्यमिनां वित्तं तद्वतां च भोग इत्युक्तम् । तत्रोत्तरमीरयति ॥ अत्रापीति । अत्रापि मानवतनावपि दम्पतीनां गृहिणां सुखाय तदाप्तयेऽन्यस्य तदितरस्य दुःखस्यापनुत्तये परिहृत्यर्थं च कर्माणि कुर्वतां विपर्ययं सुखसाधनमिति तदनुष्ठितावप्यनिष्टप्राप्तिं दृष्ट्वा । अनेन न परोदीरणेनापि तु स्वसाक्षिणेदमनुभूतमिति द्योत्यते । निवृत्तौ नैतेन निवृत्तिरिति पराङ्मुखोऽस्मीति सम्बन्धः । सुखाय कर्माणि करोति लोको न तैः सुखं वाऽन्यदुपारमं वेत्यादेः ॥ २५ ॥
मन्दनन्दिनी
अत्राऽपि मनुष्यलोकेऽपि दम्पतीनां दम्पती च दम्पती चेत्येकशेषः । बहूनां गृहस्थाश्रमिणां सुखायान्यस्य दुःखस्यापनुत्तये कर्म कुर्वतां विपर्ययं सुखाप्राप्तिं दुःखप्राप्तिं च दृष्ट्वा गृहस्थाश्रमान्निवृत्तः ॥ २५ ॥
सुखमस्यात्मनो रूपं सर्वेहोपरतेर्हि यत् ।
मनःसंस्पर्शजान् दृष्ट्वा भोगान् शस्तान्न संविशेत् ॥ २६ ॥
पदरत्नावली
कर्मणो निवृत्तस्य दुःखस्य निरासाय सुखावाप्तौ(च)किमन्तरङ्गमित्याशङ्क्य यदि सुखं स्वरूपाद् भिन्नं तर्हि तत्प्राप्तौ यत्नः कर्तव्यः, न चैवम्, स्वरूपत्वात् सुखस्य, तद्व्यक्तौ स्वरूपा-च्छादकसर्वनिषिद्धकर्मनिवृत्त्याऽऽविर्भूतभगवत्प्रसाद एव मुख्यनिमित्तमित्याह– सुखमिति ॥ ‘बल-मानन्द ओजश्च सहो ज्ञानमनाकुलम् । स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद्विभोः ॥’ इत्यादि हिशब्देन दर्शयति । अस्य आत्मनो जीवस्य स्वरूपभूतं यत् सुखं तत् सर्वेहोपरतेः प्रसन्नात् । सर्वा पूर्णा ईहा चेष्टा यस्य सः सर्वेहः । ‘को ह्येवान्यात्’ इति श्रुतेः । उपा अधिका अत्युद्रिक्ता रतिर् आनन्दो यस्य स उपरतिः । ‘यदेषा आकाश आनन्दो न स्यात्’ इति श्रुतेः । सर्वेहश्च(असौ)उपरतिश्च सर्वेहोपरतिः । तस्मात् हरेः, आविर्भवतीति शेषः । ‘उपोऽधिके’ इति सूत्रात् । ततः किम् ? तत्राह– मनःसंस्पर्शजानिति ॥ मनोऽधिष्ठितेन्द्रियाणां विषयैः संस्पर्शात् सम्बन्धाज्जातान् शस्तान् स्रगादिभोगान् न संविशेन् न सेवेत । बुद्धिमानिति शेषः ॥ २६ ॥
सत्यधर्मीया
निवृत्तं कर्मापि न स्वतन्त्रं साधनं सुखव्यक्तौ किन्तु हरिरेवेति क्रमाप्तमुपरमं वदन्नाह ॥ सुखमिति । अस्यात्मनो जीवस्य सुखं रूपं स्वरूपभूतम् । तत्किं व्यङ्ग्यमित्यत आवृत्त्या मुख्यममुख्यं च निमित्तमाख्याति ॥ सर्वेहोपरतेरिति । सर्वेहाया उपरतिर्यस्य तस्मादनीहाद्धरेः । सर्वेहाया उपरतिस्तस्याः सकाशाद्यदेतीति तत्प्राप्नुयात् । हीति ‘‘बलमानन्द ओजश्च सहो ज्ञान-मनाकुलम् । स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद्विभो’’रित्यादिमानप्रसिद्धिं द्योतयति । हिय-दित्यखण्डपदं वा । हिं वृद्धिमेतीति हियत् । हि गतौ वृद्धौ चेति स्मरणात् । मनःसंस्पर्श-जान्मनउपलक्षितेन्द्रियैर्विषयाणां संस्पर्शः सम्बन्धस्तस्माज्जायन्त इति ते तथा । पञ्चम्यामजाताविति डः । भोगान् शस्तान् विशस्तान् साधनाराधानेऽप्यप्राप्तानिति यावत् । दृष्ट्वा तेषु न संविशेत् । बुद्धिमान् संविशेत । अन्तर्णीतण्यर्थः । मनो न संवेशयेदिति वाऽऽवृत्त्याऽन्वयः ॥ २६ ॥
मन्दनन्दिनी
प्रायेण विपर्ययदर्शनेऽपि कदाचिद्वैषयिकसुखस्यापि सम्भवाद्गृहाश्रमान्निवृत्तौ तदलाभात्कुतो निवृत्त इत्याशङ्कायामाह ॥ सुखमिति ॥ अस्यात्मनः सुखं रूपं स्वरूपमेव । बलमान-न्देति श्रुतेः । न त्वागन्तुकं सुखमुत्पाद्यं तच्च सर्वेहोपरते सर्वकाम्यकामनाराहित्यात् । तथा सर्वेहे सर्वचेष्टके उप अधिके भगवति रतेर्भक्तेर्यद्यस्मादभिव्यज्यते हि तस्मान्मनः संस्पर्शजान्मनोऽधिष्ठि तेन्द्रियाणां विषयसंस्पर्शाज्जातानत एव नश्वरान् दुःखसंमिश्रांश्च शस्तान् प्रशस्ततया प्रतीतान् । भोगान्वनितादिभोगान् दृष्ट्वा विमृश्य गृहस्थाश्रमं न संविशेत् । न प्रविशेदिति योजना । भगवद्भक्त्यादि नित्यस्वरूपसुखव्यक्तौ सत्यां कादाचित्कदुःखसंमिश्रसुखभोगार्थं गृहाश्रमो न संवेशनीय इति भावः । एतच्च स्वरूपतः संन्यासिमनुष्योत्तमादिविषयं ज्ञेयम् ॥ २६ ॥
इत्येतदात्मनः स्वार्थं सन्तं विस्मृत्य वै पुमान् ।
विचित्रामसति द्वैते घोरामाप्नोति संसृतिम् ॥ २७ ॥
पदरत्नावली
एतदङ्गीकारविरुद्धस्य बाधकमाह– इतीति ॥ आत्मन इति एतदुक्तमिति एवम्, तव सिद्धमिति शेषः । इतिशब्दः प्रकारवचनः । तत्र पुमान् सन्तं सदातनं स्वार्थं पुरुषार्थं विस्मृत्य असति भगवत्प्रसादेन निवर्तमाने द्वैते अन्यथाज्ञाने विषये विचित्रां सुरनरादिनानायोनिविषयां घोरां संसृतिमाप्नोति वै इत्यन्वयः ॥ २७ ॥
सत्यधर्मीया
सर्वेहोपरतेः कंसारेर्विस्मरणतोऽहंममेत्यन्यथामतेश्चायं संसार इति शंसति ॥ इतीति । एतदात्मनः पूर्वोक्तानन्दाद्यात्मकस्य स्वस्य । स्वार्थमेव सन्तमन्तरवस्थितं हरिं विस्मृत्य स्थितः स पुमान् । स्वार्थं विषयजातं विशेषतः स्मृत्वा चेति मानप्रमितार्थस्य स्वीकार्यतामाह वैकारः। असत्यमङ्गले द्वैतेऽन्यथाज्ञाने सति । इति घोरामुक्तप्रकारेण सोढुमशक्यां विचित्रां निर्मायां वास्तवीं संसृतिमाप्नोति । ‘‘चित्रा सुपर्णी गोडुम्बा सुभद्रादन्तिकासु च । मायायां सर्पनक्षत्रनदीभेदेषु च स्त्रिया’’मिति भानुदीक्षितीये ॥ २७ ॥
मन्दनन्दिनी
तर्हि लोकः कुतः प्रवर्तत इत्यत आह ॥ इतीति ॥ इत्येतत्पूर्वमुक्तं सन्तं समीचीनं स्वार्थं स्वप्रयोजनं शास्त्रसिद्धं विस्मृत्य । असत्यसमीचीने द्वैते दम्पत्त्याश्रमे स्थितः पुमान् विचित्रां घोरां संसृतिमाप्नोति वै इति योजना । शास्त्रसिद्धस्वप्रयोजनविस्मृत्या लोकः प्रवर्तत इति भावः
॥ २७ ॥
जलं तदुद्भवैश्छन्नं हित्वाऽज्ञो जलकाम्यया ।
मृगतृष्णामुपाधावेत् तथाऽन्यत्रार्थदृक् स्वतः ॥ २८ ॥
पदरत्नावली
स्वतृष्णाया अनिवृत्तिकत्वात् संसारस्य घोरत्वमितीममर्थं सदृष्टान्तमाह– जलमिति ॥ तदुद्भवैर्जलोद्भवैः शैवालादिभिः । अज्ञे ज्ञानरहितोऽजितेन्द्रियः । मृगतृष्णां सूर्यमरीचि-सम्पृक्तसलिलं यथोपधावेत् तथा स्वतः स्वतन्त्राद्धरेर् अन्यत्र अर्थदृक् देवदत्तादौ पुरुषार्थदर्शी ॥ २८ ॥
सत्यधर्मीया
अफलोपलम्भिकेयं तृष्णा मृगतृष्णावदिति यथा तद्वानज्ञ एतद्वानपि तथेति च कथयति ॥ जलमिति । तदुद्भवैस्तस्माज्जलादेवोद्भवन्तीति ते तथा शैवलादयस्तैश्छन्नमाच्छादितम् । जलकाम्यया जलेच्छयाऽज्ञो मृगतृष्णां सूर्यकिरणसम्पृक्तसलिलं यथोपधावेत्तथा । स्वतः परस्वो हरिरित्यादेर्भगवतोऽन्यत्र सुरनरादौ । अर्थदृक्, अर्थं पश्यतीत्यर्थदृक् एते ममार्थदा इति ज्ञानवानज्ञ इत्यनुवर्तते । अन्यत्र स्वतः स्वातन्त्र्येणार्थदृक् पुरुषार्थदर्शीति वा ॥ २८ ॥
मन्दनन्दिनी
वैषयिकसुखाय प्रवर्तमानं दृष्टान्तप्रदर्शनेन निन्दति ॥ जलमिति ॥ तदुद्भवैः शैवलादिभिश् छन्नं जलं स्वसमीपस्थितमज्ञो हित्वा जलकाम्यया मृगतृष्णां जलभ्रान्तिविषयीभूताम् । मरुमरीचिकामुपाधावेद्यथा तथाऽज्ञः स्वतः । ल्यब्लोपनिमित्ता पञ्चमी । स्वरूपसुखं विहायान्यत्र विषयेष्वर्थदृक् पुरुषार्थदृगुपाधावेदिति योजना ॥ २८ ॥
देहादिभिर्देवतन्त्रैरात्मनः सुखमीहतः ।
दुःखात्ययं वाऽनीशस्य क्रिया मोघाः कृताः कृताः ॥ २९ ॥
पदरत्नावली
ननु पुरुषार्थसाधनत्वेन जातैर्देहादिभिरनुष्ठिताः क्रियाः सुखादिहेतवः स्युरित्या-शङ्क्य भगवदर्पणबुद्धिचिकित्सारहिता व्यर्था इत्याह ॥ देहादिभिरिति । या याः कृताकृताः क्रियास् तास्ताः क्षर्णा अपि मोधाः । तत्र हेतुगर्भं विशेषणम् ॥ अनीशस्य ॥ ईशविरुद्धस्य ॥ २९ ॥
सत्यधर्मीया
ननु देहादेः पुमर्थदोहहेतुत्वेन तदनुष्ठिताः क्रियाः क्रियासुरेव फललब्धिमित्यतो यदि समर्पिताः स्युस्ता हरौ तथा । न तथा चेन्न तथेत्याह ॥ देहादिभिरिति । देवतन्त्रैर्भगवन्नियतै-र्देहादिभिरनीशस्य न विद्यत ईशो यस्य सोऽनीशस्तस्यात्मनः सुखं दुःखात्ययं तन्निवृत्तिं वेहत ईहमान-स्येच्छत इति यावत् । या याः क्रियाः सुखप्राप्तिदुःखात्ययोपायत्वेन कृताः कृताः । वीप्सया सामस्त्यं बोध्यते । सर्वाः क्रिया मोघा व्यर्थाः । ईशो नास्तीति जानतां तदधीनैर्देहादिभिः कृताः क्रिया निष्फला भवन्तीति भावः ॥ २९ ॥
मन्दनन्दिनी
क्रियायामीषत्स्वातन्त्र्येऽपि फले न सर्वथाऽस्तीति क्रियाणां वैफल्यमाह ॥ देहादिभिरिति ॥ दैवतन्त्रैर्दैवाधीनैर्देहादिभिरात्मनः सुखं दुःखाप्ययं वेहतोऽनीशस्य फलेऽस्वतन्त्रस्य जीवस्य कृताः क्रियाः । मोघाः कृता भवन्तीति योजना । वैफल्याच्च वैषयिकसुखाय क्रिया न कर्तव्येति भावः ॥ २९ ॥
आध्यात्मिकादिभिर्दुःखैरविमुक्तस्य कर्हिचित् ।
मर्त्यस्य कृच्छ्रोपनतैरर्थैः कामैः क्रियेत किम् ॥ ३० ॥
पदरत्नावली
इतोपि वित्तापादने न प्रयतमीयम् । आध्यात्मादि क्लेशग्रहगृहीताचेनडुण्डुभग्रस्त-मण्डकवत् समृद्धशारीरबलाभावात् । कृतान्तपाशबद्धगलस्य पुरुषस्य पुरतो निहितक्षीरासववद् व्यर्थं वित्तमित्याह– आध्यात्मिकादिभिरिति ॥ कामैः शब्दादिविषयैः ॥ ३० ॥
सत्यधर्मीया
स्वापतेयसम्पादने सुखसम्पन्नता दृश्यत इत्येव न, अपि तु वितुलापिपदिति न तत्रायासः सम्पाद्य (समासाद्य) इत्याह ॥ आध्यात्मिकादिभिरिति । आदिपदेनाधिभौतिकाधि-दैविकादेर्ग्रहणम् । तैर्दुःखैरविमुक्तस्यात्यक्ताभिमतेः कर्हिचित्कस्याञ्चिदवस्थायां काले कस्मिंश्चिद्वा । कामैः काम्यन्त इति कामा अपेक्षणीया इति यावत् । तैरर्थैः कृच्छ्रोपनतैर्दातॄन्पीडयित्वेति तत्कृच्छ्रं तानपीडयित्वेति स्वकृच्छ्रं१ वा तेनोपनतैः सम्पादितैः किं क्रियेत न किमपि स्वोपकरणम् । मर्त्यस्यायुरनिर्णयान्मध्ये मरणसम्भवादिति भावः ॥ ३० ॥
मन्दनन्दिनी
आदावन्ते च दुःखोपबद्धत्वाद्वर्तमानदुःखविमुक्तिरहितत्वाच्चार्थानां कामानां च न पुरुषार्थत्वमित्याह ॥ आध्यात्मिकादिभिरिति ॥ मन आदीन्द्रियदेहादिजन्यदुःखैराध्यात्मिकैरनूप-देशादिजन्यैराधिभौतिकैर्वर्षातपादिजन्यैराधिदैविकैश्चाविमुक्तस्य मर्त्यस्य मृतिभयजन्यदुःखवतः कृच्छ्रो-पनतैर्बह्वायासागतैरर्थै कामैश्च किं क्रियेत कार्यं किमिति योजना । बहुदुःखकवलितत्वान्नार्थादीनां प्रयोजनत्वमिति भावः ॥ ३० ॥
पश्यामि धनिनां क्लेशं लुब्धानामजितात्मनाम् ।
भयादलब्धनिद्राणां सर्वतोऽपि विशङ्किनाम् ॥ ३१ ॥
पदरत्नावली
कस्यचिददृष्टबलादुपार्जितवित्तस्य समृद्धशारीरबलस्यापि लोभाभिभूतमनस्कत्वे-नापि भोगो दुर्घट इत्याह– पश्यामीति ॥ ३१ ॥
सत्यधर्मीया
कस्यचिद्दैववशादाशानुसारि वित्तं लब्धवतो नीरोगशरीरस्यापि लोभाभिभूतस्य न तद्भोगयोग इत्यत्र स्वमेव साक्षिणमेव मानत्वेनाह ॥ पश्यामीति । धनिनां लुब्धानामजितात्मनाम-निगृहीतमानसानाम् । भयादलब्धा निद्रा यैस्ते तेषाम् । सर्वतोऽपि विशङ्किनां व्रीह्यादिः । क्लेशम् । अहं पश्यामीत्युक्तिस्तु नाधुनाऽपि तज्जिहासौत्कट््यं समाप्तमिति द्योतनार्था ॥ ३१ ॥
मन्दनन्दिनी
अर्थकामाद्युत्पत्त्यनन्तरं सुखमेव दुःखं नास्तीत्यतस्तदाऽपि क्लेशोऽनुभवोस्तीत्यत आह ॥ पश्यामीति ॥ अत्र धनिनां चतुर्भिर्विशेषणैः क्लेश उपपादितः । अनेन त्यागिनो जितात्मनो भयरहितस्य विशंकारहितस्य च नेदृशः क्लेश इत्युक्तं भवति ॥ ३१ ॥
राजतश्चोरतः शत्रोः स्वजनात् पशुपक्षितः ।
अर्थिभ्यः कालतः स्वस्मान् नित्यं प्राणार्थवद्भयम् ॥ ३२ ॥
पदरत्नावली
प्राणार्थवद्भयम् अर्थवतः प्राणभयं भवति । प्राणवतोऽर्थवतश्चेति वा ॥ ३२ ॥
सत्यधर्मीया
भयप्रयोजनकानाह ॥ राजत इति । राजतो दण्डं बध्नीयादिति । चोरतः स्तेयं तनुयादिति । शत्रोश्शातयित्वा मां नयेद्धनमिति । स्वजनात्तद्भोजनादेः । एवं पशुपक्षितः । अर्थिभ्यो याचकेभ्यः । कालतो बहुतिथं महीगुहानिहितस्य भारन्यौन्येन वा रेखाविमार्जनेन तावदुपयोगायोगेन वेति कालतः । स्वस्मात् स्थापितस्थानविस्मरणादिना वेति । नित्यं प्राणा इवार्था येषां सन्ति ते प्राणार्थवन्तस्तेषां भयं राजादितः पश्यामीत्यन्वयः । अर्था बहिश्चराः प्राणा इत्यादेः । प्राणार्थवत् प्राणनिवृत्तेरिव प्रसक्ताया इति वा । प्राणाश्चार्थाश्चैषां सन्ति ते प्राणार्थवन्तस्तेषां प्राणिनामर्थवतामिति वा । हे प्राणापरोक्षज्ञानिन् अर्थवतां भयमिति । प्रं परमात्मानमणत्यपरोक्षतो जानातीति स तथा तत्सम्बुद्धिः । अकयप्रविसमित्यादेः ॥ ३२ ॥
मन्दनन्दिनी
सर्वत इत्येतद्विवृणोति ॥ राजत इति ॥ पशुपक्षितश्चत्वरादौ गोधूमादेः प्रसारणे महिष्यादिपशुतः कुक्कटादिपक्षितः कालतो वर्षादिकालतः । स्वस्मात्स्वकीयादेव भृत्यात् । प्राणार्थवतः प्राणिति प्रवर्ततेऽनेनेति व्युत्पत्त्या गजतुरगादिलक्षणः कामः प्राणस्तद्वतोऽर्थवतश्च भयमिति योजना
॥ ३२ ॥
शोकमोहभयक्रोधा रागक्लैब्यश्रमादयः ।
यन्मूलाः स्युर्नृणां जह्यात् स्पृहां प्राणार्थयोर्बुधः ॥ ३३ ॥
पदरत्नावली
ननु सर्वानर्थशमने किं कारणमित्याशङ्क्य स्पृहा सर्वापदो निदानम् । अतस् तत्त्याग एव प्रथमतः कारणमित्याह– शोकेति ॥ या स्पृहा मूलं येषां ते तथा । प्राणेऽर्थे च स्पृहाम् । वैष्णवसिद्धान्ते तद्विरोधिनो जनात् प्राणसङ्कटे प्राप्ते प्राणरक्षणे स्पृहाऽपि न कार्या । किमुतार्थे इति प्रदर्शनाय प्राणग्रहणम् ॥ ३३ ॥
सत्यधर्मीया
तृष्णया भववाहिन्येति पूर्वमुक्तेस्तदुपरम एवैतदाद्यनर्थोपशम इति शंसति ॥ शोकेति । रागो रक्तिः क्लैब्यं विह्वलता । द्वेषेति पाठेऽपि तोषः । एते यन्मूला या मूला येषां ते तथा नृणां स्युस्तां स्पृहां प्राणार्थयोः । कैमुत्येनार्थत्यागसौलभ्यसूचनाय प्राणग्रहणम् । प्राणेऽपि स्पृहां जह्यात्का कथाऽर्थत्याग इति । अत एव नैतद्बाधा हे प्राणेत्यादिप्राग्व्याकृताविवाप्रस्तुतप्राणग्रहणं कुत इति शङ्कनबाधाऽपीति ज्ञेयम् ॥ ३३ ॥
मन्दनन्दिनी
बहुदोषाणां मूलत्वाच्च कामचित्तयोः स्पृहा न कार्येत्याह ॥ शोकेति ॥ क्लैब्यमसामर्थ्यम् ॥ ३३ ॥
मधुकारमहासर्पौ लोकेऽस्मिन् नो गुरूत्तमौ ।
वैराग्यं परितोषं च प्राप्ता यच्छिक्षया वयम् ॥ ३४ ॥
पदरत्नावली
वित्तवतः प्राणभयम्, वित्तस्पृहया शोकादिकं स्यात्, इत्याद्युक्तमर्थं मधुकराजगर-दृष्टान्तेन बोधयति– मधुकरेति ॥ गुरूत्तमाद् या शिक्षा साऽऽभ्यामेवाप्तेति गुरूत्तमावित्यूचे । यथा च तं मधुव्रतं हत्वाऽन्यो मधु हरति तथा वित्तापादकं (वित्तपतिं) हत्वा कृच्छ्रादर्जितं राजाद्यन्यतमो हरेत् । मधुव्रतस्थितिं दृष्ट्वा सर्वकामेभ्यो विरागः शिक्षितः ॥ ३४ ॥
सत्यधर्मीया
विरतिरतिरतीव त्वयि वर्वर्ति कथमियं त्वया लब्धेत्यतः प्राग्गुरूपदेशादङ्कूरित-कलिकायास्तस्याः प्ररोह एतत्कृत इति तावाह ॥ मधुकारेति । मधु करोतीति स तथा । मधुमक्षिका । मधु च क्षौद्रम् । महासर्पोऽजगरश्च तौ नोऽस्माकं गुरूत्तमौ गुरुश्रेष्ठौ । तच्छै्रष्ठ्यं स्पष्टयति ॥ यच्छिक्ष-येति । वयं यच्छिक्षया ययोः शिक्षा तदाचारविलोचनरूपिणी तया वैराग्यं परितोषं चेति क्रमाद्वयं प्राप्ताः । अस्मिंल्लोक एतद्देहे । एतेन पूर्वं गुरुभिरुपदर्शिताध्वन एवैतद्दर्शनतो विरागपरितोषौ नैतन्मात्रं तत्र कारणमिति ध्वनयति । अन्यथा सर्वेषां द्रष्टृणामविशेषत एतौ स्यातामिति भावः ॥ ३४ ॥
मन्दनन्दिनी
स्वस्य वैराग्यपरितोषयोर्गुरू आह ॥ मधुकार इति ॥ नोऽस्माकम् ॥ ३४ ॥
विरागः सर्वकामेभ्यः शिक्षितो मे मधुव्रतात् ।
कृच्छ्राप्तं मधु तद्वित्तं हत्वाऽप्यन्यो हरेत् पतिम् ॥ ३५ ॥
सत्यधर्मीया
क्रमेण यदाचारं विचारणेन यद्यथा सम्पादितं तदाह ॥ विराग इति । मधुव्रतात् । ल्यब्लोपनिमित्तेयं पञ्चमी । तं वीक्ष्य मे मया सर्वकामेभ्यो वित्तादिविषयेभ्यो विरागः शिक्षितः । कृच्छ्राप्तम् । इतस्ततोऽटव्यटनेन नानासुमरसपानं तेन वमनं तेन तदुत्पादनमिति कष्टसञ्चितं मधु । यथा मधुव्रतं हत्वाऽटविको नयति तथाऽन्यः प्रागुदीरितराजाद्यन्यतमः पतिं धनस्वामिनं हत्वा वित्तं हरेदिति तदवलोकनं मम निर्ममताघटकमभूदिति भावः ॥ ३५ ॥
मन्दनन्दिनी
क्रमेण शिक्षाप्रकारमुपपादयति ॥ विराग इति ॥ गुरुत्वं बुद्धिजनकत्वं मद्बुद्धिजनकत्वं तत्र वित्तं न सम्पाद्यमित्येतद्बुद्धिजनकत्वं मधुकरस्य । वित्तवत्कृच्छ्रसम्पादित-मध्वर्थमन्ये महत्तत्वेन दृष्टस्य मधुकरस्य । यदृच्छालाभेन परितोषणीयमित्येतेनैवेष्टतया हृष्टस्य सर्पस्येति विवेचनीयम् । पतिं वित्तपतिम् ॥ ३५ ॥
अनीहः परितुष्टात्मा यदृच्छोपनतादहम् ।
नो चेच्छये बह्वहानि महाहिरिव सत्त्ववान् ॥ ३६ ॥
पदरत्नावली
उदरपोषणप्रयत्नहीनो ऽनीहः । नो चेद् यदृच्छयाऽप्राप्तं चेत् । महाहिर् अजगरः
॥ ३६ ॥
सत्यधर्मीया
अजगराप्तं जागरणमीरयति ॥ अनीह इति । उदरकुहरीपूरणप्रयत्नविकलः । तर्हि जीवनं कथमित्यतः कथयति ॥ यदृच्छेति । हरीच्छाप्राप्तात् । नो चेद्बह्वहानि गतम् । महाहिरजगरस्त-द्वच्छये । तत्र बलमालपति ॥ सत्त्ववानिति । जनयिता विना स्वक्लृप्तकालं न नाशयतीति धैर्यवान् । तेनैव मम पीनतेति भावः । अनयोर्मध्ये सञ्चितं वञ्चयित्वेतरो नयतीति तदसञ्चयधियमुपजनयतो मधुकरस्य जनयिता पोषयतीति मनीषामुद्भावयतो महाहेश्च चर्यायां गौरवागौरवे प्रथमाप्रथमनिर्देशे तन्त्रे ज्ञेये ॥ ३६ ॥
मन्दनन्दिनी
यदृच्छयोपनतादनायासेन दैवेच्छयैव लब्धात् । नो चेदलाभे । शये शयनं करोमि । बह्वहानि बहुदिनानि सत्त्ववान् बलवान् ॥ ३६ ॥
क्वचिदल्पं क्वचिद् भूरि भुञ्जेऽन्नं साध्वसाधु वा ।
क्वचिद् भूरिगुणोपेतं गुणहीनमुत क्वचित् ॥ ३७ ॥
पदरत्नावली
भूरिगुणोपेतम् ॥ ३७ ॥
सत्यधर्मीया
यदृच्छयोपनतादित्युक्तं व्यक्तीकृत्य वक्ति ॥ क्वचिदिति । साध्वसाधु वा सदन्नं कदन्नं वा । गुणेन सूदेन उपेतं गुणोपेतम् । भूरिणा सुवर्णरूपदक्षिणया सहितं च तद् गुणोपेतम् । गुणेन सूदेन हीनं कन्दमूलादिकम् । साध्वानो ऽध्वनीना आर्द्रचणकाः । वैद्यके तथोक्तेः । अतो नार्थिकी-पुनरुक्तिः । भूरिप्राज्यसुवर्णयोः । गुणः सूदे वृकोदरे । साधुर्वार्धुषि चाराविति विश्वस्मिन्निति विश्वः
॥ ३७ ॥
मन्दनन्दिनी
यदृच्छालाभप्रकारमेव विशदयति ॥ क्वचिदित्यादिना ॥ अल्पं परिमाणतः साधु स्वभावतो गुणोपेतं सहकारिसम्पन्नम् ॥ ३७ ॥
श्रद्धयोपहृतं क्वापि कदाचिन्मानवर्जितम् ।
भुञ्जे भुक्त्वाऽथ कस्मिंश्चिद् दिवा नक्तं यदृच्छया ॥ ३८ ॥
पदरत्नावली
कस्मिंश्चिद् दिवा अह्न्येवाभुक्त्वा नक्तं भुञ्जे । कस्मिंश्चिद् दिने नक्तमभुक्त्वाऽह्नि भुञ्जे ॥ ३८ ॥
सत्यधर्मीया
दिवा भुक्त्वा पुनर्नक्तं च भुञ्जे ॥ ३८ ॥
मन्दनन्दिनी
श्रद्धया विश्वासपूर्वकमानेन । कस्मिश्चिद्दिने दिवा कस्मिंश्चिन्नक्तं रात्रौ ॥ ३८ ॥
क्षौमं दुकूलमजिनं चीरं वल्कलमेव वा ।
वसेऽन्यदपि सम्प्राप्तं दिष्टभुक् तुष्टधीरहम् ॥ ३९ ॥
पदरत्नावली
क्षौमं दुकूलमित्यादिकमेकस्मिन् जन्मनि बहुजन्मनि चेति यथायोग्यमङ्गी-कर्तव्यम् । दैवलब्धेन भुञ्ज इति दिष्टभुक् ॥ ३९ ॥
सत्यधर्मीया
क्षौमं पीताम्बरं दुकूलं कार्पासिकं चीरमर्कत्वगादिनिर्मितम् । वल्कलं त्वचमेव । अन्यत्पर्णादि । दिष्टभुक् भगवद्दत्तभुक् । तुष्टधीः सदा सन्तुष्टचेतस्कः ॥ ३९ ॥
मन्दनन्दिनी
शयने यदृच्छालाभप्रकारमुक्त्वा वसने आह ॥ क्षौममिति ॥ पीताम्बरम् । दुकूलं कार्पासम् । अजिनं कृष्णमृगादिचर्म । वल्कलं वसनयोग्यवृक्षत्वगादि । चीरं वस्त्रम् । एतच्च विशेष्यम् । अन्यत्कटपर्णादि । वसे आच्छादयामि । वस आच्छादन इति धातुः । दिष्टभुक् दैवप्राप्तभुक् । तुष्टधीस्तुष्टमनस्कः ॥ ३९ ॥
क्वचिच्छये धरोपस्थे तृणपर्णाश्मभस्मसु ।
क्वचित् प्रासादपर्यङ्के कशिपौ वा परेच्छया ॥ ४० ॥
पदरत्नावली
क्षौमाद्याच्छादनं गजादिभिश्चरणं प्रासादादिशयनं क्षत्रजन्मनि । भूपृष्ठे शयनं च पश्वादिजन्मनि । भस्मादौ शयनं श्वानादिजन्मनि बाल्ये च । अजिनाद्याच्छादनम् ऋष्यादिजन्मनि जन्मान्तरे वा ॥ ४० ॥
सत्यधर्मीया
क्वचिद्धरोपस्थे भूपृष्ठे शये । तृणेषु पर्णेषु । अश्मसु पाषाणेषु । भस्मसु भसितेषु । प्रासादे तत्रापि पर्यङ्के तत्रापि कशिपाविति । पृथगेव वा शये ॥ ४० ॥
मन्दनन्दिनी
शयने यदृच्छालाभप्रकारमाह ॥ क्वचिदिति ॥ धरोपस्थे भूमितले पर्यङ्के कशिपौ तल्पे कार्पासादिगर्भतया मृदुशयने ॥ ४० ॥
क्वचित् स्नातोऽनुलिप्ताङ्गः सुवासाः स्रगलङ्कृतः ।
रथेभाश्वैश्चरे क्वापि दिग्वासा ग्रहवत् क्वचित् ॥ ४१ ॥
पदरत्नावली
दिग्वासा दिगम्बरः ॥ ४१ ॥
सत्यधर्मीया
अनुलिप्ताङ्गो गन्धादिना । रथेभाश्वैस्तदारुह्य चरे चरामि । ग्रहवत्पिशाचवच्चर इत्यन्वयः । एतादृग्दृग्वतो न जन्मान्तरीयस्मरणमसूपपादमिति क्षौममादीकृत्य दिग्वासा इत्येतदन्तं तत्तद्योग्यजन्मान्यूह्यानि । केषाञ्चित्समाहारो वा विरुद्धानां बोध्यः । आजगर्याश्चर्याया गौरवेण प्रथमं वक्तव्यत्वेऽप्युत्तरत्र बहुना ग्रन्थेन क्रियमाणतदुपपादनाव्यवधानसन्निधानसिद्धये मधुव्रतानन्तरं निबन्ध इति वा मन्तव्यम् ॥ ४१ ॥
मन्दनन्दिनी
देहालङ्कारादौ यदृच्छालाभप्रकारमाह ॥ क्वचित्स्नात इति ॥ चरे चरामि । ग्रहवत्पिशाचवत् ॥ ४१ ॥
नाहं निन्दे च न स्तौमि स्वभावविषमं जनम् ।
एतेषां श्रेय आशासे उतैकात्म्यं महात्मनि ॥ ४२ ॥
पदरत्नावली
सत्वादिगुणस्वभावेन विषमं सात्विकराजसतामसभेदभिन्नम् । ‘सर्वेभ्योऽभयं मत्तः’ इति यतिधर्मत्वाद् भूतानां भद्रमेवाशासे । तत्रापि भगवत्स्वामित्वं न विस्मरामीत्याह– उतेति ॥ आशस इत्यनुवर्तते । ‘जगत एक एव स्वामी’ इति भावम् ऐकात्म्यम् उताशासे । कस्मिन् विषये ? महात्मनि भगवद्विषय इत्यर्थः ॥ ४२ ॥
सत्यधर्मीया
शेषे न द्वेष्टि नौषि वेत्युत्तरयति ॥ नेति । स्वभावविषमं सात्त्विकादिप्रकृतिविषमं जनं न निन्दे न निन्दामि न च स्तौमि च । स्वस्वभावप्रवर्तमानजननिन्दनं वन्दनं किमाधायक-मित्युपेक्ष्यैवं वर्त इत्याह ॥ एतेषामिति । जनानां श्रेयो मङ्गलमाशासे मनसेच्छामि । मुख्यं धर्ममाख्याति ॥ महात्मनीति । भगवत्यैकात्म्यमेक एवात्मा स्वामी तस्य भाव ऐकात्म्यमाशास इत्यन्वेति । तदेकशरणो हरिमित्यनुपदमीरणादैकात्म्यपदमन्यथाप्रतीतेरप्रतीतेर्वा न पदं भवतीति प्रागत्र विवृतत्वाच्च स्थानान्तरे ऐकात्म्यं नाम यदिदं केचिद्ब्रूयुरनैपुणा इत्यभिधानाच्चेदानीं तदव्याकृतिस्तात्पर्य इति ज्ञेयम् ॥ ४२ ॥
मन्दनन्दिनी
मनोवृत्तिप्रकारमाह ॥ न निन्द इति । स्वभावविषमं गुणत्रयस्वभावकृतवैषम्योपेतं जनं योग्यम् । अयोग्येषु निन्द्यान् निन्देतेति निधानात् । उतापि तु महात्मनि भगवत्यैकात्म्यं मुख्यस्वामित्वं यैर्ज्ञातमेतेषाम् ॥ ४२ ॥
विकल्पं जुहुयाच्चित्ते तन्मनस्यर्थविभ्रमे ।
मनो वैकारिके हुत्वा मायायां वै जुहोत्यमुम् ॥ ४३ ॥
तात्पर्यम्
चित्ते मनोवृत्त्यभिमानिनि । अर्थविभ्रमे अर्थेषु भ्रममाणे । ‘चित्ताख्याग्ने-रधीनं हि जगदेतद्विचिन्तयेत् । मनोनामेन्द्रवशगमग्निं च प्रविचिन्तयेत्’ इत्यादि च ॥ ४३ ॥
पदरत्नावली
तुर्याश्रमस्थेन (तुर्यावस्थेन) विहितोपासनानन्तरमिदं च कर्तव्यम्, ब्रह्मप्राप्ति-मार्गत्वादित्याह– विकल्पमिति ॥ विकल्पं जगत् । चित्ते मनोवृत्त्यभिमानिनि जुहुयान् न्यसेत् । जगच् चित्ताख्याग्न्यधीनमिति चिन्तयेच् चित्तम् अग्निम् अर्थेषु भ्रममाणे भगवत्युपधावमाने मनसि मनो-नामेन्द्राधीनतया तिष्ठतीति चिन्तयेत् । मन इन्द्रं वैकारिके रुद्रे हुत्वा संचिन्त्य अमुं रुद्रं मायायां प्रकृतिविकारे महत्तत्वे विरिञ्चे संचिन्त्य तां मायां तं विरिञ्चं चात्मानुभूतौ चित्प्रकृतौ जुहुयाच् चिन्तयेत् । ‘चित्ताख्याग्नेरधीनं हि जगदेतद् विचिन्तयेत् । मनोनामेन्द्रवशगमग्निं च प्रविचिन्तयेत् ॥’ इति वाक्यात् सर्वमवगन्तव्यम् । अत्र जडकार्यस्य जडकारणात्मकत्वं चेतनस्य चेतनाधीनत्वं चिन्तनीयमित्यर्थः ॥४३॥
सत्यधर्मीया
विकल्पं जुहुयाच्चित्त इति श्लोकार्धे विकल्पं चित्ते तच्चित्तं मनसि जुहुयादिति चित्तस्य मनसि होम उच्यते । स चासङ्गतः । स्वस्मिंत्स्वलयस्यायोग्यविषयत्वादुत्तमेष्वनुत्तमहोम इति नियतिव्यतिक्रमापत्तिविपत्तेरित्यतोऽनूद्य स्वयं विवृत्य च मानमुदाहरति ॥ चित्त इति । मनोवृत्त्यभि-मानिनि । अर्थविभ्रम इत्यस्यार्थविषयकभ्रम इति भ्रमनिरासाय स्वयमनूद्य व्याकरोति । अर्थविभ्रमेऽर्थेषु भ्रममाणे । एतेनार्थेषु भ्रमो भ्रमणं यस्येति तत्पदव्युत्पत्तिं सूचयति । विकल्पमित्यस्यार्थो जगदेतदिति । चित्तमित्याख्या यस्य तस्याग्नेरधीनं चिन्तयेत् । तच्चित्तमग्निं मनसीति मनोनामकेन्द्रवशगं विचिन्तयेत् । वृत्त्यन्तरं जडं जडे मूलमनसि । अग्निमिन्द्रे १चेतने चेतनमिति सार्वत्रिको नियमः । इत्यादिचात्समाचार इत्यत्रोत्तरत्रापि शेषोऽवसेयः ॥ ततश्चायं मूलार्थः ॥ निरीहताहेतुं द्वाभ्यामाह ॥ विकल्पमिति । विकल्पं नानाजातिभेदयुतं जगच्चित्ते तदभिमानिन्यग्नौ तच्चित्तं जडमजडमग्निं च मनसीन्द्रे जडेऽजडे च । अर्थविभ्रम इति यथायथं चित्तमनसोर्विशेषणम् । अर्थेषु भ्रमति । अर्थेष्विति तात्पर्ये बहुवचनेनोत्तरत्रात्म-नीति परमात्मरूपार्थस्याभिधास्यमानत्वादत्रार्थपदेन विषया बाह्या एव ग्राह्याः । तन्मन इन्द्रं वैकारिकेऽहन्तत्त्वात्मनि रुद्रे । जडं जडेऽहङ्कारतत्त्वे । अमुं रुद्रं मायायामचित्प्रकृतिविकृते महत्तत्त्वे ब्रह्मणि जुहोति । खादिरो यूपो भवतीत्यादिवल्लिर्ङ्थे लट् । क्रियाप्रबन्ध इति लिर्ङ्थे लड्वा ॥ ४३ ॥
मन्दनन्दिनी
एवं स्ववृत्तिमुक्त्वा संन्यासी लयचिन्तनेन कृतकृत्यो भवेदिति तात्पर्येण सङ्कोचेन तत्प्रकारमाह ॥ विकल्पमिति ॥ विविधः कल्पः समर्थो देवसमूहः । तं चित्ते चित्ताधीनत्वाद्वाक् चित्तमित्युच्यते । ‘‘यन्मनसा ध्यायति तद्वाचा वदती’’ति श्रुतेः । वागभिमानिन्यग्नौ जुहुयादधीनत्वे दद्यात् । द्यु दानादनयोरिति धातुः । दानं च चिन्तनम् । ‘‘अग्नौ सर्वदेवलयश्च अग्नौ सर्वे देवा विलीयन्त’’ इति श्रुतिसिद्धः । तच्चित्तमग्निमिति यावत् । अर्थानां शब्दादीनां विपरिणामहेतुमनोऽभि-मानिनीन्द्रे । मन इन्द्रं वैकारिके तदभिमानिनि गरुडेऽमुं गरुडं मायायां प्रकृतिजन्यत्वान्मायाशब्द-वाच्यमहत्तत्त्वाभिमानिनि ब्रह्मणि ॥ ४३ ॥
आत्मानुभूतौ तां मायां जुहुयात् सत्यदृङ् मुनिः ।
ततो निरीहो विरमेत् स्वानुभूत्याऽत्मनि स्थितः ॥ ४४ ॥
पदरत्नावली
तामात्मानुभूतिं स्वानुभूतेर्लक्ष्म्या आत्मनि स्वामिनि पत्यौ निरन्तरं चिन्तयेत् । ततो मुनिर् अनन्तरं कृतकृत्यः । ‘वेत्ता वेद्यस्य सर्वस्य मुनिः सद्भिरुदाहृतः’ इत्युत्पलमालावचनात् । किञ्च सत्यं साधुगुणं पूर्णं विष्णुं पश्यतीति सत्यदृक् । स्वानन्दानुभवात्मनि स्वमहिमि्न स्थितः, ‘महिमि्न स्वे महीयते’ इति वचनात् । स्वरूपानन्दज्ञानात्मनि ब्रह्मणि स्थित इति वा । निरीह अत एव निषिद्धचेष्टारहितः विरमेत्, कृत्यादिति शेषः ॥ ४४ ॥
सत्यधर्मीया
तां मायां विरिञ्चं चात्मानुभूतौ चित्प्रकृतौ । तद्द्वारत्वेन जुहुयात् । तां चात्मानुभूत्यात्मनि तत्स्वामिनि हरौ । तदत्यन्तसमीपवर्तिनीं चिन्तयेत् । मुनिर् वेत्ता वेद्यस्य सर्वस्य मुनिः सद्भिरुदाहृत इत्युत्पलमालाया वेद्यवेदिता । सत्यदृक् सत्यं साधुगुणं ब्रह्मेत्यादेस्तत्पश्यतीति स तथा । सतीं भार्यां तदुपलक्षितं सर्वमपि न पश्यतीति सत्यदृक् । ततो निरीहः स्थितः विषय-वासनयाप्रसरन्विरमेत् । अकर्मण इति शेषः । अनुभूत्यात्मनि लक्ष्म्यध्यक्षे स्थितः । सत्यदृक् भूतहितमेव पश्यतीति स तथेति वा ॥ ४४ ॥
मन्दनन्दिनी
तां मायां ब्रह्माणमात्मानुभूतावात्मनः परमात्मनोऽनु अनुकूला भूतिर्महालक्ष्मीः । स्वामीयके सप्तमी । तद्वारा न तु तत्र देहलयः । विलीनो हि प्रकृतौ संसारमेतीति श्रुतेः । स्वानुभूते-र्लक्ष्म्या आत्मनि विष्णौ जुहुयात् । ततः परमात्मनि स्थितमनस्कः सत्यदृक् परमात्मापरोक्षी मुनिः संन्यासी विरमेत् । बाह्यकृत्यात्कृतकृत्यो भवेदिति यावत् । विस्तरतो लयस्तु सूर्याग्नियुक्त इत्याद्यनु-व्याख्यानतोऽवगन्तव्यः । अत्र तात्पर्यम् ॥ चित्ते मनोवृत्यभिमिनिनीत्यादि ॥ ४४ ॥
स्वात्मवृत्तं मयेत्थं ते सुगुप्तमनुवर्णितम् ।
व्यपेतं लोकशास्त्राभ्यां भवान् हि भगवत्प्रियः ॥ ४५ ॥
तात्पर्यम्
‘अशास्त्रीयत्वान्मुखतः शास्त्रापेतमिदं विदुः । शास्त्रनिर्णयगम्यत्वा-च्छास्त्रीयमभिधीयते’ इति च ॥ ४५ ॥
॥ इति श्रीमद्भागवते सप्तमतात्पर्ये त्रयोदशोऽध्यायः ॥ १३ ॥
पदरत्नावली
प्रतिपादितमर्थं निगमयति– स्वात्मेति ॥ मया स्वात्मनो मम वृत्तं तुभ्यमनु-वर्णितमित्यन्वयः । स्वात्मनः जीवस्य वा । परमात्मनो वा । कीदृशम् ? मुखतो लोकशास्त्राभ्यां व्यपेतं रहितम् । आन्तरतो विपरीतत्वेन प्राप्तं शास्त्रसिद्धत्वात् शास्त्रीयमित्यर्थः । ‘अशास्त्रीयत्वान्मुखतः शास्त्रापेतमिदं विदुः । शास्त्रनिर्णयगम्यत्वात् शास्त्रीयमभिधीयते ॥’ इति वचनादुक्त एवार्थः । इदं(तव)सिद्धमित्यभिप्रेत्याह– भवानिति ॥ ४५ ॥
सत्यधर्मीया
स्वात्मवृत्तमिति श्लोके लोकशास्त्राभ्यां व्यपेतं लोकविरुद्धं शास्त्राप्रतिपादितं स्वात्मानुवृत्तं मया वर्णितमिति वर्णितमित्यन्यथामतिमतिवर्तयितुमशास्त्रीयशब्दार्थज्ञानं तत्प्रतियोगि-शास्त्रीयपदार्थज्ञानेन सुसाधमिति वाऽन्तरङ्गतः शास्त्रीयत्वं सर्वजनीनं तत्परतयाऽपि व्यपेतेतिपदं व्याकर्तुं शक्यं चेति सूचयितुं वा मानेन तदुभयपदार्थं वक्ति ॥ अशास्त्रीयत्वान्मुखत इति । एतेन मूले मुखत इति शेष इति सूचयति । मुखतो बहिरशास्त्रीयत्वादिदं शास्त्रापेतं विदुर्विदः । शास्त्रनिर्णयगम्यत्वा-च्छास्त्रीयम् । उपक्रमादिभिर्निर्णयो विचारस्तद्गम्यत्वाच्छास्त्रीयं चाभिधीयत इति च । अलौकिकोऽपि ज्ञानादिस्तच्छब्दैरेव भण्यते । य एव लौकिकास्त एव वैदिका इत्यादेः । शास्त्रीयताप्रदर्शनेन प्रदर्शितं लौकिकत्वं भविष्यतीति तात्पर्ये तदनुक्तिः । मूले च पामरानुजिघृक्षया विविच्योक्तिरिति ज्ञेयम् ॥ अथ मूलार्थः ॥ हि यतो भवान्भगवत्प्रियस्तस्माल्लोकशास्त्राभ्यां व्यपेतं रहितं बहिरन्तरङ्गतस्ताभ्यां व्यपेत-मपेतविरुद्धमुपेतम् । एवमशास्त्रीयशास्त्रीयते ज्ञेये । सुगुप्तमपि स्वात्मेत्यखण्डम् । मम वृत्तं मयेत्थं तेऽनुवर्णितम् । हे स्व हरिदासकूटघटितत्वादिति वा । लौकिकालौकिकत्वे अनेनैव व्याख्याते इति तदनुक्तिः ॥ ४५ ॥
मन्दनन्दिनी
भगवत्प्रियत्वात्प्रह्लादस्यात्यन्तमितरेभ्यो गुप्तमपि स्ववृत्तमानुपूर्वेण वर्णित-मित्याह ॥ स्वात्मवृत्तमिति ॥ वृत्तं चरित्रम् । अत्र वृत्तस्य लोकशास्त्राभ्यामपेतत्वमनुपपन्नम् । अवधूतवृत्तस्य ज्ञानिसंमतस्य शास्त्रादपेतत्वायोगादित्यतस्तात्पर्यं प्रवृत्तम् ॥ अशास्त्रीयत्वादित्यादि ॥ मुखत आपाततः । शास्त्रनिर्णयगम्यत्वादुपक्रमादिना विचार्यमाणे शास्त्रतात्पर्यविषयनिर्णयविषयत्वा-द्वस्तुतः शास्त्रीयमित्यर्थः ॥ ४५ ॥
नारद उवाच–
धर्मं पारमहंस्यं वै मुनेः श्रुत्वाऽसुरेश्वरः ।
पूजयित्वा ततः प्रीत आमन्त्र्य प्रययौ गृहान् ॥ ४६ ॥
॥ इति श्रीमद्भागवते सप्तमस्कन्धे त्रयोदशोऽध्यायः ।
पदरत्नावली
ततः प्रह्लादेन किं कृतमित्यतस्तद्गमनमाह– नारद इति ॥ पारमहंस्यं परमहंसानां निवृत्तिमार्गस्थानां विद्यमानम् ॥ ४६ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
सप्तमस्कन्धे त्रयोदशोऽध्यायः ॥
सत्यधर्मीया
अवधूतोपदेशादवधूतराजमदो राजोत्तरत्राचीकरत्किञ्चेति युधिष्ठिरहृदयस्थं संशयं व्यंसयति ॥ नारद इति । परमहंसानां निवृत्तिमार्गप्रवृत्तानामिदं पारमहंस्यं धर्मम् । मुनेर् गतम् । श्रुत्वाऽसुरेश्वरस्तं पूजयित्वा तत उत्तरं प्रीत आमन्त्र्य गृहान्मन्दिरं प्रययौ गतवान् ॥ ४६ ॥
॥ इति श्रीसत्यधर्मतीर्थकृतायां श्रीमद्भागवतविवृतौ
सप्तमे त्रयोदशोऽध्यायः ॥
मन्दनन्दिनी
संवादानन्तरं प्रह्लादस्य स्वगृहगमनमाह ॥ नारद इति ॥ पारमहंस्यं परमहंसाश्रमकर्तव्यम् । असुरेश्वरः प्रह्लादः । आमन्त्र्य गच्छामीति स्वगमनं निवेद्य गृहान् । गृहाः पुंसि च भूम्नये वेति कोशात् ॥ ४६ ॥
॥ इति श्रीभागवतटिप्पण्यां व्यासतत्वज्ञकृतायां मन्दनन्दिन्यां
सप्तमस्कन्धे त्रयोदशोऽध्यायः ॥