ब्रह्मचारी गुरुकुले वसेद् दान्तो गुरोर्हितम्
॥ अथ द्वादशोऽध्यायः ॥
नारद उवाच–
ब्रह्मचारी गुरुकुले वसेद् दान्तो गुरोर्हितम् ।
आचरेद् दासवन्नीचो गुरौ सुदृढसौहृदः ॥ १ ॥
पदरत्नावली
नीचः प्रश्रितः । हिताचरणं मनोवाक्कायकर्मभिरिति शेषः ॥ १ ॥
सत्यधर्मीया
तत्तदाश्रमधर्मविशेषानाह ॥ ब्रह्मचारीति । गुरोर्हितमिति षष्ठ्यैतदकरणेऽपि तस्य स्वतः सामर्थ्यं वर्तते तत्सम्पादने तथाऽप्येतत्सुकृतावाप्त्यै तदिति द्योतयति । अन्यथा चतुर्थी तदर्थार्थ बलिहितसुखरक्षितैरति ज्ञापिता । श्रूयेत । नीचोऽन्यभाववान् । भृत्यः नीचस्तु वामने पामरेऽपि चेति विश्वः । दीर्घो ह्रस्वीभूयंगता स्यादिति वा । दासवत् । स्वार्थे वतिः । गतेरर्थवत्त्वमिति यथा । यद्वा स्वयं दासवांश्चेदपि नीच इत्यैकपद्यम् । दानपात्रवदिति वा । ‘‘दासःशूरे दानपात्रे भृत्यधीवरयोरपी’’ति विश्वः । त्रिवारं गुरूदीरणा वक्ष्यमाणधर्ममध्ये कस्यचिन्न्यौन्येऽपि नाश्रमधर्मलोप इदं तु न सर्वथा त्याज्यमिति द्योतयितुमिति ज्ञेयम् ॥ १ ॥
मन्दनन्दिनी
वर्णधर्मानुक्त्वाऽऽश्रमधर्मान्विवक्षुराश्रमत्रयधर्मांस्तावदाह ॥ ब्रह्मचारीत्यादिना ॥ दान्तो निगृहीतेन्द्रियः । गुरोर्हितमाचरन् । मनोवाक्कायकर्मभिरिति शेषः । दासवन्नीचो भृत्यवद्गर्भदास-वद्वा नीचः । सुदृढं सौहृदं स्नेहो यस्य सः ॥ १ ॥
सायं प्रातरुपासीत गुर्वग्न्यर्कसुरोत्तमान् ।
सन्ध्ये उभे च यतवाग् जपन् ब्रह्म समाहितः ॥ २ ॥
सत्यधर्मीया
सुरोत्तमान् दिगादिदेवान् । ब्रह्म गायत्रीम् । यतवाक् समाहितो मनसा ॥ २ ॥
मन्दनन्दिनी
गुरूपदेशकम् । अग्निमग्निकार्यार्थमर्कं प्रातः सायं वरुणं चेति ग्राह्यम् । सुरोत्तमान् प्राच्यादिदिक्स्थितदेवान् । सन्ध्ये सन्ध्यादेवते । ब्रह्म गायत्रीं जपन् ॥ २ ॥
छन्दांस्यधीयेत गुरोराहूतश्च सुयन्त्रितः ।
उपक्रमेऽवसाने च चरणौ शिरसा नमेत् ॥ ३ ॥
सत्यधर्मीया
सुयन्त्रितोऽतिप्रह्वः । गुरोर् गुरुणेति वक्तव्ये गुरोरित्येकयोक्त्या चरणपदेनाप्यन्वयं बोधयति । षष्ठ्या बह्वर्थिकायाः कर्त्रर्थकता नानुपपन्ना ॥ ३ ॥
मन्दनन्दिनी
आहूतो गुरूणा । चरणौ । गुरोरिति शेषः ॥ ३ ॥
मेखलाजिनवासांसि जटादण्डकमण्डलून् ।
बिभृयादुपवीतं च दर्भपाणिर्यथोदितम् ॥ ४ ॥
सत्यधर्मीया
मेखला मुञ्जाकाञ्ची । ‘‘मेखला काञ्ची शैलनितम्बयोरि’’ति विश्वः । अजिनं कृष्णाजिनम् । वास उपरि परिधानीयम् । कमण्डलुः करकः । ‘‘कमण्डलुस्तु करक’’ इति विश्वः । यथोदितं समित्पाणिरित्यादि श्रुतिशंसितम् । यथा तथा पालाशो ब्राह्मणस्येत्यादिनियममनतिक्रम्य दण्डं बिभृयात् ॥ ४ ॥
मन्दनन्दिनी
वासमुपरिवस्त्रम् । यथोदितं शास्त्रोक्तम् ॥ ४ ॥
सायं प्रातश्चरेद् भैक्ष्यं गुरवे तन्निवेदयेत् ।
भुञ्जीत यद्यनुज्ञातो नो चेदुपवसेत् क्वचित् ॥ ५ ॥
पदरत्नावली
क्वचिद् अपराधे सति । एकान्नादनवर्जनार्थम् उपवसेदित्युक्तम् ॥ ५ ॥
सत्यधर्मीया
यद्यनुज्ञातस्तर्हि भुञ्जीत नो चेदननुज्ञाने उपवसेत् । तदपि न बहुलवमित्याह ॥ क्वचिदिति । कुतस्तथेत्यस्यापीदमेवोत्तरं क्वचिदिति । न चैकान्तमनश्नत इत्युक्तेर्बहुतिथमुपोषणे चिज्ज्ञानं क्वेति । ततः क्वचिदेवेत्यर्थः ॥ ५ ॥
मन्दनन्दिनी
नो चेदपराधादिनाऽनुज्ञातो नो चेत् । क्वचित्सायमाशे प्रातराशे वा ॥ ५ ॥
सुशीलो मितभुग् दक्षः श्रद्दधानो जितेन्द्रियः ।
यावदर्थं व्यवहरेत् स्त्रीषु स्त्रीनिर्जितेषु च ॥ ६ ॥
पदरत्नावली
स्वार्थमात्रसिद्धिस् तन्मात्रं यावदिति ॥ ६ ॥
सत्यधर्मीया
मितभुक् शरीरधारणोपयुक्तभक्तभोक्ता । स्त्रीषु स्त्रीनिर्जितेषु पुरुषेषु च । यावदर्थं यावत्प्रयोजनम् ॥ ६ ॥
मन्दनन्दिनी
यावदर्थं यावत्स्वप्रयोजनं गुरुप्रयोजनं वा । यावत्तावदेवेत्यर्थः । स्त्रीनिर्जितेषु स्त्रीवशेषु ॥ ६ ॥
वर्जयेत् प्रमदागाथामगृहस्थो बृहद्व्रतः ।
इन्द्रियाणि प्रमाथीनि हरन्त्यपि यतेर्मनः ॥ ७ ॥
पदरत्नावली
बृहद्व्रतो ब्रह्मचारी । स्त्र्यादिव्यवहारवर्जननिमित्तमाह– इन्द्रियाणीति ॥ निर्जितेन्द्रियग्रामो यतिः । ‘ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते’ इत्यभिधानात् ॥ ७ ॥
सत्यधर्मीया
अगृहस्थो ब्रह्मचारी बृहद्व्रतो बृहन्महद्व्रतमाश्रमधर्मो यस्य स तथा । स्त्र्यादि-गाथा कुतस्त्याज्याऽनेनेत्यत आह ॥ इन्द्रियाणीति । यतेरपीत्यन्वयः । निर्जितेन्द्रियः । (‘‘निर्जि-तेन्द्रियस्य’’ इति पाठः स्यात्) ‘‘ये निर्जितेन्द्रियग्रामा यतयो यतिनश्च त’’ इत्यमरः ॥ ७ ॥
मन्दनन्दिनी
प्रमदागाथां वनितागीताम् । बृहद्व्रत इन्द्रियनिग्रहवतः । अगृहस्थ इत्यने-नाश्रमत्रयस्याप्ययं निषेधः ॥ ७ ॥
केशप्रसाधनोन्मर्द्दस्नपनाभ्यञ्जनादिकम् ।
गुरुस्त्रीभिर्युवतिभिः कारयेन्नात्मनो युवा ॥ ८ ॥
पदरत्नावली
प्रसाधनं संस्करणम् । ‘मधुमांसोच्छुनोच्छिष्टं शुल्कस्त्रीप्राणिहिंसनम् । भास्करा-लोकनाशीलपरिवादांश्च वर्जयेत् ॥’ इत्यपव्याख्यानं न कर्तव्यम् ॥ ८ ॥
सत्यधर्मीया
युवा । अष्टवर्षस्योपनयनं तदनन्तरं द्वादशसंवत्सरमध्ययनं तत उत्तरं संवत्सर-पर्यन्तं स्नातकव्रतमिति क्रमात्तारुण्यं बोध्यम् । केशप्रसाधनं दान्तकंकतिकया शोधनम् । ‘‘प्रसाधनी कङ्कतिके’’त्यमरः । अनेन न जटानैय्यत्यमिति सूचयति । उन्मर्दः शरीरमर्दनम् । स्नपनं जलमात्रेण । ग्नास्नेति मित्वेणौमिति ह्रस्वे स्नपनम् । अभ्यञ्जनं तैलजलादिना । गुरुस्त्रीभिः सामान्यतो मान्यत्वात् । युवतिभिस्तरुणीभिः । ‘‘तरुणी युवतिः समे’’त्यमरः । यौति पत्या मिश्रीभवतीति । यु मिश्रणेऽ-स्मात्कनिन् । यूनस्तिरिति युवतिरिति ज्ञेयम् । आदिपदेन मध्वादिप्रवादान्तं मानिकं ग्राह्यम् ॥ ८ ॥
मन्दनन्दिनी
विशेषतो निषेधमाह ॥ केशेति ॥ स्नपनं स्नानकरणम् ॥ ८ ॥
नन्वग्निः प्रमदा नाम घृतकुम्भः पुमान् यतः ।
सुतामपि रहो जह्यादन्यदा यावदर्थकृत् ॥ ९ ॥
पदरत्नावली
कुतो न कार्यम् ? अत्राह– नन्विति ॥ अन्यदा व्यवहारयोग्यसमये ॥ ९ ॥
सत्यधर्मीया
कुत एतन्न कार्यमित्यत आह ॥ नन्विति । प्रमदाऽग्निर्घृतकुम्भसमः पुमान् । अतश्चित्तद्रवणं युक्तमिति भावः । तदर्थं सुतामपि रह एकान्ते जह्यात् तया सह न संवसेत् । अन्यदा व्यवहारकरणकाले । यावदर्थकृदुक्तमात्रकृत् । भवेदिति शेषः ॥ ९ ॥
मन्दनन्दिनी
कुत इत्युक्ते मनोद्रवणस्यानिवार्यत्वं रूपकेणाह ॥ नन्विति ॥ कैमुत्यसिद्ध्यर्थं निषेधांतरमाह ॥ सुतामपीति ॥ एतच्च गृहस्थविषयमितरस्याप्रसक्तेः । अन्यदा व्यवहारयोग्यसमये ॥९॥
कल्पयेदात्मनो यावदाभासमिदमीश्वरः ।
द्वैतं तावन्न विरमेत् ततो ह्यस्य विपर्ययः ॥ १० ॥
तात्पर्यम्
‘बहुत्वेनैव वस्तूनां यथार्थज्ञानमुच्यते । औतज्ञानमित्येतद् द्वैतज्ञानं तदन्यथा । यथाज्ञानं तथा वस्तु यथा वस्तु तथा मतिः ॥ नैव ज्ञानार्थयोर्भेदस्तत एकत्ववेदनम्’ इति च
॥ १० ॥
पदरत्नावली
ननु बन्धनिवृत्यर्थं भगवदर्पणबुद्ध्या धर्मोऽनुष्ठेय इति विधीयते । तस्य मिथ्यात्वेन स्वत एव निवृत्त्युपपत्तेर्न तद्विधानमत्रावश्यकमित्याशङ्क्य ईश्वरकल्पितस्य मिथ्यात्वासम्भवेन यद्बुद्ध्या यस्य शृृङ्खलाबन्धस् तस्य तत्प्रसादेन तन्निवृत्तिवद् ईश्वरप्रसादजनकधर्मग्रामो विधेयः । अन्यथा बन्धानु-त्थितिरित्याशयवान् तस्येश्वरकल्पितत्वमाह– कल्पयेदिति ॥ यावन्तं कालमीश्वर आत्मनो जीवस्य ज्ञानलक्षणरहितं नवदवभासमानम् इदमाभासम् अज्ञानं कल्पयेत् तावन्तं कालं द्वैतम् अयथार्थज्ञानं न विरमेन् नापगच्छेत् ततोऽज्ञानादस्य विपर्ययो बन्धः, अनुवर्तते इति शेषः । तदुक्तम्– ‘बहुत्वेनैव वस्तूनां यथार्थज्ञानमुच्यते । औतज्ञानमित्येव द्वैतज्ञानं तदन्यथा । यथा ज्ञानं तथा वस्तु यथा वस्तु तथा मतिः । नैव ज्ञानार्थयोर्भेदस्तत एकत्ववेदनम् ॥’ इति च । ननु वर्णादेर्विहितो धर्मग्रामः कियन्तं कालमनुष्ठेयः ? बहुसमयसाध्यत्वे दुःखप्रयासत्वेनाशक्त्याऽविरक्त्याऽनधिकारिकः स्यादित्याशङ्क्याह– कल्पयेदिति ॥ यावदीश्वर इदमाभासं मिथ्याभूतं जगत् कल्पयेत् तावद् द्वैतं वर्णाश्रमादिधर्मलक्षणं न विरमेन् नापगच्छेत् । ततोऽधिष्ठानज्ञानं स्यात् । ततो विहितधर्मग्रामस्य विपर्ययो निवृत्तिर् इत्ययमर्थो हिशब्दसूचितया ‘सत्यसृष्टावशक्ता हि मायासृष्टिं वितन्वते’ इति स्मृत्या विरुद्धत्वेनानुपपन्नः । ईश्वर इत्यनेन सत्यसृष्टिसामर्थ्यं सूचयति । तात्पर्येण विधानं चानुपपन्नं यत उक्त एवार्थः ॥ १० ॥
सत्यधर्मीया
कल्पयेदात्मनो यावदिति श्लोके यावद्यावत्पर्यन्तमीश्वरो जीवस्य स्वस्य द्वैतं भेदमाभासं मिथ्या न कल्पयेत्तावत्पर्यन्तं द्वैतं न विरमेन्नोपशमं व्रजेत् । तत्सत्तायत्तो जीवस्य विपर्ययो बन्धो द्वैतज्ञानेन तद्विपर्ययविपर्यय इति मोक्षसाधनमद्वैतज्ञानमित्यन्यथाप्रतीतिं प्रच्यावयितुमद्वैतज्ञान-विपरीतत्वेन द्वैतज्ञानस्य क्रामिकं बोधनं मान इति तन्निरूपणाधीननिरूपणत्वेनादावद्वैतपदार्थं मानेन दर्शयति ॥ बहुत्वेनेति । बहुत्वेन स्थितानां नानावस्तूनां यत्तेनैव प्रकारेण ज्ञानमिदमेव तद्वति तत्प्रकारकज्ञानत्वाद्यथार्थज्ञानमित्यद्वैतज्ञानमुच्यते । अन्यथाऽतस्मिंस्तत्प्रकारकज्ञानं विषयाननुरूप्येण द्वैतज्ञानमुच्यते । औतज्ञानं परिष्कृतं विवरितुमाह ॥ यथेति । तत एकत्ववेदनमित्युच्यत इत्यनुकर्षः । इति चेति तन्त्रमालायामुक्तेरित्यर्थः ॥ ततश्चायं श्लोकार्थः ॥ बन्धदन्धनार्थं किल धर्मोऽनुष्ठातव्य इव भगवत्यर्पणीयश्चेत्यर्थे कुटुम्बनिकरुम्बावलम्बो विना तत्सत्यतां नो युज्यते । तस्य मिथ्यात्वे स्वत एव विनाश्यत्वान्न तन्निवृत्त्यै तस्यानुष्ठेयतेति दूरवर्ति तदर्पणं चेत्यतो न भागवती सृष्टिरियं सत्येतरा सत्यसृष्टावशक्ता हि मायासृष्टिं वितन्वत इत्यादेरस्य चेश्वरत्वात्सृष्टो बन्धः सत्योऽतस्तन्निवृत्तौ तत्प्रसादासादको धर्मोऽनुष्ठेयः समर्पणीयश्चेति पर्यवसाययितुं तस्येश्वरकल्पितत्वमाह ॥ कल्पयेदिति । ईश्वरः सत्यसृष्टिक्षमो यावद्यावदवसरपर्यन्तमिदमाभासं यथार्थज्ञानवदवभासमानमज्ञानमात्मनो जीव-जातस्य कल्पयेत्तावत्क्लृप्त्यनुसारं द्वैतमयथार्थज्ञानं न विरमेन्नापगच्छेत् । ततस्तदवस्थितेरस्य जीवस्य विपर्ययो बन्धः सत्योऽतस्तदुच्छ्रित्त्याऽनुष्ठेयो धर्मस्समर्प्यश्च भगवतीति भावः । हिना विश्वं सत्य-मित्यादिमानसिद्धतां द्योतयति । आ अभासमिति छेदेनाज्ञानमिदमिति वा ॥ १० ॥
मन्दनन्दिनी
ननु बन्धनिवृत्त्यर्थं किल निवृत्तधर्मानुष्ठानम् । ज्ञानानन्दादिस्वरूपस्य जीवस्य तद्विपरीतदुःखादिलक्षणो बन्ध एव कुतः । न च स्वातन्त्र्यादिभ्रमाद्बन्ध इति वाच्यम् । तस्यापि स्वत एव विरामसम्भवादित्यत आह ॥ कल्पयेदिति ॥ आभास्यत इत्याभासमिदं शरीरादिकं यावदीश्वर आत्मनः स्वस्य कल्पयेत्सम्पादयेत्तावद्वैतं स्वातन्त्र्यभ्रमादिकं न विरमेन्न निरस्येत्ततो मिथ्याज्ञानादस्य ज्ञानानन्दादिस्वरूपस्य जीवस्य विपर्ययो दुःखादिलक्षणो बन्धोऽनुवर्तत इति योजना । यथा च भगवदिच्छयैव प्राप्तमिथ्याज्ञानादिनिबन्धनसत्यबन्धनिवृत्तेस्तत्प्रसादसाध्यत्वात्तत्प्रसादाय धर्मोऽनुष्ठेय इति भावः । अत्र द्वैतपदं मिथ्याज्ञानपरम् । द्विशब्दो विरुद्धवाची भावप्रधानश्च । तथा च द्वित्वेन विरुद्धत्वेन इतं युक्तं द्वीतम् । प्रज्ञादित्वात्स्वार्थे णिच् । तदेव द्वैतं विरोधश्चाविद्यमानाकारावगाहित्वेन । एवं सम्यग्ज्ञानमद्वैतमित्येकत्ववेदनमिति चोच्यते । एकत्वेनाविरद्धत्वेन युक्तं वेदनमेकत्ववेदनमिति मध्यम-पदलोपीसमासात् । तथा च द्वैतपदस्योक्तार्थमभिप्रेत्य तात्पर्यं प्रवृत्तम् । बहुत्वेनैव वस्तूनामित्यादि । वस्तूनां वस्तुतो बहूनामिति शेषः । एवमेकस्यैकत्वेनेत्यपि ध्येयम् । तथा च यद्वस्तुतो बहूनां वस्तूनां बहुत्वेनैवैकस्यैकत्वेनैव यथार्थज्ञानं तदैवाद्वैतज्ञानमुच्यते । औतं च तत्ज्ञानमिति विग्रहः । तदन्यथा बहूनामेकत्वेनैकस्य वा बहुत्वेन ज्ञानं तद् द्वैतज्ञानमुच्यते । यथा ज्ञानं येन प्रकारेण तथा तत्प्रकार-वद्वस्तु । यथा यत्प्रकारवद्वस्तु । तथा तत्प्रकारावगाहिनी मतिः । भेदो विरोधः । ततो विरोधाभावा-देकत्ववेदनमित्युच्यत इत्यर्थः ॥ १० ॥
एतच्चान्यद् गृहस्थस्य समाम्नातं यतेरपि ।
गुरुवृत्तिर्विकल्पेन गृहस्थस्यर्तुगामिनः ॥ ११ ॥
पदरत्नावली
नन्वयं धर्मो ब्रह्मचारिणो भवेत्, उतान्यस्यापि सम्भवति ? नाद्यः, अतिव्याप्तेः । न द्वितीयः । पृथग्विधानानुपपत्तेरित्यतोऽतिदेशन्यायेन यथासम्भवमन्यस्यापीत्याह– एतदिति ॥ अन्यद् वक्ष्यमाणम् । न केवलं गृहस्थस्यैव । किन्तु यतेरपीत्याह– यतेरपीति ॥ यथासम्भवमित्युक्तं विवृणोति– गुरुवृत्तिरिति ॥ गुरुवृत्तिर् गुरौ वासः । ब्रह्मचर्यं भिक्षावृत्तिरित्येतत् सर्वं गृहस्थस्य निवर्तत इत्यर्थः । विकल्पेन व्यवस्थितविकल्पेन उदितानुदितहोमवदित्यर्थः । कुतो निवर्तत इति तत्राह– ऋतुगामिन इति
॥ ११ ॥
सत्यधर्मीया
ब्रह्मचारित्वावस्थां विना कस्याप्याश्रमान्तरस्यासम्भावितत्वात्पूर्वमनुभूता एत एतदितरे च तदितरेषामपि गृहस्थादीनां योग्या इत्यतिदिशति ॥ एतदिति । अन्यद्वक्ष्यमाणं गृहस्थस्य यतेरपि समाम्नातं यथासम्भवं तच्च ज्ञेयम् । तद्व्यवच्छेद्यं दर्शयति ॥ गुरुवृत्तिरिति । ऋतुगामिनः प्रतिऋतु- भार्यागामिनो गृहस्थस्य गुरुवृत्तिः प्रागुक्तो गुरुकुलवासो ब्रह्मचर्यं भिक्षेत्येतदिका । विकल्पे व्यवस्थिते विकल्पे सत्यङ्गीक्रियमाणे न कर्तव्या नेत्यर्थः ।१ ऋतुगामित्वं तद्वृत्त्यपगमकमिति भावः ॥ ११ ॥
मन्दनन्दिनी
ब्रह्मचारिण उक्तधर्मं गृहस्थादिष्वतिदिशति ॥ एतदिति ॥ एतदुक्तं यथा सम्भवं गृहस्थस्येति । तेन भिक्षाचरणाग्निकार्यादेरभावः । तथा च ब्रह्मचारिणो विशिष्यधर्मोक्तिर्युक्ता । अन्यच्चान्यदपि यज्ञप्रजनातिथिभोजनादि । अनेन गृहस्थस्यापि विशिष्यधर्मोक्तिर्युक्तेति । यतेरपीत्यत्रापि यथा सम्भवं बोध्यम् । अग्निकार्यादेरभावात् । अन्यदपीत्यनुवर्तनीयम् । प्रणवजपलयन्यासादेर्विद्य-मानत्वात् । गृहस्थस्य गुरकुलवृत्तिर्विकल्पितेत्याह ॥ गुरुवृत्तिरिति ॥ ऋतुगामिन इत्यनेन तदनिषिद्ध-मिति सूचितम् ॥ ११ ॥
अञ्जनाभ्यञ्जनोन्मर्द्दस्त्र्यवलेपामिषं१ मधु ।
स्रग्गन्धलेपालङ्कारांस्त्यजेयुर्ये धृतव्रताः ॥ १२ ॥
पदरत्नावली
पञ्चयज्ञाद्याचरणायासेन कालयापनं कुर्वतो गृहस्थस्यापि व्रतधारणे ब्रह्मचारिवद-भ्यञ्जनादिकं वर्जनीयमित्याह– अञ्जनेति ॥ अवलेपं दर्पम् ॥ १२ ॥
सत्यधर्मीया
गृहस्था अपि व्रतस्थाश्चेद्ब्रह्मचारिवदेव वर्जनीयैतत्का इत्याह ॥ अञ्जनेति । अञ्जनं नयनयोः कज्जलसमासज्जनम् । अभ्यञ्जनं तैलाभ्यङ्गादि । अञ्जनमञ्ज्यतेऽनेनेत्यञ्जनं तैलादि तेनाभ्यञ्जनमिति वा । स्त्रीचावलेपो दर्पश्च । ‘‘अवलेपस्तु गर्वे स्याल्लेपने दूषणेऽपि चे’’ति विश्वः । स्त्र्यवलेखेति सुखेन पठन्तु । तत्र स्त्रीप्रतिमा चित्रिता स्त्रीकृतचित्रणं वाऽर्थः । स्त्री चावलेप इतरदूषणं चेति वा । आमिषं मांसं मधु मद्यम् । द्वन्द्वैकवद्भाव उत्तरपदलोपीसमासः । स्रक् माला गन्धलेपो गन्धानां लेपोऽलङ्कारांश्च ये धृतव्रतास्ते त्यजेयुः ॥ १२ ॥
मन्दनन्दिनी
विकल्पश्च व्यवस्थित इत्याह ॥ अञ्जनेति ॥ ये गुरुकुले धृतव्रता ब्रह्मचारिवत्सङ्कल्पितव्रतास्तदांऽजनादींस्त्यजेयुः । यदि न धृतव्रतास्तदा कुर्युर्वा । स्त्र्यवलेपो मदकारी स्त्रीभोगार्थं सेवनीयः पदार्थः । आमिषं फले जम्बीरम् । धान्ये माषादि ॥ १२ ॥
उषित्वैवं गुरुकुले द्विजोऽधीत्यावबुध्य च ।
त्रयीं साङ्गोपनिषदं यावदर्थं यथाबलम् ॥ १३ ॥
पदरत्नावली
अवबुद्ध्य अर्थविचारं कृत्वा तत्त्वं ज्ञात्वा ॥ १३ ॥
सत्यधर्मीया
एवमुक्तप्रकारेण गुरुकुले उषित्वा वासं कृत्वा साङ्गाः शिक्षाकल्पादिभिरुपेता उपनिषदस्ताभिः सहितां त्रयीं वेदमधीत्य द्विजो जन्मनोपनयनेन चेति द्विजोऽवबुध्य यावदर्थं स्वाधिकारानुसारमत्यर्थं विचार्य ॥ १३ ॥
मन्दनन्दिनी
गुरुकुलवासानान्तरं कर्तव्यमाह ॥ उषित्वेति ॥ अधीत्याक्षरावाप्तिफलकमध्ययनं कृत्वा यावदर्थं योग्यार्थं यथाबलं यथाबुद्धिबलम् । अवबुध्य विचार्य ॥ १३ ॥
दत्वा वरमनुज्ञातो गुरोः कामं यदीश्वरः ।
गृहं वनं वा प्रविशेत् प्रव्रजेत् तत्र वाऽवसेत् ॥ १४ ॥
तात्पर्यम्
गुरोराज्ञानुरोधेन दूरस्थो वा गृही भवेत्’ इति च ॥ १४ ॥
पदरत्नावली
गार्हस्थ्यधर्मस्य वानप्रस्थधर्मस्य यतिधर्मस्य चानुष्ठानेन समर्थश्चेदेष्वभीष्टं कुर्या-दित्याह– यदीति ॥ ‘न्ैष्ठिको ब्रह्मचारी तु वसेदाचार्यसन्निधौ । तदभावेऽस्य तनये पत्न्यां वैश्वानरेऽपि च ॥’ इति वचनाद् एतादृशस्य गुरौ वासोऽनुज्ञायते । अन्यस्य तु गुरोराज्ञया दूरं गत्वा गृहस्थाश्रम इति । तदुक्तम्– ‘गुरोराज्ञानुरोधेन दूरस्थो वा गृही भवेत्’ इति चेति ॥ १४ ॥
सत्यधर्मीया
दत्वा वरमिति श्लोके गुरोरनुज्ञातो ब्रह्मचारी यदि शक्तस्तर्हि कामं स्वेच्छयैव गृहं वा गहनं (गह्वरं) वा प्रविशेदिति तदाज्ञानपेक्षयैव विशेषाश्रमस्वीकार इति भ्रमभ्रंशं काममित्यस्य गुरुपदेनान्वयमर्थाच्छंसन्मानमुदाहृत्यातनोति ॥ गुरोरिति । गुरोराज्ञानुरोधेन तदनुसारेण दूरस्थो कान्तारस्थो गृही गृहस्थो भवेत् । मूले गृहं वनं वेति सति माने दूरस्थो गृहीति विश्वासातिशयं प्रकटयितुं कठिणपुरस्कृतिरनेनैव तत्र वनं वा गृहं वेत्यन्वयकरणीयताऽसूचीति मन्तव्यम् ॥ ततश्चायं श्लोकार्थः ॥ अनुज्ञात इति । पञ्चमी प्रथमा वा । वरं तद्वरं दत्वा गुरोः कामं तदिच्छामनुसृत्य यदीश्वर उक्तवक्ष्यमाणकार्यानुगुणसामर्थ्यवान्वनं गृहं वा प्रविशेत् । तत्र गुरुसमीपे वा वसेत् । प्रव्रजेद्वा । ‘‘नैष्ठिको ब्रह्मचारी तु वसेदाचार्यसन्निधौ । तदभावेऽस्य तनये पत्न््नयां वैश्वानरेऽपि वेति गुरुवासोऽपी-दृशस्यानुमतोऽन्यस्य वनं वेत्याद्युक्तो वास इति विवेकः ॥ १४ ॥
मन्दनन्दिनी
गुरोः काममपेक्षितं वरं दक्षिणां दातुं यदीश्वरस्तर्हि दत्वा गृहस्थाश्रम् । वनं वानप्रस्थाश्रमं वा प्रविशेत् । प्रव्रजेद्वा । नैष्ठिकः स्यात्तत्रैव गुरुकुल एव वासयेदिति योजना । नैष्ठिको ब्रह्मचारी तु वसेदाचार्यसंनिधौ । तदभावेऽस्य तनये पत्न््नयां वैश्वानरेऽपि च’’ ॥ इति वचनात् । नैष्ठिकादन्यस्य तु दूरस्थस्य गुरुकुलादन्यत्रस्थस्य गृहाश्रमादि ज्ञेयम् ॥ तदुक्तं तात्पर्ये ॥ गुरोराज्ञेत्यादि
॥ १४ ॥
अग्नौ गुरावात्मनि च सर्वभूतेष्वधोक्षजम् ।
भूतैः स्वधामभिः पश्येदप्रविष्टं प्रविष्टवत् ॥ १५ ॥
तात्पर्यम्
‘अप्रविष्टः सर्वगतः प्रविष्टस्त्वनुरूपवान् । एवं द्विरूपो भगवान्हरिरेको जनार्दनः’ इति च ॥ १५ ॥
पदरत्नावली
भगवदर्पणबुद्ध्याऽग्न्यादौ क्रियमाणं कर्म तस्य (सान्निध्य)बुद्ध्या कर्तव्यं,न तु तदैक्यबुद्ध्येत्याशयेनाह– अग्नाविति ॥ ‘स गुरुर्यः क्रियाः कृत्वा वेदमस्मै ददाति च । उपनीय वदेद् वेदमाचार्यः स उदाहृतः । एकदेश उपाध्याय ऋत्विक् यज्ञकृदुच्यते ॥ एते मान्या यथापूर्वमेभ्यो माता गरीयसी ॥’ इति वचनाद् गुरुशब्देन सर्वे एते विवक्ष्यन्ते । स्वधामभिर् आवासस्थानभूतैः । अप्रविष्टं सर्वगतं प्रविष्टवत् स्थितम् अनुरूपवन्तम् । ‘अप्रविष्टः सर्वगतः प्रविष्टस्त्वनुरुपवान् । एवं द्विरूपो भगवान् हरिरेको जनार्दनः ॥’ इति वचनात् ॥ १५ ॥
सत्यधर्मीया
अग्नौ गुरावात्मनि चेति श्लोके लोकेशस्याप्रविष्टत्वं तत्त्वतः प्रविष्टत्वं त्वतत्त्वत इति भाति । तच्च योऽग्नौ तिष्ठन्नग्नेरन्तर इत्यादिमानविमानितमतः कथमित्यतस्तत्तात्पर्यमाचार्यः प्रमाणे-नैव दर्शयति ॥ अप्रविष्ट इति । सर्वगतो व्याप्तस्तेन रूपेणाप्रविष्टोऽपरिच्छिन्नत्वात् । अनुरूपवांस्त-त्तत्पदार्थरूपसदृशरूपवानन्तर्गतेन रूपेण प्रविष्टः । एवमपरिच्छिन्नपरिच्छिन्नत्वेन द्वे रूपे विशेषवशेन तत्त्वव्यवहारभागिनी यस्य स तथा । एकोऽन्तर्भेदहीनः ॥ अथ मूलार्थः ॥ अग्नौ गुरौ ‘‘असंशयः संशयच्छिद्गुरुरुक्तो मनीषिभिः । स गुरुर्यः क्रियाः कृत्वा वेदमस्मै ददाति च । उपनीय वदेद्वेदमाचार्यः स उदाहृतः । एकदेश उपाध्याय ऋत्विग्यज्ञकृदुच्यते । एते मान्या यथा पूर्वमेभ्यो माता गरीयसि’’ इत्यादिवचनाद्गुरौ तज्जात्यवच्छिन्ने वन्हौ चेति क्रियावानप्रबुद्धोऽपि । भूतैः । भू च बहौ बहुः पूर्णताया-मित्युक्तेर्व्याप्तैः स्वधामभिः स्वाश्रयैरप्रविष्टं भूतैस्तदाद्यैः स्वधामभिः स्वाश्रयभूतैः प्रविष्टवत्प्रविष्टमधोक्षजं पश्येत् । योगी आत्मनि स्वहृदये । पूर्ववदुर्वरितमत्रेवोत्तरत्रापि ज्ञेयम् । सर्वभूतेषु विदितात्मा । ‘‘अग्नौ क्रियावतां विष्णुर्योगिनां हृदये हरिः । प्रतिमास्वप्रबुद्धानां सर्वत्र विदितात्मनाम्’’ इत्यादेः ॥ १५ ॥
मन्दनन्दिनी
गुर्वग्न्यर्कसुरोत्तमानुपासीदित्यादौ गुर्वाद्युपासनमुक्तम् । तद्गुर्वादावधोक्षज संनिधानदर्शनपूर्वमेवेत्याह ॥ अग्नाविति ॥ अप्रविष्टं सर्वगतं भूतैः प्रभूतैः स्वधामभिः स्वसामर्थ्यैः । प्रविष्टवत् । नित्यवच्छ्रवणमित्यादौ इव स्वार्थे वतिः । प्रविष्टमनुरूपवन्तं तत्तद्धृदयान्तर्गतरूपवन्तमधोक्षजं पश्येदिति योजना । अप्रविष्टादि पदार्थस्तु अप्रविष्ट इत्यादि तात्पर्ये द्रष्टव्यः ॥ १५ ॥
एवंविधो ब्रह्मचारी वानप्रस्थो यतिर्गृही ।
परं विन्दति विज्ञानं परं ब्रह्माधिगच्छति ॥ १६ ॥
पदरत्नावली
एवमाकारेण क्रियमाणस्य कर्मणः फलमाह– एवंविध इति ॥ १६ ॥
सत्यधर्मीया
एवंविध इति ब्रह्मचार्यादिचतुष्टयविशेषणम् । स्वस्वयोग्यकर्मकृत् । परं विज्ञानम-परोक्षज्ञानं विन्दति । तदनन्तरं परम्ब्रह्म परमात्मानमधिगच्छति प्राप्नोति ॥ १६ ॥
मन्दनन्दिनी
उक्तधर्मवतां फलमाह ॥ एवमिति ॥ परं विज्ञानमपरोक्षज्ञानं विन्दन्ति । अनन्तरं परं ब्रह्माधिगच्छतीति योजना ॥ १६ ॥
वानप्रस्थस्य वक्ष्यामि नियमान् मुनिसंमतान् ।
यानातिष्ठन् मुनिर्गच्छेद् ऋषिलोकमिहाञ्जसा ॥ १७ ॥
पदरत्नावली
ब्रह्मचारिवानप्रस्थनियमानां कृच्छ्रसाध्यत्वेन साम्यात् प्रथमाश्रमधर्मकथनानन्तरं वानप्रस्थधर्मानाह– वानप्रस्थस्येति ॥ ऋषेः सर्वज्ञस्य लोकं वैकुण्ठम् । ‘त्वमग्रे प्रथमोऽङ्गिरा ऋषिः’ इति श्रुतेः । ‘ऋषिर्हरौ तापसे च ज्ञानवत्यपि कीर्तितः’ इति च ॥ १७ ॥
सत्यधर्मीया
ब्रह्मचार्याचारवद्दुःखसाध्याचारत्वेन तन्निरूपणानन्तरमवसरप्राप्तवानप्रस्थधर्मानाह ॥ वानप्रस्थस्येति । यान् धर्मानिहातिष्ठन्मुनिः । अञ्जसेति ऋषिपदात्पूर्वं योजनीयम् । अञ्जसा ऋषिः सर्वज्ञो हरिस्तल्लोकं वैकुण्ठमञ्जसा ऋषिरुत्तमदेवो ऋषिलोकं प्रकाशमानं लोकमिति । ‘‘ऋषिर्देवे वसिष्ठादौ दीधितावपि पठ््यत’’ इति विश्वः । ‘‘ऋषेर्हरेरिति वा । ऋषिर्हरौ तापसे च ज्ञानवत्यपि कीर्तित’’ इति कीर्तयन्ति । त्वमग्ने प्रथमोऽङ्गिरा ऋषिर्देवानामित्यृग्भाष्ये ज्ञानत एव चर्षिरित्युक्तेः । ऋषि गतावित्यस्मादिगुपधात् क्तिच्चेतीन्प्रत्यये तस्य किद्वद्भावोक्तेर्गुणाभावे च निष्पन्नस्यर्षिशब्दस्य ज्ञानित्वमर्थ इति तट्टिपणोक्तेश्च । असाधारण्येन व्यपदेशन्यायेन भाष्यमिति भावः ॥ १७ ॥
मन्दनन्दिनी
वानप्रस्थधर्मानाह ॥ वानप्रस्थेति ॥ ऋषिलोकं सप्तर्षिलोकम् ॥ १७ ॥
न कृष्टपच्यमश्नीयादकृष्टं वाऽप्यकालतः ।
अग्निपक्वमथामं वा अर्कपक्वमुताहरेत् ॥ १८ ॥
पदरत्नावली
कृष्टपच्यं कर्षणादिना पक्वं व्रीह्यन्नम् । अकालतः विहितकालमुल्लङ्घ्य । आमम् अग्न्यादिनाऽनाप्तपाकम् आमलकादि ॥ १८ ॥
सत्यधर्मीया
कृष्टपच्यं कर्षणपक्वं नाश्नीयान्न भक्षयीत । तर्ह्यकृष्टस्य सर्वदाऽभ्यनुज्ञानं किमित्यत आह ॥ अकृष्टमपीति । अकालतः कालमुल्लङ्घ्य । आममामलकादिकम् ॥ १८ ॥
मन्दनन्दिनी
कृष्टपच्यं कर्षणादिना भूम्यादौ जायमानं धान्यादिकम् । अकृष्टमप्यकालतो जायमानम् । अग्निपक्कं वा नाश्नीयादिति योजना । आमं वाऽर्कपक्वमुत वाऽऽहरेदिति योजना ॥ १८ ॥
वन्यैश्चरुपुरोडाशान् निर्वपेत्कालचोदितान् ।
लब्धे नवे नवान्नाद्ये१ पुराणं तु परित्यजेत् ॥ १९ ॥
पदरत्नावली
वन्यैर् देवव्रीह्यादिभिः । कालचोदितान् तत्तत्कालविहितान् ॥ १९ ॥
सत्यधर्मीया
वन्यैर्वनभवैर्दीर्घशूकादिकैः । कालचोदितांस्तत्तत्कालोक्तान् । नवे नवान्नाद्ये लब्धे उक्तरूपे पुराणं पूर्वं सङ्गृहीतं परित्यजेत् ॥ १९ ॥
मन्दनन्दिनी
वन्यैरारण्यकैर्देवव्रीह्यादिभिः । तदलाभेऽन्येन वा येन केनचिल्लब्धेन काल-चोदितान् दर्शपूर्णमासादिकाले विहितान् चरुपुरोडाशादीन्निर्वपेत् । पुराणं जीर्णं तु परित्यजेदिति योजना ॥ १९ ॥
अग्न्यर्थमेव शरणमुटजं वाऽद्रिकन्दरम् ।
श्रयेत हिमवाय्वग्निवर्षार्कातपनान् स्वयम् ॥ २० ॥
पदरत्नावली
अग्न्यर्थम् अग्निरक्षणार्थम् । उटजं पर्णशालाम् । शरणं गृहम् अन्यदा हिमादिकं श्रयेत । आतपनम् आतपः ॥ २० ॥
सत्यधर्मीया
अग्न्यर्थमाशुशुक्षणि संरक्षार्थम् । शरणं गृहम् । तत्किमात्मकमित्यत आह ॥ उटजं वाऽद्रिकन्दरं वाश्रयेतेति । ‘‘पर्णशालोटजोऽस्त्रियामि’’त्यमरः । उटजस्तृणपर्णादिरिति देशी-कोशादुटजाज्जायते । अन्यत्रापीति डः । आतपनस्तापः । ‘‘तपनस्तरणौ तापे भल्लाते नरकान्तर’’ इति विश्वः । श्रयेत सहेतेत्यर्थः ॥ २० ॥
मन्दनन्दिनी
अग्न्यर्थमेवाग्निरक्षणार्थमेवोटजं पर्णशालामद्रिकन्दरं वाऽऽश्रयेत् । स्वयं तु हिमादींस्तत्सहनवान् भवेदिति योजना ॥ २० ॥
केशरोमनखश्मश्रुमलानि जटिलो दधत् ।
कमण्डल्वजिने दण्डवल्कलाग्निपरिच्छदान् ॥ २१ ॥
पदरत्नावली
अग्निपरिच्छदा दर्भादयः ॥ २१ ॥
सत्यधर्मीया
केशाः शिखाः । रोमाणि उरःस्थितानि । श्मश्रूणि मुखगानि । मलमेषु वा स्वतन्त्रं गात्राप्रक्षालनेन वा तानि दधत् । जटिलो जटावान् । ‘‘जटिलस्तु जटायुत’’ इति विश्वः । इलजन्तः । ‘‘वल्कलं चीरवासो वलतेर्बाहुलकात्कलः । वल्को वल्कलमस्त्रियाम्’’ इत्यमरः । वल्कं लातीति वा । अग्निपरिच्छदानरण्यादीन् दधत् ॥ २१ ॥
मन्दनन्दिनी
केशान् शिरसि विद्यमानान् रोमाणि कक्षोपस्थादौ विद्यमानान्नखान् श्मश्रूणि मुखे विद्यमानानि । एतद्रूपाणि मलानि देहसम्पृक्तमृदं वा । एवं कमण्डल्वादीनि वल्कलानि परिधानयोग्यानि वृक्षत्वग्रूपाणि । अग्निपरिच्छदान् दर्भान् दधत् ॥ २१ ॥
चरेद् वने द्वादशाब्दानष्टौ वा चतुरो मुनिः ।
द्वावेकं वा यथाबुद्धिर्न विपद्येत कृच्छ्रतः ॥ २२ ॥
पदरत्नावली
न विपद्येत क्लिष्टो न भवेत् ॥ २२ ॥
सत्यधर्मीया
द्वादशाब्दान् वत्सरान् । यथायथमन्वेत्यब्दपदम् । बुद्धिः कृच्छ्रतो यथा न विपद्येत न भवेन्नष्टा तथाचरेत् ॥ २२ ॥
मन्दनन्दिनी
मुनिर्वनस्थो बुद्धिः कष्टतो यथा न विपद्येत । तथा द्वादशाब्दानष्टौ चतुरो वा द्वावेकं वा वने चरेदिति श्लोकद्वययोजना ॥ २२ ॥
यदाऽकल्पः स्वक्रियायां व्याधिभिर्जरयाऽथवा ।
आन्वीक्षिक्यां च विद्यायां कुर्यादनशनादिकम् ॥ २३ ॥
पदरत्नावली
अकल्पो ऽसमर्थः । आन्वीक्षिक्याम् आत्मविचारलक्षणायाम् अनशनम् अशनत्यागः । तत्राशक्तौ मासे गते पक्षे वा दिवसे वाऽश्नीयादित्यादिकमादिपदेन गृहीतम् । यथाऽऽह याज्ञवल्क्यः– ‘पक्षे गते वा प्राश्नीयान्मासे वाऽहनि चागते’ इति ॥ २३ ॥
सत्यधर्मीया
अकल्पोऽदक्ष आन्वीक्षिक्यां विद्यायाम् अनु श्रवणोत्तरमीक्षेक्षणमन्वीक्षा सा प्रयोजनमस्यास् तदस्य प्रयोजनमिति ठक् । ‘‘आन्वीक्षकी दण्डनीतिस्तर्कविद्ये’’त्यमरः । निरर्थिकाया आन्वीक्षिक्या इतरेयमिति ज्ञेयम् । दण्डश्च भगवांस्तन्नीतिरान्वीक्षकी । यथोक्तं शान्तौ राजधर्मेषु दण्डप्रजागरे भीष्मेण । ‘‘दण्डो हि भगवान् विष्णुर्यज्ञो नारायणः प्रभुः’’ इति । ‘‘दण्डनीतिर्जगद्धात्री दण्डो हि बहुविग्रह’’ इति च ब्रह्ममीमांसायाम् । तदाऽनशनादिकं कुर्यात् । आदिपदेन तत्रासामर्थ्ये मासे पक्षेऽहनि वाऽशनं कुर्यात् । यथोक्तं याज्ञवल्क्येन । ‘‘पक्षे गते वा प्राश्नीयान्मासे वाऽहनि चागत’’ इति ॥ २३ ॥
मन्दनन्दिनी
उक्तो वनस्थो यदा व्याधिभिर्जरया वा स्वक्रियायामग्निहोत्रेष्ट्यादि क्रियाया-मान्वीक्षिक्यां ब्रह्मापरोक्षहेतुभूतायां विद्यायां ब्रह्मविद्यायां तदुपदेशेऽकल्पोऽसमर्थस्तदा प्राणांस्त्यक्तु-मनशनादिकं कुर्यात् ॥ २३ ॥
आत्मन्यग्नीन् समारोप्य संन्यस्याहं ममात्मताम् ।
कारणेषु न्यसेत् सम्यक् सङ्घातं तु यथार्हतः ॥ २४ ॥
तात्पर्यम्
‘कार्यस्य कारणलयज्ञानमात्रं विलापनम्’ इति च ॥ २४ ॥
पदरत्नावली
म्रियमाणेन पुरुषेणाध्यात्मं कार्यकारणजातं यत् तत्रेदं कार्यमेतस्मिन् कारणे विलीयत इति ध्यानं कर्तव्यमित्यभिप्रायेणाह– कारणेष्विति ॥ सङ्घातं कार्यजातम् । न्यासो ज्ञानपूर्वकं ध्यानम् । ‘कार्यस्य कारणलयज्ञानमात्रं विलापनम्’ इति वचनात् ॥ २४ ॥
सत्यधर्मीया
कारणेषु न्यसेत्सम्यगिति श्लोके कारणेषु सङ्घातं न्यसेदित्युक्तम् । न्यसनं किंरूप-मित्यतस्तदर्थं कथयन्मानमुदाहरति ॥ कार्यस्येति । सङ्घातमित्यस्य कार्यमित्यर्थः । कारणे लयज्ञानमात्रं न्यासशब्दार्थो विलापनमिति ॥ ततश्चायं श्लोकार्थः ॥ वानप्रस्थस्यानशनादिके कर्तव्ये तत्प्राक्कर्तव्यमाह ॥ आत्मनीति । अग्नीन्गार्हपत्यादीनात्मनि स्वस्मिन्नारोप्य देहगेहादावहंममात्मतां सन्न्यस्य त्यक्त्वा कारणेषु सङ्घातं कार्यम् । यथार्हतस्तत्तत्कार्यं तत्तत्कारणेषु सम्यङ्न्यसेल्लापयेत् । तत्र लीयते तदधीनं चेति सम्यक् चिन्तयेत् । कारणे लापयेदिति क्वचित्पाठः । स च विलापनमिति तात्पर्यश्लिष्ट इति श्लाघिष्ठ इति केचित् ॥ २४ ॥
मन्दनन्दिनी
अग्नीनाहवनीयादीन् आत्मनि देहे आरोप्याहं ममात्मतामहं स्वतन्त्रो ममेदं शरीरादिकमित्यहङ्कारममकारौ सन्न्यस्य सन्त्यज्य सङ्घातं कार्यम् । यथार्हतो यथायोग्यं कारणेषु सम्यक् न्यसेत् । तत्र लीनं चिन्तयेत् । यद्यपि योगिमृतकाले लयो नास्ति तथाऽपि तदज्ञानमेव विलापनम् । तदुक्तं तात्पर्ये ॥ यदज्ञानमित्यादि ॥ २४ ॥
खे खानि वायौ निःश्वासान् तेजस्यूष्माणमात्मवान् ।
अप्स्वसृक्श्लेष्मपूयानि क्षितौ शेषं यथोद्भवम् ॥ २५ ॥
पदरत्नावली
यथार्हत इत्युक्तं विवृणोति– खे खानीति ॥ खे आकाशे खानि शरीरा-वच्छिन्नाकाशानि श्वासं शरीरवायुं बाह्यवायौ । शारीरमूष्माणं कारणतेजसि । आत्मवान् परमात्म-ज्ञानवान् । वशीकृतमना वा । श्लेष्मपूयासृक्कार्याणि अप्सु लीयन्त इति चिन्तयेत् । शेषं गन्धं क्षितौ । नन्वाकाशादेर्लाघवादीनामुत्पत्तेः कथमीयतामेव लयश्चिन्त्यत इति तत्राह– यथोद्भवमिति ॥ ‘आकाश-ल्लाघवं सौक्ष्म्यं शब्दं श्रोत्रं तथा बलम् । वायोस्तु प्रेरणा चेष्टा व्यूहनं सौक्ष्म्यमेव च । अग्नेस्तु दर्शनं शक्तिरौष्ण्यं रूपप्रकाशनम् । रसेभ्यो रसनं शैत्यं स्नेहक्लेदनमार्दवम् । भूमेर्गन्धस्तथा घ्राणं गौरवं मूर्तिरेव च ॥’ इति वचनात् । उत्पत्त्यनुसारेण लयश्चिन्तनीय इत्यर्थः ॥ २५ ॥
सत्यधर्मीया
यथार्हत इत्युक्तं विशदयति ॥ ख इति । खे आकाशे खानि शरीराकाशानि । निःश्वासं शारीरं वायुं वायौ बाह्यो ऊष्माणं तेजसि । आत्मवान्मनस्वी । असृक्श्लेष्मपूयान्यप्सु । क्षितौ शेषं गन्धम् । लाघवादीनामाकाशोत्पन्नत्वात्कुतस्तदनुक्तिरित्यत आह । यथोद्भवम्– ‘‘आकाशाल्लाघवं सौक्ष्म्यं शब्दं श्रोत्रं तथा बलम् । वायोस्तु प्रेरणा चेष्टा व्यूहनं सौक्ष्म्यमेव च । अग्नेस्तु दर्शनं शक्तिरौष्ण्यं रूपप्रकाशनम् । रसेभ्यो रसनं शैत्यं स्नेहक्लेदनमार्दवम् । भूमेर्गन्धस्तथा घ्राणं गौरवं मूर्तिरेव च’’ इति वचनादुत्पत्त्यनुसारेण लयश्चिन्तनीय इत्यर्थः ॥ २५ ॥
मन्दनन्दिनी
तदेव विवृणोति ॥ ख इति ॥ खानि मुखनासिकाश्रोत्रोदरविवराणि । आत्म-वान् जितमनस्कः । शेषमुक्तादन्यत्कठिणभागशरीरं यथोद्भवं कार्यकारणभावमनुसृत्य । अनेनान्येषामपि पञ्चभूतकार्याणां लाघवादीनामाकाशादिषु लयसङ्ग्रहो वचनान्तरानुसारात्सूचितः ।
वचनन्तु–
आकाशाल्लाघवं सौक्ष्म्यं शब्दं श्रोत्रं तथा बलम् ।
वायोस्तु प्रेरणा चेष्टा व्यूहनं सौक्ष्म्यमेव च ।
अग्नेस्तु दर्शनं शक्तिरौष्ण्यं रूपप्रकाशनम् ।
रसेभ्यो रसनं शैत्यं स्नेहक्लेदनमार्दवम् ।
भूमेर्गन्धस्तथा घ्राणं गौरवं मूर्तिरेव च ॥
इति टीकायामुदाहृतम् ॥ २५ ॥
वाचमग्नौ सवक्तव्यमिन्द्रे शिल्पं करावपि ।
पदानि गतिभिर्विष्णौ रत्योपस्थं प्रजापतौ ॥ २६ ॥
पदरत्नावली
इदानीं वागादीन्द्रियाणामग्न्यादिदेवताधीनत्वमपि चिन्तनीयमित्याह– वाच-मिति ॥ सवक्तव्यमिति क्रियाविशेषणम् । प्रजापतौ दक्षे । ‘यथास्थानमित्यनेनाभिमानिनामभिमन्यमानानां तत्तदुत्पत्तिकारणमनुसृत्येत्युच्यते । सनादेन श्रोतव्येन सह । त्वचं त्वगिन्द्रियं स्पर्शेन सह, वायाविति शेषः । ज्योतिषि आदित्ये निवेशयेन् निविशतीति चिन्तयेत् ॥ २६ ॥
सत्यधर्मीया
इदानीं वागादीन्द्रियाणामग्न्यादिदेवताधारत्वमपि चिन्तनीयमित्याह ॥ वाचमिति । सवक्तव्यामिति पाठे क्रियाविशेषणम् । विशेषणं च वाचः सवक्तव्यमिति पाठ इति ज्ञेयम् । इन्द्रे शिल्पं करव्यापारम् । करावपि गतिभिर्गमनादिभिः कार्यैः सह पदानि पादौ अङ्गुल्याद्यवयवविवक्षया पदानीति बहुवचनम् । त्रिपादबहुपादसङ्ग्रहार्थं पदानीति बहुवचनं वा । ज्वरस्त्रिपाद इत्यादेः । विष्णौ यज्ञे । गतिभिः पदानि वयसीत्यपि क्वचित्पाठः । तत्र द्वासुपर्णा द्विखग इत्यादेर्वयोरूपिणि हरावित्येवार्थः । रत्या सहोपस्थं गुह्येन्द्रियं प्रजापतौ दक्षे ॥ २६ ॥
मन्दनन्दिनी
देहभागानां पञ्चभूतकार्याणां तत्तल्लयमुक्त्वा कर्मेन्द्रियाणां सव्यापाराणा-मभिमानिदेवतासु अधीनत्वरूपलयचिन्तनमाह ॥ वाचमिति ॥ सवक्तव्यमिति क्रियाविशेषणम् । वाचं वक्तव्यं स्वहितं यथास्थानम् । अधिष्ठातृतया स्वस्थितिमनुसृत्याग्नौ विनिर्दिशेत् । तदधीनत्वरूपलयं चिन्तयेदिति योजना । एवमुत्तरत्रापि दक्षापेक्षयेन्द्रस्य मुख्याभिमानित्वादिन्द्रे शिल्पं करावपीत्युक्तम् । विष्णौ दक्षिणपादाभिमानिनि जयन्ते एकम् । वामपादाभिमानिशम्भावित्यपि ज्ञेयम् । प्रजापतौ दक्षे तत्समे मनौ चेति ग्राह्यम् । तेन न प्रसिद्धिविरोधः ॥ २६ ॥
मित्रे पायुं विसर्गं च यथास्थानं विनिर्दिशेत् ।
दिक्षु श्रोत्रं स नादेन स्पर्शेनाध्यात्मनि त्वचम् ॥ २७ ॥
सत्यधर्मीया
मित्रे पायुं विसर्गं मेहनं च । यथास्थानमभिमानिष्वभिमन्यमानानां जनकेषु जन्यानां चेति यथास्थानं विनिर्दिशेत् । स वनगो नादेन शब्देन सह श्रोत्रं दिक्षु । स्पर्शेन सह त्वचं त्वगिन्द्रियम् । अध्यात्मनि वायौ ॥ २७ ॥
मन्दनन्दिनी
मित्रे तन्नामके सूर्ये । मृत्याविति पाठे मृत्युपदेन मित्र एवान्यो वा कश्चन देव इति ज्ञातव्यम् । ज्ञानेन्द्रियाणां यथास्थानं देवतासु लयमाह ॥ दिक्ष्विति ॥ सनादेन श्रोतव्येन । अध्यात्मनि प्राणे । तस्यैव त्वगभिमानितयाऽऽत्मशब्दवाच्यसर्वदेहव्यापित्वात् ॥ २७ ॥
रूपाणि चक्षुषा राजन् ज्योतिष्यभिनिवेशयेत् ।
अप्सु प्रवेशयेद् जिह्वां घ्रेयैर्घ्राणं क्षितौ न्यसेत् ॥
मनो मनोरथैश्चन्द्रे बुद्धिं बोध्यैः कवौ परे ॥ २८ ॥
तात्पर्यम्
परः कविर्बृहस्पतिः ॥ २८ ॥
पदरत्नावली
जिह्नां, रसेनेति शेषः । परे कवौ बृहस्पतौ । उशनसोऽपि कविशब्दवाच्यत्वात् तद्व्यावृत्त्यर्थं परे इति ॥ २८ ॥
सत्यधर्मीया
ज्योतिषि सूर्येऽप्सु जिह्वां प्रवेशयेत् । रसेन सहेति ज्ञेयम् । घ्रैयैर्गन्धैः क्षितौ क्ष्मायाम् । मनः मनोरथैरभिलाषैः सह चन्द्रे इति श्लोके कविः किमुशना अथवा कविर्मनीषी, कविं पुराणमित्यादेर्हरिः कश्चिद्विपश्चित्काव्यकरो वेति सन्देहं मन्दयन्नत्र विवक्षितमर्थमनूद्याह ॥ परः कविरिति । बृहस्पतिः । कवति कुशब्दे । अच इः कौतीति वा परः कविः शुक्रभिन्नो गुरुत्वेन तत्सदृश इति बृहस्पतिर्ग्राह्य इत्यर्थः । परे कवौ बृहस्पतौ बुद्धिं बोद्ध्यैरर्थैः सह ॥ २८ ॥
मन्दनन्दिनी
ज्योतिषि सूर्येऽभिनिवेशयेदित्येतत्पूर्वत्राप्यन्वेति । जिह्वां रसनीयेन सहेति शेषः । अप्सु वरुणे । घ्रेयैर्घ्रातव्यैः क्षितावश्विनोर्मुख्याभिमानित्वेऽपि धराया अमुख्याभिमानित्वमस्तीत्येवमुक्तिः । मनो बुद्धिरहङ्कारश्चित्तं चेतनेति पञ्चविधमनसोऽभिमानिदेवतासु लयमाह ॥ मन इति ॥ परे कवाविति परशब्देन विशेषणाद्बृहस्पतिरेव ग्राह्यः ॥ तदुक्तं तात्पर्ये ॥ पर इत्यादि ॥ २८ ॥
कर्माण्यध्यात्मना रुद्रे यदहंममताः१ क्रियाः ।
सत्त्वेन चित्तं क्षेत्रज्ञे गुणैर्वैकारिकं परे ॥ २९ ॥
तात्पर्यम्
‘चित्तं हिरण्यगर्भे तु विलाप्य परमात्मनि । क्षेत्रज्ञाख्ये लापयेच्च ततो नान्य-त्स्मरेद्बुधः’ इति च ॥ २९ ॥
पदरत्नावली
अध्यात्मना अहङ्कारेण सह कर्माणि रुद्रे । तत्र हेतुः– यदहमिति ॥ क्रिया अहंसंमता अहङ्कारादुत्पन्नत्वेन संमता इति यत्, तस्मादिति शेषः । सत्वेन साधुपुण्यकर्मणा सह चित्तं क्षेत्रज्ञे हिरण्यगर्भे निवेश्य । एतल्लक्षणं विलयं स्मृत्वा वैकारिकनामानं हिरण्यगर्भं गुणैः सह क्षेत्रज्ञाख्ये परे परमात्मनि लक्ष्मीद्वारा लयमार्गं चिन्तयेत् । ‘चित्तं हिरण्यगर्भे तु विलाप्य परमात्मनि । क्षेत्रज्ञाख्ये लापयेच्च ततो नान्यत् स्मरेद् बुधः ॥’ इति चात्र मानम् ॥ २९ ॥
सत्यधर्मीया
सत्त्वेन चित्तं क्षेत्रज्ञ इति श्लोके क्षेत्रज्ञे हरौ चित्तस्य साक्षाल्लयः कथ्यते तदनु-पपन्नम् । साक्षादतत्कारणत्वात्तस्येत्यतो मानेनैव तदर्थमाह ॥ चित्तमिति । चित्तं तदभिमानिनं रुद्रं हिरण्यगर्भे तत्कारणे कार्यब्रह्मणि विलाप्यत्वात् । तं परमात्मनि मा चासावात्मा च परोक्षत्वेन च मात्मा च तस्मिन् । प्राणस्तेजसि तेजः परस्यां देवतायमित्यादेः । ततस्तां क्षेत्रज्ञाख्ये परदेवतायां विलापयेत् । स लयोऽपि न शर्वादिसर्ववद्गिलनं किन्तु हिरण्यगर्भस्य, प्राणस्य तेजसि लयो मार्गमात्रमुदाहृतम् । प्राणो हिरण्यगर्भ इति तत्त्वप्रकाशिकोक्तेः । ‘‘हरेरत्यन्तसामीप्यं लयो लक्ष्म्याः प्रकीर्तित’’ इत्या-द्युक्तोऽनुसन्धेयः । ततोऽन्यद्बुधो गृहादि न स्मरेत् । तुनाऽमुं लये विशेषं सूचयामासेति ज्ञेयम् । यद्यङ्गीकार्यो न साक्षात्त्र्यक्षस्य परमात्मनि लयः । तर्ह्ययमपि लक्ष्मीमतिहाय साक्षाद्भगवति लीयत इत्यङ्गीकर्तुमुचितं तत एव बाधकादिति शङ्कैवमन्वयेऽनन्वयिनीति मन्तव्यम् ॥ ततश्चायं मूलार्थः ॥ अध्यात्मनाऽहन्तत्त्वेन सह । तत्र हेतुमाह ॥ यदिति । यद्यस्मात्क्रियाः सर्वा अहं यत्प्रकृतिपरिणामवाचि मकारान्तमव्ययमहम्पदमिति सुधोक्तेरहमहङ्कारात् । ममता उत्पन्नास्ततो रुद्रेऽध्यात्मना सह कर्माणि लीयन्त इति चिन्तयेत् । सत्त्वेन साधुगुणेन महत्त्वेन सह चित्तं रुद्रं परे तत्कारणे चतुर्मुखे तं वैकारिकं ब्रह्माणं पर इत्यावर्तते श्रीतत्त्वे गुणैः सह चिन्तयेत् । तं परं क्षेत्रज्ञे भगवति चिन्तयेत् । अथवा क्षेत्रं च रमा तया सहितो ज्ञः सर्वज्ञस्तस्मिन्निति योजना । तात्पर्ये परमात्मनीत्युक्तिर्नातिरिक्ता भूमिकैवं व्याख्यानस्य भवतीति ज्ञेयम् । विकार एव वैकारस्तदस्यास्तीति वैकारी स चासौ कश्च ब्रह्मा चेति तमिति वा । मूले तात्पर्ये च रमाऽग्रहणं गिलनरूपमुख्यामुख्यलयमात्रविवक्षयेति परे क्षेत्रज्ञे परमात्मनि क्षेत्रज्ञ इति सामानाधिकरण्येनान्वय इति वा ॥ २९ ॥
मन्दनन्दिनी
अध्यात्मनाऽहङ्कारात्मकवृत्तियुक्तेन मनसा सह कर्माणि रुद्रे । कर्मणामहंकार-सम्बन्धमुपपादयति ॥ यदिति । अहं करिष्यामीत्यभिमानेन कृतत्वात्क्रियाणामहं सम्मतत्वम् । सत्वेन साधुपुण्येन सह चित्तं क्षेत्रज्ञे परमात्मनि । यद्यपि चित्तस्य स्वाभिमानिनि हिरण्यगर्भे लयः । तथाऽपि तद्वारा परमात्मनीति ज्ञातव्यम् ॥ तदुक्तं तात्पर्ये ॥ चित्तमित्यादि । वैकारिकं चेतनावृत्त्यभिमानिनं वैकारिकं तदाख्यं हिरण्यगर्भं गुणैः सह परे परमात्मनि ॥ २९ ॥
अप्सु क्षितिमपो ज्योतिष्यदो वायौ नभस्यमुम् ।
कूटस्थे तच्च महति तदव्यक्तेऽक्षरे तु तत् ॥ ३० ॥
पदरत्नावली
इदानीमबादीनां लयप्रकारं निरूपयति– अप्स्विति ॥ तच्च नभः । कूटस्थे वैकारिकतैजसतामसकूटरूपेऽहङ्कारतत्त्वे । तद् अहङ्कारतत्वं महति महतत्त्वे । तन् महत्तत्वम् अव्यक्ते । तद् अव्यक्तम् अक्षरे हरौ विलयप्रकारं स्मरेत् । जडस्य स्वकारणैक्यम्, अभिमानिनो जीवस्य प्रवेशलक्षणम् । तत्तत्कार्यस्थहिरण्यगर्भस्योत्तररूपेणैक्यम् । हिरण्यगर्भस्थहरेरप्युत्तरोत्तररूपैकीकरणमिति लयभेदं तुशब्दो ज्ञापयति ॥ ३० ॥
सत्यधर्मीया
इदानीमबादीनां लयप्रकारमालपति ॥ अप्स्विति । क्षितिं भूमिमप्सूदके । ता आपो ज्योतिषि वह्नौ अदस्तत् । वायौ । अमुं वायुं नभस्याकाशे । अमुमाकाशं कूटस्थे वैकारिकतैजस-तामससमूहरूपेऽहन्तत्त्वे । तच्च महति महत्तत्त्वे । तच्चाव्यक्ते तेजसि रमायाम् । तदव्यक्तमक्षरे नारायणे । तुश्च जडकार्यस्य कारणजडैकताप्रवेशोऽभिमानवतां तत्कार्यगतचेतनानां स्वांशिकारणगतचेतनताद्रूप्य-मित्याक्षरावसानं लयविशेषसूचकः ॥ ३० ॥
मन्दनन्दिनी
क्षितिमारभ्याव्यक्तान्तं लयमाह ॥ अप्स्विति ॥ कूटस्थे वैकारिकादिभेदेन समुदायस्थेऽहङ्कारतत्त्वे ॥ ३० ॥
इत्यक्षरतयाऽऽत्मानं चिन्मात्रमवशेषितम् ।
ज्ञात्वाऽद्वयोऽथ विरमेद् दग्धयोनिरिवानिलः ॥ ३१ ॥
॥ इति श्रीमद्भागवते सप्तमस्कन्धे द्वादशोऽध्यायः ॥
तात्पर्यम्
आत्मानं परमात्मानम् । अद्वयस् ततोऽन्यस्मृतिवर्जितः । दग्धयोनिर्यथानल इति कृत्याभावमात्रम् । ‘न हरिं स्मरतः कृत्यं दग्धेन्धनहुताशवत्’ इति च ॥ ३१ ॥
॥ इति श्रीमद्भागवते सप्तमतात्पर्ये द्वादशोऽध्यायः ॥
पदरत्नावली
इतिशब्दो लयसमाप्तिसूचकः । कूटस्थोऽक्षर उच्यत इति वचनाद् अक्षरनाम््नयां चित्प्रकृतौ स्थित्वा अक्षरलक्षणनित्यत्वहेतुत्वादक्षरनामत्वेन स्थितम् आत्मानं परमात्मानं चिन्मात्रमव-शेषितं सृष्ट्यादिव्यापारोदासीनं ज्ञात्वा अद्वयः हरिव्यतिरिक्तवस्तुस्वातन्त्र्यस्मरणरहितोऽथ कृत्याद्विरमे-दित्यन्वयः । कृत्याद्विरामोक्तिरत्र कथमित्याह– दग्धयोनिरिति ॥ दग्धा योनिर् इन्धनलक्षणा येन स तथा । यथाग्नेरिन्धनदहनात् परं कृत्यं नास्ति तथा श्रीनारायणोपासकस्य सविकासं तत्वज्ञानात् परं कृत्यं नेति भावः । ‘न हरिं स्मरतः कृत्यं दग्धेन्धनहुताशवत्’ इति वचनात् ॥ ३१ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
सप्तमस्कन्धे द्वादशोऽध्यायः ॥
सत्यधर्मीया
इत्यक्षरतयाऽऽत्मानमिति श्लोके आत्मपदं न जीववाचीति बोधयितुमनूद्य व्याचक्रे ॥ आत्मानमिति । परमात्मानं हरिम् । तत्रैवाद्वय इति द्वितीयवस्तुविकल इत्यर्थमनर्थीकरोति ॥ अद्वय इति । ततः कार्यकारणलयचिन्तनादन्यस्य पुत्रादेः स्मृतिवर्जितः । एतदनुरूपं विवक्षितार्थ-वर्णनेन दग्धयोनिर्यथाऽनल इति निदर्शनं कृत्वा तत्र मानमान्दोलयच्छिर उदाहरति ॥ इति कृत्या-भावमात्रमिति । हरिस्मरणातिरिक्तकरणीयविरहाभिप्रायेण तन्निदर्शनप्रदर्शनमिति भावः । दग्धेन्धनहुता-शयस्य यथा दाह्यविरामादनुज्वलनं तथा हरिं स्मरतः कृत्यं नास्तीत्यर्थः ॥ ततश्चायं पद्यार्थः ॥ इत्येवं प्रकारेणाक्षरतया सर्वलयालयत्वेन स्वयं निर्लय इत्यक्षरत्वेनात्मानं परमात्मानं चिन्मात्रं ज्ञानानन्द-द्यात्मकमवशेषितं शिष्टं ज्ञात्वाऽथाद्वयो हरिव्यतिरिक्तस्मरणीयान्तररहितो दग्धयोनिर्दग्धा योनिः काष्ठलक्षणस्वकारणं येन सोऽनलो यथा निर्व्यापारस्तथाऽकृत्यादन्यदा कार्यत्वेन प्रसक्ताद्विरमेत् ॥३१॥
॥ इति श्रीसत्यधर्मतीर्थकृतायां श्रीमद्भागवतविवृतौ
सप्तमस्कन्धे द्वादशोऽध्यायः ॥
मन्दनन्दिनी
अक्षरतयाऽक्षरलक्षणलयरहिततया । आत्मानं परमात्मानम् । जडस्यान्तर्लया-च्चिन्मात्रमवशेषितं ज्ञात्वाऽद्वयो भगवतोऽन्यत्स्मृतिवर्जितः । दग्धयोनिरिव दग्धारणिरनल इव कृत्यान्तराभावाद्विरमेत् । उपरतो भवेदिति योजना । अत्रात्मादि पदानां परमात्माद्याधारत्वे तात्पर्यम् ॥ आत्मानमित्यादि ॥ ३१ ॥
॥ इति श्रीभागवतटिप्पण्यां व्यासतत्वज्ञकृतायां मन्दनन्दिन्यां
सप्तमस्कन्धे द्वादशोऽध्यायः ॥