श्रुत्वेहितं साधुसभासभाजितं महत्तमाग्रण्य उरुक्रमात्मनः
॥ अथ एकादशोऽध्यायः ॥
श्रीशुक उवाच–
श्रुत्वेहितं साधुसभासभाजितं महत्तमाग्रण्य उरुक्रमात्मनः ।
युधिष्ठिरो दैत्यपतेर्मुदान्वितः पप्रच्छ भूतस्तनयं स्वयम्भुवः ॥ १ ॥
पदरत्नावली
भगवद्भक्त्या यथावद्गीतवर्णाश्रमाचाराचरणेन समुत्पन्नापरोक्षज्ञानेन प्रसन्नो हरिः स्वस्वयोग्यां मुक्तिं ददातीत्येतदर्थमुत्तरेषामध्यायानामारम्भः । तत्र वर्णाश्रमधर्मान् श्रोतुकामो युधिष्ठिरो नारदं पृच्छतीत्याह– श्रुत्वेति ॥ महत्तमानाम् अग्रण्यस्य श्रेष्ठस्य । उरुक्रमे हरौ आत्मा मनो यस्य स तथा तस्य दैत्यपतेः प्रह्लादस्य । ईहितं चरितम् । साधुसभासु सभाजितं सम्भावितम् । महत्तमानां ब्रह्मादीनाम् उत्तमस्य दैत्यानामपि पत्युर् उरुक्रमात्मनो नरसिंहस्येति वा ॥ १ ॥
सत्यधर्मीया
भागवत्या भक्त्या यथावत्यथासमयानामनुवर्णितेन वर्णाश्रमाचारादिनाऽङ्कूरण-मपरोक्षज्ञानस्येति तस्यावश्यकता च मुक्तिहेतुतयेतीममर्थं काशयितुमुत्तरेऽध्यायास्तत्रादौ वर्णाश्रमविचारं सम्पाद्यं मन्वानो ज्ञानिप्रवेकं प्रति तद्विवेकं धर्मः पृच्छतीति श्रीशुकः परीक्षितं प्रत्याह ॥ श्रीशुक इति । साधुसभासभाजितमिति पदमेकम् । साध्विति मात्रं भिन्नमव्ययं वा । साधूनां सभायां सभाजितं पूजितं तया चायितमिति वा । साधु यथा तथा सभासभाजितम् । महत्तमाग्रण्यो महत्सु महांस्तदग्रणी-स्तस्योरुक्रमात्मनो भगवत्युरुक्रमे मन आत्मा यस्य स तथा तस्य । दैत्यपतेः प्रल्हादस्येहितं चेष्टितं श्रुत्वा मुदान्वितः स्वयम्भुवस्तनयं नारदं पप्रच्छ । महत्तमाग्रण्योऽदैत्यपतेः सुरवरस्य१ उरुक्रमात्मनो नृहरेः साधुसभाजितमीहितं श्रुत्वा मुदान्वितः सन् भूयः स्वयम्भुवस्तनयं नारदं युधिष्ठिरः पप्रच्छेति वा
॥ १ ॥
मन्दनन्दिनी
भगवद्भक्त्या यथावद्विहितवर्णाश्रमाचारचरणेन निर्मलीकृतान्तःकरणेन श्रवणादि- द्वारा समुत्पन्नापरोक्षज्ञानेन प्रसन्नो हरिः स्वयोग्यां मुक्तिं ददातीत्येतदर्थं ज्ञापयितुमुत्तरेषामध्याया-नामारम्भः । तत्र वर्णाश्रमधर्मान् श्रोतुकामो युधिष्ठिरो नारदं पृच्छतीत्याह ॥ श्रुत्वेति ॥ महत्तमाग्रण्यो महत्तमानां श्रेष्ठ उरुक्रम आत्मा मनो यस्य तस्योरुक्रमस्वरूपस्य वा । दैत्यपतेः प्रह्लादस्य पत्युर्नृसिंहस्य वा साधुसभासु सभाजितं प्रीतिविषयीभूतं सेवितं च । सभाजन प्रीतिसेवनयोरिति धातोः । ईहितं चरितं श्रुत्वा मुदान्वितः स्वयम्भुवस्तनयं नारदं भूयः पप्रच्छेति योजना ॥ १ ॥
युधिष्ठिर उवाच–
भगवन् श्रोतुमिच्छामि नृणां धर्मं सनातनम् ।
वर्णाश्रमाचारयुतं यत् पुमान् विन्दते परम् ॥ २ ॥
पदरत्नावली
धर्मं विशिनष्टि– वर्णेति ॥ वर्णाश्रमाचारयुतम् । ‘यु मिश्रण’ इति धातुः ॥२॥
सत्यधर्मीया
धर्मो धर्मं विशिनष्टि ॥ वर्णेति । यद्यस्मात्पुमान्परं परमात्मानं विन्दते प्राप्नोति । वर्णाश्रमाचारयुतं ताभ्यां सहितम् । तत्तत्कुलाचारवर्णानुगुणं सनातनं धर्मं श्रोतुमिच्छामि । नृणां पुमानिति बहुवचनैकवचनाभ्यां श्रोतारो बहुलास्तत्र कश्चिद्विमुच्यत इति द्योतयति । नृणामनुष्ठानयोग्यं श्रोतुमिच्छामीति वा । नृणामिति जात्यभिप्रायम् । पुमानित्यभ्यर्हितात्मादिविवक्षयेति वा विवेकः ॥२॥
मन्दनन्दिनी
वर्णाश्रमे उचितो य आचारः शौचः स्नानादिस्तेन युतमध्ययनयजनादिरूपं धर्मं श्रोतुमिच्छामि । येनानुष्ठितेन धर्मेण परं विन्दत इति योजना ॥ २ ॥
भवान् प्रजापतेः साक्षादात्मजः परमेष्ठिनः ।
सुतानां सम्मतो ब्रह्मन् तपोज्ञानसमाधिभिः ॥ ३ ॥
सत्यधर्मीया
त्वदुक्तं वक्तुमुचितं तथाऽपि न शक्तिर्ममेति न वदेति तं प्रति समर्थतोपयोगि चैतदादिसर्वं वर्तते त्वयीति वक्ति ॥ भवानिति । प्रजापतेर्न दक्षस्येत्याह ॥ परमेष्ठिन इति । ब्रह्मणः । साक्षादित्यनेन वधूव्यवधानसूतिं व्यावर्तयति । आत्मजोऽङ्कजः । सुतानां पूर्वजातानां सनकादीनां सम्मतः । कैरित्यत आह ॥ तप इति । ब्रह्मन् पूर्ण । ब्रह्मणो ब्राह्मणत्वात्तज्जातत्वाद् ब्रह्मन्निति वा
॥ ३ ॥
मन्दनन्दिनी
सुतानां दक्षादीनां सम्मतः ॥ ३ ॥
नारायणपरा विप्रा धर्मं गुह्यं यथा विदुः ।
करुणाः साधवः शान्तास्त्व१द्विधा न तथा परे ॥ ४ ॥
सत्यधर्मीया
यथा नारायणपरा विप्रा गुह्यं धर्मं विदुः । करुणाः करुणयन्तीति ते तथा । साधवः शान्ता भगवन्निष्ठबुद्धयः । त्वद्विधास्तव विधा प्रकार येषां ते तथा त्वत्सदृशाः । अपरे तदितरे तथा न विदुरिति त्वां प्रति पृच्छामीति तात्पर्यम् ॥ ४ ॥
मन्दनन्दिनी
इतरान्विहाय मामेव कुतः पृच्छसीत्यत आह ॥ नारायणेति ॥ गुह्यं गौप्यम् । तद्विधा उक्तविशेषणविशिष्टाः । यथा विदुस्तथा नापर इति त्वामेव पृच्छामीति भावः ॥ ४ ॥
नारद उवाच–
नत्वा भगवतेऽजाय लोकानां धर्महेतवे१ ।
वक्ष्ये सनातनं धर्मं नारायणमुखाच्छृतम्२ ॥ ५ ॥
सत्यधर्मीया
महाप्रमेयत्वान्मङ्गलदेवीरमणनमनरूपं मङ्गलमाचरन्वक्ति ॥ नत्वेति । धर्महेतवे सेतवे इति पाठद्वन्द्वमद्वन्द्वम् । कारणाय मर्यादाकर्त्रे इति क्रमात्तदर्थः । नारायणमुखाच्छृतं सनातनं धर्मं वक्ष्ये । नारायणेत्यादिना सम्प्रदायप्राप्ततां वक्ष्यमाणार्थस्य द्योतयामास । पितामहत्वादप्रतारकतां विप्रोऽनेनाहेति वा । च्युतमिति पाठे सनातनत्वादच्युतमुखच्युतमेवेत्यर्थः ॥ ५ ॥
मन्दनन्दिनी
नमनरूपं मङ्गलं कृत्वा स्वगुरोर्नरनारायणस्य मुखाच्च्युतं धर्मं वक्ष्यत इति योजना । क्रियार्थोपपदस्य कर्मणि स्थानिन इति सूत्रेण भगवते इत्यादौ चतुर्थः ॥ ५ ॥
योऽवतीर्यात्मनोंऽशेन दाक्षायण्यां तु धर्मतः ।
लोकानां स्वस्तयेऽध्यास्ते तपो बदरिकाश्रमे ॥ ६ ॥
पदरत्नावली
पुरुषार्थोपयोगित्वाद् वक्तुमिच्छामीत्याह– योऽवतीर्येति ॥ दाक्षायण्यां नाम्ना मूर्तौ धर्मतः धर्मप्रवर्तनार्थम् । ‘स्यादध्यधिक ईश्वरे’ इत्यभिधानाद् ईश्वरस् तप उद्दिश्य बदरिकाश्रमे आस्त इत्यन्वयः । बदरिकाश्रमे तपोऽध्यास्ते इति वा ॥ ६ ॥
सत्यधर्मीया
स नारायणः कः कस्मात्कस्यां जातो जातस्य तस्य क्व निवास इत्यत आह ॥ य इति ॥ धर्मतो धर्मनाम्नः पितृतः । य आत्मनो मूलरूपिणोंऽशेन दाक्षायिण्यां दक्षापत्यभूतायां मूर्ताववतीर्य । धर्मतो मूर्तावित्युक्त्या प्रतीतं शुक्रशोणितसम्बन्धं दूरयत्यवतीर्यात्मनोंऽशेनेत्याभ्यामिति मन्तव्यम् । दाक्षायणी दक्षस्यापत्यम् । वा नामधेयस्येति वृद्धसंज्ञायामुदीचां वृद्धादगोत्रादिति ष्फिञ् । गौरादित्वात् ङीष् । विस्तृतं चैतत् षष्ठस्कन्धविवृतावस्माभिरनुसन्धेयम् । लोकानां लोकेभ्यः स्वस्तये विवृतं प्राक् । मङ्गलार्थम् । बदरिकाश्रमे तपोऽध्यास्ते । अधिशीङ्स्थासां कर्मेति तप इति द्वितीया । तपस्येवास्त इत्यर्थः । तन्नारायणमुखाच्च्युतमित्यतीतेनान्वयः ॥ ६ ॥
मन्दनन्दिनी
स्वगुरुं नारायणं स्तौति ॥ य इति ॥ यच्छब्दस्य तस्मै भगवते इति पूर्वे-णान्वयः । आत्मनः परात्मनो दाक्षायण्यां दक्षपुत्र्यां मूर्तिनाम्नयां धर्मतो यमधर्मतः स्वस्तये मङ्गलाय । बदरिकाश्रमे । अधिशीङ्स्थासामिति कर्मत्वं नाश्रितम् । उप उद्दिश्येति शेषः । मुनीनां तपः शिक्षितुमिति यावत् ॥ ६ ॥
धर्ममूलं हि भगवान् सर्ववेदमयो हरिः ।
स्मृतिश्च तद्विदां राजन् येन चात्मा प्रसीदति ॥ ७ ॥
पदरत्नावली
तत्रानुष्ठानधर्मविषये ज्ञाते क्षिप्रप्रवृत्तिः स्यादधिकारिणामिति तमाह– धर्ममूल-मिति ॥ धर्ममूलं धर्मविषयः । सर्वदेवमयः सर्ववेदप्रतिपाद्येषु प्रधानः । अनेन रुद्रादयो निवृत्ता इति ज्ञातव्यम् । न केवलं धर्मविषय एव तत्प्रतिष्ठापकश्चेत्यतो धर्ममूलमिति । अत्र प्रमाणम्– सर्ववेदमय इति ॥ प्रमाणान्तरं चास्तीत्याह– स्मृतिरिति ॥ प्रमाणमिति शेषः । भगवत्प्रसादहेतुत्वात् प्रमाण-मित्याह– येनेति ॥ अनेन भगवत्तत्वज्ञैः स्मृतो धर्मः । न कपिलादिभिरित्युक्तं भवति ॥ ७ ॥
सत्यधर्मीया
धर्माणां यतो ‘धर्मता’ तदादौ वदति ॥ धर्मेति । हे धर्मेत्यपि । धर्मस्य मूलं प्रतिष्ठापक इव मुख्यविषयश्च भगवान्ममोपदेष्टा नारायण एव । वेदयन्वेदादिर्दृश्यते कथं तन्मूलत्वं भगवत इत्यत आह ॥ सर्ववेदमय इति । सर्ववेदैर्मय्यते गम्यत इति स तथा । नायं प्रत्ययः किन्तु मयते-र्गत्यर्थस्य स्वतन्त्रः शब्दः । तथाचोक्तं तत्त्वनिर्णयटीकायां मायाशब्दव्याकृत्यवसरे । एतेन मयेति स्वतन्त्रप्रातिपदिकमिति । अयवयपयमयचयतयणयगताविति भ्वादिर्मयधातुः । ‘‘मयं प्रधानमुद्दिष्ट’’मिति बृहदारण्यकभाष्योक्तेः । सर्ववेदानां मयः प्रधानो मुख्यप्रतिपद्य इति वा । मानव्यादयः सत्स्मृतयश्च मानमित्याह ॥ स्मृतिश्चेति । तद्विदां भगवज्ज्ञानिनां वेदज्ञानां वा । स्मृतिर्गीताभाष्योक्ता । ‘‘वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् । आचरश्चैव साधूनामात्मनस्तुष्टिरेव च’’ एत-ज्जातीयका । चशब्दाच्छीलादि लातव्यम् । येनैवं ज्ञातेन धर्मेणात्मनः परमात्मा प्रसीदति । अन्यत्रापि, ‘‘श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । सम्यक् सङ्कल्पतः(जः) कामो धर्ममूलमिदं स्मृतम्’’ इत्युक्तं धर्ममूलं ज्ञेयम् । हे राजन्येनेत्यपि सम्बोधनम् । राज्ञ्यां राज्ञा जाता राजन्यास्तेषामिन स्वामिन् । तव राजन्येनत्वेऽप्येतादृग्गुणकस्य तद्दोषावहं नेति कटाक्षयति मुनिरनेनेति ज्ञेयम् ॥ ७ ॥
मन्दनन्दिनी
धर्मे प्रमाणमादौ वक्ति ॥ धर्ममूलमिति ॥ धर्मे प्रमाणं मूलमित्यर्थः । सर्ववेदमयः सर्ववेदप्रधानः । अनेन भगवदुपदिष्टः सर्वो वेदः प्रमाणमित्युक्तं भवति । तद्विदां भगवद्विदां वेदविदां वा । स्मृतिश्च । चशब्दाच्छीलं चानेन ‘‘वेदोऽखिलं धर्ममूलं स्मृतिशीले च तद्विदाम्’’ इति वचनं संवादयति । प्रमाणमुक्त्वा लक्षणमाह ॥ येन चेति ॥ अनेन भगवत्प्रसादसाधनत्वे सत्यनुष्ठेयत्वं धर्मत्वमिति लक्षणमुक्तं भवति ॥ ७ ॥
सत्यं दया तपः शौचं तितिक्षेक्षा शमो दमः ।
अहिंसा ब्रह्मचर्यं च त्यागः स्वाध्याय आर्जवम् ॥ ८ ॥
सन्तोषः समदृक्सेवा ग्राम्येहोपरमः शनैः ।
नृणां विपर्ययेहेक्षा मौनमात्मविमर्शनम् ॥ ९ ॥
पदरत्नावली
विषयं निरूप्य सर्वसाधारणं सर्वधर्मसाधनमाह– सत्यमिति ॥ सत्यादिचतुष्टय-मन्तरङ्गम् । तितिक्षादिकमुपाङ्कमिति ज्ञातव्यम् ॥ ग्राम्येहोपरमः विषयभोगेच्छानिवृत्तिः । विषयविपर्यये-हेक्षा प्राणिनां स्वत एव निषिद्धकर्मचेष्टा ईहा तस्याः पर्यालोचनम् । मोक्षविपरीतप्रवृत्तिदर्शनं वा । मौनं मन्त्रार्थचिन्तनम् । प्रलापवर्जनं वा । आत्मविमर्शनम् आत्मविचारः ॥ ८,९ ॥
सत्यधर्मीया
विषयमुख्यमुपपाद्य धर्मस्वरूपमाह ॥ सत्यमिति । सत्यं भूतहितम् । दया दीनानुकम्पा । तपश्चान्द्रायणादि । शौचं शरीरशोधनं तितिक्षा सहनम् । तितिक्षादिकं सत्याद्यङ्गं साधनसाधनमप्यावश्यकमिति तदुक्तिः। तिजेः क्षमायां सन्यप्रत्ययो टाप् । तिज निशाने तिजेः क्षमाया-मिति कौमुद्युक्तेः । ‘‘क्षान्तिस्तितिक्षे’’त्यमरः । अखण्डः क्षान्तिवाची । ईक्षा युक्तायुक्तविवेकः । इज्येति पाठे यज्ञ इत्यर्थः । ब्रह्मचर्यमुभयविधमप्यधिकारिभेदेन । ग्राम्येहोपरमो विषयभोगेच्छाविरतिः । शनैरिति तस्यासुसाधं बोधयति । शनैः स्वैरै रमणीजनैर्ग्राम्येहोपरम इति वा । ‘‘शनैः शनैश्चरे स्वैर’’ इति विश्वः । विहितकाले तस्याविहितत्वादिति भावः । नृणां विपर्ययेहेक्षा विपर्यासरूपा चेष्टा तस्या ईक्षा । ममाप्येवमेव भवेदित्यालोचनम् । मौनमसदालापवर्जनम् । आत्मविमर्शनमहमल्प इति वा भगवान्सर्वोत्तम इति वा विचारणम् ॥ ८,९ ॥
मन्दनन्दिनी
वर्णाश्रमविशेषधर्मान्वक्तुं साधारणानादौ तावदाह ॥ सत्यमित्यादिना ॥ सत्यं यथार्थवचनम् । दया भूतदया । तपो विहितोपवासादि । शौचं क्षालनम् । तितिक्षा सहनम् । इज्या देवपूजा । ब्रह्मचर्यं स्वपत्नीनियमलक्षणम् । ब्रह्मचर्यं गृहस्थस्याप्यस्तीति ज्ञेयम् । त्यागो निषिद्धस्य । स्वाध्यायः शूद्रादेरपि स्वोचितनामसङ्कीर्तनादिः । समदृक् सर्वत्र भगवतः साम्यदर्शनम् । सेवा महताम् । शनैः क्रमेण ग्राम्येहोपरमो दुर्विषयेच्छापरित्यागः । विपर्ययेहेक्षा विपरीतप्रवृत्तिविमर्शनम् । मौनं प्रलापनवर्जनम् । आत्मविमर्शनमात्मविचारः ॥ ८,९ ॥
अन्नाद्यादेः संविभागो भूतेभ्यश्च यथाऽर्हतः ।
तेष्वात्मदेवताबुद्धिः सुतरां नृषु पाण्डव ॥ १० ॥
पदरत्नावली
तेषु नृषु आत्मदेवताबुद्धिः परमात्मा स्थित इति ज्ञानम् । सुतरामित्यनेन नृषु विशेषतः कर्तव्यमिति सूचयति । ‘अहिंसा सत्यमस्तेयं शौचमिन्द्रियसंयमः । दमः क्षमाऽऽर्जवं दानं सर्वेषां धर्मसाधनम् ॥’ इति स्मृतत्वादेषां धर्माङ्गत्वं, न तु धर्मत्वमिति ज्ञातव्यम् ॥ १० ॥
सत्यधर्मीया
भूतेभ्यो यथार्हतोऽन्नादेः संविभागः द्विजभोजनबलिहरणादिभिः । तेषु पश्वादिषु । तत्रापि नृषु । सुतरामात्मा परमात्मैव देवता । गतम् । सन्निहित इति यावत् । इति बुद्धिः ॥ १० ॥
मन्दनन्दिनी
अन्नाद्यादेरत्तुं योग्यान्नतृणादेः । भूतेभ्यो मनुष्यपश्वादिभ्यो यथार्हतो यथायोग्यं संविभागो धर्मः । तत्रेतिकर्तव्यतामाह ॥ तेष्विति ॥ तेष्वात्मदेवताबुद्धिर्भूतेषु परमात्माधिष्ठानबुद्धिः । तत्रापि नृषु विशेषतः ॥ १० ॥
श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः ।
सेवेज्याऽवनतिः सख्यं दास्यमात्मसमर्पणम् ॥ ११ ॥
तात्पर्यम्
‘अनाद्यनन्तकालेषु मुक्तौ संसार एव च । मयिस्थश्चोदयत्येको विष्णुर्मां सर्वदैव तु । इति सम्प्रीतिकं ज्ञानं विद्यादात्मसमर्पणम् । बहिस्थेश्वरदासत्वं दास्यमित्युच्यते बुधैः’ इति तन्त्रमालायाम् ॥ ११ ॥
पदरत्नावली
ननु तर्हि कोऽयं धर्मो नामेत्याशङ्क्य सर्वसाधारणं धर्ममाह– श्रवणमिति ॥ महतां या गतिस्थितिस्तस्याः सेवा सङ्गतेः सेवेति वा स्यादात्मसमर्पणयोरेकार्थत्वात् कथं पृथग्ग्रहणं कृतमित्याशङ्का ‘‘अनाद्यनन्तकालेषु मुक्तौ संसार एव च मयिस्थश्चोदयत्येको विष्णुर्मां सर्वदैव तु’’ इति सम्प्रीतिकं ज्ञानं विद्यादात्मसमर्पणं बहिश्चेश्वरदासत्वं दास्यमित्युच्यते बुधैः’’ इत्यनेन परिहरणीया अनाद्यनन्तकालं मयिस्थित्वा विष्णुः सर्वत्र मां प्रेरयतीति प्रीति पूर्वकं ज्ञानम् आत्मार्पणं प्रतिमादि सन्निहित भगवद्द्वासत्वज्ञानं दास्यम् ॥ ११ ॥
सत्यधर्मीया
सेवेज्याऽवनतिर्दास्यमिति श्लोकार्धे दास्यात्मसमर्पणपदयोरर्थभेदे प्रमाणमाह ॥ अनादीति ॥ संसारे मुक्तौ । मयि तिष्ठतीति मयिस्थः । अकिंचिदुपपादकादपि तिष्ठतेर् भिन्नपदता वा । माम् एक एव चोदयति प्रेरयतीति सप्रीतिकं प्रीतिर्हि भक्तिः, तत्पूर्वकं यज्ज्ञानं तदात्मसमर्पणं विद्यात् । जानीयात् । बहिस्तिष्ठतीति बहिस्थः कृष्णरामादिस्तस्य दासत्वम् । तदपि न यदाकदाचिदित्याह ॥ सर्वदैवेति ॥ दास्यत्वमित्युच्यते । अविगानार्थमाह ॥ बुधैरिति ॥ सम्प्रीतिकम् । सम्यक् प्रीतिः सम्प्रीतिस्तां करोतीति सम्प्रीतिकं सम्यक् प्रसादसाधनमिति सं सानुस्वारं पठित्वा व्याकुर्वते । अथश्लोकार्थः ॥ महतां ब्रह्मादीनाम् । गतेः प्राप्यस्थानरूपस्यास्य हरेः । श्रवणं कीर्तनम् । स्मरणं सेवा । इज्याऽर्चनम् । अवनतिः प्रावण्यम् । सख्यम् । दास्यं बहिस्थेश्वरदासत्वम् । आत्मसमर्पणम् । मयि तिष्ठन् सः माम् अनाद्यनन्तकालेषु प्रेरयतीति सम्प्रीतिकं प्रीतिपूर्वकं ज्ञानम् आत्मसमर्पणं विद्यादित्यर्थः ॥ ११ ॥
मन्दनन्दिनी
श्रवणं गुरोः सकाशात् । यथोचितस्य कीर्तनं भगवन्नाम्नः । महतां गतेः सङ्गतेः सेवासम्पादनम् । इज्यावनतिः पूज्येषु नम्रता । दास्यात्मसमर्पणयोर्भेद उक्तस्तात्पर्ये । अनाद्यनन्त-कालेष्वित्यादि तन्त्रमालायामिति । अनाद्यनन्तकालेष्वित्यस्य मुक्तौ संसारे चेति विवरणम् । एवकारस्यैक एवेत्यन्वयः । सम्प्रीतिकं ज्ञानं भक्तिपूर्वकसम्यग्ज्ञानम् ॥ ११ ॥
नृणामयं परो धर्मः सर्वेषां समुदाहृतः ।
त्रिंशल्लक्षणसंयुक्तः सर्वात्मा येन तुष्यति ॥ १२ ॥
पदरत्नावली
तारतम्यज्ञानार्थं ब्रह्मादिविषयश्रवणादिरपि धर्मः स्यात् । अतः(कथं) विशिष्योच्यत इत्यत उक्तम्– पर इति ॥ ‘एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः’ इति वचनात् समुदाहृत इति समीचीनत्वं कुतः ? अत्राह– त्रिंशल्लक्षणेति ॥ अनन्तलक्षणस्य हरेस् त्रिंशल्लक्षणयुक्तत्वं ‘तथापि पुरुषाकारो भक्तानां त्वं प्रकाशसे’ इति वचनाद् भक्तप्रकाश्याकारविषयविवक्षया । ‘सप्तपादश्चतुर्हस्तः’ इत्यादिशास्त्रेषु पुरुषलक्षणस्य निरूपितत्वात् । इदं च भक्तिप्रचयाय प्रोक्तमिति ज्ञायते । अनेन भगवत्तोषकरो धर्मः, नान्य इत्युक्तं भवति ॥ १२ ॥
सत्यधर्मीया
श्रवणादिनवसु सेवेज्यापदयोर्भगवत्सेवाभगवदर्चनार्थत्वान्न समदृक्सेवेज्यापदाभ्यां पुनरुक्तिः । त्रिंशल्लक्षणसंयुक्तः किं हरिरुत धर्मः । नाद्यः । अनन्तलक्षणकस्य सङ्ख्यापरिच्छिन्नलक्षण-वत्त्वस्य प्रेक्षावदकटाक्षणीयत्वात् । किञ्चानन्दादीनां स्फुटलक्षणानामेतदन्तरनिभालनाच्च । न द्वितीयः । सत्याद्यात्मनस्तस्य धर्मस्य तद्युक्तत्वानुपपत्तेः । स्वतन्त्राणां सप्तपादश्चतुर्हस्त इत्याद्याशंसितानां लक्षणानां ग्रहणमित्यनुग्रहणं हन्त यर्हि तर्हि द्वात्रिंशल्लक्षणैर्युक्त इति युक्तोक्तिः स्यात् । न चोपलभ्यते तत्कला पूर्वत्रेवोत्तरत्रापि । न च विप्रस्तुतिरप्रस्तुतैतद्विषयिणीति हृद्यमतो नानवद्यतां पक्षद्वन्द्वस्य पश्याम इति चेन्न । द्वितीय एवाद्वितीयः । न तदात्मकस्य तद्युक्तताऽनुपपत्तिरित्युक्तमिति वक्तव्यम् । लक्षयन्ति ज्ञापयन्तीति लक्षणानि सत्यत्वादिभेदकोपाधयः । त्रिंशत्सङ्ख्याकानि सत्यत्वादीनि तैः । लक्षणशब्दः स्वरूपपरः सत्यादीन्यात्मदैवताबुद्ध्यन्तान्येकविंशत्सङ्ख्याकानि न च श्रवणादीनिति त्रिंशल्लक्षणम् । विशेषबलात्तद्वत्वव्यवहारः । येन ज्ञातेनानुष्ठितेन सर्वात्मा भगवांस्तुष्यति स धर्म इत्यन्वय इति न काऽप्यनुपपत्तिः । परोऽप्येवं त्रिंशल्लक्षणवानिति व्याचक्रे । परः परिवारिश्रवणादिरयं धर्मः । अयं हरिपरिकीर्तनादिस्तु परो धर्मो मुख्यो धर्म इत्यावृत्त्याऽन्वये ‘‘एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः । परिवारतया ग्राह्या अपि हेयाः प्रधानत’’ इत्यादिमानानुकूल्यं ज्ञेयम् । अत एव समुदाहृत इत्युक्तिः समुदावहा ॥ १२ ॥
मन्दनन्दिनी
अयं सत्यमित्यादिनोक्तः । भगवत्तोषसाधनत्वे सत्यनुष्ठेयत्वरूपलक्षणाक्रान्त-त्वात् । अहिंसादीनां धर्मत्वे धर्माङ्गत्वमप्यस्तीति ज्ञातव्यम् । उक्तरीत्या त्रिंशत्सङ्ख्याकभेदयुक्तः । सर्वात्मा सर्वस्वामी परमात्मा येनोक्तधर्मेण तुष्यति अयमिति पूर्वेण योजना ॥ १२ ॥
संस्कारा यद्यविच्छिन्ना स द्विजो वैदिकादयः ।
इज्याध्ययनदानानि विहितानि द्विजन्मनाम् ॥ १३ ॥
पदरत्नावली
एवं धर्मस्वरूपं निरूप्य तदधिकारिणं निरूपयति– संस्कारा इति ॥ निषेकादि-स्मशानान्ता ये संस्कारास् ते यस्याविच्छिन्ना अखण्डिताः स द्विजः । स एवाधिकार्यत्रेति शेषः । अविच्छेद्यत्वेन कर्तव्यत्वे को हेतुरिति तत्राह– वैदिकेति ॥ वेदप्रतिपाद्यत्वेन प्रामाणिकत्वेन कर्तव्या इत्यर्थः । नन्विदं द्विजमात्रसाधारणं किम् ? नेत्याह– आदय इति ॥ स्त्रीणां ब्राह्मणजातित्वेऽपि ‘मन्त्रेण क्रिया एताः’ इति यदतः शिष्टाचारत्वेन संगृहीतत्वादिदं वैदिकत्वेऽपि कर्तव्यम् । ननु स्त्रीणां वैदिकसंस्काराभावे यागानधिकारित्वमित्यस्येदमेवोत्तरम्– वैदिकादय इति ॥ वैदिका अवैदिकाश्च सन्तीत्यर्थः । तदुक्तम्– ‘निषेकाद्या श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः । गर्भाधानमृतौ पुंसवनं च स्यन्दनात् पुरा ॥ षष्ठेऽष्टमे वा सीमन्तो मासतो जातकर्म च । अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः । षष्ठेऽन्नप्राशनं मासे चूडा कार्या यथाकुलम् ॥ एवमेनः शमं याति बीजगर्भसमुद्भवम् । तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रकः ॥’ इत्यादि । ‘तां पूषञ्शिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति । या न उरू उशती विश्रयाते यस्यामुशन्तः प्रहराम शेषम् । उपोप मे परामृश मा मे दभ्राणि मन्यथाः । सर्वाऽहमस्ति रोमशा गन्धारीणामिवाविकाः ॥’ इत्यादिसंस्कारमन्त्राः । ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चत्वारो वर्णाः । तेषाम् आद्यास्त्रयो द्विजाः । तेषां साधारणं धर्ममाह– इज्येति ॥ ‘ब्रह्मक्षत्रियविट्शूद्रावर्णास्त्वाद्यास्त्रयो द्विजाः’ इति स्मृतेः। ‘इज्याध्यापनदानानि विप्रस्य क्षत्रियस्य च’ इत्यादेः ॥ १३ ॥
सत्यधर्मीया
धर्मस्वरूपं निरूप्य तत्राधिकारिण आह ॥ संस्कारा इति । यदि वैदिकादयो वैदिका वेदत एव कर्तव्यतया विदिताः । एत एवादयो येषां ते चादिपदार्था यथाक्रमं पुरुषाणां योषितां च संस्कारा अमन्त्रका इति वैदिकादय इत्युक्तिः । अविच्छिन्नास्तर्हि स द्विजः । निषेकादि-स्मशानान्ताः समन्त्रका द्विजानाम् । योषितां त्वमन्त्रकाः सर्वेऽपि संस्काराः कार्या इति तात्पर्यम् । तथा च स्मृतिः । ‘‘निषेकादिस्मशानान्तास्तेषां वै मन्त्रतः क्रियाः । गर्भाधानमृतौ पुंसवनं स्यन्दना-त्पुरा । षष्ठेऽष्टमे वा सीमन्तो मासयो(तो)र्जातकर्म च । अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः । षष्ठेऽन्नप्राशनं मासे चूडा कार्या यथाकुलम् । एवमेनःशमं याति गर्भ(र्भे)बीजसमुद्भवम् । तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रकः । स्त्रीणां प्रदानकर्मैव यथोपनयनं तथा’’ इत्यादि । तत्र द्विजन्मनां त्रयाणामिज्याध्ययनदानानि विहितानि श्रुत्याद्युक्तानि । ‘‘ब्रह्मक्षत्रियविट्शूद्रा वर्णास्त्वाद्यास्त्रयो द्विजाः । इज्याध्ययनदानानि विप्रस्य क्षत्रियस्य चेत्यादेः । स द्विजोऽजो जगाद यमित्यपि पाठो दृश्यते क्वचित् । सोऽपि सुमङ्गलः । अजो ब्रह्माऽपौरुषेयत्वाद् वेद इति वा । ब्रह्मा यं द्विज इति जगाद स द्विजः । शूद्रं तु नैवं सोऽवादीदतो न स द्विज इत्यर्थः । तथा च स्मृतिः । ‘‘विवाहमात्रसंस्कारं शूद्रोऽपि लभतां सदा । न केनचित्समसृजच्छन्दसा तं प्रजापतिः’’ इति च । श्रुतिरपि । गायत्र्या ब्राह्मणमसृजत्त्रिष्टुभा राजन्यं जगत्या वैश्यं न केनचिच्छूद्रमिति । नाग्निर्न यज्ञः शूद्रस्येत्यादेर्न द्विजः शूद्रः । विस्तरस्तु छान्दोग्यादितोऽवसेयः । तत्रापि स द्विजो द्विजन्मनामित्येकवचनबहुवचनाभ्यां तरतमभावं सूचयति ॥ १३ ॥
मन्दनन्दिनी
एवं मनुष्यमात्रसाधारणं धर्मानुक्त्वा तत्तद्वर्णाश्रमोचितविशेषधर्मान्वक्तुं त्रैवर्णिक-साधारणलक्षणं तावदाह ॥ संस्कारा इति ॥ वैदिकादयः श्रौतस्मार्ताः । संस्कारा निषेकादयो यदि यस्याविच्छिन्नाः स द्विजः । स्त्रीषु मन्त्रोच्चारणाभावेऽपि वैदिकसंस्काराणां तन्त्रमात्रसद्भावात् प्रदानादीनामुपनयनादिस्थानापन्नत्वाच्च द्विजत्वं बोध्यम् । स द्विज इति लक्षणम् । विहितान्यग्निहोत्र-सोमादीनि बृहस्पतिसवनराजसूयादीनि विशेषविहितानीज्याध्ययनदानानि द्विजन्मनां धर्माः ॥ १३ ॥
जन्मकर्मावदातानां क्रियाश्च निगमोदिताः ।
विप्रस्याध्यापनादीनि ततोऽन्यस्यापरिग्रहः ॥ १४ ॥
पदरत्नावली
एतान्यपि द्विजमात्रस्य न किन्तु विशिष्टानामित्याशयेनाह– जन्मेति ॥ जन्मना कर्मणा वा अवदातानाम्, ‘कारीर्या यजेत वृष्टिकामः’ ‘मलवद्वाससा न संवदेत्’ इत्यादिवेदोदिताः क्रियाश्च विहिता इत्याह– क्रिया इति ॥ विशेषधर्ममाह– विप्रस्येति ॥ अध्यापनयाजनपटिग्रहाः । ततो ब्राह्मणादन्यस्य क्षत्रियादेरपरिग्रहः । ‘परिग्रहाधिको विप्रो याजनाध्यापने तथा’ इति वचनात् ॥ १४ ॥
सत्यधर्मीया
तमेव तरतमभावं विशिनष्टि ॥ जन्मेति । अवदातानां शुद्धानां निगमोदिताः क्रिया विहिताः । विप्रस्याध्ययनादीनि । ततो विप्रादन्यस्य क्षत्रियस्याप्रतिग्रहोऽध्यापनं याजनादिकं चादिपदार्थः । यथोक्तम् । प्रतिग्रहोऽधिको विप्रे याजनाध्यापने तथेति । सङ्कल्पपूर्वकं द्रविणादानं प्रतिग्रहस्तदभावोऽप्रतिग्रहः । विप्रस्याध्ययनादीनि षडन्यस्याप्रतिग्रह इति केचित्पेठुः१ । तत्र त्वध्यापनं याजनं प्रतिग्रहश्च जीविका । यथाऽऽह मनुः । षण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका । याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रह इति । तत्रार्थः । अप्रतिग्रह इति मुखतो ग्रहाद्राजन्यस्यापदि याजनाध्यापने कर्तव्ये इत्यनुजानातीति ज्ञेयम् । यद्वक्ष्यति ऋते राजन्यमिति । ननु छान्दोग्योपनिषदादौ दीनानुजिघृक्षया नापद्यपि राज्ञामुपदेशकत्वमुक्तम् । तथा हि । स होवाच तवैव राजन्मानुषं वित्तं यामेव कुमारस्यान्ते वाचमभाषथास्तामेव ब्रूहि इति चेत् । न । तत्रापि कृच्छ्रीबभूवेति श्रवणादापद्येतद्रूपिणीति नानुरूप्यमिति मन्तव्यम् ॥ १४ ॥
मन्दनन्दिनी
निगमोदिताः क्रियाः । न केवलं द्विजन्मनामपि तु जन्मना कर्मणा चावदातानां शुद्धानामिति पूर्वेण योजना । द्विजन्मस्वपि विशेषमाह । विप्रस्याध्ययनादीनि । षडिति यावत् । ततोऽन्यस्य क्षत्रियादेरपरिग्रहः । अपरिग्रह इत्युपलक्षणम् । अध्यापनयाजने न स्त इति बोध्यम् ॥१४॥
राज्ञो वृत्तिः प्रजागोप्तुरविप्राद् वा करादिभिः ।
वैश्यस्तु वार्तावृत्तिः स्यान्नित्यं ब्रह्मकुलानुगः ॥ १५ ॥
पदरत्नावली
प्रतिग्रहादिनाऽपि प्रवृत्तिमभिप्रेत्य राजादिवृत्तिमाह– राज्ञ इति ॥ आदिशब्देन न्यायतो दण्डाद्यागतं धनं गृह्यते । प्रजागोप्तुरित्यनेन प्रजागुप्त्यैव ततो धनमाहर्तव्यम् । अन्यथा दुष्कृत-मेवादत्त इति सूचयति । वाशब्देन देवा गृह्यन्ते । देवविप्रैर्विनेत्यर्थः । दण्डार्हविप्रमन्तरेण चेति । वार्ता-कृषिगोरक्षवाणिज्यलक्षणा ॥ १५ ॥
सत्यधर्मीया
ततोऽन्यस्याप्रतिग्रह इति प्रसक्तराजादिवर्तनप्रकारमाह ॥ राज्ञ इति । प्रजागोप्तु राज्ञः । अनेन प्रजागोपनमपि राजधर्म इत्यसूचि । किञ्च विना गोपनं करग्रहणेऽनर्थं सूचयति । प्रजा गोप्ता तस्य । अविप्रात् । विप्रपदेन करादिग्रहणायोग्या देवादय उपलक्षणीयाः । यद्वाऽविप्राद्विद्व-द्व्यतिरिक्तात् । यथोक्तम् । आत्वा कण्वा अहूषत गृणन्ति विप्र ते धिय इत्यृक्टीकायां विप्र मेधा-विन्निति । तट्टिपणे च विप्रो गृत्सो धीर इत्यादिचतुर्विंशतिसङ्ख्याकेषु मेधाविनामसु विप्रशब्दः पठित इति भाव इति । पराऽप्येतदृग्व्याख्यायां चतुर्विंशतिसङ्ख्याकेषु विप्र इत्यादिषु मेधाविनामसु कण्वऋभुरिति पठित इत्यूचे । विप्रोऽपि विप्रकृतिश्चेत्करादिग्राह्यता दृष्टचरीति कथमेवमुक्तिरित्यनेन निरस्तं वेदितव्यम् । ज्ञान्यर्थकत्वाद्विप्रशब्दस्य । करादिभिर्बलिः करः । उत्पन्नषष्ठांशग्रहः । अपीड-यित्वा द्रव्यादानम् । यथोक्तं राजधर्मे । यथा क्रमेण पुष्पेभ्यश्चिनोति मधु षट्पदः । तथा द्रव्यमुपादाय राजा कुर्वीत सञ्चयमिति । आदिपदेन न्यायतो दण्डशुल्कादिग्रहः । आकरादिभिर् आकरा रत्नसुवर्णस्थानानि तैः सह । वार्तावृत्तिर्वार्ता कृष्यादिस्तया वृत्तिर्जीवनं यस्य सः । ब्रह्मकुलानुगो ब्रह्म च ब्राह्मणाश्च कुलं जनपदस्वामी च क्षत्रियो राजन्यस्तदुभयानुगः । ‘‘कुलं जनपद’’ इति विश्वः । यथोक्तमुद्योगपर्वणि । वैश्योऽधीत्य ब्राह्मणान् क्षत्रियांश्चेत्यादि । ब्राह्मणमात्रानुग इति वा ॥ १५ ॥
मन्दनन्दिनी
वाशब्दोऽवधारणे । अविप्राद्देवजनात् करादिभिः । आदिपदाद्दण्डेभ्यः प्रसिद्ध-वित्ताहरणादिकं गृह्यते । वृत्तिर्जीवनोपायः । प्रजागोप्तुरित्यनेन गुप्तिरसाधारणो धर्म इति सूचितम् । वार्ता कुशीदादिवृत्तिर्जीवनोपायो यस्य सः वार्ता वृत्तिः । ब्रह्मकुलानुग इत्यनेन विप्रेषु विश्वासादिकं धर्म इति सूचितम् ॥ १५ ॥
शूद्रस्य द्विजशुश्रूषा वृत्तिश्च स्वामिनो भवेत् ॥ १६ ॥
पदरत्नावली
स्वामिनः सकाशाज्जवीनं चेति शेषः । भृत्यानां स्वामिनः शुश्रूषा च वृत्तिरिति वा ॥ १६ ॥
सत्यधर्मीया
द्विजेति वर्णत्रिकग्रहणम् । स्वामिनः सकाशाद्वृत्तिरित्यत्राप्यन्वेति जीविका
॥ १६ ॥
मन्दनन्दिनी
द्विजशुश्रूषा धर्मः । वृत्तिश्च स्वामिनस्तत्सम्बन्धिद्रव्यान्नादिना । अध्ययनादी-त्यनेन याजनाध्यापनप्रतिग्रहरूपावृत्तिः सूचिता ॥ १६ ॥
वार्ता विचित्रशालीनं यायावर्यं शिलोञ्छनम् ।
विप्रवृत्तिश्चतुर्धेयं श्रेयसी चोत्तरोत्तरा ।
जघन्यो नोत्तमां वृत्तिमनापदि भजेन्नरः ॥ १७ ॥
पदरत्नावली
विप्रवृत्तिं कण्ठोक्त्याऽऽह– वार्तेति ॥ अत्र वार्तादिकमापदीति ग्राह्यम् । विप्रानु-ज्ञया क्षत्रियवैश्ययोर् विज्ञापनं धर्म इत्युच्यते । तदभावे शूद्रस्य कथमिति तत्राह– जघन्य इति ॥ जघन्यो नरः शूद्रो अनापदि तत्सद्भावे उत्तमां वृत्तिं तत्त्वज्ञानलक्षणां न भजेन् न कुर्यादित्यन्वयः । आपदि तदभावे तदनुज्ञया कुर्यादित्यतो ऽनापदि इति विशेषणम् । पालनादिवृत्तिं वा । ननु वर्णहीनस्य कथमित्यस्येदमेवोत्तरम् । जघन्यो वर्णहीनोनापद्यप्युत्तमां वृत्तिं न भजेत् । वर्णेष्वज्ञेषु वर्णस्तु न ज्ञानी स्यात्कथं च नेति श्रुतिः ॥ १७ ॥
सत्यधर्मीया
विप्रादीनामनुकल्पं कल्पं च धर्ममापत्कालिकमालपति ॥ वार्तेति । वार्ता कृष्यादिकम् । विचित्रशालीनं नम्रतया नानाधान्यसङ्ग्रहः । खले । विचित्रेति क्वचिट्टाबन्तपाठस्तत्पक्षे वार्ताविशेषणम् । यायावर्यं प्रत्यहं प्रतिगेहं याञ्चा शिलोञ्छनमिति समाहारो वोत्तरपदलोपी समासो वेति ज्ञेयम् । उञ्छः कणश आदानं कणिशाद्यर्जनं शिलमिति वचनात् । विचित्रशालीनं यायावर्यं शिल-मुञ्छनं चेति चतुर्धा । इयं चादित उक्ता वार्ता चेति पञ्चधेति योजना । अथवा विचित्रशालीनमिति यायावर्यविशेषणम् । नानाविधधान्यसम्बन्धि ततश्चतुर्धेत्युपपन्नम् । यद्वोत्तरत्र ऋतमुञ्छशिलं प्रोक्तमिति तद्वन्द्वस्यर्तमिति कीर्तिष्यमाणत्वात्समाहारवृत्तिरेकैवेति चतुर्धेत्यभिधानं ज्ञेयम् । उत्तरोत्तरा श्रेयसी । वार्तातो विचित्रशालीनमित्यादिकोत्तरोत्तरा श्रेयसी वृत्तिरित्यर्थः । यश्च यङो यातेर्यङन्ताद्वरच् । अतो लोपस्तस्य यलोपं प्रति स्थानिवद्भावनिषेधाल्लोपो व्योर्वलीति यलोपः । अल्लोपस्य स्थानिवद्भाव-माश्रित्यातो लोपे प्राप्ते वरे लुप्तं न स्थानिवदिति कौमुद्युक्तेर्यायावरस्तस्य स्वभावो यायावर्यम् । विप्राज्ञया क्षत्रियवैश्ययोस्तत्त्वविज्ञापनं धर्म उक्तः । तदभावे शूद्रेणापि तत्त्वज्ञापनं कर्तव्यं किमित्यत आह ॥ जघन्य इति । उत्तमां वृत्तिं ब्राह्मणाद्यनुष्ठेयां पालनादिवृत्तिम् । जघन्यो नरो सच्छूद्रः । अनापदि तयोः सत्त्वे न भजेन्न कुर्यात् । आपदि तदभावरूपिण्यां पालनादिवृत्तिं कुर्यादित्यर्थः । श्रवणे त्रपुजतुभ्यां श्रोत्रपरिपूरणमध्ययने जिह्वाच्छेदोऽर्थावधारणे हृदयविदारणम् । ‘‘वर्णेष्वज्ञेष्ववर्णस्तु न ज्ञानी स्यात्कथञ्चन । नाग्निर्न यज्ञः शूद्रस्य तथैवाध्ययनं कुतः । केवलैव तु शुश्रूषा त्रिवर्णानां विधीयत’’ इत्यादेः ॥ १७ ॥
मन्दनन्दिनी
तथाऽपि तदतिरिक्तां वृत्तिं विभज्याह ॥ वार्तेति ॥ वार्ता कुशीदादिरूपा । एषा चापदि । विचित्रशालीनं नानाक्षेत्रेभ्यो नानाधान्यार्जनम् । यद्वा यायावर्यस्य विशेषणम् । विचित्रधान्य-विषयकमिति तदर्थः । एतत्पक्षे शिलोंछनमिति अत्र वृत्तिद्वयं बोध्यम् । यायावर्यं गृहेभ्योधान्ययाचनम् । शिलोंछनमुञ्छःकणश आदानं कणिशाद्यर्जनं शिलमित्युक्तेर्भेदो बोध्यः ॥
उत्तरोत्तरा श्रेयसी विचित्रशालीनापेक्षया यायावर्यं तदपेक्षया शिलोंछं श्रेय इति ज्ञेयम् । जघन्यो नरः क्षत्रियादिः । अनापद्युत्तमां विप्रादिसम्बन्धिवृत्तिमध्यापनं यायावर्यादि जीवनोपायं न भजेत् । जघन्यः शूद्रो वर्णहीनो वाऽनापदि विप्रसद्भावे वर्णसद्भावे वा । उत्तमां वृत्तिं तत्त्वज्ञानलक्षणामिति टीकारीत्या वाऽर्थो बोध्यः ॥ १७ ॥
ऋते राजन्यमापत्सु सर्वेषामपि सर्वशः ।
ऋतामृताभ्यां जीवेत मृतेन प्रमृतेन वा ॥ १८ ॥
पदरत्नावली
राजानं विना सर्वेषां विप्रादीनामापदि उक्तसर्ववृत्तिभिर्जीवने दोषो नास्तीत्याह– राजन्यमिति ॥ १८ ॥
सत्यधर्मीया
राजन्यं राजानमृते विना सर्वेषां वर्णस्थानां सर्वशः सर्वाभिर्वृत्तिभिरापत्सु जीवनं न दोषायेत्यर्थः । तत्रापि राज्ञः प्रतिग्रहः शूद्रस्याध्ययनादिकमृत इति हृदयम् । अधुनोभयोः कर्तव्या-कर्तव्ये आह ॥ ऋतामृताभ्यामिति ॥ १८ ॥
मन्दनन्दिनी
आपदि वृत्तिमाह ॥ ऋत इति ॥ राजन्यं विनाऽऽपत्सु सर्वेषां विप्रादीनां सर्वशः सर्वप्रकारेणापि वृत्तिः कर्तव्या । विप्रस्य स्ववृत्त्यसम्भवे क्षत्रियवृत्त्या जीवनं तस्याप्यसम्भवे वैश्य-वृत्त्यैवमेव क्षत्रियस्य प्राप्तौ ऋते राजन्यमित्यपवादः । एष च सामान्यापत्सु विशेषापत्सु तु विप्रवृत्त्या जीवनम् । अत्यापत्सु विप्रक्षत्रशुश्रूषालक्षणशूद्रवृत्त्याऽपि जीवनं ज्ञेयम् । वैश्यस्त्वापदि शूद्रवृत्त्यैव जीवेत् । सर्वेषामिति तूत्सर्गः । शूद्रस्तु वैश्यवृत्त्या कारुकवृत्त्या वा जीवेत् । वैश्यवृत्त्या जीवनेऽपि अध्ययनं न कुर्यादित्यादिकं ज्ञेयम् । एतत्सर्वम् ‘‘आपत्सु विप्रः क्षात्रं तु विशां वा धर्ममाचरेत् । क्षात्रासिद्धौ न शूद्रस्तु विप्रक्षत्रिययोः क्वचित् । क्षत्रियो ब्राह्ममापत्सु तदापत्सु विशामपि । क्षत्रियो विप्रधर्माऽपि नैव भैक्ष्यप्रतिग्रही । वैश्य आपत्सु शौद्रं तु धर्ममेकं न चापरम् । शूद्र आपत्सु विड्धर्मो तदापत्सु च कारुकः । शूद्रस्तु वैश्यधर्मोऽपि नैव वेदाक्षरो भवेत् । अत्यापदि क्षत्रियोऽपि पादशुश्रूषणं विना । शौद्रधर्मांश्चरन्विप्रः क्षत्रियेषु न दूष्यति । येषु कर्मसु याञ्चा स्यात्स्वामिनाऽपि न याचिता ॥ शौद्राण्यपि स्वधर्मत्वे क्षत्रियस्यापदो यदि । आत्मनश्चेद्बलाधिक्यं सानुबन्धादपि प्रभोः । धर्मार्थं सेवतोऽर्था विप्रधर्मादिकाद्वरः । प्रभुणा याञ्चवृत्तिस्तु विशेषेणापि धर्मभाक् । बाह्वोर् बलाधिको यस्स्यात्क्षत्रियो विद्ययाऽधिकः । विप्रौ भागवतौ चैतौ सेशा लोकास्तयोरिमे’’ । इति गीतातात्पर्योदाहृत व्यासस्मृतितोऽवगन्तव्यम् । तथा न्यायदीपिकायाम् । न केवलं क्षत्रियः शूद्रधर्मं चरन्न दूष्यतीत्येव, किं तर्हीत्यत आह ॥ येष्विति ॥ यदि क्षत्रियस्य स्वधर्मवृत्तावापदो भवन्ति तर्हि तस्य सानुबन्धात्स्वामिनो बलाधिक्येऽपि धर्मार्थं तमनभिभूयेषु कर्मसु नियुक्तः स्वामिनाऽपि याच्यः स्यात् । न च स्वयं याचिता । तानि शौद्राण्यपि कर्माणि अर्थाद्यर्थं सेवमानस्य विप्रादिधर्मोपजीवनादपि परो (वरो) धर्मो भवती-त्यर्थः । तत्र स्वाम्यननुभवादपि स्वामिना याच्यत्वं विशेषेण धर्मकारणामित्याह ॥ प्रमृतेति ॥ विप्रधर्माद्याश्रयणे परोपजीवनाभावाच्छूद्रधर्मे तद्भावात्कथं सानुबन्धात्प्रभोर्बलाधिक्यादौ सत्यपि ततोऽ-तस्य वरत्वमित्यत आह ॥ बाह्वोरिति ॥ सर्वस्य तदीयत्वान्न परोपजीवनमिति भावः । विप्रस्यैव जीवनोपायषट्कमाह ॥ ऋतामृताभ्यामित्यादिना ॥ १८ ॥
सत्यानृताभ्यां जीवेत न श्ववृत्त्या कथञ्चन ।
ऋतमुञ्छशिलं प्रोक्तममृतं यदयाचितम् ॥ १९ ॥
पदरत्नावली
ऋतादीनामप्रतीतार्थत्वाद् व्याचष्टे– ऋतमित्यादिना ॥ १९ ॥
सत्यधर्मीया
ग्रन्थकृदेव सामयिक्यः संज्ञा एता इति स्वयमेव ता व्याकरोति ॥ ऋतमिति ॥ ऋतमुञ्छशिलम् । यदयाचितमयाञ्चालब्धं तदमृतम् ॥ १९ ॥
मन्दनन्दिनी
निषेधमाह न श्ववृत्त्येति । अर्थाप्रतीतेर् ऋतादिपदसप्तकस्यार्थमाह ॥ ऋत-मित्यादिना ॥ सत्यानृतमित्येकवद्भावः ॥ १९,२० ॥
मृतं तु नित्ययाञ्चा स्यात् प्रमृतं कर्षणं स्मृतम् ।
सत्यानृतं तु वाणिज्यं श्ववृत्तिर्नीचसेवनम् ॥ २० ॥
पदरत्नावली
कर्षणं कृषिः ॥ २० ॥
सत्यधर्मीया
मृतं तु नित्ययाञ्चा स्यात् प्रमृतं कर्षणं कृषिः । सत्यानृतं वाणिज्यमित्युच्यते । श्ववृत्तिर्नीचसेवनम् ॥ २० ॥
वर्जयेत् तां सदा विप्रो राजन्यश्च जुगुप्सिताम् ।
सर्ववेदमयो विप्रः सर्वदेवमयो नृपः ॥ २१ ॥
पदरत्नावली
श्ववृत्तिवर्जने हेतुमाह– सर्वेति ॥ ‘सर्वा देवता वेदविदि ब्राह्मणे वसन्ति’ इति श्रुतेः । ‘नाविष्णुः पृथिवीपतिः’ इत्यादेश्च ॥ २१ ॥
सत्यधर्मीया
तां श्ववृत्तिं जुगुप्सितां विप्रो राजन्यः सदा वर्जयेत् । पृथक् पृथगन्वयः । सदेत्यनेनापद्यपि न कुर्यादित्यर्थः सूच्यते । कुतो विप्रप्रजेशवर्जनीयता श्ववृत्तेरित्यत आह ॥ सर्वेति । सर्ववेदमयो मयिर्गत्यर्थ इति ज्ञानार्थः । ‘‘विप्रः सर्ववेदज्ञ’’ इति । सर्ववेदमयः । सर्वा देवता वेदविदि ब्राह्मणे वसन्तीति श्रुतेः । नृपश्च सर्वदेवमयस्तत्सन्निधानपात्रम् । यथोक्तं प्रथमे शृृङ्गिणा । नरदेवनामि्न रथाङ्गपाणाविति । चतुर्थे वेनवाणी । ‘‘विष्णुर्विरिञ्चो गिरिश इन्द्रो वायुर्यमो रविः । पर्जन्यो धनदः सोमः क्षितिरग्निरपां पतिः । एते चान्ये च विबुधाः प्रभवो वरशापयोः । देहे तिष्ठन्ति नृपतेः सर्वदेवमयो नृप’’ इति । ‘‘नाविष्णुः पृथिवीपति’’रित्यादेः । रामायणे वाल्मीकीये उलूकवाक्यम् । सोमाच्छत-क्रतोः सूर्यादित्यादि । अतस्ताम्यां श्ववृत्तिर्वर्जनीयेति भावः ॥ २१ ॥
मन्दनन्दिनी
जुगुप्सितां निन्दितां श्ववृत्तिम् । विप्रराजन्ययोर्वैशिष्ट्यमाह ॥ सर्वेति ॥ वेदमयो वेदप्रधानः । ‘‘वेदमूलमिदं ब्राह्म’’मित्युक्तेः । देवमयो देवप्रधानो विष्णोर्लोकपालानां चात्र सन्निधानात्
॥ २१ ॥
शमो दमस्तपः शौचं सन्तोषः क्षान्तिरार्जवम् ।
दानं दयाऽच्युतात्मत्वं सत्यं च ब्रह्मलक्षणम् ॥ २२ ॥
पदरत्नावली
विप्रादीनां विविच्य ज्ञाने प्रथमं लक्षणमाह– शम इत्यादिना ॥ अच्युतात्मत्वम् अच्युतमनस्कत्वम् ॥ २२ ॥
सत्यधर्मीया
ब्राह्मणा इति कथं ज्ञेया इत्यत इयत्या सामग्य्रेत्याह ॥ शम इति । अच्युतात्मत्वं भगवन्मनस्कता ॥ २२ ॥
मन्दनन्दिनी
ब्राह्मणादीनां क्रमेण लक्षणान्याह ॥ शम इत्यादिना ॥ अच्युतात्मत्व-मच्युतमनस्कत्वम् ॥ २२ ॥
शौर्यं वीर्यं धृतिस्तेजस्त्याग आत्मजयः क्षमा ।
ब्रह्मण्यता प्रसादश्च रक्षा च क्षत्रलक्षणम् ॥ २३ ॥
पदरत्नावली
त्यागो दातव्ये मुक्तहस्तता । आत्मजयो मनोजयः ॥ २३ ॥
सत्यधर्मीया
आत्मजयो मनोजयस्त्यागो वितरणम् । रक्षा वर्णत्रयरक्षणम् । ब्रह्मण्यता ब्रह्मणि ब्राह्मणविषये साधुता । ब्रह्मण्यो ब्रह्मसाधौ स्यादिति विश्वः ॥ २३ ॥
मन्दनन्दिनी
त्याग औदार्यम् । आत्मजयो मनोनिग्रहः । ब्रह्मण्यता ब्रह्मणि साधुता । प्रसादो मुखप्रसादः ॥ २३ ॥
देवगुर्वार्यगोभक्तिस्त्रिवर्गपरितोषणम् ।
आस्तिक्यमुद्यमो नित्यं नैपुण्यं वैश्यलक्षणम् ॥ २४ ॥
पदरत्नावली
त्रिवर्गैर् धर्मार्थकामैर् ईश्वरपरितोषणम् । त्रयो वर्गा येषां ते त्रिवर्गाः, तेषां द्रव्यादिना परितोषणम् ॥ २४ ॥
सत्यधर्मीया
त्रिवर्गा धर्मार्थकामास्तैर्हरिपरितोषणं नित्यमिति योग्यसर्वान्वयि । नैपुण्यं निपुणता
॥ २४ ॥
मन्दनन्दिनी
त्रिवर्गैर्धर्मार्थकामैः । त्रिवर्गाणां ब्रह्मक्षत्रियविशां वा परितोषणम् ॥ २४ ॥
शूद्रस्य सन्नतिः१ शौचं सेवा स्वामिन्यमायया ।
अमन्त्रयज्ञो ह्यस्तेयं मौढ्यं गोविप्ररक्षणम् ॥ २५ ॥
पदरत्नावली
शूद्रस्य अन्ततः सकृत् स्पृष्टाभिरद्भिराचमनलक्षणं शौचम् । ‘हृत्कण्ठतालुगाद्-भिस्तु यथासङ्ख्यं द्विजातयः । शुद्ध्येरन् स्त्री च शूद्रश्च सकृत् स्पृष्टाभिरन्ततः ॥’ इति वचनात् । केशश्मश्रुनखाद्यधारणं मौढ्येन ॥ २५ ॥
सत्यधर्मीया
शौचं सकृत्स्पृष्टाभिरद्भिराचमनलक्षणम् । ‘‘हृत्कण्ठतालुगाभिस्तु यथासङ्ख्यं द्विजातयः । शुद्धेरन्स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्तत’’ इति वचनात् । असङ्कल्पादिपूर्वकं स्नानं वा । अमन्त्रयज्ञो नमनमुखेनैव पञ्चापि यज्ञान्कुर्वीत । यथाऽऽह याज्ञवल्क्यः । ‘‘नमस्कारेण मन्त्रेण पञ्चयज्ञान्न हापयेदि’’ति । मौढ््यं जानंश्चेदपि ज्ञानिपुरतोऽहं कियानिति मूढताप्रदर्शनम् ॥ २५ ॥
मन्दनन्दिनी
अमाययाऽछद्मना ॥ २५ ॥
स्त्रीणां तु पतिदेवानां तच्छुश्रूषाऽनुकूलता ।
तद्बन्धुष्वनुवृत्तिश्च नित्यं तद्व्रतधारणम् ॥ २६ ॥
पदरत्नावली
स्त्रीणां सामान्यलक्षणमाह– स्त्रीणामिति ॥ अनुकूलता उक्तकारित्वम् । ‘यत्रानुकूल्यं दम्पत्योस्त्रिवर्गस्तत्र वर्धते । स्त्रीभिर्भर्तृवचः कार्यमेष धर्मः परं स्त्रियः’ इति वचनात् । तद्बन्धुषु भर्तृबन्धुषु भागिनेयादिषु । तद्व्रतधारणं पातिव्रत्यम् । तस्य यद्व्रतं तदेवास्या व्रतमिति वा
॥ २६ ॥
सत्यधर्मीया
मानिनीनां सामान्यलक्षणमाह ॥ स्त्रीणामिति । पतिदेवतानां पतिर्देवः पूज्यो यासां तास्तासाम् । तच्छुश्रूषानुकूलता तत्कर्तृकभगवद्भागवतसेवानुकूलता । यद्वा तस्य शुश्रूषानुकूलत्वं सेवानुकूल्यम् । तद्बन्धुषु पतिभ्रात्रादिषु तद्व्रतधारणं तस्य यद् व्रतं तस्य धारणम् । पातिव्रत्यमिति वा । ‘‘यत्रानुकूल्यं दम्पत्योस्त्रिवर्गस्तत्र वर्तते । स्त्रीभिर्भर्तृवचः कार्यमेष धर्मः सनातन’’ इत्युक्तेः ॥ २६ ॥
मन्दनन्दिनी
स्त्रीसामान्यलक्षणमाह ॥ स्त्रीणामिति ॥ अनुकूलतोपकारित्वम् । ‘‘यत्रानुकूल्यं दम्पत्योस्त्रिवर्गस्तत्र वर्धते । स्त्रीभिर्भर्तुर्वचः कार्यम् एष धर्मः परस्त्रिय’’ इति वचनात् । तद्बन्धुषु भागिनेयादिषु । तद् व्रतधारणं पातिव्रत्यं ब्रह्मण्यं तस्य यद् व्रतं तदेवास्या व्रतमिति वा ॥ २६ ॥
सम्मार्जनोपलेपाभ्यां गृहमण्डनवर्तनैः ।
स्वयं च मण्डिता नित्यं परिमृष्टपरिच्छदा ॥ २७ ॥
पदरत्नावली
गृहमण्डनवर्तनैर् गृहालङ्कारकरणैः ॥ २७ ॥
सत्यधर्मीया
मार्जनं कथितं शुद्धौ । मण्डनं स्यादलङ्कारेऽलङ्करिष्णुनि वाच्यवदिति विश्वः । सम्मार्जनं प्रागवकरेण शुद्धिरुपलेपो गोमयादिना । मण्डनमलङ्करणं वर्तनान्युद्वर्तनानि तैर्नित्यं स्वयं मण्डिता । परिमृष्टपरिच्छदा संशुद्धवस्त्रादिमती ॥ २७ ॥
मन्दनन्दिनी
गृहमण्डनवर्तनैर्गृहालङ्कारकरणैः ॥ २७ ॥
कामैरुच्चावचैः साध्वी प्रश्रयेण दमेन च ।
वाक्यैः सत्यैः प्रियैः प्रेम्णा काले काले भजेत् पतिम् ॥ २८ ॥
पदरत्नावली
कामैर् विषयैः ॥ २८ ॥
सत्यधर्मीया
उच्चावचैरनेकप्रकारैः कामैर्विषयैस्तदभिलषितैः । काले काल इति सदा । प्रेम्णा भक्त्या ॥ २८ ॥
मन्दनन्दिनी
कामैर्विषयैः ॥ २८ ॥
सन्तुष्टाऽलोलुपा दक्षा धर्मज्ञा प्रियसत्यवाक् ।
अप्रमत्ता शुचिः स्निग्धा पतिं त्वपतितं भजेत् ॥ २९ ॥
पदरत्नावली
अलोलुपा अयोग्याभिलाषरहिता । अपतितं ब्रह्महत्यादिपातकरहितम् ॥ २९ ॥
सत्यधर्मीया
अलोलुपाऽदुरभिलाषा । प्रियेषु भर्तृप्रियेष्वपि सत्यवाक् । यद्वा प्रियस्य पत्युर्याः सत्य इतरा योषितस्तद्विषयेऽवागनिष्ठुरभाषिणीति वा । ‘‘एकस्य बव्ह्यो जाया भवन्ती’’ति श्रुतेः । अपतितं ब्रह्महत्यादिरहितम् । ‘‘पतिः स्त्रीभिर्न हातव्यो यदि स्यान्नैव पातकी’’ति वचनात् ॥ २९ ॥
मन्दनन्दिनी
अलोलुपा अयोग्याभिलाषरहिता । अपतितं ब्रह्महत्यादिभीरहितम् ॥ २९ ॥
या पतिं हरिभावेन भजेच्छ्रीरिव तत्परा ।
हर्यात्मना हरेर्लोके पत्या श्रीरिव मोदते ॥ ३० ॥
तात्पर्यम्
‘हरिरस्मिंस्थित इति स्त्रीणां भर्तरि भावना ॥ शिष्याणां च गुरौ नित्यं शूद्राणां ब्राह्मणादिषु । भृत्यानां स्वामिनि तथा हरिभाव उदीरित’ इति च ॥ ३० ॥
॥ इति श्रीमद्भागवते सप्तमतात्पर्ये एकादशोऽध्यायः ॥ ११ ॥
पदरत्नावली
अस्मिन् पतौ हरिः सन्निहित इति या बुद्धिः स हरिभावः । ‘हरिरस्मिन् स्थित इति स्त्रीणां भर्तरि भावना । शिष्याणां च गुरौ नित्यं शूद्राणां ब्राह्मणादिषु ॥ भृत्यानां स्वामिनि तथा हरिभाव इतीरितः ॥’ इति वचनान्न तयोरैक्यार्थः । हर्यात्मना हरेर्विशेषसन्निधानवता पत्या सह ॥३०॥
सत्यधर्मीया
या पतिं हरिभावेनेति श्लोके हरिभावेन तत्तादात्म्येन भजेत्सा हरिलोके मोदत इत्यन्यथाप्रतीतिं प्रमाणेन पराकुर्वन् ‘‘गुरोर्नाम न गृह्णीयाच्छिष्यो भार्या पतेरपि’’ इति प्रतत्समानशास्त्र-विषयशिष्याणां गुरौ तत्प्रसङ्गसङ्गत्या शूद्रादीनां ब्राह्मणादिषु तं हरिभावं तेनैवाह ॥ हरिरिति । अस्मिन्पत्यौ । ब्राह्मणादिषु त्रैवर्णिकादिषु भावना चिन्तनम् । तामुद्दिश्य हरिभाव इति विधानम् ॥ ततश्चायं श्लोकार्थः । हरिभावेन हरिरत्र सन्निहित इति भावनया । एतदर्थकरण एवानुरूपं निदर्शनं निरूपयति ॥ श्रीरिवेति । तत्परा स एव परो यस्याः सा तदासक्ता । हर्यात्मना तत्सारूप्यादिभाजा । हरिरात्मनि यस्य तेनेति वा । पत्या सह हरेर्लोके श्रीर्हरिणेव मोदत इत्यन्वयः ॥ ३० ॥
मन्दनन्दिनी
हरिभावेनास्मिन् पत्यौ हरिः संनिहित इति या बुद्धिः सा हरिभावस्तेन ॥ तदुक्तं तात्पर्ये ॥ हरिरस्मिन्नित्यादि । हर्यात्मना हरेर्विशेषसंन्निधानवता पत्या सह ॥ ३० ॥
वृत्तिः सङ्करजातीनां तत्तत्कुलकृता भवेत् ।
अचोराणामपापानामन्त्यजान्तेऽवसायिनाम् ॥ ३१ ॥
पदरत्नावली
क्षत्रियाद् विप्रस्त्रीसूतानां विप्रात् क्षत्रियस्त्रीजातानां क्षत्रियाद् वैश्यस्त्रीसूतानां वैश्याच्छूद्रस्त्रीसूतानामित्येवं जातानां का वृत्तिरिति तत्राह– वृत्तिरिति ॥ येषां जातिविशेषा अम्बष्ठ-निषादपाराशरादिनाम्ना ज्ञातव्याः । तदुक्तम्– ‘विप्रान्मूर्धावसिक्ता स्त्री राज्ञोम्बष्ठ विशेऽङ्गना’ इत्यादि । अध्ययनमन्तरेणाम्बष्ठादीनां संस्कारादिकम् । तत्कुलानुकूल्येन तेषां गुणमाह– अचौराणामिति ॥ यस्य यस्याविहितं तत्करणं चौर्यम् । तद्रहितम् । शूद्राद्ब्राह्मण्यां जाता अन्त्यजा रजकादिसप्तकारवः । ततो जाता अन्तेवसायिनः पुल्कसमतङ्गादयः, येषां तत्कुलविहित एव धर्मः । ‘ब्राह्मण्यां क्षत्रियात् सूतो वैश्याद् वैदेहिकस्तथा । शूद्राज्जातस्तु चण्डालः सर्ववर्णविगर्हितः ॥’ इति च ॥ ३१ ॥
सत्यधर्मीया
प्रतिलोमजानां वृत्तिमाह ॥ वृत्तिरिति । सङ्करजातीनां क्षत्राद्विप्रस्त्रियां तथैव विप्रात्क्षत्रियस्त्रियां क्षत्राद्वैश्ययोषिति वैश्याच्छूद्रवनितायां जातानाम् । केचिद्बीजप्राधान्यकाः केचिच्च योनिप्राधान्यका जनास्ते तत्तत्कुलानुकूल्येनेति तत्तत्कुलकृता वृत्तिर्भवेत् । तत्रापि तैरित्थम्भाव्य-मित्याहुः ॥ अचोराणामिति । यस्य यस्य यद्यद्विहितं तत्तदकरणं चौर्यं, प्रसिद्धचोरणरहितानामिति वा । तेषां जातिविशेषाश्चाम्बष्टादिसंज्ञा ज्ञेयाः । तथा च स्मृतिः । विप्रान्मूर्धावसिक्तस्त्रीजातोऽम्बष्ट इत्यादिका । रजकादिसप्तकारवस्त्वन्त्यजाः । ‘‘रजकश्चर्मकारश्च नटो बुरड एव च । कैवर्तमेदभिल्लाश्च सप्तैतेह्यन्त्यजाः स्मृता’’ इति स्मृतेः । अन्तेऽवसायिनः पुल्कसादय । एतेषां तत्तत्कुलपरम्पराप्राप्तो धर्म एवानुष्ठेयः । ‘‘ब्राह्मण्यां क्षत्रियात्सूतो वैश्याद्वैदेहकस्तथा । शूद्राज्जातस्तु चण्डालः सर्ववर्णबहिष्कृत’’ इति च । अन्ते ग्रामान्तेऽवसायो निश्चयो येषामस्तीति ते तथा । शयवासेति सप्तम्या अलुक् ॥ ३१ ॥
मन्दनन्दिनी
ब्राह्मणस्य तिस्रोऽनुलोमजातयः । क्षत्रियस्य द्वेऽनुलोमजाती । एका प्रतिलोम-जातिर्वैशस्यैकाऽनुलोमजातिः । द्वै प्रतिलोमजाती शूद्रस्य तिस्रः प्रतिलोमजातयः । एवं द्वादश जातयः । एवं तासां परस्परभिन्नजातिषु चतुर्वर्ण्यां च जाता जातयस्ततो जाता अन्तेऽवसायिनः । पुल्कसमतङ्गादयः । एषां वृत्तिस्तत्तत्कुलकृता भवेदित्यन्वयः । ‘‘ब्राह्मण्यां क्षत्रियाज्जातो वैश्याद्वैदेहिक-स्तथा । शूद्राज्जातस्तु चण्डालः सर्ववर्णविगर्हित’’ इति वचनात् ॥ ३१ ॥
प्रायः स्वभावविहितो नृणां धर्मो युगे युगे ।
वेददृग्भिः स्मृतो राजन् प्रेत्य चेह च शर्मकृत् ॥ ३२ ॥
पदरत्नावली
तत्तद्वर्णैस्तत्तत्स्वभावेनानुष्ठितस्य धर्मस्य फलमाह– प्राय इति ॥ सात्विकादि-स्वभावानुसारेण ब्राह्मणानां विहितः । अत्र प्रमाणमाह– वेदेति ॥ स्मृतः ग्रन्थस्वरूपेण कृतः । प्रेत्य परलोके । ‘नाश्रमः कारणं धर्मे (कर्म) क्रियमाणो भवेद्धि सः । अतो यदात्मनः पथ्यं परस्य न तदाचरेत् ॥ सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।’ इत्यादिवचनाद् भक्त्युपबृंहितस्य धर्मस्यापेक्षिता-शेषपुरुषार्थहेतुत्वं, न केवलस्येत्यभिप्रायेण प्राय इत्युक्तम् । तत्र तत्तद्विशेषवर्णने ग्रन्थबाहुल्यं स्यादित्युपरम्यते ॥ ३२ ॥
सत्यधर्मीया
तत्तद्वर्णस्थैः स्वस्वकर्तव्यतयाऽवधारितधर्मानुष्ठाने तत्फललाभ इति वदति ॥ प्राय इति । स्वभावविहितस्तत्तद्वर्णाश्रमयोग्यतामनुसृत्य विधिप्राप्तः । नृणां ज्ञानिनाम् । न कर्म लिप्यते नर इतीशावास्योपनिषदमुदाहृत्य तत्त्वप्रकाशिकायां नरे ज्ञानिन्यपीति व्याख्यातत्वात् । युगे युगे प्रतियुगम् । ‘‘प्रायः साङ्गो धर्मो वेददृग्भिः स्मृतः’’ । ‘‘स्वभावजेन कौन्तेय संसिद्धिं लभते नरः’’ । ‘‘स्वे स्वे कर्मण्यभिरत’’ इत्यादिग्रन्थे ग्रथितः । इह च शर्मकृत्सत्सहवासलभ्यसुखकृत् । प्रेत्य स्थितस्य शर्म सुखं तत्कृत् ॥ ३२ ॥
मन्दनन्दिनी
एवं वृत्तिमुक्त्वा धर्ममाह ॥ प्राय इति ॥ स्वभावविहितः स्वस्य भावो जातिः । यज्जातीयत्वमिति यावत् । तज्जातीयस्य यो वेददृग्भिः स्मृतः स्मृतिरूपग्रन्थेनोक्तः । सः युगे युगे प्रतियुगं प्रेत्य मृत्वा स्थितस्येह लोके स्थितस्य शर्मकृत् सुखकृत् । प्राय इत्यनेन रागादिकलुषितत्वे शर्म-कृत्वाभावः सूचितः । अनेन स्मृतिषु तत्तज्जातीयधर्माणां विस्तृतत्वादिहानुक्तिरिति सूचितम् ॥ ३२ ॥
वृत्त्या स्वभावकृतया वर्तमानः स्वकर्मणि ।
हित्वा स्वभावजं कर्म शनैर्निर्गुणतामियात् ॥ ३३ ॥
पदरत्नावली
न केवलमनेन धर्मेण स्वर्गादिप्राप्तिः । अपि तु भक्त्यादिसाधनपूर्णेन मुक्तिरपि स्यादित्याह– वृत्त्येति ॥ स्वभावेन स्वात्मना कृतया प्रेरितया सात्विकादिस्वभावपूर्णया वा वृत्त्या जड-लक्षणया भक्त्या वा योग्यतया स्वविहितकर्मणि वर्तमानः पुरुषः । शनैः शनैर् बहूनां जन्मनामन्ते । स्वभावजं पुण्यपापलक्षणम् । निर्गुणतां मुक्तिम् । ‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’ इति श्रुतेर् ज्ञानपूर्वकमनुष्ठितो नित्यानन्दाविर्भावलक्षणपुरुषार्थस्य हेतुः । ‘यद्यप्यनेवंविन्महत्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एव’ इति श्रुतेः । तत्वज्ञानपूर्वकं भगवद्भक्तप्रद्वेषोपरक्तः प्रवृद्धो धर्मो नित्यदुःखाविर्भावलक्षणपुरुषार्थस्य, ‘त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते’ इत्यादि नित्यं प्रार्थनादिगुणोपरक्तोऽनित्यसत्त्वगुणनिमित्तसुखलक्षणस्य इत्यादि ॥ ३३ ॥
सत्यधर्मीया
तत्सुखं न दुःखसंवलितं किन्तु मुक्तिगमपि भक्तिसचिवेन धर्मेण लभ्यमित्याह ॥ वृत्त्येति । स्वभावकृतया वृत्त्या भक्त्या । स्वकर्मणि वर्तमानोऽस्वभावजमन्तरायातं कर्मानिष्टपुण्य-दुरिष्टसाधकं च शनैर्हित्वा प्रारब्धं भोगेन हित्वा गमयित्वा निर्गुणतां निर्गता गुणाः सत्त्वादयो येभ्यस्ते निर्गुणा मुक्तास्तेषां भावं मुक्तिमियात्प्राप्नुयात् ॥ ३३ ॥
मन्दनन्दिनी
स्वस्वजातिविहितधर्मानुष्ठानेन न केवलं स्वर्गः किन्तु मोक्षोऽपीत्याशयेनाह ॥ वृत्त्येति ॥ स्वभावकृतया स्वस्वजातिप्रयुक्तया वृत्त्या धर्मानुष्ठानेन स्वकर्मणि वर्तमानः । स्वभावजं भाव इच्छा तज्जं कर्म काम्यं हित्वा शनैर्निर्गुणतां मोक्षमियात् । अनेन सर्वजातिविहितं कर्म अकामेनानुष्ठीयमानं मोक्षसाधनमित्युक्तं भवति ॥ ३३ ॥
उप्यमानं मुहुः क्षेत्रं स्वयं निर्वीर्यतामियात् ।
न कल्पते पुनः सूत्यै उप्तं बीजं च नश्यति ॥ ३४ ॥
एवं कामाशयं चित्तं कामानामतिसेवया ।
विरज्येत यथा राजन्नाग्निवत्१ कामबिन्दुभिः ॥ ३५ ॥
पदरत्नावली
ननु सगुणो धर्मः सगुणपुरुषार्थहेतुर्भवतु । अनुकूलत्वात् । निर्गुणपुरुषार्थस्य कथं, विरुद्धत्वादित्याशङ्क्य, मनो हि पुरुषार्थकारणम् । तद् विषयोपरक्तं दुःखोदर्कविषयसुखाय स्यात् । तदेव विषयाणां क्षणभङ्गुराणां दुःखोदर्काणां दुस्साधनत्वचिन्तया वैराग्यानलभर्जितं पुनस्तदङ्कुरीभाव-समर्थम् । भगवच्चरणारविन्दभक्तिसलिलसिक्तं चेत् तज्ज्ञानाङ्कुरीकरणनिदानं भवतीत्येतमर्थं सदृष्टान्त-माह– उप्यमानमिति ॥ यथा बीजैरुप्यमानं पुनः मेदुरसाधनहीनं क्षेत्रं केदारलक्षणं निर्वीर्यतां सस्य-जननशक्तिराहित्यमेति । तदेव स्फुटयति– पुनरिति ॥ सूत्यै उत्पत्त्यै । न केवलमुत्पादनासमर्थं, किन्तु बीजनाशहेतुश्च ॥ एवं तथा कामाशयं कामाशाविश्रमं चित्तम् । विषयसेवासमये दुःखस्य तदभावे सुखस्य च स्मरणसमर्थं मनः कामानां विषयाणाम् अतिसेवया क्षयरोगादिहेतुभूतया । द्रव्यादि-नाशकारणनित्यसुखाय विरज्येत विरक्तं भवति असारताबुद्धिं प्राप्नोति । इदं च योग्यानामेव । नायोग्या-नामिति । किञ्चिद्विषयसेवया किं स्यादिति तत्राह– यथेति ॥ कामानां बिन्दुभिः किञ्चित् सेवितैर् मनो यथावत् पुरुषार्थहेतुतया न विरज्येत विरक्तं न भवति । पुनस् तृष्णातिशयः स्यात् । कथमिव ? मुखकान्तिहेतुत्वात् काम आज्यम् । तद्विन्दुभिर् यथाऽग्निर्वर्धते तथेति भावः ॥ ३४,३५ ॥
सत्यधर्मीया
वृत्त्या स्वभावकृतयेति मोक्षार्थं स्वधर्मोऽनुष्ठेय इत्युक्तम् । तत्र तदर्थं विरक्तिः सम्पाद्या तदर्थं विषयसेवा त्याज्येति वक्तुं तदतिसेवाऽपि प्रसूते विरक्तिं तदुपरमेण किमित्यतो नातिसेविनश्चित्ततृप्तिर्भवतीति सदृष्टान्तं द्वाभ्यां श्लोकाभ्यां प्रतिपादयति ॥ उप्यमानमिति । हे राजन् धर्म मुहुरुप्यमानं क्षेत्रं भूः स्वयं निर्वीर्यतामुप्तबीजप्ररोहणाहेतुनीरसतामियात् । तदेवोपपादयति ॥ नेति । पुनः सूत्यै अङ्कुरोत्पत्त्यै न कल्पते न समर्थं भवति । न केवलमेतावदपि तूप्तबीजं नश्यति । पुनरन्यत्रानावा-पोपयोगि सन्नाशं च प्राप्नोति । यथैवं तथा कामाशयं कामेष्वाशेते तत्रैवासक्तमिति यावत् । चित्तं कामानामतिसेवया विषयाणामतिसेवया निर्वीर्यतां विषयौदासीन्यकारणतां नेयादतो विषयेभ्यो विरज्येत । न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धत इति स्थानान्तरस्थ-वाक्यानुकूल्येन व्यतिरेकमुक्त्वाऽन्वयनिदर्शनं दर्शयति ॥ अग्निवदिति । कामबिन्दुभिः स्वोत्तेजकतया कामविषयघृतबिन्दुभिर्यथाऽग्निरेधते न विरज्येत च तथा चित्तं तदायत्तं सन्न विरज्येत । किन्तु विरज्येत विशेषतो रज्येतानुरक्तमेव भवेदित्यर्थः । एवं कामाशयं चित्तं कामानामतिसेवया यथा पुनः कामानां न नाम प्ररोहणं स्यात्तथाऽतिसेवा ।
यथा सौभरिप्रभृतीनामनेककायोपभोगस्यैकदैव योगप्रभावोपात्तदेह(व्यूहेन)योगेनोपभोगस्तेन च यथाऽग्निर्न कामबिन्दुभिर्घृतपूरैश्शान्तो न भवति तथा विरज्येत । यथा च क्षेत्रं निर्वीर्यतामियात्तथा चित्तं निर्वीर्यतां पुनः सृत्यनापादकतामित्युभयत्रान्वयनिदर्शनमिति वा ज्ञेयम् । एतत्पक्षेऽतिपदं संलग्नम् । न जात्वित्यादिकं तु शनैः शनैः कामोपभोगपरमिति न विरुणद्धि । अधिकारिभेदेन वा तदुक्तिः । राजन्नग्निवदिति पाठः सुललितः । कामबिन्दुभिर्घृतपूरैः । अनेकबिन्द्वतिरिक्तस्य सङ्घस्य दुरुपपाद-त्वादिति तत्पक्षेऽर्थो बोध्यः । ननु प्रवृत्ते प्रवृत्तस्तत्फलं लभत इति युक्तम् । निर्गुणपुरुषार्थावाप्तिस्तेन कथमित्यतो यथा वै भैषज्यरोचनमित्यादेः क्रमात्सगुणनिर्वाणच्युतमच्युते भवति नस्तेन महापुरुषार्था-वाप्तिरित्याह श्लोकद्वयेनेत्यवतारयन्तो मुहुः क्षेत्रमुप्यमानं स्वयं निर्वीर्यतामियात् । पुनः सूत्यै उत्पत्त्यै अङ्कुरजननाय न कल्पते । नैतावदुप्तबीजं च नश्यति । एवं यत्कामाशयं चित्तं कामानामतिसेवया नश्यति स्वफलानाधायकतयादर्शनं याति । अथ विरज्येत । व्यतिरेकं निदर्शनमाह ॥ नेति । कामबिन्दुभिरग्नि-वन्नेति व्याचक्षते ॥ ३४,३५ ॥
मन्दनन्दिनी
अकाम्यं कर्म मोक्षहेतुरित्युक्तम् । काम्यं न तद्धेतुरिति सदृष्टान्तमाह ॥ उप्यमानमिति ॥ पुनः पुनरुप्यमानं क्षेत्रं निर्वीर्यं सत् । सूत्यै बहुधान्यलाभाय न कल्प्यते । प्रत्युत बीजमपि नश्यति । तथा काम्यमपि पुनः पुनः कामायानुष्ठीयमानं निर्वीर्यं सत्कामान्न ददाति । स्वयं च व्यर्थं भवतीति भावः । यथोप्यमानं क्षेत्रवत्कामाशयं चित्तं कामानामतिसेवया विरज्येत । अन्तर्णीत णिच् । विरक्तं कुर्यात् । निर्वीर्यत्वादिप्राप्तेः । स्वतस्तु न विरक्तं भवति । किन्तु कामबिन्दुभिरभि-र्वधनमेव । आज्यबिन्दुभिरग्निवत् ॥ ३४, ३५ ॥
यस्य यल्लक्षणं प्रोक्तं पुंसो वर्णादिव्यञ्जकम् ।
यद्यन्यत्रापि दृश्येत तत् तेनैव विनिर्दिशेत् ॥ ३६ ॥
॥ इति श्रीमद्भागवते सप्तमस्कन्धे एकादशोऽध्यायः ॥
पदरत्नावली
नन्वत्र वर्णादिज्ञानं यथा तारतम्यतस् तत्पूजाऽपि तद्योग्यस्य निःश्रेयसी । यस्यै-तदभावे तद्धितकरणाद्यभीष्टासिद्धिः स्यादिति तत्राह– यस्येति ॥ यस्य ब्राह्मणादेर् ब्राह्मणत्वादिव्यञ्जकं शमदमादिलक्षणं प्रोक्तम्, शास्त्रत इति शेषः । तल्लक्षणं यद्यन्यत्र व्यक्तं दृश्येत । अपिशब्देनाव्याप्त्यादि-दोषाभावं सूचयति । तर्हीतरलक्षणेनैव तद्वस्तु ब्राह्मणादिकमिति निर्देशेद् उपदिशेत् । गोः किं लक्षण-मिति पृष्टः ‘सास्नादिमान् गौः’ इति उपदिशति यदा तदा पुच्छवत्वशृृङ्गवत्वादिव्यभिचार्यं विहाय यं गोपिण्डं सास्नादिमन्तं पश्यति तदा ‘इयं गौः’ इति तथा प्रत्येति तत्प्रयुक्तं व्यवहारं करोति आप्ता-योपदिशति च तथाऽत्रापि । विरक्तिबलभक्तिरेव ब्राह्मणादेर् मुक्तिसाधनं लक्षणमिति सकलशास्त्र-तात्पर्यार्थः । ततः सैव बुभूषुभिः सम्पादनीयेति भावः ॥ ३६ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
सप्तमस्कन्धे एकादशोऽध्यायः ॥
सत्यधर्मीया
यस्य पुंसो वर्णादिव्यञ्जकं यल्लक्षणं प्रोक्तम् । यदि तदन्यत्र तद्वर्णाश्रमरहितेऽपि दृश्येत तद्वस्तु तेनैव तत्तद्वर्णादिना विनिर्दिशेत् । जातिमात्रं न प्रयोजकमिति भावः । शमादिमान-ब्राह्मणश्चेदपि प्रायस्तद्व्यवहारादिसाधारणसत्कारयोग्य इति तात्पर्यम् । वर्णादिव्यञ्जकमित्यत्र व्येति वर्णस्य छन्दश्छेदभिया सम्पाद्या लघुता । लक्षणस्य क्वचिदेवावर्तनेन तज्जात्युत्पन्नाद्ग्रौरवं सूचयतीति मन्तव्यम् ॥ ३६ ॥
॥ इति श्रीसत्यधर्मतीर्थकृतायां श्रीमद्भागवतविवृतौ
सप्तमे एकादशोऽध्यायः ॥
मन्दनन्दिनी
वर्णाश्रमादिलक्षणोक्त्या भवद्व्यवहारादिलक्षणं प्रयोजनं चाह ॥ यस्येति ॥ प्रोक्तं श्रुत्यादिषु । अन्यत्राप्यदृष्टपूर्वेऽपि वस्तुनि यदि व्यञ्जकं लक्षणं दृश्येत तत्तद्वस्तु तेनैव लक्षणेनेदृश-वर्णोऽयमीदृशाश्रमोऽयमिति निर्दिशेत् । व्यवहरेदिति योजना ॥ ३६ ॥
॥ इति श्रीभागवतटिप्पण्यां व्यासतत्वज्ञकृतायां मन्दनन्दिन्यां
सप्तमस्कन्धे एकादशोऽध्यायः ॥