भक्तियोगस्य तत् सर्वमन्तरायतयाऽर्भकः
॥ अथ दशमोऽध्यायः ॥
नारद उवाच–
भक्तियोगस्य तत् सर्वमन्तरायतयाऽर्भकः ।
मन्यमानो हृषीकेशं स्मयमान उवाच ह ॥ १ ॥
पदरत्नावली
अस्मिन्नध्याये भक्त्यैव पुरुषार्थो न द्वेषेणेत्येतत्प्रतिपादनं पुनःपुनर्भक्तेः प्राधान्य-ज्ञापनाय, अन्यदसुरमोहनायेति तात्पर्यम् । वराननिच्छन् प्रह्लादो हरिं किं प्रत्युवाचेति हार्दं युधिष्ठिर-प्रश्नं परिहरन् नारदस्तत्र वक्तीत्याह– नारद इति ॥ वयसाऽर्भको न तु ज्ञानेनेत्येतद्विशेषप्रकाशनाय हेति विशेषणम् । ‘हि हेतौ’ इत्यमरः ॥ १ ॥
सत्यधर्मीया
भक्त्यैव हरितोषो नापरथेतरदसुरमतिभ्रंशायेति निरूपयन्नारदः प्रल्हाद एवम् आह्लादेन वरं वरयेति वदन्तं प्रति सम्प्रति किमूच इति धर्ममानसीं शङ्कां पराकरोतीतीरयति ॥ नारद इति । अर्भको वयसा । भक्तियोगस्य भक्त्युपायस्य तत्सम्बन्धस्येति वा । तत्सर्वं वरवरणादिकं वरणीय-मिति वाऽन्तरायतया । विघ्नोऽन्तरायः प्रत्यूह इत्यमरः । विघ्नत्वेन मन्यमानो जानन् हि यत एवं ततः स्मयमानो नो मां वञ्चय हरे त्वमिति हसन् हृषीकेशं सकलेन्द्रियेशनकर्तारम् । हृषीकाणीन्द्रियाण्याहु-रित्यादेः । उवाच । इन्द्रियप्रेरकोऽपि त्वमित्थं वदसीत्यतद्विदिवेति हासः । अर्भक इति कथनेना-जनीनभक्तोऽसुरा अपि साधवः सन्तीति व्यवहारगोचरपरिचरमुख्य इति सूचयति । नृसिंहममुं हृषीकेशं मन्यमान इत्यपि योजयन्ति । उवाच ह इति पाङ्क्तः पाठः । तत्र स्मयः स बहिरन्तः ह शोचन्नित्यर्थः ॥ १ ॥
मन्दनन्दिनी
भक्तेरेव पुरुषार्थहेतुत्वमिति तात्पर्यद्योतनाय पुनरत्राप्युच्यते । वरैर्लोभितः प्रह्लादः किमित्यतो नेत्याह नारदः ॥ भक्तियोगस्येति ॥ यत्काम्यं तत्सर्वं भक्तियोगस्यान्तरायतया मन्यमानोऽ-र्भकः स्मयमानो हृषीकेशमुवाच हेति योजना । अर्भकस्याप्येतादृशं दार्ढ्यमाश्चर्यमिति हेत्यनेनाह । मनसि विद्यमानं जानन् अपि वचसा प्रलोभयतीति स्मयमानत्वम् ॥ १ ॥
प्रह्लाद उवाच–
मा मा प्रलोभयोत्पत्त्या१ऽसक्तं कामेषु तैर्वरैः ।
तत्सङ्गभीतो निर्विण्णो मुमुक्षुस्त्वामुपाश्रितः ॥ २ ॥
पदरत्नावली
ज्ञातसर्वेन्द्रियवृत्तित्वात् हृषीकेशेन त्वया मन्मनो गतं ज्ञातमिति यत्, अतो मनःपरीक्षणार्थे एतैर्मनःप्रलोभनं न कुर्विति प्रार्थयत इत्याशयेनाह– मा मेति ॥ गुरुवचनमज्ञातेष्ट-बोधकत्वेन प्रमाणं स्यात् । इदं स्वभावत एव ज्ञातेष्टबोधकत्वाद्व्यर्थमिव प्रतिभातीत्याशयवानाह– उत्पत्त्येति ॥ आसक्तमिति लोकवृत्तान्तप्रदर्शनपरम् । प्रह्लादस्यार्भकावस्थामारभ्य विष्णुधर्मैकनिष्ठत्वात् । यतो विषयसङ्गिनामनर्थपरम्परा दृश्यते तत् तस्माद् विषण्णः । विषयिणो विषयासिद्ध्या तात्कालिक-प्रसूतिनिर्वेदवन्नायं निर्वेद इत्याह– मुमुक्षुरिति ॥ अनेन प्रह्लादस्याधिकारलक्षणसामग्री विद्यत इति दर्शितम् ॥ २ ॥
सत्यधर्मीया
तव हृषीकेशत्वान्मम त्वत्परवदिन्द्रियकत्वान्न मनःपरीक्षणीयं वरैरिति विज्ञापयति ॥ मेति । उत्पत्त्या जन्मनैव कामेष्वासक्तं मां तैर्वरैर्मा प्रलोभय । कुतोऽपेक्षितांस्तान्ददतं मां नेति वदसि मूर्खवदसीत्यत आह ॥ तत्सङ्गेति । निर्विण्णो जातनिर्वेदो मुमुक्षुस्त्वामुपाश्रितः । आसक्तमित्यादिकं सर्वमन्यदीयमात्मसात्कृतवत उक्तिरिति ज्ञेयम् । बाल्य एव न केवलं मे भवतश्च राजन्नित्याद्युक्तेः । सक्तमित्येव छेदः । तत्सङ्गभीत इत्यनुवादानुरोधात् । उत्पत्त्या कामेषु सक्तं जनमन्यमिव मा मां तैर्वरैः प्रलोभय । अहं तु पूर्वं तत्सङ्गभीतो निर्विण्णो मुमुक्षुरेतर्हि त्वामुपाश्रित इति वा योजना ॥ २ ॥
मन्दनन्दिनी
उत्पत्त्या स्वत एव कामेषु सक्तं मां पुनर्वरैः काम्यैर्मा प्रलोभय । विषयासक्तं प्रति गुरुणा पुनर्विषयासक्तेरुपदेशस्य कर्तुमनुचितत्वात् । इदं च विषयासक्तत्वकथनं भक्ते नैवं वक्तव्यत्वात् । वस्तुतो विरक्तः प्रह्लादस्तत्सङ्गभीतत्वाच्च पुनस्तत्सङ्गोपदेशोऽनुचित इत्याह ॥ तत्सङ्गभीत इति ॥ २ ॥
भृत्यलक्षणजिज्ञासुर्भक्तं कामेषु चोदयात् ।
भवान् संसारबीजेषु हृदयग्रन्थिषु प्रभो ॥ ३ ॥
पदरत्नावली
ननु भगवद्वाक्यं क्वापि विप्रलम्भकं न भवति । ‘अजस्यावक्रचेतसः’ इति श्रुतेः । भवता तथैव प्रोच्यते । तथा च भगवद्वाक्यस्याविश्वसनीयत्वं स्यादिति तत्राह– भृत्येति ॥ चोदयाच् चोदयति । ‘धियो यो नः प्रचोदयात्’ इति श्रुतेः ॥ ३ ॥
सत्यधर्मीया
वरं वरयेतीश्वरोदीरितस्य भावोऽयमिति यथा न विप्रलम्भकतोपलम्भस्तस्य स्या-त्तथा परिष्कृत्य वदति ॥ भृत्येति । भृत्यलक्षणजिज्ञासुर्भृत्यानां लक्षणं चिन्हं वर्तते न वर्तते वेति जिज्ञासुर्विजिज्ञापयिषुः । न लोकाव्ययनिष्ठेति षष्ठीनिषेधाद्द्वितीयासमासः । भक्तं मां संसारबीजेषु पुनः पुनर्जन्मकारणेषु हृदयग्रन्थिषु त्वत्कथादिद्रवताप्रतिबन्धकरूपेषु । हे प्रभो । एवमनेवं कर्तुं समर्थ । भवान्प्रचोदयाच्चोदयति । धियो यो नः प्रचोदयादिति श्रौतानुवादोऽयम् ॥ ३ ॥
मन्दनन्दिनी
अनुचितं प्रलोभनं कुतो हरिः कृतवानित्यत आह ॥ भृत्येति ॥ हे प्रभो । हृदयग्रन्थिषु मनोबन्धकेषु संसारबीजेषु कामेषु भवान् भृत्यलक्षणजिज्ञासुर्भक्तस्य दार्ढ्यमन्येषु जिज्ञासयिषुश्चोदयात् । लोड्वचनेन प्रतिपादयतीति योजना । वचसा प्रलोभने काम्यावरणे भक्तोऽयं दृढ इति लोको जानातीति भावः ॥ ३ ॥
नान्यथा तेऽखिलगुरोर्घटते करुणात्मनः ।
नष्टदृष्टेस्तमस्यन्धे त्वं पारः पारदर्शिनः ॥ ४ ॥
पदरत्नावली
वञ्चनार्थमेव तथोच्यत इति किं न स्यात् ? अत्राह– नान्यथेति ॥ अखिल-गुरुत्वान्यथानुपपत्त्या न वञ्चनं युक्तमित्यर्थः । इतोऽपि भृत्यलक्षणजिज्ञासैव प्रयोजनं त्वद्वचनस्य । अन्यथा तवेष्टजनघातकत्वदोषापत्तिः स्यात् । सा निर्दोषत्वेन न युक्तेत्याशयवानाह– नष्टेति ॥ न केवलमितरगुरुवन्मार्गमात्रप्रदर्शकः । किन्तु गम्यं च । अतो विप्रलोभनं न युक्तम् । अतो वाऽऽह– नष्टेति ॥ पारदर्शिनः पारं चान्तं द्रष्टुमिच्छतः ॥ ४ ॥
सत्यधर्मीया
वञ्चनमेवेति कुतो न वचनीयमित्यत आह ॥ अन्यथेति । अन्यथाऽखिलगुरुत्वं करुणात्मत्वं चेत्येतन्न घटते । सामान्यतो गुरुर्हितमुपदिश्योद्धरति त्वं त्वखिलगुरुः । स्वतश् च्योत-त्करुणरसश्चेति त्वयि न युज्यते वञ्चनमिति भावः । परमगुरुकर्माह ॥ नष्टेति । अन्धमन्धयतीत्यन्धं तस्मिंस्तमस्यज्ञानरूपे नष्टदृष्टेरनुज्जृम्भितप्रतिभस्य पारं संसारान्तं द्रष्टुमिच्छतः पारदर्शिनोऽधिकारिणस्त्वं पारः पारयतीति पारङ्गमयतीति स तथा ॥ ४ ॥
मन्दनन्दिनी
भक्तलक्षणज्ञापनमेव वरं वृणीष्वेत्युक्तवचनप्रयोजनमित्युपपादयति ॥ नान्यथेति ॥ अन्यथा वस्तुतो वचनाभिप्रायो न घटते । अत्र हेतुद्वयम् । अखिलगुरोः करुणात्मन इति । आश्रित इति पूर्वोक्त्याऽखिलेत्युक्त्या च शिष्यत्वं समर्थितम् । दयाविषयत्वं समर्थयते ॥ नष्टदृष्टेरिति ॥ संसारलक्षणेंऽधे तमसि नष्टदृष्टेः पारदर्शिनः पारं दृष्टुकामस्य त्वमेव पारः पारदर्शकश्चेति योजना ॥ ४ ॥
यस्त आशिष आशास्ते न स भृत्यः स वै वणिक् ।
स वै स्वामी स वै भृत्यो गुणलुब्धौ न कामुकौ ॥ ५ ॥
पदरत्नावली
ननु मत्प्राप्तिकामायाशीर्दानवचनमस्तु नाम प्रलोभनम् । तत्कामुकस्याभीष्टदान-वचनेऽनाकाङ्क्षिताभिधानं स्यादिति तत्राह– यस्त इति ॥ ते तव सकाशात् । आशिषः सम्पदः सेवायाः । तर्हि स क इति तत्राह– स इति ॥ ‘वन षण सम्भक्तौ’ इति धातोः सम्भजनं विक्रेयं द्रव्यं प्रसार्य दानलक्षणम् । तत्कर्ता वणिग् वै हि । अयं च किञ्चित्सुकृतकरणलक्षणदानेन भवादृशाज्जनात् पुण्यलक्षणफलादानं करोतीति यस्मात् तस्माद् वणिगित्यर्थः । आशास्ते इच्छति । अनेन फलदस्य स्वामित्वं च विघटितं भवतीति दर्शितम् । तर्हि कयोः स्वामिभृत्यमाव इति तत्राह– स वा इति ॥ ‘लुभ गार्ध्ये’ इति धातोर् भक्त्यादिगुणोद्रेकाकाङ्क्षिणौ गुणलुब्धौ । मिथः फलानि न कामुकौ ॥ ५ ॥
सत्यधर्मीया
त्वन्तु भवमहानुभावनिष्कामुकः कामुकानामनेवंवचने विश्वसनीयवागहं स्यामित्यत आह ॥ य इति । ते तव सकाशादाशिषः कामान् आशास्ते काङ्क्षति स न भृत्यो दासो न किन्तु वणिक् । क्रयं द्रव्यं गृहित्वा दाता । ‘‘वणिग्वाणिज्यजीविनी’’ति विश्वः । यो भृत्यस्तेन भृत्येन । य इत्यावर्तते । यः स्वामी । आशिषः कीर्तितान् कामान् करादीनाशास्ते स नसभृत्यो भृत्यसहितः स्वामी न । किन्तु सोऽपि वणिक् । वृद्ध्याद्युपजीवीति । पुरोऽधोदितार्थस्वारस्यायान्वयो ज्ञेयः । तर्हि कः स्वामी कश्च भृत्य इति तव मतिरित्यत आह ॥ स वा इति । यौ गुणलब्धौ परस्परं गुणमात्रगर्धिनौ न कामुकौ स्वामिनः परिचर्यानुसारिफललिप्सावान् । तथा भृत्यादपि तद्वानिति स भृत्यः स स्वामी । वैकारद्वयमन्योन्यप्रसिद्धौ । वणिजो वणिगित्यमरः । वणते व्यवहरति यः स वणिक् । पण व्यवहारे । धात्वादेः पकारस्य वकारः । यथायथं पृषोदरादिकार्यं कार्यम् ॥ ५ ॥
मन्दनन्दिनी
आशीराशासने भृत्यत्वमेव नेत्याह ॥ यस्त इति ॥ ते सकाशात् । योजना तु स्पष्टा । स आशिष आशासानो वणिग्वै । शर्करादिकं दत्वा द्रव्याशासानवत् । स्वकृतं सुकृतं समर्प्य फलाशासनवत्वात् । उक्तभक्तत्वनिषेधनसमर्थनाय स्वामिभृत्ययोः सामान्यतो लक्षणमाह ॥ स वै स्वामीति ॥ गुणलुब्धौ स्वामी भृत्यगतभक्त्यादिगुणलुब्धः भृत्यः स्वामिगत महात्म्यगुणलुब्ध इत्यादि । कामुकौ सेवावेतनदानकामुकौ । गुणलुब्धाविति स्वामिभृत्ययोर्लक्षणम् । न कामुकावित्यनेन तदभावे स्वामिभृत्याभावाभावश्चोक्तः ॥ ५ ॥
आशासानो न वै भृत्यः स्वामिन्याशिष आत्मनः ।
न स्वामी भृत्यतः स्वाम्यमिच्छन् यो राति चाशिषः ॥ ६ ॥
पदरत्नावली
ननूभयोः फलकामित्वे को दोष इति तत्राह– आशासान इति ॥ स्वामिनि समवेता आशिष आत्मनः स्वस्य आशासानो यः स भृत्यो न वै नैव । किन्तु प्रतिभट एव । वरदा-नादिना भृत्यात् स्वस्य स्वामित्वमिच्छन् यो भृत्यायाशिषो राति ददाति सः स्वामी न च । कल्पितस्वामित्वेन तच्छब्दस्य मुख्यार्थालाभात् ॥ ६ ॥
सत्यधर्मीया
उभयोः स्वामिसेवकयोः कामनायां तत्वमेव न स्यादिति तत्त्वमाह ॥ आशासान इति । स्वामिनि स्थिता आशिष आत्मनः स्वस्याशासानो भृत्यो न वै । नैव । भृत्यतस्तन्मुखात्स्वाम्यं करादिवितरणम् इच्छन्य आशिषो राति स स्वामी नैवेत्यन्वयः ॥ ६ ॥
मन्दनन्दिनी
अधुना न कामुकावित्येतद्विवृणोति ॥ आशासान इति ॥ स्वामिविषये स्वस्य वेतनादीन् आशासानो भृत्यो न वै । भृत्यतः स्वाम्यं स्वामिने देयं वस्त्विच्छन् । आशिषो वेतनादीन् राति ददाति यः सः न स्वामीति योजना ॥ ६ ॥
अहं त्वकामस्त्वद्भक्तस्त्वं च स्वाम्यनपाश्रयः ।
नान्यथेहावयोरर्थो राजसेवकयोरिव ॥ ७ ॥
पदरत्नावली
प्रकृते किमभूदिति तत्राह– अहं त्विति ॥ अनपाश्रयः भृत्यप्राप्यफलानाश्रयः स्वामी, अव्याहतस्वामीत्यर्थः । एतदेव द्रढयति– नान्यथेति ॥ निष्कामत्वेन भृत्यत्वं मम । अन-पाश्रयत्वेन स्वामित्वं तव । एतस्मादन्यथा प्रकारान्तरेण आवयोरर्थो नास्ति । किं तत् प्रकारान्तरम् ? तत्राह– राजेति ॥ इह लोके यथा राज्ञः सेवकस्य च स्वाज्ञानतिलङ्घनप्रीत्यादिलक्षणो वेतनादिलक्षणः स्वार्थोऽस्ति तथेति ॥ ७ ॥
सत्यधर्मीया
दशेदृशीश लौकिकसेवकयोर्न तव मम चैवम्भाव इति वदति ॥ अहं त्विति । अहं त्विति ततो विशेषे । त्वद्भक्तोऽकामो विषयाभिलाषरहितः । त्वं च स्वाम्यनपाश्रयः सेवकलोक-प्राप्यफलानाश्रयोऽतदिच्छुरिति यावत् । अन्यथाऽनपाश्रयस्वाम्यव्यतिरेकेणाकामत्वव्यतिरेकेणेत्यन्यथा । आवयोस्त्वं चाहं चेत्यावयोरर्थे राजसेवकयोरिव न नास्ति । तयोर्यथा परस्पराकाङ्क्षा तथा न तव मम चेति भावः ॥ ७ ॥
मन्दनन्दिनी
अधुना भृत्यस्य स्वस्य स्थितिं स्वामिनो नृसिंहस्य स्थितिं चाह ॥ अहं त्विति ॥ पूर्वार्धयोजना तु स्पष्टा । अनपाश्रयो भृत्यदेयद्रव्यानुपजीवी इह लोके राजसेवकयोरिव देशाधिपत्यं प्रापितेन सेवकेन दीयमानं द्रव्यं राज्ञो राज्ञा दीयमानं वेतनादिकं सेवकस्य यथार्थ-स्तथाऽऽवयोरन्यथा । गुणलुब्धत्वं विनार्थो नास्तीति योजना ॥ ७ ॥
यदि रासीश मे कामान् वरान् त्वं वरदर्षभ ।
कामानां हृद्यसंरोहं भवतस्तु वृणे वरम् ॥ ८ ॥
पदरत्नावली
ननु शास्त्रेषु प्रतिपाद्यमानसेव्यसेवकभावो ज्ञातृज्ञेयभावो दातृस्वीकर्तृभाव इत्यादि-सम्बन्धिसम्बन्धलक्षणार्थसम्भवाद् आवयोरर्थो नास्तीति निषेधः कथं क्रियत इत्याशङ्कां परिहर्तुमाह– यदीति ॥ नान्यथेश्वरभाषितम् इति वचनाद् भवदुक्तमन्यथा माभूदिति भीत्या च तं वृणे इत्यतो वाऽऽह– यदीति ॥ ‘रा दाने’ इति धातुः । काम्यन्ते इति कामा अभिमता एव वरास् तान् । कामानां विषयाणाम् असंशेहं सम्यगनुत्पादं नाम वरं वृण इत्यन्वयः ॥ ८ ॥
सत्यधर्मीया
साक्षाच्छ्रीलक्ष्मीनृसिंहे कटाक्षयितरि सर्वथा वरावरणेन धटात्कृतिः कृतिसम्मति-मती नेत्यतः स्वस्य स्वामिनश्च यथाऽभिप्रेतकार्यसिद्धिः स्यात्तथाऽऽलोच्याच्युतं विज्ञापयति ॥ यदीति । यदि वरदर्षभ वरदातृधात्रादिश्रेष्ठ । हे कामान् कामेन स्वच्छन्दतोऽनिति चेष्टत इति । तज्जलानिति-वत्कामान् । अनतेः क्विप् । नलोपाभावश् छान्दसः । वरान् रासि ददासि तर्हि कामानाम् इच्छानां विषयाणां वा हृदि मनस्यसंरोहमपेक्षणीयत्वेन प्रादुर्भावाभावं भवतस्त्वत्तो वरं वृणे काङ्क्षामि । कामानां निर्धारणे षष्ठी । तेषां मध्ये हृद्येन मनोहरेण त्वद्रूपेण संरोहमूर्ध्वगतिरूपं वरं वृणे । भवतः संसारादित्यप्यन्वयः । रा दान इति धातुव्याख्यानात् ॥ ८ ॥
मन्दनन्दिनी
वरं वृणीष्वेत्याज्ञाऽनुल्लङ्घनीयेत्याशयेनाह ॥ यदीति ॥ हे वरदर्षभ । ईश स्वामिन् । यदि मे कामान्वरान् रासि ददासि ॥ तर्हि कामानां मोक्षविरुद्धविषयेच्छानां हृद्यसंरोहन्तु । अनुत्पत्तिमेव भवतो वरं वृण इति योजना । अत्रासंरोहमित्येतद्भक्त्यादीनामुपलक्षणम् । ‘‘अहं भोगप्रदो वत्स मोक्षदस्तु जनार्दनः’’ इत्यादिनेश्वरादीनां मोक्षादिवरदानासामर्थ्येऽपि तव सर्ववरदानसामर्थ्यमिति द्योतयितुं वरदर्षभेत्युक्तम् । अस्येतरेच्छाविषयत्वेऽपि मदिच्छाविषयत्वान्मत्कामत्वमस्तीति मे कामा-नित्युक्तम् । तथा च म इत्यस्य चतुर्थ्यंतस्य रासीत्यनेन षष्ठ्यन्तस्य कामानित्यनेनान्वय इति सूचितम्
॥ ८ ॥
इन्द्रियाणि मनः प्राणा आत्मा धर्मो धृतिर्मतिः ।
ह्रीः श्रीस्तेजः स्मृतिः सत्यं येषां नश्यन्ति जन्मना ॥ ९ ॥
पदरत्नावली
केन दोषेण तेषामनुत्पादः प्रार्थ्यत इति तत्राह– इन्द्रियाणीति । येषां कामानां विषयाणां जन्मना, इन्द्रियादयो नश्यन्ति तेषामिति शेषः । ‘सर्वेन्द्रियाणां जरयन्ति तेजः’ इति श्रुतेः । आत्मा भक्तिः ॥ ९ ॥
सत्यधर्मीया
निकामं कामाननाकाङ्क्षन् कमपकारं ततः पश्यसि शिशवित्यतः शंसति ॥ इन्द्रियाणीति ॥ येषां कामानां जन्मनेन्द्रियाणि । तत्त्वेऽपि मनस उत्तम्भने सर्वाणि वशवर्तीनीति मुख्यतया पृथगुक्तिः । प्राणाः पञ्च आत्मा देहो धर्मः सदाचारो धृतिर् धैर्यं मतिर्धीः । ह्रीरकार्यकृतौ । श्रीः सम्पत् तेजः प्रभावो ब्रह्मवर्चसं वर्चःसामान्यं वा । स्मृतिः स्मरणं सत्यं भूतहितं वचनमित्येतानि नश्यन्ति नष्टा भवन्त्यतस्तेषां हृद्यसंरोहं वरं वृण इत्यन्वयः ॥ ९ ॥
मन्दनन्दिनी
कामानामनिष्टत्वं कथम् । येन तदसंरोहस्य वरत्वमित्यत आह ॥ इन्द्रिया-णीति ॥ एषां दुर्विषयकामानां जन्मनेन्द्रियादीनि नश्यन्ति तेषां कामानामसंरोहो वरमित्यत आह ॥ इन्द्रियाणीति ॥ पूर्वेण योजना । ‘‘सर्वेन्द्रियाणां जरयन्ति तेज’’ इति श्रुतेः । आत्मा देहः । धर्मः पूर्वार्जितपुण्यम् । धृतिः सर्वथा दुर्विषयांस्त्यजेयमिति धैर्यम् । मतिः शास्त्रजनितज्ञानम् । ह्रीरन्ये न पश्येयुरिति लज्जा । श्रीर्देहकान्तिः । तेजो ब्रह्मवर्चसम् । स्मृतिः शास्त्रानुभवजन्यस्मृतिः । कामा-त्क्रोधोऽभिजायत इत्यादेः । दुर्विषयलोलुपस्येन्द्रियादीनि नष्टानि दुष्टानि भवन्तीति भावः ॥ ९ ॥
विमुञ्चति यदा कामान् मानवो मनसि श्रितान् ।
तर्ह्येव पुण्डरीकाक्ष न भवायावकल्पते
नारदेनोपदिष्टं मे तव मन्त्रमिमं स्मरे ॥ १० ॥
पदरत्नावली
ननु कामासंरोहो नाम काममोक्षो विवक्षितः । तस्मात् किं फलमिति तत्राह– विमुञ्चतीति । भवाय पुनर्जननाय ॥ १० ॥
सत्यधर्मीया
तेन प्रार्थितेन कामासंरोहणेन किमित्यतः सङ्कुच्य सूचितं विविच्यते (विविच्योचे इति खपाठः) ॥ विमुञ्चतीति । यो मानवोऽधिकारी यदा मनसि सङ्कल्पविकल्पात्मके चित्ते श्रितांस्तदाधेयान्कामान्विमुञ्चति । तर्हि हे पुण्डरीकाक्ष स पुनर्भवाय संसाराय न कल्पते । नेदमेव महाफलमित्यतस्तदप्यनेनैव वदति । न पुनर्भवोऽभवोऽपवर्गस्तस्मैचावकल्पत इति१ । पुण्डरीकाणि कमलानीवाक्षीणि यस्येति । पुण्डरीके तन्नामके भक्तविशेषेऽक्षिः कृपादृष्टिर्यस्येति वा । पक्षद्वयेऽपि बहुव्रीहौ सक्थक्ष्णोः स्वाङ्गात् षजिति षच् । ‘‘दैत्यारिः पुण्डरीकाक्ष’’ इत्यमरः । अनेन कोपापगमेन विकस्वरता तथौपाधिकारुण्यगमनेन कारुण्यशुभ्रता च पुण्डरीकं सिताम्भोजमित्युक्तेर्ध्वनिते भवतः । द्वितीये भक्तदयावत्त्वं च ध्वन्यते तथा सम्बोधनेनेति मन्तव्यम् । इह जन्मनि भूमौ वा । न भवायेहेति पाठः । तत्तमदिच्छाभावेऽप्येतन्मात्रेण गात्रमेतत्त्यक्त्वेति मुक्तिं किमर इत्यतो न तथा स्वामिन्निति हरेरन्तरङ्गतः सम्बोधितोऽसि मयेत्यप्याह ॥ नभवायेहेति । भवस्य पुनः पुनः संसृतेरायो मदादेर्लाभ-स्तस्य तद्विषयिणीहा चेष्टेच्छा वा न विद्यते यस्य स तथा तत्सम्बुद्धिः । नभवायेहकल्पेत्येकं पदं वा । नभवायेहो मुख्यप्राणः स कल्पो यस्मादिति वा तस्मादपि कल्प इति वा तत्सम्बुद्धिः । विष्णुर्हि दाता मोक्षस्य वायुश्च तदनुज्ञयेत्यादेः । हरे दयालो नः पाहीत्यादिवत्पुण्डरीकाक्षेति प्राक्तनस्यानविद्यमानत्वा-त्पदत्वम् । ततस्तत्परत्वात्त इत्यादेशः सम्भवतीति ज्ञेयम् । पूर्वत्र सूत्रोदाहृतिसहितमत्रैव स्कन्धे विवृतमनुसन्धेयम् । ते तव सकाशात्त्वत्प्रसादादिति यावत् । यदा कामान्विमुञ्चति तर्हि ते मनसि श्रितान्कामांस्तदनुकूलान्मानवो वायुर्ददातीति शेषः । तत्पुरुषो मानव इति श्रुतेः । कामेन मे काम आगादित्यादेः । कामानुकूलकामत्वेनैव तदपहतकामत्वमिति ज्ञेयम् । इयती प्रमा सीमातोकस्य तव कथमित्यत एतन्माहात्म्यत इत्याह ॥ नारदेनेति । इममुदाहरिष्यमाणमुपदिष्टं तव मन्त्रम् । तवेत्यस्य नारदेनेत्यनेनाप्यन्वयः । त्वत्सम्बन्धिना नारदेनोपदिष्टं चित्रकेतुना परोक्षितमनन्तं प्रति तावकेन मुनि-नेत्यादिना नारदस्य तथोक्तेरिति ज्ञेयम् । मन्त्रं स्मरे स्मरामि । दैवमपि तन्मन्त्रप्राप्यफललाभानुकूल-मेवेति वाऽऽह ॥ उपदिष्टमिति । उप उद्योगवद्दिष्टं दैवं यस्य स तं समीपवर्ति सहकारीति यावत् । शिष्टं पूर्ववत् । उपरमणार्थोद्यमार्थयोरासन्नेऽप्युपकीर्तितमिति विश्वः ॥ १० ॥
मन्दनन्दिनी
कामानामसंरोहस्य फलमाह ॥ विमुञ्चतीति ॥ योजना तु स्पष्टा । तर्ह्येव तदैव । नभवायापुनर्भवाय । मोक्षायेति यावत् । अवकल्पते समर्थो भवति । यदा सर्वे प्रमुच्यन्त इत्यादि श्रुतेश्च कस्य मन्त्रस्य जपसिद्ध्या मद्दर्शनमभूदित्याह ॥ नारदेनेति ॥ १० ॥
ओं नमो भगवते तुभ्यं पुरुषाय महात्मने ।
हरयेऽद्भुतसिंहाय ब्रह्मणे परमात्मने ॥ ११ ॥
पदरत्नावली
भवन्नमनादिलक्षणा भक्तिश्च तत्फलमित्याह– नम इति । भगवत इत्यनेन किञ्चित् पूज्यमात्रवस्तु सिध्यति । अतः पुरुषायेति । अनेनापि कश्चिदेवेत्यतो महात्मन इति । कोऽसावित्यतो हरय इति । हरिशब्दस्यानेकार्थत्वादत्र क इत्यतो अद्भुतेति । तिर्यक्प्राणिना त्वया किं स्यादित्यतो ब्रह्मण इति । अस्याप्यनेकार्थत्वादत्र क इत्यतः परमात्मन इति ॥ ११ ॥
सत्यधर्मीया
तमेव मन्त्रं स्फुटमाह ॥ ओमिति । महात्मने उत्सवरूपाय ब्रह्मणे गुणपूर्णाय । परमात्मनेऽधिकार्यधिकानां परमानामात्मा स्वामी तस्मै । भगवते ऐश्वर्यादिवैराग्यान्तगुणयुक्ताय । हरये भगवदात्मकाय । पुरुषाय सिंहायेति सामानाधिकरण्यम् । नृसिंहाय । हे अद्भुत आश्चर्यचर्य ते नम इत्यन्वयः । अदिभूभ्यां डुतजिति डुतचि भवत्यद्भुतमिति । नवीनास्तु स्वाकरज्ञानदरिद्रा अदिभुवो डुतजिति धातुद्वयोपरि क्वापि न चौमर्ह एकः प्रत्यय इति पठन्तोऽदित्याश्चर्यार्थकमव्ययम् । तस्मिन्नुपपदे भूधातोर्डुतजिति तदर्थं च वर्णयाम्बभूवुः । तत्र किं नामास्माभिरेव धातुद्वयोपरि नैकः प्रत्ययः स्वीकार्य इति उत सौवैरपि । नाद्यः । विना युक्तिकथनं श्रोतुरजागलस्तनायितत्वे सम्भवेत् । तथात्वे च प्रतिभटी-करणारभटी नाटीकनीया स्यात् । न द्वितीयः । उपलब्धिपराहतेः । तथा हि । प्रथमाष्टकपञ्चमाध्याय-पञ्चदशवर्गीयतृतीये ‘‘दधन्नृतं धनयन्नस्य धीतिमादिदर्यो दिधिष्वो३ विभृत्राः’’ इत्यृग्व्याख्यावेदभाष्ये दिधिष्वो डुधाञ् धारणपोषणयोः षोन्तकर्मणीत्याभ्यां मन्दू दृम्भू जम्बू कपेलूकर्कन्धूदिधिषूरिति कूप्रत्ययान्तो निपातित इत्युक्तेर् अद्भुतं न तत् । अन्यत्रात्र चाद्भुतेन युक्तमिति मन्दम् । अदित्या-श्चर्यार्थकाव्ययत्वे डुतजन्तभूधातोर्नैरर्थ्योपेक्षणीयतेति चार्थस्यासम्भवात् । (एकदेशस्यार्थकथनमकथनमेक-देशस्येति हृद्यं भवेत्सयूथ्यानाम्) न च यौष्माकीणेऽपि पक्षे धातुद्वयार्थाप्रतिभानं चित्रार्थकत्व इति वाच्यम् । अवयवव्युत्पत्तिप्रदर्शनमात्रनिभृतनिर्भरा वैय्याकरणा इति काऽनुपपत्तिः । मर्यादा चैषा दृष्टचरी घटादिपदेष्विति दिक् ॥ ११ ॥
मन्दनन्दिनी
ॐ नम इत्यारभ्य मन्त्रस्त्रयस्त्रिंशदक्षरात्मकोऽनुष्टुप् छन्दस्कः । वराहमन्त्रवत्
॥ ११ ॥
श्रीनृसिंह उवाच–
नैकान्तिनो मे मयि जात्विहाशिष आशासतेऽमुत्र तथा भवादृशाः ।
तथाऽपि मन्वन्तरमेतदत्र दैत्येश्वराणामनुभुङ्क्ष्व भोगान् ॥ १२ ॥
पदरत्नावली
अहं त्वकाम इत्येकान्तभक्तलक्षणं यत् त्वयोक्तं, तत् सत्यम् । तथाऽपि मदाज्ञाकारिणस्तव पुण्याभिवृद्धिः स्यात् । अत एतत् कर्तव्यमित्याह– नैकान्तिन इति । किं तदिति तत्राह– तथापीति ॥ १२ ॥
सत्यधर्मीया
अहं त्वकाम इति सत्यमुक्तमत्यर्थमर्थितश्चाहं कामानां हृद्यसंरोहमिति च । तथाऽपि मदाज्ञानावज्ञानार्हातयाऽनुभवतो भवतो विषयान् न भवतो भीर्भविष्यति स्वतोऽकामत्वा-प्रतिहतेर्भोक्तव्यस्य चावर्जनीयत्वादित्थं वर्तस्वेति शिक्षयति ॥ नेति । इहामुत्र च यथा मय्येकान्तिनो मय्येव निरता मे सकाशाज्जातु कदाचिदप्याशिषो नाशासते तथा भवादृशा इति योजयन्ति । तत्पक्षे एतदादीनामनैकान्तिकतायां सत्यामपि नाशासत इति प्रतीयते । तच्च एकान्तित्वाद्भगवतीति पूर्वग्रन्थस् तथाऽपीत्याद्युत्तरग्रन्थाननुगुणमिति विभावनीयम् । वस्तुतस्त्वित्थं योजना । तथा निश्चयस्तथोत्तरं त्वत्पृष्टस्येदमिति वा । ‘‘तथा स्यान्निश्चये पृष्टप्रतिवाक्ये समुच्चय’’ इति विश्वः । यथेह तथाऽमुत्र परत्र च नाशासत इति वाऽन्वयः । तथाऽप्येकान्तित्वेऽपि दैत्येश्वराणां भोगान्भोग्याननुभुङ्क्ष्व । अवधि-मधिकरणं चाभिधत्ते ॥ अत्रैतन्मन्वन्तरमिति ॥ १२ ॥
मन्दनन्दिनी
एवमुक्तवन्तं प्रह्लादमेकान्तित्वेन प्रकाश्य कामासंरोहादिकं मनसि सिद्धवत्कृत्य तद्योग्यमासुराधिपत्यमपि कुर्वित्याज्ञापयति नृसिंहः ॥ नैकान्तिन इति ॥ यद्यपि भवादृशा मयि एकान्तिनो मे सकाशादिह तथाऽमुत्राशिषो जातु नाशासते । तथाऽपि एतन्मन्वन्तरं दैत्येश्वराणां भोगान् अनुभुंक्ष्वेति योजना । यद्यप्ययं कामो न त्वया वृतः । तथाऽप्यहमेवानुगृह्णामीति भावः ॥१२॥
कथा मदीया जुषमाणः प्रियास्त्वमावेश्य मामात्मनि सन्तमेकम् ।
सर्वेषु भूतेष्वधियज्ञमीशं यजस्व योगेन च कर्म हिन्वन् ॥ १३ ॥
पदरत्नावली
ननु कर्दमजलस्नानानिच्छया ह्येतावन्तं कालं मया कण्ठशोषणमकारि । तदरण्यरोदनवद् व्यर्थमभूत् । यतस्त्वं तत्रैव स्नाहीत्युपदिशसि । अतस्त्वदाज्ञाऽनुल्लङ्घ्या (इति) त्वमेव जानासीति शङ्कारोगनिर्मूलनाय सुखसाध्यमौषधं विधास्यामीत्याशयवानाह– कथा इति । बहुवचनेन सर्वावतारादिकथा उपलक्षयति । भूतेष्वित्युपलक्षणम् । चरुपुरोडाशादिष्वपि । यज्ञमूर्तिः सन्निहित इति योगेन भक्तियुक्त…..मानेन । हिन्वन् नाशयन् ॥ १३ ॥
सत्यधर्मीया
इतरबन्धकोऽपि संसारस्तवैवं चेदबन्धकोऽत इदमवश्यं कुर्विति विशदयति ॥ कथा इति । मदीयाः कथा इति वचनबहुवचनाभ्यामितरेऽवतारा अपि मदभिन्नास्तत्कथा अपि मत्कथा एवेति ध्वनयतीति ज्ञेयम् । प्रियास्तव मम च जुषमाणः सेवमानः सर्वेषु भूतेषु सन्तमेकं तत्तन्निविष्ठ-स्वरूपमेकम् । आत्मनि स्वस्मिन्नावेश्य ध्यानादिना सन्निहितं कृत्वाऽधियज्ञं यज्ञस्वामिनं यज्ञ इति वा ईशं स्वामिनं योगेन चरुपुरोडाशादिसम्पादिततदुपायेन योगेन भक्त्या च कर्मप्रतिबन्धकं हिन्वन् । हिगतौ वृद्धौ चेति स्मृतेः । अन्तर्णीतण्यन्तोऽयम् । गमयन्नाशयन्निति यावत् । यजस्व यज । हिधातोः श्नुप्रत्यये हिनु इति जाते शतरि यणादेशे नुम्युगित्वात्पित्त्वाद्गुणनिषेधे च हिन्वन्निति रूपम् । भूतेषु प्राणिषु सर्वेषु तदितरपदार्थेषु चरुपुरोडाशादिष्विति व्यधिकरणसप्तम्यौ वा । अयमेवार्थो व्यासस्य सव्यस्य निर्दिशतोऽभिप्रेत इति ज्ञायते । अन्यथा सर्वभूतेष्वित्यवक्ष्यत् । सर्वेष्वित्येवोक्ते सर्वप्रतिपत्तिर्भवति । तथाऽपि सङ्कोचयेयुरसङ्कुचितचेतसोऽतो भूतेष्विति तन्मात्रोक्तौ तन्मात्र(वृत्तिः)व्यापृतिरिति मतिः स्यादतः सर्वेष्वित्युक्तिरिति परस्परोपकार्योपकारकता ज्ञेया । सर्वेत्युक्तौ न तथा भायादिति चेन्न । विनेय स्मरतु भवानत्तृत्त्वाधिकरणीयसुधायाः । चराचरगोचरे नार्थ आशयं क्लेशाय१ । यज स्वयोगेनेति छेदो वा । अनौपाधिकतां स्वशब्दो ब्रवीति योगस्येति मन्तव्यम् ॥ १३ ॥
मन्दनन्दिनी
दैत्येश्वराधिपत्यकालेऽपि मुक्तावानन्दातिशयभूतमनुष्ठेयं साधनं शिक्षते ॥ कथा इति ॥ मदीयाः कथा जुषमाणः शृृण्वन् प्रियस्तत्रादरवान् सर्वभूतेषु सन्तमेकं माम् । आत्मनि मनस्यावेश्याधियज्ञं सर्वयज्ञभोक्तारमीशं योगेन ध्यानेन कर्म हिन्वन् उपमर्दयंस्त्वं यजस्व । योगेन पूजयेति योजना । अनेन श्रवणध्यानाकाम्यकर्मादिलक्षणमानन्दातिशयसाधनं शिक्षितमिति ज्ञातव्यम्
॥ १३ ॥
भोगेन पुण्यं कुशलेन पापं कलेवरं कालजवेन हित्वा ।
कीर्तिं विशुद्धां सुरलोकगीतां विताय मामेष्यसि मुक्तबन्धः ॥ १४ ॥
पदरत्नावली
नन्वेतावता मम कालान्तरभाविनी त्वत्प्राप्तिः स्यात् किमित्यत्राह– भोगेनेति । मुक्तावनाभिमतं पुण्यं भोगेन क्षपयित्वा प्रायश्चित्तादिकुशलकर्मणा पापं निर्मूलयित्वा । विताय विस्तृत्य
॥ १४ ॥
सत्यधर्मीया
दानवेदानीं न तव मुक्तिः किन्तु विलम्बावलम्बिनीतीयता कर्मणा भाव्यमिति तदाह ॥ भोगेनेति । पुण्यं प्रारब्धमनिष्टम् । पुत्राद्यागमनापात्रम् । भोगेन हित्वा क्षपयित्वा । एवं नपुण्यं पापं तद्रूपं भोगे सत्येव हित्वेत्यस्यावृत्त्या पापसम्पत्तिर्ज्ञेया । कुशलेन प्रायश्चित्ताद्यात्मना कर्मणा पापमप्रारब्धं कुशले पुत्रादिक्षेमविषये नपापं सुहृदः साधुकृत्यामित्याद्याशंसितम् । अनारब्धं पुण्यं हित्वा तान्प्रति गमयित्वा तत्फलभागिनस्तान्कृत्वेति यावत् । ‘‘कुशलः शिक्षिते क्षेमपर्याप्तसुकृतेष्वपी’’ति विश्वः । भोगेन त्वितरे क्षपयित्वाऽथ सम्पत्स्यते । तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशादिति भगवद्वचनभाष्यटीकादितोऽत्र विशेषोऽवसेयः । नैकमात्राधिकारिकं शास्त्रमिति न तु तस्या प्राचीनं शास्त्रमस्ति । न चासावविद्वानिति वाच्यमिति विशेषविषयपर्यवसानं कैश्चित्कर्तनोपपत्तिमदिति ज्ञेयम् ।१ कालजवेन क्लृप्तकालेन कलेवरं शरीरं हित्वा मामेष्यसि । मुक्तबन्धः पूर्वं सुरलोकगीतां तत्र तल्लोकै-र्गानयोग्यां विशुद्धां कीर्तिं विताय विस्तार्य मुक्तैर्बन्धः स्नेहो यस्य सः । ‘‘अनुबन्धस्तु भक्तिः स्यात्स्नेहो बन्ध इतीरित’’ इति तात्पर्यान्तरात् । भविष्यतीति शेषः । संसारबन्धमुक्त इति वा । प्रल्हादमादीकृत्य सर्वसदुपदेशोऽयमित्यनेकेषामाधिकार्यानन्त्येन समयापर्यवसितिर्दोष इति सन्तोष्टव्यम् । अधिपत्ये भोगादि प्राप्तिरावश्यकीति न चिन्तयितव्यम् । भोगादेरपि प्रारब्धपुण्यक्षयादिसम्पादकतया मत्प्राप्त्युप-योगित्वादित्याह ॥ भोगेनेति ॥ पुण्यं प्रारब्धं काम्यपुण्यं कुशलेन प्रायश्चित्तादिना । पापं कालजवेन प्रारब्धप्राप्तं कलेवरं हित्वा विनाश्य सुरलोकगीतां विशुद्धां कीर्तिं विताय विस्तृत्य मुक्तबन्धो मामेष्यति । भवानिति योजना । प्रारब्धपापं प्रति प्रायश्चित्तस्योपमर्दकत्वं ज्ञातव्यम् । अनेनाधिपत्यदानं भोगेन काम्यपुण्यक्षयसम्पादकतया पापोपमर्दककुशलानुष्ठानोपयोगितया प्रारब्धासुरदेहादिनाशकतया कीर्त्यादि-सम्पादकतया महाननुग्रह एव प्रह्लादे कृतः ॥ १४ ॥
य एतत् कीर्तयेन्मह्यं त्वया गीतमिदं नरः ।
त्वां च मां च स्मरन् काले कर्मबन्धाद् विमुच्यते ॥ १५ ॥
पदरत्नावली
मया तवोक्तयोगकरणाशक्तस्यानायाससाध्यं योगमुपदिशामीत्युपसंहरति– य इति । मह्यं मामुदिश्य । युक्तकाले ॥ १५ ॥
सत्यधर्मीया
यो योगस्त्वां प्रति मयोपदिष्टस्तत्र ये न शक्तास्तेषामयमुपायो नायाससाध्य इति तमुपदिशन्प्रकृतमुपसंहरति हरिः ॥ य इति । मह्यं मामुद्दिश्य त्वया गीतं पद्यजातम् इदं कामितदमतो नेतरातिरेकः । यो नरः कीर्तयेत्काले योग्ये पर्वादौ त्वां च मां च स्मरंश्च यः स कर्मबन्धात् संसाराद्विमुच्यते ॥ १५ ॥
मन्दनन्दिनी
स्वस्तोत्रकीर्तनस्यापि फलमाह भगवान् ॥ य इति । मह्यं मदुद्देशेन । काले प्रातरादिकाले ॥ १५ ॥
प्रह्लाद उवाच–
वरं वरय एतत् ते वरदेशान्महेश्वर ।
यदनिन्दत् पिता मे त्वामविद्वांस्तेज ऐश्वरम् ॥ १६ ॥
बद्धामर्षाशयः साक्षात् सर्वलोकगुरुं प्रभुम् ।
भ्रातृहेति मृषादृष्टिस्त्वद्भक्ते मयि चाघवान् ॥ १७ ॥
तस्मात् पिता मे पूयेत दुरन्ताद् दुस्तरादघात् ।
पूतस्तेऽपाङ्गसन्दृष्टस्तदा कृपणवत्सल ॥ १८ ॥
पदरत्नावली
अभिमतमित्युक्तत्वादिमं त्वदभिमतं वरं वृण इत्याह– वरमिति । ते सकाशात् । अनेन दातृस्वीकर्तृभावसम्बन्धोऽस्तीति ज्ञायते ॥ शुद्ध्यर्थं साधनान्तरानुष्ठानं नापेक्षितमित्याह– पूत इति ॥ १६,१८ ॥
सत्यधर्मीया
कामानां हृद्यसंरोहरूपवरवरणानन्तरमनन्तो दैत्येश्वराणामनुभुङ्क्ष्व भोगानिति गदन्कथा मदीया जुषमाण इत्यादिना मुक्तबन्ध इत्यन्तेन कृतसंसृतिवसतेरपि न बन्ध इति जगाद जगदीश्वर इत्येव न किञ्चाभिमतमित्यूच इति सैश्वरी नाज्ञा ज्ञानिनाऽवसेयेति स्वाभिमतं ययाचेह पितृतृप्तितां तत्पवित्रतां ययाच इत्याह१ ॥ प्रल्हाद इति । हे महेश्वर एतत्त इत्येकं पदम् । एष चासौ त्वं चेतत्त्वं तस्य । एतत्ते त्वत्सम्बन्धिनं त्वदधीनमिति यावत् । वरदेशात्त्वत्त एव वरं वरये । वरो देश आदेशो वरं वृणीष्वेत्याज्ञा । उपसर्गाणां च धातुलीनार्थद्योतकतामात्रस्य वैय्याकरणोररीकारा-त्सम्भवति । देश आदेश इति । सुधायां गम्यत इत्यादिस्थलेऽवगम्यत इत्याद्यर्थस्वीकारान्नापूर्वता । वरे त्वद्विषये य आदेशस्तस्मादिति वा । वरो देश उत्तमा(मोप)देशः । अत्र दैशिकः । ल्यब्लोपनिमित्ता चैषा पञ्चमी । तं मुक्तबन्ध इत्याद्युपदेशं प्राप्य वरं वरय इति वा । यद् यत ऐश्वरं तेजोऽविद्वानजानानो बद्धामर्षाशयो बद्धोऽमर्षो यस्मिन्स आशयोऽन्तःकरणं यस्य सः । न केवलमज्ञः किन्तु मृषादृष्टि-र्मिथ्याज्ञानी । भ्रातृहेति हिरण्याक्षहन्तेति मे पिता त्वामनिन्दन्निनिन्द । त्वद्भक्ते मयि चानघे अघवानिति मृषा दृष्टिरिति वा । तस्मान्मे पिता दुरन्ताद् दुर् दुःखम् अन्ते भोग्यं यस्मात् । दुरशोभनदुःखयोः, ‘‘दुर्दुःखमिति सम्प्रोक्तं खं सुखं चोच्यते बुधैः’’ इति वचनाद् दुष्प्रापपारात् त्वत्करुणामन्तरेण अघाद्दुरितात्पूयेत पूतो भवेदिति वरं वरय इत्यन्वयः ॥ भ्रातृहेति । भ्रातरं चेतनं हन्तीति भ्रातृहेति मृषा मिथ्या दृष्टिर्यस्य सः । देहस्य सर्वथा नाशादनाशाच्चेतनस्य चेत्यादेर्भवतीयं मिथ्यादृष्टिर्मृषादृष्टिर्मोघज्ञान इति वा । यथोक्तं प्रथमतात्पर्ये । न चातृप्तः प्रवर्तते । किन्तु मृषा वृथैव । भित्वा मृषाश्रुरितिवदिति ।
ननु ब्रह्मभ्रूणवृत्रेषु क्विबिति सूत्रवृत्तौ किमर्थमिदमुच्यते । यावता सर्वधातुभ्यः क्विब्विहित एव । ब्रह्मादिषु हन्तेः क्विब्वचनं नियमार्थम् । चतुर्विधश्चात्र नियम इष्यते । ब्रह्मादिष्वेव हन्तेर्नान्यस्मिन्नुपपद इत्यादेरुक्तत्वेन भ्रातृशब्दोपपदाद्धन्तेः क्विपः प्रापकाभावात्कथमुक्तरूपं रूपमिति चेन्न । पदमञ्जर्यां चतुर्विधश्चात्रेति धातूपपदकालप्रत्ययविषयः । भाष्ये धातूपपदविषयं नियमद्वयं प्रदर्शितम् । तदुपलक्षणं न तु नियमान्तरव्यावृत्त्यर्थमिति गम्यते । ब्रह्मादिष्वेव हन्तेरिति धातुनियमः । अत्रापि नियमे भूत इत्याश्रयणात्कालान्तरे उपपदान्तरे भवत्येव । पुरुषं हन्ति हनिष्यति पुरुषहेति भ्रातृशब्दोपपदाद्भूतार्थे हन्तेः क्विप्प्रत्ययासम्भवेऽपि वर्तमानभविष्यदर्थयोः क्विपः सम्भवात् । शोकातिशयसंवृताशयतयाऽ-तीतस्यापि कालस्य वर्तमानतारोपविषयत्वात्क्विप उपपत्तिः । यद्वा बहुलं छन्दसीति वा हन्तेः क्विप् ।
भ्रातृहेतिमृषादृष्टिरिति पदमखण्डम् । भ्रातरि हेतिरायुधं यस्य स इति मृषादृष्टिः । अकार्यकारिणी दृष्टिर्यस्येति । ‘‘हेतिः स्यादायुध’’ इति विश्वः । विनाऽऽयुधं तृतीयस्कन्धे ‘‘करेण कर्णमूलेऽहन्’’ । तत्तात्पर्ये च । ‘‘ब्रह्मजस्तु हिरण्याक्षः प्रथमं दंष्ट्रया हतः । स एव पार्षदाविष्टो द्वितीयं कर्णताडनात् । पूर्वं लयोदधौ मग्नां द्वितीयं तेन मज्जिताम् । भुवमुद्धरतैवासौ हरिणा क्रोडमूर्तिना’’ इत्याद्युक्तेः । न च द्वितीयस्कंधे एव सुनाभसन्दीपिततीव्रमन्युरित्युक्तिस्तर्हि कथमिति वाच्यम् । स्वरूपमात्रनिरूपकत्वस्यो-दाहृतवचनानुरोधेन कल्प्यत्वोपपत्तेः । काऽत्र कथन्ता । तत्रापि स्पष्टं तथा प्रतिपादनाच्च । तलताडनेन कर्णमूले तथा दंष्ट्रयेति श्रवणाद्धेतिहननमिति मृषा दृष्टिर्भविष्यतीति वाऽर्थः । अमरादिनिरीक्षणे स पूत एव तथाऽपि पामरसमाध्यर्थमियं याञ्चा मम लालनीयेत्याह ॥ पूत इति । यदा तेऽपाङ्गेन नयनप्रान्तेन संदृष्टोऽभूत्तदैव पूतः । हे कृपणवत्सल दीनप्रीत तस्मादपि पामरदृष्टिं तां प्राप्यापि पूयेतेत्यन्वयः । एवमनन्वयेऽनन्वय एवैतदर्धस्येति ज्ञेयम् ॥ १६–१८ ॥
मन्दनन्दिनी
पुत्रेण पितुरुद्धारस्य कर्तव्यत्वाद् भगवतो भक्तवत्सलत्वात् पितुर्दैत्यावेशप्रयुक्त-निन्दनादिकारित्वेऽपि वस्तुतो भक्तत्वादुद्धारत्वं वरयते ॥ वरमिति ॥ हे देवेश हे महेश्वर । ते सकाशादेतद्वक्ष्यमाणं वरं वरये प्रार्थये । एतत्किमित्यत उक्तम् । ईश्वरं तेजः सर्वैश्वर्यमविद्वान् भ्रातृहेति हिरण्याक्षमनपराधिनं हन्तेति मृषादृष्टिर्मिथ्याज्ञानवान् तेनैव बद्धामर्षाशयस्त्वद्भक्ते मयि च विषयेऽघवान् अपराधवान्मे पिता सर्वलोकगुरुं प्रभुं त्वां यदनिन्दत्तस्माद्दुरन्ताद्दुस्तरादघान्मे पिता पूयेतेति । पूतत्वमपि सिद्धमेवेत्याह ॥ पूत इति ॥ यदेति शेषः ॥ १६–१८ ॥
श्रीभगवानुवाच–
त्रिः सप्तभिः पिता पूतः पितृभिः सह तेऽनघ ।
यत् साधोऽस्य कुले जातो भवान् वै कुलपावनः ॥ १९ ॥
तात्पर्यम्
जन्मान्तरे पितृभिस्त्रिसप्तभिः१ ॥ १९ ॥
पदरत्नावली
न केवलमयमेव पिता पूतः, किन्तु जन्मान्तरेऽपि विद्यमानाः पितरः पूताः स्युरित्याशयवानाह– त्रिः सप्तभिरिति ॥ सा विशुद्धिर् मत्कटाक्षपात्रीभूतत्वाज्जन्मनेत्याह– यत्साधोऽस्येति ॥ १९ ॥
सत्यधर्मीया
त्रिःसप्तभिः पिता पूत इति श्लोके लोकेशोक्तमसम्भावितमिव भाति । साक्षा-ज्जनकवाचिता पितृशब्दस्य (साक्षात्कुक्षिजत्वविवक्षा) चेदेक एवैकस्मिञ्जन्मन्येतस्य पिता हिरण्यक इत्यनुपपत्तेः । पितामहाद्याश्च पितरो नाम कीर्तिता इत्यैतरेयभाष्यकीर्तनात्तेषां समेषां ग्रहणेऽपि स्वपर्यन्तं कश्यपमरीचिचतुरानननृपञ्चास्येति च हिरण्यकश्चेति पञ्चकस्यैव (‘‘कश्यपमरीचिचतुराननेति त्रिकस्यैव’’ इति मूलकोशपाठः) लाभात्कथञ्चिदपि त्रिःसप्तसङ्ख्या वक्तुं शक्या नेत्यतः किञ्चिदध्याहृत्य तद्वाक्यं विवृणोति ॥ जन्मान्तर इति । जन्मान्तरे पितृभिर्हिरण्यककश्यपमरीचिसंज्ञकैः पितृपितामहप्रपितामहैः । अनेन पितृशब्दः साक्षाज्जनकवाची तथा चैकविंशेत्युक्तिर्जन्मान्तराभिप्रायेणैव न त्वेतज्जन्माभिप्रायेणे-त्युक्तं भवतीति केषाञ्चिन्निर्बन्धोऽकारणकः । आचार्यैरैतरेयभाष्ये पितृशब्दस्य पितामहादिपरतया सप्रमाणं व्याकरणादत्र कण्ठतोऽनुक्त्युत्कण्ठाकुण्ठनसम्भवात् । किञ्चैकग्रहणे कालविलम्बप्रसक्ति-वत्पितामहप्रपितामहयोः पावनानुक्तिप्रसक्तेश्च महामाहात्म्यस्यावश्यवक्तव्यस्यासिद्धेः । त्रिःसप्तभिरेक-विंशतिसङ्ख्याकैर्जन्मान्तरे तेषु । क्वचिज्जन्मान्तरपितृभिरिति दृश्यते पाठः । समस्तः । स चातिसुन्दरः । एकवचनबहुवचनार्थतासम्पादनायासानासादकत्वात् । श्रौत इव स्मार्तश्चायमर्थः । तथा हि । ‘‘स्वादुषं सदः पितरो वयोधाः’’ । ‘‘येऽबान्धवा ये बान्धवा अन्यजन्मनि बान्धवाः । ते तृप्तिमखिलां यान्तु मया दत्तेन वारिणा । जन्मान्तरे ये मम सङ्गताश्च तेभ्यः स्वधापिण्डमहं ददामि’’ इति । पितृपक्षे सप्त मातृपक्षे सप्त भार्यापक्षे सप्तेत्येकविंशतिरिति केचित्१ ‘‘वस्तुतस्तु जयविजययोः ‘‘मानुषा एव देवादयो भवन्ति’’ इत्युक्तेर्यदा यदा यत्र यत्र जननं तत्तत्पितृभिः सप्तकं ग्राह्यम् । एकविंशत्यनन्तरं सापिण्ड्याद्यःभावात् । ततश्चायं मूलार्थः ॥ पितृभिः पितामहादिभिस्त्रिभिः सप्तभिरेकविंशतिसङ्ख्यैः सह ते पिता हिरण्यकः पूतः । यद्यपि तदुक्तमपाङ्गसंदृष्ट इति मुख्यं तत्पूतताहेतुस्तथाऽपि पोतख्यात्या स्वमहत्त्वमेवं कृपापारावारो हरिरिति विततं भवतीति पुत्रत्वमनौपचारिकं त्वयीति प्रल्हादमाल्हादेन वदति ॥ अनघेति । यद्यस्मादस्य कुले हिरण्यकशिपोः । कुले वंशे । तच्च कुलं न स्वतः सुशील-मित्यप्यालपति ॥ अस्यकुल इति । अस्यं निरस्यं तच्च तत्कुलं च तस्मिन् । निन्दितगोत्र इति वा । ‘‘कुले देह इति वा । कुलं सजातीयगणे गोत्रे देहेऽपि कलितं कुलम्’’ इति विश्वः । कुलपावनः कुलं पावयतीति स तथा । नन्द्यादिल्युः । अनघ साधो सुकृताभिवर्धक । ‘‘साधुर्वार्धुषिक’’ इति विश्वः । जातस्ततस्त्रिःसप्तभिः पितृभिः पिता पूत इत्यन्वयः ॥ १९ ॥
मन्दनन्दिनी
न केवलमयं पिता । किन्तु जन्मान्तरपितरोऽपि पूता इत्याशयेनाह ॥ त्रिभिरिति । सुजन्तम् । गुणितैरिति शेषः । तथा चैकविंशतीत्यर्थः । त्रिसप्तभिरिति समासे तु स्पष्टम् । एवं च पूर्वजन्मत्रयम् । एकैकस्मिन्सप्त । त्रयः प्राञ्चस्त्रयः प्रत्यंच आत्मा सप्तम एतावन्त एवैनममुष्मिंल्लोके उपजीवन्तीति श्रुतेः । एतदेवाभिप्रेत्य तात्पर्यम् ॥ जन्मान्तरपितृभिः सप्तभिरिति ॥ प्रह्लादादेः पूर्वजन्म ‘‘प्रतिमन्वन्तरे चैव प्रह्लादाद्या बभूविर’’ इति मानसिद्धम् । अस्य हिरण्यकशिपोः ॥ १९ ॥
यत्र यत्र च मद्भक्ताः प्रशान्ताः समदर्शिनः ।
साधवः समुदाचारास्ते पूयन्तेऽपि कीकटान्२ ॥ २० ॥
पदरत्नावली
एतत्न्यायमन्यत्रातिदिशति– यत्रेति ॥ कीकटा इति पाठे तु आभीरा इत्यर्थः
॥ २० ॥
सत्यधर्मीया
त्वया तु पोतेन तातः पूत इति नाद्भुतम् । परेभ्योऽप्यपरेषां पावित्र्यं सम्भवति साधुस्वभाव एतादृश इति प्रशंसति ॥ यत्र यत्रेति । समदर्शिनो योग्यतामनुसृत्य । समुदाचारा उदारा-चरणा ये यत्र यत्र वर्तन्ते ते कीकटानपि पूयन्ते पावयन्ति । कीकटाश्च देशविशेषाः । तेषां पावनं च तत्स्थद्वारा ज्ञेयम् । ‘‘कीकटस्तु गिरे निःस्वदेशभेदेमितम्पच’’ इति विश्वः । कीटकानिति पाठे ‘‘कीटकः कृमिजातौ स्यान्निष्ठुर’’ इति विश्वादस्पृश्यान् कृमिविशेषानिति वाऽर्थः । कीकटा इति प्रथमान्तः पाठः क्वचित् । उक्तगुणास्तेऽपि पूयन्त इतरानित्यर्थः ॥ २० ॥
मन्दनन्दिनी
कुलपावनस्य साधोः पुत्रजननमेव वंशोद्धारकमित्यन्यत्राप्युपदिशति ॥ यत्रेति ॥ यत्र कुले कीटा अपि क्षुद्रा अपि । कीटका इति पाठे तत्तद्देशस्य पापसाधनत्वात् । लक्षणया पापिष्ठा अपीत्यर्थः । एतादृशा अपि ते तत्कुलीनाः पितरः पूयन्त इति योजना ॥ २० ॥
सर्वात्मना न हिंसन्ति भूतग्रामेषु किञ्चन ।
उच्चावचेषु दैत्येन्द्र मद्भावेन गतस्पृहाः ॥ २१ ॥
पदरत्नावली
ननु त्वद्भक्तानामेवंविधमाहात्म्यं कस्मादित्याशङ्क्य तपोवृद्धिक्षयहेतुहिंसाद्य-भावादित्याह– सर्वात्मनेति ॥ सर्वात्मना यदपि किञ्चन कृकलासादिकमपि । ‘तस्मात् प्राणभृतः प्राणं न विच्छिन्द्यादपि कृकलासस्य’ इति श्रुतेः । तत्र निमित्तमाह– मद्भावेनेति ॥ ‘ईश्वरो जीवकलया प्रविष्टः’ इति वचनात् सर्वत्र मम भावः सत्ताऽस्तीति भावो भावना निरन्तरानुस्मरणं तेन गतस्पृहा नष्टस्पर्धा हिंसायाः कारणम् । निमित्ताभावान्नैमित्तिकाभाव इत्यर्थः ॥ २१ ॥
सत्यधर्मीया
माधव साधवस्ते कुत इति महानुभाव भवान्वदत्वित्यत इति ब्रवीति ॥ सर्वात्म-नेति । भूतग्रामेषु प्राणिवृन्देषु । किञ्चन किमपि । ‘‘ग्रामः स्वरे संवसथे वृन्द’’ इति विश्वः । सर्वात्मना मनोवाक्कायवृत्तिभिरिति सर्वात्मना न हिंसन्ति न नाशयन्ति । कुत इत्यत आह ॥ उच्चावचेष्विति ॥ उच्चावचेष्वनेकेषु । ‘‘उच्चावचं नैकभेद’’मित्यमरः ॥ मद्भावेन । सर्वत्र मत्सत्तया । ‘‘ईश्वरो जीवे कलया प्रविष्टः’’ । ‘‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थित’’ इत्यादेः । गतस्पृहा गतविषयेच्छाः । तस्या एव हिंसादिसाधनत्वात् । न हिंस्यात्सर्वा भूतानीति श्रुतेः । किञ्चन कृकलासादिकं वा । यथोक्तं बृहदारण्यकोपनिषद्भाष्यटिप्पणेषु । तस्मादेतां रात्रिं प्राणभृतः प्राणं न विच्छिन्द्यादिति । कृकलासस्यै-तस्या एव देवता वा अपचित्यै । वायुः प्रजापतिः सोऽसौ चन्द्रसंस्थो विशेषतः । रात्रौ रात्रौ क्षयादस्य पूरणाद्रात्रिनामकाः । कलाः पञ्चदश प्रोक्ता ध्रुवैवास्य तु षोडशी । अकलोऽपि स चन्द्रस्य कलाभिः प्रोच्यते तथा । सोऽमावास्यां यतो रात्रौ प्राणभृत्सु व्यवस्थितः । कल्यावेशादल्पदोषः कृकलासवधोऽपि सन् । तस्यां रात्रौ महादोषा देवतावशतो भवेत् । तस्मादमावास्यायां रात्रौ चन्द्रस्थवायोः प्राणभृत्सु स्थितत्वादेतां रात्रिमेतस्यां रात्रौ प्राणभृतो जीवतः प्राणं न विच्छिन्द्यात् । महापापहेतुप्राणिवधो न कर्तव्य इति किमु वक्तव्यम् । कृकलासस्याल्पदोषहेतुवधस्यापि प्राणं न विछिन्द्यात्तस्यां रात्रौ कृकलासवधोऽपि महादोषहेतुरित्यर्थ इति । मद्भावे ऐक्ये न गता न प्रविष्टा स्पृहा येषां ते तथा । अनैक्यचिन्तका इति वा ॥ २१ ॥
मन्दनन्दिनी
भक्तान्विशिनष्टि ॥ सर्वात्मनेति ॥ उच्चावचेषु तारतम्येन विद्यमानेषु भूतग्रामेषु प्राणिसमूहेषु न हिंसन्ति न क्रुध्यन्ति । मद्भावेन भक्त्या गतस्पृहा विषयापेक्षारहिताः ॥ २१ ॥
भवन्ति पुरुषा लोके मद्भक्तास्त्वामनुव्रताः ।
भवान् मे खलु भक्तानां सर्वेषां प्रतिरूपधृक् ॥ २२ ॥
तात्पर्यम्
‘ऋते तु तात्विकान्देवान्नारदादींस्तथैव च । प्रह्लादादुत्तमः को नु विष्णुभक्तौ जगत्त्रये’ इति स्कान्दे ॥ २२ ॥
पदरत्नावली
इह लोके ये मद्भक्ताः पुरुषा भवन्ति विद्यन्ते ते न हिंसन्तीत्यन्वयः । मद्भक्तेष्वपि तव विशेषोऽस्तीत्याह– भवानिति ॥ प्रतिरूपधृक् दृष्टान्तस्थलभूतः । खलुशब्देन कांश्चि-न्निषिध्यावशिष्टानां सर्वेषामिति सर्वेषामित्यस्यार्थो गृह्यते । तेन यावत् तावदित्यर्थः । ‘ऋते तु तात्विकान् देवान् नारदादींस्तथैव च । प्रह्लादादुत्तमः को नु विष्णुभक्तो जगत्त्रये ॥’ इति वचनात् । ‘निषेधवाक्यालङ्कारजिज्ञासानुनये खलु’ इत्यभिधानम् ॥ २२ ॥
सत्यधर्मीया
भवन्ति पुरुषा लोक इति श्लोके बिम्बता प्रल्हादस्य प्रतिबिम्बतेतरसुरादि-भक्तानामित्यन्यथाप्रतीतिं प्रमाणेन श्लथयति ॥ ऋते त्विति । तात्त्विकान् देवानृते तथा नारदादींश्च ऋते जगत्त्रये प्रल्हदादुत्तमो विष्णुभक्तः को नु न कोऽपीति निश्चितम् । तुचावितरेतरसमुच्चये । ऋते देवानित्याद्युपपत्तिस्तु प्रागुपपादिताऽस्माभिरनुसन्धेया । ननु प्रल्हादो नारदाधम इत्युक्तेः कथं नारादादी- नित्युक्तिरिति चेन्न । नारदशब्दः प्रह्लादोत्तमोपलक्षक इत्येतेन स्कान्दवचनेन च स्कन्दायुक्ततावच इति सुवचत्वात् ॥ ततश्चायं मूलार्थः ॥ लोके ये मद्भक्ताः पुरुषा भवन्ति सन्ति तेषां भक्तानां सर्वेषां तात्त्विकनारदादिव्यतिरिक्तानां भवान् प्रतिरूपधृक् प्रतिरूपं प्रतिबिम्बं धरतीति स तथा । तद्रूपप्रतिरूप-धृक् बिम्ब इति यावत् । अत एव सुलग्ना त्वामनुव्रता इत्युक्तिः । तदननुव्रता उत्तमाश्च तात्त्विक-नारदादित्वेन विवृता मानेनेति मननीयम् । प्रतिरूपशब्दश्च रूपं रूपं प्रतिरूपो बभूव । प्रतिदेवतासु देवताप्रतिबिम्बभूतास्विति पूर्वं व्याकृत्य प्रतिरूपशब्दवत्प्रतिदेवताशब्द इत्याथर्वणभाष्योक्तेः प्रतिबिम्बपरो ज्ञेयः । ये त्वामनुव्रता लोके पुरुषास्तेऽपि मद्भक्ता यतो भवन्त्यतो मे सर्वेषां भक्तानां त्वं प्रतिरूपधृक् । प्रल्हादो महाश्रेष्ठो यथेति निदर्शयितुं योग्य इति व्याचक्षते । खलु निषेधन इति विश्वादुत्तमान् भक्तान्निषिध्येतरप्रतिरूपधृक् भवानित्यर्थः । जीवसमुदायः परमेश्वरस्य रूपं रूपं प्रतिरूपो भूत्वा वर्तते । तद्बिम्बरूपमस्य मुक्त्यर्थं साक्षात्कारविषयो भवतीति तत्त्वप्रकाशिकोक्तेः । तत्त्वप्रदीपे च रूपं रूपं प्रतिरूपो बभूव प्रतिबिम्बो बभूवेत्युक्तेश्च ॥ २२ ॥
मन्दनन्दिनी
भक्तेषु श्रैष्ठ्यं प्रह्लादस्य वक्तुमाह ॥ भवन्तीति ॥ लोके मद्भक्ताः पुरुषा-स्त्वामनुव्रता भवन्ति । त्वमेवमेव भक्तानां प्रतिरूपधृक् दृष्टान्तत्वधृक् ।
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥
इति वचनात् । भक्तेषु प्रह्लादस्य श्रेष्ठत्वात्तदनुव्रतत्वमन्येषामिति भावः । अत्र प्रह्लादस्य सर्वभक्ते-षूत्तमत्वमनुपपन्नम् । नारदाद्यधमत्वात् । अतः कान्विना भक्तेषूत्तमत्वमित्यतस्तात्पर्यम् ॥ ‘‘ऋते तु तात्विकान्देवान्नारदादींस्तथैव च । प्रह्लादादुत्तमः कोऽनु विष्णुभक्तौ जगत्त्रये’’ इति स्कान्दे ॥ तात्विकान् अग्न््यादीन् । नारदादीन्नारदभृगुवसिष्ठादीन् ॥ २२ ॥
कुरु त्वं प्रेतकार्याणि पितुः पूतस्य सर्वशः ।
मदङ्गस्पर्शनेनाङ्ग लोकान् यास्यति सुप्रजाः ॥ २३ ॥
तात्पर्यम्
‘मधुकैटभौ भक्त्यभावादूरौ भगवतो मृतौ । तम एव क्रमादाप्तौ भक्त्या चैद्यौ हरिं ययौ’ ॥ २३ ॥
पदरत्नावली
मत्पिता भगवद्द्वेषीति मत्वा तत्प्रेतकार्याणि न करोमीति मतिर्माभूत् । ‘श्रौतं स्मार्तं न लङ्घयेत्’ इति वचनात् । मदाज्ञया तान्यपि कर्तव्यानि । ‘नावैष्णवाय दातव्यं नोदबिन्दु न तण्डुलम्’ इत्येतदसम्बन्धिविषयत्वेन सावकाशमित्याशयेनाह– मदङ्गेति ॥ सुप्रजाः सुपुत्राः ॥ २३ ॥
सत्यधर्मीया
कुरु त्वं प्रेतकार्याणीति श्लोके सुश्लोकेन मदङ्गस्पर्शनेन सर्वशः पूतस्येत्युच्यते । नैतत्सम्भवति । विनाऽङ्गसम्बन्धं१ मधुकैटभयोरूरावित्युक्त्या मृत्यु२ प्रत्यायनात्तेन लोकावाप्तेरभावा-द्धिरण्यकस्यैतज्जन्मनि तन्महिमापादकभक्त्यदर्शनात्प्रथमाध्यायान्ते हिरण्यकशिपुरित्यादिमानोदाहरणा-द्वैरभावेन तौ हतावित्यत्रैव वक्ष्यमाणत्वाज्जन्मद्वन्द्वप्रापकशापस्य सत्वाच्चेत्यतस्तत्तात्पर्यमाचार्यवर्यः प्रमाणेनाह ॥ मधुकैटभाविति । भक्त्यभावात्स्वाभाविकदानवत्त्वात्तयोर्भगवत ऊरौ उत्सङ्गे । मृतौ मारितौ । क्रमात् कलिना सह स्वोत्तमपापाधिकप्रवेशक्रमात्तम एव प्राप्तौ । चैद्यो भविष्यन्हिरण्यकस्तु तज्जीववत्त्वाद्भक्त्या हरिं ययौ । यास्यति । निश्चितत्वादेवैवमुक्तिः । तेन भक्तिपूर्वकाङ्गस्य स्पर्श एव हर्युक्तो नापरः । स च न मधुकैटभादीनामिति तत्तम एतदुत्तमलोकावाप्तिश्च सम्भवत इति नासम्भव इति भावः । अनन्तिमतयाऽधुना शापापनोदाभावाद्रावणकुम्भकर्णानुक्तिः सम्भावितेति मध्यमवर्ति-तदन-भिधानेनोक्तिः कथं चैद्यस्येति कुचोद्यानवकाश इति ज्ञेयम् । चैद्यत्वावस्थायां ‘‘शिरः क्षुरान्तचक्रेण जहारापततो रिपोः’’ इति दशमभागवतोक्तेरङ्गस्पर्शाभावात्कथं मदङ्गस्पर्शनेनेति चैद्यस्य सद्गतिरित्युक्ति-रिति चेन्न । हिरण्यकस्य चैद्यतां मनुषे न तनुषे कुतस्तदङ्गस्पर्शतायां धियम् । निर्भरस्तु भक्तावेव नाङ्गस्पर्शे यत्र स घटितः सोऽप्येकः सुवर्णसौगन्ध्यन्यायेन लाभ इति माने भक्त्या चैद्यो हरिं ययावित्येवोक्तिरिति तदङ्गस्पर्शासंस्पर्शोऽपि न दोषमावहति । चैद्यदेहस्थितं ज्योतिर्वासुदेवमुपाविशदिति भक्तिसहिततदङ्गान्तरङ्गस्पर्शस्य तत्रैव श्रावितत्वाच्च । भारते सभापर्वणि च । ‘‘ततश्चेदिपतेर्देहात्तेजोऽग्य्रं ददृशुर्नृपाः । उत्पतन्तं महाराज गगनादिव भास्करम् । ततः कमलपत्राक्षं कृष्णं लोकनमस्कृतम् । ववन्दे तत्तदा तेजो विवेश च नराधिप’’ इति स्पष्टमङ्गस्पृष्ट्यवगतेश्च । तात्पर्ये तर्हि भक्त्येत्येन्मात्रग्रहणं तत्कृत्यवर्णनं च न कर्णाकर्णनीयमिति चेत् । मूल एव मदङ्गस्पर्शनेनेति स्पष्टमुक्तमिति तूष्णीका इत्यप्येतत्पक्षेऽर्थसम्भवात् ॥
ततश्चायं मूलार्थः ॥ त्वद्रिपुरिति हिरण्यकशिपुर्मत्तो नोत्तरक्रियार्ह इति न तनुमतिं तनुताम् । स च मदङ्गसङ्गात्पूत इति प्रत्यवेया इत्याह ॥ कुरुत्वमिति । हे अङ्ग प्रल्हाद । सर्वशः सर्वप्रकारेण मदङ्ग-स्पर्शनेनान्तर्निविष्टजयत्वेन सभक्तिगात्रस्पर्शेन पूतस्य३ त्वद्धस्तत उत्तरक्रियायोग्यता व्यक्तिहेतुपावित्र्य-वतो मदभिप्रेतानि प्रेतकार्याणि कुरु । सुप्रजाः स हिरण्यको लोकान्सतो यास्यति । सल्लोकयाने मदङ्गस्पर्शवत्त्वं त्वत्पुत्रकत्वं च हेतुरिति सुप्रजा इत्यनेन प्रतिपादयतीति प्रतिपत्तव्यम् । त्वं प्रेतकार्याणि कुर्वित्याद्यनभिदधानोऽभिदधानश्चानयऽऽनुपूर्व्या कृष्णाङ्गसङ्गस्पर्शहीनेषु सर्वथा भक्तिकलाविकलेषु दुर्योधनादिषु श्रौतं स्मार्तं न लङ्घयेदित्युक्तितः कुरु त्वम् । जातिः । यास्यति । अपयशोद्वारा गच्छतीति । सर्वशः सर्वेण तद्धिंसया शं यस्य स धर्मः प्रेतकार्याणि चकारेति शेषः । यश्चाङ्गलोकानङ्ग-देशविशेषे विद्यमानाश्च ते लोकाश्च ताननिति चेष्टयतीति स तथा कर्णः । एतस्याप्यङ्गलोकानित्यानुपूर्वी भूमिका ज्ञेया । तस्य पितुः । ज्येष्ठभ्रातृत्वेन तत्समस्य तस्य प्रेतकार्याणि चकारेति न करोमीति न वद प्रेतकार्याणि कुरु । तेभ्योऽपि विशेषकं मदङ्गस्पर्शनेनेत्यादिकमिति मन्तव्यम् । सुप्रज इति पाठे प्राग्व्युत्पादितप्रकारेणोपपत्तिर्ज्ञेया ॥ २३ ॥
मन्दनन्दिनी
अवैष्णवाय दातव्यं
नोदबिन्दुं न तण्डुलम्
इत्युक्तेर् विष्णुद्वेषिणः पितुः कथं कर्म कर्तव्यमिति नाशङ्कनीयम् । स्वभावतो भक्तत्वात् । त्वया पूतत्वस्य प्रार्थितत्वात् । मदपाङ्गसन्दृष्टत्वा-न्मदङ्गस्पर्शनाच्च तस्य पूतत्वाद् इत्याशयेन तत्कर्मकरणे नियुंक्ते ॥ कुर्विति । मदङ्गस्पर्शनेन पूतस्येति कथम् । मधुकैटभयोर्हयग्रीवेण मृतत्वेऽपि तदभावादित्यतो भक्तत्वे सतीति विशेषणं देयम् । अतो न व्यभिचार इत्याशयेन तात्पर्यं प्रवृत्तम् ॥ मधुकैटभौ भक्त्यभावाद्धरौ भगवतो मृतौ । तम एव क्रमादाप्तौ भक्त्या चैद्यो हरिं ययाविति ॥ २३ ॥
पित्र्यं च स्थानमातिष्ठ यथोक्तं ब्रह्मवादिभिः ।
मय्यावेश्य मनस्तात कुरु कर्माणि तत्परः१ ॥ २४ ॥
पदरत्नावली
पितृमेधं कृत्वा विरज्य वनं न व्रज । किन्तु राज्यं कुर्वित्याह– पित्र्यमिति ॥ राज्यं कुर्वन् पितृवद् लोकोपद्रवं न कुरु । किन्तु ब्रह्मवाद्युक्तधर्मेणेत्याह– यथोक्तमिति ॥ न तावता पूर्यते, अन्यथावश्यकमित्याह– मयीति ॥ कर्माणि सामादिविषयाणि । पूजादीनि वा ॥ २४ ॥
सत्यधर्मीया
पूर्वोक्तं स्मारयन्विस्तार्य किञ्चिद्वदति ॥ पित्र्यमिति । पितुः सम्बन्धी । गतम्२ । स्थानं सिंहासनमातिष्ठ । तदनुवर्तस्वेत्याह ॥ यथोक्तमिति । ब्रह्मवादिभिर्ब्रह्म वर्तते वयं तद्दासा इति वादिनस्तैर्यथोक्तं तदुक्ति(क्त)मनतिहाय मयि मन आवेश्य । ब्रह्मवादिभि(ब्रह्मादिभिः)र्मया यथोक्तं तथा मयि मन आवेश्येति वा । कर्माणि राज्यरक्षणादीनि मत्पूजालक्षणादीनि वा कुरु । तत्परस्तदासक्तः । तत्परः सः पित्रनुगतो जनः परः शत्रुर्यस्य स तथेति वा । मत्पर इति पाठे मत्परोऽहं परः सर्वोत्तमो यस्य स तथा सन्मन आवेश्य कर्माणि कुर्वित्यन्वयः ॥ २४ ॥
मन्दनन्दिनी
ब्रह्मवादिभिरभिषेचनविषये उक्तानुसारेण पित्र्यं स्थानमास्थाय मयि मन आवेश्य मत्परःसन् यज्ञादिकर्माणि कुर्विति नियुंक्ते भगवान्पित्र्यमिति ॥ २४ ॥
नारद उवाच–
प्रह्लादोऽपि तथा चक्रे पितुर्यत् साम्परायिकम् ।
यथाऽऽह भगवान् राजन्नभिषिक्तो द्विजोत्तमैः ।
प्रह्लादस्तु तथाऽकार्षीद् राज्यं निहतकण्टकम् ॥ २५ ॥
पदरत्नावली
भगवदाज्ञानुल्लङ्घनेन भगवत्प्रीतिः स्यादिति कृत्वा तदाज्ञाकरणप्रकारणमाह– नारद इति ॥ साम्परायिकं पारलौकिकम् ॥ २५ ॥
सत्यधर्मीया
नृहर्याज्ञोत्तरमुत्तरक्रियां कृत्वा किं प्रव्रजनमुत वनव्रजनं ततान किं वा पित्र्यमित्युक्तं राज्यादिकमकरोदिति धर्ममनःशङ्काशङ्कुमुद्धरति नारद इत्याह ॥ नारद इति । यथा भगवानाह तथा पितुर्यत्साम्परायिकं पारलौकिकं तच्चक्रे । द्विजोत्तमैर्ब्रह्मवादिभिरभिषिक्तः सन् निहताः कण्टकाः क्षुद्र-शत्रवो यस्य तत्तथा । निहतकण्टकं यथा भवति तथा राज्यमकार्षीदित्यन्वयः । कण्टकः क्षुद्रशत्रौ चेति विश्वः । तथा भगवदाज्ञामनुसृत्य ॥ २५ ॥
मन्दनन्दिनी
भगवदुक्तप्रकारेण प्रह्लादोऽकार्षीदित्याह ॥ नारदः सार्धश्लोकद्वयेन । साम्परायिक-मौर्ध्वदैहिकम् ॥ २५ ॥
प्रह्लादसुमुखं१ दृष्ट्वा ब्रह्मा नरहरिं हरिम् ।
स्तुत्वा वाग्भिः पवित्राभिः प्राह देवादिभिर्वृतः ॥ २६ ॥
पदरत्नावली
तत्रागतेषु देवेष्वेकतमेनापि सल्लापो हरेरभून्न वा ? आद्ये, केन ? द्वितीये, दैत्येभ्य एषां को विशेषः ? किञ्च सेव्यसेवकादिभावाभावेन ब्रह्मविद्याधिकारोऽप्युत्पादितः स्यादित्या-शङ्कां परिहरति– प्रसादेति ॥ देवादिभिर्वृत इत्यनेन तैरपि स्वच्छन्दवचनं२ कृतमिति ज्ञातव्यम् ॥२६॥
सत्यधर्मीया
दवीयःपदवीमास्थिषन्त ये निमिषास्ते किं तथैव यथागतं तथागताः किं नृहरिमच्छगत्याच्छोद्य गता वेति शङ्कायां द्वितीयमूरीकृत्य पक्षं समाधत्ते ॥ प्रल्हादेति । प्रल्हादसुमुखं तत्स्तुत्यादिना तस्मिन्सौमुख्यं प्राप्तम् । स्वं प्रति तु प्रकृष्टाल्हादेनेतरविशेषतः सुमुखं सदेत्यान्तरङ्गिको भावोऽप्यतीततात्पर्यपर्यालोचनया ज्ञेयः । इदं तु लोकमवलोक्येति मन्तव्यम् । क्वचित् प्रसादसुमुखमिति पाठः स्फुटार्थः सम्भवश्चेति ज्ञेयम् । पवित्राभिर्वाग्भिः स्तुत्वा । स्तुत्वा पवित्राभिः स्तोत्रं कृत्वा प्राप्त-पावित्र्याभिर्वाग्भिरिति वाऽन्वयः । देवादिभिर्वृतः स्तुत्वा देवादिभिर्वृतः प्राहेत्यन्वयः । तन्मुख्यत्वा-दित्थमुक्तिः ॥ २६ ॥
मन्दनन्दिनी
प्रह्लादेन प्रसाद्य स्वयं स्तौति ब्रह्मेत्याह ॥ प्रसादेति ॥ २६ ॥
ब्रह्मोवाच–
देवदेवाखिलाध्यक्ष भूतभावन पूर्वज ।
दिष्ट्या ते निहतः पापो लोकसन्तापनोऽसुरः ॥ २७ ॥
पदरत्नावली
दिष्ट्या सुखमभूत् ॥ २७ ॥
सत्यधर्मीया
भूतभावनपूर्वज जगदुत्पादकेभ्यो भूतभावनेभ्यः पूर्वजः प्राक् व्यक्त इति स तथा । भूतभावन जगदुत्पादक । पूर्वज आदिभूतेति वा । ते त्वया । दिष्ट्या सुखेन लोकसन्तापनो लोकं सन्तापयतीति स तथा निहतः ॥ २७ ॥
मन्दनन्दिनी
ब्रह्मा स्तौति श्लोकचतुष्टयेन ॥ देवदेवेति ॥ पूर्वज । धातोरनेकार्थत्वात्पूर्वस्थित । पूर्वमभिव्यक्तेति वा । दिष्ट्या दैवेन ॥ २७ ॥
योऽसौ लब्धवरो मत्तो न वध्यो मम सृष्टिभिः ।
तपोयोगबलोन्नद्धः समस्तनिगमानहन् ॥ २८ ॥
पदरत्नावली
मम सकाशात् । सृष्टं सर्जनम् एषामस्ति ते सृष्टिनस् तैः, मया सृष्टैरित्यर्थः ॥२८॥
सत्यधर्मीया
यो मत्तः । लब्धवरः । ममसृष्टिभिर्मम सृष्टिर्निर्माणं येषां ते तथेत्येकपद्ये षष्ट्याऽलुगार्ष इति केचित् । सृष्टं सृष्टिः । क्तो भावे तदेषामस्तीति सृष्टिनो वा । तैर्जनैर्न वध्यः । तपोयोगबलोन्नद्धस्तपश्चान्द्रायणादिकं योगः प्राणधारणादिकं शारीरं बलं च तैरुन्नद्धो दृप्तः । समुन्नद्धः समुद्धूतेमानिदृप्तयोरिति विश्वः । समस्तनिगमान्वेदानहन् । तद्धननं च तदुक्तमार्गप्रतिबन्धकत्वेन ज्ञेयम् । ‘‘निगमः कटे वेद’’ इति विश्वः । समस्तनिगमान् सत्यलोकरूपमूलनगरेतराणि नगराण्यमरावत्यादीनि वा । ‘‘निगमोऽन्यत्तु यन्मूलनगरात्पुरम्’’ इत्यमरः । हननं चापहारः ॥ २८ ॥
मन्दनन्दिनी
सृष्टिभिः । कर्मणि क्तिन् । भावे क्तान्तादिनिर्वा । मत्सृष्टैरिति यावत् । निगमान्वेदान् । अहन् अध्वंसयत् । वैदिकयज्ञादिलोपकर्तेति यावत् ॥ २८ ॥
दिष्ट्याऽस्य तनयः साधुर्महाभागवतोऽर्भकः ।
त्वया विमोचितो मृत्योर्दिष्ट्या त्रातस्त्वयाऽधुना ॥ २९ ॥
पदरत्नावली
दिष्ट्या सज्जनसुखहेतुतः । अधुना तस्मै दिष्ट्या सुखलक्षणो वरः, दत्त इति शेषः ॥ २९ ॥
सत्यधर्मीया
योतनयो गतनीतिः । अतः मृत्योः साधुर्महाभागवतो दिष्ट्यासीति पर्वताद्यधः-पातनादितत्साधनात् । दिष्ट्या त्वया विमोचितः । प्रागधुना त्वया त्रातश्चेति वा । अस्य त्वया हतस्य हिरण्यकस्य । तनयोऽर्भको बालस्त्वयैव विमोचितः । विशिष्टा मा ज्ञानं तस्या उचितः । ज्ञानसाधन-शास्त्रोपदेशयोग्यः । हे त्रातस्त्वया विमोचित इति वा । अनेनैव प्राणत्राणप्राप्तिरिति न तदनुक्तिदोषः। अतनयो नीतिततोऽसीति वा । स योऽतोऽश्रुत इत्यादेः । दिष्ट्या त्वां समितोऽधुनेति चानधुनातनः पाठः समितः सम्यक् प्राप्त इति तत्रार्थः ॥ २९ ॥
मन्दनन्दिनी
दिष्ट्या दिष्टशब्दो दिष्टापर्यायः । दैवेनेति यावत् ॥ २९ ॥
एतद् वपुस्ते भगवन् ध्यायतः प्रयतात्मनः ।
सर्वतो गोप्तृ सन्त्रासान्मृत्योरपि जिघांसतः ॥ ३० ॥
पदरत्नावली
अनेन वपुषा न केवलं दैत्यहननमेव प्रयोजनम् । किञ्चान्यच्चास्तीत्याह– एतदिति
॥ ३० ॥
सत्यधर्मीया
अयमवतारोऽमुमवता रमेश धृतस्त्वयैतदनवरतस्मरणत उत्तारणं सृतेर्भविष्यति । सतां मनसा त्वयि निवसतामिति विज्ञापयति ॥ एतदिति । प्रयतात्मनः सर्वतः खण्डाखण्डप्रकारेण ध्यायतोऽधिकारिणः । जिघांसतो हन्तुमिच्छतो मृत्योर्यमस्य । अपिनेतरदुरापपरिहारतां तस्योपपाद-यति ॥ सन्त्रसादिति । भयं प्रापय्य गोप्तृ रक्षकम् । सन्त्रासादिति वा मृत्योरिति वाऽलमिति न सन्त्रास इति ध्येयम् ॥ ३० ॥
मन्दनन्दिनी
न केवलमेतद्वपुषो भूतमेव प्रयोजनं किन्तु भविष्यच्चास्तीत्याह ॥ एतदिति ॥ हे भगवन् परमात्मनस्ते एतद्वपुर् ध्यायतो भक्तस्य सर्वतः संत्रासाद्गोप्तृ । जिघांसतोर्मृत्योरपि गोप्तृ इति योजना ॥ ३० ॥
श्रीभगवानुवाच–
मैवंविधोऽसुराणां ते प्रदेयः पद्मसम्भव ।
वरः क्रूरनिसर्गाणामहीनाममृतं यथा ॥ ३१ ॥
तात्पर्यम्
‘यथा हिरण्यकस्यादादन्तःस्थितहरीरितः । तथा नादात्तदन्यस्य ब्रह्मा दैत्यस्य कस्यचित्’ इति च ॥ ३१ ॥
पदरत्नावली
एवं स्तुतो भगवान् कमनुग्रहमकार्षीत् तेषामिति तत्राह– श्रीभगवानिति ॥ निसर्गतः क्रूराणाम् । अमृतं पयः । ‘देवान्ने सलिले क्षीरे त्वमृतं ना विमुक्तिगे’ इति । अत्र हिरण्य-कशिपुमन्तरेणान्येषां न दातव्य इत्याज्ञा क्रियते । न त्वस्य हि । ‘यथा हिरण्यकस्यादादन्तः-स्थितहरीरितः’ इत्यादिना स्वप्रेरितत्वावगमादिति ॥ ३१ ॥
सत्यधर्मीया
मैवंविधोऽसुराणां त इति श्लोके चतुराननस्य वरवितरणमचतुरताकरमिति पुरत एवं न कुर्विति सर्वथा तत्प्रतिषेधस्तं प्रति क्रियत इदानीं दानवारिणेति प्रतीतिवारणाय प्रमाणेन श्रीनृहरिभावमाविष्करोति ॥ यथेति । यथाऽन्तः स्वान्तःस्थितो यो हरिस्तेनेरितः प्रेरित इत्यन्तःस्थित-हरीरितः । ब्रह्मा । हिरण्यकस्यैतदाख्यस्य । अदाद्वरमिति शेषः । तथा पृष्टप्रतिवचनमदादिति वा । तथा स्यान्निश्चये पृष्टप्रतिवाक्य इति विश्वः । भगवदिष्टानुसारि प्रवृत्तिमच्छिन्नभक्तं लोकमनुकुर्वता शासनमकारि पद्मासनं प्रति न तु सर्वथा सामान्यवरप्रतिषेध इति । तथा तदन्यस्य हिरण्यकेतरस्य कस्यचिद्दैत्यस्य सुरानाविष्टस्य । अत एव निसर्गपदमेतत्सहकारीति ज्ञेयम् । नादात् । हरिणा हिरण्यकस्येवेतरस्मै न सर्वथेत उत्तरं वितर वरमिति तत्तात्पर्यं मन्तव्यम् ॥ अथ मूलार्थः ॥ एवंविधस्तुतिं कुर्वन्तं चतुर्वक्त्रं किमन्वशासीच्छ्रीश इत्यतः शंसति ॥ मैवमिति । ते त्वया । क्रूरनिसर्गाणामिति दृष्टान्तदार्ष्टान्तिकोभयान्वयि । क्रूरस्वभावानां स्वत एवेत्थम्भूतानामसुराणां हिरण्यकादितरेषाम् । हे पद्मसम्भव । एवंविध एतादृश वरो न प्रदेयः । एतादृशवरयोग्योऽयमेव नापर इति भावः । क्रूरनिसर्गाणां सर्पाणाममृतं क्षीरं यथा न प्रदेयम् । विषपोषणकारणत्वात् । तथा बहुजनव्यथाहेतुत्वान्न प्रदेयो वर इति भावः । ‘‘देवान्ने सलिले क्षीरे त्वमृतं नाविमुक्तिगम्’’ इत्यभिधानादहीनां हि पयो यथेति सुपाठे यदमृतमित्युक्तं तेनामृतं पीयूषं मोक्षश्च न प्रदेयं न प्रदेयस्तथा मैवंविधो वरो देय इत्यप्यर्थं ध्वनयामासेति मन्तव्यम् । इमं वरमपि न मत्प्रेरणां विहाय दत्तवान्भवान्विध इत्यभ्यधत्त इत्यप्याह ॥ प्रद इति । यतस्ते तवान्तस्थे प्रकर्षेण स्वातन्त्र्येण ददातीति प्रदस्तस्मिन्मयि सति यो वरो दत्त इति शेषः । मैवंविधः प्रदेय इत्यावृत्त्याऽन्वयः । एवं चेत्तात्पर्यमूलभूमिकालाभो भवतीति विमत्सरैर्विभावनीयम् । अहीनाम् । बहुवचनमाद्यर्थे । फणां च सप्तानामित्यादिवत् । वृत्रादीनामसुराणामिति सामानाधिकरण्यम् । अहिर्वृत्रासुरे सर्प इति विश्वः । अहीनां संशयविपरीतज्ञानात्मनामप्रसिद्धानाम् । असुराणामिति वा । यथोक्तमृग्भाष्यटीकयोः । अहन्नहिमिति विवरणलवेऽहिं दैत्यं संशयं वा । हीति निश्चयवाची स्यादिति वचनान्निश्चयविरोधिनं संशयमिति ॥ ३१ ॥
मन्दनन्दिनी
नृसिंहः पद्मसम्भवं शिक्षते ॥ मैवंविध इति ॥ ते त्वया क्रूरनिसर्गाणां क्रूरस्वभावानाम् । अत्र मैवंविधो देय इत्यनेन हिरण्यकशिपोरेवं विधो वरो भगवदनभिमत एव दत्तः । एतदाज्ञामुल्लङ्घ्यैव रावणादिभ्यो पुनर्दास्यत इति न मन्तव्यम् । हिरण्यकशिपुवरदानेन्ऽतःस्थितहरिणा तथैव प्रेरितत्वात् । एवंविध इति विशेषणेन दास्यमानवरस्यैवंविधत्वाभावेनाज्ञाया अप्यनुल्लङ्घनात् । एतदेवाभिप्रेत्य तात्पर्यम् ॥ यथा हिरण्यकस्यादादन्तःस्थितहरीरितः । तथा नादात्तदन्यस्य ब्रह्मा दैत्यस्य कस्यचिदिति च ॥ ३१ ॥
नारद उवाच–
इत्युक्त्वा भगवान् राजन् ततश्चान्तर्दधे हरिः ।
अदृश्यः सर्वभूतानां पूजितः परमेष्ठिना ॥ ३२ ॥
पदरत्नावली
मद्भृत्यानामपि योग्यप्रत्यक्षत्वे हरेरुपर्युपरि व्यवहारेण ‘ध्यायन्ति देवमनुष्याः’ इति श्रुतेर् देवस्वभावो यः स विहतः स्यादिति मत्वा तद्रक्षणार्थं तद्विग्रहेणादृष्टोऽभूदित्याह– नारद इति ॥ सर्वभूतानामदृश्य इत्यनेन भक्तानुकम्पित्वं प्रदर्शितम् ॥ ३२ ॥
सत्यधर्मीया
ज्ञातवासस्य न ज्ञातवासश्चिरं नृष्विति प्रतिषिद्धत्वादतम् इदमतनुत नरहरि-रितीरयति ॥ इतीति । सर्वभूतानां भूतलालयभूतमात्रस्य । कृत्यानां कर्तरि वेत्युक्तेः । सर्वभूतानामदृश्य इत्युपपन्नम् । तत एतदुक्त्यनन्तरम् । तत्रैव वा । परमेष्ठिना तदादिस्थानविशेषे ॥ ३२ ॥
मन्दनन्दिनी
ब्रह्मनियोगानन्तरं वृत्तमाह ॥ इत्युक्त्वेत्यादिना ॥ सर्वभूतानामदृश्यः सम्यग-दृश्यो भगवान् ब्रह्मणा पूजितः । ततश्च तत्रैवान्तर्दधे ॥ ३२ ॥
ततः सम्पूज्य विधिवद् ववन्दे परमेष्ठिनम् ।
भवं प्रजापतीन् देवान् प्रह्लादो भगवत्कलाः ॥ ३३ ॥
पदरत्नावली
अनन्तरं प्रह्लादेन ब्रह्मादयो देवाः सत्कृता उतात्मनो भगवदनुग्रहपात्रत्वेनाह-म्भावेन धिक्कृताः ? आद्ये वैष्णवाचारः प्रवर्तितः स्यात्, द्वितीये भगवच्छिक्षणं गजस्नानवत् स्यादिति तत्राह– तत इति ॥ भगवतः कला लेशः येषु ते तथा । भगवतो भिन्नांशा वा ॥ ३३ ॥
सत्यधर्मीया
नृसिंहान्तर्हिततानन्तरं प्रल्हादः किमकरोदित्यत आह ॥ तत इति । विधि-वद्यथाविधानं परमेष्ठिनं ब्रह्माणम् । अनेनेशकोशनिवेशेन लक्ष्म्याः पृथक् पूजा नोक्तेति वा पत्यन्तर्धाने तदन्तर्धानाद्वाऽनुक्तिरिति मन्तव्यम् । सम्पूज्य सत्कृत्य ववन्दे विधिवद्ब्रह्माणमिव भवं विधिवद्ववन्द इति वा । वन्दनमात्रे निदर्शनं न तु समञ्चनसमतायाम् । यथा देवे तथा गुरावित्यादिवदिति ध्येयम् । एवं देवान् प्रजापतीनित्यपि ज्ञेयम् । कुतस्तन्नमनमित्यतो हेतुमाह ॥ भगवत्कला इति । भगवतः कला भिन्नमंशमात्रकं येषु ते तथेति तान्ववन्द इति वा । भगवत्कला द्वितीयाबहुवचनं सत्परमेष्ठ्यादि-विशेषणम् । कला शिल्पादावंशमात्रक इति विश्वः ॥ ३३ ॥
मन्दनन्दिनी
ततो भगवदन्तर्धानानन्तरं प्रह्लादो भगवत्कला भगवतः प्रतिबिम्बभूतान् विधिवत्परमेष्ठिनं भवं प्रजापतीन् देवांश्च सम्पूज्य ववन्द इति योजना ॥ ३३ ॥
ततः काव्यादिभिः सार्धं मुनिभिः कमलासनः ।
दैत्यानां दानवानां च प्रह्लादमकरोत् पतिम् ॥ ३४ ॥
पदरत्नावली
भगवच्चित्तज्ञेन ब्रह्मणा चेदमन्वग्राहीत्याह– तत इति ॥ अनेन भक्तेन भगव-द्भक्तेषु यथायोग्यं प्रेम कर्तव्यमिति शास्त्राचारो दर्शितः ॥ ३४ ॥
सत्यधर्मीया
यद्यपि पित्र्यं स्थानमातिष्ठ तथाऽपि मन्वन्तरमेतदत्र दैत्येश्वराणामनुभुङ्क्ष्व भोगान् । अभिषिक्तो द्विजोत्तमैरकार्षीद्राज्यं निहतकण्टकमित्याद्युक्त्या ब्रह्मणा न कर्तव्योंऽशः प्रतीयते । तथाऽपि भगवत्पुरतः स्वेन नाज्ञाप्यो यथाविधिनाभिषेच्यश्चेति विधिना तूष्णीं स्थितमधुना स्वस्य कर्तव्यं युवराजत्वात्तथा पूर्वं केवलं ब्रह्मादिभिरेवाभिषिक्त इदानीं तु पुरोहितं पुरतो निधायेति वा विशेषादिय-मुक्तिर्युक्तिमतीति व्यधत्त विधिरित्यभिधत्ते ॥ तत इति । काव्यादिभिः । शुक्रो दैत्यगुरुः काव्य उशने-त्यमरः । काव्यः शुक्र आदिर्येषां ते तथा तैः । मुनिभिः सार्धं सह । कमलासनो विधिः । दैत्यानां दित्यपत्यानां दानवानां दनुतनुजानां प्रल्हादं पतिं स्वामिनमकरोत् ॥ ३४ ॥
मन्दनन्दिनी
ततः प्रह्लादवन्दनानन्तरं काव्यादिभिः शुक्राचार्यप्रभृतिभिर्मुनिभिः ॥ ३४ ॥
प्रतिनन्द्य ततो देवाः प्रयुज्य परमाशिषः ।
स्वधामानि ययू राजन् ब्रह्माद्याः प्रतिपूजिताः ॥ ३५ ॥
पदरत्नावली
प्रह्लादवरदानानन्तरं भगवता स्वाचारत्वेन यददर्शनमकारि तदस्माभिरप्यनुष्ठेय-मिति कृत्वा ब्रह्माद्या अपि स्वगृहान् ययुरित्याह– प्रतिनन्द्येति ॥ ३५ ॥
सत्यधर्मीया
सम्पादितागतिप्रयोजनैः प्रायो जनैर्नैव स्थेयमिति समा निमेषा जग्मुः स्वस्वसद्मा-नीति शंसति ॥ तत इति । तत अभिषेकानन्तरम् । देवाः प्रतिनन्द्यानुमोद्य । परमाशिषः प्रयुज्य ब्रह्माद्याः प्रतिपूजिताः प्रल्हादसत्कृताः स्वधामानि ययुः । ययू राजन्नित्यत्र रोरीति रेफलोपे ढ्रलोप इति दीर्घः ॥ ३५ ॥
मन्दनन्दिनी
प्रतिनंद्य सन्तोष्य ॥ ३५ ॥
एवं तौ पार्षदौ विष्णोः पुत्रत्वं प्रापितौ दितेः ।
हृदि स्थितेन हरिणा वैरभावेन तौ हतौ ॥ ३६ ॥
पदरत्नावली
इदानीं विशकलितोक्तमर्थं निक्षिप्योपसंहरति– एवमिति ॥ हृदि स्थितेन वैरभावेन हेतुना हरिणा हतौ ॥ ३६ ॥
सत्यधर्मीया
विष्णोस्तौ पार्षदौ जयविजयात्मानौ दितेः पुत्रत्वं प्रापितौ । हृदि स्थितेन वैरभावेन वैरमनसा निमित्तेन । हृदि स्थितेनेति हरिणेत्यनेनाप्यन्वेति । पूर्वशापेनेत्यत्रापि कटाक्षणीयम् । वैरभावेन वैरोपसर्जनभक्त्या तौ दानवसहवासहापनेनोत्तरत्र प्राप्यानन्दविषये हतौ । आनन्दं तीति वै वदेदिति तात्पर्यान्तरात् । वैरभावे वैरनिमित्ते वैरत्व इति वा वैरमनसि सति । अनतौ अनम्रौ दुर्वृत्ताविति यावदिति वा । तावेवं हतावित्यप्यन्वयो वा ॥ ३६ ॥
मन्दनन्दिनी
शापप्राप्तं दैत्यभावं तन्निधनं चोपसंहरति । वैरानुभावेन वैरानुचिन्तया हृदि स्थितेन हरिणा तौ हताविति योजना ॥ ३६ ॥
पुनस्तौ पूर्वशापेन राक्षसौ तौ बभूवतुः ।
कुम्भकर्णदशग्रीवौ हतौ तौ रामविक्रमैः ॥ ३७ ॥
शयानौ युधि निर्भिन्नहृदयौ रामसायकैः ।
तच्चित्तौ जहतुर्देहं यथा प्राक्तनजन्मनि ॥ ३८ ॥
पदरत्नावली
प्राक्तनजन्मनि जयविजयशब्दवाच्ये पूर्वजन्मनि यथा तच्चित्तौ तथाऽत्रापीति शेषः । हिरण्यकशिपुहिरण्याक्षाख्ये पूर्वजन्मनि यथा तथेति वा ॥ ३७–३८ ॥
सत्यधर्मीया
दशग्रीवकुम्भकर्णाविति वर्णनीये हतावित्येतत्पूर्वमव्यवधानेन मुख्योद्देशत्वं तस्या-पीति बोधनार्थं कुम्भकर्णदशग्रीवावित्युक्तिरिति चमत्कृतिः कवयितुर्विभाव्या । हननक्रममपेक्ष्यैवमुक्तिरिति वा । युधि हतौ । तत्प्रकारमाह ॥ रामविक्रमैरित्यादिना । रामविक्रमैर्मुख्यकरणैः रामसायकैरवान्तर-करणैः शरैर्विभिन्नहृदयौ शयानौ सन्तौ । यथा प्राक्तनं जन्म जयविजयजन्म तस्मिन् । हिरण्याक्ष-हिरण्यकशिपुजन्मनीति वा । तथा तच्चित्तौ भगवच्चेतसौ देहं जहतुस्तत्यजतुः । तुरत्वरणे तुतोर्ति इगुपधलक्षणः क इति भानुदीक्षितः । लिङ्गाभट्टीयेतु तुरं वेगं सहत इति व्याख्यातम् । प्रथमपक्षे तुरो हि शीघ्रगन्ता गरुडादिस्तत्सम्बन्धी तौरोऽमो गमनं ततोऽपि विक्रमं शक्तिर्येषां तैरिति रामसायक-विशेषणम् । द्वितीये तुरेणामन्ति गच्छन्ति ते तुरामास्तेषां सम्बन्धी तौरामः । स विक्रमः शक्तिसम्पद्येषां तैरिति वा । ‘‘विक्रमः क्रान्तिमात्रे स्याद्विक्रमः शक्तिसम्पदी’’ति विश्वः । तुराषाट्प्रभुरिति भक्तिपाद-भाष्यतत्त्वप्रकाशिकायां तुरेति वैरवेगेति व्याख्यातम् । तुरं वैरिवेगममयति गमयतीति तुरामः । स एव तौरामः । प्रज्ञाद्यण् । स विक्रम एषाम् । तुरं भगस्येति वायौ वा तुरशब्दः । तुरसम्बन्धी तौरोऽमो गतिस्तद्वद्विक्रमो येषां तैः रामसायकैरिति वा । अनेन कृतं रामेत्येकेनेति शङ्काविरामो ज्ञेयः । रामसायकैः रामनामचिन्हितैः सायकैरिति वा । सायकैर्हतौ हे रामेति तच्चित्तौ देहं जहतुरिति वा ॥३८॥
मन्दनन्दिनी
एवं प्रथमजन्मनिधने उक्त्वा द्वितीयजन्मनिधने आह ॥ पुनरिति ॥ प्राक्त-नजन्मनि राक्षसभावेन नृसिंहं सञ्चिन्त्य यथा देहं जहतुरेवं राजेति भावेन राममनस्कौ देहं जहतुः ॥३८॥
तावेवाद्य पुनर्जातौ शिशुपालकरूशजौ ।
हरौ वैरानुबन्धेन पश्यतस्ते समीयतुः ॥ ३९ ॥
पदरत्नावली
वैरानुबन्धेन वैरोपसर्जनेन अनुबन्धेन स्नेहेन समीयतुर् हरिमिति शेषः । तत्रासुरौ तम ईयतुरित्यनुसन्धेयम् । सम्यग् भक्त्यैव श्रीहरिप्राप्तिः, तदभावेन तम एवेति द्योतनाय समित्युपसर्गः । ‘मधुकैटभौ भक्त्यभावाद्धरौ भगवतो मृतौ । तम एव क्रमादाप्तौ भक्त्या चैद्यो हरिं ययौ ॥’ इति वचनात्
॥ ३९ ॥
सत्यधर्मीया
तावेव रावणकुम्भकर्णावेव । अद्य शिशुपालकरूशजौ शिशुपालश्च करूशजो दन्तवक्त्रश्चेति द्वौ पुनः जातौ । यथाकथञ्चिद्भ्रातृत्वं न तु सहोदरत्वम् । विदूरथः साक्षात्सहोदर इति ज्ञेयम् । यथोक्तं दशमे । ‘‘रुक्मी च शिशुपालश्च भ्रातरौ मे हतौ पुरा । निहतं भ्रातरं दृष्ट्वा दन्तवक्त्रं विदूरथ’’ इति । शापस्तदा दानवावेशवशतया जनन एव न तु सहोदरत्वे । किञ्च भगवदाज्ञाऽपि मयैव वध्यौ भवतं त्रिजन्मस्विति तद्विषय एवेति मन्तव्यम् । हरौ वैरानुबन्धेन वैरोपसर्जनभक्त्या । ते पश्यतः सतः । ते ज्योतिषी समीययुः प्रापतुः । अन्तर्निविष्टे इति यावत् । राजसूयेऽसूयया धिक्कुर्वतो माधवो वधं व्यधात्तदाऽपि धर्मोऽवर्तत । एवं दन्तवक्त्रवधकालेऽप्यवर्ततेति ते पश्यत इत्युक्तिः । यथोक्तं दशमे । ‘‘पाण्डवाश्च महीपाला यज्ञदर्शनमिच्छवः । आहूता वासुदेवेन द्वारकामाययुर्नृप । उद्वापनस्नान-हेतोर्यमुनातीरमागतम् । श्रुत्वा तूर्णं कलिङ्गेशो दन्तवक्त्र सहानुज’’ इत्यारभ्य ‘‘ततः सूक्ष्मतरं ज्योतिः कृष्णमाविशदद्भुतम् । पश्यतां सर्वभूतानां यथा चैद्यस्य सङ्गर’’ इत्यन्तेनेति सम्भवति । सं सारत्वात्सो भगवांस्तमीयतुरिति वा । ‘‘नित्यं हीनोऽखिलैर्दोषैस्साररूपो यतो हरिः । हंस इत्युच्यत’’ इति काठकभाष्योक्तेः । असम् असारं तमश्च तदाविष्टावसुरावपीयतुरित्यर्थो वा । अत एव न हरिमिति वा तमिति वा तम इति वा शेषशेषक्लेश इति मन्तव्यम् । वैरं चानुबन्धश्च षां शाश्वतिको विरोध इत्येकवद्भावः । वैरेणासं तमः । अनुबन्धेन भक्त्या च सं सारमीयतुरिति क्रामिकोऽन्वयो वा । अनुबन्धस्तु भक्तिः स्यादित्यादेः ॥ ३९ ॥
मन्दनन्दिनी
पुनर्जातौ राजरूपेण जातौ शिशुपालकरूशजौ हरिविषयकवैरयुक्तभक्त्या भगवानिति ज्ञात्वा तौ पश्यतो हरिं समीयतुः ॥ ३९ ॥
एनः पूर्वकृतं यत् तद् राजानः कृष्णवैरिणः ।
जहुस्तेऽन्ते तदात्मानः कीटाः पेशस्कृतो यथा ॥ ४० ॥
तात्पर्यम्
‘पौण्ड्रके नरके चैव साल्वे कंसे च रुग्मिणि । आविष्टास्तु हरेर्भक्ता-स्तद्भक्त्या हरिमीयिरे । असुरास्तु स्वयं ते तु महातमसि पातिता’ इति च । तदात्मान-स्तत्राविष्टास्तद्भक्ताः । वैरोपसर्जनेनानुबन्धेनेत्यन्वयः ॥ ४० ॥
पदरत्नावली
अन्येषामपि सद्भावादेतदुपलक्षणार्थमुक्तमित्यभिप्रेत्याह– एन इति ॥ अत्रापि वैरानुबन्धेनेत्येतदनुवर्तते । ये राजानः पौण्ड्रकादिशब्दवाच्यास् तेषु असुरदेहेषु आत्मा रूपविशेषो येषां ते तथा तत्रापि, तस्मिन् कृष्णे आत्मा चित्तं येषां ते तथा । तदनुष्ठितपुण्यफलस्वीकारार्थं तत्राविष्ठा-स्तद्भक्ता इत्यर्थः । ते भक्त्यैव यत् पूर्वकृतं तत्सम्बन्धात् प्राप्तम् एनः पापं तज् जहुः । तद् हित्वा हर्याज्ञा-करणप्राप्तपुण्यप्रचयेन तं हरिमीयुः । त एव कृष्णवैरिणो ऽनादिकालमारभ्य भगवद्द्वेषिणः, कृष्णाश्च तामसाश्च वैरिणः वैररूपिणः, राजानः राजसास् तमःप्रकृतयो दैत्यास् तदात्मानो द्वेषरूपिणः । ते जन्मप्रभृति चीर्णं यदेनस् तेन पापेन, वैरानुबन्धेन निरन्तरवैरिचिन्तया पूर्वकृतं ब्रह्मणा पूर्वं क्लृप्तं तमो जहुर् जग्मुरित्यन्वयः । ‘ओ हाङ् गतौ’ इति धातुः । ‘इति सखेकहास्तं न्यस्य समुकुलं सुरं प्रवेके-हास्ते’ इति प्रयोगश्च । अन्ते भक्त्यादिसाधनसामग््रयनन्तरम् । इतरत्र द्वेषपूर्त्यनन्तरम् । ‘तस्य तावदेव चिरम्’ इति श्रुतेः । ‘अनेवंविन्महत्पुण्यं कर्म करोति तद्धास्यन्ततः क्षीयते’ इत्यादेश्च । कीटाः पेशस्कृतश्चिन्तनया पेशस्कृदाकारमाप्नुवन्ति । न तु तदात्मत्वम् । अत्र प्रमाणम्– पौण्ड्रके नरके चैव साल्वे कंसे च रुक्मिणि । आविष्टास्ते हरेर्भक्तास्तद्भक्त्या हरिमीयिरे ॥ ‘असुरास्तु स्वयं ते तु महा-तमसि पातिताः’ इति वाक्यम् ॥ ४० ॥
सत्यधर्मीया
एनः पूर्वकृतमिति श्लोके हरिवैरिणामपि दूरितदुरिततोच्यत इति भाति । नेदं सम्भवति । तथात्वे तदात्व एव शिशुपालादिवदन्तर्ज्यातीरूपेण प्रवेशो वाऽनन्तरं विमुक्तिर्वा स्यान्न तु तमःप्राप्तिरित्यतो मानेनाभिमतमर्थमाह ॥ पौण्ड्रके चेति । तदाविष्टा विष्णुभक्तास्तु त एव तद्भक्त्या हरिमीयिरे । आपिर इत्यपि सरलः पाठः । असुराः पौण्ड्रकादिनामकाः । स्वयमित्येतदमरसम्पर्क-हीनतामभिप्रैति । महत्त्वं चानुत्थित्या मन्तव्यम् । तदात्मान इत्यस्य साक्षात्कृष्णरूपताप्रतीतिं वारय-न्व्याकरोति । तदात्मान इति । तदिति तन्त्रम् । तत्र पौण्ड्रकादिषु । आत्मा देहो व्याप्तिर्वा येषां ते । तत्र भगवति चात्मा मनो येषां त इति भावमावेदयितुं तत्राविष्टास्तद्भक्ता इत्युक्तिः । वैरानुबन्धेनेत्यतीत-पद्यस्थस्यात्राप्यन्वेतव्यतामेकप्रकरणतया प्रदर्शयितुमिदानीं तद्व्याख्याति ॥ वैरेति । उत्तरपदलोपी च समास इति सूचयत्युपसर्जनपदनिबन्धेन । वैरमुपसर्जनम् । स्वमहाफलाभोजकत्वेनाप्रधानं यस्मिन्ननुबन्धे भक्तौ स वैरानुबन्धस्तेन ॥
ततश्चायं मूलार्थः ॥ न द्वावेव किन्तु तावित्युक्तिरुपलक्षणाभिप्रायेणेति तान्दर्शयति ॥ एन इति । मानानुयानं राजपदार्थो ज्ञेयः । राजानः पौण्ड्रकादयस्तदात्मानः स आत्मा स्वरूपं स्वषामिति मतिमन्तः । तस्मिन्भगवत्यात्मा मनो येषां ते तदात्मानः । असन्तः सन्तश्च कृष्णवैरिणो यदनुजस्य सम्बन्धादाप्तं यदेनस्तज्जहुस्त्यक्तवन्तः । पूर्वेण स्वकर्मादिना कृतं प्राप्यत्वेन क्लृप्तं पूर्वेणाघेन विधिना कृतं विहितं यत्तद्वैरानुबन्धेन वैरोपसर्जनभजनेन जहुर्गतवन्तः । ओहाङ्गताविति स्मरणात् । तदितरेऽसन्तश्च । एनःपूर्वकृतमिति पदमेकम् । एनसः स्वकृतपातकस्य पूर्वमेव कृतं फलं यत्तत्तमो वैरानुबन्धेन वैरसम्बन्धेन जहुरगच्छन् । उभयत्राप्यन्ते मृत्यनन्तरमित्यर्थः । भक्तिद्वेषादिसाधनपूर्त्यनन्तरमिति वा । ‘‘कृतं युगे च पर्याप्ते विहिते हसिते फल’’ इति विश्वः । कृष्णवैरिणः काकरिपो रामस्य यत्पूर्वकृतमनादिपदं तत् । तदात्मानस्तन्मनस्काः सन्तः सन्तो जहुरिति वा । ये तु तदात्मानस्तत्राविष्टा असन्तश्च कृष्णवैरिणो रामादीञ्जहुर्नरामिणः । तेऽन्ते पूर्वकृतमित्यादि पूर्ववदिति वा । ‘‘कृष्णो व्यासेऽर्जुने काके चे’’ति विश्वः । तदात्मान इत्यस्य नाभेदोऽर्थ इति बोधयितुं ग्रन्थकृत्तदननुरूपमनुरूपमुक्तार्थस्य दृष्टान्तमाचष्टे ॥ कीटा इति । वस्तुतस्तु कीटः पेशस्कृतो यथेति दृष्टान्तदृष्ट्योत्तरत्र हरेः साम्यमिति दृष्ट्या च न व्यतारीद्विवरं पराक्रमस्येति नाचार्यैः पराक्रमणीयमिति चेत् । सत्यम् । प्रतीताभेदखण्डनपक्षे न निर्भरो भगवत्पादस्य किन्तु तदात्मान इत्यत्र विग्रहद्वयप्रदर्शनमुखेनाप्रतीतसदधिकारिफलं विविच्य वचने निर्भर इति तदनूद्य प्रमाणमुदाहरति ॥ कीटा इति ॥ पेशस्कृतो धर्तुः कीटविशेषस्य संरम्भभययोगेनेति पूर्वोक्तेनाथवात्रोक्तेन वैरानुबन्धेन वैरसहितोऽनुबन्धस्तेन किं करिष्यति मामिति वैरं, दास्यत्यन्नमिति स्नेहस्तेन । कीटा जात्यन्तरजन्मानो यथा तदात्मानस्तथैत इति योजना । तदात्मान इत्यस्य तत्सरूपा न तत्स्वरूपा इत्यर्थः । उभयोरपि दर्शनात् ॥ ४० ॥
मन्दनन्दिनी
शिशुपालकरूशजावित्युपलक्षणम् । अन्येऽपि वैरिणो बहुराजानः कृष्णेन हताः कृष्णमीयुरित्याह ॥ एन इति ॥ ये ये कृष्णवैरिणो राजानः पौण्ड्रकनरकादयस्ते ते यत्पूर्वकृतमेनो दैत्यावेशप्रयुक्तनिन्दनादिजन्यपापं तत्तदात्मानस् तस्मिन् कृष्णे आत्मान आविष्टाः कृष्णे आत्मा मनो येषां ते तथाभूताः । वैरानुबन्धेनेत्यावर्तते । ‘‘अनुबन्धस्तु भक्तिः स्याद्बन्धः स्नेह उदाहृत’’ इति वचनात् । वैरोपसर्जनभक्त्या कीटः पेशस्कृतो वैरानुबन्धेन यथा जहुरिति योजना । अत्र ते कृष्णवैरिणो राजान इत्युक्तेर्वेनादीनामपि भगवत्प्राप्तिः प्रतीयते । तस्या ‘‘वेनस्तमसि पातित’’ इत्यादिना विरोध इति न मन्तव्यम् । दैत्याविष्टपौंड्रकनरकादीनामेव ग्रहणात् । केवलदैत्यानां वेनादीनामग्रहणात् । तेषामनुबन्धपदोक्तभक्तेरभावाच्च । एतदेवाभिप्रेत्य तात्पर्यम् ॥
पौण्ड्रके नरके चैव साल्वे कंसे च रुग्मिणि ।
आविष्टास्तु हरेर्भक्तास्तद्भक्त्या हरिमापिरे ।
असुरास्तु स्वयं ते तु महातमसि पातिताः ॥
इति च ॥ तदात्मानस्तदाविष्टास्तद्भक्ताः । वैरोपसर्जनेनानुबन्धेनेत्यन्वय इति । अत्र पौंड्रकादिपदेन देहो ग्राह्यः । तत्राविष्टाः प्रविष्टा इत्यर्थः । तेषु भक्तेष्वाविष्टस्त्वित्यर्थः । अनुबन्धस्तु भक्तिः-स्यादित्युक्तत्वादनुबन्धेन भक्त्येत्यर्थः ॥ ४० ॥
यथा यथा भगवतो भक्त्या परमया भिदाम् ।
नृपाश्चैद्यादयः साम्यं हरेस्तच्चिन्तया ययुः ॥ ४१ ॥
पदरत्नावली
अत्रापि तारतम्यमस्तीत्याह– यथेति ॥ भिदां विशेषम् । ‘भेदो विशेषे दलने’ इत्यभिधानम् । अभिदाम् असम्प्रज्ञातसमाध्यवस्थां ययुरिति वा । साम्यं निर्दोषत्वादि चतुर्भुजलक्षणम् । अन्यथा कीटाः पेशस्कृतो ध्यानेन केचन पेशस्कृतो भवन्ति । न तु स एव । पृथग् दृश्यमानत्वादित्ययं दृष्टान्तोऽनर्थः स्यादिति ॥ ४१ ॥
सत्यधर्मीया
तत्रापि तरतमभावोऽस्तीत्याह ॥ यथायथेति । यथायथा स्वस्वयोग्यतामवर्जयित्वा परमया भक्त्या भिदां विशेषम् । ‘‘भेदो द्वैधे विशेषे स्यादि’’ति विश्वः । भेदभिदाशब्दयोरनर्थान्तर-त्वात् । ययुः । चैद्यादयो नृपास्तदावेशिनो जयविजयभृग्वादयः । तच्चिन्तया सा च सा चिन्ता च तया हरेः साम्यं चक्रशङ्खचतुर्बाहुत्वादिना सादृश्यं ययुः । भगवतो हरेः परमया भक्त्या यथा यथा भिदां विशेषं ययुस्ते तथा तथा । तच्चिन्तया । भगवत्कर्तृकस्वकर्मकस्मरणेन साम्यं तस्मिन्स्थितिम् । निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिता इत्युक्तेः । शाश्वतिकीं ययुरिति वा । ये नृपाश्चैद्याद्याः । यथा यथा परमया अभक्त्या हरेः सकाशाद्भिदां विदारणं यत्तेन साम्यं समता तच्चिन्तया ययुः । ते अभगवतोऽ-सूर्यसञ्चारानन्धन्तमसभागान्ययुरितीतरपक्षेऽपि भावो बोध्यः ॥ ४१ ॥
मन्दनन्दिनी
द्वेषिणां चैद्यादीनां कथं मुक्तिरिति शङ्कायास्ते भगवतः पार्षदा अनादितो भक्ताः शापादिप्रयुक्तदैत्यावेशतो भगवद्वैरादिकं कृतवन्तः । भगवांश्च दयालुः । वैरादिकमविगणय्य भक्तिमेव हि निमित्तीकृत्य मोचितवानित्युत्तरमुक्तम् । तत्संक्षिप्योपसंहरति ॥ यथेति ॥ यथा यथा योग्यता तथा तथा विद्यमानया परमया भगवतो भक्त्या तत्पूर्विकया तच्चिंतया चैद्यादयो नृपाः । भिदां सुखेऽवांतरविशेष-युक्तम् । ‘‘भेदो विशेषे दलन’’ इत्यभिधानात् । साम्यं हरेर्निर्दुःखत्वादिना चतुर्बाह्वत्वादिना साम्यं ययुरिति योजना ॥ ४१ ॥
आख्यातं सर्वमेतत् ते यन्मां त्वं परिपृष्टवान् ।
दमघोषसुतादीनां हरेः साम्यमपि द्विषाम् ॥ ४२ ॥
पदरत्नावली
ग्रन्थाधिक्यभयादुपसंहरति– आख्यातमिति ॥ अत्र ‘चैद्यादयः’ ‘दमघोष-सुतादीनाम्’ इत्यादिबहुवारोक्तिर्भक्तेरनादिकालसम्बन्धित्वद्योतनार्था । अन्यथा ‘वेनादीनां’ इत्याद्युक्ति-रपि स्यात् ॥ ४२ ॥
सत्यधर्मीया
दमघोषसुतः पाप आरभ्य कलभाषणादित्यादीकृत्य शङ्कितस्योत्तरं वितार्योप-संहरति ॥ आख्यातमिति । यत्परिपृष्टवानित्युक्तं किञ्चिद्विविच्योचे ॥ दमघोषेति । तत्साम्यमपिना निनिन्देति ज्ञेयम् ॥ ४२ ॥
मन्दनन्दिनी
द्विषतामपि साम्यमसम्भावितमिति यत्पृष्टवान् तदनादिभक्तत्वेना सम्भव-निरासेनोपपादितमिति योजना ॥ ४२ ॥
एषा ब्रह्मण्यदेवस्य कृष्णस्य च महात्मनः ।
अवतारकथा पुण्या वधो यत्रादिदैत्ययोः ॥ ४३ ॥
तात्पर्यम्
भगवान्येन गम्यत इत्यनेन भागवतधर्मेणैव भगवान् गम्यते न द्वेषादि-नेत्युपसंह्रियते ॥ वृत्तानुकथनं च तदर्थत्वेनैव ॥ ४३ ॥
पदरत्नावली
श्रद्धाजननाय स्तौति– एषेति ॥ ब्रह्मण्यदेवस्य रामस्य च शब्दान्नरसिंहस्य । यत्र कथायाम् ॥ ४३ ॥
सत्यधर्मीया
नेयतैवोपसंहृतिरपि तु धर्मो भागवतानां च भगवान्येन गम्यत इत्येतदन्ते-नाख्यातमिति प्रमुखेन श्लोकपञ्चकेनेति प्रपञ्चयितुं भावो धर्मो भागवतानां चेति पद्यस्थं भगवान्येन गम्यत इति वाक्यमादावनूद्य विवृणोति ॥ भगवान्येन गम्यत इति । अनेन भागवतधर्मेणैव भगवान्गम्यते । एवकारं स्वयमेव व्याकरोति । नेति ॥ द्वेषादिनेत्यनेनोपसंह्रियत इत्यन्वयः । तर्ह्याख्यातमिति वृत्तकथनं कथमुपपन्नम् । कथनीयस्यार्थस्याधुनाऽपि दृश्यमानत्वादित्यतस्तस्योपसंहारप्रयोजनकत्वमेवेति तदेक-वाक्यत्वमेवेत्याह ॥ वृत्तानुक्तकथनं चेति । पूर्ववृत्तस्यानुकथनं कथयतीति कथनं कथनं येन तदिति वा । एषा ब्रह्मण्यदेवस्येत्यादिकं चोपसंहारार्थत्वेनैवोक्तमित्यर्थः । उपसंहारे भागवतधर्मेणैवेत्युक्तेरेते-नैवोपक्रमगतवैरानुबन्धेत्यादेरैककण्ठ््यं सम्पादनीयं सावधृतेर्नैरवकाश्यादिवोत्तरत्वेनापि बलवत्त्वा-दित्यनुसन्धेयम् ॥ अथ मूलार्थः ॥ पारवश्येन स्तौति ॥ एषेति । ब्रह्मण्यदेवस्य ब्राह्मणप्रियश्चासौ देवश्च तस्य । सनकाद्युक्तिरिरक्षयाऽवातारिभगवतेति ब्रह्मण्यता स्फुटाऽभूदिति भावः। वराहनृसिंहराम-कृष्णाद्यात्मनः कृष्णस्यान्तिमत्त्वमेव विनिगमकमिति कृष्णस्येति गमनिका युक्ता । अत एवमुवाचेति ज्ञेयम् । यत्रावतारकथायां पुण्यमस्या अस्तीति पुण्या । आदिभ्यां राक्षसाभ्यां सहितौ च तौ दैत्यौ शिशुपालदन्तवक्त्रौ तयोः । प्रस्तुते त्वादिदैत्यौ आदी प्रथमोत्पन्नौ च तौ देत्यौ चेति विशेषोऽवसेयः । आदिनो राक्षसाः प्रोक्ता इति तात्पर्यान्तरादाख्यातेति शेषः । आदिदैत्ययोस्तौ अवता भगवता रक्षकेनार प्राप्नोत् । महात्मनो जनान्पुण्याः कथा अवतोपदेशादिना गुरुणाऽऽरेति वा योजना ॥ ४३ ॥
मन्दनन्दिनी
एषोक्ता कथा पुण्या । आदिदैत्ययोर्हिरण्यकशिपुहिरण्याक्षयोर्भगवत्कृतवधलक्षण-भगवन्माहात्म्य प्रतिपादकत्वादित्याशयेनोक्तम् ॥ यत्रेति ॥ ४३ ॥
प्रह्लादस्यानुचरितं महाभागवतस्य च ।
भक्तिर्ज्ञानं विरक्तिश्च याथात्म्यं चास्य वै हरेः ॥ ४४ ॥
तात्पर्यम्
ज्ञानस्य विशेषा याथात्म्यादयः । ‘भक्तिर्ज्ञानं विरक्तिश्च नवकः श्रवणा-दिकः । धर्मो भागवतः प्रोक्तस्तद्भक्तेषु तथा नव’ इति तन्त्रसारे ॥ ४४ ॥
पदरत्नावली
भक्त्यादिकमेव मुक्तिसाधनं न द्वेषादिकमित्येतदत्र प्रतिपाद्यत इत्युपसंहरति– प्रह्लादस्येति ॥ भक्त्यादिलक्षणो धर्मश्चात्र कथित इत्यन्वयः ॥ ४४ ॥
सत्यधर्मीया
‘‘भक्तिर्ज्ञानं विरक्तिश्चेति श्लोके भक्तिज्ञप्तिविरक्तिसहोक्त्या याथात्म्यमपि पृथक् साधनमिति भ्रमं भ्रंशयति ॥ ज्ञानस्येति । विशेष्यते व्यावर्त्यते ज्ञानं यैर्विषयैस्ते विशेषा याथात्म्यादयः प्रकाराः । आदिपदेन सर्गस्थित्यप्ययेशस्येत्यादिना वक्ष्यमाणस्रष्टृत्वादिप्रकारा ग्राह्याः । तद्विषयकं ज्ञानमिति तात्पर्यम् । भक्त्यादित्रिकस्य भागवतधर्मत्वे प्रमाणं वदंस्तेनैव भक्तिपदस्य मूललपितमर्थान्तरं च दर्शयति ॥ भक्तिरिति । भक्तिः स्नेहस्तथा श्रवणादिको नवको भागवतो धर्म इति प्रोक्तः । ‘‘श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् । इति पुंसाऽर्पिता विष्णौ भक्तिश्चेन्नवलक्षणा’’ इति । तद्भक्तेषु हरिदासेषु ब्रह्मादिषु तरतमभावेन नव भक्त्यादित्रिकं तथा श्रवणादीनि च नव धर्म इति प्रोक्त इत्यर्थः ॥ ततश्चायं श्लोकार्थः ॥ महाभागवतस्य प्रल्हादस्यानु-चरितम् । चशब्देनातीतवधादिसमुच्चयः । भक्तिर्ज्ञानं विरक्तिश्च यथायोग्यं कथितपदेनान्वयः । याथात्म्यं नायं भक्त्यादिवत् स्वतन्त्रो धर्मः किन्तु स्रष्टृत्वादियथार्थत्वादिज्ञानम् अस्य हरेर्भक्तिश्चेत्येवं चशब्दान्वयो ज्ञेयः ॥ ४४ ॥
मन्दनन्दिनी
प्रह्लादचरितमपि पुण्यकरमित्याह ॥ प्रह्लादस्येति ॥ महाभागवतस्य प्रह्लादस्यानु-चरितं च । चशब्दात्पुण्येत्यस्य लिङ्गव्यत्ययेनानुषङ्गः । पुण्यम् । महाभागवतस्येत्यनेन पुण्यत्वमुप-पादितम् । आख्यानोक्तं सङ्गृह्णाति ॥ भक्तिरिति ॥ आख्यानेऽस्मिन्समाख्यातमित्यस्य लिङ्गविपरिणा-मेन सर्वत्रान्वयः । याथात्म्यमात्मविषयकयथार्थज्ञानम् ॥ ४४ ॥
सर्गस्थित्यप्ययेशस्य गुणकर्मानुवर्णनम् ।
परावरेषां स्थानानां कालेन व्यत्ययो१ महान् ॥ ४५ ॥
पदरत्नावली
हरिमितरेभ्यो व्यावर्तयति– सर्गेति ॥ अव्यत्ययो यथास्थितत्वम् ॥ ४५ ॥
सत्यधर्मीया
सर्गस्थित्यप्ययेशस्य लब्धजन्मनो हि स्थित्यादीति जन्मन आदित उक्तिरित्युक्तेः सर्गः स्ववर्गात्पूर्वं गृहीतस्तेषां तदुपलक्षित ‘‘सृष्टिः स्थितिश्च संहारो नियतिर्ज्ञानमावृतिः । बन्धमोक्षौ च पुरुषाद्यस्मात्स हरिरेकराट्’’ इति स्कन्दोक्ताष्टकस्येशस्तस्य । गुणानां कर्मणां ज्ञानानन्दादीनां दैत्य-हिंसनादीनामनुवर्णनं तज्ज्ञानम् । परावरेषां परेषां ब्रह्मादीनामवरेषां तृणजीवानां कालेन प्रलयरूपेण तथा स्थानानां सत्यादीनां व्यत्ययो नाश इति ज्ञानं महान् गुणतो देशतः कालतो हरिर्महानिति ज्ञानम् । महान्व्यत्यय इति वाऽन्वयः । कालेनाव्यत्यय इति पाठे आ सम्यग्व्यत्यय इत्यर्थः । एतस्मिन्महानिति नैतद्विशेषणम् । आङैवतल्लभ्यार्थलब्धेः । दुर्घटार्थप्रबोधिन्यां व्यत्ययस्य जगन्निष्ठ-त्वात् । प्रबोधिन्यां महाव्यत्यासः । निर्णयप्रकाशिकायां व्यत्ययो नाशः । परकीयव्याख्यायां च व्यत्ययो व्यत्यास इत्युक्तेः । कालेन व्यत्यय इति पाङ्क्त पाठः । नोभयस्मिन्नपि पाठेऽव्यत्ययो यथास्थितत्वमिति भवत्यनुगुणोऽर्थ इति ज्ञेयम् । आविरिञ्चात् । नेच्छामि ते विलुलिता गुरुविक्रमेण कालात्मनोपनये-त्यादाविवात्रापि वैलुलित्योक्तेश्च ॥ ४५ ॥
मन्दनन्दिनी
गुणकर्मानुवर्तनं गुणकर्मणि यथा वृत्तेस्तथैवानुवर्तनं कीर्तनम् । वृत्तानुकथनमिति यावत् । परावरेषामुच्चावचानां सत्यलोकादिस्वर्गान्तानामव्यत्ययोऽव्यत्यासः ॥ ४५ ॥
धर्मो भागवतानां च भगवान् येन गम्यते ।
आख्यानेऽस्मिन् समाख्यातमाध्यात्मिकमशेषतः ॥ ४६ ॥
पदरत्नावली
येन भक्त्यादिलक्षणधर्मेण । आत्मानमधिकृत्य वर्तमानमिन्द्रियादिस्वरूपं च कथितमस्मिन्नाख्यान इत्याह । अत्रैव तौ पार्षदौ विष्णोरित्यावृत्तानुकथनं च भक्त्यादिकं मुक्तिसाधनं न द्वेषादिरूपमिति ज्ञापनाय । येन भागवतधर्मेणैव भगवान् गम्यते, न द्वेषादिनेति शेषः । ‘भक्तिर्ज्ञानं विरक्तिश्च नवकः श्रवणादिकः । धर्मो भागवतः प्रोक्तस्तद्भक्तेषु तथा नव ॥’ इति वचनात् ‘भागवत-धर्मेणैव श्रीहरिर्गम्यत इति कथमुच्यते भक्त्यादिना विना’ इतीयमाशङ्का परिहृता । भक्त्यादेर्धमपद-वाच्यत्वात् । ‘श्रवणं कीर्तनं विष्णोः’ इत्यादि श्रवणादिनवकम् ॥ ४६ ॥
सत्यधर्मीया
येन भगवान्गम्यते स भागवतानां धर्म उक्तरूपः । चोऽवधारणार्थे सन् येनेत्यने-नान्वेति । येनैव धर्मेणैव भक्त्यादिना नान्येन द्वेषादिनेत्यर्थः । इन्द्रियादिस्वरूपं चात्र निरूपित-मित्याह ॥ आध्यात्मिकमिति । आध्यात्मिकमात्मानमधिकृत्य वर्तमानमिन्द्रियादिस्वरूपं समाख्यातम् । अशेषतः सामस्त्येन ॥ ४६ ॥
मन्दनन्दिनी
धर्मो भक्त्यादिलक्षणः । येनेति भगवद्भक्तिज्ञानत्वोक्तेः । अत एव तात्पर्यम् ॥ भगवान्येन गम्यत इत्यनेन भागवतधर्मेणैव भगवान् गम्यते । न द्वेषादिनेत्युपसंह्रियते । वृत्तानुकथनं च तदर्थत्वेनैव । ज्ञानस्य विशेषा याथात्म्यादयः ।
भक्तिर्ज्ञानं विरक्तिश्च नवकः श्रवणादिकः ।
धर्मो भागवतः प्रोक्तस्तद्भक्तेषु तथा नव ॥ इति तन्त्रसारे ॥
धर्मो भागवतानां चेत्युक्त्वा येनेत्युक्तेर्भागवतधर्मेण भक्त्यादिनैव गम्यत इत्युपसंह्रियत इत्यर्थः । वृत्तानुकथनस्य भागवतधर्मत्वाभावात्कथं भागवतधर्मेणोपसंहार इत्यत उक्तम् ॥ तदर्थत्वेनेति ॥ भक्त्यादेर्भागवतनिष्ठो धर्मो वृत्तानुकथनं च भक्त्यादिकं जनयतीति भावः । आत्मानं देहं मनो वा । अनतिक्रम्य विद्यमानमिन्द्रियमनस्त्वादिकं यथात्मा तस्य भावः । कथं भागवतधर्म इत्यत उक्तम् ॥ ज्ञानस्येति ॥ तथा चात्मानं परमात्मानमनतिक्रम्य विद्यमानं ज्ञानं याथात्मा । स्वार्थे ष्यञ् । तदेव याथात्म्यम् । तथा च भगवद्विषयकयथार्थज्ञानस्य भागवतधर्मत्वं युक्तम् । तथापि भक्त्यादिरेव भागवतधर्म इत्यत्र किं मानमित्यत उक्तम् ॥ भक्तिरिति ॥ भक्तिरित्यस्यैव विवरणम् ॥ श्रवणादिको नवक इति । भगवद्भक्तेष्वपि नव श्रवणादयो भागवतो धर्मः ॥ ४६ ॥
य एतत् पुण्यमाख्यानं विष्णोर्वीर्योपबृंहितम् ।
कीर्तयेच्छ्रद्धया श्रुत्वा कर्मपाशैर्विमुच्यते ॥ ४७ ॥
पदरत्नावली
अधुनाऽऽख्यानकीर्तनादिना यत् पुण्यं तदाह– य इति ॥ ४७ ॥
सत्यधर्मीया
संसारभाजनं जनं ततः प्रच्याव्यैतस्मिन्प्रवर्तयितुं वक्तुः श्रोतुश्च फलमभिलपति ॥ य एतदिति । पुण्यं पुण्यदम् । एतत् प्रागुक्तं पुण्यं यस्मात्तदिति समस्तं वा । पुण्यमाख्यानमिति वा समस्तम् । पुण्यापुण्यप्रापिका मा ज्ञानं यस्मात्तच्च तदाख्यानं तत् । विष्णोर्हरेर्वीर्योपबृंहितम् । वीर्येण तदादिना गुणेनोपबृंहितं पूर्णं यः कीर्तयेद्यश्च शृृणुयाच्छ्रुत्वा च स्थितः स च कर्मपाशैस्तद्रूपपाशैर्विमुच्यते । समानकर्तृकयोः पूर्वकाल इति स्मरणात्स्थित इति पूरणेनान्वय इति ज्ञेयम् । यथोक्तं सुधायामानन्द-मयाधिकरणे । तमात्मानं विदित्वा साक्षात्पश्यत इति शेषः । तेन समानकर्तृकता । इत्येतज्जातीयके बहुलस्थल एवमेव समानकर्तृकतानयनायासदर्शनात् । यथा मुखं व्यादाय स्वपितीत्यादावुत्तरकालेऽपि क्त्वाप्रत्ययदर्शनात्तस्य व्यभिचारो मणिकृदादीरितो न तथा क्वापि क्त्वाप्रत्ययस्यासमानकर्तृके दर्शनमिति न व्यभिचारः । न चैतच्छेषवाक्यार्थचन्द्रिकायामङ्गीकृत्य चैतदुक्तम् । वस्तुतस्तु समानकर्तृकत्वाभावे क्त्वाप्रत्ययस्य ‘‘यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यत’’ इत्यादौ बहुलमुपलम्भेन तन्नियमस्यानावश्य-कत्वादिति द्रष्टव्यमिति प्रोक्तेः । तथैव चाक्षरात्सम्भवतीह विश्वमित्युक्त्वा तस्माच्चाक्षरात्परतः पर इति परः प्रतीयत इति । भाष्यचन्द्रिकायामित्युक्त्वा प्रतीयत इति भाष्ये क्रिययोः समानकर्तृकत्वाभावेऽपि क्त्वाप्रत्ययो ‘‘यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यत’’ इतिवद्द्रष्टव्य इत्युक्तेश्च कथं कथ्यते तन्नियम इति वाच्यम् । चन्द्रिका तु पङ्कशङ्कुः । व्याख्याता च बहुभिः । तथैतैरपि शेषवाक्यार्थचन्द्रिकाकारैः । श्रवणं प्रति पुरुषस्य मोचनं प्रति तु पापानां कर्तृत्वेन समानकर्तृकत्वाभावेन क्त्वाप्रत्ययानुपपत्तिरिति यदि तत्र श्रुत्वा स्थितश्चेति शेषपूरणेन समानकर्तृकत्वं तर्हि प्रकृतेऽपि विचार्यमाण इति शेषपूरणेन समानकर्तृ-कत्वमिति द्रष्टव्य इति विवृता । एतदतिलतुलव्यत्यासं श्रीसत्यानन्दश्रीपादैर् विवृता एवमेव सतिशब्द-मात्रव्यत्यासेनार्थव्यत्यासेन भावदीपभावरत्नकोशकम्भालूररामचन्द्रतीर्थीयसुधापरिमलेषु च क्रमात्सा ज्ञेया । तथाहि । भावदीपे इत्युक्त्वा प्रकृत उत्तरवाक्य इति योजनाच्च क्त्वाश्रुत्युपपत्तिरिति । भावरत्नकोशे ‘‘यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यत’’ इतिवद्द्रष्टव्य इत्यत्र वर्तमान इत्यादिपदाध्याहारेण निर्वाह इवात्रापि वचनादित्यादिपदाध्याहारेण निर्वाहो ज्ञातव्य इति तात्पर्यमवधातव्यमिति ।
एवमेव चन्द्रिका श्रीराघवेन्द्रतीर्थीये च कम्भालूरुरामचन्द्रतीर्थीये च नन्वित्यारभ्य पश्यत इत्यध्याहृत-दर्शनक्रियया वेदनक्रियायाः समानकर्तृकत्वेन क्त्वाप्रत्ययोपपत्तिरित्याहेत्यन्तेनोदाहृतसुधायां तथा परिमले च समानकर्तृकयोः पूर्वकाले क्त्वेति समानकर्तृकक्रियान्तरे सत्येव पूर्वकालवाचिधातोः क्त्वाप्रत्यय-विधानात्पश्यत इति क्रियान्तराध्याहारे विदित्वेति क्त्वाप्रत्यययोगस्यासाधुत्वापत्तेरिति उक्त्वेत्यनन्तर-माम्नात इति शेष इति स्वयं व्याकृत्येत्युक्त्वा द्रष्टव्य इत्यन्तं चन्द्रिकावाक्यं धृत्वाऽयमेव तदभिप्राय इति जगदुर्जगन्नाथतीर्थाः । न चेदमाश्चर्यम् । तदनुमतं न भवतामिति वाच्यम् । वयममत्सराः । तत्त्वप्रदीपे तु यत्तदद्रेश्यमग्राह्यमित्युक्त्वोत्तरत्राक्षरात्परतः पर इति वचनात्परः प्रतीयत इत्युक्तेः । न्यायविवरणे चाक्षरात्परतः परस्याप्यक्षरात्परत्ववचनादित्युक्तिश्च भाष्ये तत्पूरणेन क्त्वाप्रयोगोपपत्तिसूचिकेति ज्ञेयम् । एवमादिषु परःशतं समानकर्तृक एव क्त्वाप्रत्ययप्रयोगा इत्युक्तेः शेषवाक्यार्थचन्द्रिका हन्तैकला परप्रासङ्गिकमुखभङ्गभङ्गीतः प्रवृत्तेति लघुकल्पनम् । परैरेवमेवाङ्गीकृतमिति नास्मदुपपादनसापेक्षं तद्वचनम् । तैरेव पररीत्येति पुरुवारमुक्तेः । मुखं व्यादाय स्वपितीत्यत्रापि स्वापस्य व्यादानोत्तरमपि सत्त्वात्पूर्वकाल एव क्त्वाप्रत्ययः । यथोक्तं सिद्धान्तकौमुद्याम् । कथं मुखं व्यादाय स्वपिति । नेत्रे निमील्य हसतीति । व्यादानसम्मीलनोत्तरकालेऽपि स्वापहासयोरनुवृत्तेस्तदंशविवक्षया भविष्यति । एतत्तत्त्वसुबोधिन्याम् । श्रीशैलशिखरं दृष्ट्वा पुनर्जन्म न विद्यत इत्यादौ तु समानकर्तृकतानिर्वाहार्थं स्थितस्येत्यादि यथासम्भवमध्याहार्यमिति ॥ ४७ ॥
मन्दनन्दिनी
एतदाख्यानश्रवणकीर्तनयोः फलमाह ॥ य एतदिति ॥ वीर्योपबृंहितं पराक्रमोप-बृंहितम् ॥ ४७ ॥
एतद् य आद्यपुरुषस्य मृगेन्द्रलीलां
दैत्येन्द्रयूथपवधं प्रयतः पठेत ।
दैत्यात्मजस्य च सतां प्रवरस्य पुण्यं
श्रुत्वानुभावमकुतोभयमेति लोकम् ॥ ४८ ॥
पदरत्नावली
सामान्यत उक्तं विवृणोति– एतदिति ॥ ४८ ॥
सत्यधर्मीया
सामान्यतो (विष्णुवीर्योपबृंहितमिति) कीर्तनीयतां श्रवणीयतां चाख्यानस्याख्याय प्रस्तुतावतारचरितं च चरितव्यं तथेति कथयति ॥ एतदिति । आद्यपुरुषस्येत्यस्य मृगेन्द्रलीलामिति समस्तमृगेन्द्रपदेन योग्यतयाऽन्वयः । पुरुषमृगेन्द्रस्य नृसिंहस्य । मृगेन्द्र इति लुप्तषष्ठीकं पदम् । कथम्भूतस्य मृगेन्द्रपदस्य । आद्यपुरुषस्याद्यः पुरुषः पुरुषशब्दः यस्मिंस्तदाद्यपुरुषं तस्य । ततश्च पुरुषमृगेन्द्रस्य इति पदसम्पत्तिर्ज्ञेया । व्यासेन निर्दिशन्व्यासो नेदं कर्माधीनं जन्म किन्तु स्वच्छन्द इति ध्वनयति । नाम्नश्च मन्त्ररूपतयोपसंहारकालश्चेति रहस्यतां ज्ञापयितुं समस्य जग्राहेति तात्पर्यं च ज्ञेयम् । मोनयदासाप्रप्रक्षि, क्षिपस्वाहेत्यादिदर्शनात् । तल्लीलाविलासमालपति ॥ दैत्येति । प्रयतो नियतचेतस्कः पठेत पठेत् । सतां स्वाधस्तात्सतामकुतोभयं लोकं वैकुण्ठम् । अकुतोभयं यथा भवति तथा । लोकं लो रोचमानो यः कः सुखं तमेति प्राप्नोतीति वा । बृहद्भाष्यमादावुदाहृतमनुसन्धेयम् ॥ ४८ ॥
मन्दनन्दिनी
पाठफलमाह ॥ एतद्य इति ॥ एतदिति सामान्यम् । तस्यैव विवरणम् । मृगेन्द्रलीलां सिंहचर्याप्रतिपादकम् । दैत्येन्द्रलक्षणस्य यूथपस्य गजस्य वधप्रतिपादकम् । दैत्यात्म-जस्यानुभावं माहात्म्यप्रतिपादकम् । आख्यानं यः श्रुत्वा पठेत । सोऽकुतोभयं मोक्षमेतीति योजना
॥ ४८ ॥
यूयं नृलोके बत भूरिभागा लोकं पुनाना मुनयोऽभियान्ति ।
एषां गृहानावसतीति साक्षाद् गूढं परं ब्रह्म मनुष्यलिङ्गम् ॥ ४९ ॥
पदरत्नावली
ननु प्रह्लादानुभावस्यात्युत्तमत्ववर्णनेन युधिष्ठिरादीनां ततोऽधमत्वं प्रतीयत इति मन्दाशङ्कां परिहरति– यूयमिति ॥ मुनय एतानिति यथातीत्य वर्तयन्ति बत विस्मये । ‘खेदानुकम्पा-सन्तोषविस्मयामन्त्रणे बत’ इति ॥ ४९ ॥
सत्यधर्मीया
कृष्णस्य च महात्मनः पश्यतस्ते समीयतुरित्याद्युक्तेः कृष्णचरितं भवदादिचरितं च कीर्तनीयं श्रवणीयमिति धर्मं प्रति नारद ईरयति ॥ यूयमिति । नृलोके मानवजने ज्ञानिजने वा । भूरिभागा भूरिर्भागो भागधेयं येषां ते तथा महाभाग्यशालिनः । ‘‘भागो भागधेयैकदेशयो’’रिति विश्वः । ये लोकं पुनानाः पवित्रयन्तो मुनयस् तानतियाथातीत्य वर्तध्वे । लोकं पुनाना इति युष्मत्पदार्थविशेषणं वा । तत्र तन्त्रमाह ॥ येषामिति । मनुष्यलिङ्गं मनुजचिन्हं तत्त्वादेव गूढमप्रकाशितस्वरूपं साक्षाद्ब्रह्म । कृष्णकेशो हि यादव इत्यादेः । साक्षादधोक्षजस्वरूपम् । परं जगद्विलक्षणम् । येषां गृहान्मन्दि-रमावसति । ‘‘गृहाः पुंसि च भूम््नयेवे’’त्यमरः । उपान्वध्याङ्वस इति गृहानिति द्वितीया । इति हेतोः । बतेति तोषे विस्मये वा ॥ ४९ ॥
मन्दनन्दिनी
एवं प्रह्लादानुभवं वर्णयित्वा ततोऽप्यतिशयेन युधिष्ठिरादीन् स्तौति ॥ यूयमिति ॥ हे युधिष्ठिरादयः । यूयं भूरिभागा बहुभाग्यशालिनस् तत्र निमित्तमुक्तम् । लोकं पुनाना मुनयोऽभियांति । एषां गृहानिति । एषां युष्माकम् । ते यूयं भूरिभागा इति पूर्वेणान्वयः । लोकपावनमुन्यभिगमनमेकं निमित्तम् । मुख्यं च निमित्तमाह ॥ साक्षादिति ॥ साक्षात्परब्रह्मकृष्णाख्यं मनुष्यलिङ्गं मनुष्याकारं गूढं सर्वैर्भगवत्वेनाप्रतीयमानम् । एषां गृहानावसतीति योजना ॥ ४९ ॥
स वा अयं ब्रह्म महद् विमृग्यं कैवल्यनिर्वाणसुखानुभूतिः ।
प्रियः सुहृद् वः खलु मातुलेय आत्माऽर्हणीयो विधिकृद् गुरुश्च ॥ ५० ॥
तात्पर्यम्
निर्वाणसुखम् अशरीरसुखम् । ‘एतद्बाणमवष्टभ्य’ इति श्रुतेः ॥ ५० ॥
पदरत्नावली
ननु ‘परब्रह्माणि मुक्तिगाः’ इत्यतः परब्रह्मशब्देन विष्णुत्वनिश्चयः कथमिति तत्राह– स वा इति ॥ कैवल्येन अनासक्तत्वेन यन्निर्वाणसुखम् अशरीरसुखं तस्यानुभूतिर् अनुभवो यस्य स तथा । अनन्ययोग्यस्वरूपानन्दमनुभवतीत्यर्थः । अनेन विष्णुत्वं निरणायि । विधिकृद् आज्ञाकारी । गुरुर् हितोपदेष्टा ॥ ५० ॥
सत्यधर्मीया
स वा अयं ब्रह्मेति श्लोके निर्वाणसुखमाधिकारिकवन्मोक्षसुखं तदनुभूतिरित्य-न्यथाप्रतीतिं वारयितुं किञ्चिदनूद्य वाणशब्दः शरीरपर इति व्याख्यानस्थेम्ने श्रुतिं च पठति ॥ निर्वाण-मिति । निर्गतं वाणाद्ब्राणात् । रलयोर्वबयोश्चैव खषयोर्डलयोस्तथा । वदन्ति केचित्सावर्ण्यमिति वचनात् । यत्तन्निर्वाणमशरीरसुखं स्वभिन्नप्राकृतशरीरभोग्यसुखभिन्नं तदनुभववान् ॥ तत एवं मूलविवृतिः ॥ गृहानावसतीत्युक्तं तदेवमित्याह ॥ स इति । यन्महद्विमृग्यं महद्भिर्ब्रह्मादिभिर्विचार्यम् । महद् विमृग्यं चेति वा । ब्रह्म कैवल्येन स्वातन्त्र्येण यन्निर्वाणसुखमशरीरभोग्यमप्राकृतं सुखं तस्यानुभूतिरनुभवो यस्य सः । सुखं चानुभूतिश्च यस्य स इति वा । प्रियः सुहृद् व्याख्यातं च प्राक् । मातुलेयो मातुलसुतः । मातुर्डुलजिति डुलचि मातुलस्ततः शुभ्रादिढकि चापत्येऽर्थे तस्येयादेशे मातुलेय इति ज्ञेयम् । आत्मा स्वामी । विधिकृद् आज्ञाधारकः । गुरुर्हितोपदेष्टा । अर्हणीयः पूज्यश्च । योऽयं प्रकारः खलु निषिद्धो लोके, अतुले भगवति तु मा खलु न निषिद्धः । यस्मिन्विरुद्धगतयोऽप्यनिशं पतन्ति । अणोरणीयान्महतो महीयान् । अमध्यमो मध्यमो व्यापकोऽव्यापक इत्यादेर्वैशब्देन ग्रहः । कथं गुरुत्वादिकमेकत्र विरुद्धमित्याशङ्कायां खलु सान्त्वनमित्यप्यर्थः । खलु सान्त्वने निषेधने चेति विश्वः । ये च सवास्त्वयाऽनुष्ठिता इष्टयोऽप्यतुले यद्विषय एव स इत्यावृत्त्याऽन्वयः । विधिकृद्गुरुश्चेत्येकं पदं वा । विधिस्रष्टा विधिगुरुश्च । मा अतुले यः ये इति यथार्थक्रमं पदानीव सः वै सवा इति च पदं ज्ञेयम् । पूर्वमतुलेयोऽतुला ई सम्पद्रमा वा यस्य सो ऽतुलेरिति यः प्राप्य इत्यप्यतुलेयः । यातेः कर्मणिकः । अनन्तरमात्मभिर्भवद्भिरर्हणीयः । सभायामग्रसभाजनीयो जात इति गुरुरिति वा । मातुले शकुनौ तद्विषये यो विधिकृत् । यश्च गुरुर्भारायितो भूमेः । य आत्मार्हणी आत्मनाऽर्हणमस्यास्तीति स तथा निन्दितत्वमर्हणस्य द्योत्यते इनिप्रत्ययेन । आत्मसम्भाविताः । यस्य सुहृद्धृदयम् । स्वर्थो हृत्पदार्थे न स्वरससम्बन्धः सन्नयःपदार्थे काठिण्यातिशयाधायकोऽयःपदेनान्वेति । स्वयो ऽत्ययः सारम् । तस्य सुयोधनस्य खलु निषेधकः । अथवा ब्रह्मेति विशेष्यदृष्ट्या खलु । पूर्वं खलु नातिसुखं छिनत्तीति तदनन्तरमिन्द्रियाणि खानि तदुपलक्षितं शरीरं लुनातीति तत्तथेति नुपंसकतोपपत्तिर्ज्ञेयेति वा ॥ ५० ॥
मन्दनन्दिनी
परं ब्रह्म गृहानावसतां युक्तम् । तत्किमित्यत आह ॥ स वा इति ॥ यो वो युष्माकं प्रियः प्रीतिविषयः सुहृद् अत्यन्तोपकारी । आत्मा स्वामी विधिकृदाज्ञाकृत् । गुरुर्हितोपदेष्टा । स वाऽयं कृष्णः । ब्रह्म पूर्णगुणम् । महद्विमृग्यं महद्भिर्ब्रह्मादिभिर्विमृग्यम् । अनन्यमसाधारणम् । अशरीरः स्वरूपसुखानुभवरूपमिति योजना । अत्र तात्पर्यम् ॥ निर्वाणसुखमशरीरसुखम् । एतद्बाण-मवष्टभ्येति श्रुतेः ॥ एतद्बाणमित्यत्र शरीरम् । बाणशब्दप्रयोगात् । वबयोरभेदान्निर्वाणमित्यस्या-शरीरमिति व्याख्यानं युक्तम् ॥ ५० ॥
न यस्य साक्षाद् भवपद्मजादिभी रूपं धिया वस्तुतयोपवर्णितम् ।
मौनेन भक्त्योपशमेन पूजितः प्रसीदतामेष स सात्वतां पतिः ॥ ५१ ॥
पदरत्नावली
ननु दुर्ज्ञेयरूपत्वं हि विष्णुलिङ्गम् । ‘न हि सुज्ञेयम् । अणुर्ह्येष आत्मा सः’ इति श्रुतेः । स्वरूपानन्दानुभवित्वं सायुज्यभाजोऽप्यस्ति । अतः कथं निर्णय इति तत्राह– न यस्येति
॥ ५१ ॥१ए
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
सप्तमस्कन्धे दशमोऽध्यायः ॥
सत्यधर्मीया
प्रसादे सति किञ्चिन्निरूपयितुं शक्यमशक्यनिरूपणत्ववादः साकल्येन निरूपणाविषयत्वपरो वा प्रसन्नतादौ तदगोचरत्वपरो वाऽवसेय इति भावमावेदयितुं स्वपरसाधारण्येन प्रसत्तिमाशासनो नारद ईरयति ॥ नेति । यस्य रूपं भवपद्मजादिभिर्भवो रुद्रः पद्मजो ब्रह्मा तावादी येषां तैः । धिया करणेन । वस्तुतया स्वस्थितिमर्यादया साकल्येनेति यावत् । नोपवर्णितम् । तत्कथं सुवर्णगर्भादिवर्णनमित्यतो वर्णयति ॥ साक्षादिति । स्वयोग्यतातौल्येन वर्णितमित्यर्थः । अत्र पद्मभवादपि भवपुरस्कृतिरुत्तरत्र वक्ष्यमाणकथोपयोक्ष्यमाणत्वेनेति मन्तव्यम् । साक्षाद्भवो विराट्-शरीरभवः । स्वयम्भूः पद्मभवश्चैक इति तद्रूपद्वन्द्वम् । आदिर्येषां पुरहरादीनामिति तैः । अवतार-मात्रमवनौ नास्त्यस्ति तु त्वेवं बाहुरूप्यं विधेरिति वक्ष्यमाणवत्सीभवनासम्भावनापरिहारार्थमुक्तमिति मन्तव्यम् । अवस्तुतयाऽशक्तत्वेन नोपवर्णितं किन्तु वस्तुतया शक्ततया वर्णितमिति । अवस्त्वशक्तमुद्दिष्टं वस्तु शक्तमितीर्यत इति तात्पर्यान्तरात् । मौनेन भक्त्योपशमेनेति गतम् । पूजितः । य एष सात्वतां भक्तानां यादवानां वा पतिर्मूलकृष्णोऽयं कृष्णो वा प्रसीदतां प्रसीदतु ॥ ५१ ॥
मन्दनन्दिनी
एवं युधिष्ठिरादीनुक्त्वा स्वयं कृष्णप्रसादं प्रार्थयते ॥ न यस्येति ॥ यस्य रूपं साक्षाद्धिया साक्षात्कारणविषयीकृत्य भवपद्मजादिभिर्वस्तुतया साकल्येन नोपवर्णितम् । मौनेन मननेन भक्त्योपशमेन ध्यानेन पूजितश्च यः स सात्वतां पतिः कृष्णः प्रसीदतामिति योजना ॥ ५१ ॥१बि
नारद उवाच–
स एष भगवान् राजन् व्यतनोद् विततं यशः ।
पुरा रुद्रस्य देवस्य मयेनानन्तमायिना ॥ ५२ ॥
तात्पर्यम्
तदधीनं वा सर्वं न वेति संशयं रुद्रस्याहनत् । अल्पकेनैव मयेन रुद्रस्य प्रतीकारं कृत्वा ॥ ५२ ॥
पदरत्नावली
अस्मिन्नध्याये हरौ भक्तिविधानार्थं रुद्रमाहात्म्यकथनव्याजेन तन्माहात्म्यं प्रतिपाद्यते । अधुना तत्र ‘एको रुद्रो न द्वितीयोऽवतस्थे’ इत्यादिश्रुतेः प्रतीयमानरुद्रस्याद्वितीयार्थत्वं प्रतिपद्यमानैर्जनैर्महाद्रव्यव्ययेन पूज्यमानस्य ‘ईशानः सर्वविद्यानाम्’ ‘ईश्वरः सर्वभूतानां’ इत्यादिमन्त्रैः स्तूयमानस्य सतो रूद्रस्यासुरावेशात् संशयो बभूव इदं सर्वं भगवदधीनं न वा इति । तत्र दयालुर्भक्तवत्सलः श्रीनारयणो रुद्रस्य तं संशयमपाचक्रे । कथं केनेति तत्राह– स एष इति ॥ यो (सः) भगवान् नृसिंहात्मना ब्रह्मदत्तवरेण दृप्तहिरण्यकशिपुपुरःसरासुरजातिं निर्मूलयित्वा प्रह्लादादि-भक्तसमुदायस्यानुग्रहीता स एष युष्मद्बन्धुभूतः श्रीकृष्णः पुरा कल्पविशेषे देवस्य हरेः स्तुतिध्यानादिकं कुर्वाणस्य रुद्रस्य रोदनाद्यवगततल्लक्षणस्य, अत एव तन्नाम्नः, शिवस्य अनन्तमायिना अनेकशतसहस्र-मायावता । अत एवार्थादल्पेन मयेन वक्ष्यमाणप्रतीकारं कृत्वा तस्य रुद्रस्य भगवद्भक्तप्रधान इत्यादि यशो विततं त्रिपुरनाशनेन व्याप्तमकरोत् । आत्मनोऽतिशयस्वामित्वेन तदनुग्राहकत्वेन च विमल-मकृतेत्यन्वयः ॥ ५२ ॥
सत्यधर्मीया
क्वचिदेतत्पद्य एवाध्यायसमापनं दृश्यते । न साम्प्रदायिकम् । मूलतात्पर्यकोशेषु न समर्थ इत्युत्तरमेवाध्यायावसित्यध्यवसायात् । तात्पर्यव्याख्यातृभिरिव परकीयेणाप्यपरं वदाम किमिति श्लोकान्त एव विरमितत्वात् । स एष भगवान्राजन्निति श्लोके स एव भगवान् रुद्रस्य विततं यशः । पुरा व्यतनोदित्येतन्मात्रेण पूर्तौ यन्मयेनेत्यादि तदसङ्गतमिव व्यर्थम् । न हि हरिणा रचितकीर्तिविततौ मयो हेतुः । प्रश्नवाक्प्रातिकूल्यादित्यत उपयुक्तमध्याहृत्य सम्भवद्योजनां दर्शयति ॥ तदिति । तदधीनं विष्ण्वधीनं सर्वं वा नवेति रुद्रस्य संशयं व्यहन् हरिरिति शेषः । तत्र निमित्तमाह ॥ अल्पकेनेति । अल्पशब्दादल्पार्थे कप्रत्ययेन रुद्रस्य कर्मणि प्रतीकारमभीप्सितासिद्ध्या मानहानिं कृत्वा कारयित्वा । कृत्वा विवाहं तु कुरुप्रवीरा इत्यादिवदियती शक्तिर्नास्य मयस्य किन्त्वीश्वर इतरोऽस्ति नैवाहमवमानित इति संशयनाशो भूतपतेरभूदित्याशयः ॥ ततश्चायं मूलार्थः ॥ भवपद्मजादिभिरिति प्रसक्तोऽपि स्वसंशय-निवृत्तिमेवमाप श्रीपेन पार्वतीपतिरिति कयाचिदाख्यायिकयाऽऽख्याति ॥ स इति । देवस्य रुद्रस्य । पुरा कल्पान्तरे । अनन्तमायिनाऽनन्ता इतराप्रतिबद्धाः१ माया अस्य सन्तीति स तथा तेन मयेन । असुर-तक्ष्णा वक्ष्यमाणप्रतीकारं कारयित्वा । वक्ष्यमाणप्रकारेणैतत्स्थाण्वाननेन ता विनाश्यास्य यशो विततमचीकरद्यः स हरिरेष मातुलेय इत्यर्थः । अति अदि बन्धन इति धातुव्याख्यानादन्ताः प्रतिबद्धा न भवन्तीति तास्तथा । अन्यथा मयमायानां सङ्ख्याविशेषाभिधायकसमयविशेषविरोधापत्तेः । बव्हर्थको वाऽनन्तशब्दः । ता अपि हर्यायत्ता इति द्योतयितुमनन्तेत्युदितमिति ज्ञेयम् । अनन्तस्य तत्सम्बन्धिन्यो माया अस्य सन्तीति स तथा तेन ॥ ५२ ॥
मन्दनन्दिनी
अस्मिन्नध्याये प्रह्लादे कृतनृसिंहानुग्रहप्रसङ्गान्महोपासके रुद्रेऽपि तत्कृतोऽनिष्ट-निवर्तकत्वत्रिपुरारित्वादिकीर्तिसम्पादकत्वरूपोऽनुग्रहो वर्ण्यते । अत्रेदं पुरावृत्तमनुसन्धेयम् । भगवदुपो-द्बलितैर्देवैर्निर्जितैरसुरैर्मयं शरणमुपेत्य तन्निर्मितपुरत्रयमवष्टभ्य स्थितैर्देवेष्वेको रुद्रो न द्वितीयोऽवतस्थे इत्यादिवाक्यतात्पर्यमजानद्भिर्मन्दजनैरीशानः सर्वविद्यानामीश्वरः सर्वभूतानामित्यादिमन्त्रैः स्तूयमानेऽ-सुरावेशवशाज्जगद्विष्ण्वधीनं न वेति संशया वै रुद्रे संशयमकर्तुं त्रिपुरारित्वादिकीर्तिं चाहर्तुं वेदचतुष्टय-रूपाश्वपृथिवीरूपरथमेकरूपचापस्वरूपशरादिरूपपरिकरयुक्तं रुद्रं रथिकं कृत्वा रुद्रेण दैत्येषु जितेषु पुनर्मयेन रसहृदेनोज्जीवितेषु किं मया कार्यमिति विषण्णो, मदधीनं न किमपि सर्वं विष्ण्वधीनमेवेति विष्णुं प्रपन्ने ब्रह्मणोऽपि रुद्रादुत्तमत्वं ज्ञापयितुं ब्रह्माणं वत्सं कृत्वा स्वयं गोरूपेण गत्वा रसहृदं वत्सेन सह निस्तुषं पीत्वा रुद्रं स्वयमुपोद्बल्य भूमौ पातितं रथं हरिवंशोक्तरीत्या महावृषभरूपेण विषाणद्वयेनोर्ध्वमुन्नमय्य शरे तेजनरूपेण स्वयमेव स्थित्वा सर्वानसुरानुन्मूल्य त्रिपुरारित्वकीर्तिं रुद्रे सम्पादयामासेति । इदं च तेषामसुराणां तिस्रः पुर आसन्नित्यादि तैत्तरीयश्रुत्यादिभिः प्रमितम् । विशेषजिज्ञासायै सामान्यतः प्रस्तापयति नारदः ॥ स एष इति ॥ अस्मिंल्लोके मयेनानन्तमायिनेत्य-नन्वितम् । अतः किञ्चिदध्याहार्यम् । तच्च तात्पर्ये उक्तम् ॥ तदधीनं वा सर्वं नेति संशयं रुद्रस्याहनत् । अल्पकेनैव मयेन रुद्रस्य प्रतीकारं कृत्वेति ॥ तथा चैवं योजना । हे राजन् । अनन्तमायिना । अनन्तपदं बहुपरम् । एकशतसहस्रमायावताररुद्रस्य प्रतीतमालंब्यानन्तपदम् । वस्तुतस्त्वल्पकेनैव मयेन प्रतीपं कृत्वा कारयित्वा । करणमपि भगवदधीनमिति द्योतनाय णिचोऽप्रयोगः । तदधीनं विष्ण्वधीनं सर्वं न वेति संशयं न्यहनत् । शपो लुगभावः । छान्दसत्वात् । अनन्तरं स एष भगवान् रुद्रस्य विततं यशो व्यतनोदिति ॥ ५२ ॥
राजोवाच–
कस्मिन् कर्मणि देवस्य यशोऽभूज्जगदीशितुः ।
यथा चोपचिता कीर्तिः कृष्णेनानेन कथ्यताम् ॥ ५३ ॥
तात्पर्यम्
कस्मिन्कर्मणि मयो विपरीतं चकार ॥ ५३ ॥
पदरत्नावली
नापृष्टः कस्यचिद् ब्रूयादिति वचनात् प्रसक्तं प्रमेयं विस्तृत्य श्रोतुं राजा पृच्छति– कस्मिन् कर्मणीति ॥ कस्मिन् कर्मणि मयो विपरीतं चकार येन ईशितुर्देवस्य यशोऽभूत् । सा च कीर्तिः कृष्णेन यथायथम् उपचिता प्रचिता स कथाविशेषो मम कथ्यतामित्यन्वयः ॥ ५३ ॥
सत्यधर्मीया
कस्मिन्कर्माणीति श्लोके क्रियाद्यप्रतीतेरध्याहृतक्रियाकर्मसम्बन्धं प्रदर्शयति ॥ कस्मिन्निति । कस्मिन्कर्मणि मयो विपरितं चकारेति धर्मप्रश्नः सम्भवतीति नासङ्गतिः । न च साकाङ्क्षस्य वाक्याभासस्याप्रतिपादकत्वादिति सुधोक्तेरस्य तथात्वाच्छेषस्य चाप्रामाणिकत्वादित्याशङ्क्य सापेक्षमिति सिद्धं प्रमाणतो, यत्रापेक्षितं तत्र सापेक्ष्यं सापेक्षता, दोषाय न भवति । केचिद्वत्स आसीत्तदा ब्रह्मेति श्लोके तात्पर्यमेतद्योजयन्ति । तत्तच्छ्लोकव्याकृतिदशायां विशदयामः । यत्रा-नवसरोऽन्यत्रेत्यादेः । व्यतिहारो विशिंषन्ति हीतरवदिति भगवद्वचनाच्च । शब्दनिर्णय इति शब्द-निर्णयाय प्रवृत्तस्यास्येदमर्थतायामनुपयुक्तत्वाच्च । उत्तरत्र वाऽत्र वैतदपवदनीयशङ्कायास्तात्पर्य उक्त-त्वाच्च ॥ ततश्चायं श्लोकार्थः ॥ देवस्य वामदेवस्य कस्मिन्कर्मणि मयः प्रतीकारं चकार यशश्च कथमह-न्नाशयामास । जगदीशितुः सदाशिवस्य कीर्तिरनेन कृष्णेन कथमुपचिताऽभिवृद्धा च तत्कथ्यतां मां प्रति त्वयेति शेषः ॥ ५३ ॥
मन्दनन्दिनी
विशेषतः पृच्छति राजा ॥ कस्मिन्निति ॥ अत्रापि कर्मणीति सप्तम्यन्तपद-मनन्वितमिति । अतः किंचिदध्याहार्यम् । तच्च प्रदर्शितं तात्पर्ये ॥ कस्मिन्कर्मणि मयो विपरीतं चकारेति । तथा चैवं योजना । कस्मिन्कर्मणि मयो विपरीतं रुद्रकार्यविरोधि चकार । येन जगदीशितु-र्देवस्य महादेवस्य यश उपचितमिति भावः । पुनश्चानेन कृष्णेन नारायणेन यथोपचिता च कीर्तिस्त-त्कथ्यतामिति । पूर्वोक्तश्लोके मय इत्यादि न श्रुतमित्यतः सापेक्षत्वदोष इत्यतस्तात्पर्यम् ॥ सापेक्षं न तु दोषाय यत्र सिद्धमपेक्षितमिति शब्दनिर्णये ॥ सिद्धं प्रमाणेन लोकन्यायेन वा । द्वारमित्यादौ लोकन्यायेनात्र पूर्ववाक्यादिबलेन प्रमाणान्तरेण चेति ज्ञेयम् ॥ ५३ ॥
नारद उवाच–
निर्जिता असुरा देवैर्युध्यनेनोपबृंहितैः ।
मायिनां परमाचार्यं मयं शरणमाययुः ॥ ५४ ॥
पदरत्नावली
नारदः प्रश्नं परिहरति– निर्जिता इति ॥ अनेन हरिणा उपबृंहितैः । ‘अन्य-सहायेनासुरजिता इत्येतद् देवानां न दोषाय । विष्ण्वेक्षणस्य स्वतःसिद्धत्वाद् देवानाम् । । सापेक्षं न तु दोषाय यत्र सिद्धमपेक्षितम्’ इति वचनात् ॥ ५४ ॥
सत्यधर्मीया
उत्तरत्र नारदः किं चकारेत्यत उत्तरयतीतीरयति ॥ नारद इति । अनेन विष्णुना । एतेनेत्याद्यवचनेनैवंवचनेनानेननेति प्राणेन चेत्यपि तदर्थं सूचयामासेत्यवसेयम् । युधि युद्धे मायिनां शिखादिः । परमाचार्यं मुख्यगुरुं मयं शरणमाययुरागच्छन् ॥ ५४ ॥
मन्दनन्दिनी
पृष्टं स्पष्टमाह ॥ निर्जिता इत्यादिना । युधि युद्धेऽनेन भगवतोपबृंहितै-रुपोद्बलितैः । अत्र देवानां विष्णुसापेक्षत्वं न दोषः । तस्य सर्वकार्येष्वपि सिद्धत्वात् । एतदभिप्रायेणापि सापेक्षमित्यादिना तात्पर्यं योजनीयम् । परमाचार्यमुत्तमं तक्षम् ॥ ५४ ॥
स निर्ममे पुरस्तिस्रो हैमरोप्यायसीर्विभुः ।
दुर्लक्ष्यापायसंयोगा दुर्वितर्क्यपरिच्छदाः ॥ ५५ ॥
पदरत्नावली
मयेन त्रिपुरनिर्माणकर्म विपरीतं कृतमित्याह– स निर्मम इति ॥ स तिस्रः । दुर्लक्ष्यो दुर्ज्ञेयो अपायसंयोगो नाशसम्बन्धो ऽन्तःप्रवेशसम्बन्धो यासां तास्तथा । अत एवादृश्य-बहुतरायुधादिपरिकराः ॥ ५५ ॥
सत्यधर्मीया
स मयः । हैमी च रौप्यी च आयसी चेति हैमरूप्यायस्यः । तास्तिस्रः पुरो निर्ममे । त्रिपुरं पुरुषव्याघ्रमहद्वायुसमीरितम् । ‘‘प्रकारेण प्रवृद्धेन काञ्चनेन विराजता । मणिभिश्च प्रकाशद्भिः सर्वरत्नैश्च तोरणैः । वाजिनः पक्षसंयुक्ता वहन्ति बलदर्पिता’’ इत्यादिना हरिवंशे शंसितो विशेषोऽप्यवसेयः । दुर्लक्ष्यापायसंयोगा दुर्लक्ष्यो योऽपायस्याप्ययसाधनस्य संयोगः सम्बन्धो यासां ताः । यद्वा अपायश्च विश्लेषश्च संयोगश्च पुनरेकीभवनं चेति अपायसंयोगौ । दुर्लक्ष्यौ अपायसंयोगौ यासां तास्तथा । दुर्वितर्क्यास्तर्कयितुं दुस्साधाः परिच्छदा यानादिपरिकरा यासां ताः । यो विभुः पूर्वं देवोज्जृम्भकस्तस्मिन्निदानीं निर्ममे । मम निर्गतो हि निर्ममस्तस्मिन्देवेषूदासीनतयाऽऽसीन इति यावदिति चान्वयः । अन्यथा पुरां निर्माणं दुश्शकमिति भावः ॥ ५५ ॥
मन्दनन्दिनी
हैमरौप्यायसीः । अत एवोक्तं तैत्तरीयेऽपि । अयस्मय्यवमाथरजताथहरिणीति । दुर्लक्ष्यावपायसंयोगौ यासां ता तत्क्षणादेवागच्छति । अपगच्छति चेति । अगमाविगमौ दुर्लक्ष्या-वित्यर्थः । दुर्वितर्क्या इयन्त इति परिच्छेत्तुमशक्याः परिच्छदा युद्धसामग्रयो यासु ताः ॥ ५५ ॥
ताभिस्तेऽसुरसेनान्यो लोकान् त्रीन् सेश्वरान् नृप ।
स्मरन्तो नाशयांचक्रुः पूर्ववैरमलक्षिताः ॥ ५६ ॥
पदरत्नावली
असुरसेनान्यो ऽसुरसेनानायकाः ॥ ५६ ॥
सत्यधर्मीया
तन्माहात्म्यमाह ॥ ताभिरिति । ताभिः पूर्भिस्तेऽसुरसेनान्यो दैत्यसेनानायकाः । सेना नयन्तीति सेनान्यः । सत्सूद्विषेति क्विप् । एरनेकाच इति यण् । ‘‘सेनानीः स्यात्पुमान्कार्तिकेये सेनापतौ पुमानि’’ति भानुः । पूर्ववैरं स्मरन्तः । सेश्वरांस्त्रीन् लोकान्नाशयाञ्चक्रुः । पदद्वयं परं त्वनन्तरम् । अत एव तं यातयां प्रथममासेत्याद्युक्त्यपभ्रंशतोक्तिरिति ज्ञेयम् । कृन्मेजन्त इति सूत्रभाष्यपर्यालोचनया तथाऽवगतेः । अलक्षिता मयमायामाहात्म्यात् (इदं वाक्यं रवकोशे नास्ति) ॥ ५६ ॥
मन्दनन्दिनी
ताभिः पूर्भिः । असुरसेनान्योऽसुरसेनानायकाः पूर्वं वैरं स्मरन्तः । अलक्षिता अदृश्याः सन्तः । त्रीन् लोकान्नाशयांचक्रुरिति योजना ॥ ५६ ॥
ततस्ते सेश्वरा लोका उपासाद्येश्वरं ततः ।
त्राहि नस्तावकान् देव विनष्टान् त्रिपुरालयैः ॥ ५७ ॥
पदरत्नावली
सेश्वराः सहरयः । अत्रापि विष्णुसहितदेवानां रुद्रापेक्षित्वं न दोषाय । त्रिपुरहननं रुद्रेण कार्यमिति हरिणा क्लृप्तत्वात् । इन्द्रादिभिर्वा ॥ ५७ ॥
सत्यधर्मीया
सेश्वराः सहेन्द्रा जनाः । ततस्तदनन्तरम् । महेश्वरमिति वा विभो इति पाठौ सरलौ । ततस्तत इति न विततः । स्तावकान्स्तोतॄन् । तावकान् गतम् । त्वत्सम्बन्धिनः । त्रिपुरालयै-र्विनष्टांस्तत्प्रायांस्त्राहि त्रायस्व । अथवा मित्रपदनिर्वचनपरे ऋग्भाष्ये मित्वा त्रातीत्युक्तम् । प्रकृत्यन्तर-स्येदं रूपमिति टीका । तद्विवृतौ त्रैङ् पालन इत्यस्य ङित्वादनुदात्तङित आत्मने पदमित्यात्मनेपदे शपोकारे च परत अयादेशे च त्रायत इति रूपेण भवितव्यम् । त्रातीति रूपं तु कथमित्यत आह ॥ प्रकृत्यन्तरस्येति । त्रैङः कर्तरि क्विपि कृते आदेच इत्यात्वे च निष्पन्नात् त्राशब्दात्सर्वप्रातिपदिकेभ्यः क्विब्वाचार इति त्रा इवाचरतीत्यर्थे क्विपि सनाद्यन्ता इति धातुसंज्ञायां तस्मात्तिपि कृते सुब्धातुरूप-प्रकृत्या इतरस्य त्रातीति रूपमिति भावः ।
अत एव प्रक्रियाकौमुदीव्याख्याने प्रसादे कृष्णपण्डितीये च चक्रिंस्त्राहीत्येतद्व्याख्यानावसरे त्रायत इति त्रास्तद्वदाचरति सर्वप्रातिपदिकेभ्यः क्विबाचार इति क्विप् । सनाद्यन्त इति धातुत्वाल्लोण्मध्यमैकवचनं हिरित्युक्तम् । त्रा इवाचरतीत्युक्ते यथा लौकिको रक्षकोऽन्नादिकं दत्वा रक्षति तथा भगवानपि रक्षतीति रक्षकत्वस्य लाभादेवं व्याख्याने रक्षकत्वालाभ इति चोद्यं निरस्तम् । अत एव त्रा रक्षण इत्याकारान्त-धात्वन्तरं परिकल्प्य तस्मात्त्रातीत्यादिरूपमिति ये वदन्ति ते परास्ता भवन्ति । भीमसेनधातुपाठे कविकल्पद्रुमे चानुक्तस्य धात्वन्तरस्य कल्पनाया जघन्यत्वात् । धात्वन्तरस्य टीकाकारासम्मतत्वाच्च । ये शुभ्रा घोरवर्पसः सुक्षत्रास इत्येतद्व्याख्यावसरे क्षं क्षेत्रं तस्मिन्नुपपदे त्रायतेरातोनुपसर्गे क इति वाक्यपर्यालोचनया ज्ञायते । धात्वन्तरस्य सम्मतत्वे हि त्रातेरित्येव ब्रूयान्न तु त्रायतेरिति । त्रायतेः खलु कप्रत्ययः । आदेच उपदेशे शितिप्रत्यये विवक्षित आत्वं कृत्वा कर्तव्य इति गौरवात् । त्रातेस्तु तथा नेति लाघवात् । त्रैङपेक्षया सुब्धातोः प्रकृत्यन्तरत्वेन प्रकृत्यन्तरस्येत्युपपत्तेः । न च वाच्यं त्रा इति धात्वन्तरस्याकल्पनायां मां त्राहीत्यादिप्रयोगानुपपत्तिः । आचारार्थकक्विबन्तस्याकर्मकत्वादिति स्तम्भति कुम्भतीत्यादौ स्तम्भादिवत्तूष्णीम्भावस्यैव तद्वदाचरणत्वेन विवक्षिततया तस्याकर्मकत्वेऽपि त्राहीत्यत्र रक्षणस्यैवाचारार्थक्विबन्तेन विवक्षिततया त्राहीत्यस्य त्रावद्रक्षयेत्यर्थपरत्वेन सकर्मकतया मां त्राहीत्यादि-प्रयोगोपपत्तेः । न हि धातुरेकत्राकर्मक इत्येतावताऽर्थान्तरेऽप्यकर्मको भवति । तथा सति समो गम्यृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिभ्य इत्यत्राकर्मकादिति वर्तत इति काशिकोक्तेर्गम्यादेरकर्मकत्वेन ग्रामं गच्छतीत्यादावकर्मकत्वप्रसङ्गात् । वहन्ति नद्य इत्यत्र वहेः स्यन्दनेऽकर्मकत्वेन वहति भारमित्यत्र प्रापणेऽप्यकर्मकत्वप्रसङ्गाच्च । यदि च तत्र तत्तदर्थविवक्षया सकर्मकत्वाकर्मकत्वव्यवस्था तदा प्रकृतेऽपि तुल्यम् । उक्तं चैतत्पदमञ्जर्याम् । धातोरर्थान्तरे वृत्तिरित्यादिना । तदेतत्सर्वमभिप्रेत्य कृष्णपण्डितीये त्राहीत्येत्सुब्धातुरूपमित्युक्त्वा एवं च मां त्राहि संसारभुजङ्गदष्टं त्राहि नः शरणापन्नानित्यादिप्रयोगो-पपत्तिरित्याद्युक्तेस्त्रा इवाचरति त्राहीत्यत्रापि तदाचरणं च रक्षणादिप्रयुक्तस्य सुखादेर्लोकरक्षकवदभावाद्वा भगवदायत्तरक्षणादिकर्तृत्वेन वा शिवस्येति ज्ञेयम् । मनोरमायामपि चक्रिंस्त्रायस्वेति । यत्तु प्राचा त्राहीत्युक्तं तत्र परस्मैपदमयुक्तम् । त्रायतेर्ङित्वात् । त्रायत इति त्राः । स इवाचरतीत्यर्थे कर्तरि क्विबन्तादाचारक्विपि वा बोध्यमित्युक्तेः । आचारक्विपि वेति । नामधातौ मूलधात्वादेर्ङित्वाद्याश्रित्यानु-दात्तङित इत्यादेः प्रवृत्तिर्नेत्यभिमानः । अत एव त्राहि मां पुण्डरीकाक्षेति सङ्गच्छत इति भाव इति शब्दरत्नोक्तेः ॥ ५७ ॥
मन्दनन्दिनी
सेश्वरा रुद्रसहिता ईश्वरं भगवन्तं नोऽस्मान् तावकांस्त्वद्दासान् त्रिपुरालयैरसुरैः
॥ ५७ ॥
अथानुगृह्य भगवान् मा भैष्टेति सुरान् विभुः ।
शरं धनुषि सन्धाय पुर्यामस्त्रं व्यमुञ्चत ॥ ५८ ॥
पदरत्नावली
विभुः शिवः । मा भैष्टेत्युक्त्वा । पुर्यामित्येकवचनं जात्यपेक्षया ॥ ५८ ॥
सत्यधर्मीया
अनुगृह्यानुग्रहं कृत्वा मा भैष्ठ भयं नावाप्नुत । मा भैष्ठेति पदद्वयम् । इति सुरा-न्प्रत्युक्त्वा मा भैष्ठेत्यनुगृह्येत्यन्वयः । स चानुग्रहो वचनादिरूपो भवतीति नोक्त्वेत्यध्याहार इति वा । पुर्यां प्रातिस्विकतयाऽस्त्रमोचनादेकवचनोपपत्तिर्ज्ञेया । यद्वा अखण्डा पूरेका । तत्र हैमेत्याद्युक्ता अवान्तरा पुर इत्येकवचनं सम्भवीति ॥ ५८ ॥
मन्दनन्दिनी
भगवान्विष्णुः शरं सन्धायास्त्रमभिमन्त्रितं शरं व्यमुञ्चत । अत्र सन्धाय व्यमुञ्चतेति अन्तर्णीतण्यन्तम् । सन्धाय व्यमुञ्चयदित्यर्थः ॥ तथा हि तैत्तरीये ॥ त इष समकुर्वत । अग्निमनीकं सोम शल्यं विष्णु ते जनमिति ॥ ५८ ॥
ततोऽग्निवर्णा इषव उत्पेतुः सूर्यमण्डलात् ।
यथा मयूखसन्दोहा नादृश्यन्त पुरो यतः ॥ ५९ ॥
पदरत्नावली
ततो धनुषः । मयूखसन्दोहा रश्मिराशयः । यतो यैः शरैः । पुरः पुराणि ॥५९॥
सत्यधर्मीया
सूर्यमण्डलान्मयूखसन्दोहाः किरणसङ्घा उत्पतन्ति तथाऽग्निवर्णा बाणा उत्पेतु-र्धनुर्मण्डलात् । यतो बाणसङ्घतः । पुरस्त्रिस्रो नादृश्यन्त । मयूखः करतेजसोरिति विश्वः ॥ ५९ ॥
मन्दनन्दिनी
सूर्यमण्डलाद् यथा मयूखसन्दोहास्तथा ततो धनुष उत्पेतुर्यतो यैः शरैः पुरः पुराणि नादृश्यन्तेति योजना ॥ ५९ ॥
तैः सृष्टा व्यसवः सर्वे निपेतुस्त्रिपुरौकसः ।
तानानीय महायोगैर्मयः कूपरसेऽक्षिपत् ॥ ६० ॥
पदरत्नावली
सृष्टास् तप्ताः । व्यसवो गतप्राणाः । इदं च मयेन कृतं विपरीतमित्याशयवानाह– तानिति ॥ ६० ॥
सत्यधर्मीया
तैर्बाणैस्तान्मृतान् । तदक्रमं वक्तुमुपक्रमते ॥ मय इति ॥ ६० ॥
मन्दनन्दिनी
तैः शरैः स्पृष्टाः सम्बद्धाः । व्यसवो गतप्राणास्तान्व्यसून् कूपरसे कूपे परिपूर्ण-मृतसञ्जीवनरसे ॥ ६० ॥
सिद्धामृतरसस्पृष्टा वज्रसारा महौजसः ।
उत्तस्थुर्मेघदलनाद्१ वैद्युता इव वह्नयः ॥ ६१ ॥
पदरत्नावली
सिद्धामृतरसः मृतसञ्जीवनरसः । तस्मिन् स्पृष्टाः स्नाताः । वैद्युता विद्यु-त्सम्बन्धिनः । चशब्देन जलादिना यथा नाशो नास्ति तथैषामिति सूचयति ॥ ६१ ॥
सत्यधर्मीया
सिद्धामृतरसो मृतसञ्जीवनरसः । मेघदलनान् मेघमण्डलान्तर्भेदं कृत्वा । पटलादिति पाठे समूहादित्यर्थः । वैद्युता विद्युत्सम्बन्धिनो वह्नयो यथा तथोत्तस्थुःः ॥ ६१ ॥
मन्दनन्दिनी
सिद्धामृतरसस्पृष्टा मृतसञ्जीवनरसस्नाता वज्रसारा दृढदेहा वैद्युता इव वह्नयोऽशनयः ॥ ६१ ॥
विलोक्य भग्नसङ्कल्पं विमनस्कं वृषध्वजम् ।
तदाऽयं भगवान् विष्णुस्तत्रोपाय२मकल्पयत् ॥ ६२ ॥
पदरत्नावली
कथं कृष्णेनोपचिता कीर्तिरितीमं प्रश्नं परिहर्तुमाह– विलोक्येति ॥ ६२ ॥
सत्यधर्मीया
यशोनाश ईशस्यात आसीदिति शंसति ॥ भग्नसङ्कल्पमिति । तत्र तद्यशोविषये । तं त्रायत इति तत्रः । स चासावुपायश्च तमिति वा ॥ ६२ ॥
मन्दनन्दिनी
इदमेव मयकृतं विपरीतं कृष्णेन कृतमुपचयं वक्तुमाह ॥ विलोक्येति ॥ विमनस्कमुपायानभिज्ञम् ॥ ६२ ॥
वत्स आसीत् तदा ब्रह्मा स्वयं विष्णुरयं हि गौः ।
प्रविश्य त्रिपुरं काले रसकूपामृतं पपौ ॥ ६३ ॥
तात्पर्यम्
‘सापेक्षं न तु दोषाय यत्र सिद्धमपेक्षितम्’ इति शब्दनिर्णये ॥ ६३ ॥
पदरत्नावली
कोऽसाविति तत्राह– वत्स इति ॥ हिशब्देन विष्णुर्ब्रह्माणमपेक्षत इति न दोषाय तत्संक्लृप्तकारित्वेन सिद्धत्वादिति सूचयति । काले मध्यन्दिने । ग्रन्थान्तरसिद्धत्वात् । हिशब्देन भगव-न्मायायास्तन्मायातोऽपरिमितमाहात्म्यमस्तीति सूचयति ॥ ६३ ॥
सत्यधर्मीया
ब्रह्मणो वत्सत्वेन जातस्यैतत्कार्यसहायत्वेनापेक्षण ईश्वरस्य सापेक्षता या सा च न सम्भवति भगवतः स्वतन्त्रस्येत्यत आह ॥ सापेक्षमिति । सिद्धं प्रमाणतोऽनुत्तमत्त्वेन तदस्वतन्त्रं वस्त्वपेक्षितं चेददो न सापेक्ष्यं दोषायास्वातन्त्र्यादिदोषाय भवतीत्यर्थ इत्याहुः ॥ ततश्चायं मूलार्थः ॥ विना तदमृतरसशोषणं तत्प्रमोष एतत्तोषश्च न भविष्यत इति तद्यत्नमचरद्रमेश इत्याह ॥ वत्स इति । अयं विष्णुः स्वयं गौः सुरभिरभवत् । ब्रह्मा वत्स आसीत् । यद्यपि विना वत्सं गवैवैकलया पातुं शक्यं तथाप्यन्तरङ्गत्वाद्भवस्य तदुद्भवत्वात्१ तात्कालिकेन तर्णकेन सहागतेरपि तन्मोहनाङ्गत्वाच्च । गोः सर्वैः सर्वथाऽञ्चनीयत्वेन निवारणं न भवेदिति च तथागमनमिति मन्तव्यम् । त्रिपुरम् । ऋक्पुरब्धू-रित्यप्रत्ययान्तः शब्दः । काले मध्यान्हे । रसकूपामृतं रसकूपे सदमृतं पपौ पीतवान् ॥ ६३ ॥
मन्दनन्दिनी
अयं विष्णुः स्वयं गौरिति योजना । काले मध्यन्दिने ॥ ६३ ॥
तेऽसुरा ह्यपि पश्यन्तो न न्यषेधन् विमोहिताः ।
तद् विज्ञाय महायोगी रसपालानिदं जगौ ।
स्मयन् विशोकः शोकार्तान् स्मरन् दैवगतिं च ताम् ॥ ६४ ॥
पदरत्नावली
स्वकृतापराधप्रहाणाय स्वस्य भगवद्भक्तिप्रकटनाय च मयस्तद्विषयज्ञानं च ममास्तीत्यभिप्रायेणाह– तदिति ॥ तद् दैत्यवधोपायकरणम् । कञ्चित् कालमसुराणां जयदायिनीम् इदानीं देवानाम् इति दैवगतिम् ॥ ६४ ॥
सत्यधर्मीया
किं तदावका वा दौवारिका वा कुतो न न्यवारयन्न च तत्र तदस्थापनं युक्तिमत् । लोकोत्तरत्वाद्रसस्येत्यवश्यमव्यत्वाद्रसपालानिदं जगावित्युत्तरत्र वक्ष्यमाणत्वादित्यतो मयमायातो हरिमाया महतीत्थमभूदित्याह ॥ त इति । तेऽसुराः पश्यन्तोऽपि विमोहिताः सन्तो न न्यषेधन् । न पिबेति न घटाच्चक्रुः । तद् दानवहानिहेतुहरिव्यापारं विज्ञाय ज्ञात्वा । ज्ञानासाम्भवित्यं मयस्यावमानयति ॥ महायोगीति । तां दैवगतिं दैवविपर्यासं हरिव्यापारं वा स्मरन्नत एव स्वयं विशोकः शोकरहितः । उभयत्रापि स्मरन्नितिपाठे विमोहिता इति स्मरन् इत्यन्वयेन न वैयर्थ्यं स्मरन्नित्यस्य द्वितीयस्येति ज्ञेयम् । ज्ञानहीनत्वेन शोकार्तान् रसपालानिदं वक्ष्यमाणं जगावूचे ॥ ६४ ॥
मन्दनन्दिनी
भगवता विमोहिताः पश्यन्तोऽप्यसुरा न न्यषेधन् । महायोगी मयः । इदं वक्ष्यमाणम् ॥ तदेवाह ॥ स्मरन्निति ॥ शोकार्तानसुरान्स्मरन् पूर्वमसुराणां जयदायिनीमिदानीं विपरीतां दैवगतिम् ॥ ६४ ॥
देवोऽसुरो नरोऽन्यो वा नेश्वरोऽस्तीह कश्चन ।
आत्मनोऽन्यस्य वा दिष्टं दैवेनापोहितुं द्वयोः ॥ ६५ ॥
तात्पर्यम्
विष्णुनाऽऽदिष्टं व्यपोहितुं देवोऽसुरोऽन्यो वा न समर्थः ॥ ६५ ॥
॥ इति श्रीमद्भागवते सप्तमतात्पर्ये दशमोऽध्यायः ॥
पदरत्नावली
किं जगाविति तत्राह– देव इति ॥ आत्मनः स्वस्य अन्यस्य देवदत्तस्य चेति द्वयोर् दैवेन विष्णुना दिष्टं क्लृप्तम् आपोहितुम् अन्यथाकर्तुम् । इह जीवराशौ देवोऽसुरोऽन्यो वा कश्चन ईश्वर समर्थो नास्तीत्यतस्तूष्णीम्भाव एव वरीयानित्यर्थः ॥ १४ ॥
सत्यधर्मीया
दिष्टं दैवम् । दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिरित्यभिधानम् । दैवेन व्यपोहितुं तिरस्कर्तुं कः समर्थ इत्यन्वयार्थभ्रमं भ्रंशयति ॥ विष्णुनेति । दैवेनेत्यर्थो विष्णुनेति । आदिष्टमाज्ञप्तम् । क्लृप्तमिति यावत् । देवोऽसुरो नरो मानवो अन्यो वा रक्षआदिर्व्यपोहितुमन्यथयितुम् । ईश्वर इत्यस्यार्थः समर्थ इति । न समर्थ इत्यर्थः ॥ ततश्चायं मूलार्थः ॥ इह जीवकोटावात्मनः स्वस्यान्यस्येतरस्येति द्वयोर्दैवेन तदुपबर्हकेण हरिणाऽऽदिष्टं क्लृप्तमपोहितुं देवोऽसुरोऽन्यो वा कश्चन नेश्वरो न समर्थः । स्वस्य महायोगित्वाद्विष्णुरयं गोरूपीति ज्ञानित्वेऽपि रसपालादीन्प्रति लौकिकाः सदैव दैवोपरि निहितनैर्भर्या इति बहिरेवमुक्तिरिति मन्तव्यम् । कार्यमतीतं ममोपायोऽपायापयापने नास्तीति जगाविति तात्पर्यम् ॥ ६५ ॥
मन्दनन्दिनी
दैवेन विष्णुना दिष्टं प्रापितं फलं स्वस्य वाऽन्यस्य वेति द्वयोरपि व्यपोहितुं निराकर्तुं देवोऽसुरो नरोऽन्यो वा यक्षादिः कश्चन कोऽपि नेश्वरो न समर्थ इति योजना ॥ अत्र तात्पर्यम् ॥ विष्णुनेत्यादि ॥ ६५ ॥
अथासौ शक्तिभिः स्वाभिः शम्भोः प्राधनिकं१ व्यधात् ।
धर्मज्ञानविरक्त्यादितपोविद्याक्रियादिभिः ॥ ६६ ॥
पदरत्नावली
ननु सिद्धरसपानं व्यर्थमिव प्रतिभाति त्रिपुराणामनाशादित्याशङ्क्य तन्नाश-साधनमाह– अथेति ॥ अथ दैत्यजीवनसाधनरसनाशानन्तरं स्वाभिः शक्तिभिर् भूम्यादिभिः शम्भोः प्राधानिकं युद्धसाधनं रथादिकं व्यधादित्यन्वयः । धर्मादिबलोपेतत्वादभेद्याभिः ॥ ६६ ॥
सत्यधर्मीया
सौरभेय्या रसास्वादनेन रसनामात्रं मधुरिपुणा मधुरीकृतं न नेशुस्तानि पुराणीव नेशोऽपि यश आपेत्यत आह ॥ अथेति । अथामृतरसपानानन्तरमसौ श्रीहरिः स्वाभिः स्वाधीनाभिः शक्तिभिः । शम्भो रुद्रस्य प्राधनिकं प्रधनं युद्धम् । ‘‘प्रधनं दारुणे रण’’ इति विश्वः । प्रधने भवं प्राधनिकमध्यात्मादि ठञ् । प्राधानिकमितिपाठे अनुशतिकादीनां चेति उभयपदवृद्धिः । आयोधनसाधन-मायुधादिकं व्यधाद् व्यधत्त । ताः शक्तयः किंरूपा इत्यतो वक्ति ॥ धर्मेति । विरक्तिरादिर्यस्य तपसस्तद्विरक्त्यादि तच्च तत्तपश्च विद्या च क्रिया च ता आदयो यासां तास्ताभिस्तपसो विरक्तिकारण-कस्योक्तावर्थाद्विरक्तिरप्युक्तेति न तदनुक्तिर्न्यूनतेति ज्ञातव्यम् । विरक्तिशब्दस्यावृत्तिमाश्रित्य विरक्तिश्च तदादितपश्चेति वा ॥ ६६ ॥
मन्दनन्दिनी
रसपानानन्तरं भगवत्कृतमाह ॥ अथेति ॥ असौ भगवान् रुद्रकृतैर्धर्मादि-भिस्तज्जनितपुण्यैरुपोद्बलिताभिः शक्यन्त इति शक्तिभिः रथधनुरादिभूमिमेर्वादिभिः शम्भोः प्राधानिकं युद्धसाधनं व्यधादिति योजना ॥ ६६ ॥
रथं सूतं ध्वजं वाहं धनुर्वर्म शरादि यत् ।
सन्नद्धो रथमास्थाय सशरं धनुराददे ॥ ६७ ॥
पदरत्नावली
किं तत् प्राधानिकमिति तदाह– रथमिति ॥ ६७ ॥
सत्यधर्मीया
प्राधनिकं किमाकारमित्यत ईरयति ॥ रथमिति । ‘‘ते यूयं मे रथं चैव धनुर्बाणं तथैव च । पश्यध्वं यावदद्यैतान्पातयामि महीतले । मूर्तीः सर्वाः समाधाय त्रैलोक्यस्य ततस्ततः । रथं ते कल्पयिष्याम’’ इत्यारभ्य ‘‘हसन्निवाब्रवीद्देवान्सारथिः को भविष्यति । तमब्रुवन्देवगणा यं भवान्स-न्नियोक्ष्यति । स भविष्यति देवेश सारथिस्ते न संशयः । तानब्रवीत्पुनर्देवो मत्तः श्रेष्ठतरो हि यः । तं सारथिं कुरुध्वं मे स्वयं सञ्चिन्त्य माचिरम् । गत्वा पितामहं देवा इत्यादिगर्भीकृत्य तत्रापि ततः स भगवान्देवो लोकस्रष्टा पितामहः । सारथ्ये कल्पितो देवैः’’ इत्याद्यपि गर्भीकृत्य ततो नारायणस्तस्मा-च्छरभागाद्विनिस्सृता इत्यादिना तद्धननादिकं चोक्त्वा ‘‘यथैव भगवान्ब्रह्मा लोकधाता पितामहः । सारथ्यमकरोत्तत्र रुद्रस्य परमोऽव्ययः । तथा भवानपि क्षिप्रं रुद्रस्येव पितामहः । संयच्छतु हयानस्य राधेयस्य महात्मन’’ इति दुर्योधनेन शल्यं प्रति समीरिता कथा कर्णपर्वगता सर्वसाधनस्वरूपनिरूपण-पराऽनुसन्धेया । यत्तद्विधादित्यनेनान्वयः । सशरमारोपणाय बाणसहितम् । सः शरमिति वा ॥ ६७ ॥
मन्दनन्दिनी
प्राधानिकमित्येतद्विवृणोति ॥ रथमिति । यत्तु भगवता क्लृप्तं तेन संनद्धो रथमास्थाय सशरं धनुरादद इति योजना ॥ ६७ ॥
शरं धनुषि सन्धाय मुहूर्तेऽभिजितीश्वरः ।
भगवत्तेजसा गुप्तो ददाह त्रिपुरं नृप ॥ ६८ ॥
पदरत्नावली
भगवतो हरेस्तेजसा गुप्तो रक्षितः ॥ ६८ ॥
सत्यधर्मीया
अभिजिति तन्नामके मुहूर्ते । भगवत्तेजसा भगवत्सामर्थ्येन गुप्तो रक्षितः । शरं धनुषि सन्धाय मुक्त्वा चेति पूरणीयम् । त्रिपुरं ददाह । त्रयाणामपि पुराणामेकीभावस्य ‘‘पुराणि तानि कालेन जग्मुरेवैकतां तदा’’ इत्यादिनोक्तेस्त्रिपुरमित्युक्तिः सम्भवति ॥ ६८ ॥
मन्दनन्दिनी
भगवत्तेजसा गुप्तस्तात्कालिकभगवदावेशविशेषेण गुप्तः ॥ ६८ ॥
दिवि दुन्दुभयो नेदुर्विमानशतसङ्कुले ।
देवर्षिपितृसिद्धेशा जयेति कुसुमोत्करैः ।
अवाकिरन् जगुर्हृष्टा ननृतुश्चाप्सरो गणाः ॥ ६९ ॥
पदरत्नावली
यशोविततिप्रकारमाह– दिवीति ॥ जयेत्युक्त्वा जगुरित्यनेन यशोविततिर्ज्ञायते
॥ ६९ ॥
सत्यधर्मीया
कीर्तिपूर्तिप्रकारमाह ॥ दिवीति । विमानशतसङ्कुलाः । विमानानां शता-न्यनेकानि सङ्कुलानि व्याप्तानि येषां ते । देवर्षिपितृसिद्धेशा देवा वासवाद्या ऋषयो बृहस्पत्याद्याः१ । देवर्षिर्नारदश्चेति वा । पितरोऽर्यमाद्याः । सिद्धेशा देवयोनिभूतनाथाः । जयेति जगुः । अनन्तरं पुष्पैरवाकिरन् । अप्सरोगणा ननृतुः । हृष्टा इति सर्वान्वयि ॥ ६९ ॥
मन्दनन्दिनी
विमानशतसङ्कुले अन्तरिक्षे स्थिता इति शेषः ॥ ६९ ॥
एवं दग्ध्वा पुरस्तिस्रो भगवान् पुरहा नृप ।
ब्रह्मादिभिः स्तूयमानः स्वधाम प्रत्यपद्यत ॥ ७० ॥
पदरत्नावली
ब्रह्मादिभिर् ब्रह्मोत्पन्नैः सनकादिभिः ‘इमा रुद्राय स्थिरधन्विने गिरः क्षिप्रेषवे’ इत्यादिवेदवाक्यैर्वा ॥ ७० ॥
सत्यधर्मीया
भगवान्पुरहा गतम् । ब्रह्मादिभिर्वनजभवस्यापि पुत्रस्तवनं युक्तम् । सारथ्य-करणादिति सारांशः । गुरुणा श्लाघिताः । ओलमान इत्यृग्भाष्यटीकयोरनिन्दन्नस्मान्नरमात्रबुद्ध्या सम्बोधयेहास्मासु ओलमानोऽवज्ञामकुर्वन् । नरमात्रमिति बुद्ध्याऽस्मान्ननिन्दन् बोधि बोधय । हे शुनःशेप श्रान्तोऽसीत्युक्तेश्च । यद्वाऽतद्गुणसंविज्ञानबहुव्रीहिः । स्वधाम कैलासं स्वधाम पूर्ववत्स्वतेजश्च । विमनस्कमित्याद्युक्तेरादौ प्रत्यपद्यत प्राप ॥ ७० ॥
मन्दनन्दिनी
पुरहा त्रिपुरसंहर्ता । ब्रह्मादिभिः सनकादिभिः । तद्गुणसंविज्ञानो वा सम्भवति । ब्रह्मणाऽपि समर्थ इति स्तुतिसम्भवात् ॥ ७० ॥
एवंविधान्यस्य हरेः स्वमायया विडम्बमानस्य नृलोकमात्मनः ।
वीर्याणि गीतान्यृषिभिर्जगद्गुरोर्लोकान् पुनानान्यपरं वदामि किम् ॥ ७१ ॥
॥ इति श्रीमद्भागवते सप्तमस्कन्धे दशमोऽध्यायः ॥
पदरत्नावली
शम्भोः पुरदहनमाहात्म्यं यत् तत् श्रीनारायणैकनिष्ठमित्याशयेनोपसंहरति– एवंविधानीति ॥ अपरं भगवच्चरितम्, तद् वदेति शेषः । अनरम् अन्यद् वस्तु एवंविधमाहात्म्योपेतं किं वदामि । न किमपीति वा ॥ ७१ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
सप्तमस्कन्धे दशमोऽध्यायः ॥
सत्यधर्मीया
शतमप्यन्धानां न पश्यतीतिवच्छर्वस्य सर्वसुपर्वसाहिती साहितनिहतावनुकूलेऽपि तदनुकूल एव हेतुर्नान्यथेति तव तन्मातुलेयकतादिभाग्यमहो इति तत्स्तवनेनोपसंहरति ॥ एवमिति । एवमुक्तरूपाणि विधा प्रकार एषां तानि वीर्याणि स्वमायया स्वेच्छयैव । नृलोकं विडम्बमानस्यानु-कुर्वतः । अस्येति प्रिय इत्यादिप्रोक्तस्मारणार्थम् । जगद्गुरोस्तारकोपदेशेन लोकतारकत्वान्मारमारकस्य । जगदीशितुरित्युपक्रमस्वारस्यात् । अत्मनः स्वामिनः कीर्तिदानाज्जगद्गुरोरात्मनो हरेरस्येति सामानाधि-करण्यं वा । ऋषिभिरित्यृषिबहुवचनाभ्यां बहूनां बहुज्ञानामेतद्गानाविगानसूचनेन विश्वविश्वसनीयतामस्या-चष्टे । लोकान्स्वगानकतॄन्पुनानानि पवित्रयन्ति । अपरं किं वदामि पृच्छेति । एतदितरत्किं वदामि न वदामि । तदेव सारं तदु हैव मङ्गलमित्यादेरिति वा ॥ ७१ ॥
॥ इति श्रीसत्यधर्मतीर्थकृतायां श्रीमद्भागवतविवृतौ
सप्तमे दशमोऽध्यायः ॥
मन्दनन्दिनी
यशो व्यतनोदित्येतदुपसंहरति ॥ एवमिति ॥ स्वमायया स्वशक्त्यैव नृलोकं विडम्बमानस्य स्वेन स्वकीयैश्च सज्जनरक्षणदुर्जनशिक्षणलक्षणव्यापारं कुर्वतः । एवं विधानि वीर्याणि लोकान्पुनन्ति पवित्रयन्ति ऋषिर्भिर्गीतानि । अपरमन्यत्किं वदामि । वीर्याणामनन्तत्वाद्वक्तुमशक्त इति भावः ॥ ७१ ॥
॥ इति श्रीभागवतटिप्पण्यां व्यासतत्वज्ञकृतायां मन्दनन्दिन्यां
सप्तमस्कन्धे दशमोऽध्यायः ॥