एवं सुरादयः सर्वे ब्रह्मरुद्रपुरस्सराः
॥ अथ नवमोऽध्यायः ॥
नारद उवाच–
एवं सुरादयः सर्वे ब्रह्मरुद्रपुरस्सराः ।
नोपेतुमशकन् मन्युसङ्ग्रहं सुदुरासदम् ॥ १ ॥
पदरत्नावली
अत्रापि भक्तमाहात्म्यमेव प्रकटयति । ब्रह्मादिदेवतास्तुत्यनन्तरं कथं कथाप्रसङ्ग इति श्रोतुरान्तरीं शङ्कां परिहर्तुमाह– एवमिति ॥ एवं स्तुवन्तोऽपि उपेतुं समीपं गन्तुम् । मन्युसंग्रहं कोपसारभूतम् । मन अवबोधने इति धातुः । ज्ञानसारम् । प्रत्ययसारमिति श्रुतेः । ज्ञानिविवक्षयैतत् । ननु तर्हि कथं समीपं गन्तुं नाशकन्नित्युच्यत इति चेदज्ञेयत्वज्ञापनायेति तात्पर्यम् । ‘न तत्र चक्षुर्गच्छति न वाग् गच्छति । तेभ्यो ह प्रादुर्बभूव तन्न व्यजानन्त’ इत्यादिश्रुतेः । एतदेव दर्शयति– सुदुरासद-मिति ॥ सुखेन विषयीकर्तुमशक्यम् ॥ १ ॥
सत्यधर्मीया
उग्रोऽप्यनुग्र एवायं स्वभक्तानां नृकेसरी । केसरीव स्वपोतानामन्येषामुग्रविग्रह इत्याद्यागमावगमितां भक्तवत्सलतां निरूपयितुं तत्कालप्रदर्शितकोपोपशमोपायं रमातामरससम्भव-भवादीनां हर्यांतरज्ञतया कृतां काञ्चन प्रह्लादपुरस्कृतिकृतिं निरूपयत्यस्मिन्नध्याये । तत्र सर्वे तत्र-सुरित्युक्तमुत्तरत्र का कथा प्रवृत्तेति धर्मसंशयं शमयितुं शंसति नारद इत्याह ॥ एवमिति । ब्रह्मरुद्र-पुरःसरा ब्रह्मरुद्रावेव पुरःसरौ अग्रगौ मुख्याविति यावत् । योग्यतयैतस्य सुरादय इत्येकदेशसुर-पदार्थेऽन्वयः । ब्रह्मरुद्रपुरःसरा सुरा एवादयो येषामृष्यादीनां ते तथेति वाक्यसम्पत्तिर्ज्ञेया । न चैतददृष्टचरम् । यथार्था युक्तय इत्यत्र प्रकृतिप्रत्यययोर्मध्ये आदिपदेन सह युक्त्यादय इति पदनिष्पत्ति-वदुपपत्तेः । इदानीं दानवसूनुं पुरस्कृत्य प्रदर्शितकोपोपशमं कुर्यां नान्यथेति हरिमानसभावगर्भवेदिनो वेदगर्भादयो नोपेतुमशकन्नित्यप्याह । सुरादय इति ॥ सुरेषु न विद्यते दया यस्य स तथा । अत एवासुरपुरस्कृतिरिति ज्ञेयम् । सुरा भगवद्गुणा एवादयो मूलं येषां ते तथा । सुरा हरेर्गुणाः प्रोक्ता इति एकादशतात्पर्योक्तेः । भगवद्गुणानुगुणाचरणा ब्रह्मरुद्रपुरःसरा ब्रह्मरुद्रविष्णुपार्षदान्ता इति वा । नोपेतुं समीपं गन्तुं नाशकन्न शक्ता बभूवुः । तत्र हेतुर्मन्युसंग्रहं सुदुरासदमिति । मन्युं कोपं सङ्गृह्णातीति स तथा । अनेन नेतरवत्पारवश्येन कोपसम्पातः श्रीपतेरिति प्रकटितं भवति । अत एव सुदुरासद-मतिदुःखसाध्यप्राप्तिम् । यद्वा तत्स्वभावमावेदयति । सुदुरासदमिति । स्वासदं दयोदये । दुरासदं तद्विपर्यय इति सुदुरासदमित्यर्थः ॥ १ ॥
मन्दनन्दिनी
प्रह्लादस्य भक्तेषु प्रसिद्धतालाभाय नृसिंहावतारे प्रह्लादे कृतवात्सल्यं दर्शयत्यस्मिन्नध्याये ॥ एवमिति । एवं सुरादयः सर्वे ब्रह्मरुद्रपुरःसरा ब्रह्मरुद्रौ पुरःसरौ श्रेष्ठौ येषां ते सुरादयः । आदिपदेन ऋष्यादयः । अत्र भक्तसमुदायेऽसुराणां मुख्यत्वम् । तत्रापि ब्रह्मरुद्रयोरिति बुद्ध्या विवेक्तव्यम् । मन्युसङ्ग्रहं कोपप्राकट्यस्वीकर्तारम् । यद्यपि भगवतो देवदत्तादेरिव न ज्वलनात्मकः कोपः । तथाऽपि शत्र्वपकारहेतुत्वाल्लोकविभीषणचेष्टाहेतुव्यापारविशेषः कोप इत्युच्यते । स च ज्ञानानन्दात्मक इति मन्तव्यम् । उपेतुं समीपं गन्तुं नाशकन्न शक्ताः । लृदित्वादङ् ॥ १ ॥
साक्षाच्छ्रीः प्रेषिता देवैर्दृष्ट्वा तन्महदद्भुतम् ।
अदृष्टाश्रुतपूर्वत्वात् सा नोपेयाय शङ्किता ॥ २ ॥
तात्पर्यम्
‘अदृष्टाश्रुतपूर्वत्वादन्यैः साधारणैर्जनैः । नृसिंहं शङ्कितेव श्रीर्लोकमोहाय नो ययौ । प्रह्लादे चैव वात्सल्यदर्शनाय हरेरपि । ज्ञात्वा मनस्तथा ब्रह्मा प्रह्लादं प्रेषयत्तदा । एकत्रैकस्य वात्सल्यं विशेषाद्दर्शयेद्धरिः । अवरस्यापि मोहाय क्रमेणैवापि वत्सलः’ ॥ इति ब्रह्माण्डे ॥ २ ॥
पदरत्नावली
एतदेव विवृणोति– साक्षादिति ॥ सरस्वत्यादिव्यावृत्यर्थं साक्षादिति । अदृष्टा-श्रुतपूर्वत्वात्, अन्यैः साधारणैर्जनैरिति शेषः । ‘द्वावेतौ नित्यमुक्तौ’ इत्यादेः । तर्हि नोपेयाय शङ्किता इत्येतत् कथं घटत इति चेत् ‘मयाऽपीश्वरः परिच्छेद्यो न भवति । किमन्यैः’ इति ज्ञापनाय असुर-मोहनायेति वा । ‘अदृष्टाश्रुतपूर्वत्वादन्यैः साधारणैर्जनैः । नृसिंहं शङ्कितेव श्रीर्लोकमोहाय नो ययौ ॥’ इति वाक्यसिद्धम् ॥ २ ॥
सत्यधर्मीया
साक्षाच्छ्रीः प्रेषिता देवैरित्याद्यपद्येषु द्वावेतौ नित्ययुक्तौ नित्यमुक्तावित्यादे रमयाऽदृष्टाश्रुतपूर्वत्वोक्तिः कथं रूपस्य दर्शनेन तथा भीतताप्रोक्तिः प्रह्लादस्य निर्भयतयोपगमनोक्तिश्च ब्रह्मणोऽपि प्रातिस्विकतया कादाचित्कनारसिंहत्रैविक्रमादिविक्रान्त्याद्युपासनायोग्यस्य तदुपासनागमना-द्युक्तिश्च, गुणास्त्रैविक्रमाद्याश्च संहर्तव्या न संशयः । विरिञ्चस्यैव नान्येषामित्यादिमानबाधितेत्यतो मानेनाभिमतार्थमाह ॥ अदृष्टेति । अन्यैरितरैः साधारणैर्जनैः । एतेन मूले मानानुसारेणाध्याहारः कर्तव्य इति सूचयति । पूर्वमदृष्टमश्रुतं चेति तत्तथा । तस्य भावस्तस्मात् । अद्भुताकारस्येति शेषः । ते साधारणजना यथा शङ्कन्ते तथा न तु वस्तुतः शङ्का रमाया इति द्योतयितुमिवेत्युक्तम् । किं कृत्यं नित्यमुक्ताया आरोपित शङ्कयेत्यत आह ॥ लोकमोहायेति ॥ नृसिंहं नो ययौ समीपं पत्युर्नोपयाता । न त्वसामर्थ्येनेत्यर्थः । हरेः प्रह्लादस्यैव । प्रह्लादे वात्सल्यदर्शनाय प्रीत्यतिशयप्रकटनायापि । इद-मुभयान्वयि । हरेः प्रल्हादे एवेदानीं वात्सल्यमिति दर्शनाय । हरेर्मन इदानीमेतन्मुखेन मम कोपशान्तिर्भवत्विति मनो ज्ञात्वा तथा रमावच्छङ्कित इव ब्रह्मा संस्तदा । प्रल्हादं प्रेषयदप्रेषयत् । प्रल्हाद इति क्वाचित्कः पाठः प्रल्हाददः । ज्ञात्वा च ज्ञात्वैवेत्यर्थः । हरेरिति योग्यसर्वान्वयि ।
ननु सत्सु सत्सु रमातामरससम्भवभवादिषु प्रल्हादस्य तदपसदस्य पुरस्करणं मुरहरस्य न युक्तम् । सर्वथाऽयुक्तकरणस्य सर्वज्ञेऽनुपपत्तेरित्यत आह ॥ एकत्रेति । एकत्रैकस्मिन्काले हरिरेकस्यैकस्मिन् । अवरस्याप्यधमेऽपि विशेषात् तदुत्तमापेक्षयाधिक्याद् वात्सल्यं दर्शयेत् । किं नटनफलमित्यत आह ॥ मोहायेति ॥ अवरस्येत्यनुवर्तते । तच्च जात्येकवचनम् । अवराणां मोहाय मोहार्थम् । अन्यथा तद्गम्यगतेर्निरधिकारिकत्वप्राप्तेरिति भावः । सर्वदा तु कथं कदाचिदेवं चेद्देववृत्तिरित्यत आह ॥ क्रमेणेति । तारतम्यक्रमेण वत्सलः प्रीतिकर्ता सन्नपि कदाचित्तद्यशस इत्थं करोतीश्वर इति भावः ॥ ततश्चायं पद्यार्थः ॥ देवैश्चतुराननेतरैः । तस्य ‘‘ज्ञात्वा मनस्तथा ब्रह्मा प्रल्हादं प्रेषयत्तदा’’ इति एतत्तात्पर्यपर्यालोचनया ‘‘न भारती मेऽङ्ग मृषोपलक्ष्यते’’ इत्यादिना च देवदेव्यनुसारिकामावगतेः । या श्रीः प्रेषिता तन्महदद्भुतमत्याश्चर्यचर्यं रूपं दृष्ट्वा । महतामप्यद्भुतमिति वा । ताश्चेन्द्रधर्म-नासत्यश्रयणाच्छ्रिय ईरिता इति श्रीशब्दोऽन्यत्रापि वर्तत इति तद्व्यावृत्त्यै साक्षादिति । लक्ष्मीत्यनुदाहर-न्नुदाहरन् श्रीरिति नित्यमुरोगाऽपि सरोजालया शङ्कितेवेति हरेर्महामाहात्म्यं ध्वनयामासेति ज्ञेयम् । वक्षःस्थलाश्रिता श्रीरिति सम्प्रदायविद इति तत्त्वप्रकाशिकोक्तेः । अदृष्टाश्रुतपूर्वत्वात् । पूर्वमदृष्टमश्रुतं चादृष्टाश्रुतपूर्वम् । तस्य भावस्तत्त्वं तस्मात् । इतरैः साधारणजनैरिति शेषः । सा शङ्किता शङ्कितेव नोपेयाय न समीपमुपगता ॥ २ ॥
मन्दनन्दिनी
उपेतुमशकैर्देवैः प्रार्थिता श्रीरागतेत्याह ॥ साक्षादिति । साक्षान्मुख्या श्रीर्महा-लक्ष्मीर्देवैः प्रेषिता प्रार्थनया प्रेरिता तन्महदद्भुतं नृसिंहरूपं दृष्ट्वा । साधारणजनानामदृष्टाद्भुतपूर्वत्वाद् भयशङ्कायामपि स्वस्या अपि भयमिति लोकमोहाय प्रह्लादे वात्सल्यप्रदर्शनाय च स्वयं शङ्कितेव सा लक्ष्मीर्नोपेयायेति योजना ॥ २ ॥
प्रह्लादं प्रेषयामास ब्रह्माऽवस्थितमन्तिके ।
तात प्रशमयोपेहि स्वपित्रे कुपितं प्रभुम् ॥ ३ ॥
पदरत्नावली
ममेदानीं प्रह्लादे वात्सल्यातिशयोऽस्ति । भक्तानां मत्सेवातिशयफलाधिकार्थमिति भगवन्मनोज्ञापनाय ब्रह्मणा प्रह्लादः प्रेषित इत्याशयेनाह– प्रह्लादमिति ॥ अयमपि लक्ष्मीकान्तसमीपा-गमनहेतुः । अन्यथा प्रह्लादे वात्सल्यातिशयो न प्रकटितः स्यात् । तदुक्तम्– ‘प्रह्लादे चैव वात्सल्यं दर्शनाय हरेरपि । ज्ञात्वा मनस्तदा ब्रह्मा प्रह्लादं प्रेषयत् तदा ॥’ इति । प्रकृष्टो ह्लादः निर्वृतिर् यस्य स तथा इत्यनेन प्रह्लादशब्दनिरुक्तिः सूचिता । लक्ष्म्यादिवत्सलतां हित्वा प्रह्लादे तत्करणात् हरेर्वैषम्य-बुर्द्धिर्नाशङ्कनीया । असुरजनमोहनार्थोपपत्तेः । उक्तं च– ‘एकत्रैकस्य वात्सल्यं विशेषाद्दर्शयेत् हरिः । अवरस्यापि मोहाय क्रमेणैवापि वत्सलः ॥’ इति । भक्त्यादिदानं नैव करोति । किन्तु वात्सल्यानु-सारेणेत्यभिप्रायेण दर्शितम् । ‘क्रमेणैवापि वत्सलः’ इत्युक्तम् उपेहि उपेत्य ॥ ३ ॥
सत्यधर्मीया
नरहरेरान्तरवेदिता वेधास्तत्कालोचितमालोच्यालपदित्यालपति ॥ प्रल्हादमिति । ब्रह्मांऽतिके स्वसमीपेऽवस्थितं प्रल्हादम् । हे तात । स्वपित्रे हिरण्यकशिपवे कुपितम् । दुर्बलकोपो दंष्ट्राविलयमूलः किं नेत्याह ॥ प्रभुमिति । यस्मै कस्मैचन कुपितस्य मया किमिति समाधिर्विधेय इत्यतः स्वपित्र इत्युक्तम् । उपेहि उपगच्छ । शमयेत्युदीर्येति शेषः । प्रेषयामास प्रेषितवान् ॥ ३ ॥
मन्दनन्दिनी
अनन्तरं भगवतो लक्ष्म्याश्च मनो ज्ञात्वा प्रह्लादं प्रेषयामास ब्रह्मेत्याह ॥ प्रह्लादमिति । हे तात वत्स । त्वदर्थमेव स्वपित्रे कुपितं प्रभुं नृसिंहम् । उपेहि । उपेत्य च कोपं प्रशमये-त्युक्त्वा ब्रह्माऽन्तिकेऽवस्थितं प्रह्लादं प्रेषयामासेति योजना । श्लोकद्वयाभिप्रायं मनसि कृत्वा तात्पर्यं प्रवृत्तम् ॥ ‘‘अदृष्टाश्रुतपूर्वत्वादन्यैः साधारणैर्जनैः । नृसिंहं शङ्कितेव श्रीर्लोकमोहाय नो ययौ । प्रह्लादे चैव वात्सल्यदर्शनाय हरेरपि । ज्ञात्वा मनस्तथा ब्रह्मा प्रह्लादं प्रैषयत्तदा । एकत्रैकस्य वात्सल्यं विशेषाद्दर्शयेद्धरिः । अवरस्यापि मोहाय क्रमेणैवापि वत्सल’’ इति ब्रह्माण्डे ॥ अन्यै रमाब्रह्माद्यन्यैः साधारणैर्जनैः । अदृष्टाश्रुतपूर्वत्वात्तेषां भयशङ्काजनकमपि स्वयं लोकमोहाय प्रह्लादे वात्सल्यदर्शनाय च नृसिंहं नो ययावित्यन्वयः । हरेः । अपिशब्दाच्छ्रियो हरिः क्रमेण तारतम्यक्रमेण वत्सलोऽपि । अयमेकाधिको भक्त इति मोहाय । एकत्रावतारेऽवरस्याप्येकस्य विषये विशेषाद्वात्सल्यं दर्शयेदित्यर्थः
॥ ३ ॥
तथेति शनकै राजन् महाभागवतोऽर्भकः ।
उपेत्य भुवि कायेन ननाम विधृताञ्जलिः ॥ ४ ॥
सत्यधर्मीया
तथा तथैवास्त्वहं गच्छामीति विधिमभिधायेति शेषः । शनकैर्मंदम् । महाभाग-वतोऽर्भको बाल उपेत्य विधृताञ्जलिः सम्पुटीकृतकरपुटः । कायेन भुवि ननाम । तमिति शेषः ॥
मन्दनन्दिनी
तथेत्यनन्तरमुक्त्वेति शेषः ॥ ४ ॥
स्वपादमूले पतितं तमर्भकं विलोक्य देवः कृपया परिप्लुतः ।
उत्थाप्य तच्छीर्ष्ण्यदधात् कराम्बुजं कालाहिनिर्दष्टधियां१ कृताभयम् ॥ ५ ॥
पदरत्नावली
नृहरेः प्रह्लादे वात्सल्यातिशयं दर्शयति– स्वपादमूल इति ॥ ब्रह्मादि-कराम्बुजेभ्यो हरेः कराम्बुजं विशिनष्टि– कालाहीति ॥ कालाख्याहिना निर्दष्टा ग्रस्ता धीर् येषां ते तथा तेषाम् ॥ ५ ॥
सत्यधर्मीया
बालो बालिश इति न प्रविचार्यायात इत्यचातुरीं निरीक्ष्य तूष्णीकोऽभूद्धरिः किंवा चकार कोपमथवा यदर्थमियमारभटी सममारायं कुमारः किं कुर्यादित्यनरुणाक्षः सन्करुणा-मङ्कूरयामासेत्यतोऽन्तिमपक्षमन्वाचिनोति ॥ स्वपादेति । स्वस्य पादयोर्मूलेऽधस्तनभागे पतितम् । अथवा पूर्वश्लोके भुवि ननामेत्युक्तेः स्वपादौ मूलं पद्भ्यां भूमिरजायतेत्यादेः कारणं यस्य तदवनितलं तस्मिन्पतितम् । अनेन भक्तिपारवश्यं द्योत्यते । तमर्भकं विलोक्य देवः कृपया परिप्लुतः स्रव-त्कृपारससिक्त इव तमुत्थाप्य तस्य शीर्ष्णि शिरसि कराम्बुजं करसरसिजम् । अधान्न्यधात् । तत्साधारणतामपाकरोति । कालाहिनिर्दष्टधियां कृताभयमिति । कालेनाहिना निर्दष्टानां धीरिव धीर्येषां ते तथा तेषाम् । वित्रस्तधियामिति पाठः सुन्दरः । स्फुटार्थः । कृतमभयं येन तत्तथा । कालरूपाहिना निर्दष्टा ग्रस्ता वित्रस्ता वा धीर्येषामिति ते तथा तेषामिति वा ॥ ५ ॥
मन्दनन्दिनी
आपत्कालाख्येनाहिना । निर्दष्टा ग्रस्ता धीर्येषां ते । आपन्नानां भक्तानामिति यावत् ॥ ५ ॥
स तत्करस्पर्शधुताखिलाशुभः सपद्यभिव्यक्तपरात्मदर्शनः ।
तत्पादपद्मं हृदि निर्वृतो दधौ हृष्यत्तनुः क्लिन्नहृदश्रुलोचनः ॥ ६ ॥
पदरत्नावली
इतरकरस्पर्शवैशिष्ट्यदर्शनायेशकरस्पर्शफलाभिव्यक्तिं वक्ति– स तत्करेति ॥ स भगवत्करस्पर्शविधूतसमस्तपापत्वात् तत्क्षण एव सम्यगङ्कुरितपरमात्मज्ञानः । अभिव्यक्तं परस्य हरेर् आत्मनः संसारिणश्च दर्शनं स्वरूपविषयज्ञानं यस्य स तथेति वा । क्लिन्नहृद् भक्तिलक्षणामृतजलेनार्द्री-कृतान्तःकरणः । अश्रुणा युक्ते लोचने यस्य स तथा ॥ ६ ॥
सत्यधर्मीया
तत्करस्पर्शधुताखिलाशुभस्तस्य करस्पर्शेन धुतं ज्ञानाङ्कुरप्ररोहप्रत्यूहरूपमखिल-मितरापरिहर्तव्यत्वेन दृढमशुभममङ्गलं यस्य स तथा । धुतान्यखिलान्यशुभानि यस्येति वा । सपदि तत्क्षणे । अभिव्यक्तं परमात्मनो भगवतो दर्शनं ज्ञानं यस्य सः । परश्च परमात्मा चात्मा च जीवश्च तयोर्दर्शनं विलक्षणताज्ञानं यस्य स इति वा । पर इत्यात्मेति दर्शनं यस्य स इति वा । पदि भगवत्पादे सव्ये विलोकिते सति । सोऽभिव्यक्तपरात्मदर्शनः । वरिति ज्ञानमुच्यत इत्यादेः । हृदि तत्पादपद्मं दधौ । निर्वृतः सुखितेऽपि चेति रभसः । सुखितो हृष्यन्ती रोमाञ्चिता तनुर्यस्य सः । क्लिन्नं हृदयं यस्य सः । अश्रुलोचनोऽश्रुयुक्ते लोचने नयने यस्य सोऽभूदिति शेषः । उत्तरश्लोकेन वाऽन्वयः । निर्वृत एतदादिः सन् दधाविति वाऽन्वयः । भक्तलक्षणं त्विदमादिकं पूर्वमुक्तमनुस्मर्तव्यम् ॥ ६ ॥
मन्दनन्दिनी
शीर्ष्णि करनिधानफलमाह ॥ स तत्करेति ॥ धुतं निरस्तम् । अभिव्यक्तं परस्य परमात्मनो बिम्बस्यात्मनः स्वस्य प्रतिबिम्बस्य दर्शनं यस्य सः । निर्वृतोऽभिव्यक्तस्वरूपानन्दो हृष्यत्तनुः पुलकिताङ्गः क्लिन्नहृद्भक्त्याऽऽर्द्रान्तःकरणोऽश्रुलोचन आनन्दबाष्पोपेतनयनः ॥ ६ ॥
अस्तौषीद् हरिमेकाग्रमनसा सुसमाहितः ।
प्रेमगद्गदया वाचा तन्न्यस्तहृदयेक्षणः ॥ ७ ॥
पदरत्नावली
तत्वज्ञानमस्योत्पन्नमित्यस्य किं चिह्नमित्यतस्तत्स्तुत्या व्यज्यत इति भावेन दर्शयति– अस्तौषीदिति ॥ ७ ॥
सत्यधर्मीया
भक्तिव्यक्तिफलमालपति ॥ अस्तौषीदिति । असुसमाहितोऽसवः प्राणाः समाहिता येन स तथा । एकाग्रमनसैकं चिन्त्यत्वेनाग्रे पुरतो यस्य तदेकाग्रम् । तच्च तन्मनश्च तेन । अनन्यलक्ष्येणेति यावत् । सुसमाहितः सु वैषयिकसुखं सममहितेन यस्य स तथा । स्वित्यानन्दः समुद्दिष्ट इत्युक्तेः । तन्न्यस्तहृदयेक्षणस्तस्मिन्हरौ न्यस्ते विन्यस्ते हृदयं चेक्षणं च । न्यस्तानि हृदयं चेक्षणे च यस्य स इति वा । प्रेमगद्गदया प्रेम्णा भक्तिविशेषेण स्खलन्ती प्रेमगद्गदा तया तादृश्या वाचा । अस्तौषीत्तुष्टाव ॥ ७ ॥
मन्दनन्दिनी
तन्न्यस्तहृदयेक्षणस्तस्मिन्न्यस्ते हृदयेक्षणे यस्य सः ॥ ७ ॥
प्रह्लाद उवाच–
ब्रह्मादयः सुरगणा मुनयोऽथ सिद्धाः
सत्वैकतानमतयो वचसां प्रवाहैः ।
नान्तं परस्य परतोऽप्यधुनाऽपि यान्ति
किं तोष्टुमर्हति स मे हरिरुग्रजातेः ॥ ८ ॥
पदरत्नावली
सत्वे नित्याविर्भूतबलज्ञानसमाहारे ‘एक एव नान्य’ इति वितानमतिर् विस्तृत-बुद्धिर्येषां ते सत्वैकतानमतयः यद्वा सत्त्वे हरावेव नियतबुद्धयः । अधुना परतः परस्यान्तं नापि नैव यान्ति । स हरिर् उग्रजातेरसुरजातेर् मे तोष्टुं स्तोतुमर्हति किम् इत्यन्वयः । ‘न ते विष्णो’ इति श्रुतेः
॥ ८ ॥
सत्यधर्मीया
मुनयो मन्यन्त इति मुनयो विशिष्टमतयो वशिष्ठाद्याः । ब्रह्मादयः सुरगणा ब्रह्मा विधिरादिर्येषां ते तथा । सुरगणा देवसङ्घा अथानन्तरं सिद्धा अणिमादिसिद्धिमन्तः । अथवैतत्स्तवन एव सन्नद्धा इति सिद्धाः । अथ मङ्गले सिद्धा इत्यथसिद्धाः । पेद्दभट्टोऽप्यथ स्नपयाम्बभूवेत्यत्र मङ्गल-स्नानं कारितवानिति व्याचख्यौ । परतोऽक्षरत्वात् । यस्य परस्योत्तमस्य । सत्त्वैकतानमतयः । सत्त्वेन केवलसत्त्वगुणेनैकतानमनन्यवृत्तिर्मतिर्येषां ते तथा । एकतानोऽनन्यवृत्तिर् इत्यमरः । वचसां प्रवाहैः । स्तुवन्त इति शेषः । तेऽपि तैरपीति वा । अधुनाऽप्यन्तोऽवसितिं न यान्ति । स्तुतिफलं तत्तोषं स्वशक्त्या नापुरिति तात्पर्यम् । स तादृशो हरिरुग्रजातेरुग्रा तामसी जातिरासुरी यस्य तस्य मे मदुपरि । तोष्टुं तोषं प्राप्तुमर्हति योग्यो भवति किम् । न हि भवेदित्यर्थः । उग्रान्मत्तो जातिर्जननं यस्य तस्मात् । मत्येकदेशात् । मे मदुपरीति वा । किं स्तोष्टुमर्हतीति पाठश्चेदस्तौषीद्धरिमेकाग्रेति प्राक्तनश्लोकानुकूल्यं ज्ञेयम् । आर्षः षुक् । न ते विष्णावित्यादेः ॥ ८ ॥
मन्दनन्दिनी
कैमुत्यन्यायेन स्वस्तोत्रयोग्यो भगवान्न भवतीति स्तौति ॥ ब्रह्मादय इति ॥ सत्त्वैकतानमतयः सत्त्वेन स्वाभाविकज्ञानबलसमाहारेण । सत्त्वगुणोद्रेकेण वा । एकताना विस्तृता मतिर्येषां ते । परतोऽपि रमाब्रह्मादेरपि परस्य यस्य सः । उक्तजातेरसुरजातेः । मम स्तोत्रेणेति शेषः । तोष्टुं तोषयितुमर्हति किम् । न ते विष्णो इति श्रुतेरिति योजना ॥ ८ ॥
मन्ये धनाभिजनरूपतपःश्रुतौज
स्तेजःप्रभावबलपौरुषबुद्धियोगाः ।
नाराधनाय हि भवन्ति परस्य पुंसो
भक्त्या तुतोष भगवान् ननु यूथपाय ॥ ९ ॥
पदरत्नावली
भक्त्या ननु भक्त्यैव । यूथपाय गजेन्द्राय । ‘सेनानेतरि नागेन्द्रे यूथनाथः प्रकीर्तितः’ इत्यभिधानाम् । अनेन धनादिकमपि भक्त्युपबृंहितं सफलमित्युक्तं भवति ॥ ९ ॥
सत्यधर्मीया
उग्रजातेः कथं प्रीयेतेश्वर इति न ममावमाननं मया कर्तव्यं जात्यादिकं सर्वं सर्वेश्वरप्रीणनेऽप्रयोजकं तद्योजिका भक्तिरिति सदृष्टान्तमाचष्टे ॥ मन्य इति । धनं द्रविणम् । अभिजनः सत्कुलजननम् । रूपं सुन्दरता । तपः कृच्छ्रचान्द्रायणाद्याचरणम् । आलोचनं वा । श्रुतं श्रवणम् । ओजोऽवष्टभ्भः । तेजो बलम् । प्रभावः शास्त्रशक्तिः । बलं सदाचारस्तीर्थक्षेत्रादिसञ्चरणं वा । पौरुषं पुरुषपराक्रमः । बुद्धिः प्रस्तुतैकतानमतिर्योग उपायश्चेत्येते । पुंसः परस्य । अक्षरपुरुषात्परस्येति व्यधिकरणं समानाधिकरणं वा । आराधनायाराधनार्थम् । तोषरूपफलपर्यवसाय्याराधनार्थम् । न भवन्ति हि । ‘‘भक्त्यैव तुष्टिमभ्येति विष्णुर्नान्येन केनचित्’’ । ‘‘भक्तिवशः पुरुष’’ इति स्मृतिश्रुतिप्रसिद्धिं हिराह । प्रत्यक्षसिद्धमिदमामरपामरमितीरयति ॥ भक्त्येति । भगवानिति स्तावकलभ्यातिशयशून्यता-हेतुः । यूथपाय ‘‘सेनानेतरि नागेन्द्रे यूथनाथः प्रकीर्तित’’ इत्यभिधानाद्गजेन्द्राय । भक्त्या तदीयया । तुतोष । ननु निश्चयः । अत उग्रजातेरपि किञ्चिदङ्कूरितस्वभक्तिं वीक्ष्यालक्षयित्वा जातिं दययेदेव देव इति यूथपनिदर्शनेन ज्ञापयामासेति भावः प्रल्हादस्यावसेयः । तुतोषेत्युक्तिस्वारस्यात्तोष्टुं तोषं प्राप्तु-मित्यर्थौचिती चेतस्यानेया । अनेकेषु कीटादिदुर्जातिषु सत्सु मदवज्जातित्वाद्गजग्रहणमिव नृसिंहस्य सर्वथानिर्वैरतास्फोरणायेति च ज्ञेयम् ॥ ९ ॥
मन्दनन्दिनी
भक्तिं विना धनादयः परस्य पुंस आराधनाय तोषाय न भवंतीति अहं मन्ये । कुत इत्यतो यत एतदभावेऽपि भक्त्या तुतोष नन्विति योजना । अभिजनः कुलीनत्वम् । रूपं सौन्दर्यम् । श्रुतं श्रवणम् । ओजोऽवष्टम्भशक्तिः । तेजो ब्रह्मवर्चसम् । प्रभावो माहात्म्यम् । बलं देहशक्तिः । पौरुषं पराक्रमः । बुद्धिः शीघ्रग्रहणबुद्धिः । योगो ध्यानम् । यूथपो यूथनाथः । नागेन्द्र इति यावत् । ‘‘सेनानेतरि नागेन्द्रे यूथनाथः प्रकीर्तित’’ इत्यभिधानम् ॥ ९ ॥
विप्राद् द्विषड्गुणयुतादरविन्दनाभ
पादारविन्दविमुखाच्छ्वपचं वरिष्ठम् ।
मन्ये तदर्पितमनोवचनात्मगेह
प्राणः पुनाति सकलं न तु भूरिमानः ॥ १० ॥
तात्पर्यम्
द्विषड्गुणयुतात् । ‘ज्ञानं च सत्यं च दमः शमश्च (श्रुतं च) ह्यमात्सर्यं ह्रीस्तितिक्षाऽनसूया । दानं च यज्ञश्च (धृतिः) तपः श्रुतं (शमश्च) च महाव्रता द्वादश ब्राह्मणस्य’ इति भारते ॥ १० ॥
पदरत्नावली
इतोऽपि भक्तिरेव हरेः प्रसादे प्रधानसाधनमित्याह– विप्रादिति ॥ द्विषड्गुणा द्वादशगुणाः । एतैर्युक्तात् । ‘ज्ञानं च सत्यं च दमः शमश्च ह्यमात्सर्यं ह्रीस्तितिक्षाऽनसूया । दानं च यज्ञश्च तपः श्रुतं च महाव्रतं द्वादश ब्राह्मणस्य ।’ १‘एतेभ्यः प्रवरो द्वादशेभ्यो सर्वामपीमां पृथिवीं प्रशिष्यात् त्रिभिर्द्वाभ्यामेकतो वा विशिष्टो नास्य समोऽस्तीति वेदितव्यः’ इत्येते भक्तिमत एव सम्भवन्ति नान्यस्य । क्वचित् सम्भवेऽप्यन्ततो न तेभ्योऽर्थः स्यात् । ‘अनेवंविन्महात्पुण्यं कर्म करोति । तद्धास्यान्ततः क्षीयते’ इति श्रुतेः । तस्माद् भक्तिरेव प्रयोजिकेति तात्पर्यम् । सकलं मनआदिकं पुनाति विषयोपरक्तं मलं निरस्य दर्पणवत् स्वच्छं करोति । जगत् पुनातीति वा । ‘यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा । तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥’ इति श्रुतेः । अन्यत्र बाधकमाह– नत्विति ॥ भूरिमानो ऽहं कर्तेत्यभिगन्ता नैव पुनातीत्यन्वयः । ‘समर्थं मन्यसे यच्च कुन्तीपुत्रं वृकोदरम् । तन्मिथ्या हि न मे कृत्स्नं प्रभावं वेत्थ भारत ॥ मत्समो हि गदायुद्धे पृथिव्यां नास्ति भारत । नासीत् क्वचिदतिक्रान्तो भविता वा न कश्चन ॥’ इत्यादि भारते दुर्योधनोक्ताहङ्कारप्रतीतेरेवंविधभूरिमान इत्यर्थः । ‘नाविरतो दुश्चरितान्नाशान्तो नासमाहितः । नाशान्तमानसो वाऽपि प्रज्ञानेनैनमाप्नुयात् ॥’ इति श्रुतेः । ‘शमो दमस्तपः शौचं क्षान्त्यार्जवविरक्तताः । ज्ञानविज्ञानसन्तोषाः सत्येज्येऽपि द्विषड्गुणाः’ इति केचित् । ‘सत्यं दमस्तपः शौचं सन्तोषो ह्रीः क्षमाऽर्जवम् । ज्ञानं शमो दया ध्यानं विप्रस्यैते द्विषड्गुणाः ॥’ इति केचित् । असम्प्रादयज्ञैरुक्तत्वादत्र न ग्राह्यमेतन्मतद्वयमिति ॥ १० ॥
सत्यधर्मीया
विप्राद्द्विषड्गुणयुतादिति श्लोके के ते द्वादशगुणा ब्राह्मणस्योक्ता इत्यतः किञ्चिदनूद्याव्यवहिताभिहितधनादिद्वादशगुणा इत्यन्यथाप्रतीतिर्विप्रादिति तन्मात्राननुगुणत्वात्तेषामिति मनसि कृत्वोद्योगपर्वगतसनत्सुजातगतं तन्मात्रद्वादशलक्षणप्रतिपादकं पद्यमुदाहरति१ ॥ द्विषड्-गुणयुतादिति । ज्ञानं परापरतत्त्वविषयम् । सत्यं यथार्थभाषणम् । भूतहितं वा । दम इन्द्रियनिग्रहः । शमः शान्तिः । अमात्सर्यम् । न मद्वशोऽसाविति चित्ततोदं मात्सर्यमार्याः समुदाहरन्तीति सङ्ग्रह-रामायणोक्तेः । ह्रीरकार्यकरणे लज्जा । तितिक्षा द्वन्द्वसहनम् । अनसूयेर्ष्याभावः । दानं सत्पात्रेषु वित्तार्पणम् । यज्ञो ब्रह्मयज्ञादिः । तपश्चन्द्रायणादि । श्रुतं सच्छास्त्रश्रवणं धृतिर्विषयसान्निध्येऽपि तत्स्पृहारहितता । शमो बुद्धेर्भगवन्निष्ठता । एते द्वादश ब्राह्मणस्य विप्रस्य महाव्रताः । व्रतमस्त्रिया-मित्युक्तेः पुल्लिङ्गता । यस्त्वेतेभ्यः प्रवसेद् द्वादशेभ्यः सर्वामिमां पृथिवीं स प्रशिष्यात् । त्रिभिर्द्वाभ्या-मेकतो वा वियुक्ताः क्रमाद्वियुक्ता मौनभूता भवन्तीति तदुत्तरस्तत्स्तावकश्लोकः । तदर्थस्तु । द्वादशेभ्य एतेभ्य एतल्लाभार्थं यः प्रवसेद्गरुकुले निवसेत् । स सर्वामिमां पृथिवीं प्रशिष्याच्छिक्षयेत् । आत्मवशे कुर्यादिति यावत् । अधिकारिविशेषस्येदं फलम् । अन्ये तु सत्प्रिया भवन्तीत्यर्थः । एतेषां गुणानां मध्ये त्रिभिः क्रमाद्व्युत्क्रमाद्वा । एवमुत्तरत्रापि । द्वाभ्याम् । एकत एकेन वा । वियुक्ता रहिता अपि क्रमात्किञ्चिदालस्यादिना वियुक्ता । भूतबन्धादुज्ज्ञिताः सन्तो मौनभूता मुनिभिर्ज्ञानिभिः प्राप्यत्वान्मौनो वैकुण्ठादिस्तत्र भूताः सत्तावन्तः स्थिता इति यावत् । भवन्तीति ॥ ततश्चायं श्लोकार्थः । अहं द्विषड्गुणयुताद् द्विरावृत्ताः षट् द्विषट् ते च ते गुणाश्च ज्ञानादयो द्वादशगुणा यस्य स तस्माद्विप्राच्छ्वपचं वरिष्ठं मन्ये । कीदृशाद्विप्राच्छ्वपचोच्चतामननं त इत्यत आह । अरविन्दनाभस्यारविन्दं कमलं नाभौ यस्य स तथेति । अच् प्रत्यन्वेत्यत्र योगविभागादच् । तस्य पादारविन्दयोर्विमुखो वैमुख्ययुक्तोऽभक्त इति यावत् तस्मात् । अनेन श्वपचपदोत्तरमरविन्दनाभपादारविन्दसुमुखमित्यध्याहर्तव्यमित्यसूचि । किं जातीयो वा भवतु । भवति भगवद्भक्तश्चेत्स पवित्रमात्रमिति न किन्तु लोकपावक इत्याह ॥ तदर्पितेति । तस्मिन्हरावर्पिता भक्तिपूर्वं समर्पिता मनश्च वचनं चात्मा देहश्च गेहं च प्राणाश्च पञ्च येन स तथा । स सकलं भुवनं पुनाति पवित्रयति । भूरिमानो भूरि मानो गर्वो यस्य स उक्तद्वादशगुण आत्मानमिति शेषः । न पुनाति । न सकलमिति किं वक्तव्यमिति भावः । तदर्पितमनोवचनेहितार्थप्राणमिति पाठो दृश्यते । सोऽतिदृश्यात्मा । अध्याहारप्रयासनिरासकत्वात् । स्वकुलमित्यपि पठन्ति । तदर्पितमनो-वचनात्मगेहप्राणः सकलपावकोऽपि यो भूरिमानो महाहङ्कारस्तं न पुनातीति वाऽन्वयः । एतादृशा भक्ता एव भवन्तीति तात्पर्यम् । सर्वथा तत्कर्तव्यताबोधन एव नैर्भर्यं प्रह्लादस्येति ज्ञेयम् । श्वपचमित्याद्युक्तिस्तु श्वपचादपि कष्टत्वमित्यादिवन्नैवं कदाचिद्घटेतेत्येतद्भावेनेति मन्तव्यम् ॥ १० ॥
मन्दनन्दिनी
भगवन्तमेव स्तोतुं भगवदर्पणबुद्धिरहितमितरगुणोत्तमजातिमनुपयुक्तं निन्दि-तत्वात् । तद्वन्तं स्तौति ॥ विप्रादिति । द्विषड्गुणयुताज् ज्ञानसत्यादिद्वादशगुणयुतात् । अरविन्द-नाभपादारविन्दयोर्विमुखात् । स्वस्वातन्त्र्याभिमानत्यागस्वकीयसर्वसमर्पणबुद्धिरहितात् । विप्रात् । तदर्पितमनोवचनात्मगेहप्राणं श्वपचं वरिष्ठमहं मन्ये । कुत इत्यतस्तदर्पितमनआदिकस्यैव लोकपाव-कत्वात् । स्वातन्त्र्यभ्रान्तिमतस्तदभावादित्याशयेनाह ॥ तदर्पितेति ॥ आत्मा देहः प्राणा इन्द्रियाणि । उपलक्षणमेतत् । पुत्रमित्रकलत्रादेः । भूरिमानो बहुस्वातन्त्र्यभ्रान्तिमान् किमपि नैव पुनातीति योजना । यद्यपि स्वस्वातन्त्र्याभिमानत्यागभगवदर्पणबुद्धिरहितस्यैते गुणा न संत्येव । तथाऽपि विद्यमाना अप्य-प्रयोजका गौणाः कथञ्चित्सम्भवन्ति । अत्र तात्पर्यमाह ॥ द्वादशगुणाश्च ॥ ज्ञानं सत्यं दमः शमोऽमात्सर्यं ह्रीस् तितिक्षाऽनसूया दानं यज्ञस्तपः श्रुतमित्येत एव विप्रगुणत्वेन भारतोक्तत्वान्नान्ये । अप्रामाणिकत्वात् । अत एव तात्पर्यम् ॥ द्विषड्गुणयुतात् ॥ ज्ञानं च सत्यं च दमः शमश्च ह्यमात्सर्यं ह्रीस्तितिक्षाऽनसूया । दानं च यज्ञश्च तपः श्रुतं च महाव्रता द्वादश ब्राह्मणस्येति भारते ॥ १० ॥
नैवात्मनः प्रभुरयं निजलाभपूर्णो
मानं जनादविदुषः करुणो वृणीते ।
यद् यज्जनो भगवते विदधीत मानं
तच्चात्मने प्रतिमुखस्य यथा मुखश्रीः ॥ ११ ॥
पदरत्नावली
ननु श्वपचं वरिष्ठं मन्य इतीदमसम्भावितम् । वर्णहीनत्वेन तत्कृतसपर्या-स्वीकारानुपपत्तेः । ‘नाहं तथाऽद्मि यजमानहविर्वितानैः’ इत्यादावन्यथा कथनाच्चेति तत्राह– नैवेति ॥ अयं प्रभुर् अविदुषो ज्ञानोपदेशानधिकारिणो पूर्वचीर्णपुण्यनिचयो हि तज्ज्ञानेन यथार्थतत्वज्ञानिनो वर्णहीनाज् जनान् मानं पूजां वृणीते स्वीकरोतीति यत् तद् आत्मनोऽर्थे अप्राप्तप्राप्तये नैवेत्यन्वयः । कुत इत्यत उक्तम्– निजेति ॥ निजलाभेन नित्यानन्देन पूर्ण इति हेतुगर्भविशेषणम् । ‘को ह्येवान्यात्’ ‘यो वै भूमा तत् सुखम्’ इत्यादिश्रुतेः । ननु स्वार्थाभावे सपर्यास्वीकारे किं कारणमिति तत्रह– करुण इति ॥ करुणयतीति करुणः ‘देवस्यैष स्वभावोऽयं’ ‘यमेवैष वृणुते’ इत्यादिश्रुतेः । कर्मणः क्षणभङ्गुर-त्वात् कृपया तत्फलप्रदानाय तत्स्वीकारोपचार इति तात्पर्यम् । विद्वद्भिः क्रियमाणं मानं स्वार्थमपि किं न स्यादित्याशङ्क्य विशेषमाह– यद्यदिति ॥ विद्वदविद्वद्भेदमन्तरेण समानो जनो भगवते यद्यन्मानं विदधीत तत्तदात्मने च स्वप्रयोजनायैवेत्युपगन्तव्यम् । अत्र दृष्टान्तमाह– प्रतिमुखस्येति ॥ यथाऽलङ्कृतमुखश्रीर् दर्पणादौ प्रतिफलितस्य प्रतिबिम्बलक्षणमुखस्य स्वालङ्कारमन्तरेण श्रीर्लभ्यते तथा स्वबिम्बभूतपरमात्मनो निर्दोषगुणराशिध्यानलक्षणमानेन तत्प्रतिबिम्बत्वात् स्वस्यापि निर्दोषसुखलक्षण-श्रीर्लभ्यत इत्यर्थः । अनेन ब्रह्मादिजीवराशिरत्यन्ततुच्छीभूत इति सूचितम् । ‘श्वपचादपि कष्टत्वं ब्रह्मेशानादयः सुराः’ इत्यादेः ।
अयं तु नरसिंह आत्मन एव न प्रभुः । किन्तु सर्वस्यापि । अतोऽखण्डेश्वरत्वाच् चक्रवर्ती करमिवाविदुषो जनान् मानं वृणीते । अनेन विद्वज्जनमानाङ्गीकारो व्याख्यातः । स्वतःसिद्धत्वात् । ननु जनपदादर्थादानादिना राज्ञः स्वप्रयोजनोपलब्धिवदीश्वरस्यापि तथा स्यात् किम् ? नेत्याह– निजेति ॥ ननून्मत्तः किमीश्वर इति तत्राह– करुण इति ॥ कस्यार्थे मानकरणमिति तत्राह– यद्यदिति ॥ कथमिव ? यथा मुखस्य स्वामिनो राज्ञो मानलक्षणा श्रीः प्रतिमुखस्य राजमुखमनुवर्तमानस्य जनपदस्य परोपद्रवराहित्येन धनधान्यादिसमृद्धिलक्षणा श्रीर्भवति । तथा हरिविषया क्रियमाणा मानश्रीरनुरक्त-जनस्य संसारशृङ्खलान्मोक्षलक्षणा श्रीर्भवतीत्यर्थः । ‘बलमानन्द ओजश्च’ इत्यादेः ।
ननु हरेर्जन्मादिमत्त्वेन विशेषमाहात्म्यायोगाद् देवदत्तवत् । अतो युक्तं विप्रादीतरजन-परिगृहीतत्वमिति तत्राह– नैवेति ॥ अयं नृसिंह आत्मनो देहात् प्रभुः प्रभूत उत्पन्नो नैव । किन्तु स्तम्भात् । दृष्टत्वादिति शेषः । ओहस्य जननायोगात्, जननवत एव विषयसुखानुभवोपपत्तेः, अतः कथं हरेर्विषयानुभूतिरिति तत्राह– निजेति ॥ सत्यम् । परतश्चेत् प्राप्तिः । नायं तथा । निजो लाभो यस्य स तथा स्वतःसिद्धानुभवश्च पूर्णो व्याप्तश्च । न हि व्याप्तस्य परिच्छिन्नगर्भवासादिकं युज्यते । ‘प्रादेशमात्रं पुरुषम्’ इत्यादौ परिच्छेदप्रतीतिरिति चेत्? ‘तस्यान्ते सुषिरं सूक्ष्मम्’ इति श्रुतेराकाश-वदुपपत्तेः । उपाधिकल्पनायामनवस्थादिदोषापत्तेः । अतः स्वभृत्यभाषितं सत्यं कर्तुं स्वस्य सर्वत्र व्याप्तिं दर्शयितुम् इतरत्र जातवद् दर्शनमसुरजनमोहार्थमित्यादि ज्ञातव्यम् । स्वभृत्यभाषितस्य सत्यकरणायेत्येतत् कथमवगतमिति तत्राह– मानमिति ॥ अविदुषः स्वरूपाज्ञानिनो ऽस्माज् जनान् मानं वृणीते न केवलमस्माज्जनात् । किन्तु सर्वस्मादपि योग्यादित्याशयेनाह– यद्यदिति ॥ शेषं पूर्ववत् ।
श्वपचोऽपि भक्त एव वरीयान् । नाभक्तः । तस्य दोषित्वेन दम्भार्थत्वेन विहितपूजाया अस्वीकारादित्यतो वाह– नेति ॥ अयं हरिर् अविदुषः नित्याज्ञानिनोऽसुरजनाद् आत्मनः स्वस्य मानं लोके दम्भाभिप्रायेण कृतपूजां नैव वृणीते । प्रत्युतानर्थं च करोतीत्याह– करुण इति ॥ कृ विक्षेपे इति धातोः, असुरजननिरसनशीलत्वादन्धन्तम एव प्रापयतीत्यर्थः । ‘परा पूर्वेषाम्’ इति श्रुतेः । तस्मादसुरजनकृतसपर्याऽनर्थजननीत्याशयेनाह– यद्यदिति ॥ आत्मने, अनर्थायेति शेषः । यथा मुखश्रीः प्रधानभटयोग्यश्रीः प्रतिमुखस्याल्पस्य प्रतिभटस्य, अनर्थाय मरणलक्षणाय स्यादिति शेषः ॥ ११ ॥
सत्यधर्मीया
किमपचितिरुचिताऽच्युतस्य, स्वार्थं परार्थम् । नाद्यः । अपूर्णत्वापत्तेः । न द्वितीयः । स्वानतिशयाधायकस्य स्वीकारस्यैवासम्भावितत्वाद्दूरे परार्थं सम्भवत्वं तस्येत्यत आह ॥ नैवेति । अयं प्रभुः । परिवृढः परमात्माऽविदुषो जनाद्वेदाद्युपदेशायोग्यस्याज्ञस्यैतज्जन्मनि जन्मान्त-रार्जितोर्जितान्तर्गूढज्ञानिनः सकाशात् । मानं तत्कृतमिति यावत् । सपर्यादिकं वृणीत इति यत्तदात्मनः स्वस्य सुखाप्तये नैव । कुत इत्यत आह ॥ निजलाभपूर्ण इति । निजः स्वरूपभूतो यो लाभः सुखादिलब्धिस्तेन पूर्णः । अतो न स्वार्थं भजमानसम्माननमिति भावः । तर्हिं तद्ग्रहणं न युक्तमित्यतो वक्ति ॥ करुण इति । करुणयतीति करुणः । करुणाऽस्यास्तीत्यर्श आद्यज्वा । ‘देवस्यैष स्वभावोऽ-यम्’ । ‘यमेवैष वृणुते तेन लभ्य’ इत्यादेः । विद्वदविद्विहितमहने तरतमभावो नास्ति किमित्यतोऽ-स्तीत्यप्याह ॥ मेति । यद्यथाऽन१ञ्जनान्निर्दोषाद्भक्ताद्वृणीते मानं तथाऽविदुषो मा वृणीते न स्वीकरोति । तर्हि तदनुसारी तत्सम्पादनयत्नो जीवेन कर्तव्य इत्यतो न शक्तोऽयमित्यपि वक्ति ॥ अयमिति । अयं जीवो नैवात्मनो जडात् । नैवेति निपातोऽखण्डो नञ्पर्यायः । तस्मान्न मुक्ता न च सानक्वचिद्विष्णुवैभवमित्यत्र न क्वचिदिति निपातसमुदाय इति तथाऽथवेति निपातसमुदाय इति टिप्पणी-दीपिकोक्तेः । यद्वा नैवात्मन इत्यत्र न, एव, आत्मन इति विभजनानन्तरं नकारेणात्मपदस्य संश्लेषणे नात्मन इति पदमुपजायते । न आत्मेति नसमासे तद्भिन्नजडोपस्थितिरिति । न चैवमदृष्टचरमिति वाच्यम् । वैदिकावैदिकसाधारण्येनोपलब्धेः । तथाऽहि नरावशंस शुनश्चिछेप दशदिग्रथाय न वयं हि नीतमित्यादाविति न चित्तं, चित्रयितव्यम् । प्रभुः । प्रभुर्हि जीवो जडमपेक्ष्येति गीताभाष्योक्तेः । न त्वात्मनश्चेतनात्प्रभुरित्यप्यर्थः । यर्हि ग्रहणमर्हणस्यास्य स्वभावस्तर्हि तामसादपि वृणीते किमित्यतो नेत्यप्याह । जनात्पामरात्तामसादेः । जनः पामर इति विश्वः । नैवात्मनो मानं वृणीते । नैतावदेवापि त्वनर्थ इत्यप्याह ॥ अविदुष इति । अविदो विद्वद्विरोधिनो जनानुषति दहति तापयतीति यावत् । स तथा । तत्कर्तुः फलमस्तीति तदवश्यानुष्ठेयमित्याह ॥ यद्यदिति । यद्यदित्यव्ययम् । तदिति तथा । द्वितीयस्तच्छब्दोऽध्याहार्यः । विस्तृतस्त्वेतत्प्रकारः षष्ठस्कन्धव्याख्यानान्ते ते पिबन्त्वित्याद्यृग्भाष्यटीका-द्युदाहरणेनास्माभिरनुसन्धेयः। यं यं मानं भगवते जनो विदधीत तत्तत् स आत्मने स्वस्मै स्वप्रयोजनायैव भवति । तत्र निदर्शनमाह ॥ प्रतिमुखस्येति । यथा मुखश्रीर्बिम्बीभूतमुखश्रीरादर्शप्रतिफलितं यत्प्रतिमुखं तस्य तथेति । पृथक् तस्य सपर्यानर्हत्वात् । नित्योपाध्या स्वरूपया । चिद्रूपया युतो जीवः केशवप्रतिबिम्बक इत्यादेः प्रतिबिम्बभूतस्य जीवस्य जनजनितं जनार्दनसभाजनं स्वावरसभाजितत्वे इदमावश्यकमिति भावः ।
तरतमभावेनोत्तममध्यमाधमभक्तसपर्यां गृह्णाति न गृह्णाति तमोयोग्यस्यैवेति जातिर्न प्रयोजिकेति वा वक्ति ॥ नेति । यद्यो निजलाभपूर्णो निजस्य स्वस्य लाभः प्राप्तिस्तेनैव पूर्णः । ‘‘अर्थे नारायणो देवः’’ इत्यादेरेकान्तिकः । मानञ्जनात् । अनञ्जनो हि न विद्यतेऽञ्जनं दोषो यस्येति निरञ्जनः स न भवतीति मानञ्जनो दोषी । तस्मादविदुषोऽज्ञात् । मानं सत्कारमात्मनः स्वस्य न वृणीते । स जनो यद् यं भगवते मानं विदधीत तम् । अयं प्रभुर् भगवान् करुणः सन् वृणीते स्वीकरोति । अथवा अभगवते भगवद्भिन्नाय ब्रह्माद्यङ्गदेवसङ्घाय यं मानं विदधीत तम् अयं प्रभुरात्मनः स्वस्यैवेति करुण इति वृणीते । येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयाऽन्विताः । तेऽपि मामेवेत्यादिगीतागीतेः । तच्च समानेऽप्यात्मने एकान्तिकायैव भवति । प्रतिमुखस्य श्रीरिति शेषः । सा मुखश्रीस्तत्सम्बन्धिन्येवेति योजना । अहमात्मनो मम देहस्य विषयेऽपि न प्रभुः कर्तुं कारयितुं वा न समर्थः किन्त्वयं निजलाभपूर्णो हरिरेव प्रभुरित्यविदुषो विद्वांसमपि स्वं तत्त्वेन (न) जानत इत्यविदुषः । तथा लोक आत्मानं दर्शयतो वा जनादुत्तमान्मानं करुणो वृणीते । उर्वरितं पूर्ववत् । अहं निजलभपूर्णो योग्यतया स्यामिति यो यो जनो मध्यमोऽधमश्च भगवते आत्मने परमात्मने विदधीत तस्मादविदुष ईषज्ज्ञानाज्जनान्मानं तत्कृतसत्कारं करुणो वृणीते । तच्च सोऽपि मानः कामनानुसारेणात्मनः स्वस्यैव भवति । मुखश्रीः प्रतिमुखस्य यथेति ।
अविदुषोऽयथामतेर्जनात्पामरात् । आत्मनो जीवजातस्यायं प्रभुर्नारायणः करुणः सन्नपि तं मानं दम्भपूर्वकं सत्कारं न वृणीते । यद्यद्यो जनो मानमपदेशमात्रेण वस्तुतोऽमानमिति कृतपदस्यानुवृत्तिः । आत्मनो विदधीत । यथा दर्पणादेरिव चिद्रूपोपाधेरभावत् । अप्रतिमुखस्याप्रतिबिम्बस्य मुखश्रीर्नैवेति सम्बन्धः । अचिद्रूपोपाधिवशादीशस्तत्तत्प्रतिबिम्बानुसारेण बिम्बः कल्यादिदोषविशेषतो भवतीति भावः । प्रभुरयम् । अहं प्रभुरिति यो मतिवेगः वचसां प्रवाहैरिति प्रकृतो वचो वेगो वा येन स तथा तम् । मानमहन्ताम् । यो जनो विदधीत । स कीदृश इत्यतस्तत्स्वरूपं निरूपयति ॥ निजलाभपूर्ण इति । निजलं जलभिन्नं तत्सदृशं मरुमरीचिका तद्वदाभा यस्य प्रतीतिसुन्दरस्य वैषयिकसुखस्य । तेन पूर्णः पूरितः कृतार्थ इति यावत् । तस्मात् । मानञ्जनात्सदोषादविदुषोऽन्यथामतेः । करुणः क्षेपकः सन्मानं न वृणीते । तर्हि तत्सपर्यापर्यायः क इत्यतो वक्ति । अभगवते आत्मने दरिद्रदैत्याद्यात्मने चेन्न विदधीतेति समुच्चीयते । यथा प्रतिमुखस्याप्रतिबिम्बस्य मुखश्रीर्बिम्बसम्पन् न भवेत्तथा तद्दशेति भावः । तर्हि भगवान्न बिम्ब इत्यायातमिति तत्राप्याह ॥ यथा मुखश्रीरिति । मुखमिति श्रीर्भाषामात्रमित्यर्थः । ‘‘श्रीर्वेषरचना शोभा भारती सरलद्रुमेष्वि’’ति विश्वः । यद्यद्यज्जनो यद्यद्यज्जन्मवानिति वा । यद्यदित्यव्ययम् । तद्वदिति वा ॥ ११ ॥
मन्दनन्दिनी
पूर्वं भगवते सर्वसमर्पयिता सकलं पुनातीत्युक्तम् । तत्र किमर्पितं हविरादिकं भगवान्स्वीकरोति न वा । आद्येऽतिथ्यादेरिव भगवतोऽपूर्णत्वापत्तिः । द्वितीयेऽर्पयितुः फलानापत्ति-रित्यत आह ॥ नैवेति ॥ अर्पयिता स्वस्य प्रभुत्वादिकं वेत्ति न वा । नेति पक्षे उत्तरम् । अविदुषः स्वस्वामित्वादिकमविजानतो जनान्मानं दत्तहविरादिसपर्यामात्मनो जीवस्य प्रभुरयं भगवान्नैव वृणीते । स्वस्मिन्नविद्यमानस्वामित्वज्ञानिनि प्रीतेरभावात् । क्षुन्निवृत्तये स्वीकुरुतामिति तु न । यतो निजलाभेन स्वरूपानन्दादिना पूर्णः । अविदुष इत्यनेन विदुषो मानं तु वृणीत इति लब्धम् । तर्ह्यपूर्णत्वं स्यादित्यत उक्तम् ॥ निजलाभपूर्ण इति ॥ तर्हि कुतः स्वीकुरुत इत्यतः ॥ करुण इति ॥ तथा च दययैव स्वीकरोतीति न तदनुपपत्तिः । स्वस्य प्रयोजनाभावेऽपि दयया स्वीकारेऽर्पयितुः किं प्रयोजनं भवती-त्यतः ॥ यद्यदिति । जनो विद्वान् भगवते यद्यन्मानं विदधीत तच्चात्मने आत्मन आनन्दादिलाभाय । यथा मुखश्रीर्मुखालङ्कारादिभिः प्रतिमुखस्यालङ्कारादयो भवति । तथा बिम्बस्य भगवतः पूजादिकं प्रतिबिम्बस्य पुरुषार्थाय भवतीति योजना ॥ ११ ॥
तस्मादहं विगतविक्लव ईश्वरस्य
सर्वात्मना न हि गृणामि यथामनीषम् ।
नीचोऽजया गुणविसर्गमनुप्रविष्टः
पूयेत येन हि पुमाननुवर्णितेन ॥ १२ ॥
पदरत्नावली
तस्माद् भक्तिरेव प्रयोजिकेत्याह– तस्मादिति ॥ यस्मादचिन्त्यमहिमत्वात् सर्वात्मनेश्वरस्य स्वरूपं स्तोतुं न शक्नोमि तस्माद् विगतविक्लवो निर्धूतचापल्योऽहं यथामनीषं भक्त्या गृणामीत्यन्वयः । स्तुतेः फलमाह– नीच इति ॥ अजया प्रकृत्या नीचगुणविसर्गं संसारम् । अनुप्रविष्टः पुमान् योनानुवर्णितेन गुणसङ्कीर्तनेन पूयेत शुद्धो भवति हि यस्मात् । तेन संसारमोक्षो भवतीत्यर्थः
॥ १२ ॥
सत्यधर्मीया
भक्त्यैव तुष्यति स्तोतुं च सामस्त्येन सर्वेऽपि न समर्था अतो योग्यतामनतिहाय स्तोतुर्मम नरहरिर्हि करुणां कुर्यादुत्तरत्र च विमुक्तिं यच्छेदेवेति कैश्चिच्छ्लोकैरुपश्लोकयति ॥ तस्मा-दिति । तस्माद्भक्तिपूर्वकेणाल्पेनापि स्तवनादिना नारायणः प्रीणाति तस्मादहम् ईश्वरस्य सर्वात्मना सामस्त्येन न हि शक्तस्स्तवने सन्नपि यथामनीषं मत्यानुकूल्येन गृणामि । तत्रापि नान्तश्चापल्यमित्याह ॥ विगतविक्लव इति । निःशङ्क इति यावत् । हि यस्मात्सर्वात्मना सर्वश्चासावात्मा च तेन सर्वजीव-जातेन । सर्वात्मना साकल्येनेश्वरस्यानुवर्णनं न हि शक्यमिति शेषः । तस्माद्विगतविक्लवोऽहं यथामनीषं गृणामीति वा । तेन किं फलमसमस्तेन कृतेनेत्यतोऽनुष्ठातैतदेतादृशोऽपि शुध्यतीति प्रोचे । नीच इति । अजया प्रकृत्या गुणविसर्गं गुणैः सत्त्वाद्यैर्विसर्गो यस्य तं संसारमनुप्रविष्टः प्रवेशितः पुमान् अधिकारी । अत एव नीचः । येनानुवर्णितेन । भावे क्तः । ईश्वरस्य यथामनीषं कीर्तनेन पूयेत शुद्ध्येत् । मुक्तो भवेदिति यावत् । यस्मादहं यथामनीषं गृणामीत्यन्वयो वा ॥ १२ ॥
मन्दनन्दिनी
ननु सुदृढस्नेहपूर्वकमाहात्म्यज्ञानवता विदुषा समर्पितं भगवान्स्वीकुरुत नाम । तव किमायातम् । न च मया स्तुतिः क्रियत इति वाच्यम् । यावद्गुणकीर्तनस्याशक्यत्वात् । यत्किंचिद्गुण-कीर्तनस्याप्रयोजनवत्त्वादित्यत आह ॥ तस्मादिति ॥ अहमीश्वरस्य स्वरूपं तस्मात्तस्याचिंत्यमहिमत्वा-त्सर्वात्मना न गृणामि न स्तौमि । किं त्वजया प्रकृत्या नीचो बद्धो गुणविसर्गं संसारमनुप्रविष्टः पुमान् येन यथाशक्त्यनुष्ठितेनानुवर्णितेन गुणकीर्तनेन संसारात्पूयेन्मुक्तो भवेत् । तर्हि यस्मात्तस्माद्यथाशक्त्य-नुष्ठानस्यैव फलवत्वात् । तस्माद्भगवतो भक्तेषु करुणत्वादहं विगतविक्लवः । भावप्रधानो निर्देशः । मोचयति न वेति मनःसन्देहरहितो यथामनीषं यथाशक्ति यथाबुद्धि गृणामीति योजना । भगवतः करुणत्वाद्यथाशक्ति गुणकीर्तनमेव स्वीकृत्य मोचयतीति भावः ॥ १२ ॥
सर्वे ह्यमी विधिकरास्तव सत्वधाम्नो
ब्रह्मादयो वयमिवेश न चोद्विजन्तः ।
क्षेमाय भूतय उतात्मसुखाय चाऽस्य
विक्रीडितं भगवतो रुचिरावतारैः ॥ १३ ॥
पदरत्नावली
यथामनीषं गृणामीत्युक्तं विवृणोति– सर्व इति ॥ अमी वयं ब्रह्मादयश्च सर्वे सत्वधाम्नस्तव विधिकरा हि । ‘विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि’ इति श्रुतेः । तत्र विशेषोऽस्ति । यथा वयम् उद्विजन्तस् तथा ब्रह्मादयो नैवोद्विजन्तः । प्रधानभक्तत्वात् । कुत एतद्द्वयं विज्ञापयत इति तत्राह– क्षेमायेति ॥ अस्य हरेः रुचिरावतारैर् विक्रीडितम् अस्य जगतः क्षेमाद्यनेकप्रयोजनाय स्यादिति यत् । अनेन अस्मन्निधनेनास्माकमुद्वेगो ब्रह्मादिरक्षणेन तेषामनुद्वेगश्च ज्ञायत इत्यर्थः ॥ १३ ॥
सत्यधर्मीया
प्रस्तुतस्तुतिं विवृणोति ॥ सर्व इति । सत्त्वधाम्नस्तव । अमी ब्रह्मादयो वयं च विधिकरा निदेशकारिणः । वयमिव । ते न चोद्विजन्त इदानीं तेऽपि न भीतिमन्तः । कुतः । अप्रलय-कालत्वादेतदवतारस्यासर्वहन्तृत्वाच्च । मत्पुरस्करणाय दूरस्थितिरिति भावः । अवतारप्रयोजनमाह ॥ क्षेमायेति । अस्य भगवतो रुचिरावतारैर्मनोहरावतारैर्विक्रीडितं विक्रीडनमस्य जगतः क्षेमाय भूतयेऽ-नन्तरमात्मसुखाय स्वरूपसुखरूपमोक्षाय च भवति । तस्य तव रुचिरावतारैर्विक्रीडनं क्षेमाय प्राप्त-परिपालनाय । भूतये ऐश्वर्यायात्मसुखाय च भवति । अस्य भगवतः सत्त्वधाम्नो वयमसुरजातीया उद्विजन्तः सदा दानववधार्थमेव त्वयाऽवतरणाद्देव भूदेवरक्षणार्थं चेति ते वयमिव विधिकरा अपि विध्यादयो न चोद्विजन्त इति वाऽन्वयः । हे इवेशनच । इ कामः मन इति यावत् । तस्य वेशनं निवेशस्तेन चाय्यते पूज्यत इति स तथा तत्सम्बुद्धिः । इष्टदानात्तथेन्दव इत्यादृग्भाष्यटीकोदाहरणपूर्वकं पूर्वं तथा वर्च इत्येतद्व्याख्या छान्दोग्यभाष्यवेदेशीयोदाहरणेन सह पदद्वयविवरणं कृतमनुसन्धेयम् । सर्वे हिंसाकाले । अमी ब्रह्मादयो वयं चोद्विजन्तो विधिकरा उतेदानीं रुचिरावतारैरेतदादिभिर्भगवतस्तवास्य जगतः क्षेमाद्यर्थं विक्रीडितमिति । उद्विजन्त उ उद्गता उद्विजद्भ्य इति ते तथा । अनुद्विजन्त इति यावत् । शिष्टं स्पष्टम् । हीति सर्वस्यार्थस्यास्य मानसिद्धतामाह ॥ १३ ॥
मन्दनन्दिनी
स्वतन्त्रमन्यं कुतो न स्तौषीत्यतः सर्वेऽपि तवाज्ञाकारिण इत्याह ॥ सर्व इति ॥ सत्त्वधाम्नो ज्ञानानन्दपूर्णस्य तव ब्रह्मादयः सर्वेऽप्यमी वयमिव विधिकरा आज्ञाकारिणः । हिशब्देन विष्णोस्तिष्ठन्ति प्रदिशेति श्रुतिप्रसिद्धिं द्योतयति । उद्विजन्तश्चात्मरक्षणोद्योगप्रयुक्तभयवन्तश्च न । तव सर्वव्याप्तत्वज्ञानेनात्मगोपायनेच्छाभावात् । ततो न विजुगुप्सत इति श्रुतेः । भगवद्विक्रीडितस्य प्रयोजन-माह ॥ क्षेमायेति ॥ अस्य भगवतो रुचिरावतारैर्विक्रीडितं क्षेमाय ब्रह्मादिरक्षणाय लक्ष्म्या भूतये भूत्यै । उतात्मसुखाय स्वस्य पूर्णानन्दत्वज्ञापनाय भवतीति योजना । सोऽयं विहार इह मे तनुभृत्स्वभावसम्भूतये भवति भूतिकृदेव’’ इति स्मृतेः ॥ १३ ॥
तद् यच्छ मन्युमसुरश्च हतस्त्वयाऽद्य
मोदेत साधुरपि वृश्चिकसर्पहत्या१ ।
लोकाश्च निर्वृतिमिताः प्रतियान्तु१ सर्वे
रूपं नृसिंह विभवाय जनाः स्मरन्ति ॥ १४ ॥
पदरत्नावली
अथैवं कर्तव्यमित्याह– तद् यच्छेति ॥ अद्य त्वयाऽसुरो हतश्च यस्मात् तस्मात् । मथ्नाति कलुषीकरोति ज्ञानमिति मन्युः कोपः । इतरेषामेवंविधः । हरेस्तु, स्वेदाधरस्फुरणादि-विडम्बनलक्षणादिः । तं यच्छ संहर । प्रसन्नभावं दर्शयेत्यर्थः । मन्युं च त्वद्विषयज्ञानं च यच्छ अनुगृहाणेत्यर्थः । ‘मनु अवबोधने’ इति धातोरिति वा । त्वद्विषयं पूजालक्षणं यज्ञमिति वा । ‘मन्युः कोपे क्रतौ युद्धे’ इत्यभिधानम् । सज्जनानन्दाकाङ्क्षाऽपि भगवत्प्रसादकरीत्याशयेनाह– मोदेतेति ॥ वृश्चिकसर्पलक्षणासुरहननेन साधुः सज्जनोऽपि मोदेत । साधुरपि मोदेतेति वा योगविभागः । वृश्चिक-सर्पलक्षणासुरहत्या निर्वृतिम् आनन्दम् इताः प्राप्ताः सर्वे लोकाः प्रतियान्तु, स्वगृहमिति शेषः । गत्वा किं कुर्वन्तीति तत्राह– रूपमिति ॥ हे नृसिंह जनास् तव नृसिंहाकारं रूपं दुरितनिवृत्तिलक्षणाय विभवाय स्मरन्तीत्यन्वयः । साधुर् अहिंसापरेऽपि वृश्चिकादिहत्या मोदेत । किं पुनः सर्वलोकोप-द्रवकृदसुरहत्या । अतो वाह– मोदेतेति ॥ हत्यामिति पाठे साधुः शास्त्रतत्वज्ञो दुष्टवृश्चिकादिहत्यां यथा मोदेत तथाऽहमपि भगवद्द्वेषित्वेन दुष्टत्वात् पितृहत्यां मोदे इत्यभिप्रेत्यातो वाऽऽह– मोदेतेति ॥ नृसिंह इति सम्बोधनं नामकरणाभिप्रायेणेति ज्ञातव्यं, पूर्वमज्ञातनामत्वादिति ॥ १४ ॥
सत्यधर्मीया
एतेनावतारेणावता भवता दयात इयदिदानीं कार्यं कार्यमिति प्रार्थयते ॥ तदिति । यतोऽयमसुरो मम पिता । चात्तदनुचरा रणे हत इत्येतद्बहुवचनान्तमावृतं सदन्वेतव्यम् । त्वयाद्य हतो हताश्च । आद्य आदिपुरुष । उपजीव्येति वा । तत्तस्मान्मन्युं यच्छ नियच्छ । अनेनेश्वरस्य क्रोधोपरोधो नास्तीति कृत्याभावाच्चोपसंहरणं युक्तमिति सूचयति । ‘‘मन्युः कोपे क्रतौ युद्ध’’ इत्यभिधानात्प्रति-भटाघटनाद्युद्धं वा यच्छोपसंहर । इयांश्च साधुव्यापार इति पितृमारणेन मम दुःखलेशोऽपि नास्तीति पारोक्ष्येण विज्ञापयति ॥ मोदेतेति । साधुरपरमारणश्रवणासक्तः सन्नपि । वृश्चिकसर्पहत्या निरपराध-मितरोपरोधं कुर्वतां हिंसाशीलानां वृश्चिकदीनामन्येन हनने कृते भाविजनपीडा गतेति मोदेत तोषं भावयेत् । अनेन मम पिताऽपि तादृशदुरावेशवानिति युक्तं कृतमिति मोदेऽहमिति ध्वनिः । यद्वा मोदेत सज्जन इति शेषः । साधुरपिवृश्चिकसर्पहत्येति पदमेकम् । रपो व्याहरणं सोऽस्यास्तीति रपी । रपलपव्यक्तायां वाचीति स्मरणात् । इन्यर्थश्च निन्दा । साधून्प्रति निन्दावचनवान् । ईश्वरो नास्तीत्यादि शासनवचनः । वृश्चिकशब्द उपलक्षणया सर्पादिपरः । वृश्चिकवत्तदादिवत् । सर्पति स्वयमेवोपद्रवार्थं द्रवतीति स तथा । साधुरपी चासौ वृश्चिकसर्पस्तस्य हतिस्तयेत्यावृत्त्यान्वयो वा । वृश्चिकसर्पहत्या मोदे इति अहमपि पुत्रोऽपि । अतसाधुः । अताः सततं गमिता नाशिता इति यावत् । साधवो येन सोऽसुरो हत इति मोद इति वाऽन्वयः । तर्हि पुनः पुनरागच्छदनच्छजनहननेन मोदः साधूनां भविष्यति । तच्च न विना कोपं युज्यत इति तदवस्थितिरेव हितदेत्यभिहितमभिज्ञार्थादित्यत आह ॥ लोकाश्चेति । निर्वृतिं परमानन्दम् इताः प्राप्ताः स्वं गृहं सर्वे प्रतियान्तु । उत्तरत्र बाधाविधायकस्याभावात्कोपसंहरणं कुर्विति भावः । गत्वा किं कुर्वन्तीत्यतोऽप्रतिबन्धात्सदा यद्रुचयस्तत्तन्वन्तीत्याह । हे नृसिंह । आकारानुकार-नाम्ना सम्बोधयामासेति बोध्यम् । विभवाय मुक्तय इति । विभयायेत्यप्यभयदः पाठः । संसृतिभीतिहत्या इत्यर्थः । रूपं गता जनाः स्मरन्ति । नृसिंहादिकमन्यच्च दुरितादिनिवृत्तय इत्यादेः । अन्यन्नृसिंहादिक-मिति सामानाधिकरण्यमिति टीकोक्तेर्मानेऽन्यन्नृसिंहादिकमित्यन्वयो ज्ञेयः । प्रतियन्तीति पाठे कोपशमनं प्रतीक्षन्त इत्यर्थः । मन्युं रणाध्वरम् ‘‘मन्युः क्रोधे क्रतौ दैन्ये’’ इति विश्वः । यच्छ । असुरः पशुश्च हत इतःपरं कर्तव्याभावान्मन्युं ज्ञानं यच्छ । तत्प्रतिबन्धकश्चासुरो हत इत्यपि योजयन्ति । लोका ज्ञानिनो जना इतर इति वा ॥ १४ ॥
मन्दनन्दिनी
यदर्थं ब्रह्मणा प्रेषितस्तत्प्रार्थयते ॥ तदिति ॥ च यस्मादसुरस्त्वयाऽद्य हतः । साधुरपि स्वयमहिंसाशीलोऽपि वृश्चिकसर्पायमाणदैत्यहननेन मोदेत मोदते । लोकाः प्रजाश्च निर्वृतिमानन्दमिताः प्राप्ताः । तत्तस्मात् । हे नृसिंह । मन्युं कोपं यच्छ नियच्छ शान्तं कुरु । प्रसन्नेन च त्वयाऽनुज्ञाता आयाताः सर्वे देवाः प्रतियान्तु । जनाश्च विभवाय दुरितादिनिवृत्तये तव रूपं स्मरन्ति स्मरंत्विति योजना । कोपं प्रति साक्षात्प्रयोजनस्यासुरहननस्य परम्परया प्रयोजनस्य साधुमोदलोक-निर्वृत्यादेश्च जातत्वात्कोपं शामयेति भावः ॥ १४ ॥
नाहं बिभेम्यजित तेऽतिभयानकास्य१
जिह्माग्निनेत्रभृकुटीर२भसोग्रदंष्ट्रात् ।
आन्त्रस्रजः क्षतजकेसरशङ्कुकर्णा
न्निर्ह्रादभीतदिगिभादरिभिन्नखाग्रात् ॥ १५ ॥
पदरत्नावली
तव कोपाकुलरूपदर्शनाद् भीत्या लोकस्य स्मरणं न सम्भाव्यत इति तच्छमनं कर्तव्यमित्युक्तम् । तन्मम ज्ञाततत्वस्य विषयो न भवति मम भयं संसारचक्रादित्याह– नाहमिति ॥ भयानकस्य ते तव रूपान्न बिभेमीत्यन्वयः । कीदृशात् ? जिह्वे वक्रे अग्नियुक्ते नेत्रे यस्य तत् तथा । जिह्मया भ्रुकुट्या रभसो यस्य तत् तथा । उग्रे दंष्ट्रे यस्य तत् तथा । जिह्माग्निनेत्रं च जिह्मभ्रुकुटीरभसं च उग्रदंष्ट्रं च तत् तथा तस्मात् । आन्त्रमेव स्रक् माला यस्य तत् तथा तस्मात् । क्षतजेन रुधिरेण सिक्ताः केसरा यस्य तत् तथा शङ्कुवत्स्थूणवत्स्तब्धौ कर्णौ यस्य तत्तथा, क्षतजकेसरं च शङ्कुकर्णं च तत् तथा तस्मात् । निर्ह्रादेन भीता दिगिभा दिग्गजा यस्य तत् तथा तस्मात् । अरिभिन्दि-नखाग्राणि यस्य तत् तथा तस्मात् । अरीन् भिन्दन्तीति अरिभिन्दि नरवाज्ञानामग्रणि ॥ १५ ॥
सत्यधर्मीया
तव दयालुत्वात्त्वद्रूपमभीकरं चेदप्यपरिहार्यमियत्याऽन्यदस्ति भयं तदपहति-हेतुमर्थय इत्याह ॥ नाहमिति । हे अजित । ते तव रूपादतिभयानकास्यजिह्माग्निनेत्रभृकुटीरभसोग्रदंष्ट्रा-दतिभयानकं यदास्यं वदनम् । जिह्मे च जिह्मानि च वक्रे वक्राणि चाग्निवद्विद्यमाने च ते नेत्रे च । अग्निवद्विद्यमानानि च तानि नेत्राणि च । भृकुट्यो रभसोऽट्टहासः स चोग्रा क्रूरा दंष्ट्रा चेति यस्य तत्तस्मात् । आन्त्रस्रज अन्त्राणामियमान्त्रा स्रक् माला यस्य तस्मात् । ज्वालासिंहोऽन्त्रमालिक इति वेङ्कटेशसहस्रनामि्न उक्तेः । क्षतजकेसरशङ्कुकर्णात् क्षतजेन युक्ताश्च ते केसरा रोमविशेषाश्च । शङ्कुवत्स्तब्धौ कर्णौ चेति यस्य तस्मात् । निर्ह्रादभीतदिगिभान् निर्ह्रादाद्भीता दिगिभा दिग्गजा यस्मात्तत्तस्मात् । अरिं मत्पितरं भिन्दन्तीत्यरिभिन्दि नखानामग्राणि यस्य तस्मात् । अहं न बिभेमीत्यन्वयः । जिह्मेत्यत्र जिह्वेत्यपि पठन्ति । भ्रुकुटिर्भ्रूकुटिः स्त्रियामित्यमरे सरेफो भकार इति भ्रुरिति पठनीयम् । तथाऽपि लघुपाठश्छान्दस इति केचित् । तन्न । पृषोदरादित्वादृकारे भृकुटीत्यपीति भानुदीक्षितोक्तेः ॥ १५ ॥
मन्दनन्दिनी
त्वमेव भीतः कोपशान्तिं प्रार्थयसे किं, भीतिकराश्चावयवाः के इत्यतस्तथारूपं विशिष्याभयङ्करस्य करस्य शिरसि निधानान्नाहं बिभेमि । किन्तु लोको बिभेतीत्याशयेनाह ॥ नाह-मिति ॥ हे अजित । अतिभयानकस्यातिभयङ्करस्य ते तव । रूपादिति शेषः । तस्मान्नाहं बिभेमीति योजना । रूपं विशिनष्टि । अग्नियुक्तनेत्रेऽग्निनेत्रे ते च भ्रुकुटी चाग्निनेत्रभ्रुकुट्यः । जिह्माः कुटिलाश्च ता अग्निनेत्रभ्रुकुट्यश्च तासां रभसं यस्मिंस्तत् । उग्रे दंष्ट्रे यस्य तत् । तच्च तदुग्रदंष्ट्रं च तस्मात् । अनेनाग्नि-युक्तत्वाज्जिह्मात्वाच्च नेत्रयोः । जिह्मात्वाद्भ्रुकुट्या उग्रत्वात्तीक्ष्णाग्रत्वाद्दंष्ट्रयोर्भयङ्करत्वमुक्तं भवति । आन्त्रसृज आन्त्राणां सृक् यस्मिंस्तत् । आन्त्राणामेव भयङ्करत्वम् । सृजस्तु सुतरामिति भावः । क्षतजयुक्तानि रक्तयुक्तानि केसराणि यस्य तस्मात् । शङ्कुवत् स्थूणवत् स्तब्धौ कर्णौ यस्य तस्मात् । क्षतजकेसरं च तच्छङ्कुकर्णं च । निर्ह्रादेन ध्वनिना भीता दिगिभा यस्य तस्मात् । अरिं भिन्दन्तीत्यरि-भिन्दि तानि नखाग्राणि यस्य तस्मात् ॥ १५ ॥
त्रस्तोऽस्म्यहं कृपणवत्सल दुःसहोग्र
संसारचक्रकदनात् कृशतां प्रणीतः ।
बद्धः स्वकर्मभिरुशत्तम तेऽङ्घ्रिमूलं
भीतापवर्गमरणं समियां कदा नु ॥ १६ ॥
पदरत्नावली
दुःसहं चोग्रं च संसारचक्रं च यत् तेन सह कदनात् हिंसालक्षणाद् युद्धात् । उशत्तम सत्यकाम भीतानामपवर्गं भीतिजनकसंसारनाशनम् अरणं शरणं समीयां यामि ॥ १६ ॥
सत्यधर्मीया
तर्हि निर्भीतस्य पोतस्य तव मया किं कार्यं कार्यमित्यतो विज्ञापयति ॥ त्रस्त इति । कृपणवत्सल दीनदयालो । दुःसहोग्रसंसारचक्रकदनाद् दुःसहं दुःखेन सोढुं शक्यं संसाराणां चक्रं समूहस्तत्र यत्कदनं कलहः ज्ञातिभिरज्ञातिभिस्तस्मात् त्रस्तो भीतः । कृशतां कार्श्यं प्रणीतः प्रापितः स्वकर्मभिः । तत्राप्याचरितैर्बद्धः । वश कान्तौ । कान्तिरिच्छा । उशन्तीच्छन्तीत्युशन्तस्तेषु श्रेष्ठ उशत्तमः । तमर्थातिशयनमवन्ध्यत्वरूपमुशने विशेषणेऽन्वेति । तत्सम्बुद्धिर् हे उशत्तम । अवन्ध्यकाम । वाचो बभूवुरुशती’’रित्यृग्भाष्यटीकायामुशतीरुशंत्यः प्रकाशमाना इत्युक्तेः प्रकाशवत्तमेति वा । वश कान्तावित्यस्माल्लटः शतरि ऋकारशकारलोपे शित्त्वेन सार्वधातुकतया पित्त्वेन ङिद्वद्भावे वकारस्य ग्रहिज्यावयिव्यधिवष्टीति सम्प्रसारण उशदिति रूपम् । भीतापवर्गं भीतानामेतस्मादपवर्गो मुक्तिर्यस्मात् । तेऽङ्घ्रिमूलं पादपीठमरणं शरणम् । कदा नु यथा समियां प्राप्नुयाम् । तथा दास्ययोगं वदेत्युत्तरेणान्वयः
॥ १६ ॥
मन्दनन्दिनी
मद्रूपाद्भयाभावेऽपि तव कस्माद्भयं तत्परिहारोपायं वा किमिच्छसीत्यत आह ॥ त्रस्त इति ॥ हे उशत्तम । वश कान्तौ । कान्तिरिच्छाऽमोघस्वतन्त्रेच्छ । कृपणवत्सल । दुःसहा-दुग्रात्संसारचक्रात्प्राप्तं यत्कदनं विषयाभिलाषस्तदप्राप्तिरूपचिन्ता तया कृशतां शोषणं प्रणीतः प्राप्तः । स्वकर्मभिर्बद्धो वशीकृतः । अत एवाहं त्रस्तोऽस्मि । एवं भीतानामपवर्गं मोचकमरणं रक्षकं तेंऽघ्रिमूलं कदा नु समियामिति योजना । अनेन संसाराद्भयं, तत्परिहाराय त्वदङ्घ्रिमूलप्राप्तीच्छाऽस्तीत्युक्तं भवति
॥ १६ ॥
यस्मात् प्रियाप्रियवियोगसुयोगजन्म
शोकाग्निना सकलयोनिषु दह्यमानः ।
दुःखौषधं तदपि दुःखमतद्धियाऽहं
भूमन् भ्रमामि वद मे तव दास्ययोगम् ॥ १७ ॥
पदरत्नावली
देवादियोनौ सुखसम्भवात् तस्मात् संसारचक्रात् कथं बिभेषीति तत्राह– यस्मादिति ॥ देवादिसकलयोनिषु प्रियस्य वियोगो ऽप्रियस्य संयोगस् तयोर्जन्म यस्य स तथा । स च शोकाग्निस् तेन । प्रियादिवियोगादिना जन्मना च यः शोकाग्निस् तेन वा । दह्यमानोऽहं यद् दुःख-परिहारलक्षणम् औषधं कर्म तदपि दुःखरूपमिति मत्वा, अतद्धिया, न तद्धीर् अतद्धीस् तया, दुःख-परिहारौषधाज्ञानेन भ्रमामि । कुत्र गतेन केनौषधेन वा मे सुखं स्यादिति अनवस्थितिं प्राप्नोमीति यस्मात् तस्मादिदमेव संसारनाशनमिति मत्वा भवन्तं प्रार्थये । किं तत् ? आह– वदेति ॥ तव दास्यलक्षणं योगम् औषधं वद अनुगृहाणेत्यन्वयः ॥ १७ ॥
सत्यधर्मीया
नानाविधव्यसनानुविद्धहीनजन्म माऽस्त्वस्तु सुखानुभाविकामखभुग्जनिरित्यतः साऽपि पितृतेजसा विलुलितसम्पदिति सपद्यनुभवः समेषामतो भगवन्निमं दयया मया याचितो देहीत्याह ॥ यस्मादिति । यस्मात् । प्रियं चाप्रियं च प्रियाप्रिये हिताहिते । विप्रतिषिद्धञ्चेत्येकवद्भावस्तु समाहार-विधान्तरप्रतीतेर्नाश्रितः । वियोगश्च सुयोगश्च तौ । प्रियाप्रिययोर्वियोगसुयोगौ यस्मिंस्तच्च तज्जन्म च तस्मिन्यः शोकः स एवाग्निस्तेन । ताभ्यां जन्म यस्य स शोकाग्निस्तेनेति वा । सकलयोनिषु समस्त-जातिषु । सकला विद्यावत्यस्तासु योनिष्विति देवादियोनिषु वा । दह्यमानस् तप्यमानो दुःखस्यौषधं भेषजं यत्तदपि दुःखं तत्प्रदम् । तर्हि कुतः प्रयतसे तत्सम्पादन इत्यत आह ॥ अतद्धियेति । तद्धीस्तात्त्विकतदौषधधीः सा नेत्यतद्धीस्तया । इदं सुखमिति दुर्धिया । भ्रमामि । तत्र गमने मन ईप्सितं भवेदित्येकत्र निष्ठां न प्राप्नोमि । तस्मादेतदनवस्थादुरवस्थानसमर्थं तव दास्ययोगं दास्यसम्बन्धं तल्लक्षणोपायं वा । वदोपदिश । दास्यं दास्यसि चेत्परिभ्रमश्रमशमस्तेन स्यात्तमेव वदेत्यर्थयामासेति भावः ॥ १७ ॥
मन्दनन्दिनी
संसारचक्रे क्वापि जन्मनि सौख्यं नास्तीति किमित्यत आह । यस्मादिति ॥ हे भूमन् । सकलयोनिषु प्रियाप्रिययोर्वियोगसुयोगौ जन्मशोकश्चैतल्लक्षणाग्निना दह्यमानोऽतद्धिया तच्छाम-कोपायज्ञानाभावेन यस्मादहं भ्रमामि तस्मात्तच्छान्तिहेतुं तव दास्ययोगमुपायं वदोपदिश । न च मद्दास्यातिरिक्तं किमपि दुःखौषधं सेवनीयमिति वाच्यम् । यदौषधं तदपि दुःखमेवेति योजना ॥ १७ ॥
सोऽहं प्रियस्य सुहृदः परदेवताया
लीलाकथास्तव नृसिंह विरिञ्चगीताः ।
अञ्जस्तराम्यनुगृणन् गुणविप्रमुक्तो
दुर्गाणि ते पदयुगालयहंससङ्गः ॥ १८ ॥
पदरत्नावली
मदुपासनाद्युपायमन्तरेण दास्यमात्रेण तव किं स्यादित्याशङ्क्य बहुप्रयत्नसाध्या-मुपासनामन्तरेणोपायोऽस्तीत्याह– सोऽहमिति ॥ गुणमयसंसाराद् विप्रमुक्तः । पादयुगलमेव आलय-माश्रयो येषां ते तथा ते च हंसा निस्सङ्गाः परमहंसाः । तेषां सङ्गः सेवालक्षणो यस्य स तथा । दुर्गाणि कलत्रादीनि नरकाणि वा ॥ १८ ॥
सत्यधर्मीया
सर्वं हस्तिपदे मग्नमितिवत्सकलमुपासनाद्येतत्सुसम्पादमिति तद्दाने दानवार इत्थम्भवतीत्याह ॥ स इति । सोऽहम् । हे नृसिंह । प्रियस्य सकाशादपि सुहृदोऽनिमित्तोपकारिणः । व्यत्यासो वा । सुहृदः शुद्धबुद्धेर्वा । गीताभाष्यमुदाहृत्य सुहृच्छब्दो व्याख्यातः प्राक्त् । तदप्यनु-सन्धेयम् । परदेवतायास्तव लीलाकथा विरिञ्चगीता विरिञ्चादिभिर्गीतास्ता अनुगृह्णन् गृणानः । गुणेभ्यः सत्त्वादिभ्यो विप्रमुक्तः । पुनः सम्बन्धो नेति द्योत्यते विप्राभ्याम् । दुर्गाण्येतदितराशक्यतरणानि दुःखानि । आगच्छन्नरकाणि वा । तरणसहकारिणोऽप्यनेनैव सुमिला इत्याह । त इति ॥ पदयुगम् । पादयोर्युगलं तदेवालय आश्रयो येषां ते च ते हंसाः परमहंसास्त्यक्तसंसारास्तेषां सङ्गो यस्य स तथा सन्नञ्जस्तरामीत्यन्वयः । हंसानां पक्षिणां सङ्गे तद्वद्दुर्गोत्पतनं सुलभसाधनमिति ध्वनिः ॥ १८ ॥
मन्दनन्दिनी
किमनेनापि दास्ययोगेन सर्वदुर्गाणि तरसि किमित्यत आह । सोहमिति ॥ हे नृसिंह । सः संसारे क्लिश्यमानोऽहं प्रियस्य सुहृदः परदेवतायास्तव विरिंचगीता लीलाकथा अनुगृणन् योग्यतानुसारेण गृणन् । गुणविप्रमुक्तस्त्रैगुण्यलक्षणपाशाद्विमुक्तस्ते पदयोर्युगं पदयुगं तदालयो येषां ते हंसा नारदादयस्तत्सङ्गवान्सन् दुर्गाण्यंजस्तरामीति योजना ॥ १८ ॥
बालस्य चेह शरणं पितरौ नृसिंह
आर्तस्य१ चागदमुदन्वति मज्जतो नौः ।
तप्तस्य तर्पणविधिर्यदिहाञ्जसेष्ट
स्तद्वत्प्रभो तनुभृतां त्वदुपासकानाम्२ ॥ १९ ॥
पदरत्नावली
नृसिंह आर्तस्य इत्यनेन सन्ध्यकरणेन दृष्टान्तदार्ष्टान्तिकयोर्महद्वैलक्षण्यमस्तीति ज्ञापनाय अज्ञानजनबुद्ध्यवताराय चेति ज्ञातव्यम् । निदाघतप्तस्य जलादिना तर्पणविधिः, आप्यायन-लक्षणपरिहरः । ज्वराद्यभिभूतस्य ज्वरादिपरिहारप्रकारो यद् इष्ट इष्टसाधनं च ॥ १९ ॥
सत्यधर्मीया
ननु मात्रादय इष्टतया सम्प्रतिपन्नाः सन्ति तत्कथमहं प्रियादपि सुहृदित्यत आह । बालस्य चेति ॥ सर्वत्रापि काक्वाऽन्वयः । नेह शरणं नृसिंह नार्तस्य चागदमित्यपि गदन्ति । तत्र विना काक्वा विवक्षितार्थसिद्धिर्ज्ञेया । पितरौ पितामात्रेत्येकशेषः । पितरौ मातापितरौ । बालस्य शरणं रक्षकौ । नियत्या किम् ? न । रुक्माङ्गदादीनां स्वकुमारमारणयत्नदर्शनात् । तत्पाल्यमानानां बालानां यथायथं व्यथादर्शनाच्च । आर्तस्य रोगार्तस्यागदमगद औषधं शरणं रक्षको नात्यन्तिकमित्यर्थः । केषामित्यतस् त्वदुपासकानाम् अन्योपासकानाम् । तत्वावन्यपर्यायावित्युक्तेः । औषधनिषेवणेऽपि मरणा-दर्शनादिति भावः । नृसिंहश्च आर्तस्येत्यत्रासन्धिरेतेषाम् आत्यन्तिकेष्टसन्धाननिदानता नास्तीति द्योतयितुमिति ज्ञेयम् । उदन्वति उदन्वानुदधौ चेति निपातितः । उदधौ निमञ्जतः पुंसः शरणं नौर् नौका तस्यास् तत्स्थितिमज्जनैः सह मज्जनदर्शनात् । तप्तस्य निदाघादिना । तर्पणविधिर् जलादि-नाप्यायनविधिः शरणम् । पानकालेऽपि कस्यचित्क्वचिन्निवृत्तिदर्शनात्तद्वत्वमिष्टः । अगदमुद् अनु इति छेदः । अनु स्वीकारानन्तरम् अगदेन मुत् किं नेत्यर्थः । इदानीं न लिङ्गभङ्गः । समुद्रादावतिमज्जतः नौर् इष्टा न । किं तर्हि अञ्जसा व्यभिचारेण केषामित्यतोप्याह । त्वदुपासकानां तनुभृतामिति । त्वदुपेक्षितानामित्यपि लक्ष्यते पाठः । बालादीनां त्वदुपेक्षितानां पित्रादयः शरणं किं नेति तत्र योजना ज्ञेया३ । यद्बालादीनां पित्रादय इष्टा यत्त्वं ज्येष्ठस्तत्तव गुणान्गृणन्दुर्गाणि तरामीत्यन्वयो वा । तद्वत्प्रभावित्येकं पदम् । पितरावित्यारभ्य तर्पणविध्यन्तास्ते सन्त्यस्मिन्निति । तद्वान्सर्वरूप इत्यर्थः । तद्वांश्चासौ प्रभुश्च तत्सम्बुद्धिः ॥ १९ ॥
मन्दनन्दिनी
प्रियस्येत्यनेनेष्टत्वमुक्तम् । तद्दृष्टान्तमाकलय्योपपादयति ॥ बालस्य चेति ॥ चशब्दोऽनुक्तस्य पान्थस्य समुच्चये । यदित्यस्य यद्वदित्यर्थः । इष्टशब्दस्य लिङ्गविपरिणामादिना प्रत्येक-मन्वयः । त्वमिति शेषः । एवं च । हे प्रभो नृसिंह । पांथस्य शरणं गृहमिष्टं यद्वदेवं बालस्य पितरौ । आर्त्तस्य रोगार्तस्यागदमौषधम् । उदन्वति समुद्रादौ मज्जतो नौर्नौका । तप्तस्य घर्मतप्तस्य तर्पणविधिः शीतलोदकपानविधिः । त्वदुपासकानां तनुभृतां त्वं तद्वदंजसेष्ट इति योजना । इष्टत्वेऽपि वैलक्षण्यद्योतनायासन्धिः ॥ १९ ॥
यस्मिन् यतो येन च यर्हि यस्य
यस्मै यथा यमुत यस्त्वपरः परो वा ।
भावं करोति विकरोति पृथक् स्वभावः
सञ्चोदितस्तदखिलं भवतः स्वरूपम् ॥ २० ॥
तात्पर्यम्
‘कर्तृकर्मक्रियादीनां सत्तावृत्तिस्तथैव च । विष्ण्वधीनं यतः सर्वं सर्वरूपस्त-दुच्यत’ इति ब्रह्मतर्के ॥ २० ॥
पदरत्नावली
ब्रह्माद्यन्यतम इष्टः किं न स्यादित्याशङ्क्य कर्तृत्वाद्यभिमतस्य ब्रह्मादेः सत्ताया अपि यदा यदधीनत्वं प्रामाणिकं तदा सर्वस्माद् हरेरिष्टत्वं किं वक्तव्यमिति भावेनाह– यस्मिन्निति । अपरः कुलालादिर् यः परो ब्रह्मादिर्वा यस्मिन्नधिष्ठाने स्थित्वा यतो मृदादेर् यर्हि यस्मिन् काले येन चरुसलिलादिना यस्य अदृष्टादेः सहायेन, यस्मै जलाहरणाद्यर्थं यथा विधिना यं भावं घटादिपदार्थं करोति विकरोति सामान्यतो विशेषतो वा । कीदृशः ? पृथक्स्वभावः कार्याद् विलक्षणस्वरूपः संचोदितस् त्वादृशेन पुरुषेण प्रेरितः । तदखिलं कार्यकारणलक्षणं सर्वं भवतः स्वरूपं च त्वदधीन-सत्तात्मकमित्यन्वयः । ‘कर्तृकर्मक्रियादीनां सत्ता वृत्तिस्तथैव च । विष्ण्वधीनं यतसर्वं सर्वरूपस्तदुच्यते ॥’ इति वचनान्नाभेदोऽत्रेति बोद्धव्यः ॥ २० ॥
सत्यधर्मीया
यस्मिन्यतो येन चेत्यादिश्लोके कारककलापः स्वरूपभूतो भगवत इति प्रतीयते । तां प्रमाणसम्प्लवविरुद्धां मानेनावमानयति ॥ कर्तृकर्मक्रियादीनामिति । आदिपदेन मानानुदितानां मूलेऽधिकरणादीनां ग्रहणम् । तेषां सत्ता स्थितिर् वृत्तिः प्रवृत्तिः । चशब्देन प्रमितेर्ग्रहणम् । एवशब्दस्तत्तस्मादेवेति सम्बध्यते । यत एतत्सर्वं विष्ण्वधीनं तस्मादेव सर्वरूप उच्यते । न तु तादात्म्यादिति भावः । अन्यत्रापि ‘‘यदधीना यस्य सत्ता तत्तदित्येव भण्यत’’ इत्याद्युक्तेः ॥ अथ मूलार्थः ॥ ननु कर्तृत्वादिकं दृश्यतेऽन्यत्रापि । तत्कथमिष्टता निष्टङ्किता ममैवेत्यतस्तेषां त्वन्निघ्नत्वा-त्तत्त्वतस्त्वमेवेष्ट इति मम वाण्यव्यभिचारिणीति विज्ञापयति । यस्मिन्निति ॥ यस्मिन्नधिष्ठाने । यत उपादानात् । येन तोयादिना । यर्हि काले । यस्य दैवादेः । सहायेन यत्सम्बन्धि यस्मै प्रयोजनाय । यथा येन प्रकारेण यमभीप्सिततमं घटादिकम् । यः कुलालादिः । अपरः परः । बहोरेतादृशस्य कर्ता हिरण्यगर्भादिः । भावं पदार्थं परोऽपरश्च पृथक्स्वभावः । कार्यविलक्षणाकारः सञ्चोदितो येन त्वया प्रेरितः करोति । उत विकरोति विविधतया विशिष्टतया करोति । विकारमापयतीति वा तद् अखिलं कार्यकारणलक्षणं भवतः स्वरूपं त्वदधीनसत्तादिकमिति तथोच्यते । न तु तादात्म्यात् । सञ्चोदितो यः परश्चापरश्च भावं करोति विकरोति । तच्चोदकस्त्वम् । पृथक्स्वभावस्तद्विलक्षणज्ञानानन्दस्वभावश्चेदपि तदखिलं भवतः स्वरूपमुच्यत इत्यन्वयो वा । यः कर्ता सोऽपरो नीचः । चोदकस्त्वं पर उत्तम इति वा । आन्तरङ्गिको भावश्च मानानुसारेण ग्रन्थकृतः सु अरूपं स्वरूपमिति ज्ञेयः ॥ २० ॥
मन्दनन्दिनी
उक्तरीत्या ममेष्टत्वेऽपि स्वातन्त्र्याभावात्कथं फलं दास्यामीत्यतः स्वातन्त्र्यं वर्णयति ॥ यस्मिन्निति ॥ अत्र सर्वकारकाणां सप्रभेदानां प्रकाराणां च भगवदधीनत्वमुच्यते । परो ब्रह्मादिः । अपरः स्वर्णकारादिः । तथा च यः परो ब्रह्मादिः पृथक्स्वभावः । भवता सञ्चोदितः । यस्मिन् ब्रह्माण्डे । यतः पाञ्चभौतिकपद्मलक्षणोपादानात् । उपादानावशिष्टभागस्यापादानत्वम् । यर्हि सृष्टिकाले कालदेशभेदेनाधिकरणं द्विविधम् । येन निमित्तभूतदृष्टादृष्टकरणेन यस्य जनस्य सम्बन्धि । शेषत्वं षष्ठ्यर्थः । यस्मै देवसमूहाय । यथा येन संस्थानविशेषादिप्रकारेणायं भावं चतुर्दशलोकादिकं करोति । उत्पादयति । विकरोति विविधं करोति । यश्चापरः स्वर्णकारादिः । तत्राप्येवं द्रष्टव्यम् । तदखिलं भवतः स्वरूपं सर्वात्मना त्वदधीनमिति योजना । अत एव तात्पर्यम् ॥ कर्तृकर्मक्रियादीनां सत्तावृत्तिस्तथैव च । विष्ण्वधीनं यतः सर्वं सर्वरूपस्तदुच्यत इति ब्रह्मतर्के ॥ सत्ता स्वरूपसत्ता । वृत्तिः प्रवृतिः । अर्थक्रियाकारित्वम् । प्रमितेरप्युपलक्षणमेतत् । सर्वरूप इति बहुव्रीहिः । सर्वस्वरूप उच्यत इत्यर्थः । अनेनाधीनं स्वरूपमुच्यत इत्युक्तं भवति ॥ २० ॥
माया मनः सृजति कर्ममयं बलीयः कालेन चोदितगुणानुमतेन पुंसः ।
छन्दोमयं यदजयार्पितषोडशारं संसारचक्रमजकोऽतितरेत्त्वदन्यः ॥ २१ ॥
तात्पर्यम्
दशेन्द्रियप्राणमनोऽरम् । मूलं मन एव संसारचक्रस्य ॥ २१ ॥
पदरत्नावली
संसारचक्रं भक्त्या जनितश्रीहरिप्रसादं विना दुस्तरम् । प्रसादश्चानिगृहीतमनसां दुःसाध्यः, मनोमयत्वात् संसारचक्रस्य । अतः स एव सम्पाद्य इत्याशयेन संसारस्वरूपं निरूपयति– मायेति ॥ चित्प्रकृत्याऽभिमतमाया प्रकृतिर् उदितगुणानुमतेन उद्भूतरजआदिगुणानुसारिणा कालेन प्रेरितेनादृष्टेन च सहकारिणा पुंसो जीवस्य कर्ममयं नानाविकारकोशम्, अत एव बलीयो निग्रहीतुमशक्यं, छन्दोमयं सङ्कल्पविकल्पलक्षणेच्छात्मकं यन् मनः सृजति, हे अज तन् मनोमूलं संसारचक्रं त्वदन्यस् त्वदनुग्रहरहितः पुरुष कोऽतितरेत् ? न कोऽपीत्यन्वयः । केवलात्(चक्रात्)-परिकरोपेतस्य बलाधिक्यं स्यादित्यभिप्रायेणाह– अजयेति ॥ अजया प्रकृत्या अर्पिताः कल्पिता भिन्नवर्तिना मनसा सह दशेन्द्रियाणि पञ्च प्राणा एव अरा दलस्थानीया यस्य तत् तथा तत् ॥ २१ ॥
सत्यधर्मीया
माया मनःसृजतीति श्लोके षोडशारमित्युक्तेस्तान्यराणि कानीति न ज्ञायतेऽ-तस्तत्स्वयं निरूपयन्पूर्वार्धेनोत्तरार्धस्यान्वयं च दर्शयति । दशेन्द्रियेति ॥ दशेन्द्रियाणि प्राणपञ्चकं वृत्तिभेदात्कारणं मनश्चेति षोडशाराणि यस्य तदिति । मूलं मूलोपेतं मनस्तदेव संसारचक्रमित्यन्वयः ॥ अथ श्लोकार्थः ॥ भक्तिव्यक्तिमत्त्वत्प्रसादं विना तत्तरणं दुःशकमिति सा च न चेन्द्रियनिग्रहमन्तराभि-व्यज्यत इति । तज्जय एवैतत्पराजयहेतुरिति संसारस्वरूपं निरूपयति ॥ मायेति । माया चित्प्रकृतिः । अजया चित्प्रकृत्याभिमता । उदितगुणानुमतेनोदिताः कार्योन्मुखा गुणा सत्वादिगुणास्तदनुमतेन तेन कालेन । यद्वोदितगुणा सती । अनुमतेन तदनुसारिकालेन चेति । अनुमतेनेत्यावर्तते । अनुमत-मनुमतिस्तेन दैवाद्यनुमत्या । अनुमतेन देवादिनेति वा । सहकारिणा पुंसो जीवस्य । कर्ममयं नानाकर्म-विकारास्पदम् । बलीयो मार्गान्तरापरिहार्यत्वाद्बलिष्ठम् । छन्दोमयं सङ्कल्पविकल्पेच्छारूपम् । यन्मनः कार्यं वृत्तिरूपं सृजति तन्मनोमूलकं संसारचक्रम् । त्वदन्यस्त्वद्विमुखः । हे अज । एतत्क्षेपकः कोऽतिचरेन्न कोऽपि तरिता स्यादित्यर्थः । चक्रं चेद्भवितव्यमरेरित्यत आह ॥ अजयार्पितषोडशार-मिति । अर्पितानि षोडशसङ्ख्याकान्यराणि चक्राङ्गानि । दलानीति यावत् । इन्द्रियदशकं प्राणादि-पञ्चकं चैकं मनश्चेति यस्य तत्तथा । अरं शीघ्रे च चक्राङ्ग इति विश्वः । प्रकृत्येत्यनुक्त्वोक्त्वाऽजयेति त्वदनुग्रहेणाचित्प्रकृतिः क्षेप्येति तद्यत्नो न निष्फल इति ध्वनयति । अजगतिक्षेपणयोरिति स्मरणात् । कोऽपि न तारितश्चेत्तद्याञ्चा कुत इत्यतोऽप्याह ॥ अजक इति । अज एवाजको ब्रह्मा त्वदन्यस्त्वद्भिन्नः पुंसः परमपुरुषस्य तवानुमतेन त्वज्ज्ञानेनातितरेत् । अजकस्त्वां प्रति भक्तियुक्त आगच्छंस्त्वदन्यः सोऽप्यतितरेदित्यर्थवत्यर्थनेति भावः ॥ २१ ॥
मन्दनन्दिनी
भगवत्प्रसादमन्तरा मनोमूलस्य संसारचक्रस्य दुस्तरत्वमाह ॥ मायेति ॥ माया चित्प्रकृत्यनुगृहीताऽचित्प्रकृतिश् चोदितगुणानुमतेन भगवत्प्रेरितसत्त्वानुगुणानुकूल्येन पुंसः कर्ममयं पुण्यपापादिकारणीभूतं छन्दोमयं सङ्कल्पविकल्पाद्यात्मकं बलीयो दुर्निग्रहं मनः सृजति । यन्मनोऽजया प्रकृत्याऽर्पितषोडशारमर्पितानि षोडश दशेन्द्रियाणि पञ्चप्राणा मनश्चेति । अराणि यस्य तत् । संसार-चक्रम् । षोडशारमध्ये पतितस्यापि मनसः प्राधान्यात्तस्यैव संसारचक्रत्वाभिधानमेतत् । हे अज । त्वदन्यः कोऽतितरेदतितारयेद् अन्तर्णितणिच् इति योजना । त्वमेव मनोनिग्रहादिकं कारयित्वोत्तम-प्रसादमासाद्य संसारचक्रं तारयेति भावः । षोडशारपदस्य पृथङ्मनोग्रहणस्य च तात्पर्यं कथितं तात्पर्ये ॥ दशेन्द्रियप्राणमनोऽरम् । मूलं मन एव संसारचक्रस्येति ॥ दशेन्द्रियप्राणमनोलक्षणषोडशारमित्यर्थः । मन एव मूलं प्रधानमिति तदेव संसारचक्रमिति कथितमित्यर्थः ॥ २१ ॥
स त्वं हि नित्यविजितात्मगुणः स्वधाम्ना
कालो वशीकृतविसृज्यविसर्गशक्तिः ।
चक्रे विसृष्टमजयेश्वर षोडशारे
निष्पीड्यमानमुपकर्ष विभो प्रपन्नम् ॥ २२ ॥
पदरत्नावली
मन एव मनुष्याणां कारणं बन्धमोक्षयोरिति श्रुतेः । सम्यक् नियुक्तं (मनः) मुक्तिनिमित्तं च त्वदनुग्रहेण स्यादित्याशयेनाह– स त्वमिति ॥ यस्त्वं स्वधाम्ना नित्यं विजिता आत्मनो देहस्य गुणा जननादिलक्षणा धर्माः, जीवस्य वा दुःखादिलक्षणाः, येन स तथा । यश्च कलयति जानाति सर्वमिति कालः । वशीकृता स्वसमवेता विसृज्यस्य सुरनरादिनानाविधस्य जगतो विसर्गशक्तिर् विविधसृष्टिर् यस्मिन् स तथा । हे ईश्वर स त्वं षोडशारे संसारचक्रे लिङ्गशरीरे वा अजया विसृष्टम् उत्पन्नम् । अत एव दुःखेन निष्पीड्यमानं तत्परिहाराय शरणं प्रपन्नं मां ततो ऽपकर्ष उत्तर । विभो समुद्धरणसमर्थ ॥ २२ ॥
सत्यधर्मीया
यदर्थं तं स्तुतवांस्तत्प्रस्तुतं विज्ञापयति ॥ स इति । नित्यविजितात्मगुणो विजिता आत्मनो देहस्य जीवस्य वा गुणा उत्पत्त्यादयो दुःखादयो वा येन सः । हे नित्यं विजिता-पराजित । आत्मगुण आत्मनः स्वस्वरूपभूता गुणा यस्य स वा । तदुभयहेतुमाह ॥ स्वधाम्नेति । स्वतेजसा गुणानामात्मत्वेऽपि स्वे महिम्नीत्यादेः स्वधाम्नेति स्वधामत्वेनेति हेतूक्तिः । कालः । सर्वगुणः कालप्रेरक इति वा । विष्णुः सर्वगुणत्वेन काल इत्यभिधीयत इति दशमतात्पर्योक्तेः । साऽजापि त्वदायत्तेति त्वमेव तद्वियोजक इत्याह ॥ वशीकृतेति । वशीकृतेति नच्व्यर्थो मुख्योऽत्र ग्राह्यः । इतरावशाः स्ववशत्वेन सम्पद्यमाना वशीकृताः । विसृज्यानां स्रष्टुं योग्यानां विसर्गः सृष्टिस्तद्धेतवो याः शक्तयस्तन्निष्ठतया प्रतीयन्ते ता येन सः । षोडशारे चक्रे संसारे । अजया विसृष्टम् । निष्पीड््यमानं बाध्यमानम् । त्वां प्रपन्नं शरणागतं माम् । हे विभो । ईश्वरेत्यादिकं तत्तत्कर्षणसाधनोत्कर्षहेतुः । स त्वमुपकर्ष त्वत्समीपं प्रकर्षय । हीतीश्वरत्वादेः प्रसिद्धतामाह । एतस्येन्द्रियादिषोडशकस्य घटको यथाऽसि तथाऽसि विघटकोऽपि समासादितप्रसादस्येति वाऽऽह । षोडशारे षोडशस्य शरीरसम्बन्धिनः प्राकृतस्यारे वैरिन्निति ॥ २२ ॥
मन्दनन्दिनी
उक्तविधसंसारचक्रे स्वस्य निष्पीड्यमानत्वमुक्त्वा ततोऽपकर्षं प्रार्थयते । सत्त्वमिति । हे विभो ईश्वर नृसिंह । त्वं स्वधाम्ना स्वसामर्थ्येनैव नित्यविजितात्मगुणो नित्यविजिता दूरनिरस्ता आत्मनो देहस्य गुणाः स्वरूपोत्पत्तिध्वंसादयः । जीवस्य वा देहयोगवियोगादयो येन सः । कालः कलयति सर्वमिति सर्वज्ञः । वशीकृतविसृज्यविसर्गशक्तिर्वशीकृता स्वाधीना विसृज्यानां जीवानां विरिंचादिगता विसर्गशक्तिर्यस्य सः । अजया प्रकृत्या षोडशारे चक्रे विसृष्टं निष्पिड्यमाणं च मां त्वां प्रपन्नं ततोऽपकर्षेति योजना ॥ २२ ॥
दृष्टा मया दिवि विभोऽखिलधिष्ण्यपाना
मायुः श्रियो विभव इच्छति यान् जनोऽयम् ।
येऽस्मत्पितुः कुपितहासविजृम्भितभ्रू
विस्फूर्जितेन लुलिताः स तु ते निरस्तः ॥ २३ ॥
पदरत्नावली
त्वया कस्मात् स्वर्गाद्यैश्वर्यं नेष्यत इत्याशङ्क्य तस्य नश्वरत्वादित्याशयेनाह– दृष्टा इति ॥ अखिलानां धिष्ण्यपानाम् इन्द्रादीनाम् । विभवो हिरण्यलक्षणोऽर्थः । अस्मत्पितुर् हिरण्य-कशिपोः कुपितहासः दुर्हासस् तेन विजृम्भितयोः स्फुटितलक्षणयोर् भ्रुवोर् विस्फूर्जितेन विकासविशेषेण लुलिताविना शिताः । स तु हिरण्यकशिपुरपि ते त्वया निरस्तः ॥ २३ ॥
सत्यधर्मीया
सुरतादावपि न सुरता मम मतिरिति सङ्कुच्य प्रोक्तं विविच्योच्यते ॥ दृष्टा मयेति । यानिति प्रथमान्तो वा । स्वयं गच्छन्नेवेच्छति । फलं न भवतीति यावत् । अयं जन इच्छति । दिवि । अखिलधिष्ण्यपानां समस्तेन्द्रादिसिंहासनाधीश्वराणामायुर्जीवितकालः श्रियः सम्पदः । शोभा वा । विभवो निभृतिः पोषो धनं वा । ‘‘विभवो निभृतौ धन’’ इति विश्वः । ते मया दृष्टा इति । दृष्टामया दृष्ट आमयो ध्वंसरूपरोगो येषु त इति वा । सोपद्रवा इति यावत् । तर्हि तदुपद्रवादान्वद तान्हत्वा त्वां निश्चिन्तं तनुयामथवा पित्र्ये सिंहासने तिष्ठेत्यतस्तन्नश्वरतामीश्वरं प्रत्यावेदयति ॥ य इति ॥ येनाके विभवादयोऽस्मत्पितुर्हिरण्यकस्य कुपितेन सहितो यो हासो वासवाद्यपहासः । कुपितस्य कोपस्य हासो विकासो वा तेन विजृम्भिते स्फुटिते । जृम्भितं करणे स्त्रीणामीहास्फुटितयोरपीति विश्वः । ते च ते भ्रुवौ च तयोर्विस्फूर्जितं भङ्गस्तेन लुलिता विनाशितास्ते च मया दृष्टा इति । दृष्टामया इति वा सम्बन्धः । तव दया न सोदया चेत्स तादृशोऽपि ते त्वया निरस्तः । अतः पित्र्यमपि त्वदत्रातं माऽस्त्विति भावः ॥ २३ ॥
मन्दनन्दिनी
देवताविभवापहर्ता त्वया हत इति स्तौति ॥ दृष्टा इति ॥ हे विभो नृसिंह । अखिलधिष्ण्यपानामिन्द्रादीनाम् । आयुर्मन्वन्तरायुः श्रियस्त्रैलोक्यसम्पदो विभवो हिरण्यलक्षणो योऽर्थ एते ये दिवि मया योगदृष्ट्या दृष्टाः । याश्च यान् जन इच्छति । ते यस्य अस्मत्पितुः कुपितहासो दुष्टहासस्तेन विजृम्भितयोर्विस्मृतयोर्भ्रुवोर्विस्फूर्जितेन चेष्टाविशेषेण लुलिता विनाशिताः । स तु तादृशो दैत्यस्त्वया निरस्त इति योजना ॥ २३ ॥
तस्मादमूस्तनुभृतामहमाशिषो ज्ञः
आयुः श्रियं विभवमैन्द्रियमाविरिञ्चात् ।
नेच्छामि ते विलुलिता गुरुविक्रमेण
कालात्मनोपनय मां निजभृत्यपार्श्वम् ॥ २४ ॥
पदरत्नावली
यस्मात् क्षणभङ्गुरास् तस्माज् ज्ञो ऽनित्या इति जानन् । ऐन्द्रियं श्रोत्रादीन्द्रिय-भोगयोग्यम् इन्द्रियस्य विद्यमानं वा । आविरिञ्चाद् विरिञ्चपर्यन्तम् । निजभृत्यानां मुक्तानां पार्श्वम् ॥२४॥
सत्यधर्मीया
स्थूलदृशविवक्षया अस्मत्पितुरित्याद्युक्तं परमरहस्यं तु तदपि त्वयैव कारित-मीरयति । तस्मादिति । यस्मादेते क्षणभङ्गुरास्तस्मात् । ज्ञो जानातीति ज्ञः । एतदस्थिरतां जानन्नहं तनुभृतां देहधारिणाममूराशिषोऽस्थिरा इति । आविरिञ्चात् । विरिञ्चशब्दः सत्यादितल्लोकपरः । तमभिव्याप्यायुः श्रियं विभवमैन्द्रियं तदिन्द्रियोपभोग्यं विषयं च नेच्छामि । तदस्थिरतां स्थिरयति– कालात्मना इति । कालरूपिणा गुरुविक्रमेणाप्रतिहतसामर्थ्येन । ते त्वया विलुलिता इति । एतत्सङ्गं व्युदस्य निजभृत्यपार्श्वं स्वाभाविकसेवकसन्निधिं मामुपनय तत्कूटघटितं मां कुर्विति भावः । ये न तादृशा न तत्पार्श्वमुपनयेत्यप्याह ॥ निजभृत्यपार्श्वमिति । निजानां भृतिर्येषां त उदरम्भरयस्तेषामपार्श्वमसमीप-मुपनयेति । सुखदुःखसम्पत्तिविपत्त्यन्यतरेतरत्वान्निजभृत्यपार्श्वोपनयनं किमिति मतिमन्नज्ञवद्विज्ञापयसि त्वमित्यत उत्तरत्र विवरिष्यन्त्सङ्कुच्य वदति ॥ हे उपेति । यस्मादाप्तान्निजभृत्यपार्श्वाद् या गुरुविक्रमेण कालात्मना कालप्रयत्नेनाविलुलिताऽनाशिता तां श्रियं नयमां यमोपद्रवशून्यतया तद्रहिताम् । ज्ञः ज्ञानिजनः । आहेति शेषः । तादृशतनुभृतामायुर्नित्यायुर्विमुक्तिरिति यावत् । तस्मात्तं ना पुमानह-मिच्छमीत्यावृत्त्यान्वयोऽन्तर्लापीति ज्ञेयः ॥ २४ ॥
मन्दनन्दिनी
संसारतरणमेव किं प्रार्थयसे । आशिषः प्रार्थयस्वेत्यत आह । तस्मादिति ॥ हे नृसिंह । उरुविक्रमेण दुर्निरसनसामर्थ्येन कालात्मना कालनामकेन ते त्वयाऽऽशिषो विलुलिता भवन्ति । तस्मात्स्वर्गमारभ्याविरिञ्चाद्विरिञ्चलोकपर्यन्तम् । अनुभूयमाना आयुः श्रियमैन्द्रियभोग्यं विभव एत-ल्लक्षणास्तनुभृताममूराशिषः । ज्ञः मन्वन्तरायुषः स्वर्ग्या महर्लोके तु काल्पिका इत्यादिना काल-परिमितत्वं जानन् अहं नेच्छामि । अतो निजभृत्यपार्श्वं मामुपनयेति योजना ॥ २४ ॥
कुत्राशिषः श्रुतिसुखा मृगतृष्णरूपाः
क्वेदं कलेवरमशेषरुजां विरोहम् ।
निर्विद्यते न तु जनो यदपीह विद्वान्
कामानलं मधुलवैः शमयन् दुरापैः ॥ २५ ॥
पदरत्नावली
इतोऽपि संसारसुखं हेयमित्याह– कुत्रेति ॥ श्रुतिं कर्णं सुखयन्तीति श्रुति-सुखाः । मृगतृष्णरूपा ऊष्मोदकसदृशाः । अशेषाणां रुजां रोगाणां विशेषेण रोहो यस्मात् तत् तथा । दुरापैर्मधुलवैर् उदबिन्दुकल्पैः सुखलेशैः कामाग्निं शमयन् शान्तिं कर्तुमिच्छन् । यदपि पर्यायेण कलेवरं विषयसुखं चेत्युभयं नश्वरं विद्वानयं जन इह उभयस्मिन्नपि न तु निर्विद्यते निर्वेदं नैव प्राप्नोतीत्यन्वयः
॥ २५ ॥
सत्यधर्मीया
इयन्तमायासं कायनिकायादनुभवतोऽपि जिज्ञासा तस्मिन्नोत्पद्यत इत्याह ॥ कुत्रेति । आशिषः श्रुतिः श्रवणेन्द्रियं सुखयन्तीति तास्तथा । श्रुत्या श्रवणमात्रेण सुखं याभिरिति वा । श्रुत्या वार्तयैवेति वा । ‘‘श्रुतिः श्रोत्रे तथाऽऽम्नाये वार्तायां श्रोत्रकर्मणी’’ति विश्वः । अखिलैः श्रुतेरिति च । मृगतृष्णरूपा । ‘‘मृगतृष्णा मरीचिके’’त्यमरः । ह्रस्वश्छान्दसः । यद्वा मृगाणां तृष्णाऽस्त्यस्या-मित्यर्श आद्यजिति भानुदीक्षितव्याख्यानात् । मृगाणां तृष्णा साऽस्त्यस्येति स्थलग्रहणेन पुन्नपुंसक-लिङ्गतौचित्याद्ध्रस्वता ज्ञेया । तस्य रूपमिव रूपं येषामिति वा । अशेषरुजामशेषाश्च ता रुजश्च ताम् । विरोहं विशेषतो रोहः प्रादुर्भावो यस्य तत्तथा । कलेवरं शरीरं क्व । आशिषामशेषरोग्यङ्गस्य चानुबन्धे सत्यपि मृत्युरन्तरागच्छन्दुष्परिहर इति । यदपि यद्यपि विद्वान् जानन् जनः कामानलं कामोऽभिलाषा एवानलो न विद्यतेऽलं पर्याप्तमिति मतिर्यस्य सोऽनलस्तम् । यथोक्तम् । दुष्पूरेणानलेन चेत्येत-द्व्याख्यावसरे गीताभाष्ये । यद्यपीन्द्रादिपदं प्राप्तं पुनर्ब्रह्मादिपदमिच्छतीत्यलम्बुद्धिर्नास्तीत्यनल इति । मधुलवैर्मधु नीरं क्षीरं वा । ‘‘मधु क्षौद्रे जले क्षीर’’ इति विश्वः । तस्य मधुनो लवैर्बिन्दुभिरपरत्र सुखलेशैः । तेऽपि दुरापा दुःखप्राप्या इति तैः शमयन् शान्तिं कुर्वन् । इह देहादौ न निर्विद्यते न विरज्यते किन्तु रज्यत एवेति तुर्द्योतयति । ननु राजराज्याद्याशिषः स्युश्चेदोङ्करोषि किमित्यतो न ता अपि सम्मता ममेत्यप्याह ॥ कुत्राशिष इति ॥ कुं भूमिं त्रायन्ते पालयन्तीति कुत्रा राजानस्तेषामाशिषः क्वेत्युभयत्रान्वेति । कोऽपि न निर्विद्यते किमित्यत एतादृशो निर्विद्यत इत्यप्याह । निर्विद्येति । निर्वेदं प्राप्य यदपीति विद्वान् यस्य कलेवरस्यापीतिमप्ययं विद्वानपरोक्षज्ञानी तेन कलेवरेणैव कामानलं शमयन्यस् तस्य कुत्राशिष इत्यन्वयो वा ॥ २५ ॥
मन्दनन्दिनी
कालपरिमितत्वात् स्वर्गाद्याशिषामिच्छा माभूत् । इह लोके आशिषः कुतो नेच्छसीत्यत आह ॥ कुत्रेति ॥ इह त्वित्यन्वयः । तुशब्देन स्वर्गाद्यपेक्षया वैशेष्यं द्योतयति । इह तु लोके आशिषः कुत्र सन्ति । आशिषो मे भवन्तीत्याशामात्रम् । तथा चाशिषो भवन्तीति मित्रवचना-दिना श्रुतिसुखा एव श्रवणसुखजनकभ्रान्तिविषया एव । यथा मृगतृष्णासु मरुमरीचिकासु जलं पास्यामीत्याशयमात्रम् । न त्वर्थक्रियाकारि अत एव मृगतृष्णरूपा इत्युक्तम् । ह्रस्वश्छान्दसः । सन्तु वा क्वचिदाशिषस्तथाऽपि तद्भोगायेदं कलेवरं क्व । तद्भोगक्षमं न भवतीति भावः । कुत इत्यत आह ॥ अशेषरुजां सर्वरोगाणां विरोहम् ॥ विशेषोत्पत्तिकारणम् ॥ तर्हि लोको न निर्विद्यते कुत इत्यत आह ॥ निर्विद्यत इति । यदपि यद्यप्येवं तथाऽपि कामानलं दुरापैरायाससाध्यैर्मधुलवैर्विषयलक्षणाज्यबिन्दुभिः शमयन् भवामीति विद्वान् जनो न निर्विद्यते न विरक्तो भवतीति योजना । भ्रान्तो लोक इति भावः । अनलत्वदुरापत्वमधुलवत्वाद्युक्तिर्वस्तुस्थितिप्रदर्शनम् । न तु भ्रान्तस्यैवं ज्ञानमिति न मन्तव्यम् ॥ २५ ॥
क्वाहं रजःप्रभव ईश तमोऽधिकेऽस्मिन्
जातः सुरेतरकुले क्व तवानुकम्पा ।
न ब्रह्मणो न तु भवस्य न वै रमाया
यन्मेऽर्पितः शिरसि पद्मकरप्रसादः ॥ २६ ॥
तात्पर्यम्
रमादीनामिदानीं नार्पितः ॥ २६ ॥
पदरत्नावली
हरेर्भक्तवात्सल्यं प्रकटयन् प्रह्लादस्तत्वज्ञानविधुर इवायोग्यजनमोहायाह– क्वाहमिति ॥ हे ईश्वर तमोगुणप्रचुरे रजोगुणोत्पत्तिहेतौ अस्मिन् सुरेतरकुले जातोऽहं क्व ? भक्तानुग्रहलक्षणा तवानुकम्पा क्व ? मिथो विरुद्धस्वभावत्वात् । किं चोद्यमत्रेति तत्राह– न ब्रह्मण इति ॥ निरन्तरसेवामेदुरत्वेनेतरस्मादधिकोदयोऽपीदानीं रमादीनां शिरसि नार्पितः । मम शिरसि तव पद्मकरः पद्मोदरप्रभावत्पाणिनिधानलक्षणः प्रसादोऽर्पित इति यत् तस्माच् चित्रं तव चरितमित्यर्थः । ‘श्रीब्रह्मब्राह्मीवीन्द्राहित्रिकतत्स्त्रीपुरुष्टुताः । तदन्ये च क्रमात् सर्वे सदा मुक्तौ सृतावपि । हरिभक्तौ च तज्ज्ञाने सुखे च नियमेन तु ॥ परतः स्वतः कर्मतो वा न कथञ्चित् तदन्यथा ॥’ इति वचनादुक्त एवार्थ इति ॥ २६ ॥
सत्यधर्मीया
क्वाहं रजःप्रभव इति पद्योत्तरार्धे रमादीनां शिरसि नार्पितः पद्मकरप्रसादो यः स मे शिरस्यर्पित इति तदपेक्षया स्वस्याधिक्यं प्रल्हादेनोक्तमिव प्रतीयते । तत्र किञ्चिदध्याहृत्य प्रमाणा-बाधितां योजनां स्वयं दर्शयति । रमादीनामिदानीं नार्पित इदानीमेव नार्पितः किन्तु सदेति भावः ॥ ततश्चायं श्लोकार्थः ॥ देवभक्तवत्सलतां प्रकटयन्निवाप्रकटयन्स्वज्ञानितां मोहनीयान्मोहयन्नाह ॥ क्वेति । हे ईश लक्ष्मीकान्त । समर्थ वा । तमोधिके तमोगुणभूयिष्ठे । रजःप्रभवे रजसः प्रभवत्युत्पद्यत इति तत्तथा । सप्तम्यन्तं कुलविशेषणम् । सुरेतरकुले दैत्यवंशेऽस्मिन् जातोऽहं क्व । तव अनुकम्पा कृपा क्व । रजःप्रभव इति प्रथमान्तमिति केचित् । तत्र जात इति तु न सुललितमन्वयं भजत इति ज्ञेयम् । अनुकम्पैतद्रूपिणीति निरूपयति ॥ नेति । नाप्ययमौत्तम्यक्रमो नाप्याधम्यक्रम इति क्रमोऽयं पात-निकार्थापार्थतां ध्वनयतीति मन्तव्यम् । यद्यो मे मम शिरस्यर्पितस्ते पद्मकरप्रसादः कमलकोमल-हस्तस्थापनरूपः प्रसादो न भवशिरस्यार्पितो नापि ब्रह्मशिरसि नवै रमायाः शिरसीदानीमेवार्पितः किन्तु सदा । अत्र त्विदानीमेवेति स्वकानिष्ठ्यं प्रकटयामासेति तात्पर्यमवधेयम् । यद्यस्मान्मे मयि वैरमाया वैरवैचित्र्यं त्वत्प्रयोज्यकापट््यं वा नास्ति । वैरमाया न सन्तीति वा । अयं मे शिरसि पद्मकरप्रसादोऽर्पित इति न वा रमाया इत्याद्यनिर्दिशन्निर्दिशंश्चैवमेवं ध्वनयामास व्यास इत्यवसेयम् । हे पद्म पद्मेव मा रमा यस्य तत्सम्बुद्धिरिति वा ॥ २६ ॥
मन्दनन्दिनी
भक्तवात्सल्यद्योतनाय स्वस्मिन् भगवदनुकम्पोत्पत्तेराश्चर्यकरत्वमाह ॥ क्वाहमिति ॥ हे ईश । तमोऽधिके रजःप्रभवे विषयरागोत्पादकेऽस्मिन्सुरेतरकुले जातोऽहं क्व । एतादृशे मयि तवानुकम्पा क्व । असुरकुलसुरोत्तमयोर्विरुद्धत्वादाश्चर्यमेतत् । भक्तवत्सलत्वादेवेयमनुकम्पेति भावः । स्वस्मिन्कृतः प्रसादो नान्यत्रेत्यसुरजनमोहायाह । नेति ॥ मे शिरस्यर्पितः पद्मकरप्रसादः पद्मोदर-निभपाणिनिधानलक्षणो यद्यः सः । न ब्रह्मणो न तु भवस्य न वै रमाया इति योजना । वस्तुतस्तु मे इदानीमर्पितस्तेषु सदाऽर्पितो मदपेक्षया भक्तिज्ञानादेः सुखस्य च तेषु सृतौ मुक्तावप्याधिक्यात् । तारतम्यस्य सर्वथाऽप्यपनेतुमशक्यत्वात् । अत एव तात्पर्यम् ॥ रमादीनामिदानीं नार्पितः । रमादी-नामधिकोदयोऽपि सेवाधिकत्वादेव । श्रीब्रह्मब्राह्मिवीन्द्रादित्रिकतत्स्त्रीपुरुष्टुताः । तदन्ये च क्रमादेव सदा मुक्तौ सृतावपि । हरिभक्तौ च तत्ज्ञाने सुखे च नियमेन तु । परतः स्वतः कर्मतो वा न कथञ्चित्त-दन्यथेति ब्रह्मतर्के ॥ किं तु सर्वदाऽर्पित इति ग्राह्यम् । अधिकोदयोऽपि सुखादिलक्षणम् । अभ्युदयोऽपि सेवाऽधिकत्वात् । ज्ञानभक्त्यादिलक्षणसाधनाधिकत्वात् । ब्राह्निवीन्द्रेति ह्रस्वश्छान्दसः । ब्रह्मब्राह्मी-पदाभ्यां वायुभारत्यावपि ग्राह्ये । वीन्द्रादित्रिकं गरुडशेषरुद्रत्रयम् । तत्स्त्रियः सौपर्णीवारुणीपार्वत्यः । पुरुष्टुत इन्द्रः । कामोऽप्युपलक्षणीयः । तदन्ये सूर्यादयः परतो वरशापादिना स्वतः स्वभावतः कर्मतोऽत्युत्कटतपआदितः । तत् तारतम्यम् ॥ २६ ॥
नैषा परावरमतिर्भवतो ननु स्यात्
जन्तोर्यथाऽऽत्मसुहृदो जगतस्तथाऽपि ।
संसेवया सुरतरोरिव ते प्रसादः
सेवानुरूप उदयो न परावरत्वम् ॥ २७ ॥
तात्पर्यम्
रमादीनामधिकोदयोऽपि सेवाधिकत्वादेव ॥ ‘श्रीब्रह्मब्राह्मीवीन्द्रादि त्रिक-तत्स्त्रीपुरुष्टुताः । तदन्ये च क्रमादेव सदा मुक्तौ सृतावपि । हरिभक्तौ च तज्ज्ञाने सुखे च नियमेन तु । परतः स्वतः कर्मतो वा न कथञ्चित्तदन्यथा’ इति ब्रह्मतर्के ॥ २७ ॥
पदरत्नावली
सेवाधिक्यमेव फलाधिक्ये कारणं, न त्वाभिजात्यादिकमित्यभिप्रेत्याह– नैषेति ॥ यथा जन्तोर्या परावरमतिस् तथैषा भवतो न स्यान्ननु । कुतः ? आत्मसुहृदः । ‘तदेतत् प्रेयः’ इति श्रुतेः । लोके यद्यप्याभिजात्यादिकं परावरत्वे निमित्तम् । तथापि लोकविलक्षमहिमत्वाद्भवतः प्रसादो जगतः संसेवया । सेवानुगुणः फलाधिक्योदयः स्यात् । ‘यावत्सेवा परे तत्त्वे तावत्सुखविशेषता’ इति स्मृतेः । परावरत्वं च सेवानिमित्तम् । ‘शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते’ इति वचनात्
॥ २७ ॥
सत्यधर्मीया
नैषा परावरमतिरिति श्लोके लोकेशस्य तव परावरमतिरुत्तमाधममतिर्नास्ति । नीचोऽपि नीचेतरां सेवां करोति चेत्सोऽनुत्तमं प्रसादमासादयति । तथोत्तमोऽपि नोत्तमां सेवां कुर्वन्नोत्तमं प्रसादमिति प्रतीयते । तेन च न च तरतमभावः स्वरूपकृतोऽस्तीति, ततश्च विषमता स्यादित्यतः स्वयं व्याकृत्य तत्स्थेम्ने मानं चोदाहरति ॥ रमादीनामिति । अधिक उदयो महाप्रसादरूपः सेवाधिकत्वादेव तन्निमित्तक एवेत्यर्थः । ब्रह्मब्राह्मीशब्दाभ्यां वायुभारत्यौ ग्राह्यौ । वीन्द्रादित्रिकं गरुडशेषरुद्रा इति त्रिकम् । तत्स्त्रियस्तत्त्रिकस्त्रियश्च सौपर्णी वारुणी सत्यः । पुरुष्टुतः पुरुहूत इत्येते । तदन्ये नियतपदकाः । क्रमादेव स्वयोग्यताक्रमादेव सदा सृतौ मुक्तावपीति सदा मुक्तौ तु ब्रह्मब्राह्मीद्विकं सुपर्णादिद्विकं तद्भार्याद्विकं चेति ज्ञेयम् । सृतावपीत्युक्त्याऽऽनुकूल्यादेव मरुत्सरस्वतीहरगिरिकुमार्यादि-ग्रह इति ज्ञेयम् । हरिभक्तौ तद्विषये । एवं तज्ज्ञाने तत्फले सुखे च नियमेन । अधिका इति शेषः । नियमेनेत्युक्तनियमस्याव्यभिचारमाह । परतो वरशापादितः कर्मतः कृतकत्वादेः स्वतः स्वतन्त्राद्धरेरपि । परस्वो हरिः । स्वात्मना चोत्तरयोः । स्वातन्त्र्यात्स्व इति प्रोक्त इत्यादेः । परतः सार्वविभक्तिक-स्तसिरिति परतः स्वत इति षष्ठ्यौ । परस्य कर्मतः शापवरादेः स्वतः स्वस्य कर्मतोऽध्वरादेर्वेति कथञ्चिदुपाधिवशात्तन्नियमनमिति वा । तदित्यव्ययं वा । तत् सः । तद् आधिक्यमिति वा । अन्यथा न भवेदित्यर्थः ।
ततश्चायं मूलार्थः । सेवावैभवमेव फलातिशयाधायकं नैहिकपरावरत्वमिति सनिदर्शनं प्रदर्शयति ॥ नेति । या जन्तोर्यथा एष पर एषोऽवर इति मतिरेषा भवतस् तथा स्यान्न । ननु निश्चयः कुत इत्यत आह ॥ जगत इति । आत्मसुहृद आत्मन एव सुहृत्तस्य स्वरमणस्येति यावदिति वा सुरतरोः। सुरतस्य रुः शब्दो भणितं यस्य सः । कामुकः । तस्य सञ्जातोरित्यन्वयो वा । आत्मा स्वामी चासौ सुहृच्चेति तस्येति वा । तथाऽऽप्यन्यत्र फलाद्युदयप्रयोजकत्वेन दृष्टपरावरमतिरहितत्वेऽपि । सुरतरोः कल्पपादप-स्येव ते संसेवया च प्रसादस् तत्सेवानुरूपः । सेवानुगुण उदयः । जगत इति सुहृत्संसेवोदयान्वयि । तत्परावरत्वम् । न तत्र कारणमिति शेषः । हे पर । सेवानुरूप उदय इति भवतो ऽवरत्वं वैषम्य-नैर्धृण्यप्रयुक्तं नैष्कृष्ट्यं नेति वा । भवतः परावरत्वम् । परे उत्तमत्वेन सम्प्रतिपन्ना अप्यवरे यस्मात्स तथा । तस्य भावस्तत्त्वम् । वैषम्यादिकृतः प्रसादोऽवसादनं न नास्तीति वा । एतत्पक्षे चोदय इत्युभयान्वयीति ज्ञेयम् । हे अनपर । अवरत्वं भवतो नेत्यनुवर्तत इति नास्तीति वाऽर्थः । यथा सुरभूरुहः सेवातिशयात्फलातिशयदायी तथा त्वमपीति नाभिजात्यादिकं तत्प्रयोजकमिति तात्पर्यम् । यावत्सेवा परे तत्त्वे तावत्सुखविशेषतेत्यादेः । माने यावत्सेवा परे विष्णाविति पठनेऽप्यभिमतसिद्धे-स्तदाद्युच्चारयितुर्माननिर्मातुः सुखमैहिकं तु न महाफलं किन्तु परे तत्त्वे मृतत्वे प्राप्ते लिङ्गभङ्गानन्तरमिति यावत् । सुखविशेषता स्वार्थे तल् । बहुव्रीह्याश्रयेण न भावार्थको वा । पक्षाद्वयेऽपि सुखविशेषः । स्वरूपभूत इत्यप्यान्तरङ्गिकं तत्त्वमिति ज्ञेयम् । अन्यथाऽर्थान्तरवितरणरचनाचातुरी न पारणीया तेन स्यादिति प्रसङ्गादुक्तिरिति सन्तोष्टव्यम् ॥ २७ ॥
मन्दनन्दिनी
भक्तिरेव भगवत्प्रसादे निमित्तमिति गूढमभिसंधाय देवविरुद्धकुले जाते मयि तवानुकम्पेत्येतदाश्चर्यमित्युक्तम् । अधुनाऽभिसन्धिमुद्घाटयति ॥ नैषेति । जन्तोर्जनस्य परावरमतिः स्वकीयपरकीयजातिविषयिणीमतिर्यथा प्रसादहेतुस्तथा जगत आत्मसुहृदो भवत एषा मतिर्न प्रसादहेतुः स्यान्ननु । नन्वेतन्मतेः प्रसादहेतुत्वाभावे किं निर्निमित्तः प्रसाद इत्यत उक्तम् ॥ तथाऽपीति । तथाऽप्येतादृशमतेर्हेतुत्वाभावेऽपि । जातिविवेकमन्तरा संसेवया सुरतरोरिव ते प्रसादोऽपि संसेवयैव । सोऽप्यनेकप्रकार इत्याह ॥ सेवेति ॥ उदयः सेवानुरूपो भक्त्यनुसारी । न तु परावरत्वं परावरत्व-कारणक इति योजना । रमादीनामपि सेवाधिकत्वादेवेत्यादि तात्पर्यमत्राप्यनुसन्धेयम् ॥ २७ ॥
एवं जनं निपतितं प्रभवाहिकूपे
कामाभिकाममनु यः प्रपतन् प्रसङ्गात् ।
कृत्वाऽऽत्मसात् सुरर्षिणा भगवन् गृहीतः
सोऽहं कथं नु विसृजे तव भृत्यसेवाम् ॥ २८ ॥
पदरत्नावली
नन्वेवं सेवानुरूपफलोदये शास्त्रीये सिद्धे त्वं किं करोषीति तत्राह– एवमिति ॥ फलोदयस्य सेवानुविधायित्वात् सोऽहं तव भृत्यसेवां कथं नु विसृजे मम हितरूपत्वादिति । अतस्तद-त्यागे कारणमाह– जनमिति ॥ प्रभवाहिकूपे जन्माख्यसर्पविषकलिलसंसारगर्ते पतितम् । कामा विषयाः । तानभिकामयत इति कामाभिकामस् तं जनमनु तस्य जनस्य प्रकर्षेण सङ्गो जन्मलक्षणस्तस्मात् प्रपतन् । आत्मसात् कृत्वा आत्मीयेष्वेक इति बुद्धिं कृत्वा । सुरर्षिणा गृहीतो ऽनुगृहीतः यः सोऽहमिति यस्मात् तस्मादिति शेषः ॥ २८ ॥
सत्यधर्मीया
वद मे तव दास्ययोगमित्युक्तं किल तत्तिष्ठतु । त्वद्भृत्यसेवायां देवाहं नारदोत्पादितरुचिरिति राज्याद्यासक्त्या कथं तद्विमुखः स्यामिति विज्ञापयति ॥ एवमिति । प्रभवाहिकूपे प्रकृष्टस्त्वद्दासत्वसेवां विना दुष्पार इति स चासौ भवः संसारः स चासौ विषयविषविषमतयाऽहिमान् यः कूपः प्रहिस्तस्मिन् । कामाभिकामं कामा विषयास्तानभिकामयत इति स तथा तम् । निपतितं जनमनु-प्रसङ्गाज्जन्मापादकदुष्कर्मसम्बन्धात् । सङ्गं प्राप्येति ल्यब्लोपनिमित्ता पञ्चमीति वा । प्रपतन्पतनोन्मुखो यः सुरर्षिणा सुराणामृषिः । सुरश्चासावृषिश्चेति वा । नारदेनात्मसात्कृत्वा स्वाधीनजनेष्वेकत्वेनानु-सन्धाय । उपसर्गाश्च धातुलीनार्थद्योतका इति गृहीतोऽनुगृहीतोऽहम् । हे भगवन् । तव भृत्यसेवां कथं नु विसृजे विसृजामि । एतेनोपनय मां निजभृत्यपार्श्वमिति न जिव्होपरितनं वचनं मनःपूर्वकमिति ध्वन्यते
॥ २८ ॥
मन्दनन्दिनी
केनानुग्रहीतोऽसि येनेदृशी भक्तिस्तव जातेत्यत आह ॥ एवमिति ॥ हे भगवन् । एवं कामानलमित्युक्तरीत्या प्रभवाहिकूपे प्रकृष्टभवलक्षणदुविषयरूपाहियुक्तरूपे निपतितं कामाभिकामं विषयाभिलाषिणं जनमनुसृत्य प्रसङ्गात्तादृशजनसङ्गात्प्रतपन्योऽहं सुरर्षिणाऽऽत्मसात्कृत्वा गृहीतोऽनु-गृहीतः सोऽहं तव भृत्यसेवां कथं नु विसृज इति योजना ॥ २८ ॥
मत्प्राणरक्षणमनन्त पितुर्वधं च
मन्ये स्वभृत्यऋषिवाक्यमृतं विधातुम् ।
खड्गं प्रगृह्य यदवोचदसद्विधित्सु
स्त्वामीश्वरो मदपरोऽवतु कं हरामि ॥ २९ ॥
पदरत्नावली
स्वभृत्यभाषितमृतं कर्तुं स्तम्भादभूदिति यत् सूचितं पूर्वत्र तदिदानीं स्पष्टमाह– मत्प्राणेति ॥ मत्प्राणरक्षणं मत्पितुर्वधं च स्वभृत्यनारदर्षिवाक्यं च असद्विधित्सुः खड्गं प्रगृह्य हिरण्य-कशिपुर् यदि मदपर ईश्वरोऽस्ति, स त्वामवतु तस्य तव कं शिरो हरामीति यदवोचत् तच्च ऋतं विधातुम् अयमवतार इति मन्य इत्यन्वयः ॥ २९ ॥
सत्यधर्मीया
स्वभृत्यऋषिवाक्यं स्वभृत्यश्चासावृषिश्च नारदश्च तस्य वाक्यम् । स्वभृत्यं मां प्रति ऋषिवाक्यमिति हरिः सर्वत्र भूतेषु भगवानास्त ईश्वरः । यत्सर्वत्र तदीक्षणमित्यादिवाक्यम् । असदयुक्तं विधित्सुश्चिकीर्षुर्हिरण्यकशिपुः । खड्गं प्रगृह्य यदि मदपर इत्येकमनेकं च । मत्तोऽपरोऽन्य ईश्वरो वर्तते तर्हि तव कं शिरो हरामि स त्वामवतु रक्षतु इति । मदपर इत्यावर्तते । अहङ्कारपरो यदवोचत्तच्च वचो ऋतं यथार्थं विधातुं कर्तुमेव । हे अनन्तापरिच्छिन्न । अबद्ध वा । मत्प्राणरक्षणं तथा मत्पितुर्वधं च मन्य इत्यन्वयः । अनन्तः केनापि नाशरहितः पिता मम पिता तस्यानन्तपितुरिति वा । ईश्वरोऽस्तीत्युक्तो मदपरो मदविषयो दृष्टिपथं न गत इति यावत् । इति कं हरामि कं हनिष्याम्यहं मुख्यविषयालाभात्तव कं हरामीत्यावृत्त्याऽर्थविशेषलाभलोभादन्वयो वा ॥ २९ ॥
मन्दनन्दिनी
भक्तरक्षणाय दुष्टशिक्षणाय भक्तवाक्यपरिपालनाय च त्वदवतार इति स्तौति ॥ मदिति ॥ हे अनन्त । मत्प्राणरक्षणं भवान्सर्वत्र व्याप्तो भक्तं रक्षतीति नारदोक्तम् । असद्विधित्सुर्मदपरो मत्तोऽन्यो यदीश्वरस्तर्हि त्वामवतु । तव कं शिरो हरामीति खड्गं प्रगृह्य यदवोचदस्मत्पिता तस्य पितुर्वधं च सर्वत्र व्याप्त इत्यादि स्वभक्तर्षिवाक्यम् ऋतं विधातुं कर्तुमवतीर्णं त्वां मन्य इति योजना ॥ २९ ॥
एकस्त्वमेव जगदेतदमुष्य यत् त्व
माद्यन्तयोः पृथगवस्यसि मध्यतश्च ।
सृष्ट्वा गुणव्यतिकरं निजमाययेदं
नानेव तैरवसितस्तदनुप्रविष्टः ॥ ३० ॥
पदरत्नावली
भ्रूविजृम्भणविभ्रंशितेन्द्राद्यैश्वर्यस्य मत्पितुर्हननमस्माकं चित्रं चेदपि न तव चित्रम्, तस्य जगत्येकत्वात् । जगच्च त्वत्सृष्टं त्वत्प्रविष्टं त्वदधीनसत्ताकम् । अतः स्तम्भादाविर्भावोऽपि युक्त इत्याह– एक इति ॥ अयमर्थः । एतज्जगत् त्वमेव नान्यः । कुतः ? एकः प्रधानः । प्राधान्यं च कुतोऽवगम्यत इति तत्राह– अमुष्येति ॥ अमुष्य जगत आद्यन्तयोर् उत्पत्तेः पूर्वं विनाशादूर्ध्वं च, मध्यतः स्थितिकाले च त्वमेव अवस्यसि सन्निति निर्णीतोऽसि शास्त्रत इति यस्मात् । ननु जगतस् त्वद्विकारत्वेन तत्वद्विवर्तत्वेन वा त्वदवसानं युक्तम् ? अत्राह– पृथगिति ॥ भिन्नत्वेनेत्यर्थः । पुनः सृष्टिकाले निजमायया स्वसामर्थ्येन स्वाधीनया चित्प्रकृत्या च इदं गुणव्यतिकरं जगत् सृष्ट्वा तदनु-प्रविष्टस्त्वं तैर्भिन्नैः पदार्थैर्निमित्तैर् नानेव भिन्न इव, न तु भिन्न इत्यवसितोऽसीति यत् तस्माच्च । ‘प्रतिदृशमिव नैकधार्कमेकम्’ इति स्वोक्तेः । ‘इन्द्रो मायाभिः पुरुरूप ईयते’ इति श्रुतेश्च । ‘नेह नानाऽस्ति किञ्चन’ इत्यादिश्रुत्या नानात्वस्य निषिद्धत्वात् । ‘तानेवानुविधावति’ इत्यादिनाऽनर्थ-हेतुत्वाच्च भेददृष्टेः ॥ ३० ॥
सत्यधर्मीया
जगज्जननादिकं भ्रूविभ्रममात्रात्कुर्वतस्तव मम पितृहननमिव व्याप्तस्य स्तम्भ-सम्भवोऽपि नाद्भुतावहतामुपयातीति तत्स्थितिं विज्ञापयति ॥ एक इति । त्वमेवैतज्जगन्नान्य इत्यत्र हेतुमाह ॥ एक इति । एकः प्रधान इति तदसिद्धिमसिद्धीकरोति । यदिति । यद्यतोऽमुष्य जगत आद्यन्तयोः सृष्टेः प्रागन्तान्नाशादुपरि मध्यतश्च मध्येऽपि । तादात्म्यमेवार्थः किं न स्यादेक इत्यस्य प्राधान्यार्थकता कुतः कल्प्यत इत्यत आह ॥ पृथगिति । भिन्नोऽमुष्य सकाशादवस्यसि वर्तस इति निश्चितोऽसि । पुनः सृष्टिकाले गुणव्यतिकरमिदं जगन्निजमायया स्वशक्त्या प्रकृत्या च सृष्ट्वाऽनुप्रविष्टः । तत्सृष्ट्वा तदेवानुप्राविशदित्यादिश्रुतेः । तैः स्वसृष्टैः पदार्थैर्निमित्तैर्नानेव भिन्न इव स्वान्तर्भेदहीन इत्यवसितोऽसि निश्चितोऽसि । इति जगदे व्यक्तमुक्तम् । इन्द्रो मायाभिः पुरुरूप ईयते । नेह नानास्ति किञ्चन । एवं धर्मान्पृथक् पश्यंस्तानेवानुविधावति । भेददर्श्यधरं तम इत्यादिना वेदादिनेति शेषः । तद्गुणव्यतिकरं त्वमेक एवेत्येवमन्वयो ज्ञेयः ॥ ३० ॥
मन्दनन्दिनी
जगतो वैलक्षण्यं तत्स्रष्टृत्वं च तवेति स्तौति ॥ एक इति ॥ अनन्तेत्यनुवर्तते । हे अनन्त । त्वमेवैको मुख्योऽभिन्नश्च । एतज्जगतोऽमुख्यं परस्परभिन्नं च । यतोऽमुष्य जगत आद्यन्तयोर्मध्यतश्च प्रागभावध्वंसकाले स्थितिकाले च यथाक्रमं पृथक् अवस्यस्यवतिष्ठसि । धातूना-मनेकार्थत्वात् । अनेकमुख्यत्वमेकत्वं चोक्तम् । गुणव्यतिकरं गुणवैषम्यम् । तत एव तदुपादानकं निजसामर्थ्येनेदं दृष्ट्वा तदनुप्रविष्टस्तैर्भिन्नैरधिष्ठानैस्त्वमपि नानेवावसितोऽसीति योजना । वस्तुतस्तु नानाऽधिष्ठानकस्त्वमेक एव । इन्द्रो मायाभिः पुरुरूप इयते । प्रतिदृशमिव नैकधार्कमेकमित्याद्यागमात्
॥ ३० ॥
त्वं वा इदं सदसदीश भवांस्ततोऽन्यो
माया यदात्मपरबुद्धिरियं ह्यपार्था ।
यद् यस्य जन्मनिधनं स्थितिरीक्षणं च
तद् वै तदेव खलु कालवदुष्टितर्वोः ॥ ३१ ॥
तात्पर्यम्
यथा वृक्षश्च वृक्षदाहश्च दैवकालाधीनत्वाद्दैवं कालश्चेत्युच्यते एवं त्वद-धीनत्वात्सर्वस्य सर्वं त्वमित्युच्यते, स्वतस्तद्भिन्नोऽपि ॥ अहं चान्यश्च परमेश्वर एवेत्यपार्था भ्रान्तिः । तदधीनत्वादेव स इत्युच्यते । न स्वरूपत्वादित्यर्थः ॥ ३१ ॥
पदरत्नावली
हरेर्जगदन्यत्वस्य स्पष्टमप्रतीतेस्तदर्थं पूर्वपद्योक्तं विशदयति– त्वं वा इति ॥ हे ईश(त्वं)इदं सदसच् चराचरलक्षणं जगत्त्रयम् । सत्ताया अपि त्वदधीनत्वादयं व्यपदेशः । न तादात्म्यात् । तत्वतस्तदात्मत्वं किं न स्यादिति तत्राह– भवानिति ॥ ततो जगतो भवान् अन्योऽपि स्वतो भिन्नोऽपीत्यर्थः । मत्स्वातन्त्र्यवज् जगत्स्वातन्त्र्यमपि किं न स्यात्, उभयोर्भेदोऽपि दृढतरः स्यादिति तत्राह– मायेति ॥ आत्मेत्युपलक्षणम् आत्मानात्मलक्षणस्य प्रपञ्चस्य परत्वबुद्धिः स्वातन्त्र्य-ज्ञानं यत् सेयं माया अविद्यमाना । कुत इति तत्राह– इयमिति ॥ श्रीनारायणस्य तव स्वातन्त्र्यज्ञानं यथा पुरुषार्थसाधनं तथाऽन्यस्य स्वातन्त्र्यज्ञानम् अनर्थहेतुरिति । उभयं हिशब्देन सिद्धमिति दर्शयति । स्वतन्त्रजीवात्मकत्वात् स्वतन्त्रं जगदित्यतो वाऽऽह– मायेति ॥ आत्मनो जीवस्य परत्वबुद्धिः । जीवस्य परमैक्ये परमात्मनः यद् जन्मादिकं क्रियते तदनेनापि कर्तव्यम् । तदनुभवविरुद्धम् । अतो यद् यदधीनजन्मादिकं तद् वस्तु तदेवेति प्राधान्यविवक्षया अभेदव्यपदेशोपपत्तेरिति प्रकारान्तरेण तद्गतिमाह– यद्यस्येति ॥ अयमर्थः । यस्य जगतो जन्मादिकं यदधीनं तज् जगत् तदेवेत्युच्यत इति यत् तस्माज् जगत् त्वमेवेत्यर्थः । अस्मिन्नर्थे दृष्टान्तमाह– खल्विति ॥ उष्टितर्वोर् वृक्षदाहवृक्षयोः कालवत् कालाधीनत्ववत् । एतदेवाचार्यैः सम्यग् विवृतम्– ‘यथा वृक्षश्च वृक्षदाहश्च दैवकालाधीनत्वाद् दैवं कालश्चेत्युच्यते एवं त्वदधीनत्वात् सर्वस्य सर्वमित्युच्यते स्वतस्तद्भिन्नोऽपि’ इति । ‘उष दाहे’ इति धातुः । अत्र खलुशब्दः साक्षादैक्यनिषेधे वर्तते । ‘अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा’ इति सूत्राद् अलमैक्यकथानिष्ठत्वमित्यर्थः । ‘य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मि । य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि’ इत्यादिश्रुतौ स्वस्यान्यस्य परमात्मत्वोपदेशः प्रतीयते । अतः कथं भेदः कथ्यत इत्यतो वाऽऽह– मायेति ॥ आत्मा अहं च परो अन्यश्च परश्च परमेश्वर एवेति या बुद्धिर् इयम् अपार्था माया भ्रान्तिः । तस्मात् तदधीनत्वात् तदन्तर्यामित्वेन स्थितत्वाच्च ‘सोऽहमस्मि’ इत्युच्यते । न तु तद्रूपत्वात् । एतदप्याचार्यैरुक्तम्– ‘अहं चान्यश्च परमेश्वर एवेति अपार्था भ्रान्तिः । तदधीनत्वादेव स इत्युच्यते । न स्वरूपत्वादित्यर्थः’ इति । ईक्षणं ज्ञानम् ॥ ३१ ॥
सत्यधर्मीया
एक इति प्रधान इति न व्याख्यानं युक्तम् । त्वं वा इदं सदसदीश इति श्लोके जगताऽभेदस्यैव बोधनादित्यतो यथावत्तदभिप्रायं विवक्षुर् अस्फुटाभिप्रायं कालवदुष्टितर्वोरित्येतद्व्याचष्टे । यथेति । उष दाहे क्तिन् । उष्टिर्दाहः ॥ वृक्षो वृक्षदाहश्च दैवकालाधीनत्वाद् दैवं कालश्चेति पृथगन्वयादुच्यत इत्युक्तिः । यथा दैवकालाधीनत्वाद्दैवं कालश्चेति तादात्म्यव्यवहार एवं सर्वस्य जगतस्त्वदधीनत्वात्सर्वं जगत्त्वमित्युच्यते । न तु त्वत्ताद्रूप्यात्तदित्याह । स्वतस्तद्भिन्नो जगद्भिन्नोऽपि सन्निति । अहं चान्यश्च परमेश्वरः साक्षात्स एवेत्यपार्थेत्यनूद्य व्याकरोति ॥ भ्रान्तिरिति । खण्डश उक्तमर्थं निगमयति । त्वदधीनत्वाद्भगवदधीनत्वादेव स इत्युच्यते न त्वच्युतस्वरूपत्वादित्यर्थ इति । मानानां बहूनां पूर्वमेतदर्थ उक्तत्वात्स्ववचनव्याख्यानेनैव मुखबन्धः पूर्वपक्षिण इति तदनुदाहरण-मुत्तरत्रोदाहरिष्यमाणत्वाद्वेति मन्तव्यम् ॥ ततश्चायं श्लोकार्थः ॥ प्राग्जगद्भगवदितरदिति न स्फुटं प्रतीतमिति तत्स्पष्टं करोति ॥ त्वं वेति । हे ईश । सदसन्मूर्तामूर्तलक्षणं कार्यकारणात्मकं वा जगत् त्वं त्वदधीनसत्तादिमत्त्वात् । अयं व्यपदेशः कुत इत्यत आह ॥ भवांस्तत इति । भवांस्ततो जगतोऽन्यो भिन्नः । ततत्वाद्व्याप्तत्वादन्य इत्यन्यत्वे हेतूक्तिरान्तरङ्गिकीति ज्ञेया । त्वत्वावन्यपर्यायावित्युक्ते-र्भवानित्यवदन्वदंश्च त्वमिति सदसदिदं त्वं भिन्नमित्यपि सूचयमासेत्यवसेयम् । यद्यत इयमात्मपर-बुद्धिरात्मनि परमात्मनि पर इति प्रपञ्च इत्यात्मैव परः प्रपञ्च इति बुद्धिः । आत्मा स्वयं पर इति बुद्धिरिति वा । माया त्वदिच्छाधीनाऽपार्था निरर्था भ्रान्तिरिति यावत् । हि मानसिद्धा । प्राधान्यवत्प्रयोजकान्तरमीरयति ॥ यदिति । यस्य सकाशाद्यस्य जन्म उत्पत्तिर्निधनं संहृतिः स्थितिः पालनमीक्षणं ज्ञानम् । चान् नियमनादिकम् । यद्येतीति प्राप्तिमत् तज्जगत्तदेवेत्युच्यते । यद्यतस्तत्तत इति वा । वास्तविकैकात्म्यं किं न स्यादित्यत उक्तं खल्विति । तदेवेत्येतत्खलु निषिद्धमित्यर्थः । खलु निषेधन इति विश्वः । अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वेति स्मरणात् । लोकावसितं निदर्शनमाह ॥ उष्टितर्वोः कालवदिति । उष्टिर्दाहस्तरुर्वृक्षस्तयोः कालवत् । यथा वृक्षतद्दाहयोर्दैवकालाधीनत्वाद्दैवं कालश्चेति व्यपदेशः । यथोक्तं ब्रह्माण्डपुराणे सत्यक्षेत्रमाहात्म्ये प्रथमाध्याये । ‘‘सत्याब्जिनीतीरे, तस्यास्त्वेको महान्वृक्षः स कालत्रयवित्तमः । शाखाभिर्जगतां वृत्तिं सर्वां यत्सूचयत्यसौ । कृते भद्रवटो नाम त्रेतायामेव वृक्षराट् । द्वापरे पुत्रदीपश्च पनसः स्यात्कलौ युगे । धनधान्यप्रजावृद्धिर्यतः स्याद्राज-राष्ट्रयोः । शाखोपशाखावृद्ध्या वा फलवृद्धिस्तथा भवेत् । यदा शाखा विदीर्णा स्यात्तदा राजा विनश्यति । उपशाखा विदीर्णाश्चेन्महामात्यो मरिष्यति । यदा स्यात्फलवैकल्यमनावृष्टिस्तदा भवेत् । पत्रं श्यामं यदि पतेत्प्राणिनाशो भविष्यति’’ इति । कालवित्तम इति स्वाभिमानिदेवत्वं कथितमिति ज्ञेयम् । तद्वत्त्वदधीनसत्तादिकं जगदिति त्वमेवेत्युच्यत इत्यर्थः ॥ ३१ ॥
मन्दनन्दिनी
सृष्ट्वा गुणव्यतिकर इत्यनेन परमात्मजगतोर्भेदः प्राप्तस्तर्हि सर्वं खल्विदं ब्रह्म भूतानि विष्णुर्भुवनानि विष्णुरित्यादावभेदव्यपदेशः कथमित्यतस्तद्गतिमाह ॥ त्वं वेति ॥ हे ईश । सदसन्मूर्तामूर्तात्मकं चेतनाचेतनात्मकं वेदं जगत्तत्त्वं वा उच्यते । त्वद्वाचकेन ब्रह्मविष्ण्वादिशब्देन सामानाधिकरण्येनोच्यते । त्वदधीनसर्गादिमत्वात् । ‘‘यदधीना यस्य सत्ता तत्तदित्येव भण्यते । इदं हि विश्वं भगवानिवेतरो यतो जगत्स्थाननिरोधसम्भव’’ इत्याद्युक्तेः । न च वस्तुतोऽभेद एव किं न स्यादिति वाच्यम् । यतो भवांस्ततो जगतोऽन्यः स्रष्टृत्वादेरेव । न हि स्रष्टृसृज्ययोरभेदो दृश्यते । न चान्येनान्यत्वं युज्यते । मदधीनत्वात् । मदभेदव्यपदेशे देवतादेरपि स्वातन्त्र्यात्तदभेदव्यपदेशोऽपि किं न स्यादित्यतः स्वातन्त्र्यमेव नास्ति । तद्बुद्धेस्तु भ्रान्तित्वमित्याह ॥ मायेति ॥ यद्याऽऽत्मनो जीवस्य परबुद्धिः परत्वबुद्धिः । स्वातन्त्र्यबुद्धिरिति यावत् । सा मायाऽज्ञानजन्या । अत एवापार्थाऽयथार्था । अचेतनेऽभेदव्यपदेशस्योक्तगतावपि । तद्योऽहं सोऽसौ सोऽहमित्यादौ चेतनेऽभेदोक्तेर्नेयं गतिस्तदभेदस्यैव सम्भवादिति वाच्यम् । चेतनं प्रत्यपि जननादिहेतोर्भगवतश्चेतनेनाभेदायोगात् । तर्ह्यहं देवदत्तश्च भगवानिति बुद्धिः कथमित्यतः सा च भ्रान्तिरित्याह ॥ यदिति ॥ याऽऽत्मनः स्वस्य परस्य देवतादे-र्बुद्धिर्भगवदभेदबुद्धिः साऽपि मायाऽज्ञानजन्या । अत एवापार्थाऽनर्थप्रदा च । यज्जननादेर्यदधीनत्वं तस्य तत्सामानाधिकरण्यमिति सामान्यव्याप्तिमाह ॥ यद्यस्येति ॥ यस्य जन्मनि धनं स्थितिरीक्षणं ज्ञानं च यद्यतस्तदेव तत्सामानाधिकरण्यव्यपदेशभागेव खलु । वै प्रसिद्धम् ।उदाहरति ॥ कालवदिति ॥ दैववदिति उपलक्षणम् । उष्टिर्वृक्षदाहः । उष दाह इति धातोः । तत्र कालाधीनत्वात् । कालशब्दो यथा प्रलयाग्नौ कालाग्निरिति व्यवहारस्तथा । यथा वा । तरौ कल्पवृक्षादौ दैवाधीनत्वाद्दैवतरुः सुरतरुरित्यादि तथेत्यर्थ इति योजना । एतत्सर्वमभिप्रेत्योक्तं तात्पर्ये ॥ यथा वृक्षश्च वृक्षदाहश्च दैवकालाधीनत्वाद्दैवं कालश्चेत्युच्यते । एवं त्वदधीनत्वात्सर्वस्य सर्वं त्वमित्युच्यते । स्वतस्तद्भिन्नोऽपि । अहं चान्यश्च परमेश्वर एवेत्यपार्था भ्रान्तिः । तदधीनत्वादेव स इत्युच्यते । न स्वरूपत्वादित्यर्थ इति ॥ सुरतर्वादिकं दैवमुच्यते कालाग्न््यादिकं च काल इति चोच्यते । सर्वमित्युच्यते सर्वं ब्रह्मेत्युच्यते । इत्यर्थः । स्वतस्तद्भिन्नोऽपि तथाऽपि सर्वं ब्रह्मेत्युच्यते । यद्वा । अपिशब्दो हेतौ । यतः स्वतो भिन्नस्तत इत्यर्थः । अहं च परमेश्वर एवेति बुद्धिरपार्था भ्रान्तिरित्यर्थः । आद्यन्तयोः पृथगवस्यसीति प्रलयादिसृष्टिकाले स्थितिरुक्ता ॥ ३१ ॥
न्यस्येदमात्मनि जगद् विलयाम्बुमध्ये
शेषासनो निजसुखानुभवो निरीहः ।
योगेन मीलितदृगात्मनि वीतनिद्र
स्तुर्यस्थितो ननु तमोऽनुगुणांश्च युंक्षे१ ॥ ३२ ॥
तात्पर्यम्
तुर्यः स्थितः ॥ ३२ ॥
पदरत्नावली
‘स त्वमाद्यन्तयोः’ इत्यत्रान्ते श्रीहरिरवशिष्यत इत्युक्तम् । तं प्रकारं दर्शयति– न्यस्येति ॥ विलयाम्बुमध्ये इदं जगद् आत्मनि स्वोदरे न्यस्य शेषासनो भूत्वा तुर्यस्थितो जाग्रदा-द्यवस्थाप्रवृत्तिशून्यमूर्तौ स्थितस् त्वं तमः प्रकृतिं गुणान् सत्वादींश्चात्मनि युङ्क्ते ननु । ‘प्रकृतिं पुरुषं चैव प्रविश्य पुरुषोत्तमः । क्षोभयामास’ इत्यादौ प्रतीतप्रवृत्तिशून्योऽभूदित्यन्वयः । निजसुखेत्यादिना तुरीयस्वभावं दर्शयति– वीतनिद्रः । अनिरस्तज्ञानः ॥ ३२ ॥
सत्यधर्मीया
न्यस्येदात्मनीति श्लोके तुर्यस्थित इत्यत्र हेतुर्येवा तुर्ये स्थित इति तुर्याधिकरण-कोऽन्यः प्रतीयत इति भ्रमं तुर्यःस्थित इति पदच्छेदेन भ्रंशयति ॥ तुर्यः स्थित इति । अवस्थात्रयाती-तत्वेन स्थितस्तुर्यनामेत्यर्थः । निवृत्तेः सर्वभावानामीशानः प्रभुरव्ययः । औतः सर्वभावानां देवस्तुर्यो विभुः स्मृतः । तुर्यं तत्सर्वदृक्सदा । सा च तुर्ये न विद्यते । न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः । तुरीयं पदमश्नुत इति माण्डूकोपनिषत् । भाष्ये ‘‘विष्णुस्तुरीयरूपेण द्वादशान्ते व्यवस्थितः । मुक्तानां प्राप्यरूपोऽसौ व्यवहारे न दृश्यते । सम्यक्समाहितानां तु प्राप्तानां षोडशीं कलाम् । अपरोक्षदृशां क्वापि तुरीयं दृश्यते पदम् । एतत्सर्वं तुरीयेण रूपेण न करोत्यजः । सर्वज्ञानप्रदश्चापि मुक्तस्यैव तुरीयक’’ इति ब्रह्माण्डे । ‘‘अमुक्तस्य त्वदृश्यत्वात् षोडशीं वा कलामृते । तुरीयोऽदृष्ट इत्युक्तो ग्रहणादेरगोचरः । विना मुक्तिं यतस्तेनाव्यवहार्य इतीरितः । जाग्रदादिप्रवृत्तिस्तु लक्षणं ह्यनुमापकम् । अलक्षणस्तद्राहित्यादचिन्त्यस्तत एव च । तत एव ह्यनिर्देश्यश्चिदानन्दैकलक्षणः’’ इति विस्तृत्य व्याकरणात्तं सम्बोध्य वक्तव्यस्यार्थस्यासम्भवादिव तस्मिन्नन्यावस्थितेरपि बाधितत्वात् संवलितवचसापि तुर्यः स्थित इत्यर्थनिश्चायकतोपपत्तेः । यतोऽनुववाद तेन जानीमो यथा न सम्बोध-नादिशङ्का स्यात्तथाऽर्थो ज्ञेय इत्याचार्यो ज्ञापयामासेति । अन्यथा तद्वैय्यर्थ्यापत्तेरिति । यथोक्तं तात्पर्यप्रकाशे । तुर्यस्थित इत्यत्र तुर्ये भगवति स्थितोऽन्यः प्रतीयते । अतः पदद्वयमित्याह ॥ तुरीय इति । एतत्तुर्यपदव्याख्यानं तुरीयस्त्वेव मुक्तिद इति वचनात्तुरीयो मुक्तिदाता सन् स्थित इत्यर्थः । तुर्यस्थित इति तात्पर्यपाठेऽप्युक्तरीत्या पदच्छेद एवाभिप्रेत इति ॥ अथ श्लोकमर्थापयामः ॥ आद्यन्तयो-रित्यन्ते श्रीकान्तोऽवशिष्यत इत्यभिहितम् । तद्विशदयति ॥ न्यस्येति । आत्मनि स्वोदरे । तमो हि मूलप्रकृतिर्दुर्गाऽभिमतिमती । तदनुगुणान्सत्त्वादींश्च युङ्क्षे योजयसि । तत्कारणकमिदं जगच्चात्मनि न्यस्य स्थापयित्वा विलयाम्बुमध्ये लयजलमध्ये शेषासनः शेषशायी निजसुखानुभवः स्वरूपानन्दमनु-भवन् । निःस्पृहः निरीहो योगेन मीलितदृक् समाधिना मीलितौ दृशौ यस्य सः । वीतनिद्रः । निद्राशब्देन तत्कारणाज्ञानग्रहः । अथवा निद्रेति स्वप्नस्याप्युपलक्षकम् । वीता निद्राऽज्ञानम् । निद्रा स्वप्नाद्या यस्मिन्सः । तुर्यः स्थितोऽप्रवर्तकः सन्वर्तसे ननु । नियुङ्क्षे नन्विति वाऽन्वयः । युजिर् योगे
॥ ३२ ॥
मन्दनन्दिनी
तामेव विवृण्वन् स्तौति ॥ न्यस्येदमिति ॥ हे भगवन् । विलयाम्बुमध्ये इदं जगन्महदादि । आत्मन्युदरे न्यस्य शेषासनः । शिष्यत इति शेषं प्रलयकाले विद्यमानं वटपत्रमासनं यस्य सः । भूत्वा कालविशेषाविवक्षया वा शेषासनो निजसुखानुभवो निरीहः सृष्टीच्छाव्यक्तिरहितः । पूर्णकामो वा । योगेनात्मसामर्थ्येन । स्वेच्छयैवेति यावत् । मीलितदृक् । कुत इत्यतो वस्तुतो वीत-निद्रः । तदपि कुतस्तुर्यस्थितः । ननु जीवस्य संसारेऽवस्थात्रयम् । तुर्यावस्था मुक्त्यनन्तरावस्था । भगवांश्च नित्यमुक्तः । तथा तुर्ये मुक्त्यवस्थायामेव स्थितो विद्यमानः । एतदभिप्रायेण तुर्ये स्थित इति विग्रहः प्रदर्शितस्तात्पर्ये । अन्वनन्तरं प्रलयचरमभागे आत्मनि स्वाधीनतया विद्यमानं तमः प्रकृति-मन्वनन्तरं गुणांश्च सत्त्वादिगुणान् युंक्षे कार्योन्मुखीकरोषीति योजना ॥ ३२ ॥
तस्यैव ते वपुरिदं निजकालशक्त्या
सञ्चोदितं प्रकृतिधर्मिण आत्मगूढम् ।
अम्भस्यनन्तशयनाद्विरमत्समाधेः
नाभेरभूत् स्वकणिकाद्वटवन्महाब्जम् ॥ ३३ ॥
तात्पर्यम्
जगदात्मकमब्जमपि भगवद्वशत्वात्तद्वपुः । ‘स्थावराणां तु सर्वेषां देवता याऽभिमानिनी । विशेषाद्वटबीजे च साऽश्वत्थे च व्यवस्थिता ॥ अदृश्या कणिका नाम सा वृक्षान्व्यञ्जयत्यपि । अतो बीजमिति प्रोक्ता सा जातेऽप्यङ्कुरे स्थिता ॥ एवं हरिः कारणेषु स्थितः कार्यजनेरनु । कार्याण्यनुप्रविष्टः सन् प्रथमं नात्र दृश्यत’ इति च ॥ ३३ ॥
पदरत्नावली
सृष्टेः प्रागित्युक्तं दर्शयति– तस्येति ॥ तस्य तुरीयस्यास्य जगत्कारणस्य च कश्चिद् विशेषो नास्तीति द्योतनाय एवकारः । आत्मनि देहे जठरे गूढं निलीनम् इदं जगज् जगदात्मकं महाब्जं यस्य तव नाभेरभूत् तदब्जं तस्यैव ते वपुः सन्निधानविषयत्वात् प्रतिमास्थानीयम् । कीदृशं स्वरूपम् ? भूतसृष्टिकालशक्त्या संचोदितं सृष्टये प्रेरितं कटाक्षीकृतम् । कीदृशस्य ? प्रकृतिधर्मिणः प्रकृतिप्रेरकधर्मवतः । प्रलयोदकेऽनन्ताख्यशयनादुत्थाय विरमन् समाप्तिं कुर्वन् समाधिर् योगनिद्रालक्षणो यस्य स तथा तस्य । कथमिव ? वटवत् । वटलक्षणोऽङ्कुरो यथा स्वकर्णिकाद् उत्पत्स्यमानकणिकात् कणिकाख्यवटबीजादित्यर्थः । नन्वयं विषमो दृष्टान्तः । तथाहि– ‘कणिका नाम वटबीजविकारो हि वटाख्याङ्कुरः । न चायं प्रकृते सम्भवति । ‘निर्विकारोऽक्षरः शुद्धः’ इति वचनादुच्यते । स्वकणिका-दिति लिङ्गव्यत्ययेन कश्चिद्विशेषो विज्ञायते । कोऽयमिति चेदुच्यते । कणिका नामादृश्या देवता सर्वस्थावरबीजानामभिमानिन्यपि वटाश्वत्थबीजयोर्विशेषतः सन्निहिता । अतस् तत्तद्बीजेभ्यस्तदङ्कुर-व्यञ्जनात् तत्प्रागपि तत्र स्थित्वा जातेत्युच्यते यथा तथा श्रीहरिरपि प्रकृत्यादिस्वामित्वेन तत्सन्निहि-तत्वेन च स्थितः, तत्कार्येष्वनुप्रविष्टत्वेन जात इत्युच्यते । ‘आत्मन आकाशः सम्भूतः’ इत्यादौ श्रुतत्वात् । तत्रापि वटबीजाद् वटाङ्कुरस्य साक्षादुत्पत्तिः । वटवृक्षिणश् चेतनस्याचेतनाभिमानादुत्पत्तिर् उभयाभिमानिन्या देवताया अभिव्यञ्जकत्वेन अभिव्यक्तिः । तथा यथायोग्यं सत्वतमोमिश्ररजोगुणाज् जगदात्मनः पद्मस्य साक्षादुद्भवः । पद्मिनो हिरण्यगर्भस्याभिमानजननम् । हरेः रूपान्तरेण इत्यादिक-मिति । ‘स्वावराणां तु सर्वेषां देवता याऽभिमानिनी । विशेषाद् वटबीजे च साऽश्वत्थे च व्यवस्थिता । अदृश्या कणिका नाम, सा वृक्षान् व्यञ्जयत्यपि । अतो बीजमिति प्रोक्ता सा जातेत्यङ्कुरे स्थिता । एवं हरिः कारणेषु स्थितः कार्यजनेरनु । कार्याण्यनुप्रविष्टः सन् प्रथमं तत्र दृश्यते ॥’ इत्यनेनोक्तविशेषो विज्ञायत इति न काऽपि शङ्का कार्येति । तस्माद् दृष्टान्तदार्ष्टान्तिकयोरुपपत्तिरस्तीति युक्त एव दृष्टान्तः
॥ ३३ ॥
सत्यधर्मीया
तस्यैव ते वपुरिदमिति श्लोके तव नाभेर्यदब्जमभूत्तत्ते वपुरिति साक्षाद्भगव-च्छरीरत्वमित्यन्यथाप्रतीतिं तत्पद्मस्वरूपाप्रतिपत्तिं च पराकर्तुं व्याकरोति ॥ जगदिति । जगदात्मकमिति तत्स्वरूपनिरूपणम् । तदपि भगवद्वशत्वात्तद्वपुरित्युच्यत इति शेषः । तस्मिन्नेव च पद्ये वटकणिका-द्वटवदिति निदर्शनेन नाभेरम्भोजस्योपादानोपादेयभावभ्रान्तिं न मानामानेन निवारयति ॥ स्थावरणा-मिति । सर्वेषां स्थावराणां याऽभिमानिनी अभिमतिमती देवता सा विशेषाद्बहुप्ररोहवशाद्वटाश्वत्थयोरेव मुखतो ग्रहः । यथोक्तं सप्तमपञ्चकविंशत्खण्डब्राह्मणे । ते च न्यञ्चो रोहंस्तस्मान्न्यग्रोहति न्यग्रोहो वै नामेति । अश्वत्थः सर्ववृक्षाणामित्यादेर्वनस्पतिश्रैष्ठ्यात् साक्षात्तद्ग्रहः । प्रलयजलशायित्वेन भगवतः प्रसक्तेस्तच्छयनस्य बहुमानबहुमतत्वादवान्तरप्रलयेऽपि मार्काण्डेयस्य तत्र तत्पत्र एव भगवतः प्रत्यक्षी-भवनाच्च वटबीजोक्तिरिति तद्बीजमवधेयम् । वटबीज इत्यानुकूल्येनाश्वत्थ इत्यत्रापि बीज इति ग्राह्यम् । व्यवस्थिता तथा प्रमाणतो ज्ञाता । अत एवादृश्येत्युक्तिः । सा कणिकेति नाम प्रसिद्धा । नाम नाम्ना कणिका वेति वा । कणिका कथ्यतेऽत्यन्तसूक्ष्मवस्त्वग्निमन्थयोरिति विश्वः । वृक्षानिति वचना-द्वटाश्वत्थबीजेति सर्वबीजोपलक्षकमिति ज्ञेयम् । व्यञ्जयति । अतोऽत एव बीजमिति प्रोक्ता । व्यञ्जना-द्बीजमिति पूर्वोदाहृतमानत इति मानतश्च प्रोक्ता । (इदं वाक्यम् अमुद्रित कोशे नास्ति) सा अङ्कुरे जाते सति प्रथमं वृक्षवृद्ध्यादिजनकतया मुख्यतस्तत्र वृक्षादिके दृश्यते । अनुमानतो ज्ञानिविशेषैरपरोक्षीक्रियत इति वा । यथैवं तथा हरिः स्वयं कारणेष्ववान्तरेषु तत्त्वेन स्वेन (स्वतः) क्लृप्तेषु स्थितो व्यवस्थितः । कार्यजनेस्तज्जन्मनः । अनु अनन्तरं तानि कार्याण्यनुप्रविष्टस्तत्तद्रूपानुरूप्येणप्रविष्टः सन् प्रथमं मुख्यतस् तत्र कार्ये तदुन्नाहकतया दृश्यत इति ब्रह्मतर्क इति शेषः । एतत्प्रकारस्तु न्यग्रोधफलमत आहरेत्यादि-नवकृत्वोपदेशे विस्तृत्योक्तोऽनुसन्धेयः । अतोऽपि प्रमाणे वटपुरस्कृतिरिति मन्तव्यम् ।
ततो मूलविततिः ॥ आद्यन्तयोरित्युक्तान्तःस्थितिरतिदुःसहेति तामभिधायादावादावित्येतद्वितत्य वदति ॥ तस्यैवेति । ते जगत्कारणस्य तस्य तुर्यस्य । एवकारेण गुणकर्मादिविशेषो नास्तीति द्योत्यते । प्रकृतिधर्मिणः प्रकृतिः प्रकृष्टा कृतिश्चासौ धर्मश्च सोऽस्यास्तीति स तथा । सृष्टावुद्यतत्वादेवमुक्तिः । क्वचित्प्रकृतिधर्मण इति दृश्यते । तत्र प्रकृतिरुक्तरूपा धर्मो यस्य स इति विग्रहः । धर्मादनिच् केवला-दित्यनिच् । अम्भसि समुद्रे । अनन्तशयनाच्छेषशय्यातः । विरमत्समाधेर्विरमद् विरतिमवसानमिति यावत् । प्राप्नुवानः । समाधिर्योगनिद्रारूपो यस्येति तस्य । विरमंश्चासौ समाधिश्च तस्मादिति हेतूक्तिर्वा । तव नाभेर्निजकालशक्त्या निजः स्वप्रेरितः स्वाधीन इति यः कालस्तच्छक्त्या सञ्चोदितं सृष्ट्यभिमुखत्वेन स्वाभिमानिदेवताद्वारा प्रेरितं यन्महाब्जं जगदात्मकं पद्ममभूत्तदिदं तव वपुः सन्निधानपात्रतयाऽऽ-धीनत्वात्तदिवोच्यते । तदुपादानं त्वन्नाभिर्नेति वक्तुम् । आत्मगूढमिति । आत्मनि गूढं निलीनम् । तत्र निदर्शनमाह ॥ स्वकणिकाद्वटवदिति । स्वकणिका परिदृश्यमानबीजान्तर्निहिताऽदृश्या देवता तस्या अत्यते बहिः सन्ततमागम्यत इति स तथा । स चासौ वटश्च । ‘वटः कपर्दे न्यग्रोध’ इति विश्वः । न्यग्रोधश्च स इव । अन्तर्निलीनदेवतावटयोर्यथा नोपादानोपादेयभावस्तथा नाभेर्जगदात्मकमब्जमभूदिति भावः । ऐकपद्याश्रयणेन न तात्पर्यव्याख्यानकालोदाहृतविश्वकोशोक्तस्रीलिङ्गबाधापीति ज्ञेयम् । यद्वा स्वकणिकादिति वटवदिति वा पदे । सामानाधिकरण्येनान्वयः । संसारः सर्वोऽपि प्राग्वत्१ । स्वकणिका देवता यस्मिंस्तत्स्वकणिकं परिदृश्यमानबीजं तस्माद्वटवत् । प्रकृतिधर्मिण इत्युक्ताप्रकृति-रुपादानं बीजवद् धर्मी हि भगवान्देवतावद् वटवज् जगज्जलजवदित्युपादाननिमित्तोक्तिरिति वा ॥३३॥
मन्दनन्दिनी
महाप्रलये विद्यमानेन भगवता पद्मनाभस्य निर्विशेषाभेदमुक्त्वा स्तौति ॥ तस्यैवेति । तस्यैव प्रलयकालवर्तिनो निर्विशेषाभिन्नस्यैव ते प्रकृतिधर्मिणः प्रकृत्यादितत्त्वसमुदाया-श्रयस्याम्भस्यनन्तशयनादनन्तशयनमधिष्ठाय विरमत्समाधेः समाप्नुवद्योगनिद्रस्य आत्मगूढमुदरे विद्यमानं निजा स्वाभाविकी । कलयतीति कालविषयिणी या शक्तिस्तया सञ्चोदितं ते नाभेः स्वकणिका-वद्वटवद्वटाङ्कुरमिव यन्महाब्जमभूदिदं ते वपुर्वपुस्थानीयं त्वद्वशत्वादिति योजना । अत्र कणिका-शब्दवाच्यस्य बीजस्य वटं प्रति विकारिकारणत्ववद्द्भगवन्नाभेर्विकारिकारणत्वं न मन्तव्यम् । कणिका-शब्दस्य बीजान्तर्वर्तिदेवतापरत्वात् । एतदेवाभिप्रेत्य तात्पर्यम् ॥ जगदात्मकमब्जमपि भगवद्वशत्वा-त्तद्वपुः । ‘‘स्थावराणां तु सर्वेषां देवता याऽभिमानिनी । विशेषाद्वटबीजे च साऽश्वत्थे च व्यवस्थिता । अदृश्या कणिका नाम सा वृक्षान्व्यञ्जयत्यपि । अतो बीजमिति प्रोक्ता सा जातेऽप्यङ्कुरे स्थिता । एवं हरिः कारणेषु स्थितः कार्यजनेरनु । कार्याण्यनुप्रविष्टः सन् प्रथमं तत्र दृश्यत’’ इति च ॥ जगदात्मक-मित्यनेन जडत्वं सूचितम् । तद्वशत्वादिति निमित्तोक्त्या वपुःशब्दो गौण इत्युक्तं भवति । सा देवताऽङ्कुरोत्पत्तेः पूर्वं बीजे व्यवस्थिता संनिहिता । तत्रापि वटबीजेऽश्वत्थेऽश्वत्थबीजे च विशेषेण व्यवस्थिता । तस्या एव कणिकेति नाम । न चैवं कणिकाया बीजत्वोक्तिरनुपपन्ना । व्यञ्जकत्वादिना तदुपपत्तेरित्याह ॥ सा वृक्षान्व्यञ्जयत्यपीति ॥ न च बीजस्याङ्कुरतायां देवता क्व वर्तत इति वाच्यम् । परिणामानन्तरमङ्कुरे स्थित्युपपत्तेरित्याह ॥ सा जातेप्यङ्कुरे स्थितेति । हरेरप्येवं स्थितिमाह ॥ एवमिति । प्रथमं कार्यजनने । पूर्वं तत्र कारणेऽनन्तरं तत्र कार्ये दृश्यत इत्यर्थः ॥ ३३ ॥
तत्सम्भवः कविरतोऽन्यदपश्यमान
स्त्वां बीजमात्मनि ततं स बहिर्विचिन्वन् ।
नाविन्ददब्दशतमप्सु निमज्जमानो
जातेऽङ्कुरे कथमिहोपलभेत बीजम् ॥ ३४ ॥
पदरत्नावली
तत्र विरिञ्चस्य लोकपद्मलक्षणदेहाभिमानोत्पत्तिपूर्वकं हरेर्वटबीजाभिमानिदेव-तावददृश्यत्वं प्रकटयन् तस्य मीमांसामाह– तत्सम्भव इति ॥ पद्मस्य प्रकृत्यात्मकत्वेन तस्मात् पद्मात् सम्भवो जननं यस्य स तथा । लोकात्मकत्वेन तस्मिन् देहस्थानीये अभिमानसम्भवो यस्य स तथा । उभयोरप्यत्र विवक्षितत्वात् । अतो ऽब्जाद् अन्यद् वस्तु न पश्यन् अप्सु निमज्जमानो निमज्य मूलं विचिन्वन् लोके बीजादङ्कुरे जाते नष्टं बीजमिव पृथिव्यां कथमुपलभेत पुरुष इति तच्चिन्तां दर्शयन्नेवं-विधः कविर् ब्रह्मा आत्मनि स्वात्मनि अब्जान्तस् तस्माद् बहिश्च विततं व्यञ्जकत्वाद् बीजदेवतावद् बीजसंज्ञं त्वां नाविन्दन् नोपलब्धवानित्यन्वयः ॥ ३४ ॥
सत्यधर्मीया
यदर्थमम्भोभवसम्भव उक्तः । षष्ठे च कञ्जमुलोकतन्त्रमिति सङ्कुच्योक्तं देवतावद-दृश्यत्वं यदुक्तं भगवतस्तदिदानीं प्रकटयंश्चतुराननविचारमाह । तत्सम्भव इति । तस्मा-त्पद्मनाभात्सम्भवतीति सम्भवो यस्येति वा । स इति तत्र लोकात्मके सम्भवोऽभिमतिरूपो यस्येति वा । अतः प्रकृत्यात्मकात्कमलात् । अन्यद्वस्त्वपश्यमानोऽपश्यन् । कस्याप्यधुना अजननात् । अप्सु लयजलेऽब्दशतं निमज्जमान आत्मनि स्वस्मिन्नेव ततं व्याप्तं बीजं व्यञ्जकं त्वामन्तर्बहिरपि विचिन्व-न्विचारयन् स कविर्ज्ञानी सन्नपि नाविन्दन्नोपलब्धवान् । अङ्कुरे जाते बीजे तु तत्वेन परिणते इह पुनस्तद्बीजं कथमुपलभेत । पुमानितिस्वयं विचारयन्बीजं व्यञ्जकं नाविन्ददिवेति । जातेऽङ्कुरे कथमुप-लभेतेत्यत्र यद्वक्तव्यं तदतीतश्लोकतात्पर्ये सा जाते त्वङ्कुरे स्थित्यादिनोक्तं मननीयम् । अत्र वक्तव्यं सर्वं षष्ठे ‘‘अज्ञानं च चतुर्वारं द्विवारं भयमेव च’’ इत्याद्युदाहरणपूर्वकमाचार्यैर्विचारितमिति नेह पराक्रान्तमतस्तदेवेहानुसन्धेयम् ॥ ३४ ॥
मन्दनन्दिनी
पूर्वश्लोके पद्मोत्पत्तिमुक्त्वाऽधुना ब्रह्मणः पद्मादुद्भवं पद्मोपादानगतरूपस्य पद्मादन्यत्रादर्शनं चाह ॥ तदिति ॥ तत्सम्भवः पद्मसम्भवः कविः सर्वज्ञः सः प्रसिद्धो हिरण्यगर्भोऽतः पद्मादन्यद्वस्त्वपश्यन् । व्यञ्जकत्वाद्बीजशब्दवाच्यम् । उपादानगतम् । वस्तुत आत्मनि स्वदेहभूते पद्मे ततमब्दशतमप्सु निमज्यमानः सन् बहिः पद्माद्बहिर्विचिन्वन् गवेषमाणो नाविंदत् । कुत इत्यत आह ॥ जात इति ॥ अङ्कुरे जाते तत्रैव विद्यमानं बीजगतं रूपम् । इह ततो बहिः कथमुपलभेतेति योजना । अत्र पद्मोपादानगतस्य कणिकाशब्दवाच्यस्यादृश्ययोगिगम्यस्य कार्ये जाते तद्गतत्वेनान्यत्राभावात् । अन्यत्रादर्शनं पद्मगतत्वेनैव दर्शनं च ग्राह्यम् । बहिर्गवेषणं च लोकविडम्बनाय भगवत्प्रीत्यर्थमेव वा । अन्यथा कविरित्युक्तसर्वज्ञत्वविरोधात् । उपादानाद्यनन्तर्गतपद्मनाभदर्शनं तु तपसाऽस्त्येव । तृतीयस्कन्धे तथैवोक्तेरित्येव मन्तव्यम् ॥ ३४ ॥
स त्वात्मयोनिरतिविस्मित आश्रितोऽब्जं
कालेन तीव्रतपसा परिशुद्धभावः ।
त्वामात्मनीश भुवि गन्धमिवातिसूक्ष्मं
भूतेन्द्रियाशयमये विततं ददर्श ॥ ३५ ॥
पदरत्नावली
आत्मा परमात्मा योनिः कारणं यस्य स तथा । तुशब्देनैकस्य हरेर्बहुधा जन्मास्तीति विशेषं दर्शयति । स एव ब्रह्मा अब्दशतसंज्ञितेन कालेन विचिन्त्य विविधपृथिव्याद्या-धाराणामनुत्पन्नत्वाद् अस्य केनचिदाधारेण भवितव्यम्, लौकिके बीजनाशवत्, नाशायोगात् सन्नपि न दृश्यते, कुतूहलमेतदिति अतिविस्मितो अब्जमाश्रितस् तप इति द्व्यक्षरं श्रुतवान् । ‘तपसाऽहं द्रष्टुं शक्तः’ इत्यनेनोक्तमभिजानन् तीव्रेण तपसा परिशुद्धान्तःकरणो भूतेन्द्रियाशये जगति विततं त्वाम् आत्मनि स्वस्मिन् स्थितं ददर्शेत्यन्वयः । कथमिव ? भुवि व्याप्तमतिसूक्ष्मं गन्धाख्यदेवतास्वरूपं यथा पश्यति योगी तथेत्यर्थः । १‘गन्धाख्यदेवता यद्वत् पृथिव्यां व्याप्य तिष्ठति । एवं व्याप्तं जगद्विष्णुं ब्रह्माऽऽत्मस्थं ददर्श ह ॥’ इति वचनाद् गन्धशब्देन देवताकथनं युक्तमिति भावः ॥ ३५ ॥
सत्यधर्मीया
कविरेवं विचारयन्व्यज्ञासीद्वा नेति ज्ञीप्सायामाह ॥ स इति । आत्मयोनिरात्मा परमात्मा त्वमेव योनिः कारणं यस्य सः । सत्त्वात्मयोनिरित्यखण्डं वा पदम् । सत्त्वं शुद्धं तदेवात्म-योनिः स्वकारणं यस्य सः । सत्त्वसत्त्वश्चतुर्मुख इत्यादेः । अतिविस्मितो विना कारणं न कार्यनिष्पत्तिः सा च जाता तत्त्वन्तर्बहिरपि नोपलभ्यत इति कुतूहलाकुलः स्वयं यज्जातस्तदब्जं पुनराश्रित उपारूढः । कालेनाब्दशतात्मना । तीव्रेण त्वरया स्वकामितदेन तपसा तपतपेत्यशरीरगिरोऽनन्तरं चीर्णेन । परिशुद्धभावो भगवद्दयोदययोग्यमनस्कः । आत्मनि ततं त्वाम् । तथा भूतेन्द्रियाशयमये । भूतानीति पञ्च । मनसोऽन्यानीन्द्रियाणि । आशयो मनश्चैतदात्मके जगति भुव्यतिसूक्ष्मं गन्धं तदभिमानिनीं देवताम् । गन्धस्य घ्राणग्राह्यस्यातिसूक्ष्मत्वं सूक्ष्मेक्षिकयाऽऽलोचने सम्भवद्दैवतैवात्रार्थ इत्यवगमयतीति ज्ञेयम् । हे ईश । यथा योगी गन्धं देवतां पश्यति । तद्वत्त्वां ददर्शेत्यन्वयः ॥ ३५ ॥
मन्दनन्दिनी
बहिर्नाविन्ददित्युक्त्या बहिरेवादर्शनम् । अन्तस्तु दर्शनं जातमित्याह ॥ स त्विति ॥ हे ईश आत्मयोनिः परमात्मकारणकः स हिरण्यगर्भः । तुशब्देन देवतान्तराद्वैशिष्ट्यमाह । एकस्य हरेर्बहुधा जन्मास्तीति । अतिविस्मितो भगवद्विषयेऽत्यन्ताश्चर्यबुद्धिमान् अब्जमाश्रितः । कालेन भगवन्नियुक्तकालावच्छिन्नेन तीव्रतपसा परिशुद्धभावस्तादृशरूपदर्शनसमर्थमनस्को, य इति काले तपस्यनुष्ठित एव ब्रह्मणा दृश्ये एवमिति भगवत्सङ्कल्पादिति भावः । त्वां भूतेन्द्रियाशयमये आशयो मनस्तत्त्वं भूतादिविकारे आत्मनि देहस्थानीये पद्मे भुवि गन्धमिव गन्धाख्यदेवतामिवातिसूक्ष्मं विततं व्याप्य स्थितं ददर्शेति योजना । अत एव तात्पर्यम् ॥ २‘‘गन्धाख्या देवता यद्वत्पृथिवीं व्याप्य तिष्ठति । एवं व्याप्तं जगद्विष्णुं ब्रह्मात्मस्थं ददर्श ह’’ इति चेति ॥ जगद्व्याप्तं जगद्व्याप्यतिष्ठन्तम् । आत्मस्थं देहस्थानीयपद्मस्थमित्यर्थः ॥ ३५ ॥
एवं सहस्रवदनाङ्घ्रिशिरःकरोरु
नासास्यकर्णनयनाभरणायुधाढ्यम् ।
मायामयं सदुपलक्षणसन्निवेशं
दृष्ट्वा महापुरुषमाप मुदं विरिञ्चः ॥ ३६ ॥
तात्पर्यम्
मायामयं ज्ञानस्वरूपम् । सदुपलक्षणसन्निवेशम् आनन्दादिलक्षणसमुदायरूपम् ‘गन्धाख्या देवता यद्वत्पृथिवीं व्याप्य तिष्ठति । एवं व्याप्तं जगद्विष्णुं ब्रह्माऽऽत्मस्थं ददर्श ह’ इति च ॥ ३६ ॥
पदरत्नावली
यथा सूक्ष्मरूपं दृष्ट्वा मुमुदे यथा विराड्रूपमपि तयोरीषदपि विशेषाभावा-दित्याह– एवमिति ॥ अनेन ब्रह्माण्डशरीरी ब्रह्मा ‘पातालमेतस्य हि पादमूलम्’ इत्याद्युक्तं यद्रूप-मपश्यत् तदेव पद्मजमपीति ज्ञातव्यम् । आत्मयोनिरिति विशेषणात् । मायामयं ज्ञानरूपम् । अनिर्वाच्याऽविद्या माया नामेति किं न स्यादित्यत्राह– सदिति ॥ आनन्दादिलक्षणसमुदायरूपम् । ‘अथ कस्मादुच्यते सदिति सन्तो ह्यस्मिन्नानन्द ओजो बलम्’ इति स्पष्टश्रुतेः । ‘सन्निवेशश्च यः स्तोमः समुदायो गणः स्मृतः’ इत्यभिधानम् । आनन्दादिलक्षणानां सन्निवेशो यस्मिन् स तथा तम् । गुणगुणिनोरभेदात् स्वरूपत्वं सिद्ध्यति । ‘विज्ञानमानन्दं ब्रह्म’ इति श्रुतेः । लक्षणत्वज्ञापनायादिशब्देन ज्ञानग्रहणम् ॥ ३६ ॥
सत्यधर्मीया
मायामयं सदुपलक्षणसन्निवेशमिति पद्यार्धे दृष्टरूपस्य मायिकत्वं तथैव सदुप-लक्षणसन्निवेशं सद्ब्रह्मैवोपलक्षणस्य मायिकरूपस्य सन्निवेशमन्तर्धानस्थानमित्यर्थ इति भ्रमभ्रमणाय तदनूद्य व्याकरोति ॥ मायामयमिति । माया वयुनं ज्ञानमिति तन्नामसु पाठान्मयटश्च तादात्म्यार्थे विकारार्थे प्राचुर्यार्थे मयट् त्रिधेति वचनात्तादात्म्यार्थतेति ज्ञानरूपमित्यर्थ उक्तः । सदुपलक्षणसन्नि-वेशम् । ‘‘सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते । सद्भाववाचिनः शब्दाः सर्वे ते सुखवाचकाः ॥’’ इति गीतातात्पर्योक्तेः ‘‘लक्षणं परमानन्दो विष्णोरेव न संशयः’’ इत्यादिवचनात् । सन्ति आनन्दा-दीनि उप इतरविलक्षणत्वेनाधिकानि लक्षणानि तेषां सन्निवेशः समुदायस्तद्रूपमिति भावेन व्याचष्टे ॥ आनन्दादिसमुदायरूपमिति । स त्त्वात्मयोनिरिति श्लोके भुवि गन्धमिवात्मनि विततं त्वां ददर्शेति गन्धनिदर्शनेन दर्शनकर्मात्रापि तदेव नान्यदिति निष्टङ्कयितुं दृष्ट्वेत्यनुवादानुकूल्यार्थं भुवि गन्धमिव दृष्ट्वेत्यपि योजनीयमिति ग्रन्थकृद्भावमावेदयितुं संसारोऽखण्डश्लोकद्वयस्यायं तदुपसंहाररूप इति सूचयितुं गन्धोऽयं जड इति भ्रमं वारयितुं मानं ब्रह्मतर्कवचनमुदाहरति ॥ गन्धाख्येति । आत्मस्थं विष्णुं जगद्व्याप्तं सर्वव्यापिनम् । एतदर्थः सप्रमाणं षष्ठे स्पष्टोक्तोऽनुसन्धेयः ।
ततश्चायं श्लोकार्थः ॥ यत्सूक्ष्मतमं प्राग्ददर्शेत्युक्तं तदेवेदं न तिलतुलव्यत्यास इति वेदव्यास आवेदयति ॥ एवमिति ॥ आत्मयोनिरित्युक्तिस्वारस्यान्न पद्मभवस्य स्वयम्भुवश्च तदुभयविभातवस्तुनो विशेष इति ज्ञायते । सहस्रेत्येतद्वदनादिभिः सर्वैः सहान्वायि । सहस्रमनन्तानि वदनानि तथाऽङ्घ्रयः पादाः शिरांसि करा उरव उत्सङ्गा नासा नासिका आस्यानि वक्त्रमध्यप्रदेशाः । ‘‘आस्यं वक्त्रे वक्त्रमध्य’’ इति विश्वः । कर्णाः श्रोत्रेन्द्रियाणि नयनानि नेत्राणि । आभरणान्यलङ्कारा आयुधानि चक्रादीनि तैराढ््यं युक्तम् । स्वरूपभूतवदनादिभिः सहपाठादाभरणायुधानामपि तदात्मकानां ग्रहण-मौचितीं भजत इति वा भिन्नानां ग्रहणं सहपाठेऽपि तन्मुख्यं ज्ञानशब्दयोरित्यादाविव विशेषसम्भवादिति यथासम्प्रदायं ज्ञेयम् । एवं शेषासन इति प्रागभिहित आसनत्वेन सहस्रवदनः शेषो यस्य स चासावङ्घ्य्राद्याढ््यश्चेति वा । एतत्पक्षेऽङ्घ्य्रादिपदान्येव बहुवचनान्ततया विगृहीतानि बाधकाभावाद-नन्तत्वसमर्पकाणीति मन्तव्यम् । मायामयं ज्ञानात्मकम् । मायेति भगवत्प्रज्ञेत्यादेः । सदुपलक्षण-सन्निवेशमानन्दाद्यधिकलक्षणसमुदायरूपम् । अथ कस्मादुच्यते सदिति सन्तो ह्यस्मिन्नानन्द ओजो बलमित्यादिश्रुतेः । ‘‘सन्निवेशश्च यः स्तोमः समुदायो गुणः स्मृतः’’ इत्यभिधानम् । विज्ञानमानन्दं ब्रह्मेत्यादेस्तदात्मकता ज्ञेया । विरिञ्चो महापुरुषः । योगी यथा भुवि गन्धं तद्देवतां दृष्ट्वा मुदमुपैति तथा मुदमापेत्यर्थः ॥ ३६ ॥
मन्दनन्दिनी
न केवलं पद्मान्तर्गतसूक्ष्मरूपं बहिः पद्मनाभरूपं दृष्टवान् किन्तु पातालमेतस्य हीत्यादिनोक्तं विराड्रूपं दृष्ट्वा मुदमापेत्याह ॥ एवमिति ॥ अनन्तार्थकसहस्रपदं वदनादेः सर्वस्य विशेषणम् । मायामयम् । एतच्च मायामयं ज्ञानस्वरूपमिति वा तात्पर्ये व्याख्यातम् । मायेत्युक्ता प्रकृष्टत्वात्प्रकृष्टं हि मायाभिधम् । विष्णोः प्रज्ञप्तिरेवैकेति श्रुतेः । सदुपलक्षणसंनिवेशम् । एतदप्या-नन्दादिलक्षणसमुदायरूपमिति तात्पर्ये व्याख्यातम् । अथ कस्मादुच्यते सदिति । सन्तो ह्यस्मिन्नानन्द ओजो बलमिति स्पष्टश्रुतेः । उपशब्दस्योपपन्नार्थकत्वात् । संनिवेशशब्दस्य ‘‘सन्निवेशश्च यः स्तोमः समुदायो गुणः स्मृतः’’ इत्यभिधानात् ॥ ३६ ॥
तस्मै भवान् हयशिरस्तनुवं च बिभ्रद्
वेदद्रुहावतिबलौ मधुकैटभाख्यौ ।
हत्वाऽनयत् श्रुतिगणांश्च रजस्तमश्च
सत्वं तव प्रियतमां तनुमामनन्ति ॥ ३७ ॥
पदरत्नावली
रजस्तमःस्वभावौ (स्वभवौ)अतिबलौ वेदद्रुहौ मधुकैटभाख्यौ हत्वा श्रुतिगणा-ननयत् । आनीयास्मै विरिञ्चायावोचत्, इति शेषेणान्वयः । अनेनैतत् सिद्धमभूदित्याह– सत्त्वमिति ॥ चतुष्पदधर्मं पासि । यस्त्वं कलौ छन्नोऽभव इति यस्मात् तस्मात् स त्वं त्रियुग इति ख्यातः ॥ ३७ ॥
सत्यधर्मीया
यो मुदमाप विरिञ्चस्तस्मै । भवान्हयशिरस्तनुवं हयग्रीवशरीरम् । तनुवमित्यत्र इयङादिप्रकरणे तन्वादीनां छन्दस्युपसंख्यानमित्युवङ् । बिभ्रद्दधत् । मधुकैटभाख्यौ मधुश्च कैटभ-श्चेत्याख्या ययोस्तौ । इतरावध्यत्वे हेतुमाह ॥ अतिबलाविति । अति बहुसन्निहितो बलति सदा इति बलो वायुर्ययोस्ताविति । तत्कृतमनुपकारमाह ॥ वेदद्रुहाविति । तद्द्रोहोऽपहारात्मा तदुक्तानुष्ठान-प्रतिबन्धादिनेति ज्ञेयम् । हत्वा तद्वरयाचनादिकं विधाय चक्रेण । रजस्तमश्च किञ्चिद्रजोमिश्रभूयो-भागस्तामस इति तद्रूपौ । श्रुतिगणाननयत्प्रापयामास । तदभिमानिनस् तद्वशान्कारयामासेत्यर्थः । शुद्धसात्त्विकत्वाद्धातुस्तद्धितकरणमुचितमच्युते इत्याह ॥ सत्त्वमिति । तव प्रियतमां तनुमामनन्ति । म्ना अभ्यासे इति । अस्य मनआदेशे रूपम् । आगमा आगमज्ञाश्चेति शेषः । तदुत्पत्त्यादिस्तु ‘‘त्वया पुरा कर्णपुटाद्विनिर्मितौ महासुरौ तौ मधुकैटभाख्यौ । प्रभञ्जनावेशवशात्तवाज्ञया बलोद्धतावाशु जलेऽभ्य-वर्धताम् ।’’ त्वदाज्ञयेत्यारभ्य मेदिनीमित्यन्तेनोक्तः श्रीमन्महाभारततात्पर्यनिर्णयेऽनुसन्धेयः । महाभारते वनपर्वणि धुन्धुमारोपाख्याने ‘‘एकार्णवे तदालोक’’ इत्यारभ्य वित्रासयेतामित्यादि गर्भीकृत्य चक्रेण शितधारेण न्यकृन्तत महायशा इत्यन्तेनेश्वरस्य ताभ्यां वरदानं ततो हरिणाऽप्यरिणा तयोर्वधादिकं विस्तरतः प्रतिपादितमनुसन्धेयम् । स्वोत्पत्तिस्थानत्वाच्छ्रवसोर्बहुश्रवणादिना श्रान्तिर्न भवत्विति श्रुतितस्करणं युक्तिमदिति ज्ञेयम् ॥ ३७ ॥
मन्दनन्दिनी
भवान्हयशिरस्तनुवं च बिभ्रत् श्रुतिगणांश्च । तस्मै ब्रह्मणेऽनयद् रजस्तमः सत्त्वं च प्रियतमां तनुं प्रीतिविषयप्रतिमाम् । देवताप्रजेश्वरराक्षसादिषु स्थित्वा लीलाकर्तृत्वात् ॥ ३७ ॥
इत्थं नृतिर्यगृषिदेवझषावतारै
र्लोकान् विभावयसि हंसि जगत्प्रतीपान् ।
धर्मं महापुरुष पासि युगानुवृत्तं
छन्नः कलौ यदभवस्त्रियुगोऽथ स त्वम् ॥ ३८ ॥
सत्यधर्मीया
नरो रामकृष्णादयश्च । तिर्यञ्चः कूर्माद्याश्च । ऋषयश्च व्यासदत्तात्रेयकपिलाद्याश्च । ननु ऋषयोऽपि नरास्तत्कथं कथनं पृथगिति चेन्न । देवर्षिपितृपनरा इति मुक्तास्तु पञ्चधा’’ इति ऋषित्वं धर्मविशेष इत्येवं कथनसम्भवात् । देवाश्चोपेन्द्रादयश्च । झषो मत्स्यश्च । एतेच ते अवताराश्च तैः । यद्यपि तिर्यक्पदेन मत्स्योऽपि वराहादिवद्गृहीतुं शक्य इति न पृथक् झषो ग्राह्यस्तथाऽपि यद्रूपोपास्तिं स्वयं करोति तदनुक्तिर्न युक्तेति ना च तिर्यक् सिंहश्चेति तदुक्तावावश्यक्यां झषग्रहणमावश्यकम् । तदपि कूर्माद्युपलक्षकमिति वेदयितुं पृथगुक्तिः । यद्वा ब्रह्मसत्यव्रतायेत्युक्तेरुपदेशकत्वरूपकार्यविशेषेण विशेषत उत्तरस्कन्धनिबन्धनीयकथात्वेन बुद्धिसन्निहितत्वादिमत्त्वात्तद्ग्रहे कूर्मादिग्रहः सुलभ इति तिर्यग्झषेति पृथक् कथनमिति ज्ञेयम् । अत एवेत्थं नृतिर्यगित्युक्तिर्युक्ता । इत्थं प्रात्यक्षिकेदमाकारेण नृतिर्यगिति तद्योजना ज्ञेया । लोकान् विभावयसि सृजसि । अथ जगत्प्रतीपांस्तत्प्रतीपफलत्वेन हंसि घातयसि । हे महापुरुष । धर्मं लोकांश्च पासि । स कीदृशो धर्म इत्यत आह ॥ युगानुवृत्तमिति । कृतत्रेता-द्वापरयुगानुसारिणम् । यद्यस्मात्कलौ युगे च्छन्नो विशेषतः स्वसत्कार्यानुजृम्भकोऽभवो यः स त्वं त्रियुगस्तत्संज्ञः । अभव इत्यावर्तितेनान्वयः ॥ ३८ ॥
मन्दनन्दिनी
भगवदवताराणां लोकविभावनधर्मपरिपालनदुष्टहननादिकमेव प्रयोजनमित्याशयेन स्तौति ॥ इत्थमिति ॥ हे महापुरुष । नरावतारो ऋषभादिः । तिर्यगवतारो वराहादिर् नृतिर्यगवतारो नृसिंह इति वा । ऋषिः कपिलादिः । देवो यज्ञादिः । झषो मत्स्यः । लोकान्विभावयसि ऐश्वर्ययुक्ता-न्करोषि । जगत्प्रतीपान् दुष्टान्हंसि । धर्मं चतुष्पादं धर्मं पासि । युगानुवृत्तं कृताद्यनुवृत्तम् । एतादृशस्त्वम् । यतः कलौ छन्न उक्तप्रयोजनायावतीर्णः । अथ तस्मात्सस् त्वं त्रियुगोऽभव इति योजना । उक्तप्रयोजनायेत्युक्तत्वाद् दैत्यमोहनाय बुद्धावतारोऽपि न दोष इति मन्तव्यम् ॥ ३८ ॥
नैतन्मनस्तवकथासु विकुण्ठनाथ
सम्प्रीयते दुरितदुष्टमसाधु तीव्रम् ।
कामातुरं हर्षशोकभयेषणार्तं
तस्मिन् कथं तव गतिं विमृशामि दीनः ॥ ३९ ॥
पदरत्नावली
एवं हरेर्भक्तवात्सल्यं विज्ञाप्य स्वशक्तिं विज्ञापयति– नैतदिति ॥ यदेतन्मनस् तव कथासु न सम्प्रीयते तस्मिन् मनसि तव गतिं कथं विमृशामीत्यन्वयः । ईषणम्, वित्तादीनामिति शेषः
॥ ३९ ॥
सत्यधर्मीया
त्वं तु व्यक्तं भक्तवत्सलोऽहं तु भक्तस्तथाऽपि न शक्तः किं तनुयामिति मतिमत्प्रवेकोऽप्यात्मानमविवेकिनमिव दर्शयन् विज्ञापयति ॥ नैतदिति । हे विकुण्ठनाथ विकुण्ठा विगतप्रत्यावृत्यादिकुण्ठना मुक्तास् तेषां नाथ । विकुण्ठाय मुक्तये नाथ्यते याच्यत इति स तथा । एतन् मम मनः । स्तवकथासु स्तवो हि मत्कर्तृकस्त्वत्कर्मकः । स च कथा भवदवतारचरितरचित-निबन्धास्तास्वेकैकाऽपि कथा विचित्रतया श्रवणर्ध्यजननकारणम् । तदानन्त्येऽपि न र्द्रवति मम हृदयमिति हा मम मनःकठिनतेति द्योत्यते बहुवचनेन । न सम्प्रीयते । तत्रैव तुष्टिमन् न सम्यग्भवति । तत्र निमित्तं स्वपरानुभवसिद्धमाह ॥ दुरितदुष्टमिति । दुरितैर्मदुपार्जितैः पातकैर्दुष्टमसुसाधुनिग्रहम् । सत्यसति वाऽसति वा विषये न सरच्चेत्तदप्येकं मङ्गलम् । न तथेत्याह ॥ असाधुतीव्रमिति । असाधौ विषये तीव्रमेकान्तं रतम् । तदाकारमाह ॥ कामेति । कामातुरमसत्कामलम्पटम् । हर्षः शोकश्च तत्प्राप्त्यप्राप्तिभ्यां भयम् । परदारवित्तेषणं च तदार्थम् । असाध्वमङ्गलम् । तीव्रं कामातुराद्यन्वयीति वा । तस्मिंस्तादृशे मनसि सति तव गतिं मोक्षरूपिणीं दीनोऽहं कथं विमृशामीत्यन्वयः । यतस्तस्मिं-स्तादृशमानसे मयि तव गतिं त्वन्निवेशं कथं विमृशामि । सा भवेदिति कथं जानीयाम् । उपायलोपा-दिति वा । तवेत्येकस्यैव कथागतिपदाभ्यामन्वयलापनसम्भवे तवेत्यतिरिच्यत इति शङ्कनमातङ्कितं स्तवेति छेदेनेति ज्ञेयम् । तव गतिं कथम् आमि । अमगत्यादिष्विति स्मरणाद् गच्छामि । त्वं विमृश विचारयेति वा ॥ ३९ ॥
मन्दनन्दिनी
इन्द्रियेषु मनसः प्राधान्यात्तन्नैर्मल्यकामस्तद्दोषं वक्ति ॥ नैतदिति ॥ हे विकुण्ठनाथ । एतदेतादृशं मनस्तव कथासु न सम्प्रीयत इति क्रियाकारकयोजना । कीदृशमित्यतः पञ्चविशेषणैर्मनसो दोषमुक्तम् । तीव्रं वेगेन विषयसञ्चारवत् । ईषणं दारापुत्रवित्तादीच्छा । भवत्वेवं किं तेऽनिष्टमित्यत आह ॥ तस्मिन्नित्यादि ॥ ३९ ॥
जिह्वैकतोऽच्युत विकर्षति मा वितृप्ता
शिश्नोऽन्यतस्त्वगुदरं श्रवणं कुतश्चित् ।
घ्राणोऽन्यतश्चपलदृक् क्व च कर्मशक्ति
र्बह्व्यः सपत्न््नय इव गेहपतिं लुनन्ति ॥ ४० ॥
पदरत्नावली
मनःसमाधानाभावादन्येन्द्रियाण्यपि मत्पुरुषार्थविरुद्धानीत्याह– जिह्वेति ॥ स्पर्धाभाषणशीलत्वाज् जिह्वा । दुःसङ्गेन पुण्यश्लथनशीलत्वात् शिश्नः । ‘त्वच सम्पर्के’ इति धातोर् दुःसम्पर्कशीलत्वात् त्वक् । उदात् ककुदं रमयतीत्युदरम् । कर्मशक्तिरित्यनेन कर्मेन्द्रियाणि वागादीनि लक्षयति । गेहपतिं देहस्वामिनम् । अन्यत्र गृहपतिम् ॥ ४० ॥
सत्यधर्मीया
मनसि बन्धमोक्षहेतुभूत एवं सति पराणीन्द्रियाणीमां दशां मां प्रापयन्तीत्याह । जिह्वेति । लेढीति जिव्हा । लिह आस्वादन इत्यस्मात् शेवयव्हजिव्हेति निपातितः शब्दः । रसना जिह्वेत्यमरः । रसनेति । एकतस्त्वत्कथाभिन्नगोष्ठीषु मा मां विकर्षति । ममापीतोऽप्यधिक आधिरतो मद्दलोलूखलनीतिमनुकरोति मां प्रति त्वन्नाथनमिति न नाथ वदेति वदति ॥ अच्युतेति । इन्द्रिय-हेतुकच्युतिप्रच्युत । ततोऽपि नोपशमस्तस्या इत्याह ॥ वितृप्तेति । तृप्तविरुद्धेति वा । तृप्तं तृप्तिर्विगतं तद्यस्या इति वा वितृप्ता । अनाप्तपर्याप्तिः । यथायथं वितृप्तपदमन्वेतव्यं शिश्नादिपदैः । विकर्षतिवदिति ज्ञेयम् । अन्यतोऽन्यत्र शिश्नो मेढ्रम् । शशसूगतावित्यतो नक् । त्वक् त्वच संवरणे क्विप् । ‘‘स्त्रियां तु त्वगसृग्धरे’’त्यमरः । पुंसि घप्रत्यये त्वच इत्यदन्तोऽपि । ‘‘त्वक् त्वचो वल्के चर्मणि पत्रक’’ इति रत्नकोशः । प्रसङ्गोक्तिरन्यत्राङ्गनालिङ्गनादौ । उदरं कुक्षिः । ‘‘कुक्षिजठरोद’’मित्यमरः । उत्पूर्वका-दृतावित्यतोरच् । श्रवणं कर्णः । श्रु श्रवणे । करणे ल्युट् । ‘‘कर्णशब्दग्रहौ श्रौत्रं श्रुतिःस्त्री श्रवणं श्रव’’ इत्यमरः । कुतश्चिदसद्गोष्ठीश्रवणे । घ्राणो घ्राणं नासिका । ‘‘क्लीबे घ्राणं गन्धवहे’’त्यमरः । घ्रागन्धोपादाने ल्युट् । ‘‘घ्राणं क्लीबे नासिकायां घ्राता स्याद्वाच्यलिङ्गक’’मिति भानुः । अन्यतस्त्वद-नर्पितकुसुमाद्यास्वादने । दृक् दृशिर् प्रेक्षणे क्विप् । दृश्यतेऽनयेति सम्पदादिक्विब् वा । दृग्दृष्टी चेत्यमरः । चपला च सा दृक् च । क्वचिदसद्वीक्षणे । कर्मशक्तिर्हस्तादिकर्मेन्द्रियगणः । बव्ह्यः सपत्न््नय एकभर्तृकाः । गेहपतिं भर्तारमिव । देहस्वामिनं मां लुनन्ति । त्रोटयन्तीत्यन्वयः ॥ ४० ॥
मन्दनन्दिनी
मनस उक्त्वेतरेन्द्रियाणां दोषं वक्ति ॥ जिह्वेति ॥ हे अच्युत । मा मामेकत्र स्वविषये रसास्वादनेऽवितृप्ताऽलम्बुद्धिरहिता जिह्वा विकर्षति । तद्विषयकरागवन्तं करोति । एवमुत्तरत्रापि मां विकर्षतीत्यनुवर्तनीयम् । विषयवाचिपदाभावस्थलेऽन्यत इति । उदरस्यानिन्द्रियत्वेऽपि अशनायालक्षणबुभुक्षाजनकत्वेन तदुक्तिः । उक्तेतरपाण्यादिसमूहः सपत्न््नयः स्वस्य विषये गेहपतिं यथा लुनन्ति तथेति योजना ॥ ४० ॥
एवं स्वकर्मपतितं भववैतरण्या
मन्योन्यजन्ममरणाशनिभीतभीतम् ।
पश्यन् जनं स्वपरविग्रहवैरमैत्रं
हन्तेति पारमतिपीपृहि मूढसत्वम्१ ॥ ४१ ॥
पदरत्नावली
स्वैः परैश्च सह विग्रहलक्षणं वैरं विरुद्धाचरणं मैत्रं च यस्य तथा तं जनं पश्यन् । अतस्तमसो भवस्य पारमतिपीपृहि अतिपारं गमय । मूढसत्वं मूढप्राणिनम् असुरजातित्वात् । तिर्यग्जातित्वात् तामसमिव स्थितं गजेन्द्रं पारं नीत्वा यथाऽपालयस् तथा पारं च प्रापय्य मां पालयेति वा ॥ ४१ ॥
सत्यधर्मीया
मारमण मामिव संसारे क्लिश्यन्तं सन्तं जनं पारयेति प्रार्थयते ॥ एवमिति । स्वकर्मपतितं भववैतरण्यां संसाररूपसंयमिनीपरिखारूपनद्यां स्वकर्मवशात्पतितम् । अन्योन्य-जन्ममरणाशनिभीतभीतम् । अन्योन्यं जन्मानि च मरणानि चेति तान्येवाशनयो निर्घाता वज्रा वा । तेभ्यो भीतभीतमतिभीतम् । शनैर् अशनयश्च्यावयितुं शक्याः । एतद्बाधा अगाधेत्यप्याह ॥ आशनीति । आसमन्ताद् द्वादशाष्टमस्थानगत इति शनेः । शनैश्चरत्वप्रायेणायमशुभग्रह इति पञ्चम्युक्तेः । स्वपर-विग्रहवैरमैत्रम् । स्वैः परैश्च विग्रहेण विस्तारेण फलपर्यवसानेन वैरं मैत्रं च यस्य तम् । स्वजनैर्वैरमपरैर्मैत्रं च कुर्वन्तमिति यावत् । ‘‘विग्रहः समरे काये विस्तारे प्रविभागयोरिति विश्वः । अत एव मूढसत्त्वमज्ञजन्तुविशेषं पश्यन् । हन्तेति खेद इति । पारम् । अतिपीपृह्यत्यन्तं पूरय । गमयेति यावत् । तज्ज्ञानं मम नास्तीत्यतो नेत्याह ॥ पारमिति । पारं पश्यंस्तज्ज्ञ इति । अतिपीपृह्यतिपारयेति वा । हन्तेति पारचर पीपृहि मूढमद्येति पाठे एवं मूढं जनं हे पारचर तस्याः पारे स्थित नित्यमुक्त । हन्त कष्टमिति सञ्चिन्त्य पीपृहि पालय । पालनं च विनोत्तारणं न सम्भवतीत्येवमुक्तिरिति तदर्थः
॥ ४१ ॥
मन्दनन्दिनी
एवं संसारपतितत्वं स्वस्योक्त्वा भववैतरण्याः पारगमनं प्रार्थयते ॥ एवमिति ॥ पश्यन्नित्यस्य विभक्तिव्यत्ययेन पंश्यन्तमित्यर्थो बोध्यः । द्वितीयान्तानि जनस्य स्वस्याऽपि विशेषणानि । तथा चैतद्विशेषणविशिष्टं जनं पश्यन्तम् । एतद्विशेषणविशिष्टं मां पश्यंस्त्वं पारं वैतरण्याः पारं तीरमतिपीपृहि अतिशयेन गमयेति योजना । पिपर्तेर्धातूनामनेकार्थत्वाद्गमनार्थत्वम् । अभ्यास-दीर्घश्छान्दसः । अलिट्यपि कितिशृदॄपां ह्रस्वो वेति ह्रस्वश्च । वैतरण्यां पतितमित्यन्वयः । परस्परं जननमरणं च भवतीति तल्लक्षणादतिशयेन भीतम् । स्वपरविग्रहयोर्देहयोर्यथायोग्यं वैरमैत्रे यस्य तम् । मूढसत्त्वं पारगमनोपायाज्ञं प्राणिनम् । हन्तेति भगवद्दर्शनाह्लादास्वादने ॥ ४१ ॥
कोऽन्वत्र तेऽखिलगुरो भगवन् प्रयास
उत्तारणेऽस्य भवसम्भवलोपहेतोः ।
मूढेषु वै महदनुग्रह आर्तबन्धो
किं तेन ते प्रियजनाननुसेवमानः१ ॥ ४२ ॥
पदरत्नावली
मम संसारपारनेतृत्वं तव दुःशकं नेत्याह– क इति ॥ हे अत्र अन्यपातृरहित भगवन् मम संसारोत्तरणे ते तव को नु प्रयासः ? न कोऽपि । अत्र जीवराशौ वा । कुतो न प्रयास इति तत्राह– अस्येति ॥ अस्य जगतो भवो जन्म, सम्भवः स्थापनेन सम्भावनम्, लोपः संहारः, एषां हेतोः कारणस्य । अस्य जगत उत्तारणे तव प्रयासो नास्ति । ममोत्तारणे को नु इति वा । कुत इति तत्राह– भवेति ॥ भवस्य संसारस्य सम्भव उत्पत्तिः । तस्य नाशहेतोस्तव । किं प्रकृते इत्याशङ्क्यास्म-द्वात्सल्यमन्तरेण न किमपि प्रयोजनं तवेत्याह– मूढेष्विति ॥ गजेन्द्रकल्पार्तजनबन्धो मूढेष्वस्मासु यो महदनुग्रहस् तेन तव किं प्रयोजनम् ? न किमपीत्यर्थः । ननु प्रयोजनाभावे किमर्थं तथाकरणमित्याशङ्क्य स्वभाव इत्याशयेनाह– प्रियेति ॥ प्रियजनाननुसेवमानः, त्वमिति यत् स तव स्वभाव इति शेषः ॥४२॥
सत्यधर्मीया
कियदिदं तवास्मत्संसारतारणं नारायणेति वदति ॥ को न्विति । अत्रोत्तारणे । अत्र पालकरहितेति वा । हे भगवंस्तव प्रयासः श्रमः को नु । न कोऽपीत्यर्थः । समुद्रतरणं दाश-साध्यमिदं तु सदाशयसामान्यगुरूपदेशसाध्यं त्वं त्वेतादृश इति न दुस्साध्यमिदानीं तवेति तथा सम्बोधयति ॥ अखिलगुराविति । गृणाति तत्त्वमिति गुरुः । अखिलस्य गुरुस्तत्सम्बुद्धिरिति । अखिलो बलवांश्चासौ गुरुश्च तत्सम्बुद्धिर्वा । हेत्वन्तरमप्याह ॥ अस्येति । अस्य जगतो भव उत्पत्तिः सम्भवः सत्ता स्थितिरिति यावत् । लोपो नाशस्तेषां हेतोः कारणस्य । मूढेष्वस्मदादिषु । आर्तबन्धो आर्तानां बन्धुरिति वा । आर्ता बन्धवो यस्येति वा । तत्सम्बुद्धिः । वै गजेन्द्रादिषु प्रसिद्धो महदनु-ग्रहः । महत्सु क्रियमाणोऽनुग्रहो महदनुग्रहः । अनुग्रहो यस्तेन ते किं महत् । भावप्रधानः । महत्त्वं न किमपीत्यर्थः । प्रयोजनमिति शेषः । किं महत्प्रयोजनं वा नेत्यर्थः । न चैतेन प्रयोजनं चेत्तत्करणं कथमित्यत आह ॥ त्वं प्रियजनाननु सेवमान इति । प्रियजनाननु तत्कर्मानुकूल्येन सेवमानः । भजन्तं भजमानस्येत्यादेः । यतोऽहं ते प्रियजनान्नारदादीननु सेवमान इति ममोत्तारणे को नु प्रयास इति वाऽन्वयः । प्रियजनाननु सेवतां न इति क्वाचित्कः पाठो न सरलः ॥ ४२ ॥
मन्दनन्दिनी
पूर्वत्र भववैतरण्या उत्तारणा प्रार्थिता कथमुत्तारणं करोमीत्यत आह ॥ हे अखिलगुरो ॥ आर्तबन्धो भगवन् अस्य जगतो भवसम्भवलोपहेतोर्भव उत्पत्तिः सम्भवः सम्यक् स्थितिर्लोपो नाशस्तद्धेतोस्तेऽत्र जगद्विषये उत्तारणे कः प्रयासः । अन्याधीनोत्पत्त्यादिके प्रयासः स्यात् । त्वदधीनोत्पत्त्यादिके तव न कोऽपि प्रयास इति भावः । द्वितीयेऽपि परप्रयोजनमस्तीत्याह । मूढेषु उत्तारणोपायाज्ञेषु भक्तेषूत्तारणकरणं महदनुग्रहो महाननुग्रहः । आत्वस्यानित्यत्वादभावः । आत्यन्तिकदुःखोच्छेदस्वरूपानन्दाविर्भावस्य परप्रयोजनाभावत् । तृतीयमङ्गीकरोति ॥ किं तेन त इति ॥ स्वप्रयोजनं नास्त्येवेत्यर्थः । तर्हि कथं करोमीत्यतो दयालुत्वादिति भावेन तं बन्धो इति सम्बोधनम् । स्वभावश्चायमित्याह । प्रियजनाननुसेवमानः प्रियजनान् भक्तजनान् अनु भक्त्यनुसारेण फलदानेन सेवमानः । ताच्छील्ये शानच् । भक्तेषु फलप्रदानस्वभाव इति योजना ॥ ४२ ॥
नैवोद्विजे भवदुरत्यययवैतरण्या
स्त्वत्तीर्थगायनमहामृतपानमत्तः ।
शोचे नु ते विमुखचेतस इन्द्रियार्थ
मायासुखाय भरमुद्वहतो विमूढान् ॥ ४३ ॥
पदरत्नावली
संसारभीरूणां संसारवैतरण्युत्तरणोपायः क इत्याशङ्क्य निरन्तरवेदान्तशास्त्र-श्रवणमननादिर्येषामस्ति तेषां तद्भयं नास्ति । अन्यथा न कदापि तत उत्तरणमित्याशयेनाह– नैवेति ॥ त्वत्तीर्थं त्वद्विषयं वेदान्तशास्त्रम् । तस्य गायनं श्रुत्वा मत्वा व्याख्यानं व्याख्यापनं च । तदेव महामृतं यत् तेन मत्तं हृष्टं विवशं वा चित्तं यस्य स तथा । एवंविधोऽहं संसारवैतरण्या नैवोद्विजे न बिभेमि । एवशब्देन त्वत्तीर्थसेवाभावे संसारकदनाद् बिभेमि तत्सम्भवे नेत्ययोगव्यवच्छेदः क्रियते । अनेनासङ्गतं प्रह्लादस्तवनमित्येतदपि परिहृतम् । ‘सत्स्वन्यत्र ततो दया’ इति वचनादिदं च भक्तिलक्षणमिति प्रकटयन्नाह– शोच इति ॥ ते त्वत्तः । इन्द्रियार्थेभ्यो विषयेभ्यो मायासुखं प्राकृतमस्वरूपं सुखं यत् तदर्थं भरं कुटुम्बभारम् ॥ ४३ ॥
सत्यधर्मीया
मम तु तव ममतास्पददासस्य हस्तन्यस्ता विमुक्तिरिति न मद्विषये चिन्ता-तान्तिः । किन्तु ये हा कष्टं देव लक्ष्मीश लोकाः पापानि कुर्वते ते कथं पारं संसारपारावारस्य गच्छेयुरिति शोचामि तानिति शंसति ॥ नैवेति । हन्ताहं भवदुरत्ययवैतरिण्या नैवोद्विजे न बिभेमि । तदपायापगमकोपायस्तव दययोदयवान्यतस्तत इत्याह ॥ त्वत्तीर्थेति । तव तीर्थं सर्वौत्तम्यप्रतिपादकं वेदवेदान्तादिसच्छास्त्रम् । ‘‘तीर्थं शास्त्रेऽध्वर’’ इति विश्वः । तस्य गायनं गानं तदेव महामृतं तस्य यत्पानं श्रवणादिरूपं तेन मत्तः । महामृतमत्तचित्त इति पाठे महामृतेन मत्तं चित्तम् । यस्य स इति योजना त्वत्तीर्थगायनाश्च ते । महामृतम् अप्रत्यावृत्तिर्मोक्षः । तेन क्लृप्तेन मत्ताः । तेषु चित्तं यस्येति वा । त्वत्तीर्थं गच्छन्त्यवगच्छन्तीति त्वत्तीर्थगाः । त एवायनमाश्रयो यस्य तन्महामृतं मोक्षस्तन्मत्तचित्त इति वा । तेषामयनं मोक्षो येन स चासौ महामृतो मुख्यामृतरामात्मको भवांस्तस्मिंस्त्वय्येव मत्तं निमग्न-तयेतरत्रासरच्चित्तं यस्य स इति । त्वत्तीर्थगायनं च महामृतं च त्वदध्वरशेषश्च ताभ्यां मत्तं चित्तम् । त्वत्तीर्थगं तदभ्याससाध्यं यदयनं मोक्षो महामृतं सर्वथा अयाचितं च स्वत एवागच्छदिति तेन मत्तं तुष्टं चित्तं यस्येति वा तम् । अमृतं यज्ञशेषे स्यादयाचिते चेति विश्वः । ते त्वयि विमुखचेतसो विमुखं चेतो येषां ते तथा तान् । त्वत्पराङ्मुखमनस्कानित्यर्थः । इन्द्रियार्थमायासुखायेन्द्रियाणामर्था विषयास्तज्जनितं यन्मायासुखं सुखवच्छद्मना प्रतीतं वस्तुतस्तु न सुखमात्यन्तिकं तस्मै । भरं संसारमुद्वहत उदुह्य वर्तमानान्विमूढान् । तदपि दुःखमित्याद्युक्तेरज्ञान् । शोचे । तेषामेतत्तरणं कथं स्यादिति शोचामि । यथा सह्यं स्वस्य दुःखं तथाऽन्यस्यापि तत्समम् । स्वावरेषु दया कार्येत्यादेः । करुणापरवशः प्रह्लाद एवं विज्ञापयतीति भावः । शोच इत्यात्मनेपदेन तद्दुःखमात्मगामीति मननं द्योतयति ॥ ४३ ॥
मन्दनन्दिनी
एवं माहात्म्यं ज्ञात्वा स्तुवतस्तव निश्चिते उत्तारणे कुतः संसारादुद्वेग इत्यतो न मदर्थं प्रार्थये किं तु संसारलोलुपयोग्यजनायेत्याह ॥ नैवेति ॥ त्वत्तीर्थस्य वेदान्तादिशास्त्रस्य गायनमहामृतेन मत्तचित्तः सुखीकृतचित्तोऽहं भवलक्षणाया अत्येतुमशक्याया वैतरण्या नोद्विजे । किं तु ततो भगवतो विमुखचेतस इन्द्रियार्थजन्यप्रकृत्यात्मकसुखाय भरं संसारभरमुद्वहतो विमूढान् भक्तान् शोचे कथमुत्तारयेदिति चिन्तयामीति योजना ॥ ४३ ॥
प्रायेण देवमुनयः स्वविमुक्तिकामा
मौनं चरन्ति विजने न परार्थनिष्ठाः ।
नैतान् विहाय कृपणान् विमुमुक्ष एको
नान्यं त्वदस्य शरणं भ्रमतोऽनुपश्ये ॥ ४४ ॥
तात्पर्यम्
प्रायेण देवमुनयः । ‘आश्रितेषु कृपा कार्या विशेषात्तात्विकैः सुरैः । मुनिभिश्च तथा कैश्चित्कैश्चित्कार्याऽखिलेष्वपि । तथापि तात्विकसुरकृपाविषयतां गताः । १एत एव विमुच्यन्ते तदन्ये न कथञ्चन’ इति च ॥ ४४ ॥
पदरत्नावली
स्वेतरेषु क्रियमाणा कृपा स्वाश्रितेष्वेव कर्तव्या देवादिभिः क्रियमाण-त्वादित्यभिप्रेत्याह– प्रायेणेति ॥ देवमुनयश्च विजनेन एकान्तस्थलेन साधनेन सहिताः काष्ठमौनादिव्रतं चरन्ति । कीदृशाः ? स्वकीयानां जनानां विमुक्तिः स्यादिति स्वविमुक्तिकामाः । स महतां स्वभाव इत्याह– परेति ॥ परप्रयोजनतात्पर्योपेताः । ‘देवेषु तात्विकैर्विशेषतः । मुनिषु कैश्चिदेव’ इति विशेष-प्रकाशनाय प्रायेणेति । तदुक्तम्– ‘आश्रितेषु कृपा कार्या विशेषात् तात्विकैः सुरैः । मुनिभिश्च तथा कैश्चित् कैश्चित् कार्याऽखिलेष्वपि । तथाऽपि तात्विकसुरकृपाविषयतां गताः । ये त एव विमुच्यन्ते तदन्ये न कथञ्चन ॥’ इति । यतो देवादयोऽप्याश्रितेषु कृपां कुर्वन्ति अतोऽहमप्याश्रितानेतान् कृपणान् कृपाविषयान् विहाय एको न विमुमुक्षे । त्वमेको मत्प्रसादेन मुक्तो भव, अन्येऽन्येन वर्त्त्मना मुक्ताः सन्त्विति तत्राह– नान्यमिति ॥ स्वकर्मणा नानायोनिषु भ्रमतो मामाश्रितजनस्यानुकूलं त्वदन्यं शरणं नानुपश्य इत्यन्वयः ॥ ४४ ॥
सत्यधर्मीया
प्रायेण देवमुनय इति श्लोके प्रायपदाभिप्रायतः केचन चरन्ति मौनं न चरन्ति केचनेति प्रतीयते । प्रायेण देवमुनयः परार्थनिष्टाः । अहं तु तान् विहाय मुमुक्ष इति तदपेक्षातोऽयं प्रल्हादः स्वस्यातिशयालुतां दर्शयतीति च प्रतीयते । ते च प्रमाणबाधिते इति दर्शयितुं किञ्चिदनूद्य मानमुदाहरति ॥ प्रायेण देवमुनय इति । प्रायेण बाहुल्येन । तत्पदार्थमेवाह ॥ विशेषादिति । तात्त्विकैः सुरैराश्रितेषु विशेषात्कृपा दया कार्या । तथा मुनिभिश्च कैश्चित्प्रस्तुतनारदादिभिश्च विशेषादुपदेशादिभिः कृपा कार्या । कैश्चित्तात्त्विकेतरैर्देवैर्मुनिभिश्चाखिलेषु जनेषु दया कार्या । तर्हि तदतात्त्विकदेवदयातो विमुक्तिः स्यात्किमित्यतो नेत्याह ॥ तथाऽपीति । ये तात्त्विकसुरकृपा-(दया)विषयतां गता एत एव विमुच्यन्ते । संसारादिति शेषः । तदन्ये तात्त्विककरुणाविषयतां नोपगता इतरसुरकरुणाविषयतां गताश्च कथञ्चन न विमुच्यन्ते । मुख्यतस्तात्त्विकदेवोपास्तिरावश्यकीति प्रल्हाद-स्तद्दयापूर्वकं तान्कृपणान्विहाय न विमुमुक्ष इत्यूचिवानिति भाषाभावो ज्ञेयः । केचित्तु प्रायेणेति श्लोके देवाः स्वप्रयोजनपराः स्वयं तु परप्रयोजनार्थ इति स्वस्य कृपालुतातिशयः प्रल्हादेनोच्यत इति भाति । तदयुक्तम् । देवादीनामेवातिशयितदयालुत्वादित्याह ॥ प्रायेणेति । श्लोकसमग्रव्याख्यानमिति ज्ञापयितुं पदद्वयप्रतीकग्रहणम् । यथा हीश्वरः सर्वप्रेरकोऽपि ज्ञानिविशेषान्प्रियान्करोति भविष्यति च तेषां स्वयं प्रियः । ‘‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय’’ इत्यादेः । एवं तत्त्वदेवा अपि दयया सर्वप्रेरकाः स्वोपासकेषु विशेषतः प्रीतिं कुर्वन्ति । न तथा सर्वत्रेत्याह ॥ तात्त्विकैरिति । तात्त्विकैः सुरैराश्रितेषु स्वोपासकेषु विशेषादतिशयेन कृपा कार्या । तथा कैश्चिद्वसिष्ठादिभिर्मुनिभिश्चाश्रितेषु कृपा कार्या । कैश्चिन्मुनिभिर्देवैश्च विशेषाधिकाररहितैरविशेषादखिलेष्वपि कृपा कार्या । यद्यपि सर्वेषां कृपाऽऽवश्यकी तथाऽपि ये जनास्तात्त्विकसुरकृपाविषयतां गतास् त एव मुच्यन्ते । तदन्ये कथञ्चन न मुच्यन्ते । प्रल्हादेनापि तत्त्वदेवानुग्रहसाहित्येनैव स्वानुग्रहस्यैव मुक्तिहेतुत्वमुच्यत इति भावः ।
प्रायःपदं च विशेषानुग्रहस्य सार्वत्रिकत्वाभावाद्युज्यत इति व्याचक्षते । तात्त्विकास्तत्त्वेशाः । ‘‘शब्दाद्या नभ आद्याश्च मनोयुक्तेन्द्रियाणि च । अहङ्कारो महांश्चैव त्रयोविंशतिको गणः । प्रकृतिश्च चतुर्विंशतिः’’ इति तृतीयतात्पर्ये । तत्राव्यक्तमुख्याभिमानिनी महालक्ष्मीः । सरस्वतीभारत्यौ च देव्यौ प्रकृतिमानिनीत्यनुभाष्ये । न च पुरुषाव्यक्तकालानां रमैवैकाभिमानिनीत्युत्तरग्रन्थविरोधः । पुरुषादीनां रमाभिमानिनी सा चैका देहदेह्यादिभेदरहितेति सुधायामन्यथा व्याख्यातत्वात् । ‘‘महतो ब्रह्मवायू च तद्भार्ये चापि मानिनः । अहमः शेषवीन्द्रौ च शिवस्तद्देवतास्तथा । अहमः शेषवीन्द्रौ च रुद्रेन्द्रौ कामतत्स्त्रियः । अहङ्काराभिमानिनः कामपुत्रानिरुद्धस्येति । वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा’’ । ‘‘वैकारिको ब्रह्मजस्तु तैजसो वायुजः स्मृतः । तामसोऽनन्तजश्चैव स एको गुणभेदतः । शेषः सुपर्ण इन्द्रश्च मनांस्येव पृथक् पृथक् । अहम्भावमनोरुद्रः शेषोऽसौ पाञ्चरात्रिकम् । वैदिकं गरुडोऽथेन्द्रो यज्ञादिविषयं मनः । अनिरुद्धो देवगुरुर्मनोदेवाः सचन्द्रकाः । यज्ञादिसाधने यत्तन्मनश्चन्द्रः प्रकीर्तितः । वरुणश्च मनोभूतः पर्जन्यः सर्वतो वरः । मनोभिमानी स प्रोक्त उमा बुद्ध्यभिमानिनी । चित्ताभिमानी ब्रह्मा त्वग्निश्चित्तस्य देवता’’ ‘त्यारभ्य ‘‘तदन्येषां गुणानां तु तदन्ये विबुधाः स्मृताः’’ । अत्रोक्तानि प्रायो गीतातात्पर्यछान्दोग्यऋग्भाष्यभागवततात्पर्यादिमूलोक्तानि । गौरवभयान्न ग्रन्थनाम गृहीतमिति सत्तत्त्वरत्नमालाटीकायां वितत्योक्ता अनुसन्धेयाः ।
अथ श्लोकार्थः ॥ देवमुनयः । द्वन्द्वे घीति मुनिदेवेति वक्तव्यमिति चेन्न । अभ्यर्हिततया देव-पुरस्कृतिः । तेन च द्वन्द्वोपात्तयोरपि ‘‘तन्मुख्यं ज्ञानशब्दयोः’’ इत्यादिवद्विशेषोऽपि देवानां मुनिभ्यो ज्ञेयः । प्रायेण विशेषान्न स्वविमुक्तिकामाः किन्तु परार्थनिष्ठाः । परेषां जनानामर्थो मोक्षस्तत्र निष्ठा नितरां स्थितिर्येषां ते तथा सन्तः । मौनं तदादिव्रतं चरन्ति कुर्वन्ति । ते महानुभावास्तच्चर्या च न हि सुसाधज्ञाना इत्याह ॥ विजने इति । अरण्ये एकान्त इति यावत् । यद्वा विजने एकान्ते स्वविमुक्तिकामाः स्वेषां स्वकीयानां विमुक्तिकामा मौनं चरन्ति परार्थनिष्ठाः परेभ्यस्त्वदितरेभ्यो योऽर्थस्तन्निष्ठा न । ते च तात्त्विका देवा मुनयश्च । तत्रापि तरतमभावोऽस्तीत्यभिप्रायं प्रायेणेत्यसूचय-द्ग्रन्थकृदिति ज्ञेयम् । परे स्वोपासकभिन्नास्तदर्थनिष्ठा न । चरन्ति स्वोपासाकतश्चारयन्ति कारयन्तीति वा । परार्थो महार्थो हि भगवन्भवांस्तत्र निष्ठाः । विजनेनारण्यादिस्थानेन सहिता इति वा । एकोऽहम् । एतांस्तत्त्वेशान्विहाय तद्दयोदयेऽपि कृपणान्दीनानुद्दिश्य न मुमुक्षे तद्विमुक्तिं नेच्छामि । तर्हि तैस्तत्त्व-देवैर्मुनिभिश्च सहान्यं मत्त एतद्विमुक्तये भजेत्यतो नापरः परमपुरुषो रक्षिताऽस्तीह जगत इति गदति ॥ नेति । त्वत् त्वत्तोऽन्यमस्य संसारे भ्रमतः शरणं रक्षकं न पश्ये न पश्यामि । नु निश्चयः । भ्रमतो भ्रान्तितोऽपि त्वदन्यं न पश्ये न विषयीकुर्याम् । भ्रमोऽप्यन्योऽविताऽस्तीति न जायते प्रमा तु दूरो-त्सारितेति भाव इति वा । अस्य भ्रमतस्त्वदन्यं शरणं विमुमुक्षे मोक्तुं त्यक्तुमिच्छामि । पश्यतीति पश्यो जीवसङ्घस्तस्मिन् । यदा पश्यः पश्यते रुग्मवर्णमित्यर्थवर्णनक्षणे पश्यतीति पश्यो जीव इति टीकोक्तेः । त्वदन्यम् । अन्यो ह्यननीयश्चेष्ट्य इति यावत् । न स इति नान्यो निर्नियम्य इति तम् । देवमुनयो न चरन्ति नैव जानते । नु हीनमेव चरन्ति जानन्तीति तम् । त्वदितरं मुमुक्ष इति वा । देवमुनयो देवेषु मुनयो निर्व्यापाराः । अनधिकारा इत्यनधिकाः । परार्थनिष्ठा अविशेषेणाखिलेषु दयालव इति ये स्व-विमुक्तिकामा देवाश्च मुनयश्च । एतान्विहाय कृपणात्वाद्विमुखचेतस उद्दिश्य । विजने जनः पुनर्जननम् । स विगतो यस्माल्लोकादिति स मोक्षस्तस्मिंस्तद्विषये । न समर्था इति शेषः । तर्हि ते किंविधा अतत्त्वपास्तत्त्वपविषये इत्यतो वदति ॥ चरन्तीति । चरन्त्यनुचरन्तीति चरा भटास्तद्वदाचरन्तीति ये ते तथेति । देवमुनयस्तत्त्वपाश्च परार्थनिष्ठा विजनेन मौनं चरन्ति चारयन्ति । कुतः । स्वविमुक्तिकामाः स्वेषां स्वकीयानां स्वोपासासाङ्गमनसां विमुक्तौ भवं कं सुखं तदर्थमेवामो गतिर् एतन्नियामकतया येषामिति ते तथा । लीनः प्राग्व्यक्तश्च यः कः सुखविशेषस्तमामयन्त्यनुभावयन्तीति ते तथा वा । यथोक्तं बृहद्भाष्ये गार्गिब्राह्मणीये । रोचमानानि कानि लोकाः । लीनं सुखं क इत्युक्तमिति ॥ ४४ ॥
मन्दनन्दिनी
नाहमुद्विजे किन्तु अन्यानयोग्यान् शोच इत्यनेनान्योत्तरणा प्रार्थिता । एव-मन्यानुकम्पा कुतो मत्प्रसादेन तव मोक्षो भवति । अन्येषां भवन्वा मोक्षोऽन्यप्रसादेन भवेदित्यत आह ॥ प्रायेणेति ॥ अन्यत्रानुकम्पा कुत इत्यस्योत्तरम् । एतानाश्रितान् अनुह्लादादीन् दैत्यबालकान्विना एको न विमुमुक्षे मोक्तुं नेच्छामि । एवं चाश्रितत्वादनुकम्पाऽस्तीति भावः । अन्यप्रसादेन भवेदित्यस्योत्तरं संसारे भ्रमतोऽस्य जगतस्त्वदन्यशरणं न पश्य इति । सर्वेषामपि त्वत्प्रसादो मोक्षसाधकः । न कस्यापि कस्यचिदिति भावः । अत्र देवमुनयः स्वविमुक्तिकामा विजने तप आदिकं चरन्ति । न परार्थनिष्ठा इत्यनेन देवादीनां स्वाश्रितेषु प्रसादो नेति मन्तव्यम् । देवानां प्रसादाभावे इन्द्रियप्रेरणाभावे साधनानु-ष्ठानायोगात् । मुनीनां प्रसादाभावे तदृष्टवेदानां तत्कृतकल्पसूत्राणां च प्रचाराभावेन वैदिककर्मानुष्ठानानु-पपत्तेः । किन्तु तत्त्वाद्यनियामकानां साधारणदेवानां वेदाद्यद्रष्टृणां विशेषतः स्वेतरयोग्यजनमोक्षे निर्भरोऽस्तीति । अत एव प्रायेणेत्युक्तम् । तदर्थे तात्पर्यम् ॥ प्रायेण देवमुनयः ॥ आश्रितेषु कृपा कार्या विशेषात्तात्विकैः सुरैः ।
‘‘मुनिभिश्च तथा कैश्चित्कैश्चित्कार्याऽखिलेष्वपि ।
तथाऽपि तात्विकसुरकृपाविषयतां गताः ।
एत एव विमुच्यन्ते तदन्ये न कथंचन ॥’’
इति च प्रमाणमुदाहृतम् । तथा चेन्द्रियप्रेरणाय स्वोपजीवकेष्ववश्यं तात्विकैर्विशेषाद्दया कार्येति भगवत आज्ञा । तथा कैश्चित्प्रबलैर्मुनिभिः स्वदृष्टवेदादिनाऽऽश्रितेषु स्वोपजीवकेषु विशेषतो दया कार्येति भगवतोऽनुशासनम् । कैश्चित्तद्भिन्नैः साधारणैरखिलेष्वपि । अपिरभिव्याप्तौ । साधारण्येन सर्वेषु ‘‘गोब्राह्मणेभ्यः शुभं भवतु ।’’ ‘‘ब्राह्मणाः सन्तु निर्भया’’ इत्यादिरूपेणैव साधारणदया । न च देवादीनामपि साधारण्येन दयाऽस्तीति तथैवालमिति मन्तव्यम् । यद्यप्यस्ति तथाऽपि विशेषतः । तात्विकसुरकृपाविषयतां गता एव विमुच्यन्ते नान्यथेति साऽऽवश्यकी । प्रकृते तु दैत्यबालानां स्वाश्रितत्वात्तेषु स्वस्य विशेषतो दयाऽस्तीति तदुत्तारणप्रार्थना युक्तेति भावः ॥ ४४ ॥
यन्मैथुनादि गृहमेधिसुखं हि तुच्छं
कण्डूयनेन करयोरिव दुःखदुःखम् ।
तृप्यन्ति देहकृपणा बहुदुःखभाजः
कण्डूतिवन्मनसिजं विषहेत धीरः ॥ ४५ ॥
पदरत्नावली
सुखानुभवार्थं हि मोक्षाकाङ्क्षा । तत् शब्दादिविषयेभ्योऽपि स्यात् । अतोऽजा-गलस्तनायितमोक्षसुखाय को वा प्रेक्षावान् महाप्रयत्नं कुर्यात्, उन्मत्तमन्तरेणेति तत्राह– यन्मैथुनादिति ॥ मैथुनादिगृहस्थसुखं यत् तल्लब्ध्वा । देहकृपणा देहमात्रपोषणापरायणास् तृप्यन्ति । नान्ये प्रेक्षावन्त इति शेषः । तदपि न सुखमित्याह– बहुदुःखेति ॥ तत्र बुद्धिमतैव कार्यमित्याह– कण्डूतिवदिति ॥ मनसिजं कामम् ॥ ४५ ॥
सत्यधर्मीया
संसारेऽपि सारसाक्ष्यादिसङ्गमङ्गलमनुभवारूढं विना किं मूढाननुभवारूढं सन्देह-मन्दं किं प्रल्हादमप्रल्हादं मुक्तिव्यक्तिं स्तौषीत्यतो भाषते ॥ यदिति । गृहमेधिसुखं गृहमेधिनां गृहस्थानां यत्सुखं तदेतद्रूपमिति निरूपयति ॥ मैथुनादीति । करयोः कण्डूयनेन परस्परसङ्घर्षणेन सद्यः सुखमनन्तरं दुःखदुःखमिव । पूर्वं तेन सुखेन तृप्यन्ति । स्वांस्तृप्तानिव मन्वते । तन्वते च तत्कर्मेति ते देहकृपणा देहपोषणपरायणाः । उत्तरत्र च परस्परकरसङ्घर्षो दुःखदुःखकरस्तथेदं वैषयिकं सुखमिति बहुदुःखभाजो भवन्तीति शेषः । दुःखदुःखमिति वीप्सया लभ्योऽर्थोऽयमिति दर्शयितुमत्र बह्वित्युक्तिरिति मन्तव्यम् । (दुःखदुःखमिति । दुःखाद्दुःखमिति विग्रहलभ्योऽतिशयो बह्विति विवृतः । इति खपाठः) येन मन्मथेन मैथुनादि तुच्छं सुखमिच्छन्ति स एव निग्राह्य इत्याह ॥ मनसिजमिति । कण्डूतिमिव कण्डूतिवत् । व्याख्यातचरमिदम् । मनसिजं विषहेत । तत्सहनं दुःसाधमप्येवं चेत्सुसाध-मित्याह ॥ धीर इति । धैर्यवान् बुद्धिरतो वा । धैर्यं बुद्धिरमणं कन्दर्पदर्पनाशकमिति भावः । मनसिजः कुसुमेषुरित्यमरः । सप्तम्यां जनेर्डः । तत्पुरुषे कृतीति तस्या अलुक् । विषहेत । इण्कोरिति षत्वम् । कण्डूञ् गात्रघर्षण इत्युक्तेर्गात्रघर्षणमर्थः । इदं तर्हि कण्डूयतेः क्तिच् । ब्राह्मणकण्डूतिः क्षत्रिय-कण्डूतिरिति प्रतिषेधे स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवत् । यलोपो ब्राह्मणकण्डूतिः क्षत्रिय-कण्डूतिरिति महाभाष्यं चाटीकत कैय्यटः । कण्डूयतेरिति क्यजन्तात्क्विप् । यगन्तात्तु क्विन्न भवति । उक्तं हि भाष्ये नैतेभ्यः क्विब् दृश्यत इतीति ॥ ४५ ॥
मन्दनन्दिनी
एवं मोक्षयत्नेन मनोनिग्रहः कार्यः । तस्मिन्कार्ये तु वनितादिविषयजो मनसिजो बाधते । तत्सुखं च न लभ्यते । अतः कथं कार्यमित्यतस्तादृशं सुखं तुच्छं दुःखबहुलं चातः करयोः कण्डूत्या भवत्सुखमल्पम् । अनन्तरं दुःखमधिकमतो यथा कण्डूतिं सहते प्रेक्षावांस्तथा धीरः कामं विष-हेतेत्याह । यदिति ॥ तदिति शेषः । हिशब्देन तुच्छत्वप्रसिद्धिमाह । देहकृपणा देहमात्रपोषणाः ॥४५॥
मौनव्रतश्रुततपोऽध्ययनस्वधर्म
व्याख्यारहोजपसमाधय आपवर्ग्याः ।
प्रायः परं पुरुष ते त्वजितेन्द्रियाणां
वार्ता भवन्त्युत न वाऽत्र तु दाम्भिकानाम् ॥ ४६ ॥
पदरत्नावली
मुमुक्षुभिः प्रथमत इन्द्रियजय एव समर्थनीयः । अन्यथा मुक्तिसाधनानामपि मौनादिकं लोके जीवनोपायमात्रत्वं भवतीत्याह– मौनेति ॥ आपवर्ग्या मुक्तिहेतवः प्रायः, सम्यग् भक्त्याऽनुष्ठिता इति शेषः । हे पुरुष परं न चेत् । त एवाजितेन्द्रियाणां पुंसां वार्तास् तत्कालजीवन-मात्रोपाया भवन्त्युत अपि सम्भावनामात्रं, न तु मुख्यत इत्यर्थः । लोकमोहनार्थं मौनादिकमनुतिष्ठतां दाम्भिकानां तदपि न सेत्स्यतीत्याह– नवेति ॥ अत्र जीवलोके । वा यथा अजितेन्द्रियाणां जीवनमात्रोपाया न तथा दाम्भिकानां भवन्तीति । ‘वा विकल्पोपमानयोः’ इत्यभिधानम् । न वा भवन्तीत्येकवाक्यं वा ॥ ४६ ॥
सत्यधर्मीया
मुमुक्षुभिरिन्द्रियजय एव सम्पादनीयोऽन्यथा तत्साधनत्वेन सम्प्रतिपन्नमौनादयोऽ-नुष्ठातृणां प्राणत्राणमात्रहेतवो भवन्ति न भवन्ति वा भवन्त्येवेति निष्कर्षोऽपि दुष्कर इतीरयति ॥ मौनेति । मौनमव्यवहारः । व्रतं कृच्छ्रादि । श्रुतं श्रवणं तपः पञ्चाग्निमध्येऽङ्गतापनम् । अध्ययनं स्वाध्यायस्य । स्वधर्मः स्वस्ववर्णाश्रमयोग्यः । व्याख्या प्रवचनम् । रह एकान्तवासः । जपो मन्त्रादि-जपनं समाधिर्ध्यानम् । ‘समाधिर्नियमे ध्यान’ इति विश्वः । एते दश प्रायो बाहुल्येनापवर्ग्या अपवर्ग-साधका अपि । हे पुरुष पूर्णषड्गुण । परमत्यन्तं यथा तथा । अजितेन्द्रियाणां दाम्भिकानामिति सामानाधिकरण्यम् । वैय्यधिकरण्येऽपि मोहितैरमोहितैश्च तद्दम्भेन वार्ता भवन्ति क्वचिन्न भवन्ती-त्यन्वयः । ‘‘ज्ञात्वाऽपि स्वात्मनोऽल्पत्वं दम्भो माहात्म्यसूचन’’मिति गीताभाष्योक्तदम्भवतामित्यर्थः । ‘‘दम्भस्तु कैतवेऽनल्प’’ इति विश्वः । कैतवपराणाम् । अत्र भुवि । ते मौनादिसमाध्यन्ता वार्ता जीवनोपाया भवन्ति । आजीवो जीविका वार्तेत्यमरः । उतैवं तर्कः । वस्तुतस्तु न भवन्ति । वाकारस्तु द्वयं च यथायथं व्रताद्यन्वयि । तेऽपीति समुच्चये वा वाशब्दः । भवन्ति वा भवन्तीव भवन्ति चेतीवार्थे वा वाशब्दः । उत प्रश्ने वितर्के वा स्यात्, वाशब्द उपमायां स्यादिवार्थे च समुच्चये । तुद्वयं परस्पर-समुच्चये वा । तु समुच्चयेऽवधारण इति । परवल्लिङ्गं द्वन्द्वतत्पुरुषयोरित्युक्तेरापवर्ग्या इत्युपपन्नम् ॥ ४६ ॥
मन्दनन्दिनी
मनसिजं विषहेतेत्यनेन निग्रहपूर्वकं भगवच्छरणागतिः कर्तव्येत्युक्तम् । इदानीं मौनादीनां समाध्यन्तानामपवर्गसाधनानामपीन्द्रियनिग्रहपुरःसरभक्तभावे जीवनमात्रसाधनत्वं तदपि क्वचिन्नास्तीत्यह ॥ मौनेति ॥ हे पुरुष । मौनादयः समाध्यन्ता आपवर्ग्या अपवर्गहेतवः प्रायः । परं परं तु । अजितेन्द्रियाणां दाम्भिकानां मनोनिग्रहाभावेऽपि बाह्यव्यापारप्रदर्शकानां ते मौनादयोऽत्र लोके देहभरणोपाया भवंत्युत न वा भवन्ति । बाह्यव्यापारेण मनोनिग्रहभ्रांतौ पूजयन्ति । वित्तादिकं वितरन्ति । मनोनिग्रहाभावज्ञाने तु न किमपि ददति । प्रत्युतापहसन्तीति भावः ॥ ४६ ॥
रूपे इमे सदसती तव वेददृष्टे
बीजाङ्कुराविव न चान्यदरूपकस्य ।
युक्ताः समक्षमुभयत्र विचिन्वते त्वां
योगेन वह्निमिव दारुषु नान्यतः स्यात् ॥ ४७ ॥
तात्पर्यम्
**कार्यकारणरूपे तद्वशत्वापेक्षया साक्षात् स्वरूपापेक्षया स्वरूपादन्यद्रूपं न **
॥ ४७ ॥
॥ इति श्रीमद्भागवते सप्तमतात्पर्ये नवमोऽध्यायः ॥
पदरत्नावली
मौनादीनां क्लेशसाध्यत्वेनासर्वाधिकारिकत्वात् सर्वाधिकारिकोपासनाविषयं निरूपयति– रूपे इति ॥ इमे सदसती कार्यकारणे तव रूपे । त्वद्वशत्वात् त्वत्सन्निधानयोग्ये । अत्र प्रमाणमाह– वेदेति ॥ ‘द्वे वाव ब्रह्मणो रूपे’ इत्यादौ । कार्यकारणत्वं किं विकारभावेन, निमित्तनैमित्तिकभावेन वेत्याशङ्क्य यथायोग्यमित्यूहनीयमित्यत्र दृष्टान्तमाह– बीजेति ॥ व्याख्यात-मेतत् । ‘विज्ञानमानन्दं ब्रह्म’ इतिवद् वेददृष्टे चेत् किं साक्षाद् रूपे ? नेत्याह– न चेति ॥ अन्यद् विलक्षणम् । ज्ञानानन्दादिलक्षणं नैव । कुतः? अत्राह– अरूपकस्येति ॥ प्राकृतरूपाभावा-दित्यर्थः । महतां प्रत्यक्षं चात्र प्रमाणमित्याह– युक्ता इति ॥ भक्तियोगेन उभयत्र रूपद्वये युक्ताः, उपासना-लक्षणध्यानेनेति शेषः । युक्ता योगिन उभयत्र सन्निहितं त्वां पश्यन्तीति वा । दर्शनप्रकारमाह– वह्निमिति ॥ योगेन मथनाद्युपायेन । अन्ययोगं निवारयति– नान्यत इति ॥ भक्तियोगादन्यतो ऽन्येनेति साक्षात् स्वरूपादन्यत् प्राकृतं रूपं नैव । ‘अरूपमक्षणं ब्रह्म’ इति श्रुतेः । अतो न साक्षाद् रूपे इति वा योजना । ‘‘साक्षात् स्वरूपापेक्षया स्वरूपादन्यद् रूपं न’’ इत्याचार्यविवरणमत्र प्रमाणम्
॥ ४७ ॥
सत्यधर्मीया
रूपे इमे सदसती तव वेददृष्टे इति श्लोकार्धे इमे सदसती तव रूपे त्वदात्मके ताभ्यामन्यत्तव रूपं नास्तीति हरेः सदसदात्मकत्वं१ प्रतीयते । तच्च प्रमाणबाधितमिति यत्रानवसरोऽन्यत्र पदं तत्र प्रतिष्ठितम् । वाक्यं वेति सतां नीतिः सावकाशेन तद्भवेत् । सोपस्कराणि वाक्यानि भवन्ती-त्यादेः सदसच्छब्दार्थमुद्बोधयन्नपेक्षितमध्याहृत्य तद्वाक्ययोजनामाह ॥ कार्येति । सदसती कार्यकारण-रूपे । तद्वशत्वापेक्षया हर्यधीनत्वमपेक्ष्य तद्रूपे इत्युच्येते । न तु साक्षात्तद्रूपत्वेन । साक्षात् स्वरूपापेक्षया साक्षादित्यत्राप्यन्वेति । साक्षात्स्वरूपं मूलरूपं तदपेक्षया । पूर्णमदः पूर्णमिदमित्या-द्युक्तेः । साक्षा-त्स्वरूपान्मत्स्यादेरन्यत्सदसदात्मकं स्वरूपं नेत्यर्थः । साक्षात्स्वरूपापेक्षयेत्यत्र स्वरूपपदं भावप्रधानम् । यतः साक्षात्स्वरूपत्वेन विद्यमानात् । स्वरूपान् मत्स्यादेर् अन्यद्रूपं साक्षात्स्वरूपं हरेर्नास्त्यतः कार्यकारणे तद्वशत्वापेक्षयैव रूपे न तु साक्षात्स्वरूपापेक्षयेति वाऽर्थः । तद्वशत्वादेव तद्रूपता (देवरूपता) कुतस्तत्तादात्म्यादिति किं न स्यादित्यत आह ॥ साक्षादिति । साक्षात्तद्रूपापेक्षयाऽन्यद्रूपं प्राकृतं देहिनो देहादिवन्नास्तीति । इदमेव तर्हि भवत्वेतर्हीत्यत आह ॥ अस्वरूपादिति । अस्वरूपत्वा- त्तद्वशत्वादेव स्वरूपमित्युच्येते सदसती इति वा ॥
अथ मूलार्थप्रथनम् ॥ अनिन्द्रियजयवतां विद्यमानं मौनादिकमविद्यमानप्रायं तदादिसाधनं चासुसाधं साधारणं विना मनआद्यासनमुपासनमेतदित्यवेत्यावेदयति ॥ रूप इति । सदसती कार्यकारणरूपे । जगती मूर्तामूर्ते वा । तव रूपे त्वद्वशत्वात्त्वदधीनत्वात्त्वत्सन्निधानपात्रत्वादित्यादेरुपलक्षकमेतत् । नात्र मानं विनोच्यत एवमित्याह ॥ वेदेति । वेददृष्टे । द्वे वाव ब्रह्मणो रुपे मूर्तं चैवामूर्तं चेत्यादिवेदावेदिते । इदं भगवद्रूपत्वं नोपादानोपादेयभावेन बीजाङ्कुरादिवत्किन्तु प्राङ् निरुक्तबीजाङ्कुरवदित्यप्याह । बीजाङ्कुराविव प्रसिद्धबीजाङ्कुराविव न च । किन्तु व्यञ्जकत्वाद्बीजम् । जलादिकमङ्कुरश्च ताविव निमित्ततया त्वं कार्यतया तज्जगदिति निदर्शनविवेकप्रदर्शनं चेन सूचयामासेति ज्ञेयम् । अत एवान्यत् । अन्ये इति त्वद्वशादिति तात्पर्यभूमिकेयं चेति ज्ञेयम् । कुतोऽन्ये ते इत्यत आह ॥ अरूपकस्येति । भिन्नरूपरहितस्य । इदमपि भेदं स्फुटमवबोधयद्ग्रन्थकृद्वचनमिव च प्रेक्षावतां पे्रक्षणमत्र प्रमाणमित्याह ॥ युक्ता इति । उभयत्र कार्यकारणप्रपञ्चे त्वां विचिन्वत इति वचनेनाधाराधेयभावाविर्भावकेन भेदो बोध्यते । अन्यथोभयं रूपं विचिन्वत इत्यवक्ष्यदिति वीक्षणीयम् । समक्षमित्यनेन प्रत्यक्षम् । प्रतिपर-समनुभ्योऽक्ष्ण इत्यच् । तत्प्रत्यक्षं नाविश्वसनीयमित्याह ॥ युक्ता इति । ते च द्रष्टारो युक्ता मनोयोगिनः । उपायज्ञा वा । शोभना इति वा । तथा हि कर्मनिर्णयटीकाटिप्पण्योः । युक्तं शोभनम् । यथाऽऽह भिक्षुः । बालक्रीडा वासुदेवस्य युक्तेतीति । भेदानुमोदकं निदर्शनमुदाहरति ॥ योगेनेति । दारुषु काष्ठेषु योगेन मथनाद्युपायेन वन्हिमग्निमिव । यथाऽन्यतो तदुपायतो न स्याद्वन्हिस्फुरणमतस्तद्रूपमन्यदिति योजना । स वन्हिरन्यतो न स्यात् प्रत्यक्षविषय इति शेष इति वा ॥ ४७ ॥
मन्दनन्दिनी
इन्द्रियनिग्रहं विना मौनादेरप्रयोजकत्वमुक्त्वा इन्द्रियनिग्रहस्यावश्यकत्वमुक्तम् । तेन साध्यमुपासनं क्व कर्तव्यमित्यत आह ॥ रूपे इति ॥ बीजाङ्कुराविव कार्यकारणभूते । सदसती मूर्तामूर्ते । द्वेवाव ब्रह्मणो रूपे मूर्तं चामूर्तं चेति वेददृष्टे । इमे तव रूपे । प्रतिमास्थानीये शरीरे इव त्वद्वशत्वात् । वस्तुतो रूपे एव किं न स्यातामित्यत उक्तम् । न चान्यदरूपकस्य । अरूपमक्षरं ब्रह्मेत्यादिश्रुत्या प्राकृतरूपरहितस्य अन्यत्प्राकृतरूपं न च । रूपं नैव । उपसनाऽधिकरणत्वं कथमनयो-रित्यत आह ॥ युक्ता इति ॥ योगेन मथनाद्युपायेन दारुषु वह्निमिव । योगेन ध्यानयोगेन युक्ताः समाधिशीलाः । उभयत्र कार्यकारणयोस्त्वां समक्षं विचक्षते । तथा च ध्यानेनात्र तव प्रत्यक्षत्वादनयोः प्रतिमात्वं युक्तमिति भावः । ध्यानयोगादन्यस्य प्रत्यक्षोपायत्वं नास्तीत्याशयेनान्यतः कर्माद्युपायात्तवेक्षणं न स्यादित्युक्तम् । एतदभिप्रेत्योक्तं तात्पर्ये ॥ कार्यकारणरूपे तद्वशत्वापेक्षया साक्षात्स्वरूपापेक्षया स्वरूपादन्यद्रूपं नेति ॥ कार्यकारणे इत्यनेन कार्यकारणभूतमूर्तामूर्तपरे सदसती इति व्याख्यातम् । तद्वशत्वापेक्षयेत्यनेन रूपपदं गौणमित्युक्तम् । मुख्यत्वमेव किं न स्यादित्यत उक्तम् ॥ साक्षादिति ॥ अप्राकृतशरीरस्य भगवतः प्राकृतरूपाभावादित्यर्थः ॥ ४७ ॥
त्वं वायुरग्निरवनिर्वियदम्बुमात्राः
प्राणेन्द्रियाणि हृदयं चिदनुग्रहश्च ।
सर्वं त्वमेव सगुणो विगुणश्च भूमन्
नान्यत् त्वदस्त्यपि मनोवचसा निरुक्तम् ॥ ४८ ॥
पदरत्नावली
के ते कार्यकरणे इत्यतस्तन्नामनिर्देशस् तत्सत्ताप्रदत्वेन तद्वशत्वे तद्दूपत्वाभिप्राय इत्याशयेनाह– त्वमिति ॥ चिदनुग्रहश् चेतनः । तन्मनसा वचसा निरुक्तम् । न त्वदन्यत् त्वां विना प्रवृत्तिमन्नास्ति । सगुणः संसारी । शौक्ल्यादिगुणयुक्तो वा । विगुणो मुक्तः । उत्पन्नानन्तरक्षण-विशिष्टपदार्थो वा ॥ ४८ ॥
सत्यधर्मीया
तद्वशत्वात्सदसती रूपे इति सांमुग्धेन निरूपितमिदानीं ते विविच्य वदति ॥ त्वं वायुरिति । आत्मन आकाशः सम्भूत इति श्रुतिप्रतिबोधितक्रमतोऽनुदाहरन् उदाहरन्नव्यवस्थयाऽ-न्योन्यैतत्कार्यकारणभावो भगवदायत्त इति सूचयामास व्यास इत्यवधेयम् । मात्राः पञ्च प्राणाश्चेन्द्रियाणि चेति तानि । चिदनुग्रहश्चेतनो अनुगृह्यते इति अनुग्रहो जीवः । सगुणः ससत्त्वादिगुणः । विगुणो मुक्तश्चेत्येतत्सर्वम् । वस्तुतस्तु त्वम् । त्वदन्यदेव । तत्र हेतुः । मनोवचसा निरुक्तमिति । त्वन्त्वनिरुक्तः । हे भूमन् । भावभवित्रोरभेदादेवमुक्तिः पूर्ण । त्वत् त्वत्तः । अन्यन्नास्तीत्युच्यते । त्वं त्वमिति द्विरभिधास्यन्नेको युष्मच्छब्दप्रकृतिक एकस्त्वत्वावित्यन्यपर्यायावित्युक्तोऽन्यवाची त्वशब्द इति सूचयतीति ज्ञेयम् । अन्यथैकेनैव पूर्तेर्व्यसनितया व्यासो निबबन्धेति बोद्धव्यं स्यात् । न च सर्वत्रान्वय-प्रदर्शनार्थं द्विरुच्चारणमिति वाच्यम् । त्वदन्यन्नास्तीत्युत्तरवचनतोऽप्यवचने द्विःसर्वत्रान्वयस्य सुज्ञान-त्वात् । त्वं वायुरग्निरित्याद्यर्थस्तु विनैतदानुपूर्वीमात्रं यः पृथिव्यां तिष्ठन्नित्यादिनाऽत्रानुक्तैरर्थविशेषैः सहारुणिरुपररामेत्यन्ते बृहदारण्यकान्तर्यामिब्राह्मणे तद्भाष्ये स्फुटमुक्त इति च पूर्वं समानाधिकरण-विभक्तेस्तद्वशत्वादिति गतिश्चिन्तितेति च नात्र पुनः पराक्रान्तमाचार्यैरपराक्रान्तितिरोहितत्वादर्थस्येति मन्तव्यम् ॥ ४८ ॥
मन्दनन्दिनी
सदसती इत्युक्तं विवृणोति ॥ त्वमिति ॥ प्राणेन्द्रियाणि प्राणाः पञ्च प्राणा, इन्द्रियाणि ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि, हृदयं मनश्चिदनुग्रहो जीवः । अनुगृह्यते इत्यनुग्रहः । चिच्चा-सावनुग्रहश्च । योग्यजीव इति यावत् । वायुरित्यादौ सर्वत्र त्वमिति सम्बन्धः । त्वं तदधीनमित्यर्थः । यदधीना यस्य सत्तेत्युक्तेर् यस्य पृथिवी शरीरमित्युक्तेः । यस्यात्मा शरीरमित्यादिनाऽन्तर्यामिब्रह्मणे पृथिव्यादेः शरीरस्थत्वोक्तेः । उपलक्षणमेतत् । प्रकृत्यादिकं सर्वं त्वमेव त्वदधीनमेव । त्वं च सगुणो ज्ञानानन्दादिगुणः । विगुणस्त्रैगुण्यवर्जितः । मनोवचसा निरुक्तं सर्वमपि त्वदन्यथा नास्ति । अनधीन-प्रवृत्तिमान्नेत्यर्थः ॥ ४८ ॥
नैते गुणानुगुणिनो महदादयो ये
सर्वे मनःप्रभृतयः सहदेवमर्त्याः ।
आद्यन्तवन्त उरुगाय विदन्ति हि त्वा
मेवं विमृश्य सुधियो विरमन्ति शब्दात् ॥ ४९ ॥
पदरत्नावली
पृथिव्यादिमहत्तत्वान्तं पदार्थजातं कार्यकारणात्मना द्वित्वेन क्रोडीकृतम् । भगव-द्रूपं ततो भिन्नमित्युक्तम् । इदानीं तदवस्थितपरमात्मानं तदभिमानिनो देवा अपि साकल्येन न जानन्तीत्येवंविधानन्तमाहात्म्याम्बुराशिरिति निश्चित्य तमुपासते सन्त इत्याह– नेति ॥ गुणाः सत्वादिगुणाभिमानिनः । गुणिनो गुणविकाराः सहदेवमर्त्या इत्यत्र देवशब्देन पृथग्विग्रहवन्त इन्द्रादयो गृह्यन्ते । सुधियो निश्चितशास्त्रार्थाः । शब्दाद् वेदादिशब्दराशिप्रमाणाद् एते आद्यन्तवन्तस्त्वां न विदन्तीत्येवं विमृश्य विचार्य उपास्य तत्प्रसादेन संदृश्य विरमन्ति, संसारादिति शेषः । ‘यद् वाचाऽनभ्युदितम्’ इत्यादिश्रुतेः ‘शब्दाद् विरमन्ति’ इत्यत्र शब्दत्यागो नार्थः । किन्तु वेदेन निर्णीत-तत्वस्य तत्वे निरन्तरस्यन्दमानबुद्धिजलराशेः पुंसो हरिगुणानुस्मरणायासो नास्तीति वा ॥ ४९ ॥
सत्यधर्मीया
तत्तद्वस्तुनिष्ठं भगवन्तं तत्तद्वस्तुनिष्ठा बहिष्ठाश्चेन्द्रादयो न साकल्येन जानन्त्य-तस्त्वदुपास्तिरेवास्ति गतिरिति तामेव बहवो बहु मन्वते तन्वते च तथेत्याह ॥ नेति । एते गुणानु-गुणिनो गुणा अनुगुणिनो येषां ते तथा तद्गुणाभिमतिमन्तः । गुणाः सत्त्वाद्यभिमानिनो गुणिनो गुण-विकृता इति वा । महदादयो ब्रह्माद्याः । मनःप्रभृतय उमापतिचन्द्राद्याः । तथा सहदेवमर्त्याः । देवाश्च तत्त्वेशव्यतिरिक्ता देहवन्त इन्द्राद्याः । मर्त्या मनुष्योत्तमाश्चेति सर्वे आद्यन्तवन्त उत्पत्तिमृतिमद्देहाः । उरुगाय उरुरित्येव गीयत इत्युरुगायस्तत्सम्बुद्धिः । त्वां न विदन्ति न जानते साकल्येन । एवं शब्दा-द्वेदाद्विमृश्य । सुधियस्त्वदितरे विरमन्ति संसारतः । आद्यन्तवन्त इत्यमानिकं नेत्यपि शब्दादित्य-न्वितम् । तेन बोधयति नु निश्चयः । सुधिय इत्यस्य गुणा इत्यादिभिः सामानाधिकरण्यं वा । ये गुणादय आद्यन्तवन्तस्तेषां सुधियः शास्त्रनिश्चितार्थविषयिण्यः सुबुद्धयः । शब्दाद्वेदं विचार्य विरमन्ति । अशक्यत्वाद्विशेषविवित्सात इति वा । विमृश्यसुधिय इत्येकं पदम् । विमृश्या उपदेशकतया विचार्याः सुधियो येषां ते तथेति वा । शब्दादेवं निश्चित्य विरमन्तीति । स चोपदेशको भवानेवेति हिनाऽऽहेति वा
॥ ४९ ॥
मन्दनन्दिनी
युक्ताः समक्षमुभयत्र विचक्षते त्वामिति कार्यकारणात्मकप्रपञ्चलक्षणप्रति माया-मुपास्य प्रत्यक्षीकुर्वन्तीत्युक्तम् । तच्चोपासनं न साकल्येन । तदभिमानिदेवानामपि साकल्येन ज्ञाना-भावेनेतरेषां कैमुत्यन्यायेन साकल्येनोपासनाभावात् । किन्तु यथाशक्त्युपास्य साक्षात्कृत्य संसाराद्विर-मन्तीत्याह ॥ नैत इति ॥ हे उरुगाय विष्णो । ये गुणा गुणत्रयाभिमानिनो गुणिनो गुणविकार-महदाद्यभिमानिनो मनःप्रभृतयस्तदभिमानिनः सहदेवमर्त्याः । रूपान्तरेण विद्यमानैर्देवैर्मर्त्यैर्ऋषिभिश्च सहिता आद्यन्तवन्तः सृष्ट्यादौ प्रलये चोत्पत्तिविनाशवन्तः । बहुकालीना इति यावत् । एते सर्वे सुधियस्त्वां साकल्येन न विदन्ति । एवं विमृश्य निश्चित्य । अन्येऽधिकारिणः शब्दाद्वेदात्सर्ववेदान्त-प्रत्ययन्यायेन यथायोग्यं श्रुत्वा मत्वा ध्यात्वा साक्षात्कृत्य च संसाराद्विरमन्ति । एवं निश्चिनोमीति योजना ॥ ४९ ॥
तत्वे मनो दर्शने दृगपि स्तुतौ च
वाक् कर्मणि ह्यपि करौ श्रवणं कथायाम् ।
संसेवया त्वयि विनेति षडङ्गया किं
भक्तिं जनः परमहंसगतौ लभेत ॥ ५० ॥
पदरत्नावली
श्रीनारायणप्रसाद एव पुरुषार्थसाधनमित्युक्तम् । तस्य भक्तिज्ञाने । तयोश्च षडङ्गोपासनासाध्यं ध्यानं विना नान्यत् । अन्यथा न स्यादित्याशयेनाह– तत्व इति ॥ हिशब्देन अन्यथा जीवन् शव इत्याह । अपिशब्दात् पादौ तव क्षेत्रानुगमनेऽभियोज्याविति ग्राह्यम् । एवं षडङ्गया सेवया विना जनो मुमुक्षुः परमहंसानां गतौ आश्रयभूते त्वयि भक्तिं ज्ञानं च लभेत किम् ? साधनान्तराभावान्नाप्नोतीत्यन्वयः । भक्तिज्ञानयोर्हेतुहेतुमद्भावादेकग्रहणेन द्वयोर्ग्रहणं युज्यत इति भावः । ‘परा पूर्वेषां सख्या वृणक्ति’ इति श्रुतेः ॥ ५० ॥
सत्यधर्मीया
वद मे तव दास्ययोगमिति यदर्थितमन्ते तदेव देवं प्रति प्रार्थयन्नुपसंहरति ॥ तत्त्व इति । तत्वे इतररहस्ये त्वयि मनो दर्शने दृक् चक्षुर्वाग्जिव्हा स्तुतौ त्वत्स्तोत्रे कर्मणि करौ । अपि-शब्दात्पादौ तव क्षेत्रयात्रायामिति ग्राह्यम् । कथायां श्रवणमेवं षडङ्गया । षट् अङ्गानि यस्याः सा तया । संसेवयोपास्त्या । विना तामतिहाय परमहंसगतौ परमहंसानां गतिर्मोक्षो येन तस्मिंस्त्वयि । परमहंसप्राप्ये वा । जनः संसारी भक्तिं लभेत प्राप्नुयात्किम् । न प्राप्नुयात् । अत उपास्तिः सर्वार्थसाधिकेति साधिका । तस्याश्च त्वद्दाससहवासादिकं साधनमिति तद्योगस्तु तत्सम्पन्नानामेवेति दास्यं दिशेति भावः । प्रकरणमुपरमितवानिति मन्तव्यम् ।
हे परम । हंसगो हि हंसकः पादाभरणम् । ‘‘हंसकः पादकटक’’ इत्यमरव्याख्यायां हंस इव कायति । अन्येभ्योऽपीति डः । इवे प्रतिकृताविति कन्वेत्युक्तेर्हंसवद्गायतीति । गैशब्द इत्यतोपि डोऽर्था-त्तदुपस्थापको हंसगशब्दो भवति । तयोर्हंसगयोर्हंसकयोस्तमागतिर्ययोस्तौ । हंसगतौ पादौ कर्मणीति सञ्चाररूपे क्षेत्रयात्रादौ इति विनोपलक्षणं चरणसञ्चरणोपलब्धिर्वाऽनुसन्धेया । तकारश्चागते चोर इत्येकाक्षररत्नमाला । हंस इव गतं ययोस्तौ चरणाविति वा । हे परम त्वयि । इति षडङ्गया संसेवया विना । भक्तिं च विना । तथा हंसगतौ हंसवाहे च चतुरास्ये भक्तिं परमहंसगतौ लभेत किमित्या-वृत्त्याऽन्वयो वा । षडङ्गया संसेवया च विना । भक्तिं च विना । स जनो गतौ मोक्षरूपिण्याम् । परमहं महोत्सवं लभेत किमिति । जनः परं जनोलोकात्परं गतौ गम्ये । लभेत किमिति । अहं मन्य इति वा । सगतौ साधकलोकगतौ । सः साधक इति विश्वः । मह उद्धव उत्सवः । ‘‘महं तु महसा सार्धं, जनो लोकान्तर’’ इति चामरद्विरूपकोशादेः ॥ ५० ॥
मन्दनन्दिनी
सुधियः संसाराद्विरमंतीत्युक्तम् । सुष्ठु ध्यानं च भक्तिज्ञाने विना न भवति । भक्तिज्ञाने च षडङ्गसेवया विना न भवत इति प्रदर्शयति ॥ तत्त्वे इति ॥ तत्त्वे ध्यातव्ये योग्यगुणविशिष्टे रूपे मनः । तथा च मनसा ध्यानम् । मनोङ्गकसेवा । दर्शने दृक् । स्तुतौ च वाक् । पूजादिकर्मणि करौ । कथायां श्रवणम् । क्षेत्रानुगमने च पादाविति वक्तव्यम् । चरणौ तौ तु सफलौ केशवालय-गामिनावित्यन्यत्रोक्तेः । एवं प्रकारेण षडङ्गया सेवया विना जनः परमहंसगतौ परमहंसानां गता-वाश्रयभूते त्वयि भक्तिं लभेत किम् । साधनान्तराभावान्नाप्नोतीति योजना ॥ ५० ॥
नारद उवाच–
एतावद्वर्णितगुणो भक्त्या भक्तेन निर्गुणः ।
प्रह्लादं प्रणतं प्रीतो गतमन्युरभाषत ॥ ५१ ॥
पदरत्नावली
हरेरसुरेषु प्रद्वेषाशयात् प्रह्लादस्यापि तज्जातित्वेन तत्स्तुत्या कोपोपशमः स्यात् किम् ? प्रत्युताक्षेपकरत्वेनाग्नौ शुष्केन्धनप्रक्षेपणवत् तज्ज्वलनाय स्यादिति तत्राह– एतावदिति ॥ योग्यतानुकूल्येन भक्त्या भक्तेन इति विशेषणद्वयेन शङ्का निरस्तेति ज्ञातव्यम् । असुरजातित्वम-प्रयोजकम् । भक्तिरेवेति सूचनेन देवदत्तवदुन्मत्तो न भवति भगवानिति सिद्धम् ॥ ५१ ॥
सत्यधर्मीया
देवासुरो वेत्यादिनाऽऽदितः प्रल्हादेन जातिमप्रयोजिकीकृत्य भक्तिः प्रीणने प्रयोजिकीकृता यत्तन्नृसिंहो लालयामासोत दितिसुतस्य साक्षात्सुत इति कोपमुपाददे पुनरिति धर्मसंशय-मर्म नारदो दूरयतीत्याह ॥ नारद इति । भक्त्येत्यनुपलक्षणतां तस्याह । कोपापहारे कारणमाह ॥ निर्गुण इति । सत्त्वादिगुणहीनः । यद्वा स्वस्वामीरितेन क्रोधोऽनुष्ठेयश्चेत्तदाज्ञयैव समाधिरपि विधेयो दृष्टो लोक एतस्यान्योऽस्ति नियन्ता यर्हि तर्हि तदाज्ञयैव क्रोधोपरोधः स्यादित्यत आह ॥ निर्गुण इति । गुणेभ्योऽप्रधानेभ्यो निर्गतः स्वयमेव मुख्य इत्यर्थः । प्रीत इति प्रागुदीरयन् गतमन्युरिति तदनन्तरं गदन्कोपस्योपादानं कार्यानुगुण्येनेति दर्शयति । पूर्वमेव यन्मेऽर्पितः शिरसि पद्मकरप्रसाद इति विकोपि-तोक्तप्राया यद्यपि तथाऽपि तन्मात्रानुभववेद्या भाषणादिना सा सार्वजनीना जातेति गतमन्युरित्युक्तिरिति ज्ञेयम् ॥ ५१ ॥
मन्दनन्दिनी
एवं वर्णितो भगवान् शान्तमन्युरभूदित्याह ॥ एतावदिति ॥ योजना तु स्फुटा
॥ ५१ ॥
श्रीभगवानुवाच–
प्रह्लाद भद्र भद्रं ते प्रीतोऽहं तेऽसुरोत्तम ।
वरं वृणीष्वाभिमतं कामपूरोऽस्म्यहं नृणाम् ॥ ५२ ॥
पदरत्नावली
मन्युशान्तेः किं गमकमिति तत्राह– प्रह्लादेति ॥ वरदानसामर्थ्ये हेतुमाह– कामपूर इति ॥ नृणाम्, भक्तानामिति शेषः ॥ ५२ ॥
सत्यधर्मीया
प्रीतिश्चान्तरङ्गिकी तत्कृतकार्यानुमेयाऽनुमेयश्च कोपापगमोऽपि स्वकार्येणेति तत्किं रूपमित्यत इदमित्याह ॥ श्रीभगवानिति । यद्वाऽभाषतेत्युक्तं तत्किमाकारमित्यत आह ॥ श्रीभगवा-निति । हे भद्र साधो । भद्रो वाच्यवच्छे्रष्ठसाधुनोरिति विश्वः । प्रल्हाद ते भद्रं मङ्गलं भवतु । भद्रं स्यान्मङ्गल इति स एव । ते त्वदुपर्यहं प्रीतः प्रीतिमान् । सज्जातिजाते पोते मयि दयाकरणं किमद्भुत-मित्यत आह ॥ असुरोत्तमेति । एतेन भक्तिर्मुख्या न जातिरिति निरणायि । तेऽभिमतं काङ्क्षितं वरं वरणीयम् । स च वरोऽपि नावर इत्यावृत्त्याऽऽह ॥ वरमिति । उत्तमम् । यद्वक्ष्यति वरैर्लोक-प्रलोभनैरिति । अनेन वरमित्येकवचनं जातावित्यप्यसूचि । वृणीष्व । अहं नृणां देवादीनां प्रधान-पुरुषाणाम् । शर्मणा नृपत्नीरित्यृग्व्याख्याटीकायाम् । नरो देवाः । प्रधानपुरुषत्वादित्युक्तेः । कामपूरः कामान्काम्यान्पूरयतीति स तथा । अस्मि । ते द्वन्द्वमहं द्वन्द्वं च पृथगन्वयीति सम्भवतीति ॥ ५२ ॥
मन्दनन्दिनी
नृणां भक्तानामहं कामपूरस्तदपेक्षितकामपूरकोऽस्मि ॥ ५२ ॥
मामप्रीणत आयुष्मन् दर्शनं दुर्लभं हि मे ।
दृष्ट्वा मां न पुनर्जन्तुरात्मानं तप्तुमर्हति ॥ ५३ ॥
पदरत्नावली
मत्प्रसाद एव दर्शने कारणमित्याह– मामिति ॥ मामप्रीणतो ऽप्रीणयतः । मद्दर्शनफलं च पान्थदर्शनवन्नेत्याह– दृष्ट्वेति ॥ ५३ ॥
सत्यधर्मीया
प्रसाद आसादयति दर्शनं मम तेन च तापापनोद इति वदति ॥ मामिति । माम् अप्रीणतः । अप्रीणयतोऽसन्तोषयितुः । हे आयुष्मन् । अनेन त्वदायुरर्थमयमवतार इति अर्थं कटाक्ष-यति । मे दर्शनं दुर्लभं दुष्प्रापम् । यन्महीयस्त्वं तवावलोकनस्य कुत इत्यत आह ॥ दृष्ट्वेति । जन्तुर्जन्मी मां दृष्ट्वा पुनरनन्तरमात्मानं स्वं तप्तुं तापयितुं नार्हति न योग्यो भवति । मामप्रीणतोऽ-प्रीणयतो हिरण्यकशिपोः सकाशादायुष्मन्नित्यन्वयः ॥ ५३ ॥
मन्दनन्दिनी
प्रसादं विना दर्शनमेव दुर्लभम् । दर्शनानन्तरं च संसारे तत्पुनर्नार्हतीत्याह ॥ मामिति । अप्रीणतोऽप्रीणयतः ॥ ५३ ॥
प्रीणन्ति ह्यथ मां धीराः सर्वभावेन माधवम् ।
श्रेयस्कामा महाभागाः सर्वेषामाशिषां पतिम् ॥ ५४ ॥
पदरत्नावली
यतो न तप्तास्त्रैय्या तस्माद् धीरा माधवं मां प्रीणन्ति प्रीणयन्ति । केन ? सर्व-भावेन पूर्णभक्त्या । माधव इत्यस्यार्थो मङ्गलदेवतापतिरित्यभिप्रायेणाह– सर्वेषामिति ॥ सर्वेषामविशेषेण या या अभिलषिता आशिषस् तासां तासामाशिषां पतिं पातृत्वेन दातारमित्यर्थः ॥ ५४ ॥
सत्यधर्मीया
तव प्रीणनमावश्यकमित्युक्ते लाके तादृशाः सन्ति सन्तः किंवा न सन्तीत्यत आद्योऽनवद्य इति तानाह ॥ धीरा इति । धियां रन्तारो हि धीराः । सर्वभावेन सर्वं पूर्णमिहोच्यत इत्युक्तेः सर्वः पूर्णोऽन्यत्राप्रसन्नो१ भावो भक्तिस्तेन । अथ । अतप्ततावाप्तिहेतुतो माधवं मां प्रीणन्ति प्रीणयन्ति । सम्पत्सम्पन्नताभावेन लक्ष्मीपतिप्रीणनं कारणमित्येवमुक्तिः । अस्ति चेत्कश्चिन्ममापि पतिः स एव भवेत्प्रीणयितव्यः । स च नास्तीत्यहमेव तद्योग्य इत्यप्याह ॥ माधवमिति । मा न विद्यते धवः पतिर्यस्य स तमिति । साधव इति पाठ इति साधवः । तदा धीरविशेषणम् । श्रेयस्कामा मङ्गलाभि-लाषा महाभागाः फलवितरणोन्मुखा देवाः । भागो भागधेयैकदेशयोरिति विश्वः । सर्वेषां जनाना-माशिषां तदभिलाषाणां पतिं स्वामिनं दातारमिति यावत् । हि यतस्त्वमपि मामप्रीणयस्तस्मादहं कामपूर इति च वरं वरयेत्येकान्वयो वा । हि यत आशिषां पतिरतो धीरा मां प्रीणन्ति प्रीणयन्तीति वाऽन्वयः
॥ ५४ ॥
मन्दनन्दिनी
नानाविधश्रेयस्कामाः प्रीणन्ति प्रीणयन्ति । त्वमपि स्तोत्रेण मामप्रीणयो ऽतो वरं वृणीष्वेति भावः ॥ ५४ ॥
नारद उवाच–
एवं प्रलोभ्यमानोऽपि वरैर्लोकप्रलोभनैः ।
एकान्तित्वाद् भगवति नैच्छत् तानसुरोत्तमः ॥ ५५ ॥
॥ इति श्रीमद्भागवते सप्तमस्कन्धे नवमोऽध्यायः ॥
पदरत्नावली
प्रह्लादोऽपि सामान्यभक्तो न भवति । किन्तु भक्तोत्तम इति प्रकटनाय भगवता विप्रलुब्धोऽपि तान् वरान् नैच्छदित्याह– एवमिति ॥ एकान्तित्वान् नैसर्गिकभक्तत्वात् ॥ ५५ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
सप्तमस्कन्धे नवमोऽध्यायः ॥
सत्यधर्मीया
ननु नरहरिः सर्वविद्वा न वा । नाद्यः । ज्ञातप्रल्हादस्वभावस्य वरं वरयेत्युक्तावपि तेनावरणे वाचोभङ्ग्या भङ्गसम्पादनस्यानौचित्यात् । न द्वितीयः । इयदज्ञानिनः कामपूरकत्वानु-पपत्तेरित्यत आद्यः विकल्प एवानल्पः । न चोक्तानौचित्यं चित्त आनेयमिति वाच्यम् । ज्ञाततच्चित्तोऽपि तदेकान्तिकतां लोकेशो लोके व्यञ्जयितुमेवैवंविधां काञ्चन लीलां लालयामासेति नानौचितीति त्रिलोक्यभिप्रायमेवमित्यनेन कटाक्षयन्नारद आह ॥ एवमिति । लोकप्रलोभनैः साधारणलोकवञ्चकैर्वरैः प्रलोभ्यमानोऽप्यसुरोत्तमः प्रल्हादस्तान्वरान्नैच्छत् । तत्र तन्त्रं भगवत्येकान्तित्त्वात् । निरुपध-भक्तत्वादिति ॥ ५५ ॥
॥ इति श्रीसत्यधर्मतीर्थकृतायां श्रीमद्भागवतविवृतौ
सप्तमस्कन्धे नवमोऽध्यायः ॥
मन्दनन्दिनी
एवं प्रलोभितत्वेऽप्येकान्तत्वान्न वरमवृणोदित्याह ॥ एवमिति । तान्वरान्
॥ ५५ ॥
**॥ इति श्रीभागवतटिप्पण्यां व्यासतत्वज्ञकृतायां मन्दनन्दिन्यां **
सप्तमस्कन्धे नवमोऽध्यायः ॥