अथ दैत्यसुताः सर्वे श्रुत्वा तदनुवर्णितम्
॥ अथ अष्टमोऽध्यायः ॥
नारद उवाच–
अथ दैत्यसुताः सर्वे श्रुत्वा तदनुवर्णितम् ।
जगृहुर्निरवद्यत्वान्नैव गुर्वनुशिक्षितम् ॥ १ ॥
पदरत्नावली
वैराग्याद्याङ्गोपाङ्गरुचिरभक्तिसुन्दरीसुन्दरावयवसन्निवेशलक्षणपरमपुरुषार्थकरणं यदुत्तरचरितमित्येतन्निदर्शयितुं नरसिंहावतारो निरूप्यतेऽस्मिन्नध्याये । तत्र दैत्यसुतैः प्रह्लादवर्णितं श्रुत्वा किं कृतमिति युधिष्ठिरस्य मानसीं शङ्कां परिहरति– अथेति ॥ निरवद्यत्वान् निर्दोषत्वात् ॥ १ ॥
सत्यधर्मीया
भगवति भक्तिः कर्तव्यतयोक्ता । तस्याप्यस्मद्वज्जननादिमत्त्वे न निरतिशयासक्तिः स्यादित्यतः श्रीनृसिंहप्रादुर्भावं तन्निदर्शनेन समस्तभगवद्रूपाणीतराण्येवंरूपाणि न किञ्चिद्विसदृशानीति व्याप्तिं ग्राहयितुं निरूपयन् दितिसुता उदितं प्रल्हादेनाल्हादतश्चक्रुरुत न चक्रुरिति धर्मशङ्कामर्म भिनत्ति ॥ नारद इति । निरवद्यत्वात्प्रल्हादवर्णितस्यादोषत्वात् । निरवद्यत्वात्प्रल्हादोदित-स्वीकारकारणदोषशून्यत्वाद्दैत्यसुता जगृहुरिति च तस्यान्वयो ज्ञेयः । गुर्वनुशिक्षितं शण्डामर्कशिक्षितं नैव जगृहुः । कुत इत्यत इत्यप्याह । निरवद्यत्वान्नितरां दोषवत्त्वादिति ॥ १ ॥
मन्दनन्दिनी
प्रह्लादरक्षणाय नृसिंहः प्रादुर्भूत इत्यस्मिन्नध्याये निरूप्यते । प्रह्लादोपदेशानन्तरं बालकाः किमकार्षुरित्याह ॥ अथेति ॥ निरवद्यत्वात्प्रह्लादवर्णितस्य बालानां मनसो वा निर्दोषत्वात् । नैवेत्यत्रापि जगृहुरित्यनुवर्तते ॥ १ ॥
अथाचार्यसुतस्तेषां बुद्धिमेकान्तसंस्थिताम् ।
आलक्ष्य भीतस्त्वरितो राज्ञ आवेदयद् यथा ॥ २ ॥
पदरत्नावली
एकान्ते हरौ सम्यक् स्थिताम् । ऐक्ये स्थितामभिन्नविषयामिति वा । यथा यथावत् साकल्येन । यथा तैस्तेनोक्तं गृहीतं तथेति वा ॥ २ ॥
सत्यधर्मीया
एकान्तसंस्थिताम् । एक एवान्ते स्थातेत्येकान्तो लक्ष्मीकान्तस्तस्मिन्सम्यग-चाञ्चल्येन स्थिताम् । एकान्तो निर्णयस्तत्र स्थितां वा । अन्तो निर्णयः । उभयोरपि दृष्टोऽन्तस्त्व-नयोरिति गीताभाष्योक्तेः । एकान्ते रहसि सयूथ्ये एव संस्थिताम् । अधुना प्रकटं वा । राज्ञ इति पञ्चम्यन्तं भीतपदेनान्वेति । चतुर्थ्यंतं षष्ठ्यंतं वा सदावेदयदित्यनेनाप्यन्वेति । यथा सम्यक् ॥ २ ॥
मन्दनन्दिनी
एकान्ते भगवति स्थितां यथा स्थितं यथा प्रह्लादेन वर्णितं तथा । यथा बालैर्गृहीतं तत्सर्वमित्यर्थः ॥ २ ॥
श्रुत्वा तदप्रियं दैत्यो दुस्सहं तनयानयम् ।
कोपावेशचलद्गात्रः पुत्रं हन्तुं मनो दधे ॥ ३ ॥
पदरत्नावली
तनयस्य अनयं स्वसिद्धान्तविरुद्धसिद्धान्तम् ॥ ३ ॥
सत्यधर्मीया
तनयानयं तनयस्यानयमन्यायं स्वराद्धान्तविरुद्धसिद्धान्तावस्थितिरूपम् । पुत्रं ‘‘पुन्नम्नो नरकात्त्राता पुत्र इत्यभिधीयत’’ इत्युक्तेर्विवक्षुरत्यगात्सूनोः प्रल्हादस्यानुभावत इति स्वतारकमिति पुत्रशब्दं पुनर्निबन्धानः सूचयामास व्यास इति ज्ञेयम् ॥ ३ ॥
मन्दनन्दिनी
तनयानयं तनयस्य अनयः स्वसिद्धान्तविरुद्धप्रकारो यस्मिन्वचने तत्तनयानयम्
॥ ३ ॥
क्षिप्त्वा परुषया वाचा प्रह्लादमतदर्हणम् ।
आहेक्षमाणः पापेन तिरश्चीनेन चक्षुषा ॥ ४ ॥
पदरत्नावली
पापेन पापसाधनेन ॥ ४ ॥
सत्यधर्मीया
तिरश्चीनेन कुटिलेन चक्षुषा नेत्रेणेक्षमाणः । हे पापेन तद्वच्छ्रेष्ठेति परुषया वाचा क्षिप्त्वाऽतदर्हणं तदयोग्यं प्रल्हादं प्राहेत्यन्वयः । पापेन तन्मारणयत्नकारणभूतस्वपापेन चक्षुषेक्षमाण इति वा ॥ ४ ॥
मन्दनन्दिनी
अतदर्हणं निष्ठुरायोग्यम् । पापेन पापसाधनेन । तिरश्चीनेन वक्रेण ॥ ४ ॥
प्रश्रयावनतं दान्तं बद्धाञ्जलिमवस्थितम् ।
सर्पः पदाहत इव श्वसन् प्रकृतिदारुणः ॥ ५ ॥
सत्यधर्मीया
सर्पः पदाहतो यथा श्वसति तथा श्वसन् । तस्य गूढपात्वादनासिकादेस्तत्प्रदर्शने कोपवदुचिततां भजते । पदाघाते कोप इति वच इति ज्ञेयम् ॥ ५ ॥
मन्दनन्दिनी
प्रकृतिदारुणः स्वभावेन दुष्टः ॥ ५ ॥
हिरण्यकशिपुरुवाच–
हे दुर्विनीत मन्दात्मन् कुलभेदकराधम ।
स्तब्धं मच्छासनोद्धूतं नेष्ये त्वाऽद्य यमक्षयम् ॥ ६ ॥
पदरत्नावली
यमक्षयं यमगृहम् ॥ ६ ॥
सत्यधर्मीया
मन्दात्मन्नल्पबुद्धे कुलभेदकरास्मत्कुलनाशक । बालानामितरेषामपि बुद्धिभेद-कत्वादेवमुक्तिः । यमक्षयं यमगृहं त्वाऽद्य नेष्ये । यम् अक्षयं नाशरहितं मनुषे तमपि यमक्षयं नेष्य इत्यावृत्त्याऽन्वयः ॥ ६ ॥
मन्दनन्दिनी
मच्छासनोद्धूतमतिक्रान्तशासनम् । त्वा त्वां यमक्षयं यमगृहम् ॥ ६ ॥
क्रुद्धस्य यस्य कम्पन्ते त्रयो लोकाः सहेश्वराः ।
तस्य मेऽभिहितं मूढ शासनं किंबलोऽत्यगाः ॥ ७ ॥
पदरत्नावली
कस्य बलं यस्य स किंबलः । मद्बलमनादृत्य तव बलभूतः क इत्यर्थः ॥ ७ ॥
सत्यधर्मीया
किंबलः कस्य बलं यस्य स किंबलः, किं बलं यस्य स इति वा । अत्यगा अतिक्रान्तवानसि । मूढ शासनमित्यव्यवधाननिर्देशेन मूढस्य शासनमिति समासलभ्यमर्थविशेषं हिरण्यकमौढ््यमान्तरङ्गिकं ध्वनयति । को बलमित्याद्यलपन्किंबल इति च वदन् किं को वा का वेति निर्णयाभावात्तदानुकूल्यं प्रश्नस्य द्योतयति ॥ ७ ॥
मन्दनन्दिनी
तस्य मे तेन मया । किंबलः को बलं यस्य सः । अत्यगा अतिक्रान्तः ॥७॥
प्रह्लाद उवाच–
न केवलं मे भवतश्च राजन् स वै बलं बलिनां चापरेषाम् ।
परावरेषां १स्थिरजङ्गमा ये ब्रह्मादयो येन वशं प्रणीताः ॥ ८ ॥
पदरत्नावली
किंबल इत्यस्योत्तरमाह– न केवलमिति ॥ वै इत्यनेन ‘बलमानन्द ओजश्च सहो ज्ञानमनाकुलम्’ इति श्रुतिं सूचयति । पराश्च अवराश्च परावरे । एतदेव विशदयति– स्थिरजङ्गमा इत्यादिना ॥ ८ ॥
सत्यधर्मीया
पित्रा पृष्टः किं त्रस्तस्तथैव तस्थौ किं वा पलायित इत्यतः किम्बल इत्यस्योत्तरं तस्मै ददावित्याह ॥ प्रल्हाद इति । केवलं मे भवतस्तव चेति द्वयोरेव स नारायणो बलमिति न । किं तु येन ये स्थिरजङ्गमाः स्थावराश्चराश्च ये भवता वशं न प्रणीतास्ते ब्रह्मादयो वशं स्वाधीनतां प्रणीताः प्रापिताः । तेषां परावरेषां तरतमभावेन परे चावरे च तेषाम् । द्वन्द्वे सुडागम आर्षः । परैः सहिता अवरे इति मध्यमपदलोपी वा समासः । परावरेऽमीति पाठे विभाषा जसीति सर्वनामकार्योपपत्तिः । बलिनां तत्त्वेनेतरसम्मतानामपि बलं तत्प्रदः । ‘‘बलमानन्द ओजश्च सहोऽज्ञानमनाकुलम् । स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद्विभोः ॥’’ इत्यादिश्रुतिं ‘‘बलमिन्द्रस्य गिरिशो गिरिशस्य बलं मरुत् । मरुतस्तु हरिः साक्षान्न हरेर्बलमन्यत्’’ इत्यादिस्मृतिं च वैशब्दः सूचयति । पितरित्यनुक्त्वा राजन्निति वदन् राजवच्चन्द्रवत्क्षययोग्यतामव्यवधानेन सूचयामासेति मन्तव्यम् । दुरनुबन्धकथने जिहीषया राजन्नित्युक्तिरिति वा । पितरित्याद्यनुबन्धबोधने जिहीषया राजन्निति वदन् शिक्षाध्यक्षतामभिप्रैतीति वा
॥ ८ ॥
मन्दनन्दिनी
किंबल इत्यस्योत्तरमाह ॥ न केवलमिति ॥ परावरे उच्चावचाः । वशं स्वाधीनत्वम् । अनेन सर्वबलत्वमुपपादितम् ॥ ८ ॥
स ईश्वरः काल उरुक्रमोऽसावोजः सहः सत्त्वबलेन्द्रियात्मा ।
स एव विश्वं परमः स्वशक्तिभिः सृजत्यवत्यत्ति गुणत्रयेशः ॥ ९ ॥
पदरत्नावली
ननु ‘स्थाणुमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः’ इति श्रुतेः शिवं बलं वदन्ति केचित् । ‘कालाद्भवन्ति भूतानि’ ‘मन्यन्ते कालचिन्तकाः’ इत्यतः कालम् । अथ कथमयं निर्णयः परमात्मा बलमिति तत्राह– स इति ॥ ९ ॥
सत्यधर्मीया
‘‘एको रुद्रो न द्वितीयाय तस्थे’’ इत्यादेः (स्थाणुमन्ये प्रपद्यन्ते । कालाद्भवन्ति भूतानीत्यादेः) कथं नारायणो बलमित्युच्यत इत्यतस्तत्तच्छब्दवाच्यः श्रीश एवेति तदेव देवस्य बलरूपत्वं व्यनक्ति ॥ स इति । स नारायण ईश्वरः शिवादिशब्दवाच्यः । कालः कल कामधेनुरित्युक्तेः कालान्तर्गतः कालशब्दवाच्यश्चापेक्षितसर्वदः । उरुक्रम उरवः क्रमाः पादविक्षेपास्त्रयो यस्य सः । ओजःसहःसत्त्वबलेन्द्रियात्मा । ओजोऽवष्टंभसामर्थ्यं सहः सहनं सत्त्वं सत्ता स्वभावो वा । बलं चेन्द्रियाणि च तेषामात्मा स्वामी स नारायण एव । परमः स्वशक्तिभिः । कार्यत्रयानुगुण्येन बहुवचनम् । स्वेन शक्तिर्येषामिति प्रकृत्यादिभिर्वा । सृजत्यवत्यत्ति । कुत एतस्यैतत्त्रिककर्तृतेत्यत आह ॥ गुणत्रयेश इति । कार्यत्रिककारणगुणत्रिकस्वामितयोक्तोपपत्तिर्ज्ञेया ॥ ९ ॥
मन्दनन्दिनी
पूर्वार्धेन जगत्कर्तृत्वोपयोगिगुणपूर्णत्वमुक्तम् । द्वितीयार्धेन जगज्जन्मादिकर्तृत्वम् । स्वशक्तिभिः स्वरूपभूताभिः शक्तिभिर्विश्वं सृजतीत्यादि योजना ॥ ९ ॥
जह्यासुरं भावमिमं स्वमात्मनः१ समं मनो धत्स्व न सन्ति विद्विषः ।
ऋतेऽजितादात्मन उत्पथस्थितात् तद् विद्ध्यनन्तस्य महत् समर्हणम् ॥ १० ॥
पदरत्नावली
कुतो न सन्ति विद्विष इति तत्राह– ऋते इति ॥ उत्पथस्थितात् तत्वमार्ग-विरुद्धमार्गनिरतात् । अजिताद् अवशीकृतात् । आत्मनः मनआदीन्द्रियग्रामाद् ऋते । शुद्धमनआदिना विचार्यमाणे सति शत्रवो न सन्तीत्यर्थः । ननु तर्हीदं ‘युद्धोद्यमं परं चक्रुर्विबुधा दानवान् प्रति’ इत्यादि कथं सङ्गच्छत इत्याशङ्क्य यथायोग्यतादर्शनलक्षणं समत्वं कर्तव्यम् । अन्यथा शास्त्रविरोध इति भावेनोक्तसमत्वफलमाह– तद्विद्धीति ॥ तत्तद्योग्यतानुसारेण तन्मनोधारणं हरेः समर्हणं विद्धी-त्यन्वयः । नैतदल्पं किन्तु महदित्याह– महदिति ॥ १० ॥
सत्यधर्मीया
स्वम् आत्मन आसुरं भावं भगवान्नास्ति सर्वस्वाम्यहमेवेत्यासुरम् । इममभिप्रायं मनो वा जहि त्यज । मनः सर्वत्र त्रायकः सन्वर्तते भगवानिति समं धत्स्व धर । तेन किमित्यत आह ॥ न सन्तीति । विद्विषो द्वेषिणो न सन्ति । मनः समं चेन्नारयः सन्तीति भावः । द्वेषादिमूलं मन एवेत्याह ॥ ऋत इति । अजितादस्वाधीनात् । अत एवोत्पथस्थितादुद्गतः पथ इत्युत्पथो विरुद्ध-निश्चयस्तत्र स्थितात् । आत्मनो मनसस्तदादेः । ऋते विना मन आदेर्दुर्मार्गावस्थान एवैते विद्विष इति मतिर्नापरथेति तत्समं धत्स्व । तद्धारणेन विचार्यमाणे न केऽपि शत्रव इति भावः । ये समबुद्धित्वेन तव संमतास्तेषां देवानामपि ‘‘युद्धोद्योगं परं चक्रुर्विबुधा दानवान् प्रति’’ इत्यादिकं कथं घटत इत्यतस्त-त्समत्वं तत्तद्योग्यताऽनतिरेकेणेति तत्फलमाह ॥ तदिति । अनन्तस्य नाशरहितस्य तत्तद्योग्यता-मनतिहाय तन्मनोधारणं महत्समर्हणं महद्भिः क्रियमाणं पूजनं महच्छे्रष्ठं समर्हणमिति वा विद्धि जानीहि । अस्थाने द्वेषादिकमेवं चेन्न भवति भगवद्द्वेषिषु तैरनिमिषैः क्रियमाणं युक्तमेवेति तत्त-त्स्वभावानुसारि प्रल्हादवच इति भावः । यद्वा चतुराननलब्धवर इति नार्होऽनन्तसमर्हण इति न वदेत्यप्याह । विद्ध्यनन्तस्येति । विधिना सहितोऽनन्तः विध्यनन्तः । यद्वा महतो महत्तत्वाभिमानिनो ब्रह्मणः समर्हणं विद्धीत्यभिमन्यमानाभिमानिनोश्चैकत्वं शब्दव्यवहृतौ ‘‘महतश्चतुर्मुखात्’’ इत्यादिक-मुदाहरणमिति न चेतः संकोचनीयम् ॥ १० ॥
मन्दनन्दिनी
त्याज्यं निषेधयति । कर्तव्यं च विधत्ते ॥ जहीति ॥ विद्विषां सत्वात्कथं समं मन इत्यत उत्पथस्थिताच्छास्त्रमार्गमतिक्रम्य स्थितादजितादात्मनो मनसो ऋते विद्वेषो न सन्तीत्युक्तम् । समर्हणं पूजाम् ॥ १० ॥
दस्यून् पुरं षण्णविजित्य लुम्पतो मन्यन्त एके स्वजिता दिशो दश ।
जितात्मनो ज्ञस्य समस्य देहिनां साधोः स्वमोहप्रभवाः कुतः परे ॥ ११ ॥
पदरत्नावली
एतदेव विशदयति– दस्यूनिति ॥ एके भवादृशाः पुरं शरीरं लुम्पतः षड् दस्यून् षडिन्द्रियाख्यचोरान् अविजित्य दश दिशः स्वेन जिता इति मन्यन्त इत्यन्वयः । आन्तरशत्रुजयं विना कुतो बाह्यशत्रुजय इति भावेनाह– जितेति ॥ परे बाह्यशत्रवः । यद्वा एके मादृशाः । षडिन्द्रियजयो नास्ति चेद् बाह्यशत्रुविषया दश दिशः सुष्ट्वविजिता इति मन्यन्ते । शेषं पूर्ववत् ॥ ११ ॥
सत्यधर्मीया
ज्ञान्यज्ञानिमननमाह ॥ दस्यूनिति । एके त्वादृशाः षड् दस्यून् इन्द्रियाख्य-षट्चोरान् न विजित्यापराभाव्य दश दिशो स्वजिताः स्वेन जिता मन्यन्ते । ते हि किं कुर्वन्तीति दस्युभूता इत्यत आह ॥ पुरमिति । पुरं शरीरं लुम्पतो लुण्ठयतस् तान् । ज्ञस्य जितात्मानो मनोजयवतः समस्य समधियवतः साधोः । अनेन षडिन्द्रियजयोऽस्त्येषामिति द्योत्यते । देहिनां स्वमोहप्रभवा आत्मात्मीयमोहात्प्रभवन्तीति ते तथा । परे बाह्यशत्रवः कुतः स्युः । मोहादिरूपकारणविरहादिति भावः । एके सन्तः पुरं लुम्पतः षट् दस्यून् न विजित्य दशदिशः स्वजिताः सु अत्यन्तमजिता इति मन्यन्ते । आन्तरारिजयाभावे बाह्यशत्रुजयो दुःशक इत्याशयः । देहिनां तद्विषये समस्येति वा । अतः क्रुद्धस्य यस्य कम्पन्ते त्रयो लोकाः सहेश्वराः । भ्रातृहेत्याद्यसम्बद्धभाषणमिति तात्पर्यम् ॥ ११ ॥
मन्दनन्दिनी
दश दिशो जिता इति भ्राम्यन्तमपहसति ॥ दस्यूनिति ॥ पुरं स्वदेहं लुम्पतो विनाशयतः षट् कामादीन् । मन आदीन्द्रियाणि वा । दस्यून् अविजित्वैव दशदिशः स्वजिता इत्येके मन्यन्ते । जितात्मनो जितमनस्कस्य देहिनां समस्य साधारणस्य साधोर्ज्ञस्य सज्जनस्य स्वमोहप्रभवाः परे शत्रवः कुत इति योजना । शत्रुत्वकल्पकमिथ्याज्ञानस्यैवाभावादिति भावः ॥ ११ ॥
हिरण्यकशिपुरुवाच–
व्यक्तं त्वं मर्तुकामोऽसि योऽतिमात्रं विकत्थसे ।
मुमूर्षूणां हि मन्दात्मन् ननु स्युर्विप्लुता१ गिरः ॥ १२ ॥
पदरत्नावली
असुरावेशोदधिमग्नत्वात् पुत्रोक्तं तत्वं न तस्य श्रोत्रविवरगतमभूत् । प्रत्युता-र्चिष्मत्याज्यहोमवदभूदिति भावेनोत्तरमवतारयति– व्यक्तमिति ॥ अतिमात्रं वक्तव्यांशादधिकं विकत्थसे असम्बद्धं भाषसे । विप्लवा मण्डूकप्लुतिवदसङ्गताः ॥ १२ ॥
सत्यधर्मीया
त्वं व्यक्तं स्फुटम् । मर्तुकामो मर्तुं काम इच्छा यस्य स तथा । असि । तत्र तन्त्रमाह ॥ य इति । अतिमात्रम् । ‘‘अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरा’’ इत्यमरः । भृशं विकत्थसे मद्वैरिणं श्लाघयसि । सामान्यतस्त्वादृशानामीदृशानां स्वभावोऽयमित्याह । मुमूर्षूणां तद्वदाशङ्कितानां विप्लुता अतलस्पृशो गिरो वचनानि स्युर्ननु निश्चयः । ननु न नुमः । हरीतरं कमपि न स्तुम इति विप्लुता गिर इति वा ॥ इन्द्रावरुण नूनुवामित्यृग्भाष्यटीकयोः । अथवा ननुमोलोपः स्वातन्त्र्यार्थं हि सूत्रतः । नु नुमः । णुस्तुतौ स्तुमः । ननु कथमेतत् । मस्प्रत्ययादर्शनात् । धातुमात्रस्य च प्रयोगायोगात् । कारकालाभाच्चेत्यत आह ॥ लोप इति । लोपः मस्प्रत्ययस्य । स्तुत्यादौ परमेश्वरस्यैव स्वातंत्र्यं न स्तोतुर्जीवस्येत्येतदर्थप्रतिपादनायेत्याद्युक्तेः ॥ १२ ॥
मन्दनन्दिनी
अतिमात्रमत्यर्थम् । विकत्थसे विरुद्धं भाषसे । अतो मर्तुकाम इति जानामि । विशेषमुक्त्वा सामान्यमाह ॥ मुमूर्षूणामिति ॥ विप्लुता असम्बद्धाः ॥ १२ ॥
यस्त्वया मन्दभाग्योक्तो मदन्यो जगदीश्वरः ।
क्वासौ यदि स सर्वत्र कस्मात् स्तम्भे न दृश्यते ॥ १३ ॥
पदरत्नावली
यदि त्वदुक्तं युक्तं स्यात् तर्हि तथा प्रतीयेत (न च प्रतीयते)तस्मादसम्बद्धमिति भावेनाह– यस्त्वयेति ॥ १३ ॥
सत्यधर्मीया
कुतो ममालापस्य विप्लुततेत्यतः प्लुतस्वरेणेता इति कुमारमीरयति ॥ यस्त्विति । हे मन्दभाग्य दरिद्र दुर्दैव वा । मदन्यो मदितरो जगदीश्वरो यस्त्वयोक्तोऽसौ सः क्व । क्व वर्तत इति पृष्टः पित्रा पुत्रः प्राह ॥ स सर्वत्रेति । यदि सर्वत्र तर्हि कस्मात्कारणात् स्तम्भे न नास्तीति पिता । तं सुतः प्रोवाच ॥ दृश्यत इति । एवमन्वये श्लोक उत्तानितो भवतीत्यनुत्तानदृग्भिः । किं चोत्तरत्र गोपाये-तेत्यादिकं च सुलग्नमन्यथाऽलग्नमिति चालोचनीयम् । न च प्रश्नोत्तरज्ञापकमत्र किमपि न वर्तत इति कथमेवं कथनमर्थस्येति वाच्यम् । यद्दोषालवणमित्यादि व्याकृत्यवसरे तत्वनिर्णयादौ कथमिति पिता लवणमिति पुत्र इत्याद्युक्तेर्हे मन्दभाग्येत्यादेरेवैतद्गमकत्वान्न चित्रयितव्यं चेतः ॥ १३ ॥
सोऽहं विकत्थमानस्य शिरः कायाद्धरामि ते ।
गोपायेत हरिस्त्वाऽद्य यस्ते शरणमीप्सितः ॥ १४ ॥
पदरत्नावली
अस्येदं फलितमित्याह– सोऽहमिति ॥ गोपायेत रक्षेत ॥ १४ ॥
सत्यधर्मीया
दृश्यत इत्युक्तमसहमान आह ॥ सोऽहमिति । योऽहं त्वया तिरस्कृतः सोऽहं विकत्थमानस्यासम्बद्धं भाषमाणस्य ते शिरः शीर्षं कायाद्विशिष्टशरीराद्धराम्यपहरिष्यामि । वर्तमान-सामीप्याद्वर्तमानव्यपदेश इति वा क्रियाप्रबन्धे लडित्युक्तेरेष्यदर्थेऽपि लट् सम्भवतीति वोपपत्तिर्ज्ञेया । पदसंस्कारपक्षेतु अध्याहारादिना भविष्यत्कालिकसंहारस्यैव प्रतीतेरिति वा । विस्तरस्तु व्याख्यां करोमीत्यनुव्याख्यावर्तमानसामीप्ये वर्तमानवद्व्यपदेश इति सुधावाक्यार्थचन्द्रिकातोऽवसेयः । यः स सर्वत्रेति ते शरणं रक्षक इतीप्सितः कांक्षितः स हरिस्त्वा त्वामद्य गोपायेत गोपायेद् रक्षेत् । गुपू रक्षणे । गुपूधूपविच्छिपणिपनिभ्य आय इत्यादयः ॥ १४ ॥
मन्दनन्दिनी
स्वातिरिक्तेश्वरस्यानुपलम्भबाधमाह ॥ य इति । भगवतः शरणत्वे तर्कबाध-माह ॥ स इति ॥ १४ ॥
नारद उवाच–
एवं दुरुक्तैर्मुहुरर्दयन् रुषा सुतं महाभागवतं महासुरः ।
खड्गं प्रगृह्योत्पतितो वरासनात् स्तम्भं तताडातिबलः स्वमुष्टिना ॥ १५ ॥
पदरत्नावली
यदिन्द्रियं जयस्वेति वचः(तदु)न हार्दम् असम्भावितत्वात् तत्राह– एवमिति
॥ १५ ॥
सत्यधर्मीया
एवं पूर्वोक्तेन वध्यतामाश्वसौ पाप इत्यादिप्रकारेण दुरुक्तैरसदालापैर्मुहुः पुनः पुनः रुषा कोपेन महाभागवतं सुतं महासुरोऽर्दयन्पीडयन् वरासनात्स्वोपविष्टादुत्पतितः कृतोड्डीनः खड्गं प्रगृह्य गृहीत्वा स्वमुष्टिनाऽतिबलः स्तम्भं तताडाताडयत् । न च ‘‘निस्तम्भां बहुरम्यां च सभाम्’’ इति कूर्माद्युक्ते कथं स्तम्भ इत्युक्तिरिति वाच्यम् । शक्तिहेतुबन्धाद्यर्थं गृहासंगिनः स्तम्भस्य राजसभायां सम्भावितत्वात् । कस्मात् स्तम्भे न दृश्यत इति तेन पुरस्करणाद् आदौ तत्सर्जनस्य सम्भवात् । ननु पदा स्तम्भं तताडाश्विति पुराणान्तरे स्पष्टमुक्तेरत्र मुष्टिनेति निष्टङ्कनं कथमिति चेन्न । ‘‘सिंहस्यार्धं तनुं कृत्वा नरस्यार्धं तनुं तदा । नृसिंहवपुरव्यक्तो हिरण्यकशिपोः पुरः । आविर्बभूव सहसेत्यादिकूर्मपुराणे । भगवानपि देवेशो नारसिंहमथाकरोत् । स्तूयमानो मुनिगणैर्हिरण्यकशिपोः पुरम् । तत्र गत्वेत्यादि नृसिंहपुराणे । नारसिंहमनाधृष्यं देवदानवरक्षसाम् । हिरण्यकशिपोः स्थानं जगाम प्रभुरीश्वरः । नरस्य कृत्वाऽर्धतनुं सिंहस्यार्धतनुं प्रभुः । ततोऽपश्यत विस्तीर्णां दिव्यां रम्यां मनोरमाम् । सर्वकामयुता-मित्यादि हरिवंशे । हिरण्यकशिपोः स्थानं जगाम हरिरीश्वरः । नरस्यार्धतनुं कृत्वा सिंहस्यार्धतनुं तथा । ततोऽपश्यत विस्तीर्णां हिरण्यकशिपोः सभाम्’’ इत्यादिमत्स्यपुराणादौ स्तम्भताडनादेस्तदुद्भूतेश्चानुक्त-त्वात्पदा वा मुष्टिना वेति तव चिन्ता दूरनिहितेति तस्य कल्पभेदसमाधेयते वाऽस्या अपि शान्तिसम्भवात् । स्वमुष्टिना खड्गं प्रगृह्य तताड । पादेनेति शेषेणान्वेतुं शक्यमित्यवेहि । मुष्टिकुट्टनस्य अत्युत्कटपापत्वाभावात् सद्यः संहारादिर्न स्याद् अतः पदेति युक्तम् । अयुक्तं च मुष्टिताडने खड्गग्रहणम् । तथाहि रुक्मिणीशविजये ‘‘यदा नृसिंहाकृतिराविरासीत्पदाहतात् स्तम्भवराद्धि पूर्वम् । तदानु कास्त्री सुषुवे मुकुन्दं स कस्य वीर्यादजनिष्टकायः’’ इत्युक्तेरिति । स्तम्भोद्भवस्तूदाहृत-सर्वस्वदुर्मिलोऽपि भगवतो जनवत्प्रसक्तजनननिरासाय यथा नृसिंहाकृतिराविरसीत्स्तम्भादिति निदर्शनीय इति यथायथं तत्र तद्वाचकपदमध्याहृत्य विपश्चिद्भिर्योजना कर्तव्येति दिक् ॥ १५ ॥
मन्दनन्दिनी
न केवलं दुरुक्तिमात्रं किन्तु दुरुद्योगं च चकारेत्याह ॥ एवमिति ॥ स्तम्भे न दृश्यत इत्युक्त्वान्तर्वर्तते चेदायात्वित्याशयेन मुष्टिना स्तम्भं तताडेति भावः ॥ १५ ॥
तदैव तस्मिन् निनदोऽतिभीषणो बभूव येनाण्डकटाहमस्फुटत् ।
यं वै स्वधिष्ण्योपगतं ह्यजादयः श्रुत्वा स्वधामाप्ययमङ्ग मेनिरे ॥ १६ ॥
पदरत्नावली
स्तम्भभङ्गेनाधेयपातेन सभ्यानां शरीरचूर्णनादिव्यथा सम्भाविता इत्याशङ्क्य भगवत्सन्निधानबलाद् वज्रनिष्ठुरस्तम्भोत्थनिनदवत् स्तम्भनिर्ह्रादोऽभूदित्याह– तदैवेति ॥ अस्फुटद् अभिनत् । स्वधिष्ण्योपगतं स्वकीयत्वेनाभिमतं सत्यलोकं प्राप्तम् । स्वधामाप्ययं स्वलोकनाशम् ॥ १६ ॥
सत्यधर्मीया
यदा तताड तदैव तस्मिन्स्तम्भे स निनदो निनादः । शब्दो ‘‘निनाद-निनदध्वनिध्वानरवस्वना’’ इत्यमरः । अतिभीषणोऽत्यन्तं भीषयति जनानित्यतिभीषणः । अत्यन्तं भीषणं यस्मात्स इति वा । बभूवोदभूत् । येन निनदेन अण्डकटाहं ब्रह्माण्डकटाहः । यद्यपि कटाहो घृततैलादिपाकपात्रे च कूर्पर इति विश्वे कटाहशब्दः पुल्लिङ्गतया पठितस्तथापि लिङ्गमशिष्यमिति भाष्याद्युक्तेर्वा साक्षात्तत्त्वमेतस्य नास्ति किन्तु तत्त्वेनारोप इति विशेषं सूचयितुं नपुंसकतयोक्तिरिति ज्ञेयम् । अस्फुटत् स्फुटितमभूत् । तद्वदभादिति भावः । अजादयो ब्रह्माद्या यं निनदम् । स्वस्वधाम सत्यलोकादिकम् । उपगतं स्वोत्पन्नशब्दान्तरद्वारा प्राप्तं श्रुत्वा । स्वस्वधाम्नां स्वस्वागाराणाम् अप्ययं नाशं मेनिरे व्यजानन् । अङ्ग इष्टेति छान्दोग्यभाष्योक्तेः । हे धर्मेति शेषः । तदुद्भूतेनेत्थमूहितवन्त इति भावः ॥ १६ ॥
मन्दनन्दिनी
तदैव तस्मिन्नेवाविर्भावद्योतकशब्दो बभूवेत्याह ॥ तदैवेति ॥ निनदो ध्वनिर्येन ध्वनिना । अस्फुटदभिनत् । निनदशब्देन प्रकृतस्य ध्वनेर्यच्छब्देन परामर्शात्तच्छब्दाभावो न दोषः । स्वधिष्ण्योपगतं स्वस्थानम् । सत्यलोकादिस्थानमुपागतम् । स्वधामाप्ययं स्वधामनाशकालं प्रलय-कालमित्यर्थः । अजादय इत्यतद्गुणसंविज्ञानः । अजस्य भ्रांत्ययोगात् ॥ १६ ॥
अभिक्रमन् पुत्रवधेप्सुरोजसा निशम्य निर्ह्रादमपूर्वमद्भुतम् ।
अन्तः सभायां न ददर्श तत्पदं वितत्रसुर्येन सुरारियूथपाः ॥ १७ ॥
पदरत्नावली
तदा हिरण्यकशिपुः किं कृतवानिति तदवस्थामाह– अभिक्रमन्निति ॥ पुत्रमभिक्रमन् पदविक्षेपं कुर्वन् । तस्य निर्ह्रादस्य पदं विषयं कर्तृभूतं न ददर्शेत्यन्वयः । येन नादेन । अनेन हिरण्यकशिपोर्हृदयसारातिशयो दर्शित इति ज्ञायते ॥ १७ ॥
सत्यधर्मीया
ये पूर्वं न वितत्रसुर्न भीतिमापुस्तेऽपि सुरारियूथपाः । येन निनदेन वितत्रसुर्भीता इत्यप्यन्वयः । अनेन नादेन हिरण्यकशिपुराप भीतिमिति बलिष्ठतां तात्कालिकीं तस्य द्योतयति । पुत्रवधेप्सुः पुत्रवधमभीप्सुः । न लोकेति षष्ठीसमासनिषेधात् । ओजसा परिक्रमन्पादविक्षेपं कुर्वाणोऽपूर्वं कदाऽपि न श्रुतपूर्वमद्भुतम् आश्चर्यवहं निर्ह्रादं ध्वनिं निशम्य श्रुत्वा तत्पदं तदाश्रयम् अन्तः स्तम्भांतः सभायां च न ददर्श नापश्यत् । सुराश्चारयस्तदरयो दैतेयाश्च तेषां यूथपा इति वा । पूर्वश्लोकशंसित-धामाप्ययमननस्वारस्यात् ॥ १७ ॥
मन्दनन्दिनी
निर्ह्रादं ध्वनिम् । तत्पदं तस्य निर्ह्रादस्य पदं निमित्तम् । कर्तारमिति यावत् । येन निर्ह्रादेन वितत्रसुरुद्विग्नाऽभूवन् ॥ १७ ॥
सत्यं विधातुं निजभृत्यभाषितं व्याप्तिं च भूतेष्वखिलेषु चात्मनः ।
अदृश्यतात्यद्भुतरूपमुद्वहन् स्तम्भे सभायां नमृगं नमानुषम् ॥ १८ ॥
पदरत्नावली
आकाशविशेषगुणस्य शब्दस्य चेतनाश्रयत्वेन दर्शनात् किमिदमिति मीमांसमानेषु सत्सु तदाश्रयोऽप्यदर्शीत्याह– सत्यं विधातुमिति ॥ रूपं विशिनष्टि– नमृगमिति ॥ ‘नाभावान्य-विरोधेषु’ इति वचनान् नमृगं केवलं मृगस्य विद्यमानं न भवति नमानुषं मानुषस्य विद्यमानं न । किन्तु तयोस्समाहारलक्षणम् ॥ १८ ॥
सत्यधर्मीया
निनादेन हननं हिरण्यकशिपोः सुशकं कर्तुं तथाऽपि स्वभृत्यवर्गगिरमृतीकर्तुं विलक्षणलक्षणं स्वस्वरूपमाविश्चकारेत्याह ॥ सत्यमिति । निजभृत्यभाषितं निजो भृत्य एकान्तभक्तः प्रह्लादस्तेन भाषितं स सर्वत्रेत्यादिरूपम् । निजेन स्वेनैव भृत्यौ जयविजयौ प्रति भाषितं मयैव वध्यौ भवतं त्रिजन्मस्वित्यादिकमिति वा । प्रह्लादोऽप्यैहिककामुक इति किं तद्वचनेन कार्यंकार्यं कुतः सत्यं वचनमित्यतो न तथा स इत्यप्याह ॥ निजभृत्येति । निजभृत्यै स्वपोषायाभाषितं न भाषितम् । निरुपधीति यावत् । निजभृत्याः सनकादयस्तैर्भाषितं दुर्जन्मत्रिकसम्पत्त्यनन्तरं मुक्तौ भवत इति संहारं विहाय यत्सम्पत्तिर्न भवतीति तदृतं कर्तुमिति वा । निजस्य स्वकीयस्य ब्रह्मणो भृत्यो हिरण्यक-स्तद्भाषितं भूतेभ्यस्त्वद्विसृष्टेभ्यो मृत्युर्मा भून्मम प्रभो । नान्तर्बहिर्न नरैर्मृगैरित्यादिकं वा । तद्विषये च तथाऽस्त्विति निजभृत्येन ब्रह्मणा भाषितमिति वा । नूनमेतद्विरोधेन मृत्युर्मे भविता ध्रुवमिति स्वविषये तथा पुत्रविषये गोपायेतेति निजभृत्यभाषितमिति वा । भृत्यानां विषये भाषितं निजेन स्वेनैव यत्तत्तथा न मे भक्तः प्रणश्यति । प्रियो हि ज्ञानिनोऽत्यर्थम् । योगक्षेमं वहाम्यहमित्यादिकमिति वा । अयमकुत-श्चिद्भयोऽमर इति निजभृत्यप्रह्लादविषये निजभृत्येन नारदेन भाषितमिति वा । निजेन स्वेन भृत्यैर्दासैर्भाषितं च तेषामहं समुद्धर्ता मृत्युसंसारसागरात् । मां रक्षतु विभुर्नित्यमित्यादिभाषितं वा । निजे स्वविषये भृत्यैर्भाषितं न शुक्लरक्तप्रभवोऽस्य देह इत्यादिकं वा । सत्यं यथार्थं विधातुं कर्तुम् । अखिलेष्वसंकुचितेषु भूतेषु चराचरेष्वात्मन आततत्वेनात्मशब्दवाच्यस्य स्वस्य व्याप्तिं सत्यमिति विपरिणतं सदन्वेति । विधातुं चात्यद्भुतरूपं धातुर्वरऋतीकरणकारणत्वादत्याश्चर्यावहम् । उद्वहन्नित्यनेन लीलामूलतां कलेवरस्य द्योतयति । कीदृगित्यत ईदृगित्याह । नमृगं नमानुषमिति । न विद्यते मृगस्तदाकारः । सर्वं वाक्यं सावधारणमितीरणात्स एव यस्य तन्न मृगं न मानुषमिति तद्वत् । कुत्रादृश्यतेत्यत आह ॥ सभायामिति । तत्रापि स्तम्भे तत्समाहृतम् इति भावः ॥ १८ ॥
मन्दनन्दिनी
तदैव तत्रैव । प्रादुर्भावे प्रयोजनद्वयमाह ॥ सत्यमिति ॥ निजभृत्यभाषितं सत्यं विधातुं व्याप्तिं च दर्शयितुं सभायां विद्यमाने स्तम्भे । नमृगं नमानुषमिति नसमासः ॥ १८ ॥
ससत्वमेवं परितो विपश्यन् स्तम्भस्य मध्यादनु निर्जिहानम् ।
नायं मृगो नापि नरो विचित्रमहो किमेतन्नृमृगेन्द्ररूपम् ॥ १९ ॥
पदरत्नावली
एवंविधं सत्वं प्राणविशिष्टं रूपमुद्वहन् तस्याग्रतो ऽग्रे समुत्थितोऽदृश्यत इत्यन्वयः । किं विशिष्टस्य(तस्य)? स्तम्भस्य मध्यान् निर्जिहानम् उत्तिष्ठमानम् एतन् नृमृगेन्द्ररूपं किम् इति मीमांसमानस्य विचारं कुर्वतो हिरण्यकशिपोः ॥ १९ ॥
सत्यधर्मीया
स हिरण्यकशिपुः परितः सर्वत्र स्तम्भस्य मध्यात् । अनु निर्जिहानं बहिरागच्छत् । सत्त्वं जन्तुविशेषम् । विपश्यन्विलोकयन् । अयं दृश्यमानः पदार्थो मृगः स एव न नरः स एव न अपि तु नृमृगेन्द्ररूपम् । अविचित्रं चित्रा माया सा विगता यस्मात्तद्विचित्रं तन्न भवतीत्यविचित्रं मायिकम् । अहो आश्चर्यम् । चित्रा मायायां सर्पनक्षत्रनदीभेदेषु च स्त्रियामित्यमरसुधायां चित्रभानुपदार्थवर्णनकालिक-चित्रपदार्थः । चित्रं भद्रमित्यादिऋग्भाष्योक्तोऽनुसंधेयः । उभयसमाहारसहितमेतत्किमिति विचचारेति शेषः । सत्त्वं प्राणिषु जन्तुष्विति विश्वः । ससत्त्वं सबलमिति वा । सत्त्वं बले चेति तत्रैवोक्तेः । अनु प्रदर्शनानन्तरम् । निर्जिहानमागच्छन्तं पदार्थम् । अयमित्यादिकमादिवत् । ओहाङ् गतवित्यतो लटः शानचि श्लाविति द्वित्वे ह्रस्व इत्यभ्यासस्य ह्रस्वे कुहोश्चुरित्यभ्यासस्य चुत्वेन जेभृञामितीत्वे जिहान इति रूपम् ॥ १९ ॥
मन्दनन्दिनी
स हिरण्यकशिपुः । एवं भूतं सत्त्वं प्राणिनं परितो विमृशन् निर्जिहानमुद्गच्छत् । ओहाङ् गतौ । किमेतदिति मीमांसं चक्र इति शेषः ॥ १९ ॥
मीमांसमानस्य समुत्थितोऽग्रतो नृसिंहरूपस्तदलं भयानकम् ।
प्रतप्तचामीकरचण्डलोचनं१ स्फुरत्सटाकेसरजृम्भिताननम् ॥ २० ॥
पदरत्नावली
तद्रूपं विशिनष्टि– तदलमित्यादिना ॥ चामीकरं सुवर्णम् । सटाकेसरैः कर्णगतरोमविशेषलक्षणान्तर्दलैर् जृम्भितं विकसितम् आननं यस्य स तथा ॥ २० ॥
सत्यधर्मीया
एवं मीमांसमानस्य विचारयतो हिरण्यकस्याग्रतोऽग्रे नृसिंहरूपो हरिः समुत्थित उत्तस्थौ । तद् उक्तरूपविशेषणं रूपमिति तत्परामर्शः । अलमत्यन्तं भयानकं भयमानयतीति तथा भीतिप्रापकम् । प्रतप्तचामीकरं निष्टापितमष्टापदम् । चमीकरं जातरूपं महारजतकाञ्चने । रुक्मं कार्तस्वरं जाम्बूनदमष्टापदे स्त्रियामित्यमरः । कार्तस्वरेति पाठे कृतुस्वराख्या करे भवमिति कार्तस्वरम् । अणन्तः शब्दः । तद्वच्चण्डानि चाकचक्येनावलोकितुमशक्यानि लोचनानि यस्य तत् । त्र्यक्षमित्युक्तेः । हिरण्याक्षः सविता देव आगादिति श्रुतेः । स्फुरत्सटाकेसरजृम्भिताननं स्फुरन्त्यः स्फुरन्तश्च प्रकाश-मानाः सटा जटाः । सटा जटाकेसरयोरिति विश्वः । तत्रापि स्कंधगता ज्ञेयाः । केसरशब्दोऽपि सिंहसटायामिति तत्रैवोक्तेस्तद्व्यतिरिक्तकर्णादिगतरोमविशेषपरो ज्ञेयः । ते पुमांस्त्रियेत्येकशेषः । यस्य तच्च तज्जृभितं व्यात्तमाननं वक्त्रं यस्य तत् ॥ २० ॥
मन्दनन्दिनी
उद्वहन्निति शेषः । तथा च नृसिंहरूपमुद्वहन् मीमांसमानस्य हिरण्यकशिपोरग्रतः समुत्थित इति योजना । द्वितीयान्तानां नृसिंहरूपविशेषणत्वम् । प्रतप्तचामीकरे निष्टप्तसुवर्णसदृशे चण्डे क्रूरे लोचने यस्य तत् । स्फुरन्ति सटाकेसराणि ग्रीवस्थतीक्ष्णरोमविशेषा यस्य तत् । जृम्भणयुक्तमाननं यस्य तत् । स्फुरत्सटाकेसरं च तज्जृम्भिताननं चेति विशेषणद्वयस्य कर्मधारयः ॥ २० ॥
करालदंष्ट्रं करवालचञ्चलं क्षुरान्तजिह्वं भ्रुकुटीमुखोल्बणम् ।
स्तब्धोर्ध्वकर्णं गिरिकन्दराद्भुतव्यात्तास्यनासं हनुभेदभीषणम् ॥ २१ ॥
पदरत्नावली
करालाः क्रूरा दंष्ट्रा यस्य स तथा । करवालवच् चन्द्रहासवच् चञ्चलम् । क्षुरान्तः क्षुरधारा तद्वत् स्थिता जिह्वा यस्य तत् तथा तत् । हनुभेदेन विदीर्णकपोलेन भीषणं भयजनकम्
॥ २१ ॥
सत्यधर्मीया
तदेव देवदेवस्वरूपं निरूपयति कैश्चित्पद्यैः । कराले क्रूरे । करालो दन्तुरे तुङ्गे करालं तु कठोरक इति विश्वः । दंष्ट्रे यस्य तत् । करवालः खड्गः । खड्गे तु कौक्षेयको मण्डलाग्रो करवालः कृपाणवदित्यमरः । तद्वच्चञ्चला । क्षुरश् छूरिकादि छेदनद्रव्यम् । क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुर इति विश्वः । तस्य अन्तः प्रान्तभागस्तद्वद्विद्यमाना जिव्हा रसज्ञा यस्य तत् । भ्रुकुटी भ्रूग्रन्थिः । तन्मुखं तदादिभागस्तेनोल्बणं क्रूरम् । स्तब्धावप्रवणावूर्ध्वावूर्ध्वतनीकृतौ कर्णौ यस्य तत्तथा । गिरेः पर्वतस्य कन्दरवद्विवरवत् । कन्दरो विवर इति विश्वः । अद्भुते मूलानवलोकनेन व्यात्तम् आस्यं नासा नासिका चेति तद् यस्य तत्तथा । हनुः कपोलावयव इति विश्वाद्धनोः कपोलावयवस्य भेदो विदारण इति विश्वाद्विदारणं विस्तारणं तेन भीषणं भयङ्करम् ॥ २१ ॥
मन्दनन्दिनी
कराला भयङ्करा दंष्ट्रा यस्य तत् । करवालश्चन्द्रहासः । उभयतो धारोपेतः खड्गविशेषः । चञ्चलः क्षुरान्तः क्षुरधारा यस्यांश्चंचलक्षुरान्ता करवालवच्चञ्चलक्षुरान्ता तादृशी जिह्वा यस्य तत् । भ्रुकुटीयुक्तमुखं भ्रुकुटीमुखम् । तादृशमुखेनोल्बणं भयङ्करम् । स्तब्धोर्ध्वकर्णं स्तब्धाव-चञ्चलावूर्ध्वाग्रे कर्णौ यस्य तत् । गिरिकन्दरवदद्भुते व्यात्ते विवृते आस्यनासे । नासापदं नासापुटपरम् । यस्य तत् । हनुभेदेन दीर्घचुबुकविशेषेणभीषणं भयङ्करम् ॥ २१ ॥
दिवि स्पृशत्कायमदीर्घपीवरग्रीवोरुवक्षः स्थलमल्पमध्यमम् ।
चन्द्रांशुगौरैश्छुरितं तनूरुहैर्विष्वग्भुजानीकशतैर्नखायुधैः ॥ २२ ॥
पदरत्नावली
ग्रीवा चोरू च वक्षःस्थलं च तानि तथा, अदीर्घाणि पीवराणि ग्रीवोरुवक्षः-स्थलानि यस्य तत् तथा तत् । ‘चन्द्रो हेमि्न हिमांशौ वा चन्द्रकं रोचिषेऽपि च’ इत्यभिधानाच् चन्द्रांशुवर्णवद् गौरैररुणैस्तनूरुहैश्छुरितं व्याप्तम् । ‘पीतेऽरुणे सिते गौरः’ इत्यभिधानम् । विष्वग्व्याप्तैर् भुजानीकशतैर्युक्तम् । बहुत्वापेक्षया अनीक इत्युक्तम् ॥ २२ ॥
सत्यधर्मीया
दिवि स्पृशत्कायम् । दिवीति विभक्तिप्रतिरूपकमव्ययम् । दिवं स्पृशन् अम्बरचुम्बी कायः शरीरं यस्य । दिवीति सप्तम्या । हृद्युभ्यां चेति अलुगिति च केचित् । अदीर्घ-पीवरग्रीवोरुवक्षस्थलम् अदीर्घं पीवरं पुष्टं ग्रीवा च गलश्चोरू चौत्सङ्गौ च वक्षस्थलमुरस्थलं च तद्यस्येति विग्रहः । अल्पमध्यमं तनूदरम् । अनुक्तकटिं वा । छित्वरेत्यादिनिपातितः पीवरशब्दः पुष्टवाची यथाविशेष्य प्रयोज्यः । पीवरः कच्छपे स्थूल इति विश्वः । मध्यान्म इति मध्यशब्दान्मे कृते मध्यम इति ज्ञेयम् । चन्द्रांशुगौरैश्चन्द्रस्यांशवः किरणास्तद्वद्गौरैः श्वेतैः । चन्द्रस्य सुवर्णस्य । चन्द्रः सुधांशुक-र्पूरंपिल्लस्वर्णवारिष्विति विश्वः । अंशवो लेशाः सूत्ररूपास्तद्वद्गौरैः पीतैः । गौरः पीतेऽरुणे श्वेत इति विश्वः । चन्द्रश्चांशुः सूर्यश्च ताविव गौरैः श्वेतैररुणैश्चेति वा । अंशुर्लेशेरवौ रश्माविति विश्वः । आकारद्वयानुरूप्येण तनूरुहद्वैराश्यस्य युक्तता ज्ञेया । तनूरुहै रोमभिश् छुरितं व्याप्तम् । विष्वग्भुजानीक-शतैश्च्छुरितमित्यन्वयः । विष्वगिति नानार्थको निपातः । ऋत्विगादिना क्विप् । विषु अञ्चतीति विष्वञ्चः । ते च ते भुजाश्च तेषामनीकशतानि । अनेकशब्दपर्यायोऽनीकशब्दः । तेषामनेकेषां शतानि यैस्ते । द्व्याद्यनन्तातबाहुक इत्यादेः। अनीकानां रणानां शतानि यैस्ते । विशेषणस्य परनिपातः । विष्वग्भुजाश्च तेऽनीकशताश्च तै विशेषणस्य परनिपातः । विष्वग्भुजा एवानीकशतानि । बहुसैन्यानि तैः । अनीकं तु रणे सैन्ये व्यलीक इति विश्वः । भीतिहेतोर्हिरण्यक एवं व्यञ्जनादिति वा । नखायुधं नखा एवायुधानि यस्य तत् ॥ २२ ॥
मन्दनन्दिनी
दिवि स्पृशत्कायं स्वर्गपर्यन्तं व्याप्तदेहम् । दिवि स्पृशच्छब्दस्य संज्ञत्वात् हलन्तात् संज्ञायामित्यलुक् । अदीर्घा पीवरा ग्रीवा यस्य तत् । उरु विशालं वक्षस्थले यस्य तत् । अदीर्घपीवरग्रीवं च तत् । उरु वक्षस्थलं च । अल्पं मध्यमं यस्य तत् । चन्द्रांशुगौरैश्चन्द्रकलाधवलैः । तनूरुहैश्छुरितं मिश्रितं विष्वक् व्याप्तं भुजानीकं भुजलक्षणसैन्यं तद्घटकशतैर्युक्तम् । नखा एवायुधानि यस्य तत् ॥ २२ ॥
दुरासदं सर्वनिजेतरायुधप्रवेकविद्रावितदैत्यदानवम् ।
प्रायेण मेऽयं हरिणौरसारिणा वधः स्मृतोऽनेन समुद्यतस्य किम् ॥ २३ ॥
पदरत्नावली
‘निजमात्मीयनित्ययोः’ इत्यमरः । निजानि आत्मीयानि नखापेक्षयेतराणि चक्रादीनि यानि तैरायुधप्रवेकैरायुधमुख्यैर्विद्राविता दैत्यदानवा येन तत् तथोक्तं तत् । यद्वा निजं सहजं नखलक्षणमायुधम् इतराणि पृथक् स्थितानि चक्रादीनीति । मे औरसारिणा निसर्गशत्रुणा हरिणाऽनेन रूपेण प्रायेण ममायं वधः स्मृतः निरूपितः किम् ? स्मृतो वधोऽयं किमिति वा । कीदृशस्य मे ? पुत्रवधे समुद्यतस्य पुत्रहन्तुर्यो वधः शास्त्रेषु स्मृतो विहितः सोऽयमद्य प्राप्तः किं वेति ॥ २३ ॥
सत्यधर्मीया
दुरासदमशक्यप्राप्ति । सर्वाणि निजानि स्वरूपभूतानि इतराणि तद्भिन्नाश् चक्राद्या आयुधप्रवेकास्तच्छे्रष्ठास्तैर् निजाः स्वरूपभूता इतरे तद्भिन्नाश्चक्राद्यायुधप्रवेका इत्यर्थस्तु न युक्तः । भूषणायुधलिङ्गाख्या धत्त इत्येतत्तात्पर्ये भूषाहेति ध्वजेष्वज इति तदन्तस्थत्वेनैव तदाख्या-धारणोक्तेः । अन्यथा तदात्मत्वादेव तच्छब्दवाच्यत्वस्य सुवचत्वात् । ‘‘सुदर्शनाद्यायुधानि पृथ्वाद्याश्च-क्रवर्तिनः । इत्याद्या विष्णुनाविष्टा भिन्नाः संसारिणो हरेः’’ इति गीतातात्पर्ये च स्पष्टभेदस्योक्तत्वात् । तस्माच्चक्रादयो भगवता भिन्ना एव । ननु तर्हि चक्री हरिरिति कथम् । तत्संयोगवत्त्वादेवेति ब्रूमः । न च चक्रविनाशे तत्संयोगत्वमप्यसम्भावितमिति वाच्यम् । चक्रं विनाऽपि तत्संयोगस्य शक्त्यात्म-नावस्थानोररीकरणादिति सत्तत्त्वरत्नमालायामुक्तम् । अर्थादयमेवार्थो बिभ्रद्रापिं हिरण्मयमिति ऋग्भाष्य-टीकाटिप्पणीषूक्तः । विद्राविता दैत्यदानवा येन तत् । मीमांसमानस्याग्रत समुत्थित इति पूर्वेणान्वयः । भीकराकारनिरीक्षणेनेत्थमूहितवानित्याह ॥ प्रायेणेति । समुद्यतस्य युद्धसन्नद्धस्य मे यो वधः स्मृतः । जातस्य हि ध्रुवो मृत्युरिति स्मृतः । औरसारिणा सहजवैरिणा । औरसो मत्पुत्रस्तेन तन्निमित्तेनारि-र्द्वेषीति वा तेन । अनेन हरिणा प्रायेण बहुशोऽयमेव किम् ॥ २३ ॥
मन्दनन्दिनी
सर्वाणि निजानि स्वीयानि नखेभ्य इतरायुधप्रवेकाणि चक्रादीनि तैर्विद्राविता दैत्यदानवा येन तत् ॥ एतादृशं रूपं दृष्ट्वा हिरण्यकशिपोर्जातां शङ्कामाह ॥ प्रायेणेति । समुद्यतस्य पुत्रवधे उद्युक्तस्य मे औरसारिणा सहजशत्रुणा हरिणा प्रायेणायं भविष्यद्वधः स्मृतश्चिंतितः किमिति योजना ॥ २३ ॥
एवं ब्रुवंस्त्वभ्यपतद् गदायुधो नदन् नृसिंहं प्रति दैत्यकुञ्जरः ।
अलक्षितोऽग्नौ पतितः पतङ्गमो१ यथा नृसिंहौजसि सोऽसुरस्तथा ॥ २४ ॥
पदरत्नावली
एवं विमृश्य वधान्निवृत्तः किम् ? नेत्याह– एवमिति ॥ कमभ्यपतदित्यत उक्तं नृसिंहं प्रतीति । दैत्यकुञ्जरः दैत्येन्द्रः । निदर्शनमाह– अलक्षित इति ॥ अलक्षितः साहसिकः । पतङ्गमः शलभः ॥ २४ ॥
सत्यधर्मीया
एवमिति विमृश्य विचार्य गदायुधो नदन् दैत्यकुञ्जरो नृसिंहं प्रत्यभ्यपतत् । सिंहो यद्यपि करिमारक इति निरूपितमिदं निदर्शनमनुरूपं तथाऽपि गजभञ्जने तनीयान्वायासः सम्भावितः सोऽप्यत्रासम्भावित इत्यस्वारस्याद्वा समृगेन्द्रोऽयं गजेन्द्रश्चेदसामानाधिकरण्येऽपि स्वापि्नकतद्दर्शनमृतिव-न्मृतिरस्य स्यादिति अस्वारस्यान्निदर्शनान्तरमीरयति ॥ यथेति । अलक्षितो न विद्यते लक्षितं दीर्घदर्शनं यस्य स तथा । लक्षदर्शनाङ्कनयोरिति स्मरणात् । भावे क्तः । अग्नौ पतितः शब्दोऽपि निपातितः । अर्थश्च निपतित इति । पतङ्गमः शलभः । पतङ्ग इत्यपि क्वचित्पाठः सरलश्च । एकाक्षरन्यूनता-दोषापेक्षया पतङ्गमपाठे पतङ्गः शलभे शालिप्रभेदे विहगे रवाविति विश्वोक्तेर्विहङ्गमशब्दवदनुशासना-दर्शनादेतत्पर्यायताकल्पनदोषस्य ज्यायस्त्वादिति केचित् । तथा नृसिंहोजसि सोऽसुरोऽलक्षितोऽभ्य-पतदित्यन्वयः ॥ २४ ॥
मन्दनन्दिनी
एवमाशङ्क्य पलायितः किं नेत्याह । एवमिति ॥ मनसि विद्यमानमेव ब्रुवन् गदायुधो दैत्यकुञ्जरो दैत्यश्रेष्ठो नदन् सोऽसुरः । अलक्षितः साहसिकः । पतङ्गमः शलभोऽग्नौ यथा पतितो भवति तथा नृसिंहोजसि अभ्यपतदिति योजना । अथवा । पतनानन्तरं पतङ्गमोऽग्नौ पतितोऽ-लक्षितो दृश्यमानो न भवति । तथा सोऽसुरो नृसिंहोजसि पतितोऽलक्षितो दृश्यमानो नाभूदिति योजना
॥ २४ ॥
न तद् विचित्रं खलु सत्वधामनि स्वतेजसांऽशेन पुराऽपिबत् तमः ।
ततोऽभिपद्याभ्यहनन्महासुरो रुषा नृसिंहं गदयोरुवेगया ॥ २५ ॥
पदरत्नावली
द्विसप्तलोकैकारेः केवलं तुच्छीकरणं भगवद्भक्तिवैशिद्यान्न नत्वत इति नुेत्याह– न तदिति । सत्वधामनि बलज्ञानसमाहारमूर्तौ पराक्रममूर्तौ वा जगदादौ तमः पानं पुरुषरूपण अनेन जगदावरकं तमः पिबतो हरेरसुरभस्मीकरणं किमिति दर्शितम् । अथो लोकं विडम्बयतो हरेरसुरेण सह समरप्रकारं वर्णयति– तत इति ॥ २५ ॥
सत्यधर्मीया
जगज्जयिनो हिरण्यकशिपोर्नृसिंहौजसि कलभशलभनिभतावर्णनमाकर्णन-विश्वसनीयं न किन्तु समसमरे किञ्चिच्छंकितातंकं तनुयाद्दनुज इत्यत इयदनयवृत्तिर्यत्तमोमूलिका तद्दुरवस्थैतादृशी कथा का तत्स्वभावानामेतदादीनामित्याह । न तद्विचित्रमिति । तस्मिन्सत्त्वधामनि बलज्ञानसमाहृततनौ । बलमूर्तौ बलाद्याश्रये वा । तद् दितिजशलभीभवनादि न विचित्रमद्भुतं न भवति । योंऽशेन पुरुषरूपेण स्वतेजसा स्वसामर्थ्येन स्वप्रकाशेन वा करणेन । पुरा जगदुदयात्पूर्वं तमो दुर्गाभिमन्यमानं प्रलयकालीनं खलु निषिध्य तुच्छीकृत्येति यावत् । खलु निषेधने चेति विश्वः । अपिबत् । योऽन्विति क्वचित् पाठः । न यच्छब्दाध्याहारस्तत्रौजस एव भगवदात्मकस्य साक्षात्तत्क्षय-हेतुतालाभलाभश्चेति सुन्दरः । तदसुरसमसमरकरणेन तं लोके लोकेश्वरः शाश्वतिकं यश आसादयितुं लीलां काञ्चन लालयामासेत्यभिधत्ते कैश्चित्पद्यैः ॥ तत इति । अभिपद्य समासाद्य । ततः सार्व-विभक्तिकस्तसिः । तमभिपद्येति । तेन ल्यपैव हननस्यानन्तर्यलाभे तत इति व्यर्थमिति शङ्कानिरासः । पक्षान्तरेतु तत इति सुलग्नम् । अहनद् अभ्यहन् । उरुर्वेगः स्वकीयो यस्यां सा तया ॥ २५ ॥
मन्दनन्दिनी
निनदेन ब्रह्माण्डकटाहभेदनमारभ्यैतत्पर्यन्तं वर्णितं माहात्म्यमसम्भावितमित्यतो नेत्याह । न तदिति ॥ यो भगवान्प्रलयकाले व्याप्तं तमः सृष्टिकाले स्वतेजसा पुराऽपिबत् । तस्मिन्सत्त्वधामन्यपरिमेयपराक्रमशालिनि तद्वर्णितं माहात्म्यं न विचित्रमिति योजना । तर्हि सद्यो नाशितः किमित्यतो भगवाननेन चिक्रीड इत्याशयेनाह । तत इति ॥ अभ्यहनत् । विकरणव्यत्ययः
॥ २५ ॥
तं विक्रमन्तं सगदं गदाधरो महोरगं तार्क्ष्यसुतो यथाऽग्रहीत् ।
स तस्य हस्तोत्कलितस्तदाऽसुरो विक्रीडतो यद्वदहिर्गरुत्मतः ॥ २६ ॥
पदरत्नावली
तस्य गदाशिक्षालाघवं वक्ति– स तस्येति ॥ हस्तोत्कलितः हस्ताद् गलितः, उत्प्लुतो वा ॥ २६ ॥
सत्यधर्मीया
गदाधरः कौमोदकीधरो विक्रमन्तं विक्रामन्तम् । विविधक्रमवदाचरन्तमिति वा पादविक्षेपं कुर्वंतम् । सगदं गदाधरं तार्क्ष्यसुतः कश्यपतनुजो गरुडो यथा महोरगं महाहिं गृह्णाति तथाऽग्रहीत् । तदा विक्रीडत इति हस्तादिति चोत्कलित इति च दृष्टान्तदार्ष्टांतिकोभयान्वयि । विक्रीडतो गरुत्मतो गरुतः पक्षाः सन्त्यस्य । मतुप् । यवादित्वात् खय इति न वत्वम् । तसौ मत्वर्थ इति भत्वाज्जस्त्वाभावः । गरुडस्य हस्तादहिर्यद्वदुत्कलितो भवति तद्वत्तस्य विक्रीडतो नृसिंहस्य हस्तात्सोऽसुर उत्कलितो गलितो बभूव ॥ २६ ॥
मन्दनन्दिनी
तार्क्ष्यसुतो महोरगं यथा गृह्णाति तथा गदाधरो नृसिंहस्तं विक्रमन्तमग्रहीदिति योजना । चिक्रीडतो गरुत्मतोऽहिर्यद्वद्विक्रीडतस्तस्य नृसिंहस्य सोऽसुरो हस्तोत्कलितो हस्तादुच्चलित इति योजना । विक्रीडत इत्यनेनोच्चलने क्रीडेव निमित्तं न त्वसामर्थ्यमित्युक्तं भवति ॥ २६ ॥
असाध्वमन्यन्त हतौजसोऽ१मरा घनच्छदा भारत सर्वधिष्ण्यपाः ।
तं मन्यमानो निजवीर्यशङ्कितं यद्धस्तमुक्तो नृहरिं महासुरः ॥ २७ ॥
पदरत्नावली
तस्य हरेर्विडम्बनमजानताममराणां निरूपणप्रकारं वक्ति– असाध्विति ॥ हृतौजसः भ्रष्टावष्टम्भा इव । घनेन छदा छादनं येषां ते तथा । मेघच्छायायां विलीना इव । लुप्तोपमेयम् । सर्वधिष्ण्यपाः सर्वनक्षत्रपतयश् चन्द्रादयोऽमरास् तदसाध्वमन्यन्तेत्यन्वयः । तत्र हेतुः– तं मन्यमान इति ॥ नृहरेर्हस्तमुक्तोऽसुरस् तं नृहरिं निजवीर्ये आत्मपराक्रमे शङ्कितं मन्यमानोऽभूदिति यत् तदिति ॥ २७ ॥
सत्यधर्मीया
हस्तमुक्तो यस्य हस्तान्मुक्तो गलितो तं नृहरिं महासुरो यद्यतो निजवीर्यशङ्कितं निजपराक्रमसंशयग्रस्तं मन्यमानोऽभूत्तस्माद्धनच्छदा घनाश् छदा अपवारका येषां ते तथा । सर्वधिष्ण्य-पाश्चन्द्रादयो यथा तथाऽमरा इतरे । हतौजस इत्यसाधु अमन्यन्त व्यजानन् । यद्वा घनच्छदा घनेन छदाश् छादनं येषां ते । येन स्वेन घनच्छदा इव । सर्वघिष्ण्यपा अमरा हतौजसः सन्तः स्वजीवनमसाधु नास्मन्मङ्गलमिति प्रागमन्यन्त । सोऽसुरो यद्धस्तान्मुक्तस्तं नृहरिं निजवीर्यशङ्कितं मन्यमानोऽभूदित्य-न्वयो वा । अनेन वरवितरणेन साम्प्रतं विश्वेश्वराश्वासितानां पामराणामिवामराणां मननमेवं न सुघटमिति मन्दा शङ्का विधुतेति ज्ञेयम् । हृतौकस इत्यपि पठन्ति । हृतान्योकांसि येषां ते तथेति तत्रार्थः ॥ २७ ॥
मन्दनन्दिनी
भगवत्क्रीडायाश्छिन्नभक्तसंशयजननमसुराणां मोहजननं च प्रयोजनमित्याशये-नाह । असाध्विति ॥ सर्वधिष्ण्यपाः । धिष्ण्यं स्थानम् । घनच्छदा मेघावृता हतौजसो हतमुख-कान्तयोऽमरा हस्तोच्चलनमसाध्वमन्यन्त । पुनः कथं हस्तगृहीतो भवेदिति चिन्तयेति भावः । यद्यस्मा-द्धस्तमुक्तो महासुरोऽतस्तं नृहरिं निजवीर्यशङ्कितं स्वसामर्थ्येन भीतं मन्यमानोऽभूत् । असुरस्य नृसिंहे स्वनिग्रहासामर्थ्यभ्रान्तिरभूदिति भावः ॥ २७ ॥
पुनस्तमासज्जत खड्गचर्मणी प्रगृह्य वेगेन गतश्रमो मृधे ।
तं श्येनवेगं शतचन्द्रवर्मभिश्चरन्तमच्छिद्रमुपर्यधो हरिः ॥ २८ ॥
पदरत्नावली
हरेर्हस्तमुक्तोऽसुरः पराद्रवदुताभ्यपतदिति संशयो मा भूदित्याह– पुनस्तमिति ॥ आसज्जत सक्तोऽभूत् । युद्धाय सन्नद्धोऽभूदित्यर्थः । शतचन्द्रवर्मभिः शतजन्द्रवर्मभ्याम् । खड्गचर्मणी इति प्रकृतत्वात् । ‘भद्रं कर्णेभिः श्रृणुयाम देवाः’ इत्यादि श्रुतेश् छान्दसाभिप्रायेणायं प्रयोगः सम्भाव्यते च । परिभ्रमणे शिक्षाप्रकर्षद्रष्टृणां द्वे एव बहूनीव दृश्यन्ते इत्यतो वा बहुवचनं युज्यते । अच्छिद्रं निरवकाशमिति क्रियाविशेषणेनैतदेव सूचयति । असुरवीर्यमाशङ्कमानो हरिः किमकरोदिति तत्राह– हरिरिति ॥ २८ ॥
सत्यधर्मीया
गतश्रमो मृधे युद्धे खड्गचर्मणी प्रगृह्य यद्धस्ताद्विस्रस्तस्तं पुनरसज्जत सङ्गतोऽ-भूत् । तत्रापि नमान्थर्यमित्याह । वेगेनेति ॥ तं श्येनवेगं श्येनस्य श्येनपक्षिण इव वेगो यस्य स तम् । शतचन्द्रचर्मभिः । शतचन्द्रशब्दः खड्गचर्मणीति पूर्वमुक्तेः खड्गपरः । चर्मण एकत्वेन तद्भ्रमणचातु-रीतोऽनेकीभूय भानेन वा दितिः पाशानितिवदवयवबाहुविध्येन वा बहुवचनोपपत्तिर्ज्ञेया । शतं च ते चन्द्राश्च चर्मोपरि निविष्टाश्च चर्म च तैरिति । शतचन्द्राश्चर्म च चरतानेन सह चरन्तीवेत्येवमुक्तिरिति । शतचन्द्रः खड्गः । चर्मणी पार्श्वद्वंद्वधृते द्वे च शतचन्द्रचर्मणीति वा । न च खड्गचर्मणीति बाधेतेति वाच्यम् । खड्गेन सहिते च ते चर्मणी चेत्युत्तरपदलोपसमासेनाबाधोपपत्तेः । तैः सह उपर्यधश्च निच्छिद्रं यथा तथा चरन्तम् । अथवा शतचन्द्रचर्मभिर्बहुबाहुगतैः सहितो हरिर्जगृह इत्यन्वयः । न च तत्कृत्यं न दृश्यत इत्यनावश्यकतयाऽवचनीयता तस्येति वाच्यम् । इयं शङ्का बाहुबाहुविध्यविषयेऽपि बहुश्लिष्टेति तत्रैव किं नाप्राक्षीः । विचारयतो मम स्वभाविकीयमुक्तिरिति मयैव समाधिरभूदित्यप्रश्न इति तु तुल्यम्
॥ २८ ॥
मन्दनन्दिनी
स्ववीर्यभ्रान्त्यैव पुनरापदसुर इत्याह । पुनरिति ॥ शतचन्द्रवर्त्मभिश्चर्मगृहीतवतः परत्वं च न मार्गा यैस्तैः । अच्छिद्रं परप्रवेशो यथा न भवति तथा । उपर्यधः सञ्चरन्तं श्येनवेगं हरिर्जगृह इति वक्ष्यमाणेनान्वयः ॥ २८ ॥
कृत्वाऽट्टहासं खरकेसरोल्बणो निमीलिताक्षं जगृहे महाजवः ।
विष्वक् स्फुरन्तं ग्रहणातुरं हरिर्व्यालो यथाऽऽखुं कुलिशाक्षतत्वचम् ॥ २९ ॥
पदरत्नावली
विश्वक् परितः स्फुरन्तं भ्रमन्तमित्यनेनापि शिक्षोत्कर्षं ध्वनयति । हरिः पुनर्ग्रहणेनातुरमकरोदिति शेषः । अनेनातुरस्वरं लक्षयति । तत्र दृष्टान्तमाह– व्याल इति ॥ व्यालः सर्पः । खननशीलत्वादाखुः ॥ २९ ॥
सत्यधर्मीया
अट्टहासमारभटीं कृत्वा खरकेसरोल्बणो महाजवो विष्वक् सर्वत्राञ्चतीति तथा स चासौ स्फुरंश्च तं प्रकाशमानम् । ग्रहणातुरं ग्रहणेन भविष्यताऽऽतुरं व्यथायुक्तं कुलिशाक्षतत्वचं कुलिशेन प्रागिन्द्रसमरे वज्रेणाप्यक्षता त्वक् चर्म यस्य तम् । निमीलिताक्षम् । हिरण्याक्षस्य मम भ्रातुर्हननं जातमतो हिरण्याक्षश्रीनृसिंहविषये किं नेत्रोन्मीलनेनेति वा श्रमेणेति वा निमीलिताक्षत्वं ज्ञेयम् । यथा व्यालः सर्प आखुं मूषकं गृह्णाति तथा । अहरिर् न केवलं हरिः, सिंह हरिः सिंह इत्यहरिः१ । हरिर्जगृह इत्यखण्डान्वयः । व्यालो भुजङ्गमे क्रूरे । कुलिशो मत्स्यभेदे स्याद्दम्भोलौ । उंदरुर्मूषकोऽप्याखुरिति विश्वामरौ ॥ २९ ॥
मन्दनन्दिनी
उत्स्वनोल्बणं पुनः पुनरुद्गतस्वनेनोल्बणं भयङ्करमट्टहासं स्वरं कृत्वा तद्भयेन निमीलिताक्षं विष्वक् स्फुरन्तं परितश्चलन्तं ग्रहणातुरं कुलिशेन वज्रेणाक्षतत्वचं महाजवः सन्हरिः । आखुं मूषकं हरिर्यथा तद्वज्जगृह इति योजना ॥ २९ ॥
द्वार्यूरवापात्य ददार लीलया नखैर्यथाऽहिं गरुडो महाविषम् ।
संरम्भदुष्प्रेक्ष्यकराललोचनो व्यात्ताननान्तं विलिहन् स्वजिह्वया ॥ ३० ॥
पदरत्नावली
ब्रह्मवररक्षणार्थमाह– द्वारीति ॥ द्वारी अधस्तिरश्चीनदारुणि स्थित्वा ऊरौ ओ उत्तानतयाऽऽपात्य । अत्रापि ह्रस्वत्वं छान्दसम् । संरम्भेण द्वेषादात्यन्तिककोपेन दुष्प्रेक्ष्ये कराले लोचने यस्य । व्यात्ताननान्तं विवृतवदनस्याधरोष्ठम् ॥ ३० ॥
सत्यधर्मीया
विरिञ्चवरं च मानयितुमाननादिग्रहणमिव कालस्थलाद्यानुकूल्यविलोकनेनापि तमानयदित्याह । द्वारीति ॥ नांतर्न बहिरित्युक्तत्वात्तथाविधे द्वारि वास्तुकाष्टे । भ्वादिनिषेधात्तद्भिन्ने उरावित्युदीरणम् । उत्सङ्ग आपात्य पातयित्वा । ऊरावापात्येति भाव्ये तस्यैव नास्ति वृद्धिरिति ज्ञापयितुमवृद्धिमन्निर्देशः । सुनायासेन विदारणमित्युदीरयति । लीलयेति ॥ यथा गरुडो महाविषमहिं दारयति तथा नखैर्ददार । सिंहस्येव तत्कालप्रदर्शितकोपस्वभावमप्यावेदयति ॥ संरम्भेति । संरम्भेण कोपेन दुःप्रेक्ष्ये कराले लोचने यस्य सः । करालानि लोचनानि यस्य स इति वा । व्यात्ताननान्तम् । व्यात्तं व्यादितमाननं तस्यान्तोऽधरोष्ठस्तं जिव्हया विलिहन् । अहन्नित्युत्तरेणान्वयः ॥ ३० ॥
मन्दनन्दिनी
ब्रह्मवररक्षणासुरवरशिक्षणचातुर्यमाह ॥ द्वारीति ॥ द्वारीति रेफान्तम् । अनेन नान्तर्बहिरिति । ऊरावित्यनेन न भूमौ नाम्बर इति । नखैरित्यनेन नायुधैरिति । वरो रक्षितः । सन्ध्यायामिति च वक्तव्यम् । तेन न दिवा न नक्तमिति वरः । नृसिंहो हरिरित्यनुवृत्त्य न नरैर्न मृगैरपीति । न त्वद्विसृष्टेभ्य इति । न व्यसुभिरसुमद्भिर्वेति वराः संरक्षिता इति ज्ञेयम् । नृसिंहस्य केवलं नरत्वाद्यभावात् । ब्रह्मसृष्टृत्वाभावाच्च । शिलावद्व्यसुत्वाभावात् । प्राणिवद्वायुविकारासुमत्वाभावाच्च । विवृताननान्तं कपोलद्वयं जिह्वया विलिहन् आस्वादयन् हिरण्यकशिपुं ददारेति योजना ॥ ३० ॥
असृग्वलाक्तारुणकेसराननो यथाऽऽन्त्रमाली द्विपहत्यया हरिः ।
नखाङ्कुरोत्पाटितहृत्सरोरुहं विसृज्य तस्यानुचरानुदायुधान् ॥ ३१ ॥
पदरत्नावली
असृग्वसया रुधिरबिन्दुना आक्ते रूषिते अत एवारुणकेसरानने यस्य स तथोक्तः । स हरिः सिंहः न केवलमेनमेव हतवान् । किन्तु तदनुचरानसुरानित्याह– नखाङ्कुरेति ॥ ३१ ॥
सत्यधर्मीया
असृग्वलै रक्तबिंदुभिराक्तानि रूषितान्यत एवारुणानि केसराश्चाननं च तानि यस्य सः । द्विपहत्यया करिमारणेन । वदः सुपि क्विप् चेति अनुवृत्तेः क्विपि हनस्तचेति तोंऽतादेशः । हरिः सिंहो यथांऽत्रमाली अन्त्राणां पुरीतताम् । अमिचिमीति क्त्रः । अन्त्रं पुरीतदित्यमरः । माला साऽस्तीति तथाऽन्त्रमाली । शिखादिः । नय्वाङ्कुरोत्पाटितहृत्सरोरुहं नखा एवाङ्कुरा नवोद्भिद-स्तैरुत्पाटितं हृत्सरोरुहं यस्य सस् तम् । मृतमारणेन रणे किमिति मतिमान्विसृज्य तस्यानुचरान्भृत्यान् अहन् हतवान् । तांश्चैकान्ते निलीलान् लक्ष्मीकान्तः कथं धर्ममर्मज्ञो जघानेत्यत आह । उदायुधान् ॥ उद्धतान्यायुधानि येषां ते तथा तानिति । वसाक्तानितिपाठे वसा वपा । ह्रन्मेदस्तु वपा वसेत्यमरः
॥ ३१ ॥
मन्दनन्दिनी
हिरण्यकशिपुविदारणानन्तरं स्थितिकृतिप्रकारमाह । असृगिति ॥ रक्तबिन्दु-सम्बद्धताम्रे सटामुखे यस्य स इति असृगित्यादेरर्थः । हरिर्द्विपहत्यया यथा तथेत्यसृगित्यादिनाऽन्वयः । आन्त्रमाली च । अयं च स्थितिप्रकारः । कृतिप्रकारमाह । नखाङ्कुरेति ॥ द्वितीयान्तानामह-न्नित्यनेनान्वयः । हतवानित्यर्थः ॥ ३१ ॥
अहन् समन्तान्नखशस्त्रपाणिभिर्दोर्दण्डयूथानुपथान् सहस्रशः ।
सटावधूता जलदाः परापतन् ग्रहाश्च तद्दृष्टिविनष्टरोचिषः ॥ ३२ ॥
पदरत्नावली
अहन् हतवान् । नखशस्त्रपाणिभिर् नखैः शस्त्रैः पाणिभिश्च । हरेर्दोर्दण्डानां यूथानुपथान् निकराकृष्टान् । तदवसरविक्रमं वक्ति– सटावधूता इति ॥ ३२ ॥
सत्यधर्मीया
नखशस्त्रपाणिभिर्नखा एव शस्त्राणि येषां ते च ते पाणयो हस्तास्तैः । नखाश्च शस्त्राणि तेषामपहृतानि निजेतरेत्युक्तत्वाद्गदादीनि वा तानि च पाणयश्च तैरिति वा । दोर्दंडयूथानुपथान् दोष एव दण्डा दण्डाकारास्तेषां यूथानि । तान्यनु अनुसृत्य पन्था येषां ते तथा । भुजबाहुप्रवेष्टो दोः । यूथं तिर्यक्समूहे स्याद्वन्द्वमात्रेऽपि भाषितमिति चामरविश्वौ । ऋक्पूरब्धूः पथामानक्ष इत्यप्रत्ययः । यत्र भुजाकर्षस्तत्र गच्छत इति यावत् । सहस्रशः । स्वार्थे शः । प्रातिस्विकतया सहस्रसहस्रम् । इयतायासेन किं क्लेश ईशस्यापि न भवितेत्यत आह । सहस्रश इति ॥ सहस्रमनन्तं शं सुखं यस्य स इति वा । हस्रेण स्वदूषकेन पित्रपदेशेन मूर्खेण वा सहितः प्रल्हादस्तस्य शं येनेति वा । समन्तात्सर्वत्राह-न्नित्यन्वयः । हस हसन इत्यतः स्फायितंचीत्यादिना रक्प्रत्ययः । हस्रो मूर्खे विदूषक इति संसारावर्तः । तदानीं नारसिंहाकारकृतकार्यं निरुपममिति निरूपयति । सटेति ॥ जलदा नीरदाः सटाभिरवधूता विधुताः परापतन् । तावदभिव्याप्ता जटा इति भावः । तद्दृष्टिभिर्विनष्टानि रोचींषि शोचींषि येषां ते तथा ग्रहाश्चन्द्राद्याः । रोचिः शोचिरुभेक्लीब इत्यमरः । अभवन्निति शेषः ॥ ३२ ॥
मन्दनन्दिनी
नखैः शस्त्रैः पाणिभिश्चेति द्वन्द्वः । भुजदण्डसमूहमार्गं गतानिति दोर्दण्डादेरर्थः । भगवत्कृतमुक्त्वा तदीयावयवादिकृतकार्यमाह ॥ सटेत्यादिना ॥ विधूताः कम्पिताः । विनष्टरोचिष-स्तिरस्कृततेजसः । अभूवन्निति शेषः ॥ ३२ ॥
अम्भोधयः श्वासहता विचुक्षुभुर्निर्ह्रादभीता दिगिभा जहुर्दिशः ।
द्यौस्तत्सटाक्षिप्तविमानसंकुला प्रोत्सर्पत क्ष्मा च पदाऽतिपीडिता ॥ ३३ ॥
पदरत्नावली
दिगिभा दिग्गजा मदं जहुस् त्यक्तवन्तः । प्रोत्सर्पत प्रोदसर्पत, उद्गतेत्यर्थः
॥ ३३ ॥
सत्यधर्मीया
अम्भोधयोंऽभांसि धीयन्तेऽस्मिन्नित्यम्भोधिः समुद्रस्ते च चत्वारो वा सप्त वेत्यम्भोधयः । स्वरूपभूतः श्वास ईश्वरस्य वर्तत इति वर्तन्या श्वासेन श्रीनृसिंहस्वरूपभूतेन । हताः सन्तश्चुक्षुभुश्चेलुरित्यर्थः । मूलान्यत्र तु व्यासतीर्थीये । अवाय्वनाकाशमतेजस्कमिति ॥ तदारब्धदेह-रहितमिति वचनम् । तत्त्वप्रकाशिकाताम्रपर्णीययोर्वाक्यार्थमुक्तावलीप्रमेयमुक्तावल्योः । वाय्वादयः शरीरोपादानतया प्रसक्ता लोके तथा प्रसिद्धानां विषयावरणशून्येऽप्राकृतविग्रहे सर्वात्मना निरास इति भाव इत्यारभ्य विस्तरस्त्वित्यन्तवचनम् । तमोवाय्वादीनामिति । यद्यपीत्यादिकृत्येश्वरात्मक-वाय्वाकाशयोरुक्तावप्यविरोध इति गर्भीकृत्यान्यवस्तुस्वभावस्थौल्याद्यभाव इत्यन्तं च । भावरत्नकोशे च तमोवाय्वादीनां सर्वात्मनेति । अदुःखमसुखमित्यादौ यथा सुखमित्यनेन बाह्यसुखनिषेधेऽप्यदुःख-मित्यनेन दुःखमात्रस्य प्रतिषेधस्तथाऽप्यत्राप्यस्थूलमित्यादौ प्राकृतस्थौल्यादिनिषेधेऽप्यतमोवाय्वादौ सर्वात्मना तमआदेर्निषेध इति चन्द्रिका । ‘‘प्रसिद्धस्थूलसूक्ष्मादिवैलक्षण्याज्जनार्दनः । अस्थूलादिरिति प्रोक्तो नैव स्थौल्याद्यभावतः । अनावृत्तेस्तमो नास्य स्वातन्त्र्यान्नाद्यते क्वचित्’’ ॥ इत्यक्षरब्राह्मणम् । तथा च सुधा । इहाच्छायमतम इत्यादेरसङ्कुचितवृत्तित्वमेव विज्ञेयमित्याद्युदाहृत्य षोडशकलान्तर्भूतानां भावानां निवृत्तिर्ज्ञातव्येति स्वयं व्याख्याय तथा चाथर्वणभाष्यं षोडशकलाशरीरो न भवतीति निष्कल इति सम्मतित्वेनोदाहृत्य वाय्वादीनामेवंविधवैलक्षण्यं द्योतयितुमेव सुधायामच्छयमतम इत्यादेरसङ्कुचित-वृत्तित्वमेवेति छायातमसोः स्वशब्देन वाय्वाकाशादेरादिशब्देन ग्रहणं कृतमिति वदन्तः समस्तानां छायातमोवाय्वाकाशानां प्रस्थानभेदेन तमोवाय्वादीनामच्छायमतम इत्यादेरित्यादेः स्वशब्देनेत्यादिना गतिश्चिन्तितेति तयैव चन्द्रिकास्वार्थसाधनविद्रावितनिद्रेति तुतुषुः । परं तु साहसमात्रम् । मुख्यतो नैर्भर्यं तु स्वरूपश्वसनसत्तायां चेति तत् । किञ्चाक्षरब्राह्मणमप्यविवादस्थल एव मानं न मानं च श्वसना-स्तित्वाश्वासन इत्युपर्येव ज्ञायत इति न तत्र पराक्रान्तमस्माभिः । तत्त्वोद्योतटीकायाम् अवातं वातप्रेरणया शून्यमिति व्याख्यानात् ।
न चैवं तमोवाय्वादीनां सर्वात्मना निवृत्तिरिति तत्त्वप्रकाशिकाविरोध इति वाच्यम् । तत्रापि वायुपदस्य वायुप्रेरणार्थकत्वात् । अत एव श्वसितं मातरिश्वेत्यादौ तत्र विष्णोरपि श्वासवायुरुक्तः । स च चिदानन्दाद्यात्मक एव तादृशमूर्धांगसहपाठादितीति प्रह्लादकृष्णाचार्यवचनमाथर्वणविवरणगतं चैवमेव परिमलबिदरहल्लीयाचार्यादिवचनं चेति । वस्तुतस्तु नास्तीति निष्कण्टको वाटः ॥ तथाहि ॥ अपीडितातमोवाय्वादीनां सर्वात्मना निवृत्तिरिति तत्त्वप्रकाशिकोक्तिः । न च वातप्रेरणाशून्यमिति वा षोडशकलागतशरीरांरभकवातराहित्यमेव निवृत्तिपदार्थ इत्यङ्गीकृत्य स्वपथमानेतुं सा सर्वात्मना सर्वात्मनेति वर्त्मना नावकाशं दास्यति । तत्त्वोद्योतटीका तु आनीदिति प्राप्ताननस्य प्रायशो वायुप्रेरणया सर्वत्र दर्शनादत्रापि तथेति शङ्कापराकृतिमात्रपरैवेति न निबन्धसाधिका किं तूदास्ते । भागवतगतिश्चानुपदमेव विविच्यते । चन्द्रिका तु न निद्रिता । इहाच्छायमतममित्यादेरसङ्कुचितवृत्तित्वमेव ज्ञेयमिति सुधा सावधारणेति नैतदादिविचिकित्सा चिकित्सा । व्याख्याता चेयं वाक्यार्थचन्द्रिकायाम् । ननु यद्यस्थूलादिपदानां लौकिकस्थौल्यादिराहित्यार्थकत्वेनालौकिकतमोवाय्वादिसिद्धिस् तर्हि अच्छायम-तमोवाय्वनाकाशपदानामपि लौकिकछायातमोवाय्वादि राहित्यार्थत्वापत्त्याऽलौकिकतमोवाय्वादिसिद्धिः स्यादित्यत आह ॥ इहेति ॥ अस्थूलमनण्वित्यादिवाक्येऽस्थूलादिपदानां प्राकृतस्थौल्यादिमात्र-निषेधकतया सङ्कुचितार्थत्वेऽपि अच्छायमतमोवाय्वनाकाश इत्यादीनां सर्वात्मना तमआदिनिषेधक-तयाऽसङ्कुचितार्थत्वमेव विज्ञेयम् । अदुःखमसुखमित्येकस्मिन्नपि वाक्येऽसुखमित्यनेन बाह्यसुखनिषधेऽपि अदुःखमित्यनेन दुःखमात्रनिषेधदर्शनेन योग्यत्वायोग्यत्वयोरेव सङ्कोचासङ्कोचनियामकतयैकवाक्यस्थ-त्वादेरप्रयोजकत्वादिति भाव इति । अभिनवचन्द्रिकायां च नन्वस्थूलमनण्वित्यादिश्रौतपदानां लौकिक-स्थौल्याद्यभावपरतया व्याख्यानमयुक्तम् । अतमोवाय्वित्यनयोरपि लौकिकतमोवायुनिवर्तकत्वप्राप्त्या परमेश्वरस्यालौकिकतमोवायुछायाकाशप्रसङ्गादित्यत आह । तमोवाय्वादीनामिति ॥ आदिशब्देन छायाकाशयोर्ग्रहणम् । अस्थूलमित्यादिप्रायपाठेऽप्यच्छायमित्यादेः सर्वात्मना छायादिनिषेध एवार्थो ग्राह्यः । अलौकिकछायादेरप्रामाणिकत्वेन प्रायपाठस्य त्याज्यत्वात् । अन्यथाऽदुःखमसुखमित्यादौ प्रायपाठानुसरणायादुःखमित्यस्य प्राकृतदुःखराहित्यमर्थः स्यादिति भाव इति । भावबोधे च तमोवाय्वादीनां सर्वात्मनेति । यथाऽदुःखमसुखमित्यादावसुखमित्यनेन बाह्यसुखनिषेधेऽप्यदुःखमित्यनेन दुःखमात्रनिषेधस्तथाऽत्राप्यस्थूलमित्यादौ प्राकृतस्थौल्यादिनिषेधेऽप्यतमोवाय्वित्यादौ सर्वात्मना तमआदेर्निषेध इत्यर्थ इति । गुर्वर्थदीपिकायां च लौकिकस्थौल्यादिराहित्यमित्यत्र लोकपदेन परतन्त्र-मुच्यते । अस्थूलमित्यादौ परतन्त्रजडस्थौल्यादिराहित्यं स्वतन्त्राजडस्थौल्यादिसाहित्यं चाभिप्रेतम् । अन्यथाऽणोरणीयान्महतो महीयानित्यादिश्रुतेर्नैरर्थक्यप्रसङ्गात् । एवं च तत्प्रायपठितानां छायातमो-वाय्वाकाशादीनामपि द्वैविध्यं स्यादित्यत आह । तमोवाय्वादीनामिति ॥ छायाया आदित्वेऽपि तमोरूपत्वान्न पृथग्रहणम् । यथैकवाक्यपठितत्वेऽप्यदुःखमसुखमिति श्रुतौ दुःखस्य सर्वथाऽभावः सुखस्य द्वैविध्यं तद्वदिहपीति भाव इति ।
श्वासाश्वासाविश्वपतेः श्वसतो स्यादिवाग्बलाः ।
केचिद् द्वावप्रतिद्वन्द्वौ पक्षौ ङीप्सांवलित्यतः ।
केचिद्व्यवस्थयेत्याहुर्वयं च श्रमशामकाः ।
श्वासाः स्वरूपभूता नेत्यत्र निर्भृतनिर्भराः ।
टीकैतरेयऋग्भाष्यादिदिशा रुच्यतेऽच्युते ।
न नो गृह्णन्तु के वापि न गृह्णन्तु प्रदर्श्यते ।
युक्तिश्चोक्तेतरा तां तु विदाङ्कुर्वन्तु विंदवः ॥
तथाहि ॥ चक्षुः श्रोत्रं मनो वाक् प्राणः श्रयत इत्युपनिषद्भाष्ये ‘‘अग्निवातदिनेशानामुत्थानानि पृथक् पृथक् । वदनं नासिका नेत्रमित्येतानि परात्मनः । अदनाघ्राणदृष्ट्याख्यभोगत्रयविभागतः । मुखनासाचक्षुषां’’ इत्यादिना प्राणस्य नासोत्पन्नत्वतदाश्रितत्वोक्तेः । तथाऽन्यत्रापि तथैव नसिकातोऽ-भून्मुख्यवायोः सुतो मरुत् । प्राणो वायुरिति द्वेधेत्युक्तेः । सति विश्वासे मातरिश्वनस्तदुत्थत्वतदाश्रित-त्वोक्तिः सुलग्नेति नासिकेत्युक्तिर्मानिकी न सम्भाविनी स्यात् । ऋग्वेदादिकमस्यैव श्वसितं प्राह चापरा । वाचो बभूवु रुशतीर्हयग्रीवादिति स्फुटम् । वचो भागवतेऽप्यस्ति ब्रह्माण्डेऽपि तथापरम् । हयग्रीवादिमा विद्या श्वसितत्वेन निःसृता इति भाष्यटीकायाम् । अस्य महतो भूतस्य निःश्वसितमेतदृग्वेदो यजुर्वेदः सामवेदोऽथर्वांगिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकः सूत्राण्यनुव्याख्यानान्यस्यैवैतानि निःश्वसिता इत्यपरा श्रुतिः । ऋग्वेदादिकमस्यैव विष्णोरेव निःश्वसितं प्राह । तेनापि तस्यर्षित्वं ज्ञायते । निश्वसितमिवानायासेनादिकाले तेनोच्चरितमित्यर्थः । वाचो बभूवुरुशतीः श्वसतोऽस्य नस्त इति भागवते स्फुटमेतमर्थं प्रतिपादयद्वचोऽस्तीति प्रोक्तेः । तस्मिन्सति श्वसितमिवानायासेनादिकाल इत्यायासस्या-सम्पादनीयत्वात् । अज्ञानकार्यत्वान्निद्रा न भगवत्यवकाशं लभते । तथा श्वासस्य श्रमशमनकार्यायावश्यं वक्तव्यस्य तदभावादेवाभाव इति तु मनोहरम् । श्वसितं मातरिश्वा । श्वसतोऽस्य न स्तः श्वासैजदलक-व्रातेत्यादौ प्रस्तुते चाष्टमस्कन्धोक्तछायाछायामाश्रित्य व्याकरणसम्भवात् । सन्ततं चिन्तयेत्कण्ठं भास्वत्कौस्तुभभासकम् । वैकुण्ठस्याखिला वेदा उद्गीर्यन्तेऽनिशं यतः’’ इत्याचार्यैः कण्ठत कण्ठमनिशं यतः ॥’’ इत्युक्तिरपि श्वासौत्कण्ठं कुण्ठयति । ‘‘नस्तो मुखादपि निरन्तरमुद्गिरन्तम् । ‘‘हयास्य-नासापुटवातजातः’’ । द्वितीयस्कन्धे च सर्वासूनां च वायोश्च तन्नासे परमायने’’ इत्येवमादयश्चै-तदनुकूलाः । सिंहास्यत्वेन श्वासानां तत्साम्यार्थं सृष्ट्वा प्रदर्शनस्य सम्भावितत्वादिति दिक् ।
सर्वात्मनेति न वचो दद्यात्सर्वात्मनान्तरम् ।
आपीडितं तदस्माभिर्नापीडितमपीडितम् ॥ १ ॥
असङ्कुचितवृत्तित्वमेवेति गुरुगीरपि ।
न सङ्कुचितवृत्तिः स्यात्तन्द्रीं नो याति चन्द्रिका ॥ २ ॥
आयासं यास्यति न साऽप्यनायासेन निःसृतिम् ।
वदन्ती गौरवी वाणी तथा गुर्वर्थदीपिका ॥ ३ ॥
वाक्यार्थचन्द्रिकाभावबोधाभिनवचन्द्रिकाः ।
तदैतरेयोपनिषद्भाष्यं चेत्येवमादिना ॥ ४ ॥
विश्वेश्वरे स्वापसमः श्वासो यच्छ्रमशामकः ।
नाङ्गीकार्यमतोऽस्माकं जानीहीति जनाः परे ।
न वा जानन्ति जानन्तु तद्व्रज्यां न व्रजत्यज ॥ ५ ॥)
ये निर्हादभीता दिगिभा दिग्गजा मदं जहुस्तत्युजः । तेषां तदुपलक्षितघनमीनादिश्वासहता इति वाऽब्धयश्चुक्षुभुरित्यन्वयः । मदं दानोदकम् । द्यौः सुरलोकः । तत्सटात्क्षिप्तविमानसङ्कुला तस्य नृसिंहस्य सटाभिरुत्क्षिप्तानि वा विमाना विमानानि व्योमयानानि च तैः सङ्कुला व्याप्ताऽभूदिति शेषः । विमानो व्योमयाने च सप्तभूमगृहेऽपि च । घोटके यानमात्रे च पुन्नपुंसकयोरपीति शब्दमञ्जरी । व्योमयानं विमानोऽस्त्रीत्यमरः । पुंसि संज्ञायामिति करणे घः । विविधतया विशिष्टं वा मानयन्त्यनेनेति विमानः । घञ् तु न भवति । ततोऽपि परेण ल्युटापवादात् । विहितश्चाधिकरणे घः । मान्ति विशेषेणा-स्मिन्नित्यधिकरणे ल्युड्वा । क्ष्मा क्षितिः । पदा, तत्सटेत्यनेन समस्तमपि तत्पदं षष्ठ्यन्तं सदन्वेति । तस्य पादेनातिपीडिता सती प्रोत्सर्पत निम्नोन्नता सत्यपासर्पत् । अमुष्येत्याकृष्यान्वयो वा । पदातिना पीडितेति वा । पादेदं संख्यामुद्रणं नास्त्येतत्पक्ष इति ज्ञेयम् । अज्यतिभ्यामतिरित्यातिः । पदाति-पत्तिपतगेत्यमरः । पद्भ्यां भूमिरजायतेत्युक्तेः । पिता विक्रयते सुतमिति नीत्या क्षितेरुपसर्पणं युक्तमनन्यगतिकत्वादिति भावः । करेणेत्यनुदीरणेनोदीरणेन पदेति पदसम्पदा ध्वनित इति ज्ञेयम्
॥ ३३ ॥
मन्दनन्दिनी
दिगिभा दिग्गजाः । सटाभिरुत्क्षिप्तमूर्ध्वं गमितं विमानसङ्कुलं यस्याः सा । प्रोत्सर्पत प्रोदसर्पत् । आगमशासनस्यानित्यत्वाद् अडभावः ॥ ३३ ॥
शैलाः समुत्पेतुरमुष्य रंहसा तत्तेजसा खं ककुभो न रेजिरे ।
ततः सभायामुपविष्टमुत्तमे नृपासने सम्भृततेजसं विभुम् ॥ ३४ ॥
पदरत्नावली
सभावस्थानं तस्य वक्ति– तत इति ॥ सम्भृततेजसं राशीकृततेजसम् ॥ ३४ ॥
सत्यधर्मीया
अमुष्य रंहसा वेगेन । रंहश्च गुह्ये सुरते च वेग इति नामनिधानम् । शैलाः पर्वताः समुत्पेतुरुत्पतिताः । खमाकाशं ककुभो दिशश्च न रेजिरे न बभुः । ‘‘अनन्तं सुरवर्त्मखं’’ ‘‘दिशस्तु ककुभः काष्ठा’’ इत्युभयतश्चामरः । तत्तेजसेत्यराजननिमित्तोक्तिः । ततोऽनन्तरं सभायाम् उत्तमे नृपासने सिंहासने नृपस्य हिरण्यकस्यासने निरसने मारणरूपे जाते प्रह्लादस्याधुनाऽनधिकारा-त्तत्रोपवेश इत्यावृत्त्यान्वयेनार्थविशेषो ज्ञेयः । एतेन राजासनस्य सिंहासनमिति संज्ञा तदारभ्यान्वर्थाऽ-भूदिति सूचितं भवति । उपविष्टं सम्भृततेजसं जगद्व्यापिप्रभावं तं विभुम् । उपवेशनं च नापूर्वविलोकनेन दुरात्मोपवेशायातास्पृश्यतापनोदेन प्रल्हादस्योपवेशे सदात्मताङ्कूरणार्थमेवेति भावः ॥ ३४ ॥
मन्दनन्दिनी
रंहसा वेगेन । न रेजिरे न चकाशिरे । दैत्यहननाद्यनन्तरं सभोपवेशनमाह ॥ तत इति ॥ सम्भृततेजसं राशीकृततेजसम् ॥ ३४ ॥
अलक्षितद्वैरथमत्यमर्षणं प्रचण्डवक्त्रं न बभाज कश्चन ।
निशाम्य लोकत्रयमस्तकज्वरं तमादिदैत्यं हरिणा हतं मृधे ॥ ३५ ॥
पदरत्नावली
अलक्षितं न केनापि दृष्टं नन्वयं जयः केनापि न लक्षितः । तदङ्कुरव्यक्त्य-दर्शनादित्याशङ्क्य पुरुषकोपोपशमनं स्त्रीणामेव सुशकमिति भावेन सुरस्त्रीपुष्पवृष्टिप्रकारमाह– निशम्येति ॥ लोकत्रयस्य मस्तकज्वरं शिरोरोगायमाणम् ॥ ३५ ॥
पदरत्नावली
अलक्षितं न केनापि दृष्टम् ॥ ३५ ॥
सत्यधर्मीया
प्रतियोद्धृदर्शनादेव देवस्योपवेश इत्यादिशति । अलक्षितद्वैरथमिति ॥ द्वितीयस्य रथस्यायं द्वैरथः प्रतियोद्धा द्वितीयत्वेनाभिमुख्येन रथति यः स द्विरथः । स एव द्वैरथः । सोऽलक्षितो येन स तथा तम् । प्रचण्डवक्त्रम् अत्यमर्षणमिति न कश्चन कोऽपि बभाज भेजे । अभजने हेतूक्तिर् लोकत्रयमस्तकज्वरम् । लोकत्रयस्य मस्तकस्य शिरसो ज्वरो रोगात्मा तम् । शिरोरोगरूपम् । तम् आदिदैत्यम् । हरिणा नृहरिणा मृधे हतं निशाम्य दृष्ट्वा ॥ ३५ ॥
मन्दनन्दिनी
अलक्षितमदृष्टपूर्वं कश्चन भूतलगतः । लोकत्रयमस्तकज्वरं शिरोरोगायमाणम्
॥ ३५ ॥
प्रहर्षवेगोत्कलितानना मुहुः प्रसूनवर्षैर्ववृषुः सुरस्त्रियः ।
तदा विमानावलिभिर्नभःस्थलं१ दिदृक्षतां सङ्कुलमास नाकिनाम् ॥ ३६ ॥
पदरत्नावली
प्रहर्षातिरेकेण उत्कलितं विकसितम् आननं यासां तास् तथा ताः । सुरस्त्रीवृष्टपुष्प-सौरभ्याघ्राणेन किञ्चित् शान्तकोपत्वादस्माकमप्ययमवसर इति मन्वानानां देवानां नभसि विमानावलि-साङ्कुल्यप्रकारं वक्ति– तदेति ॥ ३६ ॥
सत्यधर्मीया
प्रहर्षवेगोत्कलिताननाः प्रहर्षस्य सन्तोषस्य वेगोऽतिरेकस्तेनोत्कलितानि विकसितान्याननानि वदनानि यासां ताः । सुरस्त्रियो मुहुरनेकवारं प्रसूनवर्षैः पुष्पवर्षैर्ववृषुरित्यन्वयः । पूर्वं कश्चन न बभाजेत्युक्त्या सुरस्त्रिय इत्यत्रोक्त्या च योषितामवलोकने पितृत्वादेव मरणभीतिर्नास्तीति ध्वन्यते । तदा तत्काले विमानावलिभिर्विमानानामावलयः पङ्क्तयः । वीथ्यालिरावलिः पङ्क्तिरित्यमरः । ताभिर्नभः स्थलमाकाशस्थानम् । नभस्तलमित्यपि पाठे तत्प्रदेश इत्यर्थः । तद्विमानावलयश्च किं सम्बंधिन्य इत्यत आह । नाकिनामिति ॥ न विद्यतेऽकं दुःखं यत्र स नाकः स्वः । स्वरव्ययं स्वर्गनाक इत्यमरः । सोऽस्ति निवासत्वेनैषामिति नाकिनो दिविषदस्तेषाम् । नभ्राडिति नञः प्रकृतिभावः । दिदृक्षतां द्रष्टुमिच्छताम् । दृशेः सनि द्वित्वहलादिशेषे षत्वक्षत्वेषु सत्सु रूपम् । शतायम् । सङ्कुलं व्याप्तम् आस । अव्ययं वा । सतेर्गत्यर्थस्य रूपं वेति वेद्यम् ॥ ३६ ॥
मन्दनन्दिनी
प्रहर्षेत्यादेः सन्तोषातिशयविकसितवक्त्रा इत्यर्थः ॥ ३६ ॥
सुरानकादुन्दुभयो विनेदिरे२ गान्धर्वमुख्या३ ननृतुर्जगुः स्रियः ॥ ३७ ॥
पदरत्नावली
सुराणामानकदुन्दुभयः ॥ ३७ ॥
सत्यधर्मीया
सुरानका इति सनकारः पाठः । सुराणामानकाः । आनकः पटहो ढक्केत्यम-राढ्ढक्काः । आनिति जनोवादितेनानेनेत्यनतेः क्वन् । यद्वा नयति प्राणयति जनानित्यानक इति ण्वुलि ज्ञेयम् । आनकः पटहे भेर्यां मृदङ्गे ध्वनदम्बुद इति विश्वः । असमानपदत्वान्न णत्वम् । सुराणका इति सणकारः क्वाचित्कस्तत्र शब्दार्थाद्रणतेर्णिच् ण्वुलि राणयन्ति हरितः प्रति स्वरयन्ति ये ते सुराणका इत्यर्थः । दुन्दुभिविशेषणम् । दुन्दुभयो भेर्यश्च विनेदिरे ध्वनिं चक्रुरनन्यहताः । यथोक्तं हरिवंशे । स्वयमेव प्रवाद्यन्ते देवतूर्याण्यनेकश इति । दुन्द्विति शब्देन भाति यः स दुन्दुभिः । अनुकरणशब्दः । भातेर्बाहुलिकः किः । यद्वा द्यामुम्भति पूरयन्तीति दुन्दुभयः । पृषोदरादित्वाद्यस्य दः । औणादिकस्तु न भवति । अतो लोपस्याप्रसङ्गादिति भानुदीक्षितः । दुन्दुभिर्दितिजे भेर्यामिति विश्वः । जघि्नर इति पाठे स्वयमेव हता इव वादिता इत्यर्थः । गन्धर्वमुख्या गन्धं सौरभमर्वंति गच्छन्तीति गन्धर्वाः । क्वचिच्च गान्धर्वमुख्या इत्यपि पाठः । तत्र कर्मण्यण् । पक्षद्वन्द्वेऽपि शकंध्वादिपाररूप्यं ज्ञेयम् । गन्धर्वकिन्नरा इत्यमरः । अपि गन्धर्वगान्धर्वदिव्यगायनगातव इति शब्दार्णवः । जगुः । गै शब्दे । गानं चक्रुः । स्त्रियस्तत्स्त्रियो ननृतुः ॥ ३७ ॥
मन्दनन्दिनी
आनकाः पटहा दुन्दुभयो भेर्यः ॥ ३७ ॥
त उपव्रज्य विबुधा ब्रह्मेन्द्रगिरिशादयः ।
ऋषयः पितरः सिद्धा विद्याधरमहोरगाः ॥ ३८ ॥
पदरत्नावली
चण्डक्षुब्धानां चित्ताह्रादकरी स्तुतिरेवेति भावेन ब्रह्मादीनामुपक्रममाह– तदुपव्रज्येति ॥ ३८ ॥
सत्यधर्मीया
सम्पादितैतद्दैतेयरूपापत्प्रणाशः पूर्णस्य कर्तव्यान्तरमचक्षाणाश्चतुर्मुखमुखमखभुजः किमुपकारप्रतिनिधित्वेन चक्रुरित्यतो वक्ति ॥ त इति । नाकिपदोक्तास्त इति परामृश्यन्ते । ये प्राक् प्रार्थनामेतदर्थं कृतवन्तस्त इति वा । ईडिर इत्युत्तरेणान्वयः । ब्रह्मेन्द्रगिरिशादयः । दयाभावस्य सर्वसाधारणत्वेन कस्य कुत्रोक्तौ किमिति मध्ये इन्द्रस्य निवेशः । ब्रह्मेंद्रगिरिशेषु न विद्यते दया यस्य सः । यस्मात्तस्मात्तम् ईडिर इत्यनेनान्वयः । तेन नातिदूरचरा इति सुलग्नम् ॥ ३८ ॥
मन्दनन्दिनी
कृतसर्वलोकोपकारकस्य भगवतो ब्रह्मादिभिः स्तोत्रप्रकारमाह ॥ तदिति ॥ तदुपव्रज्य तन्नृसिंहाधिष्ठितस्थलमुपव्रज्योपगम्य ॥ ३८ ॥
मनवः प्रजानां पतयो गन्धर्वाप्सरचारणाः ।
यक्षाः किम्पुरुषास्तात वेतालाः सह किन्नराः ॥ ३९ ॥
सत्यधर्मीया
अप्सरचारणाः । अयमकारान्तोऽप्सरःशब्दपर्यायोऽप्सरशब्दः । एकामप्सरा-मितिभाष्यादेः । अप्सराणां समूह आप्सरम् । गन्धर्वाश्चाप्सरं च चारणाश्चेति विग्रहः । सकारान्तत्वा-वच्छेदेनाकारान्तत्वमिति द्विरूपकोशे सजातीयानां बहूनां तमसा च तममित्यादीनां प्रदर्शनादिति वाऽकारान्तो ज्ञेयः ॥ ३९ ॥
मन्दनन्दिनी
अप्सरचारणा इत्यसंहितायां सकारलोपश्छान्दसः । तातेति युधिष्ठिरसम्बोधनम्
॥ ३९ ॥
ते विष्णुपार्षदाः सर्वे सुनन्दकुमुदादयः ।
मूर्ध्नि बद्धाञ्जलिपुटा आसीनं तीव्रतेजसम् ।
ईडिरे नरशार्दूलं२ नातिदूरचराः पृथक् ॥ ४० ॥
पदरत्नावली
ये पूर्वमुपगन्तुं तत्रसुः, ते ब्रह्मादयस्तं पृथगीडिर इत्यन्वयः । नातिदूरचराः किञ्चित् समीपवर्तिनः ॥ ४० ॥
सत्यधर्मीया
सुनन्दकुमुदादयः । अनेन जयविजययोरधुना स्वमूलरूपाप्राप्तेरेतदादिग्रहः । नन्दकुमुदाक्षादय आदिपदार्थाः । नातिदूरचराः किञ्चिद्दूरे चरन्तीति तथा । पृथक् उत्तरत्र वक्ष्यमाणस्वस्वकार्यावाप्त्यानुकूल्यादियमुक्तिः । अनतिदूरचरणं च स्वस्तुत्या श्रुतया भाव्यं स्वेषां तद्रूपाटोपप्रेक्षणा दक्षिणतया चेति ज्ञेयम् ॥ ४० ॥
मन्दनन्दिनी
ते प्रसिद्धाः ॥ नरशार्दूलेति सम्बुद्धिः । शार्दूलमिति पाठे सिंहमित्यर्थो बोध्यः । नातिदूरचरास्तारतम्यक्रमेण समीपचराः ॥ ४० ॥
ब्रह्मोवाच–
नतोऽस्म्यनन्ताय दुरन्तशक्तये विचित्रवीर्याय पवित्रकर्मणे ।
विश्वस्य सर्गस्थितिसंयमान् गुणैः स्वलीलया सन्दधतेऽव्ययात्मने ॥ ४१ ॥
पदरत्नावली
तत्र पृथक् पृथङ्मतिलक्षणं स्तुतिप्रकारं ब्रूते– नतोऽस्मीति ॥ गुणैः सत्वादिभिः स्वलीलया स्वरूपभूतलीलया । अव्ययात्मने नित्यदेहाय ॥ ४१ ॥
सत्यधर्मीया
तत्रेयदामननादित्यादेः सर्वसुपर्ववरत्वाच्चतुरानन आदौ तुष्टावेत्याचष्टे ॥ ब्रह्मेति । विश्वस्य प्रपञ्चस्य गुणैः सत्त्वरजस्तमोरूपैः सर्गस्थितिसंयमान् सर्जनपालनसंहृतीः स्वलीलया स्वरूप-भूतलीलया सन्दधते विदधते । अनन्ताय नाशरहिताय । तच्छक्तिरपि तादृशीति वक्ति ॥ दुरन्तशक्तय इति । पवित्रकर्मणे पवित्राणि स्वयं पावयन्ति च जनानिति तानि कर्माणि यस्य तस्मै । विचित्रमद्भुतं वाऽमायं वा वीर्यं यस्य स तस्मै । अव्ययात्मनेऽक्षयिष्णुशरीराय । अहं नतोऽस्मीत्यन्वयः ॥ ४१ ॥
मन्दनन्दिनी
आदौ ब्रह्मणः स्तोत्रमाह ॥ ब्रह्मेति ॥ दुरन्तज्ञानबलादिशक्तये विचित्रवीर्याय पराक्रमवते सर्गस्थितिसंयमान् । संयमो संहारः । गुणैः सत्त्वादिभिः । स्वलीलया स्वरूपभूतलीलया । अव्ययात्मने नित्यवपुषे ॥ ४१ ॥
रुद्र उवाच–
कोपकालो युगान्तस्ते हतोऽयमसुरोऽल्पकः ।
तत्सुतं पाह्यनुसृतं भक्तं ते भक्तवत्सल ॥ ४२ ॥
पदरत्नावली
येनायमसुरो हतः स कोपकालो युगान्तः युगावसनेचितः । नेदानीमत्यल्पा-सुरहनने । तस्मात् कोपं संहृत्य अनुसृतं शरणं प्राप्तं, तस्य सुतं प्रह्लादं रक्षेत्यन्वयः ॥ ४२ ॥
सत्यधर्मीया
रुद्रश्च क्रोधसम्भव इत्यादेः कोपस्वभावस्य मम सांत्ववचनमेव दुर्मिलं तादृगुक्तं चेच्छृणुयादेव शृृणोति चेल्लालयेदेव देव इति वा पौत्रत्वाद्युक्तमयुक्तं वोक्तं चेदपि पौत्रकवचो यदपि ह्ययोग्यं सम्भावयन्ति गुणिन इत्युक्तेः सफलीकुर्यादार्य इति फाललोचन आलोच्य कालानुकूलं प्रार्थयते ॥ रुद्र इति ॥ हे भक्तवत्सलेति स्वालापनेन तद्बाह्यपालने च हेतूक्तिः । ते तव कोपकालो विशिष्ट-क्रोधप्रदर्शनकालो युगान्तो नायमिति भावः । अयं कोपकाल इति काकुः किन्तु युगान्त इति वाऽन्वयः । यदर्थं प्रदर्शनं कोपस्यावश्यकं तन्निष्पन्नमित्युपसंहर हर इति हरो वक्ति । अल्पकोऽत्यल्पः । नखनिर्वर्त्यकर्मणि कठोरकुठारग्राहकवन्नाचातुरी सम्पादनीया दयापयोदधेऽसुरो हतः, इतःपरं तत्कृत्याभावादुपसंहरेति भावः । तत्सुतं प्रल्हादं पाहि रक्ष । स न तथाविध इत्याह ॥ ते भक्तमिति । भक्ता अपि तत्कालिकासुरावेशादितो दुःशीला दुष्टा इत्यत आह । अनुसृतमिति । तत्सुतं भक्तं पाहि । मद्वचनकरणेनानुसृतं मां च पाहीति वैयधिकरण्येनान्वयो वा । कोपकालो युगान्तः सहस्रयुगान्तः । अयं त्वयुगान्त इति कोपमुपसंहृत्य तत्सुतं पाहीति वा आवृत्त्याऽन्वयः ।
यद्वा अयं हिरण्यकशिपुर्हतः । अल्पको वयसा कनीयान् हिरण्याक्षो हत इति युगान्तः, युगस्य युग्मस्य हिरण्याक्षहिरण्यकशिपूरुपस्यान्तो नाशः जातः । इतः परं तत्सुतं पाहि । स च तदनुरूप-श्चेद्भवेद्भव कथमवनं कथयेत्यत आह ॥ कोपकालः, कोऽपकार१ इति । अस्य प्रल्हादस्य अपकारः कः, न कोऽपीत्यर्थः । अतः पाहीत्युक्तं युक्तमिति सोत्प्रासमुत्प्रेक्षयन्ति । स्तवप्रस्तावे अल्पक इत्युक्त्यस्वारस्यम् अस्मदुत्प्रेक्षाबलमित्यालपन्ति ॥ ४२ ॥
मन्दनन्दिनी
कोपशांत्या भक्तरक्षणं प्रार्थयते ॥ कोपकाल इति ॥ हे भक्तवत्सल नृसिंह । ते कोपकालः कोपावसरो युगान्त एवोचितो नेदानीम् । असुरहननायेति चेत् । अयमल्पकः । कृतो वा शाम्यतु । हननस्य जातत्वादित्याह । हत इति ॥ कृपावसरश्चायमित्याह । तत्सुतमिति ॥ अनुसृतं शरणं प्राप्तम् । भक्तं तत्सुतं तस्य हिरण्यकशिपोः सुतं प्रह्लादं पाहि रक्षेति योजना । पालनीयगतेऽनुसृतभक्तत्वे पालकगतं भक्तवत्सलत्वं पालने निमित्तानि ॥ ४२ ॥
इन्द्र उवाच–
प्रत्यानीताः परम भवता त्रायता नः स्वभागा
दैत्याक्रान्तं हृदयकमलं त्वद्गृहं प्रत्यबोधि ।
कालग्रस्तं कियदिदमहो नाथ शुश्रूषतां ते
मुक्तिस्तेषां न हि बहुमता नारसिंहापरैः किम् ॥ ४३ ॥
पदरत्नावली
हे परम नस् त्रायता रक्षता भवता दैत्यहृता यज्ञेषु स्वभागा अस्मद्योग्या हविर्भागाः प्रत्यानीता इत्यन्वयः । तपोबलेन दैत्येनाक्रान्तं निमीलितं च तव गृहं तव वासयोग्यं हृदयकमलं प्रत्यबोधि विकासितम् । अस्माकं भवतेति शेषः । विरक्तिभक्तिभ्यामेव वशीकर्तुं योग्यो नान्येनेत्याशयेनाह– कालेति ॥ नाथ यदिदं स्वर्गादिस्थानं कालग्रस्तं कियत् सुखजनकम् ? न किमपीति मत्वा ते शुश्रूषतां त्वां सेवमानानां तेषां करगता मुक्तिरपि बहुमता न, हि यस्मात् तस्मात् हे नारसिंह तेषां भक्तानाम् अपरैर् धर्मादिभिः प्राप्तैः किमित्यन्वयः ॥ ४३ ॥
सत्यधर्मीया
हे परम । भवता नोऽस्मान् त्रायताऽवता स्वभागा अस्मद्योग्यहविर्भागाः सु अत्यन्तमभागास्तत्त्वेन तेन कृताः प्रत्यानीतास्तत्प्रतिबद्धा हते तस्मिन् प्रत्यानीय दत्ताः । अस्माक-मुपभोग्या जाता इति भावः । दैत्याक्रान्तं सदा स एव स्मृतिपथमुपयात इति त्वत्स्मरणप्रतिबन्धकत्वा-द्दैत्येन हिरण्यकशिपुनाऽऽक्रान्तं हृदयकमलं प्रत्यबोधि फुल्लमभूत् । हृदयकमलमेव विकासकर्तृ । ‘‘क्रमादमुं नारद इत्यबोधि स’’ इतिवत् । यद्वा त्वद्गृहमिति त्रायता त्वया प्रत्यबोधि । विकासित-मभवदिति । कर्मणि वा । प्राबोधि श्रुतिपङ्कजं येनेतिवत् । हविः स्वर्गादि दैत्येन बलात्कवलितं तच्चानिष्टमिति प्रार्थना कृता । नेदं परमेष्टमित्याह । कालग्रस्तं कालेन ग्रस्तं नश्यदिति नष्टप्रायमिदं किं स्वर्गादि कियत् । किं सुखजनकम् । तज्जन्यं सुखं सुखमेव न भवतीश्वर नश्वरत्वादिति भावः । तेषामिति पारोक्ष्यनिर्देशोऽनहन्ताप्रकटनाय । ते त्वां शुश्रूषतां सेवमानानां तेषां भक्तानां न मुक्तिरपि ज्ञानफलत्वेनागमाद्यवगमितापि न बहुमता प्रार्थनीयार्थत्वेन न सम्मता । अहो विचित्रम् । हि यत्तत् । हे नाथ नारसिंह । अपरैस्तदितरैरावृत्त्यानुत्तमैर्धर्मादिसम्पाद्यैः स्वर्गादिभिः किं किं फलमित्यन्वयः । या अपरैरेकान्तिभिन्नैरनुत्तमैर्बहुमता सा ते त्वां शुश्रूषतां तेषामेकान्तानां न कस्यचित् । अर्थे नारायणो देवः सर्वमन्यत्तदर्थकमित्यादेर्मुक्तिर् मोक्षोऽथ लिङ्गभङ्गानन्तरं न किम् । अप्रार्थनायामपि भवतीति नार्थनीयेति भाव इत्यप्यन्वयो ज्ञेयः ॥ ४३ ॥
मन्दनन्दिनी
हे परम । नोऽस्मान् त्रायता त्रायमाणेन भवता स्वभागाः प्रत्यानीताः प्रत्याहृताः। हिरण्यकशिपुकाले सहरक्षोनामकाग्निनेन्द्रादिनामकेभ्यो दैत्येभ्यो नीताः । हव्यवाहनो देवानां कव्यवाहनः पितॄणां सह रक्ष असुराणामिति श्रुतेः । त्वद्गृहं त्वदावासयोग्यम् । अस्मदीयहृदयकमलं दैत्याक्रान्तं भीत्या तद्विषयकं तत एव निमीलितं तस्य हननात्प्रत्यबोधि । एकान्तभक्तानामस्मदादीनां त्वद्दयैव पुरुषार्थो न प्रत्यानीतस्वर्गाधिपत्यादिकं पुरुषार्थ इत्याह ॥ कालेति ॥ हे नाथ । त्वा शुश्रूषतामिदं स्वाधिपत्यादिकं कालग्रस्तं नश्वरं कियत्फलं न महाफलमित्यर्थः । मुक्तिरपि न महाफलमित्याह । मुक्तिरिति ॥ हे नृसिंह । तेषां शुश्रूषतां मुक्तिरपि न बहुमता हि यस्मात्तस्मादपरैः पुरुषार्थैः किं प्रयोजनमिति योजना ॥ ४३ ॥
ऋषय ऊचुः–
त्वं नस्तपः परममात्थ यदात्मतेजो येनेदमादिपुरुषात्मगतं समस्तम् ।
तद् विप्रलुप्तममुनाद्य शरण्यपाल रक्षागृहीतवपुषा पुनरन्वमंस्थाः ॥ ४४ ॥
तात्पर्यम्
तद्विप्रलुप्तमिति सादृश्याभेदवचनम् । आलेचनमेव तपः । ‘यस्य ज्ञानमयं तप’ इति श्रुतेः ॥ ४४ ॥
पदरत्नावली
हे आदिपुरुष त्वं यदात्मतेज आत्मनो हरेर्ज्ञानलक्षणं तेजस् तपो नोऽस्माकं परमश्रेयसे आत्थ । येन तपसा आलोचनरूपेण महिम्ना इदं समस्तम् आत्मगतं व्याप्तम् । हे शरण्यपाल अमुना दैत्येन विप्रलुप्तं नष्टम् । तत् तपो जगद्रक्षार्थं गृहीतवपुषा नरसिंहात्मना पुनरप्यस्मान् प्रति कटाक्षमन्वमंस्थाः । उद्धरिष्यामीति शेषः । ‘तप आलोचने’ इति धातोः । यस्य ज्ञानमयं तप इति श्रुतेश्च भगवज्ज्ञानसादृश्यादस्य आत्मतेज इत्यभेदवचनं युज्यते । विप्रलोपस्तिरोधानं, न स्वरूपनाशः
॥ ४४ ॥
सत्यधर्मीया
त्वं नस्तपः परममात्थ यदात्मतेज इति श्लोके हे आदिपूरुष यदात्मतेज आत्मनः स्वस्य तेजो ज्ञानं तप आत्थ तदमुना दैत्येन विप्रलुप्तं नाशितमिति हरिज्ञानात्मकतपोलोपः प्रतीयते । सा चेश्वरस्य तस्यानश्वरत्वादनुपपन्नेत्यत उपपन्नमर्थमाह । तद्विप्रलुप्तमितीति ॥ सादृश्याभेदवचनम् । सादृश्यात्मा योऽभेदस्तद्वचनं तद्विषयकं वचनमित्यर्थः । पृथगधिकरणीयसादृश्याभेदसंश्रयादित्यनु-व्याख्यासुधायां सादृश्यमेवाभेदः सादृश्याभेद इत्युक्तेः। तत्तपस्तत्सदृशं तपः । विप्रलुप्तमिति भावः । न हि तपोऽपि कृच्छ्रचान्द्रायणादिरूपम् । श्रीपतिप्रतिपत्त्यात्मकतपःस्वरूपमित्यतस्तदर्थमाह ॥ आलोचनमिति । नात्र तपः स्वरूपज्ञानं किन्तु भागवतज्ञानसदृशमेतदीयालोचनम् । तस्य लोपः । वृत्त्यात्मन इतरस्य तिरोभावो वा सम्भावित इति भावः । ननु ज्ञानात्मकं तपः श्रीपरस्य वर्तते चेत्तत्सादृश्यवर्णनं युज्येत । तदेव कथमित्यत आह । यस्येति । यस्य हरेर्ज्ञानमयमेव तप इति श्रुतेर्नाप्रामाणिकं ज्ञानतपः श्रीनाथ इति भाव इति केचित् । वस्तुतस्तु सादृश्याभेदवचनमिति वचनं प्रथमस्कंधस्थतद्वैधनुस्त इषवः स रथो हयास्त इत्यादिव्याकृतिवेलायां स रथो हयास्त इति तादृशा इत्यर्थः । त इषव इतीव । सदृशे वा प्रधाने वा कारणे वा तदित्ययम् । शब्दः सङ्घटते भेदे विद्यमानेऽपि तत्त्वत इति ब्रह्मतर्क इत्युक्तेस्तच्छब्दार्थः सादृश्यमत्र गृहीतुं शक्यं ततश्च यत्तपस्तत् तप इव तद्विलुप्तमित्यन्वयः सम्भवेत् । तेनैवात्राभिप्रेतार्थे ज्ञातुं सुशके किमित्यत्रेति चेत् । सत्यम् । अत एव सिद्धवत्कृत्य सादृश्येत्येतावन्मात्रोक्तिरिति सम्भवात् । इदमपि व्यवधानेन बहुसंविधानसापेक्षमिति मन्दमतिदययेति मन्तव्यम् । एवं चात्मतेजसो भगवतो ज्ञानस्य समानविषयकत्वेन सदृशं तप आलोचनं यत्तस्य तिरोभावोऽनेन दत्त इति पर्यवस्यत्यर्थ इति ज्ञेयम् ।
ततश्चायं श्लोकार्थः ॥ आदिपुरुष त्वं नोऽस्माकं यदात्मतेजः स्वज्ञानं परमं तप आत्थोक्तवान् । आहस्थ इति थः । येन तत्सरूपेण तपसेदं समस्तमात्मगतं मनोगतमभूत्तपो ज्ञानसदृशम् आलोचनम् । तच्छब्द इवार्थे । अमुना विप्रलुप्तम् । तदद्य । हे शरण्यपाल । शरणमर्हतीति यदर्हार्थे । शरणागतान्पालयतीति स तथा । नोपलक्षणमिदमित्याह । रक्षागृहीतवपुषेति ॥ रक्षार्थं गृहीतं वपुर्येन तेन । पुनरन्वमंस्थाः । मन् ज्ञाने लुङ् । नश्चेत्यनुस्वारः । अन्तर्णीतणिजर्थः । तपः कुरुतेत्यनु-ज्ञातवानसि । तप आलोचन इति स्मरणात् । तस्मै नम इत्युत्तरेणान्वयः ॥ ४४ ॥
मन्दनन्दिनी
हे आदिपुरुष । यदात्मतेजः परमात्मापरोक्षसाधनं तप आलोचनं परममुत्तम-साधनं नोऽस्माकं त्वम् । आत्थ ब्रवीषि । तपसा ब्रह्म विजिज्ञासस्वेति श्रुतेः । येन तपसेदं समस्त-मात्मगतं मनोगतं योगप्रभावेन । सर्वापरोक्षमिति यावत् । तद्विप्रलुप्तममुना । हे शरण्यपाल । जगद्रक्षायै गृहीतवपुषा । अद्य पुनरन्वमंस्था अनुगृहीतवानसीति योजना । तपोऽपि न सन्तापात्मकं किं त्वालोचनात्मकं ज्ञानरूपम् । यस्य ज्ञानमयं तप इति भगवदीयज्ञानेऽपि तपःशब्दार्थत्वदर्शनात् । एतत्सर्वमभिप्रेत्य तात्पर्यम् ॥ तद्विप्रलुप्तमिति सादृश्याभेदवचनम् । आलोचनमेव तपः । यस्य ज्ञानमयं तप इति श्रुतेः ॥ यत्तप आत्थ तद्विप्रलुब्धमिति कथम् । आलोचनात्मकतपस आशुतरविनाशतयाऽधुना दैत्येन विनाशनायोगादिति तु न शक्यम् । अधुना विप्रलुब्धस्यापि तत्सदृशत्वेन तदित्यभेदोक्ति-सम्भवात् । तानेव शालीनुपभुज्मह इत्यादौ दर्शनात् ॥ ४४ ॥
पितर ऊचुः–
श्राद्धानि नोऽधिबुभुजे प्रसभं तनूजै
र्दत्तानि तीर्थसमयेऽपि तिलाम्बु चापिबत्१ ।
तस्योदरान्नखविदीर्णवपाद् य आर्च्छत्
तस्मै नमो भगवतेऽखिलकर्मगोप्त्रे ॥ ४५ ॥
पदरत्नावली
यो भवान् नखविदीर्णवपान् नखविदारितान्त्रात् तस्य दैत्यस्योदराद् आर्च्छद् ऋच्छ गतौ इति धातोः श्राद्धान्यस्माकमगमयदित्यन्वयः ॥ ४५ ॥
सत्यधर्मीया
अत्याज्यं प्रथमोदाहरणीयस्यवश्यं करणीयस्य पिण्डावापादेरपि तत्प्रतिरोधः प्रागिदानीं तद्धननेन श्राद्धादेरस्मदुपयोगिताकरणेन महानुपकारस्तवेति पितरः स्तुवन्ति ॥ श्राद्धानीति । श्रद्धासम्बन्धीनि श्राद्धानि । स्वधापिण्डावापादीनि अधि अधिकृत्य बुभुजे भुक्तवान् । युष्मदाज्ञया चेद्ग्रहणं कोऽपराधस्तस्य कोपरोध एव विहित इत्यत आहुः ॥ प्रसभमिति । बलात्कारेण । तानि यौष्माकीणानि कथमित्यतः कथयन्ति । नोऽस्माकं तनूजैस्तनूभ्यो जायन्त इति ते तथा तैर्दत्तानीति । तीर्थसमये भागीरथ्याद्युत्तमतीर्थलाभकाले दत्तानीति दत्तं सदन्वेति । न उद्दिश्य दत्तं तिलाम्बु तिलोदकं चापिबत्पीतवान् । तीर्थसमयेषु तिलाम्बुमन्तीति क्वचित्पाठः । तत्र श्राद्धविशेषणं तिलाम्बुमन्तीति । बुभुजे पीतवानित्यर्थः । तिलान्सहाद्भिरिति पाठोऽप्यतुलः । स्फुटार्थः । तस्य बलादस्मच्छ्राद्धहर्तुर्नख-विदीर्णवपात् । नखैर्विदीर्णा । वपा वसेत्यमरः । वसा मांसस्नेहो यस्य तस्मादुदरात् । ल्यब्लोपनिमित्ता चेयं पञ्चमी । विदीर्णवपोदरं विधाय । तानि योऽस्मानार्च्छत् । अन्तर्णीतण्यर्थोऽयमृच्छिः । प्रापयामास । निरुपद्रवेणास्मदुपयुक्तानि कृतवानिति यावत् । तस्मै अखिलधर्मगोप्त्ते । अनेन नास्माक-मेवोपकारः किन्तु सर्वेषामप्यनेनावतारेण स्वस्वधर्मावाप्तिरिति सूच्यते । अखिलधर्मान् गोप्ता उदितो वेत्युक्तेरयमनिट्कोऽपि । तस्मै भगवते नम इत्यन्वयः ॥ ४५ ॥
मन्दनन्दिनी
नस्तनूजैस्तीर्थसमये दत्तानि तिलाम्बुमन्ति श्राद्धानि कव्यान्नानि यः प्रसभं बुभुजे । तानि नखविदीर्णवपात् । वपा नाम हृदयगतान्त्रविशेषः । तस्योदरादार्च्छत्प्रापितवान् । यो भवान् । तस्मै अखिलधर्मगोप्त्रेऽखिलधर्ममर्यादासंरक्षकाय भगवते नम इति योजना ॥ ४५ ॥
सिद्धा ऊचुः–
यो नो गतिं योगसिद्धामसाधुरहार्षीद् योगतपोबलेन ।
नानादर्पं तं नखैर्विर्ददार तस्मै तुभ्यं प्रणताः स्मो नृसिंह ॥ ४६ ॥
पदरत्नावली
योगसिद्धाम् अणिमाद्यष्ठैश्वर्यलक्षणां गतिम् । योगः पवनविजयः । तपः कायक्लेशलक्षणं तयोर्बलेन । नानाविधो दर्पो यस्य स तथा ॥ ४६ ॥
सत्यधर्मीया
योऽसाधुर्नो योगसिद्धामणिमादियोगलब्धां गतिमन्तर्धानानन्तर्धानादिरूपिणीम् । योगतपोबलेन योगः पवनजयादिस्तपः कायक्लेशादिकं तयोर्बलेन सामर्थ्येनाहार्षीदपहृतवान् तं नाना-दर्पम् । प्रयोजकानां बाहुविध्याद्दर्पा अपि बहुविधा इति नाना दर्पा यस्य तमित्युपपद्यते । नखैर्यो विददार तस्मै । विदारणस्य पारोक्ष्यात्तस्मा इत्युक्तिरिदानीमपरोक्षीकृतत्वात्तुभ्यमित्युक्तिश्च सम्भवत इति मन्तव्यम् । हे नारसिंह तुभ्यं तस्मै । तुभ्यमिव तुभ्यं नताः स्मः । त्वामनुकूलयितुं कृतनमस्कारा इत्यर्थः । क्रियार्थोपपदस्येति नमस्कुर्मो नृसिंहायेतिवच्चतुर्थी ॥ ४६ ॥
विद्याधरा ऊचुः–
विद्यां पृथग्धारणयाऽनुरुद्धां न्यषेधदज्ञो बलवीर्यदृप्तः१ ।
स येन सङ्ख्ये पशुवद्धतस्तं महानृसिंहं प्रणताः स्म नित्यम् ॥ ४७ ॥
पदरत्नावली
पृथक्जगद्विलक्षणस्य हरेर्धारणया अखण्डोपासनया अनुरुद्धां लब्धां विद्या-मन्तर्धानलक्षणाम् ॥ ४७ ॥
सत्यधर्मीया
पृथग्धारणया तत्तद्भिन्नोपासनयाऽनुरुद्धां तत्तद्योग्यतामनुरुध्य लब्धां विद्यामन्त-र्धानान्तर्हितपरिज्ञानादिरूपिणीं यो न्यषेधन् निषेधितवान् । तत्र हेतुरज्ञो बलवीर्यदृप्त इति । सः । येन त्वया संख्ये युद्धे । सङ्ख्यं समितिसङ्ख्या स्यादिति विश्वः । पशुवत् पशुरिव । अथवा पशुना तुल्यं हत इति पशुवत् । तेन तुल्यं क्रिया चेद्वतिरिति वतिः । उदाहरणं ब्राह्मणवदधीते क्षत्रिय इति । तं महानृसिंहं नित्यमविनाशिनम् । नित्यं सन्ततमिति क्रियाविशेषणं वा । प्रणताः स्मः ॥ ४७ ॥
नागा ऊचुः –
येन पापेन रत्नानि स्त्रीरत्नानि हृतानि नः ।
तद्वक्षः पाटनेनासां दत्तानन्द नमोऽस्तु ते ॥ ४८ ॥
पदरत्नावली
आसां स्त्रीणामर्थे दत्तानन्द ॥ ४८ ॥
सत्यधर्मीया
येन पापेन नो रत्नानि फणागणस्थानि तथा स्त्रीरत्नानि स्त्रीषु मुख्याः स्त्रीरत्नानि हृतानि । ततो वयं हृतानिनः, हृताश्च ते नाश्च ते संत्येषामिति गतासव इत्यावृत्तस्यार्थः । तद्वक्षःपाटनेन तस्य वक्षस उरसः पाटनेन दारणेन नोऽस्माकमासां च तन्निगृहीतानां च दत्तानन्द ते नमोऽस्तु । अस्मद्दत्तानन्द इत्यपि पठन्ति ॥ ४८ ॥
मनव ऊचुः –
मनवो वयं तव निदेशकारिणो दितिजेन देव परिभूतसेतवः ।
भवता खलः स उपसंहृतः प्रभो करवाम ते किमनुशाधि किङ्करान् ॥ ४९ ॥
पदरत्नावली
निदेशकारिण आज्ञाकारिणः ॥ ४९ ॥
सत्यधर्मीया
मनवोऽपि दानवे निहते स्वस्वकार्याज्ञां प्रार्थयन्ते ॥ मनव इति । वयं तव निदेशकारिणो निदेशं शासनं कुर्वन्ति ते तथा । णिनिः । निदेशः शासनोपान्तभाषणेष्विति विश्वः । हे देव येन दितिजेन परिभूतस् तिरस्कृतः (परिस्यूतः) सेतुस्त्वया क्लृप्ता मर्यादा । त्वमेतत्काले वर्तस्व त्वमेवमिति सा एषां ते तथा । करिष्याम्यहमेवमिति वरणं वा । सेतुरालौ च वरण इति विश्वः । स खलः क्रूरो नीचो वा । क्रूरे नीचेऽधमे खल इति विश्वः । भवतोपसंहृतः । अत आज्ञावज्ञाकारिमारणे प्रतिबन्धकाभावात् । प्रभो ते किं करवाम । किङ्करान्भृत्याननुशाधि शिक्षय ॥ ४९ ॥
प्रजापतय ऊचुः –
प्रजेशा वयं ते परेशाभिसृष्टा न येन प्रजा वै सृजामो निषिद्धाः ।
स एष त्वया भिन्नवक्षास्तु शेते जगन्मङ्गलं सत्वमूर्तेऽवतारः ॥ ५० ॥
पदरत्नावली
हे परेश त्वया अभिसृष्टा येन दैत्येन निषिद्धा वयं प्रजा न सृजामो वै । स दैत्यस् त्वयैव तु इदानीं भिन्नवक्षाः शेते । तथाऽयमवतारो जगन्मङ्गलं जगति शुभसारभूतः । जगतो मङ्गलमुद्दिश्य गृहीतो वा ॥ ५० ॥
सत्यधर्मीया
हे परेश । वयं ते त्वया प्रजेशा इत्यभिसृष्टा उत्पादिताः । प्रजासर्जनार्थमस्म-त्सर्जनं त्वयाऽकारीति भावः । येन निषिद्धाः प्रजा न सृजामः । वै प्रसिद्धमेतदित्याहुः । नन्वन्यायेन प्रजासर्जनं वर्जयितुः किं दौर्जन्यं तस्येत्यतोऽप्याहुः । नयेन नीत्या प्रजाः सृजामो वै । तादृशा अपि निषिद्धा येनेति । स भिन्नवक्षा भिन्नं विदीर्णं वक्षो यस्यासौ स तथा शेते । सन्देहो नास्तीति तुना द्योत्यते । हे सत्त्वमूर्ते बलज्ञानात्मकाकृते । अनेन नायं कोपः स्वरूपभूतः किन्तु तात्कालिक इति सूच्यते । ते एषोऽवतारो जगन्मङ्गलं जगतो मङ्गलं श्रेयः शुभं वा उद्दिश्य कृत इति वा । जगतां मङ्गलं तदात्मक इति वाऽर्थः । मङ्गलं श्रेयसीति विश्वः । मगि सर्पणे । मङ्गति मंग्यते वा मङ्गलम् । मङ्गेरलच् । कल्याणं मङ्गलं शुभमित्यमरः ॥ ५० ॥
गन्धर्वा ऊचुः –
वयं विभो ते नटनाट्यगायका येनात्मसाद् वीर्यबलौजसा कृताः ।
स एष नीतो भवता दशामिमां किमुत्पथस्थः कुशलाय कल्पते ॥ ५१ ॥
तात्पर्यम्
नटनं तु कथाबन्धो१ नाट्यकं भावदर्शनम्’ इति गान्धर्वे ॥ ५१ ॥
॥ इति श्रीमद्भागवते सप्तमस्कन्धतात्पर्ये अष्टमोऽध्यायः ॥ ८ ॥
पदरत्नावली
नटो नटनं कथाबन्धवचनम् । नाट्यं शृृङ्गारादिभावदर्शनम् । एतयोर्गायकाः । एतदुक्तम्– ‘नटनं तु कथाबन्धं नाट्यकं भावदर्शनम्’ इति । वीर्यबलौजसा येन आत्मसाद् आत्मधीनाः कृताः कल्पते समर्थो भवति ॥ ५१ ॥
सत्यधर्मीया
वयं विभो ते नटनाट्यगायका इति श्लोके नटनाट्यपदयोरर्थाप्रतीतेः प्रमाणेन तदर्थभेदमाह । नटनमिति ॥ नटनं तु कथाबन्ध आहुरिति शेषः । नाट्यकं भावदर्शनम् । अभिनयदर्शकमित्यर्थः । गान्धर्वे तच्छास्त्रे ॥ सम्बन्धमनुवर्तत इति भाष्यप्रयोगान्नपुंसकता वा । अथ मूलार्थः ॥ विभो त इत्यत्र सामन्त्रितमिति विभो इत्यस्यामन्त्रितसंज्ञायामामन्त्रितमित्यविद्यमानवद्भावे चापदात्परत्वात्कथं त इत्यादेश इति चेन् न । वयमित्येतत्पदात्परत्वात्तदुपपत्तेः । त इत्यव्ययं वा । नटाः कथाप्रबन्धनिबन्धकाः । नाट््यमभिनयो येषां दर्शनीयत्वेनास्ति ते नाट््याः । अर्श आद्यच् । गायकाः पररचितगद्यपद्यगानकर्तारश्च । वीर्यबलौजसा वीर्यं चास्त्रशस्त्रादिजन्यं बलं च शारीरसामर्थ्यम् । एताभ्यां सहितं च तदोजोऽवष्ठम्भस्तेन करणेन । येन कर्त्रा । आत्मसात्स्वाधीनाः कृताः । त्वत्स्तुत्यादिनिरसनेन स्वस्तुत्यादिकर्तॄन् अकृतेति भावः । स एष भवता इमां चरमां दशां नीतः प्रापितः । सामान्यार्थान्तरमीरयन्ति ॥ किमिति । उद्गतः पन्था उत्पथः । तत्र प्रतिष्ठतीत्युत्पथस्थः । जनः कुशलाय मोक्षाय कल्पते समर्थो भवति किं नेत्यर्थः ॥ ५१ ॥
मन्दनन्दिनी
हे विभो स्वामिन् । ते नटनाट्यगायकाः । नटो नटनं त्वत्कथानुबद्धवचनम् । नाट्यं त्वच्छृङ्गारादिप्रभावदर्शकवचनम् । एतदुक्तं तात्पर्ये ॥ ‘‘नटनं तु कथाबद्धं नाट्यकं भावदर्शनम्’’ इति । गन्धर्वा ऊचुरिति । तयोर्गायका गीतविशेषयुक्तास्तया पाठका येन वीर्यबलौजसा पराक्रमदेह-बलावष्ठम्भनशक्त्या । आत्मसात्कृतः स्वाधीनकृतः । स एवेत्यादि योजना । विशेषत उक्तं सामान्ये-नाह ॥ किमिति । उत्पथस्थो दुर्मार्गस्थः ॥ ५१ ॥
चारणा ऊचुः —
हरे तवाङ्घ्रिपङ्कजं भवापवर्गमाश्रिताः ।
य एष साधुहृच्छ्रयस्त्वयाऽसुरः समापितः ॥ ५२ ॥
पदरत्नावली
साधून् हरन्तीति साधुहृतः सज्जनारयः । तेषां श्रय आश्रयः । साधूनां हृदयं श्रयति तापदत्वेनेति वा । समापितः विनाशं गमितः । भवस्यापवर्गो त्यागो यस्मात् तत् तथा तत् । भवात् संसारान् मोक्षो यस्मात् तत् तथेति वा ॥ ५२ ॥
सत्यधर्मीया
हे हरे । तवाङ्घ्रिपङ्कजं पादकमलं भवापवर्गं भवस्य संसारस्यापवर्गस्त्यागो यस्मात्तत् । अपवर्गस्त्यागमोक्षयोरिति विश्वः । वयं साध्वाश्रिता इति हृच्छ्रयः, हृदस्मद्धृदयं श्रयत इति स तथा । हृदेव श्रय आश्रयो यस्येति स तथा वा । स एषोऽसुरस्त्वया समापितो नाशितः । अंघ्रिपङ्कजं भव आपवर्गमिति वा पदानि । आ सम्यगपवर्गो मोक्षो यस्मात्तत् । आश्रिताः । असुरः समापित इति त्वं हृच्छ्रयोऽस्मद्धृदयाश्रितो भवेत्यर्थः । असाधारण्येन साधुहृच्छ्रय इति वा ॥ ५२ ॥
मन्दनन्दिनी
साधुहृच्छ्रयः साधून्हरन्ति संहरन्तीति साधुहृतो दैत्यास्तेषामाश्रयः । स एष हिरण्यकशिपुः । भवापवर्गं भवस्य । भवाद्वा । त्यागो मोक्षो वा यस्मात्तत् ॥ ५२ ॥
यक्षा ऊचुः–
वयमनुचरमुख्याः कर्मभिस्ते मनोज्ञै
स्त इह दितिसुतेन प्रापिता वाहकत्वम् ।
अनुजनपरितापं तत्कृतं जानता ते
नरहर उपनीतः पञ्चतां पञ्चविंश ॥ ५३ ॥
पदरत्नावली
पञ्चतां विनाशम् । हे पञ्चविंश, चतुर्विंशनां मध्य इति शेषः ॥ ५३ ॥
सत्यधर्मीया
हे पञ्चविंश, अष्टौ प्रकृतय इत्यादिनोक्तचतुर्विंशतितत्वातिरिक्तत्वात्तत्संख्यात्वेन जीवसहिततन्निविष्टत्वेन वा पञ्चविंशस्तत्सम्बुद्धिः । हे नरहरे । वयं तव मनोज्ञैः कर्मभिः । गाढभार-वोढृत्वादिभिः । अनुचरमुख्याश्चरेषु मुख्याश्चरमुख्यास्तेभ्योऽनु हीना इत्यनुचरमुख्या इत्युक्तिः । अनु हीने सहार्थे च पश्चात्सादृश्ययोरन्विति विश्वः । अनुचरा ब्रह्माद्या मुख्या एषां त इति वा । पक्षद्वन्द्वेऽपि नात्युक्तिरिति ज्ञेयम् । स्वावराणां वाऽनुचरपदेन ग्रहणमिति तन्मुख्यत्वोपपत्तिर्वा । ते वयमिह दितिसुतेन वाहकत्वं प्रापिताः । दिष्ट्येति शेषः । तत्कृतं तेन कृतमेदद्रूपम् । अनुजनपरितापम् अनुजनानां दासानां परितापं जानता ते त्वया पञ्चतां मृतिमुपनीतः प्रापितः । ‘पञ्चता पञ्चभावे स्यात्पञ्चता मरणेऽपि चे’ति विश्वः, ‘स्यात्पञ्चता कालधर्मः’ इत्यमरः ॥ ५३ ॥
मन्दनन्दिनी
पञ्चविंशश्चतुर्विंशतितत्त्वानि भगवांश्चेति पञ्चविंशतिः । तथा च पञ्चविंशति-संख्यापूरकः । नृहरे । ते मनोज्ञैः कर्मभिरान्दोलिकावाहनादिभिरनुचरमुख्या वयं ते तादृशाः । वयं दितिसुतेन वाहकत्वं प्रापिताः । एवं तत्कृतं ते तवानुजनपरितापं जानता त्वया सः पञ्चतां मृतिम् । उपयात इति योजना ॥ ५३ ॥
किंपुरुषा ऊचुः –
वयं किम्पुरुषास्त्वं तु महापुरुष ईश्वरः ।
अयं कापुरुषो१ नष्टो धिक्कृतः साधुभिर्यतः ॥ ५४ ॥
पदरत्नावली
किम्पुरुषाः पुरुषाभासाः ॥ ५४ ॥
सत्यधर्मीया
वयं किंपुरुषास्तज्जातयः । किमु क्षेप इति समासः । किंपुरुषस्तुरङ्गवदनो मयुरित्यमरः । त्वन्तु महापुरुषः । तत्र तन्त्रमीश्वरो लक्ष्मीपतिरिति । यतः साधुभिर्धिक्कृतस्ततोऽयं कापुरुषः कुत्सितः पुरुषः । कुपुरुष इत्यपि साधुः पाठः । विभाषा पुरुष इति कादेशस्य वैकल्पिकत्वोक्तेः । नष्टो नाशितः ॥ ५४ ॥
मन्दनन्दिनी
किंपुरुषाः किंपुरुषजातीयाः । ईश्वर इति महापुरुषत्वोपपादनम् । कुपुरुषत्वोप-पादनं धिक्कृत इत्यादि ॥ ५४ ॥
वेताला ऊचुः –
सभासु सत्रेषु तवामलं यशो गीत्वा सपर्यां महतीं लभामहे ।
यस्तान् व्यनैषीद् भृशमेष१ दुर्जनो दिष्ट्या हतस्ते भगवन् यथाऽऽमयः ॥ ५५ ॥
पदरत्नावली
सत्रेषु सभासु । सत्रकारिणः दिष्ट्या सुखं कर्तुम् ॥ ५५ ॥
सत्यधर्मीया
सभासु राजधानीषु सत्रेषु क्रतुषु सत्तम भगवन् तवामलं निर्दुष्टं यशो गीत्वा प्रगाय महतीं सपर्यां पूजां लभामहे । यस् तां पूजां स्वयं व्यनैषीत्स्वविषयत्वेन नीतवान् । यथाऽऽमयो रोगस्तथा दुर्जनः पीडाकारी एष ते त्वया हतो दिष्ट्या भद्रम् ॥ ५५ ॥
मन्दनन्दिनी
सभासु राजसभासु । सत्रेषु बहुभिः कर्तृभिरनुष्ठीयमानेषु यज्ञेषु सपर्यां पूजाम् । तांस्तादृशान् अस्मान् व्यसनेषु दुःखेषु । भृशमेष इत्यपि पाठः । ते दृष्ट्या त्वदनुग्रहेण । आमयो रोगः
॥ ५५ ॥
किन्नरा ऊचुः–
वयमीश किन्नरगणास्तवानुगा दितिजेन विष्टिममुनाऽनुकारिताः ।
भवता हरे सवृजिनोऽप सादितो२ नरसिंह नाथ विभवाय नो भव ॥ ५६ ॥
पदरत्नावली
वेतनहीनतया क्रियमाणं कर्म विष्टिम् । वृजिनं दुःखं करोतीति वृजिनः । कर्त्रर्थः प्रत्ययो ऽपसादितो ऽपहस्य नाशितः । विभवाय संसारान्मुक्तये ॥ ५६ ॥
सत्यधर्मीया
ईश । वयं तवानुगा दासाः किन्नरगणाः किंपुरुषवत्किन्नराः । अमुना दितिजेन विष्टिं निर्वेतनं कर्म । विष्टिः कर्मकरे भद्रे प्रेषणे वेतनेऽपि चेति विश्वः । कारिताः । अप पालकरहित हरे हे नरसिंह । नाथ स्वामिन् । सवृजिन एतदादिपातकसहितो भवता सादितः सूदितः । स त्वं नो विभवाय मङ्गलाय । विरुद्धो भवेन संसारेणेति विभवो मोक्षस्तस्मै भव । विभवायनो मङ्गलाश्रयो मुक्त्याश्रयो वा भवेति वा ॥ ५६ ॥
मन्दनन्दिनी
विष्टिं वेतनम् । हीनतया बलात्कारकृतकार्यम् । सवृजिनः सपापः । कलुषं वृजिनैनोघमंहो दुरितदुष्कृतमित्यमरः । अपसादितो मारितः ॥ ५६ ॥
विष्णुपार्षदा ऊचुः –
औतद्धरिनररूपमद्भुतं ते दृष्टं नः शरणद सर्वलोकशर्म ।
सोऽयं ते विधिकर ईश विप्रशापात्तस्येदं निधनमनुग्रहाय विद्मः ॥ ५७ ॥
॥ इति श्रीमद्भागवते सप्तमस्कन्धेऽष्टमोऽध्यायः ॥
पदरत्नावली
हरिनरयोः सिंहनरयो रूपम् । विधिकरो भृत्यः । किम् ? विप्रशापाद-सुरयोनिमाप्तस्य ॥ ५७ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
सप्तमस्कन्धे अष्टमोऽध्यायः ॥
सत्यधर्मीया
स्वकूटे घटितस्य शरीरवियोगो गुणायैवेति वदन्ति ॥ ओति ॥ हे शरणद । हे सर्वलोकशर्म सर्वलोकस्य शर्म सुखं यस्मात्तद्धरिनररूपं सिंहनरसमाहाररूपम् । अद्भुतम् । अद्य नोऽस्माभिर्द्दष्टम् । यन्निमित्तं सृष्टं सोऽयं ते विधिकर आज्ञाकृत् । विप्रशापात्तस्येति पदमेकम् । विप्रशाप आत्तः सम्पादितो येन स तथा तस्येदं निधनम् । अनुग्रहाय । असुरसहवासनिरसनेन त्वत्सन्निधि-निवासघटनेनानुग्रहार्थमेव विद्मः । विप्रशापाद्धेतोस्तस्य धरां प्रत्यागतस्येति वा । तकारश्चागते चोर इत्येकाक्षररत्नमाला । निधनमनुग्रहायेति प्रहर्षणीयं विद्म इति वा ॥ ५७ ॥
॥ इति श्रीसत्यधर्मतीर्थकृतायां श्रीमद्भागवतविवृतौ
सप्तमस्कन्धे अष्टमोध्यायः ॥
मन्दनन्दिनी
हरिनररूपं नृसिंहरूपम् । शरणद रक्षकतया तत्प्रद । शर्म सुखकारण । अयं हिरण्यकशिपुस्ते विधिकरोऽस्मद्वद्भृत्यः । अयं को यो विप्रशापादसुराविष्टो दैत्यो हिरण्यकशिपुः स इति योजना ॥ ५७ ॥
**॥ इति श्रीभागवतटिप्पण्यां व्यासतत्वज्ञकृतायां मन्दनन्दिन्यां **
सप्तमस्कन्धे अष्टमोऽध्यायः ॥