०७ सप्तमोऽध्यायः

एवं दैत्यसुतैः पृष्टो महाभागवतोऽसुरः

॥ अथ सप्तमोऽध्यायः ॥

नारद उवाच–

एवं दैत्यसुतैः पृष्टो महाभागवतोऽसुरः ।

उवाच स्मयमानस्तान् स्मरन् मदनुशासनम्१ ॥ १ ॥

पदरत्नावली

श्रुतेषु सत्सु साधकानां भक्तेरेव प्राधान्यम् । हरेर्मुख्यप्रसादजनकत्वाद् भक्तिरेव पुरुषेणापाद्येत्यादिकं निरूप्यतेऽस्मिन्नध्याये । भक्तिप्रतिपादनात्मकत्वादस्य शास्त्रस्य पुनःपुनस्तत्प्रति-पादनान्न पुनरुक्तिशङ्का कार्या । तत्र दैत्यपुत्रैः पृष्टः प्रह्लादः किं चकारेति युधिष्ठिरः शङ्कान्वितस् तां परिहरन् नारद आह– नारद इति ॥ नारदस्य ममानुशासनम् ॥ १ ॥

सत्यधर्मीया

भागवती भक्तिरेव तत्प्रसादसाधनमतः सैव सम्पाद्याऽधिकारिणेति बहुना ग्रन्थेन द्रढयितुं निरूप्यतेऽत्राध्याये । तत्र दैत्यपुत्रपृष्टः किमकरोत्प्रह्लाद इति युधिष्ठिरमानसीं शङ्कां विध्यङ्कजः परिहरन्नाह । नारद इति ॥ तान्बालान् । मदनुशासनं ममानुशासनं स्मरन्स्मयमानः संश्चासुर उवाच

॥ १ ॥

मन्दनन्दिनी

साधनेषु भक्तेरेव प्राधान्यात्सैव निरूप्यतेऽस्मिन्नध्याये । प्रह्लादः किमाहेत्यत आह । एवमिति ॥ मदनुभाषितं नारदानुभाषितम् ॥ १ ॥

प्रह्लाद उवाच–

पितरि प्रस्थितेऽस्माकं तपसे मन्दराचलम् ।

युद्धोद्योगं परं चक्रुर्विबुधा दानवान् प्रति ॥ २ ॥

सत्यधर्मीया

अस्माकम् । अस्मदो द्वयोश्चेति बहुवचनम् । पितरि तपसे तदर्थम् । मन्दराचलं प्रति प्रस्थिते सति । तत्काले नागच्छन्तं मत्वा विबुधा देवा दानवान् प्रति परं पूर्ववैरस्मृतिसहिततया

॥ २ ॥

मन्दनन्दिनी

प्रस्थिते गते । परमतिशयितम् ॥ २ ॥

पिपीलिकैरहिरिव दिष्ट्या लोकोपतापनः ।

पापेन पापोऽभक्षीति वादिनो वासवादयः ॥ ३ ॥

पदरत्नावली

अहिः सर्पः पिपीलिकैर्यथा भक्ष्यते तथा लोकोपतापनः पापो हिरण्यकशिपुः स्वपापेन अभक्षि नष्टप्रायोऽभूत्, दिष्ट्या सुखमस्तु लोकायेति ब्रुवाणाः । ‘दिष्ट्याशमुपतोषं च’ इत्यमरः ॥ ३ ॥

सत्यधर्मीया

अहिः सर्पः पिपीलिकैः पिपीलिकाभिः । शनैर्याति पिपीलिक इति प्रयोगात् पुंस्त्वमपीति स्वामीति भानुः । यथा भक्ष्यते तथा लोकोपतापनो लोकोपद्रवकृत् पापः पापी स्वपापे-नैवाभक्षि भक्षित इति वादिनो वासवादयो विबुधा युद्धोद्योगं परमत्यन्तमिति वा चक्रुरित्यन्वयः । दिष्ठ्या सुखमस्तु । दिष्ट्या शमुपजोषं च’’ इत्यमरः ॥ ३ ॥

मन्दनन्दिनी

पिपीलकैरहिर्यथा भक्ष्यते तथा लोकोपतापनः पापो हिरण्यकशिपुर्लोकस्य दिष्ट्या सुखकारणेन पुण्येन स्वपापेन चाभक्षि भक्षितः । नष्ट इति यावत् । इति वादिनो वासवादयो युद्धोद्योगं चक्रुरिति योजना । दिष्ट्या समुपजोषं च’’ इत्यमरः ॥ ३ ॥

तेषामतिबलोद्योगं निशम्यासुरयूथपाः ।

वध्यमानाः सुरैर्भीता दुद्रुवुः सर्वतो दिशम् ॥ ४ ॥

सत्यधर्मीया

तेषामनिमिषाणाम् । भीतास्तेभ्यः ॥ ४ ॥

मन्दनन्दिनी

सर्वतो दिशं सर्वा दिशः ॥ ४ ॥

कलत्रपुत्रवित्ताप्तान् गृहान् पशुपरिच्छदान् ।

नावेक्षमाणास्त्वरिताः सर्वे प्राणपरीप्सवः ॥ ५ ॥

सत्यधर्मीया

प्राणपरीप्सवः प्राणानिच्छन्तः ॥ ५ ॥

मन्दनन्दिनी

पशुपरिच्छदान् पशुबन्धनगृहान् । नावेक्षमाण इति नसमासः ॥ ५ ॥

व्यलुम्पन् राजशिबिरममरा जयकाशिनः ।

इन्द्रस्तु राजमहिषीं मातरं मम चाग्रहीत् ॥ ६ ॥

पदरत्नावली

व्यलुम्पन् । जयकाशिनः जितयुद्धाः, असुरजयेन प्रकाशमाना वा ॥ ६ ॥

सत्यधर्मीया

अमरा जयकाशिनो जयेन काशन्त इति ते तथा । जयसम्बन्धिनः, काशास्तृण-विशेषा येषां सन्ति ते तथा वा । राजशिबिरं व्यलुम्पन् लुलुपुः । नाशितवन्तः । मम मातरं कयाधूम्

॥ ६ ॥

मन्दनन्दिनी

राजशिबिरं राजगृहं व्यलुम्पन्नाशितवन्तः । जयकाशिनो जयकाङ्क्षिणो जयेन प्रकाशमाना वा ॥ ६ ॥

नीयमानां भयोद्विग्नां रुदन्तीं कुररीमिव ।

यदृच्छयाऽऽगतस्तत्र देवर्षिर्ददृशे पथि ॥ ७ ॥

सत्यधर्मीया

भयोद्विग्नां भीतिहेतुत्रस्तां यदृच्छया हरीच्छया देवर्षिर्नारदः पथि नीयमानां कुररीमिव रुदन्तीं ददृशेऽपश्यत् ॥ ७ ॥

मन्दनन्दिनी

भयोद्विग्नां भयकम्पिताम् ॥ ७ ॥

प्राह मैनां सुरपते नेतुमर्हस्यनागसीम् ।

मुञ्च मुञ्च महाभाग सतीं परपरिग्रहम् ॥ ८ ॥

पदरत्नावली

तवोपभोक्तुं योग्या न भवतीत्याह– परपरिग्रहमिति ॥ ८ ॥

सत्यधर्मीया

अनागसीम् अनागसम् । आगस इयम् आगसी । सम्बन्धसामान्येऽण् । वृद्धलक्षण-स्तुछः संज्ञापूर्वकविधेरनित्यत्वात् । सा न भवतीत्यनागसी तामिति वा । स्वयं निरपराधाम् । एनाम् । तवानुपयोगिनीत्याह । परपरिग्रहं परभार्याम् । ‘‘परिग्रहः परिजने भार्यायां चे’’ति विश्वः । तत्रापि सतीं पतिव्रतामिति । नेतुम् । माऽयम् । माऽर्हसि न योग्यो भवसि । मुञ्च मुञ्च ॥ ८ ॥

मन्दनन्दिनी

परपरिग्रहं परस्त्रियम् ॥ ८ ॥

इन्द्र उवाच–

आस्तेऽस्या जठरे वीर्यमविषह्यं सुरद्विषः ।

आस्यतां यावत् प्रसवं मोक्ष्येऽर्थपदवीं गतः ॥ ९ ॥

पदरत्नावली

सुरद्विषः हिरण्यकशिपोः, वीर्यं रेतोलक्षणम् । अस्या यावत् प्रसवस्तावन्मम वशे आस्यताम् । पश्चादहं मोक्ष्ये । ततः पूर्वं कस्मान्न मुञ्चसीति तत्राह– अर्थपदवीमिति ॥ ९ ॥

सत्यधर्मीया

एतदत्त्यागे योगमाह ॥ आस्त इति । अस्याः कयाध्वा जठरे उदरे सुरद्विषो हिरण्यकशिपोरविषह्यं वीर्यम् आस्ते । यावत्प्रसवं प्रसवपर्यन्तम् । आस्यतां मद्वश इति शेषः । अर्थपदवीं प्रयोजनमार्गं मदभिलषितसिद्धिमिति यावत् । गतः । पुत्र एव जायत इति निष्कर्षस्तु वर्चआदिना वा ज्ञानितया वा वासवस्य वर्तत इत्यनेन ध्वन्यते । तं सुतं जातं गृहीत्वैनां मोक्ष्ये त्यक्ष्यामि ॥ ९ ॥

मन्दनन्दिनी

यावत्प्रसवमास्यतां मम निकटे । अर्थपदवीं प्रयोजनमार्गम् । एतत्प्रसूतशिशुं हत्वेति भावः ॥ ९ ॥

नारद उवाच–

अयं निष्किल्बिषः साक्षान्महाभागवतो महान् ।

न त्वया प्राप्स्यते संस्थामनन्तानुचरो बली ॥ १० ॥

पदरत्नावली

अनया प्रसूतः पुत्रो हन्तुं त्वया न शक्यत इत्याह– न त्वयेति ॥ संस्थां मरम्

॥ १० ॥

सत्यधर्मीया

वासव सत्यं भविता सुतस्तथाऽपि तदविता भगवानस्तीति न त्वया हन्तुं योग्य इति कामना तवायोग्येत्याह ॥ अयमिति । अर्थपदवीमित्यत्रार्थशब्दस्य निवृत्तिरर्थ इतीन्द्रस्य प्रायोऽभि-प्राय इति मत्वा वदति । संस्थां मृत्युं न प्राप्स्यते । संस्था स्थितौ चरे नाश इति विश्वः । तत्र निष्किल्बिष इत्यादीनि हेतुगर्भविशेषणानि ॥ १० ॥

मन्दनन्दिनी

निष्किल्बिषो निष्पापः । संस्थां हननम् । अनन्तानुचरो भगवत्सेवकः ॥ १० ॥

इत्युक्तस्तां विहायेन्द्रो देवर्षेर्मानयन् वचः ।

अनन्तप्रियभक्त्यैनां परिक्रम्य दिवं ययौ ॥ ११ ॥

पदरत्नावली

कुतोऽत्राह– अनन्तेति अनन्तप्रियः श्रीनारायणो ऽस्य भक्त्या । अनन्तस्य हरेः प्रिया बहुमानलक्षणा भक्तिर् अनन्तप्रियभक्तिः, तया वा ॥ ११ ॥

सत्यधर्मीया

इत्युक्तो नारदेनेति शेषः । देवर्षेर्वचो मानयन् । उक्तानुष्ठानेन । अनन्तप्रिय-भक्त्याऽनन्तस्य भगवतः प्रियो दासतयाऽन्तःस्थितोऽहम् । मयि भक्तिः स्नेहविशेषस्तया । एनां परिक्रम्य । इदमोऽन्वादेश इति त्यागरूपकार्यं विधातुमुपात्तायाः प्रदक्षिणरूपकार्यान्तरं प्रति पुनरुपादा-नाद् द्वितीया टौस्वेन इत्येनादेशः । अनन्तस्य शेषस्य प्रियो नारायणस्तस्मिन्भक्त्येति वा । अनन्तस्य प्रियं यया सा च सा भक्तिस्तयेति वा ॥ ११ ॥

मन्दनन्दिनी

अनन्तप्रियभक्त्याऽनन्तस्य भगवतः प्रियया भक्त्या । अनन्तप्रिये प्रह्लादे भक्त्या बहुमानेन वा । परिक्रम्य प्रदक्षणीकृत्य ॥ ११ ॥

ततो नो मातरमृषिः समानीय निजाश्रमम् ।

आश्वास्येहोष्यतां१ भद्रे२ यावत् ते भर्तुरागमः ॥ १२ ॥

पदरत्नावली

तावदत्रोष्यतामित्याह– यावदिति ॥ १२ ॥

सत्यधर्मीया

ततस्तुराषाड्गमनानन्तरम् । ऋषिर्निजाश्रमम् । नो मातरं समानीयाश्वास्य च । यावत्ते भर्तुरागमस्तावत्कालम् । इह मदाश्रमे । उष्यतामित्याहेति शेषः । आहोष्यतामिति पाठे इहेति शेषः ॥ १२ ॥

मन्दनन्दिनी

नोऽस्माकम् । उष्यतां वासः क्रियतां वेति शेषः ॥ १२ ॥

तथेत्यवात्सीद् देवर्षेरन्ति साऽप्यकुतोभया ।

यावद् दैत्यपतिर्घोरात् तपसो न न्यवर्तत ॥ १३ ॥

पदरत्नावली

अन्ति अन्तिके ॥ १३ ॥

सत्यधर्मीया

अन्ति अन्तिके अन्तिषत् । ‘‘यदन्ति यच्च दूरके’’ इत्यादेः ॥ १३ ॥

मन्दनन्दिनी

अन्ति समीपे । अकुतोभया कुतोऽपि भयरहिता ॥ १३ ॥

ऋषिं पर्यचरत् तत्र भक्त्या परमया सती ।

अन्तर्वत्नी स्वगर्भस्य क्षेमायेच्छाप्रसूतये ॥ १४ ॥

पदरत्नावली

अन्तर्वत्नी गर्भिणी ॥ १४ ॥

सत्यधर्मीया

महति कालेऽन्तर्निहितस्य गर्भस्य कथंकारमवस्थानमथवा तत्रैव प्रसवः किमिति बालशङ्कां परिहरति ॥ ऋषिमिति । अन्तर्वत्नी अन्तर्वत्पतिवतोर्नुगिति नुक् । ङीप् च परिचरण-परमोद्देश्यमाह । स्वगर्भस्य क्षेमाय इच्छाप्रसूतये यथेच्छं गर्भमोचनाय चेति ॥ १४ ॥

मन्दनन्दिनी

अन्तर्वत्नी गर्भिणी ॥ १४ ॥

ऋषिः कारुणिकस्तस्याः प्रादादुभयमीश्वरः ।

धर्मस्य तत्त्वं ज्ञानं च मामप्युद्दिश्य निर्मलम् ॥ १५ ॥

पदरत्नावली

गर्भक्षेमम् इच्छाप्रसवं चेत्युभयम् । ईश्वरो वरप्रदानसमर्थः । नारदाच्छ्रुतमित्यनेन नारदस्य यद् गुरुत्वमभिप्रेतं (तत्) एवंविधमित्याह– धर्मस्येति ॥ ‘अणुरेष धर्मः’ इति श्रुतेर् धर्मस्य हरेर् भागवतसंज्ञस्य वा, तत्त्वं तदुभयविधज्ञानं च यद् गर्भस्थं मामुद्दिश्य मात्रे उपदिष्टम्, तद्विधमित्यर्थः

॥ १५ ॥

सत्यधर्मीया

उभयं गर्भगार्भिकक्षेमम् इच्छाप्रसवश्चेत्युभयम् । धर्मस्य भगवतः । धारकत्वाद्धर्मो भगवानित्युक्त्वा पृथिवी धर्ममूर्धनीत्यादेरित्युक्तेः । भागवतस्य वा । श्रेयसस्तत्त्वं स्वरूपम् । ज्ञानं भगवद्भागवतज्ञानसाधनं चेत्युभयविधम् । निर्मलं मुमुक्षुयोग्यतया । मां मुख्यतया । अपिर्मातृ-समुच्चायकः । तां चोद्दिश्य प्रादाद्दत्तवान् । उपदिदेश च । एतत्सर्वस्यासिद्धिशङ्कापराकरणायाह ॥ ईश्वर इति । किमुपाधिना ददौ विधिज इत्यत आह ॥ कारुणिक इति ॥ १५ ॥

मन्दनन्दिनी

उभयं गर्भक्षेममिच्छाप्रसूतिम् । ईश्वरः समर्थः । धर्मस्य निवृत्तिधर्मस्य । तत्त्वं स्वरूपम् । ज्ञानं ज्ञेयम् । भगवन्तं प्रादादुपदिदेशेत्यर्थः । मातरम् । निर्मलं योग्यं गर्भस्थं मामपि । अत्रेच्छाप्रसूतेर्नारदवरत्वाद्बहुकालं तपःकरणेऽपि हिरण्यकशिपोः शिक्षाकाले प्रह्लादस्य न पञ्चाहायनत्वविरोधः ॥ १५ ॥

तत्तु कालस्य दीर्घत्वात् स्त्रीत्वान्मातुस्तिरोदधे ।

ऋषिणाऽनुगृहीतं मां नाधुनाप्यजहात् स्मृतिः ॥ १६ ॥

पदरत्नावली

तद् उभयं तयोः कालस्यातिक्रान्तत्वात् स्त्रीत्वात् शब्दादिविषयलौल्याच्च मातु-स्तिरोहितमभूदित्यन्वयः । ततस्तव किमभूदिति तत्राह– ऋषिणेति ॥ १६ ॥

सत्यधर्मीया

तद् उभयं कालस्य दीर्घत्वाद्बाहुल्यात् स्त्रीत्वाच्च मातुस्तिरोदधे तिरोहितमभूत् । ऋषिणा नारदेनानुगृहीतं मां स्मृतिर्नाजहान्न तत्याज । मम गार्भस्थादेतदसामर्थ्येऽपि तदुपदेशेन सा बलवतीति न जहौ । जहौ च मातरम् । मातरं चोद्दिश्येति कण्ठतः साक्षादनुक्तिरपिशब्देन समुच्चाय-केनाप्यान्तरङ्गिकं गर्हणमपि कटाक्षितं सम्भवतोऽनेनेति ज्ञेयम् ॥ १६ ॥

मन्दनन्दिनी

तिरोदधे विस्मृतमभूत् । नाजहान्नात्यजत् ॥ १६ ॥

भवतामपि भूयान्मे यदि श्रद्दधते वचः ।

वैशारदी धीः श्रद्धातः स्त्रीबालानां च मे यथा ॥ १७ ॥

पदरत्नावली

ततोऽस्माकं किं प्रयोजनमिति तत्राह– भवतामपीति ॥ यथा मे वैशारदी धीर् भगवद्विषयज्ञानमभूत् तत् तथा तर्हि भवतामपि भूयादित्यन्वयः । न केवलं युष्माकमेव स्त्रीणां बालानां च श्रद्धातस् तत् स्यादित्याह– श्रद्धात इति ॥ यदि स्त्रीबालानां श्रद्धा स्यात्, अतस् तर्हि तेषामिति

॥ १७ ॥

सत्यधर्मीया

किमार्द्रकवणिजो वहित्रचिन्तयेत्यस्माकं किमित्यत आह ॥ भवतामपीति । यदि भवन्तो मे मम वचः श्रद्दधते तर्हि भवतामपि वैशारदी विशारदो नारायणो नारदो वा तद्विषयिणी तदुपात्तेति वा वैशारदी धीर्भूयात् । न केवलं भवतामेव किन्तु श्रद्धातो विश्वासतो मे मम मातुश्च स्त्रिया यथा तथाऽबलानां बालानां चान्येषां वैशारदी धीर्भूयादित्यन्वयः ॥ १७ ॥

मन्दनन्दिनी

यथा मे वैशारदी धीर्भगवद्विषयिणी मतिः । तथा यदि भवन्तो मे वचः श्रद्दधते विश्वासं कुर्वन्ति । तर्हि भवतामपि भूयाद्भवेत् । एवं श्रद्धातः स्त्रीबालानां च भूयादिति योजना । श्रद्धैव सम्यग्ज्ञानोत्पत्तौ कारणमिति भावः ॥ १७ ॥

जन्माद्याः षडिमे भावा दृष्टा देहस्य नात्मनः ।

फलानामिव वृक्षस्य कालेनेश्वरमूर्तिना ॥ १८ ॥

तात्पर्यम्

‘षड्विकाराः शरीरस्य न विष्णोस्तद्गतस्य तु । तदधीनं शरीरं च ज्ञात्वा तन्ममतां त्यजेत्’ इति च ॥ हेतुत्वाद्विष्ण्वधीनत्वं शरीरस्य ॥ १८ ॥

पदरत्नावली

प्रह्लादस्तेषां स्ववचसि श्रद्धामुत्पाद्य नारदोक्तं ज्ञानमुपदिशति– जन्माद्या इति ॥ ‘जातः कंसवधार्थाय भूभारहरणाय च’ ‘जनितोत विष्णोः’ इत्यादिषु हरेर्जन्मादिकं प्रतीयते । तत्र जन्मादिमतो हरेरितरवद् दुर्भगशरीरस्थस्य तच्छरीरयोग्यभोगप्राप्त्या व्याकुलचित्तस्य सर्वसमर्पणानुगुण-फलदानं कथं घटत इत्यादिशङ्कां दैत्यपुत्रचित्तस्थां परिहरन् आह– जन्माद्या इति ॥ इमे षड्भावा जन्मास्तिवृद्धिपरिणामापक्षयविनाशाख्यविकारा देहस्य दृष्टाः प्रत्यक्षेण प्रमिताः, आत्मनो परमात्मनो न सन्तीत्यन्वयः । ‘षड्विकाराः शरीरस्य न विष्णोस्तद्गतस्य तु’ इत्यनेन निरस्तत्वात् । दृष्टा इत्युक्तं स्पष्टयति– फलानामिति ॥ वसन्ताद्यवयवविशेषेण कालेन वृक्षस्य चूतादिफलानां जन्मादिकं दृश्यते । यथा वृक्षस्य कालाधीनत्वं तथा देहस्येश्वराधीनत्वमिति ज्ञापनाय ईश्वरमूर्तिनेत्युक्तम् । देवदत्तस्य सर्वमिदं मदधीनमिति मिथ्याज्ञाननिरासायोक्तमिदं तात्पर्यमिति ज्ञातव्यम् । तदुक्तम्– ‘तदधीनं शरीरं च ज्ञात्वा तन्ममतां त्यजेत्’ इति ॥ १८ ॥

सत्यधर्मीया

जन्माद्याः षडिमे भावा इत्यादिश्लोकत्रिके इमे जन्माद्या जन्मास्तिवृद्धिपरिणामा-पक्षयविनाशाख्याः षड्विकारा देहस्य दृष्टाः । आत्मनो जीवस्य नेत्यात्मा जीवः । परैर्नित्यत्वादि-द्वादशलक्षणैर्युक्त इति विद्वान्देहदेहिस्वरूपं जानन् देहादौ मोहजमहंममेत्यतद्भावमसन्तमाग्रहं त्यजे-दित्यन्यथाप्रतीतिं प्रमाणेनैव निस्त्राणीकरोति ॥ षड्विकारा इति । विकाराः षट् तत्सङ्ख्याः पूर्व-माख्याताः शरीरस्य । तुरवधारणार्थः सञ्च्छरीरस्येत्यनेनान्वेति । अथवा तद्गतस्य जीवस्यापि पराधीन-विशेषावाप्तिरूपोत्पत्तिमत्त्वेन विकृतत्वात्तु विष्णोः षड्विकारा नैवेत्यन्वेति । ततो व्यावर्तितो जीव इति केचित् । तद्गतस्यात्मनो विष्णोस्तदधीनं शरीरं विष्ण्वधीनं ज्ञात्वा तन्ममतां तस्मिन्देहादौ ममता-मभिमानं त्यजेत् । किं तद्गतता विष्णोराभिमानिकी जीववदित्यतो न किन्तु सैतद्रूपिणीति निरूपयति ॥ हेतुत्वान्मुख्यनिमित्तकारणत्वादिति । शरीरस्य विष्ण्वधीनत्वं न तु जीववदभिमानित्वात् । अधीनपद-समस्तस्य विष्ण्वित्यस्य बुद्ध्या विविक्तस्य षष्ठ्यन्तस्य हेतुपदेनान्वयोऽथशब्दानुशासनं केषां शब्दाना-मित्यादिमहाभाष्यादिवज्ज्ञेयः ।

अथ मूलार्थः ॥ नारदोपदिष्टा का सा वैशारदी धीर्विशारद वदेति वदेयुरिति किं कालगमनेनेति स्वयमेव विश्वस्य तांस्तदुक्त्या विश्वासयति ॥ जन्माद्या इति । दृष्टा इति तत्रानुभवं प्रमाणमाचष्टे । साक्षिसिद्धा इति । जन्मादयः षट् इमे भावा विकारा देहस्य तस्यैव । आत्मन आदानादिकर्तृतया तच्छब्दवाच्यस्य विष्णोर्न । अनेन जनितोत विष्णोरित्यादिना श्रीनाथस्यापि विकारश्रुतेः सोऽप्यस्मत्तुल इति को विशेषो येनाशेषसमर्पणं तत्र कर्तव्यत्वेन पूर्वमुक्तं युक्तं स्यादिति शङ्का परास्ता वेदितव्या । तुष्यतु न्यायेन जनितेत्यादेरर्थ उक्तः । वस्तुतस्तु न तत्र विष्णुः श्रीहरिः । किंतु तदितर इति जनिर्मुख्यैव । यथोक्तं सुधायाम् । तद्विष्णुरिति यजमानस्य यज्ञस्य वा नाम । तौ सोमाद्भवत इति सोमो जनितोत विष्णोरित्युच्यत इत्यादिव्याख्येयमिति । प्रत्यक्षत्वं हरेर्जन्म, न तस्य प्राकृता मूर्तिरित्यादि-मानानुकूल्येन जनितपदार्थः प्रादुर्भावादिर्न तव दुर्भावस्तदर्थ इति वा दृष्टा इति वचसा सूचयतीति ज्ञेयम् । तत्र निदर्शनमनुरूपं निरूपयति ॥ फलानामिति । वृक्षस्य चूतादेः फलानां कालेन वसन्तादिना । अत्र जन्माद्यास्तथाऽऽत्मनः सकाशादेव देहस्य जन्माद्या इति नात्मन इत्यावृत्त्याऽन्वयो ज्ञेयः । ननु कालेनेत्युक्तेरयुक्तमनवधिस्वाम्यं भावादिकं प्रति भगवत इत्यतो सोऽपि भगवत्तन्त्र इत्याह । ईश्वरमूर्तिनेति ॥ ईश्वरस्य मूर्तिरन्तर्निहिता फलाद्युपलम्भिका यस्य तेनेश्वरमूर्तिना । ईश्वरस्य पूर्णमदः पूर्णमिदमित्याद्युक्त्या मूर्तिरेव मूर्तिर्यस्य तेन कालेन कालोऽस्मीत्याद्युक्तेस्तच्छब्दवाच्येन भगवता । इमे देहस्य षड् जन्माद्या भावा इति तेनात्मन इति वा तत्राप्यन्वयो ज्ञेयः ॥ १८ ॥

मन्दनन्दिनी

एवं पूर्ववृत्तकथनेन बालानां स्वस्मिन् श्रद्धां जनयित्वा तानुपदिशति ॥ जन्माद्या इत्यादिना ॥ देहजीवयोर्वैलक्षण्यं परमात्मनश्च ताभ्यामत्यन्तवैलक्षण्यं सर्वस्य तदधीनत्वं ज्ञात्वा देहगेहादावहंममता न कार्येत्याह श्लोकत्रयेण । दृष्टाः प्रत्यक्षसिद्धा जन्माद्याः । स्वरूपोत्पत्तिलक्षणं जन्म, कालविशेष एव वर्तमानत्वलक्षणा सत्ता । उपचयलक्षणा वृद्धिः । परिणामोऽपचयलक्षणः । क्षयो ध्वंसलक्षणो विनाशः । इमे भावा विकाराः । चूतादिवृक्षस्य फलानामिव । कालेन कालनामकेनेश्वर-मूर्तिना ईश्वर इति मूर्तिः रूपं यस्य तेन भगवता देहस्य भवन्ति । नात्मनो विष्णोरिति योजना । यद्यपि जीवस्याप्येते न सन्ति । तथाऽपि स्वातन्त्र्येणैव तदभावः परमात्मनो भगवदिच्छया तु जीवस्यापीति ज्ञेयम् । अनेन विकाराणां देहनिष्ठत्वं न जीवनिष्ठत्वं सर्वस्य विष्ण्वधीनत्वं चोक्तं भवति ॥ १८ ॥

आत्मा नित्योऽव्ययः शुद्ध एकः क्षेत्रज्ञ आश्रयः ।

अविक्रियः स्वदृग् वश्यो१ व्यापकोऽसङ्ग्यनावृतः ॥ १९ ॥

पदरत्नावली

‘क्षेत्रज्ञः पुरुष आत्मा संसारी चेतनो मतः’ इत्युक्तेर् आत्मा जीवः किं न स्यादित्यतस्तन्निवर्तकलक्षणमाह– आत्मेति ॥ परैर् अव्याप्त्यादिदोषरहितैरेतैर्द्वादशभिर् आत्मनो हरेर् लक्षणैः स्वरूपभूतैः (हरिः) उपेत इति विद्वान् अहं ममेत्यतद्भावम् अतत्त्वं मोहजम् अज्ञानजं देहादौ त्यजेदित्यन्वयः । नित्यः स्वरूपतो विनाशरहितः । अवयवादिव्ययो नास्तीत्यन्वयः । प्रकृतिनिर्मित-शरीरासत्वेनाविद्यारागादिदोषविधुरत्वात् शुद्धः । एको मुख्यः । मुख्यत्वं हरेरेव । स्वरूपज्ञानेन क्षेत्राख्यशरीरज्ञातृत्वात् स क्षेत्रज्ञः । आश्रय उपजीव्यः । अविक्रियः स्वतः परतो वा परिणाम-रहितः । स्वम् आत्मानं स्वयमेव द्रक्ष्यति पश्यतीति स्वदृक् । ‘तद् ब्रह्मावेदहं ब्रह्मास्मि’ इति श्रुतिः । वश्यो ऽपराधीनः । स्वतन्त्र इति यावत् । वशं यापयति सर्वमिति वा । व्यापकः, अन्तर्बहिरिति शेषः । ‘आकाशो नीलिमोदेति’ इति श्रुतेर् भूताकाशस्य परिच्छिन्नत्वात्, अव्याकृतस्य चित्प्रकृत्यात्म-कत्वेन भगवदनुगृहीतत्वेन तस्य व्यापकत्वमुपचरितमनेनेति भवत्येव व्यापकः । अप्राकृतत्वाद् असङ्गी । ‘असङ्गो ह्ययं पुरुषः’ इति श्रुतेः । अनावृतो ऽज्ञानाद्यावरणरहित एवंविधलक्षणोपेतस्य विष्णोः सर्व-हेतुत्वात्, शरीरस्य तदधीनत्वेन तस्मिन् देहे ममतां त्यजेदित्यर्थः ॥ १९ ॥

सत्यधर्मीया

‘‘आत्मा यत्ने धृतौ जीव’’ इत्यात्मशब्दो जीवे वर्ततेऽतः कथं तेन वासुदेव-मात्रग्रह इत्यतः श्रुतिवैभवादनेकानि लक्षणान्यात्मेति लक्ष्यमुद्दिश्याह ॥ आत्मा नित्य इत्यादिना । नित्यः । ‘‘नित्यो नित्यानाम्’’ । ‘‘अविनाशी वा ओ अयमात्मा’’ इति मुख्यनित्यः । अव्ययः । ‘‘परेऽव्यय’’ इत्यादेरवयवादिव्ययहीनदिव्यविग्रहः । अविः सूर्यः । ‘‘अवयः शैलमेषार्का’’ इत्यभि-धानात्तस्मिन्कृष्णावतारे गोवर्धनं वा यत इति स तथा । ‘‘शुद्धो निरञ्जन’’ इति श्रुतेः । सान्तत्वसाति-शयत्वादिरहित इति वा । एको मुख्यः । एकमेवाद्वितीयम् । एको नारायण आसीदित्यादेः । यद्वा । करोतीति क एकत्वाद् ए । अव्ययत्वाद्विभक्तिलोपः । स चासौ कश्चेत्येकः । यथोक्तं गीता-तात्पर्यन्यायदीपिकयोः । एकः सर्वोत्तमोऽप्यसत्कृतः । ‘‘एकः सर्वाधिको ज्ञेय एक एव करोति यत्’’ । एकशब्दः कथं सर्वोत्तमवाचीत्यत आह ॥ एक इति । एकत्वादे करोतीति क इत्यर्थः । अन्यनिरपेक्षया कर्ता हि सर्वोत्तम इति । ‘‘क्षेत्रज्ञो भगवान्विष्णुर्न ह्यन्यः क्षेत्रमञ्जसा । वेत्त्यसौ भगवान्ज्ञेयः’’ इति गीतातात्पर्योक्तेः । क्षेत्रज्ञः क्षेत्रं शरीरादिकं जानातीति स तथा । ‘‘क्षेत्रज्ञं चापि मां विद्धी’’त्यादेः । आश्रयः सर्वोपजीव्यः । ‘‘यस्मिन्निदं सं च विचैधि सर्वम् । यस्मिन्द्यौः पृथिवी चान्तरिक्षम’’ इत्यादेः सर्वाश्रय इति वा । ‘‘अविक्रियो निर्विकारोऽक्षरः शुद्धः’’ इत्यादेर्विकाररहितः । स्वदृक् स्वं स्वयमेव पश्यतीति स्वदृक् । ‘‘तद्ब्रह्मावेदहं ब्रह्मास्मि’’ इत्यादेः । वश्यः स्वाधीनः स्वतन्त्रः । हेतुरिति पाठे स इमाल्लोकानित्यादेः कारणमित्यर्थः । व्यापकोऽनन्याधीनव्याप्तिमान् । अनेन समनेत्युक्ते रमापि तादृशीति संशयोत्तरो ज्ञेयः । असङ्गी । ‘‘असङ्गो ह्ययं पुरुष’’ इति श्रुतेः । कर्ता सन्नपि पुण्यपापलेप-विधुरः । अनावृतोऽज्ञानाद्यावरणरहितः । अनेन मुख्यप्राणेनाप्या सम्यग्वृतः स्वामित्वेनेत्यनावृतो वा

॥ १९ ॥

मन्दनन्दिनी

परमात्मनोऽत्यन्तवैलक्षण्यं ज्ञापयितुं लक्षणान्याह ॥ आत्मेति ॥ आत्मा परमात्मा नित्यः । अनित्यत्वं देहहानिरित्याद्युक्तचतुर्विधनाशरहितः । अव्ययो नैमित्तिकनाशरहितः । शुद्धो दोषरहितः । एकः स्वतन्त्रकर्ता । एकत्वादे करोतीति क इत्यन्यत्र व्याख्यानात् । क्षेत्रज्ञः । एतत्क्षेत्रमिति प्रोक्तं तत्क्षेत्रं यच्च यादृक्चेति गीतोक्तरीत्या प्रकृत्यादिक्षेत्रज्ञः । आश्रयः सर्वोपजीव्यः । अविक्रियो विकाररहितः । स्वदृक् साकल्येन स्वस्वरूपदृक् । वश्यो वशं याति यापयतीति । सर्वस्य वशीति यावत् । सर्वस्य वशीति श्रुतेः । व्यापकोंऽतर्बहिश्च व्याप्तः । ‘‘अन्तर्बहिश्च तत्सर्वं व्याप्य’’ इति श्रुतेः । असङ्गो विषयसङ्गरहितः । अनावृतोऽज्ञानाद्यावरणरहितः । अत्र कतिपयलक्षणस्यातिव्याप्ति-शङ्काऽपराधीनत्वेन विशेषणेन परिहरणीयेति बोध्यम् ॥ १९ ॥

एतैर्द्वादशभिर्विद्वान् आत्मनो लक्षणैः परैः ।

अहं ममेत्यतद्भावं देहादौ मोहजं त्यजेत् ॥ २० ॥

सत्यधर्मीया

आत्मन एतैर्नित्यत्वादिभिर्द्वादशसङ्ख्यैः । द्वौ च दश च द्वादश । द्व्यष्टन आसङ्ख्यायामित्यात्वम् । परैरव्यभिचारिभिर्धर्मिणा परस्परं चाभिन्नत्वेन परैर्लोकविलक्षणैरिति वा । सर्वहेतुत्वतो देहस्य तदधीनत्वं विद्वान् । तदादावहंममेत्यतद्भावम् । अस्वाधीने स्वाधीनताधियम् । स कस्माज्जात इत्यत आह ॥ मोहजमिति । चित्तविकारजं त्यजेत् ॥ २० ॥

मन्दनन्दिनी

परैरुत्तमैः । अनन्यसाधारणैर्वा । देहादौ मोहजमज्ञानं लक्षणैरात्मानं विद्वान् अतद्भावमतस्मिन्नहं भूतदेहे आत्मदीये गेहादावहम्भावं मदीयभावलक्षणं भ्रमं त्यजेत् । एतत्सर्व-मभिप्रेत्योक्तं तात्पर्ये ॥ षड्विकाराः शरीरस्य न विष्णोस्तद्गतस्य तु । तदधीनं शरीरं च ज्ञात्वा तन्ममतां त्यजेदिति च१ ॥ तुशब्दात्स्वातन्त्र्यलक्षणं विशेषमाह । शरीरं चेत्यतःपरमितिशब्दोऽ-ध्याहार्यः । ममतामित्यनेन देहेऽप्यहन्ताभ्रमो नास्ति । प्राणिमात्रस्य मम देह इति भेदज्ञानात्किन्तु स्फुटविवेकाभावमात्रमहन्तेति सूचयति । जन्माद्या इति श्लोके विष्ण्वधीनत्वं न स्फुटं प्रतीयत इत्यतः कालेनेति हेतुतोक्त्या तल्लब्धमिति वाक्यरूपतात्पर्यम् ॥ हेतुत्वाद्विष्ण्वधीनत्वं शरीरस्येति ॥ २० ॥

स्वर्णं यथा ग्रावसु हेमकारः क्षेत्रेषु योगैस्तदभिज्ञ आप्नुयात् ।

क्षेत्रेषु देहेषु तथाऽऽत्मयोगैरध्यात्मविद् ब्रह्मगतिं लभेत ॥ २१ ॥

पदरत्नावली

हरेर्देहादिभ्यो विविक्तत्वेन ज्ञानोत्पत्तिप्रकारं वक्ति– हेममिति ॥ यथा हेमकारो ग्रावसु क्षेत्रेषु निकषाश्मसु स्थानेषु हेमवत्सु पाषाणेषु वा, योगैर् हेमावाप्त्युपायैः कषणाध्मानादि-परीक्षालक्षणैर् हेमं प्राप्नुयादित्यन्वयः । न सर्वस्य सुशकमित्यत उक्तम्– तदभिज्ञ इति ॥ तथा मुमुक्षुः पुरुष आत्मयोगैर् औत्पत्तिकभक्त्याद्युपायैर् देहेषु क्षेत्रेषु सम्यगालोच्य विविच्य ब्रह्मगतिं लभेत देहादिभ्यो वैलक्षण्येन ब्रह्मविषयज्ञानमाप्नोतीत्यन्वयः । कोऽसावधिकारीत्यत उक्तम्– अध्यात्म-विदिति ॥ ‘तरति शोकमात्मवित्’ इति श्रुतेः, आत्मानम् अधिकृत्य वर्तमानं वेदान्तशास्त्रमध्यात्मं, तद् वेत्ति सम्यग् जानातीति । सात्विकादिस्वभावो ऽध्यात्मं तद्वेत्तीति वा । महाभूतादि वा अध्यात्मम् । तद्वेत्तीति अध्यात्मवित् ॥ २१ ॥

सत्यधर्मीया

हरिर्देहादिविविक्तत्वेन केनोपायेन ज्ञेय इत्यत आह ॥ स्वर्णमिति । हेमकारो हेम सुवर्णं करोतीति स तथा । ग्रावसु क्षेत्रेष्विति समानाधिकरणं व्यधिकरणं च । ग्रावात्मक्षेत्रविशेषेषु ग्रावसु तदुपयोगिपाषाणेषु क्षेत्रेषु तद्योग्यभूभागेषु । योगैस्तद्भवनोपायैस्तदभिज्ञ उपायज्ञो यथा सुवर्णमाप्नुयाद् लभेत । तथा क्षेत्रेषु देहेषु । आत्मयोगैः प्राणायामभक्त्यादिसाधनैः । अध्यात्म-विदधिकश्चासावात्मा च गुरुश्च तेन तदुपदेशेन वेत्तीति स तथा । वेदान्तशास्त्रज्ञ इति वा । ब्रह्मगतिं शरीरविविक्तत्वेन ब्रह्मज्ञानं लभेत । अत एतद्गुरूपदेशादिकं सम्पादनीयमित्याशयः ॥ २१ ॥

मन्दनन्दिनी

उपायेन ब्रह्मगतिलाभप्रकारं सदृष्टान्तमाह ॥ हेममिति ॥ यथा हेमकारो ग्रावसु निकषाश्मादिलक्षणेषु क्षेत्रेषु लिप्तं हेमयोगैरूपायैस्तदभिज्ञ आप्नुयात् । तथा देहेषु क्षेत्रेष्वात्मयोगैर्भक्त्या-द्युपायैरध्यात्मविदात्मानमधिकृत्य विद्यमानं देहगतमनआदिकम् । प्रमेयमध्यात्मशास्त्रं वा । अधिकात्मानं बिम्बं वा वेत्तीति तद्वित् । ब्रह्मगतिं वैकुण्ठादिकं लभेतेति योजना ॥ २१ ॥

अष्टौ प्रकृतयः प्रोक्तास्त्रय एव हि तद्गुणाः ।

विकाराः षोडशाचार्यैः पुमानेकः समन्वयात् ॥ २२ ॥

तात्पर्यम्

‘अभिमान्यपेक्षया विष्णुः पञ्चविंश इति स्मृतः । जडव्यपेक्षया जीवः सम्यग्ज्ञेयो हरिः स्मृतः’ इति च ॥ २२ ॥

पदरत्नावली

कानि महाभूतादीनीति तत्राह– अष्टाविति ॥ मूलप्रकृतिर्महदादयः सप्त । एवमष्टौ प्रकृतयः । सत्वादिगुणानां प्रकृतावन्तर्भावसम्भवेनाष्टत्वं युक्तमिति भावेनाह– त्रय एवेति ॥ तस्याः प्रकृतेर्गुणा स्तद्गुणाः । प्रकृतिजत्वाद् विकाराश्च तद्ग्रहणेन गृहीता इति नाष्टत्वासम्भव इत्या-शयेनाह– विकारा इति ॥ मनसा सहैकादशेन्द्रियाणि शब्दादिविषयाश्चेति विकाराः षोडशेति पूर्वाचार्यैः संख्याता इति शेषः । हरेरेष्वनुगतत्वेन विकारसम्भवादेतैः सह किं न पठित इति तत्राह– पुमानिति ॥ समन्वयादिति ल्यब्लोपे पञ्चमी । समन्वयमनुगतं प्राप्यैकः पुमान् नारायण एव केवलं शुद्ध इत्यतो विकारेषु न पठित इत्यर्थः । अत्रेदं तात्पर्यमवगन्तव्यम् । तथाहि– अभिमन्यमानजडापेक्षया पुमान् जीवः पञ्चविंशोऽभिमानिचेतनविवक्षया विष्णुः षड्विंश इति । सम्यगन्वयान् नियन्तृत्वेनानुगति-ज्ञानाज् ज्ञेय इति । तदुक्तम्– ‘अभिमान्यपेक्षया विष्णुः पञ्चविंश इति स्मृतः । जडव्यपेक्षया जीवः सम्यग्ज्ञेयो हरिः स्मृतः ॥’ इति । यद्वा आकाशादिपञ्चभूतानि सत्वादित्रयो गुणा इत्यष्टौ प्रकृतयः । तत्र मूलप्रकृतिमहदहङ्काराणामाकाशादिष्वनुगतत्वेन पृथग् ग्रहणं न क्रियते । गुणानां तदात्मकत्वेन गुणग्रहणेन तद्ग्रहणोपपत्तेः । शेषं पूर्ववत् ॥ २२ ॥

सत्यधर्मीया

अष्टौ प्रकृतयः प्रोक्ता इति श्लोके प्रकृतयश्च मूलप्रकृतिर्महदहङ्कारतत्त्वे पञ्च महाभूतानीत्यष्टौ गुणत्रिकस्य प्रकृतिकार्यत्वात्तत्रान्तर्भावान्न पृथग्भाव इत्युक्तविकारषोडशकेन पुंसा च सह पञ्चविंशतितत्त्वान्युक्तानि । तत्र किं पुमान् जीवः किंवा वासुदेवो वेति ज्ञीप्सायां विवक्षात उभावपीति प्रमाणेनाह ॥ अभिमानीति । यदि प्रकृत्यादिपदैरभिमानी सर्वत्र जीवो विवक्ष्यते तदा तत्तदभिमन्यमानपदैस्तदभिमानी जीव एव गृहीत इति न तत्संख्यातोऽतिरेक इति तदपेक्षया विष्णुः पञ्चविंश इति स्मृतः । यदाऽभिमन्यमानानां प्रकृत्यादीनामेव तत्तत्पदैर्ग्रहणं तदा पञ्चविंशतिसङ्ख्या तमभिमानिनं गृहीत्वैव पर्यवसन्नेति जडव्यपेक्षया जीवः पञ्चविंशः स्मृतः । भगवांस्तु जीवेन सह पञ्च-विंशतितत्त्वेषु सम्यङ्नियामकत्वेन तावद्रूपैरन्तःस्थित इति पञ्चविंशो ज्ञेय इति स्मृतः स्मृतिसिद्धोऽयमर्थ इत्यर्थः ॥ ततश्चायं मूलार्थः ॥ किमाकारेण भगवान्ज्ञेय इत्यत आह ॥ अष्टाविति । अष्टौ प्रकृतयो मूलप्रकृतिर्महदहन्तत्वे भूतपञ्चकं चेत्यष्टौ । हि यतस्तद्गुणाः प्रकृतिकार्यत्वात्तस्याः प्रकृतेर्गुणाः सत्वाद्या-स्त्रयः । तस्मात्प्रकृतप्रकृतिपदेन कृतग्रहणा इति नातिरेकशङ्केव तदनुक्तिशङ्काऽपि विधुते इति बोद्धव्यम् । विकारा मनसा सहैकादशेन्द्रियाणि शब्दाद्या विषयाश्चेति षोडश षोडशसङ्ख्याः । षष उत्वं, दतृ-दशधासूत्तरपदादेः ष्टुत्वं च धासुवेति वाच्यमिति वार्तिकेन षषशब्दस्य उत्वं दशशब्ददकारस्य डकारश्च । आचार्यैः कपिलमन्वादिभिर्गणिता इति शेषः । स्वयमाचरते यस्तु शिष्यान्ग्राहयतीति च । आचिनोति हि शास्त्रार्थांस्तमाचार्यं प्रचक्षत इत्यादेराचार्यपदार्थो ज्ञेयः । पुमान्वासुदेवो जीवश्च सर्वत्राभिमानिनां विवक्षणे जीव उपायात इति पञ्चविंशो हरिः । अभिमन्यजडग्रहणे पञ्चविंशस्तु जीवस्तावद्रूपी समन्वयात् । नियामकत्वेनैतत्तत्वमध्यमध्यासीन इति तत्सम्बन्धात्पुमान्हरिरेवं पञ्चविंश इत्यर्थः । समन्वयस्तत्सम्बन्धेऽपि तद्बाधया निर्बाधरूपसम्यगन्वयस्तस्मादिति वा । तर्हि तद्बाहुविध्याद्भगवतोऽपि बहुविधता स्यादित्यत आह ॥ एक इति । स्वगतभेदवर्जितः । न स्थानतोऽपि परस्येत्यादेः ॥ २२ ॥

मन्दनन्दिनी

आत्मनः क्षेत्रज्ञत्वमुक्तम् । तत्र क्षेत्रशब्दार्थं प्रकृत्यादिकं तद्गतं च विविच्याह ॥ अष्टाविति ॥ प्रकृतयो मूलप्रकृतिर्महानहङ्कारः पञ्चभूतानीत्यष्टौ प्रकृतयः । गुणत्रयस्यापि सत्वात्कथ-मष्टत्वमिति न वाच्यम् । त्रय एव हि तद्गुणास्त्रयः सत्त्वरजस्तमः । पदार्थास्तद्गुणा अव्यक्त-मूलप्रकृतेरवस्थाविशेषा एवेति तदन्तर्भावात् । विकारा मनसा सहैकादशेंद्रियाणि शब्दाद्यास्तन्मात्रा इति षोडशविकारा आचार्यैः प्रोक्ताः । समन्वयात् । ल्यब् लोपनिमित्ता पञ्चमी । सर्वत्रानुगतिं प्राप्य वर्तमानः पुमान्परमपुरुष एकः पदार्थ इत्थं चतुर्विंशतितत्त्वानि क्षेत्रं पुमांश्च । तद्गत इत्युक्तं भवति । अत्र जीवस्यातिरिक्तस्य सद्भावेऽपि तस्याभिमानित्वापेक्षयाऽभिमन्यमानवाचिपदेन ग्रहणाद्विष्णुरेव पञ्चविंशः । जडमात्रविवक्षया तु जीवः पञ्चविंशो विष्णुः षड्विंशतया सम्यग्ज्ञेयः । एतदेवाभिप्रेत्य तात्पर्यम् ॥ ‘‘अभिमान्यपेक्षया विष्णुः पञ्चविंश इति स्मृतः । जडव्यपेक्षया जीवः सम्यग्ज्ञेयो हरिः स्मृत’’ इति च ॥ अभिमान्यपेक्षयाऽभिमानिनोऽभिमन्यमानवाचिपदेन ग्रहणापेक्षयेत्यर्थः । जडव्यपेक्षया जडमात्र-ग्रहणापेक्षया जीवः पञ्चविंशो हरिस्तु सम्यक् षड्विंशतया ज्ञेय इति ॥ २२ ॥

देहस्तु सर्वसङ्घातो जगत् तस्थुरिति द्विधा ।

अत्रैव मृग्यः पुरुषो नेति नेतीत्यतत् त्यजन् ॥ २३ ॥

पदरत्नावली

तत्त्वसंख्याकथनेन प्रकृते किमायातमिति तत्राह– देहस्त्विति ॥ सर्वेषां प्रकृति-तत्कार्याणां सङ्घातः समूहस् तन्निर्मित इत्यर्थः । तत्त्वेभ्योऽप्यतदभिमानिभ्यो विविच्य परमात्मा ज्ञातव्य इत्यभिप्रायेण तत्त्वसंख्यानं कृतमितीममर्थं दर्शयति तुशब्देन । देहशब्देन प्रपञ्चो विवक्षित इति कृत्वा तं देहं विभजति– जगदिति ॥ जगच्छब्दो द्विरावृत्त्या व्याख्येयः । तथाहि– जगत् समस्तं जगज् जङ्गमं तस्थुः स्थावरमिति द्विधा विभक्तम् । किञ्चात इत्यत आह– अत्रेति ॥ ततत्वाद् ब्रह्म तत् । तन् न भवतीत्येतत् प्रकृत्यादिकं त्यजन् हित्वा स्वतः सर्वदा भिन्न इत्यर्थः । पुरुषः पूर्णषड्गुणोऽत्रैव देहलक्षणे प्रपञ्चे मृग्यो ऽन्वेषणीयः विचार्यः, ज्ञातव्य इति यावत् । शतृप्रत्ययेन सदा प्रकृत्यादित्यागो न कादाचित्क इति सूचयति । तत्र किं प्रमाणमिति तत्राह– नेति ॥ ‘स एष नेति नेतीत्यात्मा’ इति श्रुतिः प्रमाणमित्यर्थः । यो तत् त्यजन् तद् वपुस् त्यजन् तेनेति वा । अतत् त्यजतीति अतत्त्यक् तेन अतत्त्यजा इति वा पाठः ॥ २३ ॥

सत्यधर्मीया

सर्वसंघातः प्रकृतिप्राकृतसमूहनिर्मितो देहः शरीरं तदुपचितः प्रपञ्चश्च । जगज्जङ्गमः । जगत्स्याज्जङ्गमे त्रिष्विति रुद्रकोशः । तत्र द्युतिगमिजुहोतीनां द्वे चेति क्विपि द्वित्वे गमः क्वाविति मलोपे तुकि । जगज्जगतौ जगत इति रूपम् । तस्थुट् स्थावरश्चेति द्विधा । यद्यप्ययं प्रकारवचनो धाप्रत्ययस्तथाऽपि प्रकारिपरो लक्षणया ज्ञेयः । द्विविध इत्यर्थः । देहे प्रपञ्चे चेत्यत्रैव । पुरुषः पूर्ण-षड्गुणो नारायणो मृग्योऽन्वेषणीयः । केनेत्यत आह । यो तत् स भगवान्न भवतीत्यतत् । नश्वरत्वादिनेश्वरादन्यत्त्यजन् अभजंस्तेन । तत्र मानमाह ॥ नेति नेतीति । स वा एष नेति नेत्यात्मेति श्रुतेः । प्रपञ्चविलक्षणतया मार्गणीयः पुरुष इत्यर्थः । यद्वा । बहुसंस्कारसहकारिवशाद्बुद्धौ सन्निहितं नेदं नेदमित्यतत्त्यजन्यः स नेति वा । अन्यापोहेन मृग्य इत्यर्थः । क्वचिदतत्यजेति तृतीयान्तः पाठो दृश्यते । सोऽपि दृश्यः । अतत्यजतीत्यतत्यक् तेनाधिकारिणा मृग्य इति तत्रार्थः ॥ २३ ॥

मन्दनन्दिनी

देहस्यातिरिक्तस्य सत्वात्कथमुक्तेर्विभाग इत्यत आह ॥ देहस्त्विति ॥ देहस्तु सर्वसङ्घात उक्तचतुर्विंशतितत्त्वकार्यभूतः । जगज्जङ्गमः । नरतिर्यगादिः । तस्थुः स्थावरस्तरुगुल्मादिरिति द्विधा । अत्रैव देह एव पुरुषः पूर्णषड्गुणो भगवान् । अतत् हरिभिन्नं चेत् । नाचेतनात्मकं जगत् त्यजन् त्यजताधिकारिणा मृग्यो विचार्यः । स वा एष नेति नेतीति श्रुतेरिति योजना । आत्मा प्रकृतिर्न महानित्येवं सर्ववैलक्षण्यं श्रुतेरर्थः ॥ २३ ॥

अन्वयव्यतिरेकेण विवेकेनागतात्मना ।

सर्गस्थानसमाम्नायैर्विमृशद्भिरसत्वरैः ॥ २४ ॥

पदरत्नावली

कया युक्त्या मृग्यत इति तत्राह– अन्वयेति ॥ अन्वययुक्तव्यतिरेकेण । ‘यत्र यत्र जगत् तत्र तत्र ब्रह्म’ इत्यन्वयः । ‘यत्र यत्र ब्रह्म, न तत्र तत्र जगत् परिच्छिन्नत्वात्’ इति व्यतिरेक-लक्षणयुक्त्या । आकाशवज्जगदन्वितत्वेन यदेतदसङ्गलक्षणपृथक्त्वेन वेति युक्त्या निश्चितेन विवेकेनागतेन युक्तेन आत्मना मनसा । ननु व्याप्तिग्राहकप्रमाणाभावेनाभासत्वाद् अन्वयान् निर्णयो न स्यादिति तत्राह– सर्गेति ॥ अत्र सर्गस्थानाभ्यां संहारादिकमुपलक्ष्यते । न सहिता त्वरा यैस्ते असत्वरास् तैः । ‘सर्वे स्वरा घोषवन्तो बलवन्तो वक्तव्या इन्द्रे बलं ददानीति सर्व ऊष्माणोऽग्रस्ता अनिरस्ता विवृता वक्तव्याः प्रजापतेरात्मानं परिददातीति सर्वे स्पर्शा लेशेनानभिहिता वक्तव्या मृत्योरात्मानं परिहराणीति’ इति श्रुतेः । विमृशद्भिर् विचारं कुर्वद्धिः । ‘को न आत्मा किं ब्रह्म’ इत्यादिश्रुतेः । सर्गस्थानादि-विषयैः समाम्नायैर् निर्दोषगुणोपेतैर्वेदैः, ‘यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति’ इत्यादिलक्षणैः । ‘अन्तर्बहिश्च तत् सर्वं व्याप्य नारायणः स्थितः’ इत्यादिरूपैश्चानुगृहीतव्या ॥ २४ ॥

सत्यधर्मीया

अन्वयः समन्वयादित्यादिनोक्तं सर्वत्र वसनं तेन । व्यतिरेकोऽसङ्गीत्युक्तौ जगद्वैलक्षण्यमित्यन्वयसहितव्यतिरेकेण । अथवा सति हरौ कार्यमुखे प्रवर्तते प्रपञ्चो विरिञ्चादिरिति । यत्र जगत्तत्र हरिः । हरिर्यत्र यत्र तत्र जगदिति न । परिच्छिन्नत्वादस्वतन्त्रत्वादिति वाऽन्वयव्यतिरेकौ ज्ञेयौ । आगतात्मना एतदुभयलब्धस्वरूपेण । विवेकेन विविक्तत्वज्ञानेन । नोभयत्रापि प्रमाणाभावादा-भासतेत्याह ॥ सर्गेति । सर्गः सर्जनं स्थानं पालनम् । स्थानपदेन तन्त्रन्यायेनान्तप्रवेशापरपर्यायसंहार-ग्रहणम् । स्थानं सन्निवेशावकाशयोरिति विश्वः । सर्गो विसर्गः संहारः । स्थानं तु प्रागुक्तम् । समाम्नायः सन्ततिः सृष्टिरिति यावत् । तैः । आम्नायः सम्प्रदाये स्याद्वेदाभ्यासे च सन्तताविति विश्वः । स्थानपदेन संहाराद्या उपलक्ष्यन्ते । सर्गस्थानादिप्रतिपादकाः समाम्नायाः । यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्तीत्येवञ्जातीयकवेदास्तैः । संशब्देनोपक्रमोपसंहारादि-साहितीसहितत्वमाम्नायानां द्योतयति । तथा च ते नान्यथयितुं शक्या इति तदन्वयव्यतिरेकाभासता वोद्धृतेति ज्ञेयम् । सत्वरास्त्वरया सहिताः सत्वराः । आम्नायान्तर्निविष्टदृष्टयः । पातनिकार्थपरास्ते न भवन्तीत्यसत्वरास्तैः । विमृशद्भिरधिकारिभिः कर्तृभिः । पूर्वोक्तकरणैर्मृग्य इति पूर्वेणान्वयः । यद्वा । विवेकेन हेतुनाऽऽगतेन । विद्यमानस्यैव स्फौर्त्येन तथा व्यवहार इत्यागतेन । यद्वा । एतद्विषया-दन्यत्रागतेन तत्रैव लग्नेनेत्यागतेन । मनसा करणेन । सर्गस्थानसमाम्नायैरेतदाद्यावेदकवेदादिभिः स्त्री-शूद्रादिभिः कथं मृग्योऽत्रानधिकारादिति शङ्कापनुत्यै श्रुत्यादिपदमनिबन्धानो दधानश्चाम्नायपदं तदादीनां सम्प्रदायत इत्यर्थमभिप्रैतीति ज्ञेयम् । सम्प्रदायशब्दार्थस्तु आगमो ग्रन्थनिबद्धवाक्यम् । सम्प्रदाय-स्तूपदेशपरम्परामात्रमिति भेद इति प्रमेयदीपिकोक्तो ज्ञेयः ॥ २४ ॥

मन्दनन्दिनी

केनोपायेन मृग्य इत्यत आह ॥ अन्वयेति ॥ भगवति तिष्ठति देहो जीवति गच्छति तु पततीत्यन्वययुक्तव्यतिरेकेण पेपीयमानो मोदमानस्तिष्ठति । अस्य यदैकां शाखां जीवो जहात्यथ सा शुष्यतीत्यादिश्रुतेः । विवेकेन सार्वज्ञाल्पज्ञतादिलक्षणविरुद्धगुणेन गतात्मना मुक्त-मनसाऽनुभवेन । ‘‘अज्ञता चाल्पशक्तित्वं दुःखित्वं स्वल्पकर्तृता । सर्वज्ञतादीशगुणविरुद्धाद्यनुभूतिगा इति मूलोक्तेः । सर्गस्थानं समाम्नायैः सृष्टिस्थितिसंहारादिबोधकैर्वेदैरसत्वरैरापातप्रतीतिरहितैः । त्वरितो-च्चारणादिदोषरहितैर्वा । अथवा सावधानमनस्कैर्विमृशद्भिरधिकारिभिर्विमृग्यत इति योजना ॥ २४ ॥

बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति वृत्तयः ।

ता येनैवानुभूयन्ते सोऽध्यक्षः पुरुषः परः ॥ २५ ॥

तात्पर्यम्

बुद्धेर्जीवस्य । ‘सत्वबुद्ध्यादिशब्दैस्तु जीवोऽपि क्वचिदीर्यते । जाग्रदाद्याः कर्म चैव सुखदुःखे च तस्य हि । जाग्रदादेः परो द्रष्टा सुखनिष्ठो१ हरिः स्मृतः ॥ २५ ॥

पदरत्नावली

विमृश्य निर्णयप्रकारं दर्शयति– बुद्धेरिति ॥ ‘सत्वबुद्ध्यादिशब्दैस्तु जीवोऽपि क्वचिदीर्यते’ इति वचनाद् बुद्धेर्जीवस्य जागरणाद्या वृत्तयो ऽवस्थास् ता येन परमात्मना प्रेरितेन जीवेनानुभूयन्ते ‘जाग्रदाद्या कर्म चैव सुखदुःखे च तस्य हि’ इति वचनात् । सः परः पुरुषो ऽध्यक्षः जाग्रदादेर्द्रष्टा । ‘जाग्रदादेः परोद्रष्टा सुखनित्यो हरिः स्मृतः’ इति वचनात् । सोऽध्यक्षः जाग्रदादि-नाऽधिगतेन्द्रियसुखदुःखपरो जीवः परः विश्वादिविग्रहात् हरेरन्य इत्युत्तरार्धस्यार्थभेदो ज्ञातव्यः । एवशब्देन कालादिकं व्यावर्तयति ॥ २५ ॥

सत्यधर्मीया

बुद्धेर्जागरणं स्वप्न इति श्लोके बुद्धेर्मनसो वा वृत्तयस्ता येनानुभूयन्ते स जीवः परः पुरुष इति तस्य जीवस्य परमत्वमुच्यत इति वा परमपुरुषभगवदैक्यमुच्यत इति वाऽन्यथाप्रतीतिं किञ्चि-त्स्वयं व्याकृत्य मानमुदाहरन्नन्यथयति ॥ बुद्धेर्जीवस्येति । अथवा बुद्धेरित्यादावन्तःकरणस्यावस्था-त्रयोक्तिरयुक्ता । सुप्तौ मनसोऽकार्यकारित्वेनापरत्वादित्यतो बुद्धिपदार्थं स्वयमुक्त्वा समाख्या-मप्याख्याति ॥ बुद्धेर्जीवस्येति । क्वचिन्मन आद्यर्थबाधे । अबाधेऽपीति समुच्चये । तत्पर्यायशब्दैरिति वा समुच्चयेऽपिशब्दः । जाग्रदाद्या अवस्थाः । कर्मैतत्प्रापकं सुखदुःखसाधनं च । सुखदुःखे हि यतस्तस्य जीवस्यातो बुद्धिर्जीवो भवन्तीत्यर्थः । जाग्रदादेः परश्च सर्वोत्तमो द्रष्टा । तृन्नन्तः । तेन दर्शन-स्वाभाविकतामभिप्रैति । सुखनिष्ठो हरिः स्मृतः । सुखनित्यः सुषुप्तिस्थ इति पाठत्रिकम् । तत्र प्रथमः स्फुटार्थः । द्वितीये नित्यं सुखं यस्य स सुखनित्यः । विशेषणविशेष्यभावस्य कामचारित्वात् सुख-विशिष्टाभिधानादित्यादिवदित्यर्थः । सुखेन नित्य इति वा । अर्थात् सुखे नित्यत्वं सेत्स्यतीति । तृतीये तदवस्थायामपि तदन्तःस्थ इत्यर्थः ॥ ततश्चायं मूलार्थः ॥ बुद्धेर्जीवस्य जागरणं स्वप्नः सुषुप्तिरिति तिस्रो वृत्तयः यो यास्तास्तिस्रः । येनैव जीवेन मुख्येन परमात्मना प्रेरितेनानुभूयन्ते सः प्रेरकोऽध्यक्षो द्रष्टा पुरुषो हरिः । इन्द्रियप्राप्यदुःखसुखादिरित्यध्यक्षः । परो विश्वादिहरिविलक्षणः पुरुषो जीव इत्यपि वृत्त्यन्तरं जीवपक्षे ज्ञेयम् ॥ २५ ॥

मन्दनन्दिनी

प्रकारान्तरेणापि भेदमाह ॥ बुद्धेरिति ॥ बुद्धेर्जीवस्य जागरणं स्वप्नः सुषुप्तिरिति वृत्तयोऽवस्थास्ता एता येनैवानुभूयन्ते । स पुरुषश्चेतनोऽध्यक्षः साक्षिसिद्धः परो भगवतोऽन्यः । भगव-तोऽवस्थात्रयानुभवस्य तत्कारणीभूतकर्मणस्तत्कार्यस्य सुखदुःखादेश्चाभावात् । अथवा येन परमात्म-नाऽनुभूयन्ते । अन्तर्णीतणिच् । अनुभाव्यन्ते । सोऽवस्थात्रयप्रवर्तकः पुरुषः परमात्मा । अध्यक्षोऽ-वस्थाद्रष्टा । परो जीवादन्यः । तदेतदभिप्रेत्योक्तं तात्पर्ये ॥ बुद्धेर्जीवस्य । ‘‘सत्त्वबुद्ध्यादिशब्दैस्तु जीवोऽपि क्वचिदीर्यते । जाग्रदाद्याः कर्म चैव सुखदुःखे च तस्य हि । जाग्रदादेः परो द्रष्टा सुखनित्यो हरिः स्मृतः । स जीवेन सह स्थानात्तत्स्वरूपः प्रदृश्यते । अज्ञदृष्ट्याऽनज्ञदृष्ट्या यथा गन्धयुतोऽ-निलः । अदृष्टेर्जीवपरयोर्भेदस्याप्नोति संसृतिम् । अभेदनिश्चयाद्याति तमो नास्त्यत्र संशयः’’ इति च ॥ सत्त्वबुद्ध्यादिशब्दैरित्यनेन बुद्धेर्जीवस्येति व्याख्यानं प्रमापितं भवति । तस्य जीवस्य जाग्रदाद्यवस्था कर्म च तत्कारणीभूतपुण्यपापादिकं सुखदुःखे च तत्रानुभूयमाने भवन्ति । जीवात्परो हरिस्तु केवलं द्रष्टा । सुखनिष्ठः स्वरूपानन्दनिष्ठः स हरिः । तत्स्वरूपो जीवस्वरूपः प्रदृश्यते । अज्ञदृष्ट्या भ्रान्त्या न ज्ञदृष्ट्या जानातीति ज्ञः । तद्दृष्ट्या तु न । यथाऽनिलोऽज्ञदृष्ट्या गन्धयुक्तः पुष्परेणुयुत एव भेदाज्ञानाभेदनिश्चययोः क्रमेणानर्थातिशयमाह ॥ अदृष्टेति ॥ २५ ॥

एभिस्त्रिवर्णैः पर्यस्तैर्बुद्धिभेदैः क्रियोद्भवैः ।

सरूपमात्मनो धत्ते गन्धैर्वायुरिवान्वयात् ॥ २६ ॥

तात्पर्यम्

‘स जीवेन सह स्थानात्तत्स्वरूपः प्रदृश्यते । अज्ञदृष्ट्या न ज्ञदृष्ट्या यथा गन्धयुतोऽनिलः१ ॥ २६ ॥

पदरत्नावली

‘कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ । प्राज्ञः कारणबद्धस्तु’ इति वचनाद् विश्वादिविग्रहान् नारायणादन्यत्वं जीवस्य कथं जीवधर्माक्रान्तत्वात् तस्येति तत्राह– एभिरिति ॥ बुद्धीनां जीवानां भेदस् तारतम्यलक्षणो यैर्ज्ञाप्यते तैर्जीवतारतम्यज्ञापकैः, अत एव पर्यस्तैर् एकत्र समस्तैर् एभिस् त्रिवणैस् त्रिधा वर्णो वर्णनं येषां ते तथा तैर्जाग्रदादिभिः, त्रयो वर्णाः शुक्लकृष्णपीत-लक्षणा येषां ते तैः सत्वादिगुणैर्वा । सः परमात्मा अज्ञजनदृष्ट्याऽऽत्मानो जीवस्य सरूपं रूपेण समानं रूपं कार्यादिबद्धं धत्त इति दृश्यते । न तु प्राज्ञजनदृष्ट्या, तदृष्ट्या ज्ञानानन्दादिसमानं रूपं धृत्वा तत्स्वरूपं धत्त इति । ‘स जीवेन सह स्थानात् तत्स्वरूपः प्रदृश्यते’ इति स्मृतेः । अन्वयाद् दक्षिणाक्ष्यादिष्वनुगतत्वात् । कीदृशैः ? क्रियोद्भवैः । क्रियया उद्भवो येषां ते तथा तैः कर्मजनितैः । यद्वा क्रियाया उद्भवो येभ्यो गुणेभ्यस्ते तथा तैः(कर्मजनकैः)। शुक्लसत्वजन्यं जागरणम् । पीतरजोजन्यं स्वप्नं कृष्णतमोजन्या सुप्तिः । कर्माण्येवंविधानि । ‘अजामेकां लोहितशुक्लकृष्णाम्’ इति श्रुतेः । कुत्रायं व्यवहारो दृष्ट इति तत्राह– गन्धैरिति ॥ यथा गन्धैरन्वयात् सौरभ्यादिगन्धसम्पर्कात् सुगन्धो दुर्गन्धो मिश्रगन्धो वायुरिति व्यवह्रीयते, न तावता(गन्ध)तादान्त्यं वायोः । तथात्वे सर्वदा तथा स्यात् । न चैवम् । तस्माद् भिन्न एव वायुः । तथा हरिरपि । ‘यथा गन्धयुतोऽनिलः’ इति च । ‘तत् सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सच्च त्यच्चाभवत्’ इति श्रुतेर्देहाख्यप्रपञ्चसम्पर्कोऽस्त्येव हरेरिति भावः

॥ २६ ॥

सत्यधर्मीया

एभिस्त्रिवर्णैरिति श्लोके परः पुरुष एभिस्त्रिवर्णैस्त्रिधा वर्णनीयैर्वा शुक्लादिवर्णोपेत-सत्त्वादिकार्यत्वाद्वर्णत्रिकयुक्तैर्जाग्रदादिभिः समन्वयात्सम्बन्धाज्जीवसारूप्यं भजते । ततश्च सुखदुःख-भोगो भवतीति प्रतीतिं मानेन विमानितां तनोति ॥ स इति । स भगवान् जीवेन सह स्थानात् । समानं वृक्षं परिषस्वजाते इति श्रुतेरेकस्थानात्तत्स्वरूपो जीवसमरूप इति अज्ञदृष्ट्या मूढदृष्ट्या प्रदृश्यते विषयीक्रियते । ज्ञदृष्ट्या न प्रदृश्यत इत्यन्वयः । तत्र निदर्शनं सर्वसंमतमाह ॥ यथेति । गन्धयुतः पार्थिवकुसुमाद्युपर्यागमेन सुगन्धिरितरस्माद्दुर्गन्धिर्मिश्रादुभयगन्ध इति जना जानते तमविदः । वेदितारस्तु न समीरगुणोऽयमपि तु पृथिव्या इति । तथा ज्ञाश्च न भगवत एतत्त्रिवर्णसम्बन्धः किन्तु जीवस्यैव मन्वत इत्यर्थः ॥ ततश्चायं श्लोकार्थः ॥ एभिः सर्वजनीनैस्त्रिवर्णैस्त्रय इति वर्णनीयास्त्रिवर्णाः । वर्णधातोः कर्मणि घञ् । त्रयः शुक्लकृष्णरक्ता इति वर्णा येषां गुणानाम् । तत्कार्यत्वात्त्रिवर्णा वा । प्रकृतिकार्य-त्वाद्वा । अजामेकां लोहितशुक्लकृष्णामित्यादेस्त्रिवर्णा इति वा । तैर्जागरणस्वप्नसुषुप्तिसंज्ञैः क्रमाच्छुक्ल-रक्तकृष्णैः । सत्त्वादिगुणैर्वा । प्रकृतिगुणैरिति वा । पर्यस्तैरेकत्र संक्रान्तैः । बुद्धिभेदैर्बुद्धीनां जीवानां भेदैस्तत्तारतम्यादिज्ञापकैः । बुद्धयो भिद्यन्त एभिरिति वा तैः । क्रियोद्भवैः क्रियाया उद्भव उत्पत्तिर्येषां तैः । अन्वयात्सहावस्थानान्निमित्तादात्मनो जीवजातस्य सरूपं समानरूपं सारूप्यं धत्ते । ज्योतिर्जन-पदेति समानस्य सभावः । यथा वायुरनिलो गन्धैः सुरभ्यादिद्रव्यैः । गन्धः स एव द्रव्यवचनो बहुत्वे पुंसि च स्मृत इति विश्वः । अन्वयात्सम्बन्धात्सुगन्धिः पूतिगन्धिरुभयगन्ध इति व्यवह्रियतेऽज्ञैः । ज्ञैस्तु नायं वायुगुण इति । तथा ज्ञैरतत्स्पृष्ट इत्यज्ञैस्तत्स्पृष्ट इति न धत्ते । धत्ते सारूप्यमिति भगवान्पर्यस्तैः स्वसम्बन्धित्वेन निरस्तैरेभिर्ज्ञायत इत्यर्थः । गन्धाश्च तदाश्रयद्रव्यसूक्ष्मावयवास्तैरन्वयः सम्बन्ध इत्यर्थः । यथोक्तम् । वायुर्गन्धानिवाशयादिति गीताभाष्यटीकाटिप्पणीषु । गन्धानिव सूक्ष्माणि । अनेकेष्वाकृष्य-माणेषु गन्धोपादानेऽभिप्रायमाह ॥ गन्धानिवेति । गन्धवतः पुष्पाद्यवयवानित्यर्थः ।

ननु गन्धशब्दस्य गुणवाचित्वे सूक्ष्माणीत्युपमानोपमेयसाधारणधर्मोक्तिविरोधः । गुणस्य सूक्ष्मत्वा-भावात् । यथा गन्धस्य भूमेश्च न भावो व्यतिरेकत इति तृतीयस्कन्धोक्तेराश्रयं विना गुणाकर्षणा-योगश्चेत्यत आह ॥ यथा गन्धवत इति । ‘‘गन्धो गन्धक आमोदे लेशो सम्बन्धगर्वयोः । स एव द्रव्यवचनो बहुत्वे पुंसि च स्मृत’’ इत्युक्तेर्गन्धशब्दस्य द्रव्यवाचित्वादिति भावः । एतेन गन्धानिति बहुवचनं च समाहितम् । न चावयवागमनपक्षे व्यतिरेको गन्धवदिति सूत्रविरोधः । तत्रापि भागगमन-स्यैवाभिप्रेतत्वात् । अन्यथांऽशिनं विहायांशगतौ गन्धदृष्टान्तोपादानायोगात् । गन्धस्य गुणत्वेनांशत्वा-भावात् । न च गुणाद्वेत्युक्तालोकवद्गुणस्यैवागमनं किं न स्यादिति वाच्यम् । वैषम्यात् । युक्त-मालोकस्यागमनम् । तथात्वेऽपि स्वाश्रयं विहाय वृत्तेरभावात् । किन्तु स्वाश्रयमविहायैवान्यत्रापि वृत्तिः । गन्धागमने तु स्वाश्रयं विहायैवान्यत्र वृत्तिः प्रसज्यते । सा चोक्ततृतीयस्कन्धविरुद्धा । गुणस्य तथात्वाभावाद्युक्तिविरुद्धा च । न च व्यतिरेकसूत्रीयचन्द्रिकाविरोधः । तत्र स्थूलावयवागमनस्य दूषित-त्वात् । इह पुनरतिसूक्ष्मभागागमनाङ्गीकारात् । अत एव सूक्ष्माणीत्युक्तमिति दिगिति ।

एतेनैव यथा पुष्पाद्गन्धः पृथग्गच्छतीति भाष्यं यथा पुष्पाद्गन्धः पृथग्गछतीति दृष्टान्तान्न विरोध इति तत्त्वप्रदीपिके च व्याख्याते भवतः । वस्तुतस्तु गुणगमनाङ्गीकारेऽपि न बाधकं पश्यामः । न च भागवतं बबाध इति वाच्यम् । भूमिगुणत्वमेव नान्यभूतगुणभूतत्वमित्येवं परत्वाद्भागवतस्य । अत एव गीता-विवृतौ यथाभाष्यटीकं गन्धानिव गन्धवतः पुष्पाद्यवयवानिति व्याचख्युरिति न तद्वैसंवाद्यम् । तदर्थस्यापि स्वीकारात् । ननु गुणो निरंश इति कथं तस्य गमनमिति वाच्यम् । ‘‘न चानवयवं वस्तु क्वचित्स्यान्मानगोचरम् । तस्माद्गुणादिकमपि नास्त्यनंशतया क्वचित् ।’’ ननु गुणानां निरवयवत्वात् कथं नानवयवं वस्तु क्वचित् स्यादित्युच्यत इत्यत आह ॥ तस्मादितीति । गीतातात्पर्यन्यायदीपिकयोर्गुणानां सांशतोक्तेर्गमनसम्भवादिति । न चोक्तगीताभाष्यप्रमेयदीपिकाविरोध इति वाच्यम् । तत्र गन्धानिति बहुवचनस्वारस्यात्तथा व्याख्यानस्य न्याय्यत्वात् । न व्यासेधामो वयं द्रव्यगमनं नास्तीति किन्तु गुणगमनं च सम्भवतीति वदामः । न चोदाहृतटिप्पणीविरोधः । दत्तोत्तरत्वात् । गुणानामनंशत्वं पराभ्युपगमेन सा वक्तीत्युपपत्तेः । एवं च चन्द्रिकाऽपि न पीडिता स्यादिति ज्ञेयम् । तन्त्रदीपिका यथा पुष्पगन्धस्य स्वांशैर्विभागस्तथेति वदन्ती शिर आंदोलयत्येतदर्थ एवेति विभावनीया । अत्र च बलं गन्ध इत्येकवचनम् । अभिनवचन्द्रिका च यद्यपि गन्धो गुणो नांशस्तथाऽपि गुणोऽपि यदा व्यतिरिच्यते किमु तदांऽशस्यांशिव्यतिरेके वक्तव्यमिति भावेन गुणो दृष्टान्तत्वेनोपात्त इति प्रवृत्ता स्फुटं गुणगमन-मनुगुणमावेदयति । गुणाद्वाऽऽलोकवदित्यस्य लोके गुणे द्रव्यमाश्रित्यैवागमनमिति तन्मात्रे तद्विशेष-परिकल्पकाभावात् । गीताभाष्यताम्रपर्णीये ।

ननु व्यतिरेको गन्धवदित्यत्र गुणस्य गन्धस्य गुणिनं विहाय गमनोक्तेरत्रापि तथार्थसम्भवाद्भाष्ये न लक्षणया सूक्ष्मग्रहणं युक्तमिति चेन्न । अत्र गन्धवत्पुष्पावयवगमनोक्तावपि गन्धमात्रस्य गमनानिषेधात् । इन्द्रियसूक्ष्माणां गमने द्रव्यसूक्ष्मगमनस्य दृष्टान्तत्वं संश्लिष्यत इति भावेनात्र सूक्ष्मग्रहणं न तु मुख्यानुपपत्येत्युक्तम् । किं च दीपप्रभाया द्रव्यतानिरासप्रस्तावे तस्य द्रव्यत्त्वसाधकत्वे विवादादिति टीका तथोत्तराधिकरणे गुणस्यापि गन्धस्य द्रव्यं विहायापि वृत्तेर्वक्ष्यमाणत्वादिभाव इत्युत्क्रान्त्यधि-करणीयचन्द्रिका च गुणगमनमेव स्पष्टमवगमयतः । न च गीताभाष्यभावबोधे तस्य द्रव्यत्वसाधकत्वे विवादादितिवदद्भिष्टीकाकारैरुत्तराधिकरणे गुणस्यापि गन्धस्य द्रव्यं विहायापि वृत्तेर्वक्ष्यमाणत्वा-दित्यादिना पुनः प्रवेशकल्पने प्रमाणाभावादिति वदद्भिश्चन्द्रिकाकारैरपि गुणस्य गमनमङ्गीकृतम् । अतस्तद्विरुद्धमवयवगमनं कथमङ्गीक्रियत इत्याशङ्क्य स्थूलावयवाङ्गीकारस्य दूषितत्वात् । अतिपरम-सूक्ष्मावयवागमनमङ्गीकृत्येदानीमुच्यत इत्याहुरित्युक्तेः कथमिदमुदाहृतमिति न च वाच्यम् । दत्तोत्तर-त्वात् । किं चाहुरित्युक्तिस्वारस्येनास्वारस्यसूचनात् । (तद्द्रव्यत्वे त्वविवादम् ।) परभाष्ये च यथा गुणस्यापि सतो गन्धस्य गन्धवद्द्रव्यव्यतिरेकेण वृत्तिर्भवति । अप्राप्तेष्वपि कुसुमादिषु गन्धवत्सु कुसुमादिगन्धोपलब्धेः । एवमणोरपि सतो जीवस्य चैतन्यगुणव्यतिरेको भविष्यति । अतश्चा-नैकान्तिकमेतद्गुणत्वाद्रूपादिवदाश्रयविश्लेषानुपपत्तिरिति ।

गुणस्यैव सतो गन्धस्याश्रयविश्लेषदर्शनात् । गन्धस्यापि सहैवाश्रयेण विश्लेष इति चेन्न । यस्मा-न्मूलद्रव्याद्विश्लेषस्तस्य क्षयप्रसङ्गात् । अक्षीयमाणमपि तत्पूर्वावस्थातोऽवगम्यते । अन्यथा इतरथा पूर्वावस्थैर्गुरुत्वादिभिर्हीयेत । स्यादेतद्गन्धाश्रयाणां विश्लिष्टानामल्पत्वात्सन्नपि विश्लोषो नोपलक्ष्यते । सूक्ष्मा हि गन्धपरमाणवः सर्वतो विप्रसृता गन्धबुद्धिमुत्पादयन्ति । नासिकापुटमनुप्रविशन्त इति चेन्न । अतीन्द्रियत्वात्परमाणूनाम् । स्फुटगन्धोपलब्धेश्च । नागकेसरादिषु । न च लोके प्रतीतिर्गन्धवद्द्रव्य-माघ्रातमिति गन्ध एवाघ्रात इति तु लौकिकाः प्रतियन्ति । रूपादिष्वाश्रयव्यतिरेकानुपलब्धेर्गन्धस्याप्य-युक्त आश्रयव्यतिरेक इति चेन्न । प्रत्यक्षत्वादनुमानाप्रवृत्तेः । तस्माद्यथा लोके दृष्टं तत्तथैवानुगन्तव्यं निरूपकैर्नान्यथा । न हि रसो गुणो जिव्हयोपलभ्यत इति । अतो रूपादयोऽपि गुणा जिह्वयोपलभ्ये-रन्निति नियन्तुं शक्यत इति । अतो गुणस्य गमनमद्रव्यांशस्यापि सांशत्वादुपपन्नमिति । वाक्य-शाबल्याद् द्वावपि सरलौ पक्षाविति । गन्धः सुरभिरसुरभिर्मिश्रश्चेति गन्धास्तैरिति बहुवचनोपपत्ति-रेतत्पक्षे ज्ञेया । अनेनैव पुष्पं जिघ्रति गन्धं जानातीत्यादयोऽपि समाहिता इति धेयम् ॥ २६ ॥

मन्दनन्दिनी

पूर्वश्लोके बुद्धिशब्दितस्य जीवस्यावस्थात्रयलक्षणसंसारानुभवो भगवता भवती-त्युक्तम् । तत्कथम् । न हि भगवान्किञ्चिदनिमित्तीकृत्य संसारमनुभावयतीत्यतः संसारकारणान्याह श्लोकत्रयेण ॥ एभिस्त्रिवर्णैरित्यनेन ॥ बुद्धिस्थैस्त्रिवर्णैंर्लोहितशुक्लकृष्णमित्युक्तवर्णत्रयोपेतैः पर्यस्तैः परिक्षिप्तैः । अनादितः सम्बन्धैरिति यावत् । बुद्धिभेदैर्बुद्धेर्जीवस्य भेदैर्भेदकैः स्वस्वाधिक्येन नीच-मध्योच्चत्वलक्षणतारतम्यज्ञापकैः क्रियोद्भवैः सात्विकत्वादिक्रियाजनकैः सत्त्वादिगुणैरन्वयात्सम्बन्धा-द्वायुगन्धैर्गन्धोपेतैः पुष्पाद्यवयवैः सुरभ्यसुरभिमिश्रैः । अन्वयादिवात्मनः स्वरूपज्ञानानन्दकेवलदुःख-मिश्रात्मकं धत्ते पिधत्ते न जानातीति योजना । वायुर्निर्गन्धोऽपि गन्धसबन्धान्निर्गन्धस्वरूपो न ज्ञायते । जीवोऽपि गुणत्रयसम्बन्धात्स्वरूपेण न ज्ञायत इति भावः । अत्र बुद्धिभेदैरित्यस्य तात्पर्यम् ॥ बुद्धिभेदै-र्जीवानां तारतम्यज्ञापकैरिति । एवं च सत्त्वादिगुणतन्निमित्तकर्मणी संसारकारण इत्युक्तं भवति ॥२६॥

एतद्द्वारो हि संसारो गुणकर्मनिबन्धनः ।

अज्ञानमूलोऽपार्थोऽपि पुंसः स्वप्न इवाप्यते ॥ २७ ॥

तात्पर्यम्

अदृष्टेर्जीवपरयोर्भेदस्याप्नोति संसृतिम् । अभेदनिश्चयाद्याति तमो नास्त्यत्र संशय’ इति च ॥ बुद्धिभेदैर्जीवानां तारतम्यज्ञापकैः । दुःखरूपोऽपि संसारो बुद्धिपूर्वमवाप्यते । यथा स्वप्ने शिरश्छेदं स्वयं कृत्वाऽऽत्मनोऽवशः । ततो दुःखमवाप्येत तथा जागरितेऽपि तु । जानन्नप्यात्मनो दुःखमवशस्तु प्रवर्तते’ ॥ इति च ॥ २७ ॥

पदरत्नावली

अभेददर्शने बाधकमाह– एतद्द्वार इति ॥ इदम् अभेददर्शनं द्वारं यस्य संसारस्य स तथा । पुंसः संसारः प्राप्यते हि यस्मात् । ‘अदृष्टेर्जीवपरयोर् भेदस्याप्नोति संसृतिम्’ इति वचनात् । अभेददर्शने कारणमाह– गुणेति ॥ अभेददर्शनजकत्वेन गुणकर्मणोः संसारनिमित्तत्वमाह– गुणेति ॥ तस्येति शेषः । कर्मणः कारणमज्ञानं तद्द्वारा संसार इत्याशयेनाह– अज्ञानेति ॥ अज्ञाननिमित्तकर्म-परम्परया मुग्धमनसः पुंसोऽभेदनिश्चयादन्ततस् तम एव शरणमित्याशयेनाह– अपार्थ इति ॥ अपगत-निवृत्तिः, तमस इति शेषः । ‘अर्थः स्याद् विषये मोक्षे शब्दवाच्ये प्रयोजने । व्यवहारे धने शास्त्रे वस्तुहेतुनिवृत्तिषु ॥’ इत्यभिधानात् । मशकार्थे धूम इति प्रयोगाच्च । ‘अभेदनिश्चयाद् याति तमो नास्त्यत्र संशयः’ इति स्मृतेः । अपिशब्देन नित्यदुःखभूयिष्ठतमःप्राप्तिं सूचयति । ‘दुखरूपोऽपि संसारो बुद्धिपूर्वमवाप्यते’ इति संसारस् तमः । इन्द्रियार्थसन्निकर्षाद् अर्थोपलब्धिर्जाग्रत् । जाग्रदनुभवसंस्कारोप-स्थापितविषयाभासोपलब्धिः स्वप्नः । उपरतस्ववृत्तीन्द्रियविषयज्ञानं सुप्तिः । अत्र जाग्रद्दृष्टश्रुतपदार्थ-संस्कारकृतः स्वप्नः स्वशिरश्छेदनादिलक्षणो दुःखादिहेतुर्यथा तथा जाग्रदपि राजाऽहमिति वदतोऽनर्थ-परम्परादृष्टिवज् जीवपरयोरभेदं जानतः पुंस इहामुत्र दुःखबाहुल्यहेतुरित्यर्थः । ‘यथा स्वप्ने शिरश्छेदं स्वयं कृत्वाऽऽत्मानोवशः । ततो दुःखमवाप्येत तथा जागरितोऽपि तु । जानन्नप्यात्मनो दुःखमवशस्तु प्रवर्तते ॥’ इति स्मृतौ दर्शनात् ॥ २७ ॥

सत्यधर्मीया

एतद्द्वारो हि संसार इति श्लोके संसारस्याविद्योपादानकत्वेनापार्थो मिथ्याऽ-निर्वचनीय इति यावदित्यपार्थप्रतीतिमिवैतद्द्वारं स्वप्न इवेति चाव्याख्यातमिति तत्रान्यथाप्रतीतिं पुंस इति बुद्धिपदोक्तस्य बुद्धिसन्निधेर्बुद्धिभेदैरित्यस्य तत्राव्याख्यातत्वात्किञ्चित्स्वयमनूद्य विविच्य प्रमाणोदाहरणेन तां तान्तयति ॥ अदृष्टेरिति । जीवपरयोर्जीवेश्वरयोर्भेदस्य तात्त्विकवैलक्षण्यस्यादृष्टेरज्ञानात् । जीवः संसृतिमाप्नोति । अभेदनिश्चयान्मिथ्याज्ञानात्तमो याति । बुद्धिभेदैर्बुद्धीनां जीवानां भेदयन्तीति भेदा-स्तरतमभावज्ञापकविरुद्धधर्मास्तैरित्यर्थः । अस्मदीयं तत्पद्यस्य द्वितीयं व्याख्यानमेतत्तात्पर्यार्थपरमिति न जीवानामिति विरुणद्धीति ज्ञेयम् । केचित्तस्मिन्नेव तात्पर्ये सुपठमिदमिति वदन्ति । दुःखं रूपयति प्रतिष्ठापयत्यनुभोजयतीति यावत् । तद्बाहुल्यात्तत्त्वेन व्यपदेशो वा । बुद्धिपूर्वं भेदप्रतीतिप्रतिबन्धक-बुद्धिपूर्वम् । अवाप्यते जीवेनेति शेषः । यथा स्वप्ने आत्मनः स्वस्य शिरश्छेदं स्वयं कृत्वा दुःख-मवाप्नोति । कुतः करोतीत्थमित्यत आह ॥ अवश इति । विष्ण्वधीनः । सोऽपीत्थं कुतः कारय-तीत्यतोऽप्याह ॥ अवशोऽनन्याधीन इति । तत्तत्कर्म निमित्तीकृत्य प्रवर्तनाद्धरेरिति भावः । ततश् छिन्नशिरोदर्शनाद्दुःखमवाप्नोति । तथा जागरिते एतदवस्थायाम् । अपि त्वित्यनेन कर्तृताऽभिमतित्वेन स्वप्नतोऽपि विशेषः सूच्यते । भेदाज्ञानेन राजाऽहमिति तत्स्थानासीनदुरवस्थां दृष्ट्वा जीववदेव देवभेदा-दर्शने च भवेदेवमिति जानन्नप्यवशः प्रवर्तते । तुस्तत्रापि तत्तद्योग्यतामनुसृत्य तरतमभावरूपविशेष-सूचकः ॥ ततश्चायं श्लोकार्थः ॥ एतच्छब्देन भेदानुपलम्भो ग्राह्यः । मानीयाधिकारफलानुकूल्यात् । एष द्वारं यस्य सः । संसारो हि यतः पुंसः प्राप्यते । संसारकारणं भेदादर्शनं (अभेदबोधः किं निमित्तः) किं निमित्तमित्यतस्तदाह ॥ गुणेति । एतत्पदार्थे गुणेत्यादेर्योग्यतयाऽन्वयः । गुणाः सत्त्वाद्याः कर्माणि च निबन्धनानि निमित्तानि यस्य सः । स्वप्न इव स्वापि्नककरितुरगादिरिव । अदृष्टेरित्यादेः । पुंसोऽभेददृष्टेस्तमोयोग्यस्य संसारोऽज्ञानमूलो विपरीतज्ञानमूलकः । नञो विरुद्धाभिधायित्वात् । अपार्थो अपगतोऽर्थो निवृत्तिः प्रत्यावृत्तिर्यतः स तमोलोक इत्यर्थः । स्वप्न इव स्वप्ने भगवति सत्येवाप्यते । अवश इत्युक्तेरुभयत्राप्ययमर्थोऽनुसन्धेयः । स्वप्नपदस्य भगवद्वाचकत्वं तु बृहदारण्यकभाष्योदाहरणेन पूर्वं षष्ठोक्तमनुसन्धेयम् । अभेदनिश्चयाद्यातीत्यादेः । अर्थोऽभिधेयरैवस्तु प्रयोजननिवृत्तिष्वित्यभिधानात् । सोऽयमात्मा चतुष्पाज्जागरितस्थान इत्यादिमाण्डूकेयोपनिषद्भाष्ये ‘‘चतुर्धावस्थितो देहे परमात्मा सनातनः । वैश्वानरो जागरितस्थानगो गजवक्त्रकः’’ इत्याद्युक्तेः स्वप्नादिनियामकभगवद्रूपविशेषा ज्ञेयाः

॥ २७ ॥

मन्दनन्दिनी

एतदनूद्य मूलकारणं चाह ॥ एतदिति ॥ संसार एतद्द्वारः । तस्यैव विवरणं गुणकर्मनिबन्धन इति । हिशब्देनाजामेकां कर्मणा बध्यते जन्तुरिति प्रमाणप्रसिद्धिं द्योतयति । अज्ञान-मूलः प्रकृत्यविद्यादिशब्दवाच्याज्ञानावरणलक्षणमूलकारणकः प्रकृतिः स्वात्मसंश्लिष्टान् गुणान् सत्वादि-कान् अपीति । अज्ञानस्य प्रथमावरकत्वोक्तेः । दुष्कर्मणोऽनर्थहेतुत्वं जानता कथं बुद्धिपूर्वं कृत-कर्मणाऽनर्थः प्राप्यत इत्यत उक्तम् ॥ अपार्थ इति ॥ स्वप्ने स्वशिरच्छेदादिरूपात्महननानुभवजनित-वासनावशाद्बुद्धिपूर्वं कृतस्वशिरच्छेदेन दुःखमाप्यते । तथा रागादिवशाद्बुद्धिपूर्वं कृतकर्मणाऽपार्थोऽप्य-नर्थोऽप्याप्यत इति योजना । एतदेवाभिप्रेत्य तात्पर्यं प्रवृत्तम् ॥ ‘‘दुःखरूपोऽपि संसारो बुद्धिपूर्व-मवाप्यते । यथा स्वप्ने शिरच्छेदं स्वयं कृत्वाऽऽत्मनोऽवशः । ततो दुःखमवाप्येत तथा जागरितेऽपि तु । जानन्नप्यात्मनो दुःखमवशस्तु प्रवर्तत’’ इति च ॥ अवशः स्ववशो न भवतीत्यवशः । आत्महननानु-भवजनितवासनया बलात्कृतः । अवशो रागादिवशः प्रवर्तते दुष्कर्मकरणे ॥ २७ ॥

मनोमयत्वात् सर्वार्थाः स्वप्नजागरयोः समाः ।

दृष्टानर्थानपि ध्यातुः शोकमोहभयप्रदाः ॥ २८ ॥

पदरत्नावली

अर्थक्रियाकारित्वान्न स्वप्नादेर्मिथ्यात्वमित्याह– मनोमयत्वादिति ॥ मनसा निर्मितकर्मनिमित्तत्वादनित्यत्वाभिप्रायेण स्वप्नजाग्रत्साम्यम् । अन्यथा शोकमोहभयप्रदा इत्येतदसम्बद्धं स्यात् । न च शुक्तिरजतादिकं वलयकरणादियोग्यम् ॥ २८ ॥

सत्यधर्मीया

अपार्थ इत्यस्य मनोमयतयाऽर्थानां मिथ्यात्वमुच्यत इत्यपार्थत्वभ्रमं भ्रंशयति ॥ मनोमयत्वादिति । मनोमयत्वाद्भगवन्निमित्तकवासनोपादानकत्वात्सर्वे च ते तादात्म्यव्यतिरिक्ता अर्थाः कार्याद्याः स्वप्नजागरयोरवस्थयोः समाः । अर्थक्रियाकारितया सत्यत्वेन समानाः । अर्थक्रियाकारिताऽ-सिद्धिं परिहरति ॥ दृष्टानर्थानिति । दृष्टोऽनर्थो दुःखादिर्यैस्तान् जानन्निति तात्पर्यानुकूल्यात् । तान्ध्यातुर्जीवस्य शोकमोहभयप्रदाः शोकादिकार्यकारिण इति समाः । न स्वप्नसत्यता साधनीयाऽपि तु सिद्धैवेति वक्तुं जागरसमतया निर्देशस्तत्रापि प्रथमतस्तद्ग्रहणमिति मन्तव्यम् । अस्थिरत्वाद्यभिप्रायिका स्वप्नमायासरूपमित्यादि प्रायिक्युक्तिरिति ज्ञेयम् । दृष्टानर्थानित्यैकपद्येनार्थपदातिरेकशङ्का तानित्ये-तन्मात्रेण पूर्तेरित्यवश इति तात्पर्यं च निर्मूलमिति च शङ्का समं निराकृते ज्ञेये ॥ २८ ॥

मन्दनन्दिनी

‘‘मन एव मनुष्याणां कारणं बन्धमोक्षयोः’’ इत्युक्तेर्मनोऽपि संसारकारण-मित्याह ॥ मनोमयत्वादिति । मनोमयत्वान्मनःपूर्वककर्मकारणकत्वेन मनःप्रधानत्वान्मानसवासना-मयत्वात् । सर्वार्था गजतुरगादयः स्वप्नजागरयोः समा अनित्यत्वादिभिः समाः । अनित्यत्व-विकारित्वपारतन्त्र्यादिरूपतः । स्वप्नादिसाम्यं जगतो न तु बोधनिवर्त्यतेत्युक्तेः । एवमुक्तरीत्या दृष्टानर्था ध्यातुरनुभवितुः शोकमोहभयप्रदा अपि भवन्तीति योजना ॥ २८ ॥

तस्माद् भवद्भिः कर्तव्यः कर्मणां त्रिगुणात्मनाम् ।

बीजनिर्हरणे योगः प्रवाहोपरमो धियः ॥ २९ ॥

तात्पर्यम्

धियः प्रवाहस्योपरमः परमेश्वरे रमणम् ॥ २९ ॥

पदरत्नावली

विपक्षे बाधकमुक्त्वा विपर्यये पर्यवसानच्छलेन संसारबीजनिर्हरणोपायमाह– तस्मादिति ॥ यस्मात् पुंसो गुणकर्मनिर्मिताभेददर्शनद्वारः संसारस् तस्माद् भेदनिमित्तत्रिगुण-मयकर्मबीजभर्जनोपायो भवद्भिः कर्तव्य इत्यन्वयः । नन्वग्निष्टोमादिकमन्तरेण कर्मणां बीजभूतस्य लिङ्गशरीरस्य हननोपायः कोऽसौ ? यमनियमादिलक्षणश्चेत् तस्योभयत्र साधारणत्वेनानन्तरङ्गत्वात् । अत आपाकनिक्षिप्तामघटदहनयोग इवाहत्य तत्साधनं वक्तव्यमिति तत्राह– प्रवाह इति । धियः प्रवाहस्य सजातीयविजातीयप्रत्ययानन्तरिततया विषयीकरणनिपुणोपासनालक्षणस्य । उं रुद्रं पाति रक्षतीति उपः, ‘उपेऽधिके च’ इति सूत्राद् उपः सर्वाधिको वा, परमेश्वरः, तस्मिन् रमणं निरन्तरं श्रीनारायणचरणसरसिजसंचिन्तनलक्षणोपासनात् । स एवेत्यभिप्रायः ॥ २९ ॥

सत्यधर्मीया

तस्माद्भवद्भिरिति श्लोके बुद्धिप्रवाहोपरमस्तत्प्रसरणविसरणं येन योगेन स तथेति हरिस्मरणविच्छेदकता योगस्योच्यत इति प्रतीतिमतयति ॥ धिय इति । धियः प्रवाहोपरम इत्यनुवादः परमेश्वरे रमणमिति व्याख्या । उः शिवः । ‘‘उकारः क्षेत्रपे शम्भौ हरमौलौ शुचौ हरावि’’ति एकाक्षररत्नमाला । तं पातीत्युपो विष्णुस्तस्मिन्परमेश्वरे । अनेनेश्वरात्परमः परमेश्वर इति तात्पर्य-परमेश्वरपदे विग्रहो ज्ञेयः । सति तदुत्तरे विरिञ्चे सतीपतिपालतया पुरस्करणं हरेः कुत इति शङ्का धिय इति मूलोक्तेर्हरस्य ‘‘धीर्भीः सर्वं मन एव’’ इत्युक्तेस्तस्मिन्नियामकत्वात्तद्ग्रहणमित्यौचित्यं भजत इति ज्ञेयम् । उपोधिके चेति सूत्रादिति तात्पर्यान्तरोक्तेः सर्वाधिक इति वा ॥ ततश्चायं मूलार्थः ॥ यदर्थ-मियानायास आस तान्प्रति तं विधत्ते ॥ तस्मादिति । विपक्षेऽक्षेमात् । त्रिगुणात्मनां गुणत्रयकारणानां कर्मणां बीजस्य प्रकृतेर्लिङ्गशरीरस्य वा । निर्हरणे परिहारे यो योग उपायः स कर्तव्यः । किमात्मा स इत्यत आह । धियो यः प्रवाह ओघस्तस्योपरमः । उं पातीत्युप इति वा सर्वाधिक इति वा तस्मिन्रमो रमणं स एवोपाय इत्यर्थः । एकदेशान्वयस्तु ‘‘शरैः शातितपत्र’’ इत्यादौ दृष्ट इवात्रेष्टः ॥ २९ ॥

मन्दनन्दिनी

तर्हि किं कर्तव्यमस्माभिरित्यत आह ॥ तस्मादिति ॥ कर्मणामिति मनसोऽ-प्युपलक्षणम् । बीजं मूलकारणमज्ञानम् । योग उपायः । सः क इत्यत आह ॥ प्रवाहेति ॥ धियो बुद्धेर्यः प्रवाहः । तस्योप परमात्मसमीपे रमो रमणं क्रमेण भक्तिरभिवर्धनीयेति भावः । एतदेवाभिप्रेत्य तात्पर्यम् ॥ ‘‘धियः प्रवाहस्योपरमः परमेश्वरे रमणम्’’ इति ॥ रमणमासक्तिः ॥ २९ ॥

तत्रोपायसहस्राणामयं भगवतोदितः ।

यदीश्वरे भगवति भक्तिः स्यान्नान्यथा रतिः ॥ ३० ॥

पदरत्नावली

धियः प्रवाहस्य अन्तरङ्गसाधनमाह– तत्रेति ॥ भगवतेत्यनेन ग्राह्यत्वे आप्तमूलत्वं दर्शयति । अन्यथा बाधकमाह– नेति ॥ ३० ॥

सत्यधर्मीया

रमारमणरमणं धियः केन साधनेन भवतीत्यत आह ॥ तत्रेति । तत्र धियो हरिरमणविषये उपायसहस्राणामुपायानां साधनानां सहस्राणि तेषां मध्ये । निर्धारणे षष्ठी । उपायत्वा-वच्छिन्नः संस्तत उत्कृष्य सत्वरफलोपलम्भकत्वेन इत्ययं भगवता नारदेन पाराशर्येण वोदितः । स किमात्मेत्यत आह । यदीति । ईश्वरे भगवत्यैश्वर्यादिगुणषट्के भक्तिः स्यात्तर्हि रतिः रमणं भवतीति नान्य एतत्तुलो मार्ग इत्याह ॥ नान्यथैतां विना रतिर्न स्यादिति । भगवतेति विरक्तत्वेन समग्रैश्वर्यादि-मत्त्वेन परप्रतारणे कृत्याभावं दर्शयति ॥ ३० ॥

मन्दनन्दिनी

सत्स्वन्येषूपायेष्वयमेव कुतः कर्तव्य इत्यत आह ॥ तत्रेति ॥ सहस्राणां मध्येऽयं भक्तियोगो भगवता नरसखनारायणेन । तद्वच एव पठति ॥ यदीति ॥ नान्यथारतिरित्येकं पदम् । अनन्यविषयिणीति यावत् । तादृश्यन्यत्र नो भवेत् । अनन्यभक्तिः सा ज्ञेयेत्युक्तेः । यदीत्यस्य तदा मुक्तिरित्यध्याहृतेनान्वयः । इति यत्तदेव मुक्तिसाधनमिति वाऽन्वयः । भक्तिरतौ साधनमन्यथा रतिर्न भवतीति वा ॥ ३० ॥

गुरुशुश्रूषया भक्त्या सर्वलाभार्पणेन च ।

सङ्गेन साधुभक्तानामीश्वराराधनेन च ॥ ३१ ॥

पदरत्नावली

भक्त्या गुरुशुश्रूषया, ‘यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ’ इति श्रुतेः । सर्वलाभार्पणेन, हराविति शेषः । ‘ब्रह्मार्पणं ब्रह्महविः’ इत्यादेः । साधुभक्तानाम्, ‘नावैष्णवाय दातव्यं नोदबिन्दुं न तण्डुलम्’ इत्यादेर् नियतभगवद्भक्तानां सेवालक्षणप्रसङ्गेन । ‘महत्सेवां द्वारमाहुर्विमुक्तेः’ इत्यादेः । ईश्वराराधनेन पञ्चरात्रोक्तेन पञ्चकालीनभगवत्पूजया । ‘पञ्चकालपरायणम् । पञ्चकालैक-मनसाम्’ इत्यादेः ॥ ३१ ॥

सत्यधर्मीया

तं भक्त्युत्पत्तिप्रकारं भक्तलक्षणं च कैश्चित्पद्यैराह ॥ गुरुशुश्रूषयेति । भक्त्या गुरुशुश्रूषया भक्तिपूर्वं तत्सेवया भक्त्या गुरुभ्यः शुश्रूषा श्रवणेच्छा तयेति वा । ‘‘प्रारम्भमात्रमिच्छा वा’’ ‘‘नानागुरुमुखाम्बुजात्’’ इत्यादेः । शुश्रूषा श्रवणेच्छायां परिचर्याकथानयोरिति विश्वः । ‘‘यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ’’ इत्यादेः । सर्वलाभार्पणेन सर्वेषां लाभानां वित्तादीनां लभ्यन्त इति ते तथा । ओभगवत्यर्पणमार्पणं तेन । अकयप्रवि । अकारो वासुदेवः स्यादित्यादेः । अ विष्णावेषत्व-नव्यय इति विश्वः । ब्रह्मार्पणम् । पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छतीत्यादेः । अ अर्पणमित्यत्र सवर्णदीर्घः । सङ्गेन साधवः साक्षाद्भक्ताः । भक्ताश्च तद्दासास्तेषां साधु यथा भवति तथा । भक्तानां सङ्गेन सहवासेनेति वा । ईश्वराराधनेन पञ्चरात्राद्युक्तरमारमणपूजनेन ॥ ३१ ॥

मन्दनन्दिनी

षड्वर्गनिग्रहे भक्त्युत्पादने चोपायानाह ॥ गुरुशुश्रूषयेत्यादिना ॥ तृतीयान्तानां भक्तिः क्रियत इति वक्ष्यमाणेनान्वयः । गुरुशुश्रूषयेत्यत्र साधनपञ्चकमुच्यते । प्रत्येकं साधनविधायक-वचनोदाहरणं तु गौरवभिया टीकायामुदाहृतम् । तेन च क्वचिन्न क्रियते । भक्त्या गुरुभक्त्या । यथा देवे तथागुरावित्युक्तेः । सर्वलाभार्पणेन च सर्वेण यज्ञादिना लाभो लब्धं यत्पुण्यं तस्य समर्पणेन यद्यल्लब्धं स्वेन तस्य कर्तृत्वसमर्पणेन वा । साधुभक्तानां निर्व्याजभक्तानामीश्वराराधनेन पञ्चरात्रोक्तपाञ्चकालिका-राधनेन ॥ ३१ ॥

श्रद्धया तत्कथायां च कीर्तनैर्गुणकर्मणाम् ।

तत्पादाम्बुरुहध्यानात् तल्लिङ्गेक्षार्हणादिभिः ॥ ३२ ॥

पदरत्नावली

तत्कथायां श्रद्धया । ‘पानेन ते देव कथासुधायाः’ इत्यादेः । गुणकर्मणां कीर्तनैः । ‘कलौ संकीर्त्य केशवम्’ इत्यादेः । विभयविखण्डध्यानविधानार्थं तत्पदाम्बुरुहध्यानादिति । ‘सञ्चिन्तयेद् भगवतश्चरणारविन्दम्’ इत्यादेः । तस्य हरेर्लिङ्गं प्रतिमा तस्येक्षा दर्शनम् । अर्हणं पूजनम् । आदिशब्देन प्रदक्षिणादि गृह्यते । ‘बर्हायिते ते नयने नराणाम्’ इत्यादेः ॥ ३२ ॥

सत्यधर्मीया

तत्कथायां यथायोग्यं तत्कथाश्रवणे श्रद्धयाऽऽस्तिक्यबुद्ध्या । गुणकर्मणां भगव-द्गुणकर्मणां कीर्तनैः स्वयं हरे कृष्णेत्युच्चारणैस्तत्पादाम्बुरुहध्यानात् । सञ्चिन्तयेद्भगवतश्चरणारविन्दम् । पानेन ते देव कथासुधायाः । तन्नामस्मरणादिभिः । कलौ संकीर्त्य केशवमित्यादेः । तल्लिङ्गेक्षा-र्हणादिभिस्तस्य भगवतो लिङ्गानि चिदचिद्रूपाणि विप्रप्रतिमाशिलाप्रतिमादीनि तेषामीक्षा परोक्षज्ञान-मर्हणं सत्कारः । आदिशब्देन वन्दनादिकं गृह्यते तैः ॥ ३२ ॥

मन्दनन्दिनी

श्रद्धयेति श्लोके साधनचतुष्टयम् । तल्लिङ्गेक्षार्हणादिभिस्तस्य भगवतो लिङ्गस्य प्रतिमाया ईक्षणं दर्शनमर्हणं पूजनं तदादिभिः ॥ ३२ ॥

हरिः सर्वेषु भूतेषु भगवानास्त ईश्वरः ।

इति भूतानि मनसा कामैस्तैः साधु मानयेत् ॥ ३३ ॥

पदरत्नावली

हरिः सर्वेषु भूतेषु इत्यादिना हरिरेव पूज्यः न तु भूतानि योग्यतातिरेकेण इतीद-मेव कथ्यते । ‘ईश्वरो जीवकलया प्रविष्टः’ इत्यादेर्वा ॥ ३३ ॥

सत्यधर्मीया

सर्वेषु भूतेषु प्राणिषु । भगवानीश्वरो हरिरास्ते इति मनसैवमनुसन्धानेन तैस्तद-पेक्षितैः कामैर्विषयैस्तानि भूतानि साधु सम्यक् मानयेत्सत्कुर्यात् ॥ ३३ ॥

मन्दनन्दिनी

भूतदयाऽपि साधनमित्याह ॥ हरिरिति ॥ भगवानीश्वरो हरिः सर्वेषु भूतेष्वास्त इति मनसा । तैः प्रार्थितैः कामैः काम्यैः स्वशक्तिविषयैर्वित्तविद्यादिभिः । भूतानि सज्जनान् साधु मानयेदिति योजना ॥ ३३ ॥

एवं निर्जितषड्वर्गैः क्रियते भक्तिरीश्वरे ।

वासुदेवे भगवति यया संलभते रतिम् ॥ ३४ ॥

पदरत्नावली

यया भक्त्या हरौ रतिमुपासनां लभते तया स्वरूपानन्दानुभवलक्षणां रतिं लभत इति परम्परया योज्यम् ॥ ३४ ॥

सत्यधर्मीया

एवं पूर्वोदीरितरीत्या । निर्जितषड्वर्गैर्निर्जितः पराभावितः षड्वर्गोऽरिषड्वर्गो यैस्ते तथा तैरिन्द्रियैः करणैः । यया जनतयेति शेषः । वासुदेवे भगवति रतिर्भक्तिः क्रियते सा रतिं स्वरूपानन्दं संलभते । समा तस्या एकप्रकारतामाचष्टे । ययाऽधिकारी रतिं मोक्षं संलभते सा वासुदेवे भवतीश्वरे । एवं निर्जितषड्वर्गैरिन्द्रियैः करणैर्भक्तिः क्रियत इत्यन्वयो वा । यया रतिं संलभतेऽधिकारी । सा भक्तिर् निर्जितषड्वर्गैः पराभावितकामाद्यरिषड्वर्गैर् ईश्वरे वासुदेवे भगवति भक्तिः क्रियत इति वाऽन्वयः ॥ ३४ ॥

मन्दनन्दिनी

उक्तसाधनैः साध्यं भवतीत्याह ॥ एवमिति ॥ एवमनुष्ठितैर्निर्जितोऽरिषड्वर्गो यैस्तैः साधनैरीश्वरे वासुदेवे भगवति स भक्तो यथा रतिं लभते तथा भक्तिः क्रियते उत्पद्यत इति योजना । रतिमुपासनापरोक्षस्वानन्दानुभवलक्षणम् ॥ ३४ ॥

निशम्य कर्माणि गुणानतुल्यान् वीर्याणि लीलातनुभिः कृतानि ।

यदाऽतिहर्षोत्पुलकाश्रुगद्गदः प्रोत्कण्ठ उद्गायति रौति नृत्यति ॥ ३५ ॥

पदरत्नावली

सृष्ट्यादीनि कर्माणि । कंसवधादीनि वीर्याणि । उद्गानादिकं न सर्वभक्त-साधारणम् । तदुक्तम्– ‘केचिद् भक्ताः प्रनृत्यन्ति गायन्ति च यथेप्सितम् । केचित् तूष्णीं भजन्त्येव केचिच्चोभयकारिणः ॥’ इति ॥ ३५–३६ ॥

सत्यधर्मीया

भक्तिरस्तीति तद्व्यक्तिः कथमित्यत आह ॥ निशम्येति । कर्माणि कंसहिंसादीनि वीर्याणि मह्युद्धरणादिकारणानि । अतुल्यान्गुणानानन्दादीन् । लीलातनुभिः क्रीडोपात्तक्रोडादिशरीरैः कृतानि निशम्य यदाऽतिहर्षोत्पुलकाश्रुगद्गदः प्रोत्कण्ठोऽतिहर्षेणास्वाधीनतया प्रसरत्सन्तोषेणोर्ध्व-मायाताः पुलका रोमाञ्चाः । ‘पुलकः गजात्तपिण्डे रोमाञ्च’ इति विश्वः । अश्रूणि नयनोद्गतशीतल-जलबिन्दवः । तैः सहितो गद्गदमस्फुटाक्षरं यथा भवति । प्रोत्कण्ठो बहिःप्रगतोच्चध्वनिः । कण्ठो गले सन्निधाने ध्वनाविति विश्वः । उद्गायति कश्चित् कश्चिद्रौति शब्दमात्रं वा रोदनं करोति । एवमिति श्लोकव्याकृतिरूपमेतदादिपद्यत्रिकं कुलकं च ॥ ३५ ॥

मन्दनन्दिनी

भक्तानां वृत्तिप्रकारमाह ॥ निशम्येत्यादिना ॥ यदेत्यस्य तदेति वक्ष्यमाणे-नान्वयः । निशम्य श्रुत्वा । कर्माणि जगत्सर्जनादीनि । गुणान् ज्ञानानन्दादीन् । लीलातनुभिः कृतानि वीर्याणि कंसवधादीनि ॥ ३५ ॥

यदा ग्रहग्रस्त इव क्वचिद्धसत्याक्रन्दते ध्यायति वन्दते जनम् ।

मुहुः श्वसन् वक्ति हरे जगत्पते नारायणेत्यात्मगतिर्गतत्रपः ॥ ३६ ॥

सत्यधर्मीया

ग्रहः पिशाचो हसति । असति तत्कारणे । एवं सर्वत्र ज्ञेयम् । वन्दते वन्दति । अजनमपामरं महान्तं, जनं पामरं वा । जनो लोके महर्लोकात्परलोके च पामर इति विश्वः । मुहुरिति श्वसन् । वक्तीत्युभयान्वयि । आत्मगतिः स्वच्छन्दप्रवृत्तिः । गतत्रपो निर्लज्जः ॥ ३६ ॥

मन्दनन्दिनी

आक्रन्दते उच्चैः शब्दं करोति । जनं भक्तम् । आत्मगतिर्भगवद्विषयकमनो-गतिः । गतत्रपो गतलज्जः ॥ ३६ ॥

तदा पुमान् मुक्तसमस्तबन्धनस्तद्भावभावानुकृताशयाकृतिः ।

निर्दग्धबीजानुशयो महीयसा भक्तिप्रयोगेण समेत्यधोक्षजम् ॥ ३७ ॥

तात्पर्यम्

तद्भावभावस् तद्यथास्वरूपम् भक्तिः ॥ ‘केचिद्भक्ता विनृत्यन्ति गायन्ति च यथेप्सितम् । केचित्तूष्णीं जपन्त्येव केचिच्चोभयकारिणः’ इति च ॥ ३७ ॥

पदरत्नावली

एतदेवाह– तद्भावेति ॥ तस्य भावे यथास्वरूपे भावो भक्तिस् तस्यानुकृते अनुकूलत्वेन प्रकटिते आशयाकृती अन्तःकरणाकारौ यस्य स तथा । कश्चिदुद्गानेनान्तरां भक्तिं प्रकट-यति । कश्चिद् रोदनाश्रुपातकरणेन । कश्चिन् नर्तनेन । कश्चित् तूष्णीं भजनेनेति । तस्य ब्रह्मणो भावा लीलाः । तत्र यो भावो भक्तिस् तया रन्धिताभिप्रायाकार इति वा । स्थानाभिप्राय आशय इति वा । निर्दग्धं कर्मबीजं यस्य स तथा । स चानुशयो ऽन्तःकरणं यस्य स तथा । अनुशयः संसारो वा ॥ ३७ ॥

सत्यधर्मीया

यद्यपि निशम्येत्यदिपद्यद्विकसङ्गतं केचिदित्यादिप्रमाणमादावुदाहृत्य यथाक्रमं तद्भावभावानुकृताशयाकृतिरिति व्याकर्तव्यम् । तथाऽपि श्लोकत्रिकमेकान्वयीति दर्शयितुं प्रदर्शयितुं च स्वभावमात्रावेदकतां तत्तात्पर्यस्य चातिविरोधकत्वात्तद्भावभावपदपातनिकार्थस्य तदसहमान आनन्दतीर्थ- मुनिरादौ तद्भावभावपदं सर्वस्योद्गानादेर्भक्तिपूर्वकत्वमावेदयितुं वा तदाकृतिः कीदृशीत्यतः केचिदित्य-स्यावसरप्राप्तेरनन्तरवक्तव्यतां द्योतयितुं वाऽनूद्य व्याचर्करीति ॥ तद्भावभाव इति । तद्यथा स्वरूपे भक्तिस्तस्य भगवतो भावे यथा स्वरूपे यथावस्थिते स्वरूपे भावो भक्तिः । भावो भक्तिः समुद्दिष्टा तद्वान्भावुक उच्यत इति बृहद्भाष्योक्तेः । नैकत्रोद्गानादिसर्वस्वमित्याह ॥ केचिदिति । भक्ता इति सर्वत्रान्वयि । जपन्ति ध्यायन्ति । गायन्ति जपन्ति । नृत्यन्ति जपन्तीत्यादिप्रकारेण केचिदुभय-कारिणः ॥ अथ श्लोकार्थः ॥ यदैवं तदा । तद्भावभावानुकृताशयाकृतिस् तस्य हरेर्भावे यथावदानन्दादि-घनस्वरूपे भावो हि भक्तिस्तयाऽनुकृतेऽनुकूलीकृते आशयो मनश्चाकृतिर्मूर्तिर्देह इति यावद् यस्य स तथा । निर्दग्धबीजानुशयो निर्दग्धं बीजं पुनः शरीराद्यापादकं कर्म यस्य सोऽनुशयोऽनुबन्धः संसारबन्धो यस्य सः । ‘भवेदनुशयो द्वेषे पश्चात्तापानुबन्धयो’रिति विश्वः । निर्दग्धं बीजमुक्तरूपं येन सोऽनुशयः पश्चात्तापो यस्य स इति वा । तस्यापि प्रायश्चित्तानुष्ठानसाधनत्वात् । मुक्तसमस्तबन्धनस्त्यक्तपुत्र-कलत्रादिसमस्तस्नेहः । ‘‘अनुबन्धो हि भक्तिः स्याद्बन्धः स्नेह उदाहृतः’’ इति तात्पर्यान्तरवचनात् । मुक्तसमस्तबन्धनस्त्यक्तसमस्तसंसारानुबन्धनः । निर्दग्धबीजा मुक्तास्तैरनुशयोऽनुबन्धो यस्येत्येष्यन्न्याये-नोक्तिर्वा । महीयसा केनाप्यवार्यप्रवाहेणेति महता भक्तिप्रयोगेण तल्लक्षणोपायेन । तस्या हरिविषय-संयोजनेन वा । अधोक्षजं श्रीभगवन्तं समेति प्राप्नोति ॥ ३७ ॥

मन्दनन्दिनी

भक्त्युद्रेकफलमाह ॥ तदेति ॥ तस्य भगवतो भावे स्वरूपे भावो भक्तिः । अत एव तात्पर्यम् ॥ तद्भावभावः । तद्यथा स्वरूपं भक्तिरिति ॥ तयाऽनुकृतेऽनुकूलत्वेन कृते । आशया-कृतिराशयोंऽतःकरणमाकृतिर्देहाकारो यस्य स तथा । यदाऽतिहर्षेत्यादिनोक्तमुद्गानादिकं नैकैकस्मिन् भक्ते समुच्चयो किन्तु यथा तथेति ज्ञातव्यम् । अत एव तात्पर्यम् ॥ केचिद्भक्ता विनृत्यन्ति गायन्ति च यथेप्सितम् । केचित्तूष्णीं भजन्त्येव केचिच्चोभयकारिण इति चेति ॥ उभयकारिणो नर्तनगायनोभय-कारिणः । निर्दग्धकर्मबीजो ऽनुशयोंऽतःकरणं संसारो वा यस्य स निर्दग्धबीजानुशयः । अधोक्षजं समेति । भक्तिप्रयोगेण स्तोत्रेण वक्ति स्तौति ॥ ३७ ॥

अधोक्षजालापमिहाशुभात्मनः शरीरिणः संसृतिचक्रशातनम् ।

तद् ब्रह्मनिर्वाणसुखं विदुर्बुधास्ततो भजध्वं हृदये हृदीश्वरम् ॥ ३८ ॥

तात्पर्यम्

ब्रह्मनिर्वाणसुखं ब्रह्मनिमित्तनिर्वाणसुखम् ॥ ३८ ॥

पदरत्नावली

भक्त्यनन्तरं भगवत्कथा निर्वाणसुखजननीत्याह– अधोक्षजेति ॥ अधोक्षजालापं संसृतिचक्रशातनं नाशनम् । तत् हरिविषयकथाकथनं ब्रह्मनिर्वाणसुखं ब्रह्मणोऽनुग्रहात् प्राप्यमुक्तिसुखं विदुरिति यत् ततो देहहृदये स्थितं जीवं हृदिस्थितमीश्वरं भजध्वमित्यन्वयः । ‘योऽयं बहिर्वा पुरुषा-दाकाशो यो वै वाव सयोऽयमन्तः पुरुष अकाशो यो वै सोऽन्तः पुरुष आकाशो यं वाव सयोय-मन्तर्हृदय आकाशः ॥’ इति श्रुतेः । हृदीश्वरं मनःप्रेरकत्वेन । ‘स हि सर्वमनोवृत्तिप्रेरकः समुदाहृतः’ इति वाक्याद्वा ॥ ३८ ॥

सत्यधर्मीया

अधोक्षजालापेति पद्ये ब्रह्मनिर्वाणसुखमित्यस्य निर्वाणमशरीरं यद्ब्रह्म तदात्मकं यत्सुखमिति वा, तदनुभूयमानं यत्सुखमिति वा विपरीतमतिनिरासाय तदनूद्य स्वयं व्याचष्टे ॥ ब्रह्मेति । ब्रह्मनिर्वाणसुखं ब्रह्मनिमित्तं यन्निर्वाणं मोक्षस्तत्रत्यं सुखम् । ‘‘मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेय-सामृतम्’’ इत्यमरः । निर्वाणं गजमज्जनेऽपवर्गे चेति विश्वः ॥ ततश्च श्लोकव्याकृतिः ॥ इह संसारेऽशु-भात्मनो विषयाभिलाषदूषिततयाऽशुभमनसः शरीरिणो निन्दितदेहस्य संसृतिचक्रशातनं संसृतीनां चक्रं समूहस्तस्य शातनं नाशकं ब्रह्मनिर्वाणसुखं ब्रह्मनिमित्तकं यन्निर्वाणं मोक्षस्तस्य सुखं येन स तम् । यद्बुधा विदुरित्यव्यभिचारम् । अधोक्षजालापसंसृतिचक्रशातनब्रह्मनिर्वाणसुखकार्यकारणभावस्य सूचयति । तेऽपि न दुःसहवासिन इत्यप्याह ॥ विदुर्बुधा इति । विरुद्धा दुर्बुधेभ्यो विदुर्बुधा इति । ततो हेतोः । हृदीश्वरं हृदिस्थितमीश्वरं हृदये भजध्वम् । तर्हि तत्परिच्छिन्नं किं नेत्याह ॥ तदिति । ततत्वात्तत् । यथोक्तमृग्भाष्यटीकयोः । गुणैस्ततः केन निमित्तेन गुणैस्तत इति तत् । त्यजियजितनिभ्यो डिद् इति तनोतेर्डप्रत्यय इति तत् । कीर्तनं वा । अधोक्षजस्यालापो यस्य तत् । एवं विशेषणद्वयेऽपि बहुव्रीहिः । ‘‘स हि सर्वमनोवृत्तिप्रेरकः समुदाहृतः’’ इत्यादेः । यस्ततस् तं तत्तस्माद्भजध्वमिति वाऽन्वयः । बालानां तत्रेतिकर्तव्यमुपदिशति । विदुर्बुधाः सतो भजध्वमिति वा ॥ ३८ ॥

मन्दनन्दिनी

पूर्वमशुभात्मनो भक्त्युद्रेकात्संसृतिचक्रस्य शातनम् । शदऌ शातने शदेरगतौत इति तः । नाशनम् ॥ अधोक्षजालापं तन्निमित्तं यत्सुखं ब्रह्मनिमित्तकं निर्वाणसुखं मोक्षसुखं विदुरिति योजना । अत एव तात्पर्यम् ॥ ब्रह्मनिर्वाणसुखं ब्रह्मनिमित्तनिर्वाणसुखमिति ॥ भगवत्कथयाऽपि सुषुप्ताविव स्वरूपसुखं व्यज्यत इति भावः । ततो भक्तेरेतादृशसुखसाधनत्वात् । यूयं हृदीश्वर-मन्तःकरणनियामकं हृदये स्थूलहृदये विद्यमानं प्राज्ञं भजत । ‘‘जीवाङ्गुष्टमितो जीवो देहाङ्गुष्टमितो हृदि’’ इत्युक्तेः ॥ ३८ ॥

कोऽतिप्रयासोऽसुरबालका हरेरुपासने स्वे हृदि छिद्रवत् सतः ।

अस्यात्मनः सख्युरशेषदेहिनां सामान्यतः किं विषयोपपादनैः ॥ ३९ ॥

तात्पर्यम्

अशेषदेहिनां सामान्यतो हृदिस्थत्वेन ॥ ३९ ॥

पदरत्नावली

भगवदुपासनं दवीयस्त्वेन बहुपाथेयसाध्यत्वेन भागीरथीयात्रावद् दुःसाधनं किम् ? नेत्याह– कोऽतिप्रयास इति ॥ अस्यात्मनो जीवस्य स्वे स्वाधीने हृदि छिद्रवद् आकाशवत् सतः स्थितस्य हरेर् उपासने कोऽतिप्रयासः ? न कोऽपि सर्वगत्वेन समीपस्थत्वात् । ‘तद्दूरे तद्वन्तिके’ इति श्रुतेः । अशेषदेहिनां सामान्यतः साधारणत्वेन हृदि स्थितत्वेन सख्युः । तस्माद् विषयोपपादनैः किम् ? शास्त्रैरिति शेषः ॥ ३९ ॥

सत्यधर्मीया

कोऽतिप्रयासोऽसुरबालका हरेरिति श्लोकेऽशेषदेहिनां सामान्यतो विषयोपपादनैः किमित्यन्वयभ्रमभ्रंशाय स्वयमन्वयं दर्शयति ॥ अशेषेति । अशेषदेहिनां सर्वजीवानाम् । सामान्यतो हृदिस्थत्वेनेत्येतदुपासन इत्यनेनान्वेतीति भावः ॥ अथ श्लोकार्थः ॥ सत्यां भक्तौ न दवीयःपदवीं श्रितः श्रितश्चासत्यां तस्याम् । तद्दूरे तद्वन्तिक इत्युक्तेः । युष्माभिः कृतायां तस्यां स सुलभ इति भाषते ॥ क इति । हे असुरबालका अशेषदेहिनां सामान्यतः साधारणत्वेन हृदि स्वे च हृदि छिद्रवदाकाशवत्सतः सदा विद्यमानस्य हरेरुपासनेऽतिप्रयासः को न कोऽपि । अस्यात्मनो जीवजातस्य सख्युः । द्वा सुपर्णा सयुजा सखायेत्यनुकरोत्यनेन । एतद्विषये उपपादनैः शास्त्रैः किं न प्रयोजनमिति भावः । अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवंव्योमवच्चेत्यादेः । विषयोपपादनैस्तदार्जनैः किं न प्रयोजनमिति वा । भक्तियुक्तो न चेत्को जनोऽतिप्रयासोऽतिक्रान्तः प्रयासादायासादिति स तथा । आयासशून्यः को न कोऽपि । तद्दूर इत्युक्तेरिति वाऽऽवृत्त्याऽन्वयः ॥ ३९ ॥

मन्दनन्दिनी

भगवदुपासनायां महाफलमुक्त्वाऽऽयासोऽपि नास्तीत्याह ॥ हे असुरबालकाः स्वे स्वकीये हृदि छिद्रवदाकाशवत्सतो विद्यमानस्यास्यात्मनः सख्युर्हरेरुपासने कोऽतिप्रयासः । अशेष-देहिनां सामान्यतो हृदिस्थत्वेन न कस्यापि । अत्र तात्पर्यम् ॥ अशेषदेहिनां सामान्यतो हृदिस्थत्वे-नेति ॥ एवं सन्निहितत्वेन विषयोपपादनैर्देशान्तरगमनैः किं प्रयोजनमिति योजना ॥ ३९ ॥

रायः कलत्रं पशवः सुतादयो गृहा मही कुञ्जरकोशभूतयः ।

सर्वार्थकामाः क्षणभङ्गुरायुषः कुर्वन्ति मर्त्यस्य कियत् प्रियं चलाः ॥ ४० ॥

पदरत्नावली

भक्तेरन्तरङ्गसाधनं वैराग्यमेवेत्याशयेनाह– राय इति ॥ ४० ॥

सत्यधर्मीया

विषयोपपादनैः किमिति सामान्यत उक्तम् । तन्नामनिर्देशपूर्वकं तद्धेयतामाह ॥ राय इति । रायो वित्तानि । कलत्रं भार्या । सुतादयः पुत्रभ्रात्रादयः । गृहा मन्दिराणि । मही भूः । कुञ्जराः करिणश्च । कोशः धनागारं च भूतय एतदितरैश्वर्याणि चेति । सर्वे अर्थकामाः काम्या अर्थाः । चला अस्थिरा इति । क्षणभङ्गुरायुषः क्षणेन भङ्गुरं भङ्गवदायुर्यस्य तस्य मर्त्यस्य कियत्प्रियं कुर्वन्ति । अस्य नशिष्णुशरीरत्वात्तेषां चातिचलत्वात्किं तैः सम्पादितैः प्रियमात्यन्तिकं स्यादिति भावः ॥ ४० ॥

मन्दनन्दिनी

सर्वदाचलत्वेन देहहृदिस्थस्य नित्यस्य भगवतो महाप्रियकारित्ववन्न कस्यापि विषयस्यापि प्रियकारित्वं मर्त्यस्य । मृत्यनन्तरमभावात् । पूर्वमपि क्षणभङ्गुरत्वात्सतोऽपि देशान्तर-चलनात् । अतस्तत्र वैराग्येण भवितव्यमित्याशयेनाह ॥ राय इति ॥ रायो हि बहिःस्थितवित्तानि । कोशो भूनिक्षिप्तद्रव्यम् । अर्थकामा अर्थाश्च कामाश्च क्षणभङ्गुरायुषः स्वरूपनाशवन्तश्चला अन्यत्र गमनवन्तः ॥ ४० ॥

एवं हि लोकाः क्रतुभिः कृता अमी क्षयिष्णवः सातिशया न निर्मलाः ।

तस्माददृष्टश्रुतदूषणं परं भक्त्यैकमीशं१ भजतात्मलब्धये२ ॥ ४१ ॥

पदरत्नावली

विहितयज्ञसाध्यत्वेन स्वर्गादेर्नित्यत्वं सम्भाव्यमिति नेत्याह– एवमिति ॥ एवं मर्त्यलोकवन् न निर्मलाः प्राकृतत्वात् । न दृष्टं श्रुतं दूषणं यस्य स तथा तम् । सहचरीभूतवैराग्येण एकया मुख्यया । आत्मलब्धये स्वरूपानन्दानुभवलक्षणमुक्तिप्राप्त्यर्थम् । आत्मनो देहादेर् विविच्य स्वरूपज्ञानलक्षणलाभाय वा ॥ ४१ ॥

सत्यधर्मीया

यज्ञाद्यनुष्ठानेनाक्षयस्वर्गादिसम्भवाद्भवदुक्तमेव कुतोऽनुष्ठेयमित्यत आह ॥ एव-मिति । क्रतुभिर्यज्ञादिभिः कृताः सम्पादिता लोकाः स्वर्गाद्याः क्षयिष्णवः कदाचित्सातिशयाः सुखातिशयसहिताः । न निर्मला नाप्राकृताः । हीति क्षीणे पुण्ये मर्त्यलोकं विशन्ति । कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयत इत्यादिमानसिद्धतां, तथैवमिति ययात्यादिपातवत्पातं सूचयति । क्षी क्षय इत्यस्माद् भुवश्चेति अनुक्तसमुच्चयार्थेन चशब्देन इष्णुचि आर्धधातुके गुणेऽयादेशे क्षयिष्णुरिति ज्ञेयम् । यस्मादेते सदोषा एतानुपेक्ष्य । अदृष्टश्रुतदूषणमदृष्टान्यश्रुतानि दूषणानि क्षयिष्णुत्वसातिशयत्वानिर्मलत्वादीनि यस्य सः । तं परं विलक्षणम् । एकं सर्वोत्तमम् । ईशं निरवधिकेश्वरम् । लक्ष्मीसुखकरं तदीशं वा । भक्त्या भजत । तत्फलमालपति ॥ आत्मलब्धय इति । स्वस्वरूपानन्दप्राप्तये । एकयेशमिति पाठे एकयाऽनन्ययेति भक्तिविशेषणम् । आत्मनः स्वस्वरूपस्य लब्धिर्लाभस्तस्या इति वा ॥ ४१ ॥

मन्दनन्दिनी

अर्थकामौ दूषयित्वा प्रवृत्तकर्मफलं स्वर्गादिकं दूषयति ॥ एवमिति ॥ क्रतुभिः कृता अमी स्वर्गादय एवमर्थकामवत्क्षयिष्ण्वो नश्वराः स्वापेक्षयातिशयितलोकान्तरवन्तः । न निर्मलाः । न रागादिदोषरहिताः । हिशब्देन पुण्यचितो लोकः क्षीयते । अनैवंविन्महत्पुण्यं कर्म करोति तत्धास्यां ततः क्षीयत एवेत्यादिप्रमाणप्रसिद्धिं द्योतयति । तस्माददृष्टं श्रुतं च न भवतीत्यदृष्टश्रुतं दूषणं यस्य तम् । ‘‘दोषाः श्रुताश्च नाज्ञैर्हि तथा प्रतीता’’ इति श्रुतेः । परं परमात्मानमीशमेकमनन्यसाधारण-भक्त्याऽऽत्मलब्धये स्वरूपानन्दलाभाय भजतेति योजना ॥ ४१ ॥

यदर्थमिह कर्माणि विध्यङ्गान्यसकृन्नरः ।

करोत्यतो विपर्यासममोघं विन्दते फलम् ॥ ४२ ॥

पदरत्नावली

भगवदनर्पणबुद्ध्याऽनुष्ठितयज्ञादिकर्म अनर्थहेतुरित्याशयेनाह– यदर्थमिति ॥ यजेतेत्यादिविध्यङ्गानि । विपर्यासं दुःखम् अमोघं सदातनत्वेनावध्यम् ॥ ४२ ॥

सत्यधर्मीया

तदपि कर्म हरिसमर्पितं चेदनश्वरफलोपलब्धये भवति । न भवत्यसमर्पितं ततो व्यर्थं तदित्याह ॥ यदर्थमिति । विध्यङ्गानि विधिभिरङ्ग्यन्तेऽवगम्यन्त इति वा विधिप्राप्तानि । अगीत्यगिर्गत्यर्थः । यजेतेत्यादिविधिविहितानि यानि कर्माणि यदर्थं यत्फलमुद्दिश्य । नरोऽधिकारी । असकृदनेकवारं करोति । अतोऽसर्वोत्तमसमर्पितादेतत्कर्मणो विपर्यासं सङ्कल्पितान्यदमोघं दुःखसम्पाद-कत्वेनावन्ध्यं फलं क्लेशादिरूपं विशरणं वा विन्दते लभते । ञि फला विशरण इति स्मरणात् ॥४२॥

मन्दनन्दिनी

तर्हि विहितानि कर्माणि किमकार्याणीत्यत आह ॥ यदर्थमिति ॥ इह लोके विध्यङ्गानि विहिताङ्गकानि कर्माणि नरो यदर्थं यत्प्रीत्यर्थमसकृत्करोत्यतः प्रसन्नाद्भगवतोऽविपर्यासं नाशरहितममोघं फलं विन्दत इति योजना । भगवत्प्रीत्यर्थं कर्माणि कर्तव्यानीति भावः ॥ ४२ ॥

सुखाय दुःखमोक्षाय संकल्प इह कर्मणः ।

सदाऽऽप्नोतीहया दुःखमनीहायां सुखोन्नतिम् ॥ ४३ ॥

पदरत्नावली

एतदेव विवृणोति– सुखायेति ॥ ब्रह्मार्पणलक्षणेन करणम् अनीहा तदुक्तम्– ‘अप्रयत्नेन करणमनीहा प्रोच्यते बुधैः’ इति ॥ ४३ ॥

सत्यधर्मीया

तदेव वितत्य वक्ति ॥ सुखायेत्यादिभिः श्लोकैः । सुखाय दुःखमोक्षायेति दल-द्वयोक्तिः । कर्मण इह सङ्कल्प एतत्सुखार्थमेतद्दुरिष्टनिवृत्त्यर्थमिदं कर्म करिष्य इति कर्मविषयकः सङ्कल्पो मानसिको व्यापारविशेषः । सङ्कल्पः कर्ममानसमित्यमरः । तत्कर्मणः सकाशात् । ईहा फलेच्छा तया सदा दुःखं तदेवाप्नोति । अनीहायामकामने सुखोन्नतिम् । उन्नतिमित्यनेनासङ्कल्पितस्य महत्त्वमप्याह । सदाप्नोतीत्यावृत्तमन्वेति ॥ ४३ ॥

मन्दनन्दिनी

एतदेव विवृणोति ॥ सुखायेति ॥ इह लोके कर्मणः सङ्कल्पः सुखाय दुःख-मोक्षाय सदा भवति । सुखमेव मे स्याद्दुःखं मनागपि माऽभूदिति सर्वानुभवात् । परं त्वीहया स्वर्गादीच्छया कृतं चेद्दुःखमनीहायां सुखोन्नतिमाप्नोतीति योजना ॥ ४३ ॥

कामान् कामयतेऽकाम्यान् यदर्थ इह पूरुषः ।

स वै देहस्तु पारक्यो भङ्गुरो यात्युपैति च ॥ ४४ ॥

पदरत्नावली

शाश्वतसुखानुभवकामं विहाय शरीरे सुखकामं प्रयतमानो विमूढत्वेनातिहास्यो बुधैरित्याशयेनाह– कामानिति ॥ काम्यान् कामान् विषयान् । यदर्थे यस्य शरीरस्यार्थे । पारक्यस्तु श्वशृृगालादेर्विद्यमानो न स्वकीयः । व्यवहिताः शरीरमपेक्ष्य दूरस्थाः ॥ ४४–४५ ॥

सत्यधर्मीया

अकाम्यान् अनपेक्षणीयान् कामान्विषयान् । यदर्थे यं देहमुद्दिश्य कामयते पुरुषः स देहस्तु पारक्यः श्वशृृगालादिपरकीयसम्बन्धी याति गच्छति । उपेत्य याति आगच्छतीति भङ्गुरः । अत एतदर्थं तत्कामनमनर्थमिति भावः ॥ ४४ ॥

मन्दनन्दिनी

कामा अनित्या इति पूर्वं दूषितम् । अधुना तु ते यदर्थाः सोऽपि देहोऽनित्य इत्याह ॥ कामानिति ॥ यदर्थं यद्देहस्थितेन्द्रियकारणकभोगार्थं कामान् तस्य विवरणं काम्यान् कामयते इह पुरुषः स देहः पारक्यः पूर्वं वनितादेर् मृत्यनन्तरं शृृगालादेर्भोग्यो भङ्गुरः क्षणभङ्गुरः यात्युपैति च । वै प्रसिद्धम् ॥ ४४ ॥

किमु व्यवहितापत्यदारागारधनादयः ।

राज्यकोशगजामात्यभृत्याप्ता ममतास्पदाः ॥ ४५ ॥

सत्यधर्मीया

सत्त्वेन कृतस्य शरीरस्य यदेदृशी दशा काऽऽशा किञ्चिद्व्यवहितसुतादिष्विति भाषते ॥ किम्विति । व्यवहिता इत्यपत्येत्यादिसमस्तं विशकलितमावर्तितराज्यादिपदेनाप्यन्वेति । ममतास्पदा ममताया आस्पदं स्थानं येषु ते तथा । अनेन आस्पदं प्रतिष्ठायामिति नित्यनपुंसकत्वोक्तेः कथमास्पदा इति शङ्का पराकृता ज्ञेया । पारक्या इति किं वक्तव्यमिति भावः । व्यवहिताश्च तेऽपत्यदारागारधनादयश्चेति विग्रहः ॥ ४५ ॥

मन्दनन्दिनी

अव्यवहितो देहो यदैवंविधस्तदा तत्सम्बन्धिनो व्यवहितापत्यादयः किमु इत्यत आह ॥ किम्विति ॥ भङ्गुराः पारक्याः किम्विति योजना ॥ ४५ ॥

किमेतैरात्मनस्तुच्छैः सह देहेन नश्वरैः ।

अनर्थैरर्थसंकाशैर्पूर्णानन्दमहोदधेः ॥ ४६ ॥

पदरत्नावली

ननु विषयोपभोगार्थं श्रीनारायणोऽपि विग्रहं गृह्णातीति केचित् । तत्राह– किमेतैरिति ॥ आत्मनो हरेः । तस्मात् स्वतश् चिदानन्दस्वरूपस्य जीवात्मनो भौतिकादिना किम् ? न किमपि कृत्यं किमित्यतो वाऽऽह– किमेतैरिति ॥ ४६ ॥

सत्यधर्मीया

एतैस्तुच्छैर्देहेन सह नश्वरैरनर्थैरर्थशून्यैः । तर्हि तेषु प्रवर्तकता कुत इत्यत आह । अर्थसंकाशैरर्थवत्प्रतीयमानैः । किंकारणिकैतन्नश्वरतेत्यतो हेतुमाह ॥ पूर्णेति । पूर्णानन्दमहोदधिरीश्वर-स्तस्मादेव । असमर्पणे स एव विघटक इति भावः । तर्हि समर्पणेनानश्वरफललाभश्चेत्तेन तस्य नूतनानन्दलाभोऽस्ति न वा । आद्यपक्षेऽपूर्णः स्याद्द्वितीये तत्तृप्तेरभावे न तदनुष्ठानमित्यतो वाऽऽह ॥ किमेतैः पूर्णानन्दमहोदधेरिति । स्वकीयकर्तव्यतया स्वोन्नत्या एव तदर्पणमिति भावः । अथवा पूर्णानन्दो हरिर्महोदधिरिव महोदधिरन्ततो गत्वा गम्यं स्थानं यस्य तस्यात्मनो जीवस्येत्यन्वयः । पूर्णश्च पूर्णं चेति पूर्णे । आनन्दश्च महश्च महोत्सवश्च ते पूर्णे आनन्दमहसी ददातीति पूर्णानन्दमहोदः । स धीयतेऽस्मिन्नित्यधिकरणे किः । तस्यात्मन इति वा ॥ ४६ ॥

मन्दनन्दिनी

अनित्यत्वमुक्त्वा तैः प्रयोजनं नास्तीत्याह ॥ किमिति ॥ नित्यानन्दमहोदधेर् इति । ल्यब्लोपनिमित्ता पञ्चमी । एतादृशं परमात्मानं महान्तं विहाय तुच्छैरेतैः किमिति योजना । अर्थसङ्काशैः पुरुषार्थसदृशैः ॥ ४६ ॥

निरूप्यतामिह स्वार्थः कियान् देहभृतोऽसुराः ।

निषेकादिष्ववस्थासु क्लिश्यमानस्य कर्मभिः ॥ ४७ ॥

पदरत्नावली

विचारासहत्वान् न देहादिना प्रयोजनमित्याह– निरूप्यतामिति ॥ निषेकादिषु गर्भाधानादिषु अवस्थासु कर्मभिः क्लिश्यमानस्य देहभृतः कियान् स्वार्थ इति निरूप्यतामित्यन्वयः

॥ ४७ ॥

सत्यधर्मीया

अविचारसहमिति न देहेन प्रयोजनमित्याह ॥ निरूप्यतामिति । देहभृत इति प्रथमाबहुवचनं सदसुरविशेषणम् । षष्ठ्यन्तं सद्विशेष्यं चेति ज्ञेयम् । हे देहभृतो देहधारिणोऽसुराः । निषेकादिष्ववस्थासु गर्भाधानादिनानावस्थासु कर्मभिः क्लिश्यमानस्य देहभृतः प्राणिनः क्लेशे निमित्तं कर्माणीत्यर्थः । कियानिह संसारे स्वार्थः प्राप्य इति निरूप्यतां भवद्भिरिति शेषः ॥ ४७ ॥

मन्दनन्दिनी

भगवद्भक्तिमन्तरा कर्मभिर्निषेकादिमरणान्तास्ववस्थासु क्लिश्यमानस्य स्वार्थः कोऽस्ति । न कोऽपीत्याक्षिपति ॥ निरूप्यतामिति ॥ ४७ ॥

कर्माण्यारभते देही देहेनात्मानुवर्तिना ।

कर्मभिस्तनुते देहमुभयं त्वविवेकतः ॥ ४८ ॥

पदरत्नावली

संसारस्य प्रवाहरूपेण नित्यत्वान्न हरेर्ज्ञानमन्तरेण निवृत्तिः स्यादित्याशयेनाह– कर्माणीति ॥ आत्मानुवर्तिना परमात्माधीनेन । कर्म देहश्चेत्युभयम् । अविवेकतोऽज्ञानात् ॥ ४८ ॥

सत्यधर्मीया

प्रवाहतो नियतस्य संसारस्य कंसारिज्ञानं विना निवृत्तिर्न स्यादिति तज्ज्ञानं तद्धेतुर्भजनं चावश्यकमित्याह द्वाभ्यां पद्याभ्याम् ॥ कर्माणीति । देह्यात्मानुवर्तिना ईश्वरपरतंत्रेण देहेन कर्माण्यारभते । तैः कर्मभिः स्वानुष्ठितैः । दशावराणां देहानामित्यादेः । देहमेष्यन्तं तनुते सम्पादयति स्वप्राप्यं तनुते करोतीति वा । कर्म च देहश्चेत्येतदुभयम् । अविवेकतो भगवदज्ञानाद्भवति । तुः सर्वेषामेकप्रकारमज्ञानं व्यावर्तयति ॥ ४८ ॥

मन्दनन्दिनी

कर्मदेहोभयपरम्परा भगवदज्ञानलक्षणाविवेकादेवेत्याह ॥ कर्माणीति ॥ ४८ ॥

तस्मादर्थाश्च कामाश्च धर्माश्च यदपाश्रयाः ।

भजतानीहयाऽऽत्मानमनीहं हरिमीश्वरम् ॥ ४९ ॥

तात्पर्यम्

‘अप्रयत्नेन करणमनीहा प्रोच्यते बुधैः’ इति च ॥ ४९ ॥

पदरत्नावली

नन्वीश्वरसेवायां भक्तिरेव प्रयोजिका चेन्नार्थादिना प्रयोजनमित्याशङ्कां परिहर-न्नुपसंहरति– तस्मादिति ॥ अर्थादेर्हरिविषयत्वेन साफल्यं भवतीत्यर्थः । ननु प्रतीतं चेष्टाराहित्यमनीह-शब्दार्थं परित्यज्यान्यार्थकल्पने किं प्रमाणम् ? उक्तं हि प्रमाणमिति चेन्न । तस्य बह्वर्थवाचित्वेन स्वाभिप्रेतार्थसंदेहात् । ‘करणं कारणे कार्ये साधनेऽनुव्रतादिषु’ इत्युक्तेरिति तत्राह– अनीहमिति ॥ श्रमसाध्यक्रियाराहित्यादनीहमित्यस्योक्त एवार्थः । अप्रयत्नेनेति विशेषणाच्च श्रमसाध्यक्रियाराहित्य-मेवोच्यते । ‘स्पष्टाद्युच्चारणाभेदे ध्यानपद्मासनादिषु । व्रतबन्धे नाट्यभेदे गीतके कर्मणीन्द्रिये ॥’ इत्युत्तरवाक्ये कर्मण्यपि प्रयोगाश्च ॥ ४९ ॥

सत्यधर्मीया

भजतानीहयेति श्लोके लोकेश्वरस्यानीहमिति सर्वकर्तुश्चेष्टाभाव उच्यत इत्यपार्थं मानेन विमानयति ॥ अप्रयत्नेनेति । प्रयत्नेन विना यत्करणं कृतिः साऽनीहेत्युच्यते । न पामरोक्ति-र्नाप्येकविवेक्युक्तिरियमपि न जिव्होपर्युक्तिरिति बुधैः प्रोच्यत इत्यनेन द्योतयति ॥ अथ मूलार्थः ॥ यदपाश्रया अनीहयाऽफलाकाङ्क्षया । अनीहमक्लिष्टकारिणम् । न विद्यते ईहा प्रयत्नतः कृतिर्यस्य स तं हरिमीश्वरं तस्माद्भजतेत्यन्वयः । अनीहोऽक्लिष्टकारित्वादित्यन्यत्रोक्तेः ॥ ४९ ॥

मन्दनन्दिनी

अवर्जनीयतया प्राप्ता अर्थकामादयः कथं त्यक्तुं शक्यन्त इत्यतस्ते यदपाश्रया यत्परमात्ममूलकास्तमेवानीहया कामेन भजतेति विधत्ते ॥ तस्मादिति ॥ अनीहमनीहाऽप्रयत्नेन जगत्करणम् । अर्शादच् । तद्वन्तम् । बीजं जगतो व्यञ्जनाद्बीजशब्दवाच्यमात्मानं भजतेति योजना । एतदेवाभिप्रेत्य तात्पर्यं प्रवृत्तम् ॥ ‘‘अप्रयत्नेन करणमनीहा प्रोच्यते बुधै’’रिति च ॥ ‘‘व्यज्जनाज्जगतो विष्णुर्बीजं न परिणामतः’’ इति१ च । अप्रयत्नेनाप्रयासेन परिणामतो विकारतः ॥ ४९ ॥

सर्वेषामपि भूतानां हरिरात्मेश्वरः प्रियः ।

भूतैर्महद्भिः स्वकृतैः कृतानां बीजसंज्ञितः ॥ ५० ॥

तात्पर्यम्

‘व्यञ्जनाज्जगतो विष्णुर्बीजं न परिणामतः’ इति च ॥ ५० ॥

पदरत्नावली

हरेरेव भजने कारणमाह– सर्वेषामपीति ॥ व्यञ्जकत्वाद् बीजं, गत इति शेषः । ‘व्यञ्जनाज्जगतो विष्णुर्बीजं न परिणामतः’ इति वचनान्न बीजशब्दस्य विकारोऽर्थः । ‘अप्रयत्नेनेति’ ‘अविक्रियः स्वदृग् वश्यः’ इति स्वोक्तेः ॥ ५० ॥

सत्यधर्मीया

सर्वेषामपि भूतानामिति श्लोके परमात्मनो बीजत्वमुच्यते । तेन परिणामिकारणं भगवानित्यापततीति प्रतीतिं सबीजं बीजपदार्थं मानेनैवोक्त्वा पराकरोति ॥ व्यञ्जनादिति । जगतः स्वोपादानतो जायमानस्य व्यञ्जनाद्व्यक्तत्वप्रापणाद्धेतोर्भगवान्बीजमित्युच्यते । मानिकी निरुक्तिर्व्यञ्जना-द्बीजमित्यत्र यथायथं पृषोदरादिनिवेशनेन ज्ञेया । परिणामतो विकृततया नेत्यर्थः । अथ मूलार्थः ॥ स्वकृतैः स्वनिर्मितैः स्थूलरूपेण महद्भिर्भूतैः कृतानामवान्तरभूतानामात्मा प्रिय ईश्वर इति विकार-परासः । बीजसंज्ञितो व्यञ्जक इति तदभिधानवान् । मूलस्थं संज्ञापदं बीजमिति संज्ञितो न वस्तुत उपादानमिति कटाक्षयदर्थं मानभूमिकेति ज्ञेयम् ॥ ५० ॥

मन्दनन्दिनी

बहुधा सम्बन्धसद्भावाद्भगवानेव भजनीय इत्याह ॥ सर्वेषामपीति ॥ आत्माऽन्तर्यामी । ईश्वरः स्वामी । प्रियः प्रियकृत् । स्वकृतैर्महद्भिर्भूतैः । कृतानां देहेन्द्रियवत्तया कृतानां बीजसंज्ञितो जनकश्च ॥ ५० ॥

देवोऽसुरो मनुष्यो वा यक्षो गन्धर्व एव च ।

भजन् मुकुन्दचरणं स्वस्तिमान् स्याद् यथा वयम् ॥ ५१ ॥

सत्यधर्मीया

हीनजनुषामस्माकं कथं तेन स्वस्तिः स्यादित्यत आत्मनिदर्शनेन न जात्यादि प्रयोजकमित्याह ॥ देव इति । स्वस्तिमान् शाश्वतिकसत्तावान् । मुक्त इति यावत् । तत्सूच-कैहिकक्षेमवांश्च ॥ ५१ ॥

मन्दनन्दिनी

मुकुन्दचरणं भजतः स्वस्तिमत्वे न जातिः प्रयोजिकेत्याह ॥ देवो वेति ॥ यथा वयमिति दृष्टान्तः ॥ ५१ ॥

नालं द्विजत्वं देवत्वमृषित्वं वाऽसुरात्मजाः ।

प्रीणनाय मुकुन्दस्य न वृत्तं न बहुज्ञता ॥ ५२ ॥

पदरत्नावली

भूतानामुत्पत्त्यादिना भक्त्यभावे जातिविशेषो वृत्तादिविशेषोऽप्यकिञ्चित्कर इत्याह– नालमिति ॥ वृत्तमाचारः । ‘वृत्तं स्वरूपे चरिते’ इति यादवः ॥ ५२ ॥

सत्यधर्मीया

बहूनां तत्रापि बालानां लोलमानसानामप्रातिस्विकोपदेशे स्थैर्यं न भवेद्भवेच्च न मन्मुखमभिवीक्ष्योचेऽयमिति कोपश्चेत्युक्तमेवार्थं पुनराह ॥ नालमिति । मुकुन्दस्य प्रीणनाय तोषणाय । वृत्तं सदाचारः ॥ ५२ ॥

मन्दनन्दिनी

भक्तिरेव भगवत्प्रीतिसाधनं नान्यदित्याह ॥ नालमिति श्लोकद्वयेन ॥ वृत्तं चरितम् ॥ ५२ ॥

न दानं न तपो नेज्या न शौचं न व्रतानि च ।

प्रीयतेऽमलया भक्त्या हरिरन्यद् विडम्बनम् ॥ ५३ ॥

सत्यधर्मीया

व्रतानि च नालं समर्थानि नेति तत्तदन्वयोनुरूपी ज्ञेयः । अमलया निष्कल्मषया भक्त्या हरिः प्रीयते प्रीतो भवति । अन्यत्तदसत्कृतं पूर्वोक्तं सर्वं विडंबनं नटनं न घटनं फलस्य तेनेति भावः ॥ ५३ ॥

मन्दनन्दिनी

विडम्बनं प्रीतिजनकतया प्रतीयमानमात्रम् ॥ ५३ ॥

ततो हरौ भगवति भक्तिं कुरुत दानवाः ।

आत्मौपम्येन सर्वत्र सर्वभूतात्मनीश्वरे ॥ ५४ ॥

पदरत्नावली

आत्मौपम्येन आत्मस्नेहवत् (अनुपाधिक)स्नेहेन ॥ ५४ ॥

सत्यधर्मीया

ततस्तां विना सर्वस्यापि नैष्फल्यात् । हे दानवाः । सर्वत्र सर्वभूतात्मनि भगवतीश्वरे हरौ । आत्मौपम्येन स्वस्वयोग्यतानुसारेण भक्तिं कुरुत । उपमैवौपम्यम् । आत्मभिरौपभ्यं तेन । स्वदेहे स्वेषां यथा तत्सादृश्येनेति वा । सर्वत्र सर्वावस्थासु सर्वात्मनि सर्वसन्निहिते ॥ ५४ ॥

मन्दनन्दिनी

पुनर्भक्तिं विधत्ते ॥ तत इति ॥ आत्मौपम्येनात्मदृष्टान्तेन । सर्वभूतात्म-न्यन्तर्यामिणि ॥ ५४ ॥

दैतेया यक्षरक्षांसि स्त्रियः शूद्रा व्रजौकसः ।

खगा मृगाः पापजीवाः सन्ति ह्यच्युततां गताः ॥ ५५ ॥

तात्पर्यम्

अच्युततां च्युतिवर्जनम् ॥ ५५ ॥

॥ इति श्रीमद्भागवते सप्तमस्कन्धतात्पर्ये सप्तमोऽध्यायः ॥ ७ ॥

पदरत्नावली

वेदान्तादिशास्त्रानधिकारित्वेन पापजीवत्वम्, न तु पापकरणात् । अच्युततां च्युतिवर्जनं मोक्षं गताः सन्ति । हि यस्मात् तस्मान् मुकुन्दभक्तिरेव सम्पाद्या ॥ ५५ ॥

सत्यधर्मीया

दैतेया इति श्लोकेऽच्युततां तत्तादात्म्यं गता इति अन्यथाप्रतीतिं निरसितुं स्वयं व्याकरोति ॥ अच्युततां च्युतिवर्जनमिति ॥ अथ मूलार्थः ॥ व्रजौकसो गोपालाः । पापजीवाश् चर्ययोपरि तथा दृश्यमानाः । अच्युततां पुनरावृत्तिवर्जनं मोक्षमिति यावत् । गताः सन्ति । ततो जातिर्नातिकांक्षितेति भक्तिं कुरुतेत्यन्वयः । दैतेयाः शिशुपालादयः । यक्षा नलकूबरमणिग्रीवादयः । रक्षांसि स्वाविष्टोवर्शीविवक्षया पूतनाहिडिम्बीघटोत्कचादयः । स्त्रियो गोपाङ्गनाः । खगाः खाण्डव-दाहनकाले जरितार्यादयः । मृगाः पशवः । मृगः पशौ कुरङ्गे चेति विश्वः । पापजीवाः कृकलासतनु-नृगादय इति ॥ ५५ ॥

मन्दनन्दिनी

जातिरप्रयोजिकेत्युक्तम् । अधुना तु नानाजातिमन्तोऽपि भक्तिमन्तोऽच्युततां च्युतिवर्जनम् । मुक्तिमिति यावत् । गताः सन्तीत्याह ॥ दैतेया इति ॥ अत्र तात्पर्यम् ॥ अच्युततां च्युतिवर्जनमिति ॥ ५५ ॥

एतावानेव लोकेऽस्मिन् पुंसां स्वार्थः परः स्मृतः ।

एकान्तभक्तिर्गोविन्दे यत् सर्वत्र तदीक्षणम् ॥ ५६ ॥

॥ इति श्रीमद्भागवते सप्तमस्कन्धे सप्तमोऽध्यायः ।

पदरत्नावली

तात्पर्यात् पुनरेतदेव हि करणं श्रेय इत्याह– एतावानिति ॥ तस्य हरेः सर्वसत्ताप्रदत्वेनावस्थितेरीक्षणं दर्शनं ज्ञानमिति यद् इयं भक्तिरिति ॥ ५६ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

सप्तमस्कन्धे सप्तमोऽध्यायः ॥

सत्यधर्मीया

उपसंहरति ॥ एतावानिति । यत्सर्वत्र तदीक्षणम् । शुनि चैव श्वपाके च पण्डिताः समदर्शिन इत्यादेः । भगवान्संनिहित इति निरीक्षणं सैव गोविंदे एकान्तभक्तिरेतावानेव परः स्वार्थः स्मृतः । गोविन्द इत्यनेन मूलरूपादवताररूपस्य विशेषं मन्यमानाः परास्ता वेदितव्याः । सर्वच्युतिवर्जनस्यात्रैव दृष्टेर्गोविन्द इत्युक्तिर्युक्तिमतीति ज्ञेयम् । प्रस्तावान्तरे सुधायां मूलरूपाणुत्वमहत्वे यौगपद्येन गोविन्द इत्यनेन यशोदाप्रत्यक्षं प्रमाणयतीत्युक्तेः ॥ ५६ ॥

॥ इति श्रीसत्यधर्मतीर्थकृतायां श्रीमद्भागवतविवृतौ

सप्तमस्कन्धे सप्तमोऽध्यायः ॥

मन्दनन्दिनी

उपसंहरति ॥ एतावानिति ॥ परः स्वार्थ उत्तमः पुरुषार्थः । तदीक्षणं भगवदीक्षणम् ॥ ५६ ॥

**॥ इति श्रीमद्भागवतटिप्पण्यां श्रीव्यासतत्वज्ञविरचितायां **

मन्दनन्दिन्यां सप्तमस्कन्धे सप्तमोऽध्यायः ॥