०६ षष्टोऽध्यायः

हन्तार्भका मे शृणुत वचो वः सर्वतः शिवम्

॥ अथ षष्ठोऽध्यायः ॥

प्रह्लाद उवाच–

हन्तार्भका मे शृणुत वचो वः सर्वतः शिवम् ।

वयस्यान् पश्यत मृतान् क्रीडान्धा मा प्रमाद्यथ ॥ १ ॥

पदरत्नावली

मुकुन्दचरणारविन्दनिरन्तरसेवैवेहामुत्रानश्वरानन्दनिदानं नान्यत् । अतः सैव बुभूषुभिरनुदिनं कर्तव्येति विधीयतेऽस्मिन्नध्याये ।

तत्र प्रह्लादो बालकान् किमाहेत्याशङ्क्याह– हन्तेति ॥ हन्तेति बालानुकम्पायां वाक्यारम्भे वा । त्वद्वचःश्रवणात् किं फलं स्यादिति तत्राह– व इति ॥ वः सर्वतः सर्वस्मात् शिवं सुखं स्यादिति शेषः । कीदृशं वच इत्यतो वाह– व इति ॥ शिवं शुभं मङ्गलम् । ननु कस्मात् (हेतोः) मङ्गलमिति तत्राह– वयस्यानिति ॥ संसारविरक्तिजनकत्वेन पुरुषार्थहेतुत्वान् मङ्गलमित्यर्थः । अनेन ‘अधुनाऽस्माकं बाल्यम्, उत्तरत्र श्रेयस्सम्पादनाय प्रयतामहे’ इत्याशा निरस्तेति ज्ञायते । यतोऽस्मदायुः कृतान्तविलुलितं तस्मात् क्रीडासक्तत्वेन युष्मद्धितविमर्शप्रमादो न कार्य इत्याह– क्रीडान्धा इति ॥१॥

प्रकाशिका

प्रह्लादो बालकानामनुकम्पया वैराग्यादिरूपमोक्षसाधनमुपदिशति । हन्तार्भका इत्यादिना । हन्तेत्यनुकम्पायाम् । सर्वत इहामुत्र च शिवं सुखसाधनम् । क्रीडान्धाः क्रीडादिना आयुर्व्ययं कुर्वाणाः । प्रमाद्यथ । मोक्षसाधनसम्पादन इति शेषः । अधुना वयं बालाः । उत्तरत्र तत्सम्पादयिष्याम इत्यत उक्तम् । वयस्यानिति । आयुष्यं न स्वाधीनमित्याशयः ॥ १ ॥

मन्दनन्दिनी

मुकुन्दसेवैव बुभूषुभिः सम्पाद्येत्याशयेन प्रह्लादो बालानुपदिशति ॥ हन्तेति ॥ हे अर्भकाः । वो युष्माकं सर्वतः सर्वप्रकारेण शिवं मङ्गलं वचः शृणुत । हन्तेत्यनुकम्पायाम् । वयस्यान्पश्यत मृतान् । तेन दर्शनेन जातवैराग्याः । क्रीडांधाः सन्तो मा प्रमाद्यथ भगवद्विषये प्रमादं मा कार्ष्ट ॥ १ ॥

न पुरा विवशा(शं) बाला१ आत्मनोऽर्थे प्रियैषिणः ।

गुरूक्तमपि न ग्राह्यं यदनर्थेऽर्थकल्पनम् ॥ २ ॥

पदरत्नावली

ननु बालानां लीलान्धत्वं स्वभाव इति तत्राह– नेति ॥ इतः पुरातना बाला अन्तःकरणं क्रीडायां विवशं न, कुर्वन्तीति शेषः । तर्हि किं कारणं वर्तत इति तत्राह– आत्मन इति ॥ आत्मनोऽर्थे जन्मप्रभृति आत्मनोऽर्थे आत्मनः प्रियैषिणः परमात्मनः ज्ञानेच्छवः । मोक्षलक्षण-प्रियेच्छवो वा । आत्मनः प्रियैषिणः स्वप्रयोजनमाकाङ्क्षमाणा आबाल्यात् प्रयतन्त इति वा । नन्वस्माभिरपि शण्डामर्काभ्यां गुरुभ्यामुपदिष्टत्रिवर्गविषयशास्त्रश्रवणश्रेयसि प्रवर्त्यते । तत्र गुर्ववसर-प्रतीक्षणायेयं क्रीडेति तत्राह– गुरूक्तमिति ॥ कुतो न ग्राह्यमिति तत्राह– यदनर्थ इति ॥ संसार-हेतुत्वादनर्थे त्रिवर्गलक्षणेऽश्रेयसि अर्थकल्पनं यत्, तस्मादिति शेषः । ‘त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते’ इत्यादेः । ‘इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः’ इत्यादेश्च ॥ २ ॥

प्रकाशिका

ननु बालानां मोक्षसाधनसम्पादनं क्वापि न दृष्टमित्यत आह । न पुरेति । पुरा इतः पुरातना बाला विवशा मोक्षसाधनसम्पादने प्रमादयुक्ता नेत्यर्थः । किं तर्हीत्यपेक्षायामाह । आत्मन इति ॥ आत्मनोऽर्थे स्वात्मप्रयोजनाय प्रियैषिणः जन्मप्रभृतिपरमात्मज्ञानेच्छवः । नन्वस्माभि-रपि गुरूक्तं त्रिवर्गसाधनं सम्पाद्यत इत्यत आह ॥ गुरूक्तमपीति । कुत इत्यत आह । यदनर्थ इति । संसारहेतुत्वादनर्थे त्रिवर्गेऽर्थकल्पनं यत्तस्मात् ॥ २ ॥

मन्दनन्दिनी

बालाः क्रीडान्धा भवन्त्येवेत्यत आह ॥ नेति ॥ पुरातना बाला मार्काण्डेय-प्रभृतय आत्मनोऽर्थे स्वश्रेयसे प्रियैषिणस्तत्साधनविचारपरा न क्रीडान्धा इति योजना । गुरूक्तं हित-साधनं गृह्णीम एवेत्यत आह ॥ गुर्विति ॥ अनर्थे वस्तुतोऽनर्थे त्रिवर्गेऽयमेव पुरुषार्थ इत्यर्थकल्पनं तद्गुरूक्तमपि न ग्राह्यम् ॥ २ ॥

यदुक्त्या न प्रबुध्येत सुप्तस्त्वज्ञाननिद्रया ।

न श्रद्दध्यान्मतं तस्य यथाऽन्धो ह्यन्धनायकः ॥ ३ ॥

पदरत्नावली

ननु गुरूक्तेर्यथार्थत्वेन ज्ञानहेतुत्वोपपत्तेः कथं तदनर्थेऽर्थकल्पनमिति तत्राह– यदुक्त्येति ॥ अज्ञानलक्षणनिद्रया सुप्तः । त्रिवर्गविषयलक्षणाग्रहलक्षणे यथार्थज्ञानविरोधित्वाद् अज्ञानं नाम । न तु ज्ञानमात्राभावः । सुप्तस्यापि गुरूक्त्या प्रबोधो हि प्रयोजनम् । स नोत्पद्यते चेत् तदुपदेशेन किं प्रयोजनम् ? प्रत्युत तदनुष्ठानेनानर्थ एव स्यादिति भावः । अतः फलितमाह– नेति ॥ अत्रोदाहरणमाह– यथेति ॥ अन्धो नायको नेता यस्य स तथा । हिशब्देनोभयोरप्यन्धत्वान्मार्गज्ञानं नोत्पद्यते यथा तथाऽत्रापीति । अस्मात् श्रद्धा न कार्या ॥ ३ ॥

प्रकाशिका

ननु वैषयिकसुखभोगरूपश्रेयःसाधनत्वात्कथं तदुक्तं न ग्राह्यमित्यत आह । यदुक्त्येति । यस्य गुरोरुक्त्याऽज्ञानाख्यनिद्रया सुप्तो ऽविद्यया संसारे पतितः पुमान्न प्रबुध्येत । आत्यन्तिकसुखसाधनमज्ञाननिवर्तकं च भगवज्ज्ञानं न सम्पादयेत् । तस्य गुरोर्मतं न बुध्यात् । तत्र श्रद्धां न कुर्यात् । संसारकारणीभूतेऽज्ञाने सति यद्वैषयिकं सुखं तद्दुःखाविनाभूतम् अनर्थरूपमेवातो न साधनोप-देष्टृगुरूक्तं ग्राह्यं किन्तु अज्ञाननिवर्तकभगवज्ज्ञानोपदेष्टृगुरूक्तमेव ग्राह्यमित्याशयः । अन्धः नायकः ग्रामादिप्रापको यस्य स तथा ॥ ३ ॥

मन्दनन्दिनी

अज्ञाननिद्रया सुप्तो यदुक्त्या यस्य गुरोरुक्त्या न प्रबुध्येत ज्ञानलक्षणप्रबोधवान्न भवेत् । तस्य मतं न श्रद्दध्यान्न विश्वस्यात् । सः श्रद्दधानोंऽधो नायको यस्य तादृशोंऽधो यथा ॥ ३ ॥

कः शत्रुः क उदासीनः किं मित्रं चेह आत्मनः ।

भवत्स्वपि नयैः किं स्याद् दैवं सम्पद्विपत्पदम् ॥ ४ ॥

पदरत्नावली

ननु ‘समूलघातमघ्नन्तः परान् नोद्यन्ति भूभृतः’ ‘निक्षिप्योदर्चिषं कक्षे शेरते तेऽभिमारुतम्’‘आपत्सु मित्रं जानीयात् पुत्रमुत्तरजन्मनि’ ‘य उदास्ते स्वकार्येषु स निन्द्यो यत्नतो नरः’ इत्यादिनीतिशास्त्रं शत्रुमित्रोदासलक्षणज्ञापकं हितकारित्वादिति आभ्यां नो बोध्यते । तन्मतं कथं न श्रद्धध्यादित्युच्यत इति तत्राह– क इति ॥ यः शत्रुः स आत्मनो मम पक्षे कः ? न कोऽपीत्यादि योज्यम् । त्वत्पक्षे शत्र्वाद्यभावेऽप्यस्मत्पक्षे स्युरिति तत्राह– भवत्स्विति ॥ भवत्पक्षेऽपि के शत्र्वादयः स्युः ? न कोऽपि । अतो नयैर् नीतिशास्त्रश्रवणजनितैर्नीतिभिः किं फलं स्यात् ? न किमपीत्यर्थः । नीतिभिरापत्परिहारः सम्पत्प्राप्तिश्च स्यातामिति तत्राह– दैवमिति ॥ सर्वोत्कृष्टत्वात् श्रीनारायण एव सम्पद्विपदाश्रयः । न नीतिमान् तस्यान्वयव्यतिरेकाभावात् । अस्मत्पित्रादौ दर्शनात् । आत्मनो देहस्य यः शत्र्वादिस्तस्य भवत्सु स्थितैर्नयैः किं स्यात् ? अपरिहार्यत्वान्मरणादिकं प्राप्यत एव । कामादिक-मज्ञानसम्भवं ज्ञानमन्तरेण न नयमात्रेण परिह्रियत इति । शेषं पूर्ववत् ॥ ४ ॥

प्रकाशिका

ननु शत्रुमित्रोदासीनस्वरूपपरिज्ञानमस्मद्गुरूपदिष्टशास्त्राद्भवति । अतः कथं तदुक्तं न ग्राह्यमित्यत आह । क इति । हरिरेव तत्तत्कर्मानुसारेण शत्र्वादिषु स्थित्वा शत्रुत्वादिकं प्रेरयतीति जानत आत्मनो मम पक्षे कः स्वातन्त्र्येण शत्रुर् न कोऽपीत्यादि योज्यम् । ननु सम्पद्विपत्साधनानीति परिज्ञानं तस्माच्छास्त्राद्भवतीत्यत आह । भवत्स्वपीति । नयैर्नीतिभिर्भवत्स्वपि भवत्पक्षेऽपि किं स्यान्न किमपि । ननु सम्पदादिकं स्यादित्यत आह ॥ दैवमिति । अदृष्टप्रेरको हरिरेव सम्पदां विपदां च पदं स्थानं निमित्तमिति यावत् । अतो न तदर्थमपि तच्छास्त्रं च ग्राह्यमित्याशयः ॥ ४ ॥

मन्दनन्दिनी

शत्र्वादिलक्षणस्य तेषु कर्तव्यस्य च ज्ञानाय तत्प्रयुक्तसम्पद्विपत्प्राप्ति परिहार-लक्षणप्रयोजनाय च नीतिशास्त्रमभ्यसनीयमित्यत आह ॥ कः शत्रुरिति ॥ आत्मनो मम कः शत्रु-रित्यादिनाऽऽक्षेपो भवत्स्वप्येवमेवेति । नयैर् नीतिशास्त्रैः किं प्रयोजनं स्यात् । सम्पद्विपदोः । पद्यते गम्यतेऽनेनेति पदं निमित्तं दैवमेव भगवानेवेति योजना ॥ ४ ॥

यो न हिंस्याद् धर्मकाममात्मानं स्वजनेऽवशः ।

पुनः श्रीलोकयोर्हेतुः स मुक्तान्ध्योऽतिदुर्लभः ॥ ५ ॥

पदरत्नावली

ननु तर्हि मा भूत् श्राव्यं नीतिशास्त्रं प्रवृत्तिलक्षणधर्मशास्त्रमभ्यसनीयम्, श्रेयो-हेतुत्वात् ? अत्राह– य इति ॥ य आत्मानं परमात्मानमुद्दिश्य धर्मकामं धर्मेच्छां न हिंस्यान् न हिनस्ति न त्यजति किञ्चानुतिष्ठति सोऽतिदुर्लभः । प्रशान्तात्मा कोटिष्वपि महान् मत इति स्वोक्तेः । अवशीकृतेन्द्रियग्रामस्य भगवद्विषयनिवृत्तिलक्षणधर्मेच्छा कथं स्यादिति तत्राह– स्वजन इति ॥ स्वेन सह जन्यत इति स्वजन इन्द्रियग्रामः । तस्मिन् विषये वशो न भवति, वशीकृतेन्द्रियग्राम इत्यर्थः । यद्वा पुत्रमित्रादिलक्षणे स्वजने वशो न, स्वजनानुष्ठानाननुकूलपुत्रादिक इत्यर्थः । अत एव मुक्तान्ध्य उज्झितान्धस्वभावः । नन्वैहिकामुष्मिकफलाकाङ्क्षायां निवृत्तिधर्ममनुतिष्ठतः कथं तत्फलावाप्तिः स्यात् ? अत्राह– पुनरिति ॥ पुनश् चार्थे । निवृत्तधर्ममनुतिष्ठन् श्रीलोकयोर् इहलोकपरलोकयोर् हेतुश्च भवति । पुनः निवृत्तधर्मानुष्ठानानन्तरं वा । प्रवृत्तिनिवृत्तिधर्मयोरनुष्ठात्रोः पुनर्भेदोऽस्ति । पूर्वस्य ततः पातोऽस्ति । इमं लोकं हीनतरं वा विशन्ति’, ‘क्षीणे पुण्ये मर्त्यलोकं विशन्ति’ इत्यादेः । अन्यस्य ज्ञानसामग्रीं सम्पाद्य ततः पुनरन्ते वैकुण्ठलोकप्राप्तिश्च स्यात् । ‘स एवास्माज् जीवघनात् परात् परं पुरिशयं पुरुषमीक्षते’ ‘यं यं लोकं मनसा संविभाति विशुद्धसत्वः कामयते यांश्च कामान् । तं तं लोकं जयते तांश्च कामांस्तस्मादात्मज्ञं ह्यर्चयेद् भूतिकामः’ इत्यादेः। ‘पुनरप्रथमे भेदे’ इत्यमरः । यद्वा आत्मानं धर्मयुक्तः कामो यस्य स तथा तं वा नरं (यः)न हिंस्यान् न पीड्यति । स्वात्मानं प्रवृत्तधर्मकांक्ष्येण पीडितं न करोति सोऽपि दुर्लभः । धर्मे धारके हरौ कामो यस्य स तथा निवृत्तिधर्मरत इत्यर्थः । तं नाधःपातयति इति वा । सज्जनसेवानिरतत्वेन तद्वशश्च । श्रिय ऐहिक्याः सम्पदः स्वतः सम्पन्नायाः, लोकस्य ज्ञानस्य अपरोक्षलक्षणस्य च पात्रं वा । अत्र प्रवृत्तिनिवृत्तिलक्षणौ धर्मावनुष्ठाय तत्फला-निच्छुत्वेन भगवद्भक्तिमनिशं कुर्वाणः पुरुष उत्तम इति तात्पर्यम् ॥ ५ ॥

प्रकाशिका

नन्वेवं त्वद्विधो ज्ञानी कुतोऽस्माभिर्न दृश्यत इत्यत आह । य इति । स्वजने पुत्रकलत्रादिरूपेऽवशः वशो न भवति । धर्मकामं निवृत्तधर्मेच्छावन्तम् आत्मानं यो न हिंस्यान्न हिनस्ति । तदनुष्ठानपरित्यागेन स्वात्मघातं न करोति तदनुष्ठातेति यावत् । स मुक्तान्ध्यः । परिमुक्ता-ज्ञानोऽति दुर्लभोऽतो न दृश्यत इत्याशयः । ननु निवृत्तधर्ममनुतिष्ठतो नैहिकामुष्मिकफलावाप्तिरित्यत उक्तम् । पुनःश्रीलोकयोर्हेतुरिति । चार्थे पुनःशब्दः । श्रीशब्द ऐहिकैश्वर्यादिपरः । श्रीलोकयो-रैहिकैश्वर्यपुण्यलोकयोर्हेतुश्च सम्पादयिता च भवति । ‘‘प्राप्य पुण्यकृतान् लोकानुषित्वा शाश्वतीः-समाः ॥ शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ इति वचनात् ॥ ५ ॥

मन्दनन्दिनी

नीतिशास्त्रस्यानादरणीयत्वेऽपि स्वर्गसम्पदादिहेतुभूतं धर्मशास्त्रमध्येतव्यमित्यत आह ॥ य इति ॥ स्वजने वशः स्वस्वबन्धुषु हितः । राजसूयज्योतिष्टोमाद्यनुष्ठानेन तदनुष्ठापनेन च पुनर्मुहुः श्रीलोकयोः स्वाराज्यस्वर्गयोः स्वस्मिन्स्वजनेषु हेतुः स आन्ध्यवान् । जननमरणमार्गा-पर्यवसानात् । प्रवृत्तधर्मकामम् आत्मानं हिनस्ति च । इष्टापूर्तं मन्यमाना वरिष्ठमित्यादेः । यस्त्वेवं न हि स्यात्स मुक्तान्ध्यः । जननादिमार्गपर्यवसानदर्शनवान् सोऽतिदुर्लभ इति योजना । निवृत्तधर्ममेवानुष्ठेयम् । इदं च गुरुणोच्यमानं प्रवृत्तधर्मशास्त्रं नाभ्यसनीयमिति भावः ॥ ५ ॥

कौमार आचरेत् प्राज्ञो धर्मान् भागवतानिह ।

दुर्लभं मानुषं जन्म तदप्यध्रुवमर्थदम् ॥ ६ ॥

पदरत्नावली

नन्वस्तु निवृत्तिधर्मानुष्ठानस्य श्रेयःसाधनत्वम् । तस्य नेदानीमवसरः । वार्धके कर्तव्यत्वाविनाभूतत्वात् । ‘बाल्ये विद्यां निषेवेत यौवने दारसङ्ग्रहम् । स्थाविर्ये मोक्षमातिष्ठेत् सर्वदा धर्ममाचरेत् ॥’ इति स्मृतेरिति तत्राह– कौमार इति ॥ सर्वदेति विशेषणाद् विद्याभ्यासकालेऽपि मोक्षधर्मानुष्ठानं कर्तव्यमिति न तस्य स्मृतिविरोधः । नानायोनिषु का योनिः श्रेयःसाधनमिति तत्राह– दुर्लभमिति ॥ यन्मानुषं जन्म तदपि तदेव अर्थदं ज्ञानादिप्रयोजनप्रदम् । अत एव बहुपुण्यसाधनत्वाद् दुर्लभम् । तर्हि चिरकालस्थायि किम् ? नेत्याह– अध्रुवमिति ॥ ‘सस्यमिव मर्त्यः पच्यते सस्यमिव जायते पुनः’ ‘अपि सर्वं जीवितमल्पमेव तवैव वाहास्तव नृत्तगीतम्’ इत्यादिश्रुतेः । अध्रुवमपि मानुषं जन्म सुदुर्लभं तत्राप्यर्थदं दुर्लभतरम् । ‘एतद्धि दुर्लभतरं लोके जन्म यदीदृशम्’ इति स्मृतेः ॥ ६ ॥

प्रकाशिका

ननु निवृत्तधर्मानुष्ठानं चेदात्यन्तिकसुखसाधनं तर्हि न तदनुष्ठानस्याऽयमवसरः । ‘‘बाल्ये विद्यां निषेवेत यौवने दारसङ्ग्रहम् । स्थाविर्ये मोक्षमातिष्ठेत्सर्वदा धर्ममाचरेत्’’ ॥ इति स्मृते-रित्यत आह । कौमार इति ॥ धर्माचरणे सर्वदेति विशेषणाद्विद्याभ्यासकालेऽपि निवृत्तधर्मानुष्ठानं कार्यमेवेति तस्यामेव स्मृतावुक्तत्वादित्याशयः । इहास्मिन्मनुष्यजन्मनि । यतो मानुषं जन्मार्थदं सर्व-पुरुषार्थसाधकम् । तत्रापि कौमारे पूर्वे वयसि यतस् तदपि पुरुषार्थसाधनमप्यध्रवम् । न चैवंविधे जन्मान्तरे धर्माचरणं भविष्यत्यतः किमिहेति विशेषणेनेत्यत उक्तम् । दुर्लभमिति ॥ जन्मान्तरमेवंविधमेव भविष्यतीति न नियम इति भावः ॥ ६ ॥

मन्दनन्दिनी

निवृत्तधर्मानुष्ठाता दुर्लभ इत्युक्तत्वात्तदनुष्ठानं कर्तव्यमित्यायातम् । तथाऽपि तत्तिर्यगादिजन्मनि भाविमानुषजन्मनि वा । इहाप्यवस्थान्तरे वा किं न स्यादित्यत आह ॥ कौमार इति ॥ प्राज्ञो बुद्धिमान् इह वर्तमाने मानुषजन्मनि कौमारे कौमारावस्थायां भगवत्तुष्टिकरान् धर्मान् आचरेत् । अर्थदं वेदाधिकारगुरूपसत्त्यादिद्वारा पुरुषार्थदम् । मानुषं जन्म दुर्लभमध्रुवमपि तत्तस्मादिति योजना । तिर्यगादिजन्मनोऽधिकाराद्यसम्पादकत्वान्मानुषस्य दुर्लभत्वाद्वर्तमाने जन्मनि कौमारे भगवद्धर्मानाचरेदिति सिद्धम् । ‘‘बाल्ये विद्यां निषेवेत यौवने दारसङ्ग्रहः । स्थाविर्ये मोक्षमातिष्ठेत्सर्वदा धर्ममाचरेत्’’ ॥ इति स्मृतिस्त्वन्ततः स्थाविर्ये कर्तव्यत्वार्था न तु बाल्ये निषेधार्था । ‘‘एतद्वै मुखतोऽन्नं राद्धं मुखतोऽस्मा अन्नं राध्यते । यदहरेव विरजेत्तदहरेव प्रवृजेत्’’ इत्यादिश्रुतेरिति भावः ॥ ६ ॥

यदा हि पुरुषस्येह विष्णोः पादोपसर्पणम् ।

यदेष सर्वभूतानां प्रिय आत्मेश्वरः सुहृत् ॥ ७ ॥

पदरत्नावली

ननु कथङ्कारं पुरुषार्थप्रदं तत् ? अन्यथा तद्वतां सर्वेषामपि पुरुषार्थ स्यात् । न चासौ सम्भवति अदर्शनादश्रवणाच्चेत्याशङ्क्य चिकित्सामाह– यदा हीति ॥ इह मानुषे यदा यदि बुभूषोः पुरुषस्य विष्णोः पादोपसर्पणं सम्भवति तर्ह्यर्थदम् । ‘यावत्सेवा परे तत्वे तावत्सुखविशेषता’ इत्येतद् हिशब्देन सूचयति । अतो मानुषी योनिरेव निःश्रेयसः कारणं नान्या । असङ्गत्वा-द्वेदानर्हत्वेनान्यासाम् । अतः कौमारवय आरभ्य भगवत्सेवा कर्तव्येति भावः । ननु श्रीहरि-सेवामन्तेणान्यसेवा अर्थदा किं न स्यादिति तत्राह– यदेष इति ॥ सर्वभूतप्रियत्वादिगुणयुक्त एष इति यत् तस्माद् एतत्सेवैव पुरुषार्थदा नान्यसेवा । ‘तदेतत् प्रेयः’ इति श्रुतेः । ‘एष सर्वेश्वरः’ इति च ॥७॥

प्रकाशिका

ननु मानुषं जन्मार्थदं चेत्सर्वेऽपि कुतो मोक्षं न साधयन्तीत्यत आह ॥ यदा हीति इह मानुषे जन्मनि विष्णोः पादोपसर्पणं कुतः कार्यमित्यत उक्तं यदेष इति । आत्मा अन्तर्यामी । अन्ये तु नैतादृशा इत्याशयः ॥ ७ ॥

मन्दनन्दिनी

निवृत्तधर्मानुष्ठानबुद्धिः कदेत्यत आह ॥ यदेति ॥ यद्यस्मादेष विष्णुः सर्वभूतानां प्रियादिर्हि तस्मात्पुरुषस्य विष्णोः पादोपसर्पणं कर्तव्यम् । तच्च यदा तदा धर्मानुष्ठानबुद्धिरित्यध्याहृत्य योजना ॥ ७ ॥

सुखमैन्द्रियकं दैत्या देहयोगेन देहिनाम् ।

सर्वत्र लभ्यते दैवाद् यथा दुःखमयत्नतः ॥ ८ ॥

पदरत्नावली

इतोऽपि भगवत्सेवालक्षणनिवृत्तिधर्मानुष्ठानमेव कर्तव्यम् । न प्रवृत्तिधर्मसेवनम् । विषयसुखसौलभ्याय तदनुष्ठानमिति नोच्यते तदन्तरेणापि तल्लभ्यते यथा दुःखमित्याह– सुखमिति । सर्वत्र नरकादावपि । ‘सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्’ इति स्मृतेः । दैवात् प्राप्तस्य प्रेरकात् ॥ ८ ॥

प्रकाशिका

नन्विदानीमेव भागवतधर्मानुष्ठानाय यत्नश्चेद्वैषयिकसुखयत्नाभावात्तदलाभ एवेत्यत आह । सुखमिति ॥ ऐन्द्रियिकमिन्द्रियविषयसम्बन्धि । हे दैत्या देहयोगेन नानादेहसम्बन्धेन सर्वत्र पश्वादिजन्मस्वपि दैवाददृष्टप्रेरकेश्वरात् । अत्रोदाहरणमाह । यथेति ॥ अयत्नतः । यत्नाभावेऽपि ॥८॥

मन्दनन्दिनी

विषयानुभवद्वारेन्द्रियजन्यं सुखं कथं लभ्यत इत्यतो दैवात्प्रारब्धकर्मवशा-द्दुःखवत्तदवर्जनीयमित्याह ॥ सुखमिति ॥ योजना तु स्पष्टा ॥ ८ ॥

तत् प्रयासो न कर्तव्यो यत १आयुर्व्ययः परम् ।

न तथा विन्दते क्षेमं मुकुन्दचरणाम्बुजम् ॥ ९ ॥

पदरत्नावली

अतश्च किमिति तत्राह– तदिति ॥ तस्मात् प्रयास ऐन्द्रियसुखप्राप्तये प्रवृत्तिधर्मकरणबहुक्लेशो न विधेयः । कुतो न विधेय इति तत्राह– आयासेति ॥ परं केवलम् आयासेनायुषो व्ययः क्षय एवावशिष्यत इति शेषः । प्रवृत्तिधर्मानुष्ठानस्य दुःखासंभिन्नप्रदेशोद्देशत्वात् तत् कथं दुःखकल्पत्वेन निन्द्यत इति तत्राह– न तथेति ॥ मुकुन्दचरणाम्बुजं भजन् यथा क्षेमं विन्दते प्रवृत्तिधर्मानुष्ठायी न तथा अनश्वरं सुखं लभत इत्यर्थः । ‘प्लवा ह्येते अदृढा यज्ञरूपाः’ इति श्रुतेः ॥९॥

प्रकाशिका

निगमयति । तदिति । तत्तस्मादायासो यत्नतः सुखार्थमिति शेषः । कुत इत्यत आह । यत इति । यत आयासात् । परं केवलमायुषो व्ययः । सुखं तु दैवादेव लभ्यत इत्याशयः । ननु सुखदुःखवन्मोक्षसाधनं मुकुन्दचरणाम्बुजसमर्पणमपि दैवादेव प्राप्तं भविष्यति । अतस्तदर्थमपि यत्नो न कार्य इत्यत आह । न तथेति । क्षेमं क्षेमकरम् । चरणाम्बुजं तदुपसर्पणं तथा सुखदुःखयोरिव दैवान्न विन्दते न लभते । तादृशादृष्टविशेषस्य पूर्वमसत्वात् । अनादौ संसारे सुखदुःखजनकान्येवादृष्टानि सम्पादितानि सन्ति न तु मोक्षजनकमदृष्टं येन तत्प्रेरकेश्वरादेव तल्लभ्यत इति शङ्का स्यादित्याशयः ॥९॥

मन्दनन्दिनी

यतः परं केवलमायुर्व्ययस्तत्प्रयासः प्रवृत्तधर्मानुष्ठानक्लेशो न कर्तव्यः । तथा विधः पुरुषः । क्षेमं मुकुन्दचरणाम्बुजं न विन्दत इति योजना ॥ ९ ॥

ततो यतेत कुशलः क्षेमाय च यमाश्रितः ।

शरीरं पौरुषं यावन्न विपद्येत पुष्कलम् ॥ १० ॥

पदरत्नावली

तस्मादिदमेव कर्तव्यमिति तत्राह– तत इति ॥ चशब्दो यद्यदभीष्टं तत्तत्प्राप्तय इत्याह । इतोऽपि बाल्य एव मुक्तये प्रयतेतेत्याह– शरीरमिति ॥ पौरुषं पुरुषस्य विद्यमानं पुष्कलं पुष्टम् अन्धपङ्गुत्वाद्यवयववैकल्यविधुरमित्यर्थः । विपद्येत मरणलक्षणविपत्तिं प्राप्नोति । ततः प्रागेव यतेतेति शेषः ॥ १० ॥

प्रकाशिका

तत इतःपूर्वं तादृशादृष्टाभावात्तदर्थम् । चशब्दोऽवधारणे यतेतैव । यमाश्रितः यमाद्यनुष्ठानं कुर्वन्पौरुषं पुरुषस्य विद्यमानम् । पुष्कलमवयवपुष्टिमत् । न विपद्येताक्षमं न भवेत् । तावच्छीघ्रं क्षेमाय यतेतेत्यन्वयः । अनेन कौमार आचरेदित्येतदुपसंहृतमिति ज्ञातव्यम् ॥ १० ॥

मन्दनन्दिनी

शरीरं पौरुषं बलोपेतं पुष्कलं सर्वेन्द्रियोपेतं यावन्न विपद्येतान्यथा न भवेत् । चोऽवधारणे । तावदेव तं विष्णुमाश्रितस्तत इतरेण प्रयोजनाभावादनेन प्रयोजनसद्भावाच्च कुशलः क्षेमाय मोक्षाय यतेत ॥ १० ॥

पुंसां वर्षशतं ह्यायुस् तदर्धं चाजितात्मनः ।

निष्फलं यदसौ रात्र्यां शेतेऽन्धं प्रापितस्तमः ॥ ११ ॥

पदरत्नावली

‘शतायुर्वै पुरुषः’ इति वचनात् शतायुः शरीरस्थितेर्निश्चितत्वात् तदन्तराल-कालेऽनेकश्रेयः समर्जनोपपत्तेर्बाल्य एव निवृत्तिलक्षणश्रेयसे यतनीयमिति नियमो नापेक्षित इत्याशङ्क्य गर्भवासमारभ्य शतायुःपर्यन्तं स्वतः परतो वा शरीरस्य नाशदर्शनान्न तत्स्थितिनिश्चयः । शाश्वतोऽस्तु वा कस्यचित् तथाऽपि न श्रेयोयत्नो दरीदृश्यते । अन्यव्यापारायासग्रस्तत्वेन दिनमेलनलक्षितवत्सराणां क्षयात् । एवं न लक्षवर्षायुषेणापि मुकुन्दचरणारविन्दसेवालक्षणश्रेयःसम्पादनं सुशकमित्याह– पुंस इति

॥ ११ ॥

प्रकाशिका

कौमारे धर्माचरणं कार्यमित्यत्र रतिमुत्पादयितुं विषयासक्तानाम् आयुर्व्ययप्रकार-माह । पुंसामिति त्रिभिः ॥ ११ ॥

मन्दनन्दिनी

कौमार एव यतेतेत्युपपादयितुं शतायुष्मतामङ्गीकृत्यापि यत्नाभावे प्रकारान्तरेण व्ययमुपपादयति ॥ पुंस इत्यादिना श्लोकत्रयेण ॥ अजितात्मनोऽजितेन्द्रियस्य । निद्रादिजयरहितस्येति यावत् । अन्धयतीत्यन्धन्तमः प्रापितः । यद्यस्मात् शेते तत्तस्मादर्धमायुर्निष्फलं याति ॥ ११ ॥

मुग्धस्य बाल्यकौमारैः क्रीडतो याति विंशतिः ।

जरया ग्रस्तदेहस्य यात्यकल्पस्य विंशतिः ॥ १२ ॥

मन्दनन्दिनी

अकल्पस्यासमर्थस्य ॥ १२ ॥

दुरापूरेण कामेन मोहेन च बलीयसा ।

शेषं गृहेषु सक्तस्य प्रमत्तस्यापयाति हि ॥ १३ ॥

पदरत्नावली

दुरापूरेण नशक्यपूरणेन । हिशब्दो हेतौ ॥ १३ ॥

प्रकाशिका

दुरापूरेण अशक्यपूरणेन हिशब्दो हेतौ । तस्मादायासो न कर्तव्य इत्यन्वयः ॥१३॥

॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां

श्रीमद्भागतटिप्पण्यां सप्तमस्कन्धे षष्ठोऽध्यायः ॥

मन्दनन्दिनी

शेषं षष्ठिवर्षात्मकम् ॥ १३ ॥

पश्यध्वं मतिवैषम्यं१ ज्ञातीनां नः कुटुम्बिनाम् ।

श्रेयोविघातादायासादीहतामनु संसृतिम् ॥ १४ ॥

पदरत्नावली

निद्रादिकमन्तरेणावशिष्टकालान्तरालेऽपि श्रेयोविघ्नहेतुरस्तीत्याह– पश्यध्व-मिति ॥ कलहलक्षणं मतिवैषम्यम् । अनुसंसृतीत्यनेन एकोऽपि क्षणो नावशिष्यत इति सूचयति ॥१४॥

अथ श्रीमद्भागवतविवृतिः श्री सत्यधर्मतीर्थविरचिता प्रारभ्यते

अत्यायासो न कर्तव्य इत्याचार्यवचोनुगः ।

सप्तमस्कंधतात्पर्यं व्याकरोमि मितैः पदैः ॥ १ ॥

प्रल्हादो बालान्प्रति निद्राद्युपद्रवमन्तरेणापि योऽन्तरावशिष्टः कालः सोऽपि सान्तराय इति सदृष्टान्तमाचष्टे ॥ पश्यध्वं पश्यतेति । नः कुटुम्बिनां ज्ञातीनां मतिवैषम्यं कलहहेतुभूतबुद्धिविषमताम् । क्वचित्पश्यध्वमतिवैषम्यमिति दृश्यते पाठः । तत्रातिविषमतामित्यर्थः । श्रेयोविघातात् श्रेयस ऐहिकस्य पारत्रिकस्य च विघातो नाशो यस्मात्स तस्मादायासात् श्रमात् । अनु संसृतिमिति द्वे पदे । संसृतिमन्वित्यन्वयः । अनेनानुसंसृतीति भाव्यमिति शङ्का निरस्तेति मन्तव्यम् । प्रतिसंसारमीहतामीहमानानां मतिवैषम्यं पश्यध्वमित्यावृत्त्यान्वयो वा ॥ १४ ॥

मन्दनन्दिनी

न केवलमुक्तन्यायेनायुर्व्ययमात्रं किं त्वस्माकं ज्ञातीनां श्रेयोविघातायासजन्यं मतिवैषम्यं भगवता कलहलक्षणमतिवैषम्यं चास्तीत्याह ॥ पश्यध्वमिति ॥ संसृतिमनुसृत्येहतां चेष्टमानानामित्यर्थः ॥ १४ ॥

को गृहेषु पुमान् सक्तमात्मानमजितेन्द्रियः ।

स्नेहपाशैर्दृढं बद्ध२मुत्सहेत विमोचितुम् ॥ १५ ॥

पदरत्नावली

नन्वस्माकं श्रेयइच्छा नास्ति चेदनन्तेषु चेतनेषु कस्यचित् सा स्यात् । अवसरमापद्येतेति तत्राह– क इति ॥ १५ ॥

सत्यधर्मीया

नन्वस्माकमश्रेयस्कामत्वेऽप्यस्मिन्संसारे कश्चिद्विपश्चित्तत्कामुको वर्तेतेति चेत्तर्हि नैतादृशः स सुलभ इत्याह ॥ क इति । गृहेषु भार्यादिषु । अजितेन्द्रियोऽजितान्यन्यस्वाधीना-नीन्द्रियाणि यस्य स तथा । पुमान् स्नेहपाशैर्दृढं विनेश्वरप्रसादं छेत्तुमशक्यं यथा तथा बद्धं सक्तमात्मानं विमोचितुं विमोचयितुम् । उत्सहेतोत्साहं कुर्यात् । अनेनोत्साहस्यापि यदा न सम्भवस्तदा दूरे तच्छेदनमिति तस्यात्यशक्यतां सूचयति ॥ १५ ॥

मन्दनन्दिनी

गृहेषु सक्तश्चेन्न कोऽप्यात्मानं विमोचितुमुत्सहेत इत्याह ॥ क इति ॥ स्नेहपाशैः स्नेहलक्षणपाशैः ॥ १५ ॥

को न्वर्थतृष्णां विसृजेत् प्राणेभ्योऽपि य ईप्सितः१ ।

यं क्रीणात्यसुभिः प्रेष्ठैस्तस्करः सेवको वणिक् ॥ १६ ॥

पदरत्नावली

ननु प्रवृत्तिधर्मेण मा भूच्छ्रेयः । अर्थेन तत् स्यात् । अतो मुकुन्दपादसेवा कुतो नियुज्यत इति तत्राह– को न्विति ॥ योऽर्थस् तदर्थतृष्णाम् । अर्थान्वेषणवैतृष्णयैवार्जितस्य व्यये लिप्सा । ‘अर्थेन सुकृतं साधय’ इति बोधिते साधयिष्यामीति कण्ठोपरि गद्गदनिगदैनैव कालो यातीति पुरुषायुषेणापि वित्तेन सुकृतार्जनं दवीय इति वित्तव्ययमन्तरेण कायक्लेशेनैव श्रीहरिचरणनिषेवणं जन्मसफलं करोतीति भावः । तत्र दर्शनं प्रमाणयति । ‘तस्करादयो मृता अप्यर्थतृष्णां न मुञ्चन्ति’ इत्येतदुपलक्षणम् । परितः प्रत्येकमलम् । नानाजीवानां वर्तते ॥ १६ ॥

सत्यधर्मीया

वित्तवितरणेन पुमर्थः सम्पादयितुं शक्यः किं भगवत्सेवयेत्यत आह ॥ को न्विति । अर्थतृष्णां द्रव्यस्पृहां को नु विसृजेत् । दौर्घट्यमेव तस्याह ॥ प्राणेभ्य इति । य इत्यर्थ-परामर्शः । योऽर्थः प्राणेभ्योऽपीप्सितस्ततोऽपि प्रेमपदम् । अमुमर्थं निदर्शनेन द्रढयति ॥ यमिति । यमर्थं प्रेष्ठैः प्रीतिपात्रैरसुभिः प्राणैः । तस्करः सेवको वणिक् च । क्रीणाति । तस्करस्योपलम्भे देहनाशः । सेवकस्य युद्धादिगमने । वणिजस्तु मध्येध्वाऽध्वनीनचोरादित इति प्राणविक्रयो ज्ञेयः । पृथक् पृथगन्वयः । तद्बृहतोः करपत्योश्चोरदेवतयोः सुट्तलोपश्चेति सुट्तलोपश्च । न च तद्बृहच्छब्दयो-स्तकारस्यैव से विहिते लघुसूत्रं भवतीति वाच्यम् । ससजुषोरुरिति रुत्वप्राप्तेः२ । यथोक्तं शेखरे । करपत्योस्तु सुडिति । अतो न रुत्वम् । तद्बृहतोः सेत्यादेशे तु तद्दुर्वारमिति । सत्वविधानसामर्थ्यादेव रुत्वं न भवेदिति शङ्कनं समाधेयं शेखरैः ॥ १६ ॥

मन्दनन्दिनी

प्रवृत्तिधर्मो न प्रयोजनमित्युक्त्वाऽर्थोऽपि न प्रयोजनमित्याह ॥ को न्विति ॥ तस्करादिः राजभृत्येन प्रतियोधेन चोरेण हतः प्रेष्ठैः प्राणैर्यमर्थं क्रीणाति तादृशार्थतृष्णां प्राणेभ्योऽपि गरीयसीं को न विसृजेदिति योजना । अर्थे तृष्णा जाता चेत्प्राणानपि विसर्जयतीति न स पुरुषार्थ इति भावः ॥ १६ ॥

कथं प्रियाया अनुकम्पितायाः सङ्गं रहस्यं रुचिरांश्च मन्त्रान् ।

सुहृत्सुतस्नेहवशः१ शिशूनां कलाक्षराणामनुरक्तचित्तः ॥ १७ ॥

पदरत्नावली

ननु मा भूदर्थाच्छ्रेयः कामादस्तु इत्याशङ्क्य कीदृशोऽसौ ? भगवद्भक्तिकामो विषयकामो वा । न द्वितीयः । ‘अभिध्यायन् वर्णयति प्रमोदानतिदीर्घे जीविते को रमेत’ इत्यादि-शास्त्रनिन्दितत्वात् । नाद्यः । विषयविरक्त्या तत्त्यागेन भाव्यम् । तस्य दुःसाधनत्वादित्याह– कथ-मिति ॥ रहस्यं रहसि भवं सङ्गं मैथुनलक्षणम् । कथं त्यजेत इत्युत्तरेणान्वयः । मन्त्रादिगृहीतानां, सल्लापानां रसेनेति शेषः ॥ १७ ॥

सत्यधर्मीया

नार्थतो भवतु भवच्छेदः कामेन स्यादित्यतः स कामः संश्चेदर्थोऽपि न तथा-विधोऽनर्थकृदसंश्चेत्सोऽपि न कामनीय इत्याह ॥ कथमित्यादिना । अनुकंपितायाः पूर्वं स्वेन । प्रियाया भार्यायाः । एकवचनेनैकस्याः सहवासे दशेयं का कथा बव्हीनां महिषीणामिति कैमुत्यं ध्वनयामासेति ज्ञेयम् । रहस्यं रहसि एकान्ते भवम् । सङ्गं रमणलक्षणम् । शिशूनां कलाक्षराणां तेष्वनुरक्तं चित्तं यस्य स तथा । सुहृत्सुतस्नेहवशः । सुहृदो बन्धवः सुताश्च शिशुव्यतिरिक्तास् तेषां स्नेहवशस्तदधीनः सन् । रुचिरान्मन्त्रांस्तत्त्वेन प्रतीतालापान् कथं त्यजेतेत्युत्तरेणान्वयः । सुहृत्सुत स्नेहसित इत्यपि क्वचि-त्पाठः । स्नेहसितः स्नेहबद्ध इत्यर्थः ॥ १७ ॥

मन्दनन्दिनी

परमपुरुषार्थसाधनवैराग्यपरिपन्थित्वात्कामोऽपि न पुरुषार्थ इत्याह ॥ कथ-मित्यादिना ॥ विषयकामुकः कथं विषयांस्त्यजेतेति वक्ष्यमाणेन योजना । प्रथमान्तानि कामुकता-विवरणानि । द्वितीयान्तानि विषयविवरणानि । अनुकम्पिताया दयाविषयभूतायाः । एकान्तोप-देशान्मन्त्रान् । कलाक्षराणामव्यक्तमधुराणाम् । आकर्णने इति शेषः ॥ १७ ॥

प्रत्ताः स्मरंस्ता दुहितॄर्हृदय्या भ्रातॄन् स्वसॄर्वा पितरौ च दीनौ ।

गृहान् मनोज्ञान् रुचिरच्छदांश्च वृत्तीश्च कुल्याः पशुभृत्यवर्गान् ॥ १८ ॥

पदरत्नावली

प्रत्ता दत्ताः । हृदय्या हृदयप्रियाः । रुचिरच्छदान् रुचिरपरिकरान् । कुल्याः कुलपरम्परया समागताः । वृत्तीर् जीवनकरीः ॥ १८ ॥

सत्यधर्मीया

प्रत्ताः परस्मै दत्तास्ता दुहितॄः पुत्रीः । हृदय्या हृदयस्य प्रिय इति यत् । हृदयस्य हृल्लेखेति हृदादेशाभाव आर्षः । भ्रातॄन् सहोदरान् स्वसॄर्भगिनीः । प्रत्ता हृदय्या इत्यत्राप्य-न्वेति । अच उपसर्गात्त इति तादेशः । पितरौ पितामात्रेत्येकशेषः । मातरि पितरि दीनावित्यनेन न सेवानुसन्धानेन स्मरणं किन्तु जनापवादेनानिर्वाहपक्षे रक्षणार्थमिति ध्वनयति । अत एव तत्र हृदय्या इत्युक्तिश्च युक्तमितीति ज्ञेयम् । गृहान्मनोज्ञानिति यथायथं योग्यान्वयि । गृहाः पुंसि च भूम््नयेवेत्यमरः । मनोहरान्रुचिरच्छदान् । मनोहरपरिकरान् । कुल्याः कुलपरम्परायाता वृत्तीर्जीवनकरीः । पशुभृत्यवर्गा-न्स्मरन्कथं त्यजेतेत्यन्वयः ॥ १८ ॥

मन्दनन्दिनी

प्रत्ता दूरदेशस्थितवरेभ्यो दत्ताः । अथ उपसर्गात्तः । हृदय्या हृदयहिताः । रुचिरच्छदान् रुचिरपरिच्छदान् । कुल्याः कुलपरम्परया समागता वृत्तीर्जीवनकरीः ॥ १८ ॥

त्यजेत कोशस्थ इवेहमानः कर्माणि लोभादवितृप्तकामः ।

औपस्थ्यजैह्व्यं बहुमन्यमानः कथं विरज्येत दुरन्तमोहः ॥ १९ ॥

पदरत्नावली

कोशस्थः कोशकारी कीटः । एतदेव स्पष्टयति– औपस्थ्यमिति ॥ १९ ॥

सत्यधर्मीया

कोशस्थः कोशकारी कीटः स इव कर्माणि लोभात्तत्रैव काङ्क्षत ईहमानः कुर्वाणः । अवितृप्तकामो विषयालम्बुद्धिहीनः । उपस्थे जिव्हायां च भवम् औपस्थ्यं जैव्ह्यं च सुखं बहुमन्यमानः सम्मानयानो दुरन्तमोहादनवसानवैचित्याद्धेतोः कथं विरज्येत विरक्तो भूयान्न भूयादेवेत्यर्थः ॥ १९ ॥

मन्दनन्दिनी

कोशस्थः कोशे विद्यमानकीट इव कर्माणि अशनादीनीहमान औपस्थ्य-जैव्ह्यमुपस्थजिह्वाकरणकं कर्म व्यसनाशनादिकमित्यर्थः ॥ १९ ॥

कुटुम्बपोषाय च यन्निजायुर्न बुध्द्यतेऽर्थं विहितं प्रमत्तः ।

सर्वत्र तापत्रयदुःखितात्मा निर्विद्यते न स्वकुटुम्बरामः ॥ २० ॥

पदरत्नावली

यद् इतिक्लृप्तं निजमात्मीयम् आयुर् यस्य स तथा । शास्त्रविहितमर्थं श्रेयोलक्षणं न बुद्ध्यते । स्वकुटुम्बे भार्यादौ रामः क्रीडा यस्य स तथा । न निर्विद्यते विरक्तो न भवति ॥ २० ॥

सत्यधर्मीया

कुटुंबपोषाय तदर्थमेव एतीति यद् गच्छन् निजायुः स्वकमायुष्यं न बुद्ध्यते न जानाति । विहितं शास्त्रविहितम् । अर्थं परमप्रमेयं च न बुद्ध्यते । तत्र हेतुः प्रमत्त इति । सर्वत्र तापत्रयेण दुःखित आत्मा मनो यस्य स तथा । अथापि स्वकुटुम्बरामः स्वकुटुम्बे भार्यादौ रामः क्रीडादिर्यस्य स तथा । न निर्विद्यते न विरक्तो भवति । तत्तापत्रयमपि भगवद्दत्तमित्याह ॥ सर्वत्रेति । सर्वं त्रायत इति सर्वत्रो हरिः । तेन दत्तं यत्तापत्रयम् । पूर्ववदुर्वरितम् ॥ २० ॥

मन्दनन्दिनी

यद् गच्छत् । गतं निजायुर्विहितमर्थं च न बुद्ध्यते । स्वकुटुम्ब एव रमत इति स्वकुटुम्बरामः ॥ २० ॥

वित्तेषु नित्याभिनिविष्टचेता विद्वांश्च दोषं परवित्तहर्तुः ।

प्रेत्येह वाऽथाप्यजितेन्द्रियस्तदशान्तकामो हरते कुटुम्बी ॥ २१ ॥

पदरत्नावली

परवित्तहर्तुश् चोरादेः । इह देहात् प्रेत्य । यत् पूर्वमर्जितम् अथापि अनन्तरमपि तच्च तदेव दुष्कर्म हरते नयतीत्यन्वयः । परलोकेष्वपि विषयेष्वलम्बुद्धिर्नास्तीति भावः ॥ २१ ॥

सत्यधर्मीया

अनायाते नयतो धनेऽन्यायतो वा यतते विद्वानप्यहो पुत्रादिस्नेहमाहात्म्य-मित्याह ॥ वित्तेष्विति । बहुवचनं चाद्यर्थे । कुटुंबभरणोपयुक्तपदार्थे । नित्याभिनिविष्ठचेता नित्यमभि-निविष्टं तदेकध्याननिरतं चेतो मनो यस्य स तथा । परवित्तहर्तुरिति शेषषष्ठ्या समासः । तृनन्तत्वे गम्यादित्वाद्भा परवित्तस्य परवित्तं वा हर्ता तस्य । दोषमागच्छन्तं विद्वान् जानन् । इह देहताडनादिकं तथा प्रेतनाथदण्डादिकं च प्रेत्याप्यागमिष्यन्तं शास्त्राचार्यमुखतो विद्वान् । अथापि अजितेन्द्रिय इत्यशान्तकामोऽनुपरतविषयतृष्णः कुटुम्बी निन्दितैवंविधकुटुंबवान् हरते । ञित्वात् क्रियाफलस्यात्म-गामित्वादात्मनेपदता । तत् परवित्तादिकम् ॥ २१ ॥

मन्दनन्दिनी

वित्तनिविष्टमनस्कता न केवलं वैराग्यपरिपन्थिनी किन्तु दुष्कृतसम्पादिकाऽ-पीत्याह ॥ वित्तेष्विति । वित्तेषु नित्याभिनिविष्टचेताः परवित्तहर्तुश्चोरस्य । प्रेत्य नरकलक्षणम् । इह ताडनादिलक्षणं दोषं विद्वानप्यजितेन्द्रियोऽशान्तकामश्च सन् । कुटुम्बी तत्परवित्तं हरतीति योजना

॥ २१ ॥

विद्वानपीत्थं दनुजाः कुटुम्बं पुष्णन् स्वलोकाय न कल्पते वै ।

यः स्वीयपारक्यविभिन्नभावस्तमः प्रपद्येत यथा विमूढः ॥ २२ ॥

पदरत्नावली

अनुक्तविशेषप्रदर्शनाय कथितमेवार्थं विशिनष्टि– विद्वानिति ॥ स्वलोकाय स्वक्लृप्तमोक्षाय स्वयोग्यज्ञानाय वा । तत्र हेतुमाह– यदिति ॥ न केवलं मोक्षाय कल्पत इति । प्रत्युता-नर्थं चाप्नोतीत्याह– तम इति ॥ विमूढो विपरीतज्ञानी यथा तमः प्रतिपद्यते तथाऽयमित्यन्वयः ॥२२॥

सत्यधर्मीया

कैश्चिच्छ्लोकैरुपपादितमन्यापदेशेनोपदेशेन साक्षात्तानेव सुमुखीकर्तुं वैराग्याद्य-सम्भवमुपसंहरति ॥ विद्वानपीति । इत्थं पूर्वं व्युत्पादितं दोषद्वयं विद्वानपि कुटुंबं पुष्णन्पोषयन् स्वलोकाय मोक्षाय तत्साधनज्ञानाय वा । न कल्पते न समर्थो भवति । तर्हि का दशेत्यतः सदृष्टान्त-माह ॥ स्वीयेति । स्वीयपारक्यविभिन्नभावो यो योग्यतातिरेकेण स्वीयः पारक्यः स्वीयः स्वविहित-कृदिति । तस्मै हितमिच्छतः । पर एव परकास्तत्र भव इत्यर्थे तद्धिता इति बहुवचनज्ञापितः ष्यञ् । परकीय इति विभिन्नो भावो मनो यस्य सः । अत एव विमूढो मिथ्याज्ञानी । तमस्तल्लोकं यथा प्रपद्येत तथा तमो ग्लानिप्रदमज्ञानं प्रपद्यते ॥ २२ ॥

मन्दनन्दिनी

न भगवानस्तीति ज्ञानमात्रं श्रेयःसाधनं किन्तु स्वातन्त्र्याभिमानपरित्यागसहित-मित्याशयेनाह ॥ विद्वानपीति ॥ हे दनुजाः । यः स्वीयपारक्यविभिन्नभावः स्वस्वातन्त्र्यपर-स्वातन्त्र्याभिमानमोहितमनाः स विद्वानपीत्थं कुटुम्बं पुष्णन् स्वलोकाय मोक्षाय न कल्पते । किन्तु यथा विमूढस्तथा पुनः पुनः संसृतिलक्षणं तमः प्रपद्यत इति योजना ॥ २२ ॥

यतो न कश्चित् क्वच कुत्र विद्वान् दीनं स्वमात्मानमलं समर्थः ।

विमोचितुं वामदृशां विहारक्रीडामृगो यन्निगडोऽक्षिसर्गः ॥ २३ ॥

पदरत्नावली

श्रीनारायणानुग्रहमन्तरेण विद्वत्ताऽप्यकिञ्चित्करीत्याह– यत इति ॥ शास्त्र-गुरूपदेशेन विद्वान्, संसारस्यानित्यतामिति शेषः । दीनं स्वात्मानं विमोचितुमलं समर्थो नेति यतः, अत इति शेषः । यदि जीवराशौ कश्चिदस्तीत्यभिमानस्तर्हि कुत्र कस्मिन् देशे ? क्व कस्मिन् काले ? न कस्मिंश्चिदित्यर्थः । कुतः ? अत्राह– वामदृशामिति ॥ अयं पुरुषो वामदृशां विहारार्थे निर्मित-क्रीडामृग इति यत् कथमयं तथाऽभूदिति तत्राह– निगड इति ॥ आसामक्षिसर्गः कटाक्षमोक्षो यस्य निगडः शृृङ्खलायितः, तस्मात् । स इति शेषः ॥ २३ ॥

सत्यधर्मीया

भगवत्प्रसादमनासादयतो विद्वत्ता सत्यप्यकिञ्चित्करीति वक्ति ॥ यत इति । विद्वान् दीनं स्वं स्वकीयम् आत्मानं विमोचितुं विमोक्तुम् । अन्तर्णीतण्यर्थतया विमोचयितुम् । अलमत्यन्तसमर्थो न । सुदुर्लभः स इति भाषते । क्वच काले कुत्रचिद्देशे कश्चित्कोऽपीति । कुतः शक्तो न व्यक्त इत्यत इत इत्याह ॥ यत इति । यतो वामदृशां योषिताम् अक्षिसर्गः कटाक्षमोक्षो यन्निगडो यस्य विदुषोऽपि निगडः शृृङ्खलायितः । विहारक्रीडामृगो वामदृशां विहारे तद्विषये क्रीडामृगः । रूढः शब्दः । विहारमिति पाठोऽशठः । तस्यात्मानमित्यनेनान्वयः । तद्विहारसाधनमित्यर्थः । तस्मात्सोऽ-समर्थ इत्यर्थः ॥ २३ ॥

मन्दनन्दिनी

स्त्रीजितोऽपि न भवेदित्याह ॥ यत इति ॥ वामदृशामक्षिसर्गो निगडस्तेन बद्धस्तासां विहारे क्रीडामृगो योऽयम् । विद्वानपि दीनमात्मानं मोचयितुं यतो न कश्चित्कुत्रचिद्देशे क्वापि कालेनालं समर्थः । अतो न तादृशो भवेदित्यध्याहृतेन योजना ॥ २३ ॥

ततो विदूरात् परिहृत्य दैत्या दैत्येषु सङ्गं विषयात्मकेषु ।

उपेत नारायणमादिदेवं स मुक्तसङ्गैरिषितोऽपवर्गः ॥ २४ ॥

पदरत्नावली

एतावन्तं दैत्यान् कटाक्षीकृत्योक्तं प्रकटयन् मथितार्थमाह– तत इति ॥ नन्वेवं तर्हि संसारमोक्षस्य दौर्घट्यमापादितमिति शङ्का मा भूत् । यद्यर्थिताऽस्ति तर्ह्युपायं वदामीत्यतो वाह– तत इति ॥ यतो धर्मार्थकामैर्ब्रह्मार्पणबुद्धिचिकित्सारहितैः संसारमोक्षो न सेत्स्यति ततो दैत्येषु सङ्गं दूरात् परिहृत्य नारायणं शरणमुपेत यात इत्यन्वयः । सो ऽपवर्गः मुक्तसङ्गैः पुरुषैर् इषित आप्तो भवति । ‘इषु गतौ’ इति धातोः ॥ २४ ॥

सत्यधर्मीया

एतादृशोऽपि संसारः कंसारिशरणागतिरूपोपायतोऽपैतीत्याह ॥ तत इति । हे दैत्याः । जातितः । विषयात्मकेषु विषयेष्वात्मा मनो येषां ते तथा तेषु । दैत्येषु सङ्गं तन्मतावलम्बनरूपं विदूरादतिदूरतः परिहृत्य वर्जयित्वाऽऽदिदेवं नारायणमुपेत । एवं मुक्तसङ्गैस्त्यक्तसङ्गैर्युष्माभिर्योऽपवर्गो मोक्षः स इषितः । इष गताविति स्मरणादवाप्तो भवति । मुक्तसङ्गैर्मुक्तानां सङ्गैस्तदादिभिः सह योऽपवर्गो मोक्षः स इषितो भवति । भवद्भिरिति शेषो वा । अविदूराच्छीघ्रं नारायणमुपेत । शरणमिति शेष इति वा ॥ २४ ॥

मन्दनन्दिनी

एवं विषयसङ्गे बाधकमुक्त्वा विषयसङ्गपरित्यागेन नारायणशरणागतिं विधत्ते ॥ तत इति ॥ हे दैत्याः । विषयसङ्गस्योक्तरीत्या दुष्टत्वाद्विषयात्मकेषु दैत्येषु रिपुषु विदूरात्सङ्गं परिहृत्यादिदेवं नारायणमुपेत शरणं गच्छत । अपवर्गहेतुः स नारायणो मुक्तसङ्गैरिषितः शरणं गत इति योजना ॥ २४ ॥

न ह्यच्युतं प्रीणयतो बह्वायासोऽसुरात्मजाः ।

आत्मत्वात् सर्वभूतानां सिद्धत्वादिह सर्वतः ॥ २५ ॥

पदरत्नावली

नेदं दुस्साध्यमित्याह– न हीति ॥ सर्वभूतानामात्मत्वात् तत्प्रेष्ठत्वात् । सर्वत्र व्याप्तत्वेन सुलभत्वाद् वा ॥ २५ ॥

सत्यधर्मीया

सोऽपि दूरे वर्तत इति तदुपगतिरायाससाध्या किमित्यतो नेत्यभिधत्ते ॥ न हीति । हे असुरात्मजाः । अच्युतं प्रीणयतो जनस्य बव्हायासो बहुर्बहुलश्चासावायासः श्रमश्च न हि भवति । सर्वभूतानामात्मत्वात्स्वामित्वात् । इह सर्वतः सर्वत्र सिद्धत्वाच्च । व्याप्तत्वेन योगक्षेमं वहाम्यह-मिति सुलभत्वात् । तद्वन्तिके । व्याप्य नारायणः स्थित इत्यादेः । सर्वभूतानामात्मत्वात्तत्प्रेष्टत्वादिति वा ॥ २५ ॥

मन्दनन्दिनी

नारायणस्य दूरस्थत्वाच्छरणागतावपि स्वत्वेनास्मत्स्वीकारस्य सन्दिग्धत्वा-दच्युतप्रीणनं बह्वायास इत्यत आह ॥ न हीति ॥ हे असुरात्मजाः । सर्वतः सिद्धत्वाद्व्याप्तत्वा-त्सर्वभूतानामिह देहे आत्मत्वात्स्वामितया विद्यमानत्वादच्युतं प्रीणयतो बह्वायासो न हीति योजना

॥ २५ ॥

परावरेषु भूतेषु ब्रह्मान्तस्थावरादिषु ।

भौतिकेषु विकारेषु भूतेष्वथ महत्सु च ॥ २६ ॥

पदरत्नावली

नारायणस्य सेव्यत्वे हेतुगर्भविशेषणमाह– परावरेष्विति ॥ २६ ॥

सत्यधर्मीया

कुतोऽयमेव सेव्यो नान्य इत्यतो हेतुमाह ॥ परावरेष्विति । तदेव विविच्योचे ॥ ब्रह्मान्तेत्यादिना । अशेषाणामविशेषेण हर्यधीनतां बोधयितुं ब्रह्मादिस्थावरादीत्युक्तिः । अन्यथा ब्रह्मादीत्यवक्ष्यत् । भूतेषु महत्स्वाकाशादिषु भौतिकेषु तत्सम्बन्धिषु विकारेषु घटादिषु । अथ चेत्यणुसमुच्चयः । परमाणुषु ॥ २६ ॥

मन्दनन्दिनी

देशान्तरे कालान्तरे पदार्थान्तरे नियामकान्तरस्य सत्वे कथमस्यैव शरणागति-र्युक्तेत्यत आह । परावरेष्विति ॥ परावरेषु भूतभविष्यद्वर्तमानेषु । उच्चावचेषु वा । ब्रह्मान्तस्थावरादिषु भूतेषु प्राणिषु भौतिकेषु विकारेषु ब्रह्माण्डादिषु भूतेष्वाकाशादिषु महत्सु महदहङ्कारादिषु ॥ २६ ॥

गुणेषु गुणसाम्ये च गुणव्यतिकरे तथा ।

एक एव परो ह्यात्मा भगवानीश्वरोऽव्ययः ॥ २७ ॥

पदरत्नावली

गुणसाम्ये प्रलये । गुणव्यतिकरे सृष्टौ ॥ २७ ॥

सत्यधर्मीया

गुणेषु सत्त्वादिराशौ । गुणसाम्ये प्रलये गुणव्यतिकरे गुणवैषम्ये सृष्ट्यवस्थायां परः सर्वविलक्षण एक एवान्यनिरपेक्षया भगवानीश्वरोऽव्ययो नाशरहित आत्मेति तं प्रीणयतो न बहुल आयास इति योजना ॥ २७ ॥

मन्दनन्दिनी

गुणेषु सत्त्वादिषु । गुणसाम्ये प्रलये गुणव्यतिकरे सृष्टौ । अव्ययः पर आत्मा भगवानेवेश्वरो हीति योजना ॥ २७ ॥

प्रत्यगात्मस्वरूपेण कालरूपेण च स्वयम् ।

व्याप्यव्यापकनिर्देश्यो ह्यनिर्देश्योऽविकल्पितः ॥ २८ ॥

तात्पर्यम्

‘अन्तर्यामी प्रत्यगात्मा व्याप्तः कालो हरिः स्मृतः’ इति च ॥ २८ ॥

पदरत्नावली

व्याप्तिप्रकारमाह– प्रत्यगात्मेति ॥ सर्वपदार्थानामन्तः प्रत्यगात्मस्वरूपेण अन्तर्यामिरूपेण बहिः कालरूपेण व्याप्तेन ब्रह्मापरपर्यायेण । एवमेक एव व्याप्यव्यापकनिर्देश्यो विकल्पितो विविधक्लृप्तः । ‘अन्तर्यामी प्रत्यगात्मा व्याप्त कालो हरिः स्मृतः’ इति वाक्यसिद्धोऽयमर्थः । घट इव निर्देश्यो नेत्यनिर्देश्यरूपः ॥ २८ ॥

सत्यधर्मीया

प्रत्यगात्मस्वरूपेणेति श्लोके लोकेश्वरस्य जीवतादात्म्यमिव क्षणादिलक्षण-कालात्मकत्वं च प्रतीयते तत्प्रच्यावयितुं प्रमाणमाह ॥ अन्तर्यामीति । नात्र प्रत्यगात्मा जीवः किं त्वन्तर्यामी हरिः । व्याप्तः कालो हरिः स्मृत इत्यन्वयः । ब्रह्मतर्कोऽपि स्वं समूलमालपत्स्मृत इत्यनेनेति मन्तव्यम् ॥ ततश्चायं मूलार्थः ॥ प्रत्यगात्मस्वरूपेणान्तर्यामिरूपेण बहिरनिर्देश्यः साकल्येन निर्देष्टु-मशक्यः । व्याप्यव्यापकनिर्देश्यो व्याप्य इति तत्स्थाद्व्यापक इति निर्देश्यः । अविकल्पितो देशान्तरे कालान्तरे चान्य इति विगतविकल्पो विविधतया क्लृप्त इति वा ॥ २८ ॥

मन्दनन्दिनी

व्याप्तस्य परमात्मनोंऽतःस्थित्वा कथं नियामकत्वं युज्यत आह । प्रत्यगात्मेति ॥ स्वयं भगवान्यद्यप्यनिर्देश्यः साकल्येन निर्देष्टुमशक्यः । व्याप्त एवेति वा । निर्देष्टुमशक्यश्च । तथाऽपि हि यस्मात्प्रत्यगात्मस्वरूपेणान्तर्यामिरूपेण व्याप्यो मूर्तः कालरूपेण व्यापके व्याप्त इति । अचिन्त्यै-श्वर्येण विशेषेण शक्तिव्यक्तिबलेन विकल्पितो विविधतया स्थितस्तस्माद्व्याप्यव्यापक निर्देश्योंऽतर्यामीति व्याप्त इति च निर्देष्टुं शक्यो भवतीति योजना । एतदेवाभिप्रेत्य तात्पर्यम् । अन्तर्यामी प्रत्यगात्मा व्याप्तः कालो हरिः स्मृतः’’ इति चेति ॥ २८ ॥

केवलानुभवानन्दस्वरूपः परमेश्वरः ।

माययान्तर्हितैश्वर्य ईयते१ गुणसर्गया ॥ २९ ॥

तात्पर्यम्

प्रकृत्या तमसाऽऽवृतत्वाद्धरेरैश्वर्यं न ज्ञायते ॥ २९ ॥

पदरत्नावली

‘अचिन्त्यमव्यपदेश्यमैकात्म्यप्रत्ययसारम्’ इति श्रुतिनिरूपित इत्याह– केवलेति ॥ सर्वत्र सिद्धश्चेत् किमिति न दृश्यत इति तत्राह– माययेति ॥ मायया प्रकृत्या । ‘तमसा गूह्मग्रे’ इति श्रुतेः । सत्वादिगुणैः सर्गः सृष्टिर् यस्याः सा तथा तया ॥ २९ ॥

सत्यधर्मीया

स सर्वत्र व्याप्तश्चेत्किमस्माभिर्न दृश्यते । त्वया चानिर्देश्यता निर्देश्यता चोच्यत इत्यतो ॥ माययेति ॥ मायिकतया तथोक्तिरिति माययेति श्लोके भातीति शङ्कां स्वयं यथावद्व्याख्याय प्रत्याख्याति ॥ प्रकृत्येति । मायया प्रकृत्या तद्धेतुकेन तमसाऽज्ञानेनावृतत्वात् । युष्मदादेर्जीवस्येति शेषः । तत् हरेरैश्वर्यमीश्वरत्वं न ज्ञायते । जीवेनेति शेषः ॥ ततश्चायं श्लोकार्थः ॥ केवलानुभवानन्द-स्वरूपः केवलो जडामिश्रितो अनुभवो ज्ञानमानन्दश्च स्वरूपभूतो यस्य सः । गुणसर्गया गुणानां सर्गो यया सा तया मायया प्रकृत्या भावरूपाज्ञानेन जीवजातगतेन । अन्तर्हितमज्ञातमैश्वर्यं यस्य स ईयते । युष्माकं तद्भावरूपाज्ञानेनावृतत्वात्सदैश्वर्योऽपि परमेश्वरो न तथा युष्माभिर्ज्ञायत इति भावः ॥ २९ ॥

मन्दनन्दिनी

मूले एवंविधमाहात्म्यो भगवान्कुतो न दृश्यत इत्यत आह ॥ केवलेति ॥ एतादृशो भगवान् गुणसर्गया गुणव्यक्तीकरणभूतया मायया प्रकृत्या जीवावरणभूतयांऽतर्हितैश्वर्यो जीवं प्रति पिहतैश्वर्य ईयते प्रमाणैः प्रतीयते । अतो नेदृशो दृश्यत इति योजना । एतदभिप्रेत्योक्तं तात्पर्ये ॥ प्रकृत्या तमसाऽऽवृतत्वाद्धरेरैश्वर्यं न ज्ञायत इति । तमसा भगवत्ज्ञानप्रतिबन्धकया प्रकृत्या जीवा-वरणेनावृतत्वात्प्रतिबद्धत्वाद्धरेरैश्वर्यं न ज्ञायत इत्यर्थः ॥ २९ ॥

तस्मात् सर्वेषु भूतेषु दयां कुरुत सौहृदम् ।

भावमासुरमुन्मुच्य तया तुष्यत्यधोक्षजः ॥ ३० ॥

तात्पर्यम्

‘विष्णोर्गृहत्वाद्भूतेषु दया कार्या विजानता’ इति च ॥ ३० ॥

पदरत्नावली

यतः सर्वभूतानि भगवन्निवासस्थानानि तस्मात् । तया भूतदयया । आसुरं भावं द्वेषम् । ‘विष्णोर्गृहत्वाद्भूतेषु दया कार्या विजानता’ इति स्मृतेः । ‘प्रद्विषन्तोऽभ्यसूयकाः’ इति (च)

॥ ३० ॥

सत्यधर्मीया

तस्मादिति ॥ कस्मादिति न ज्ञायत इत्यतः प्रमाणेन परामृश्यं दर्शयंस्तस्मा-त्सर्वेष्विति श्लोकं व्याकरोति ॥ विष्णोरिति । विजानता सर्वत्र भगवान्वर्तत इत्यनुसन्दधता भूतानां विष्णोर्गृहरूपत्वात्तेषु दया कार्या इति च ब्रह्मतर्क इत्यत्रोत्तरत्र च ज्ञेयम् ॥ ततश्चायं मूलार्थः ॥ तस्माद्विष्णुगृहत्वात् सर्वेषां भूतानां तत्सन्निधानपात्रत्वाद् भूतेषु स्वावरेषु दयां कुरुत । भूतेषु स्वसमेषु सौहृदं सख्यं कुरुत । तत्करणे इत्थम्भावमाह ॥ भावमिति । आसुरं भावम् । प्रद्विषंतोऽभ्यसूयका इत्यादेः । द्वेषादिकमुन्मुच्य त्यक्त्वा तया कृतया दययाऽधोक्षजो भगवांस्तुष्यति । तयेत्येकस्या ग्रहणमग्रहणं च तेनेति सौहृदस्यात्युपकारानत्युपकाराभ्यामिति ज्ञेयम् ॥ ३० ॥

मन्दनन्दिनी

मूले भूतदयां च विधत्ते तस्मादिति सर्वभूतानामीश्वरगृहस्थानापन्नत्वादासुरं भावमुन्मुच्य सौहृदमाश्रित्य सर्वभूतेषु दयां कुरुत । तया दययाऽधोक्षजस्तुष्यतीति योजना । एतदभिप्रेत्योक्तं तात्पर्ये ॥ ‘‘विष्णोर्गृहत्वाद्भूतेषु दया कार्या विजानता’’ इति च ॥ ३० ॥

तुष्टे च १तत्र किमलभ्यमनन्त आद्ये

किं तैर्गुणव्यतिकरैरिह येऽनुसिद्धाः ।

धर्मादिभिः किमगुणेन च कांक्षितेन

सारं जुषां चरणयोरुपगायतां नः ॥ ३१ ॥

तात्पर्यम्

‘काङ्क्षतो मोक्षगमपि सुखं नाकाङ्क्षतो यथे’ति च ॥ ३१ ॥

॥ इति श्रीमद्भागवते सप्तमतात्पर्ये षष्ठोऽध्यायः ॥ ६ ॥

पदरत्नावली

भगवत्तुष्ट्या किं प्रयोजनमिति तत्राह– तुष्ट इति ॥ ये अनुसिद्धा जन्म-प्रभृतिप्राप्तास् तैर्गुणव्यतिकरैर् विषयसुखैर् हरेश् चरणयोः सारं जुषां गुणलक्षणमकरन्दं सेवमानानां तद्गुणान् चोपगायतां गायमानानां नो ऽस्माकं काङ्क्षितेनागुणेन अन्यैर्वाञ्छितेन मोक्षेण किम् ? अपक्वभक्तिलभ्यमुक्तेर्भक्तेः परमानन्दस्वरूपत्वात्, तत्रापि सुखाधिक्यहेतुत्वात् । सुतरां धर्मादिभिः सुतमां गुणव्यतिकरैः फलं नास्तीति किमु वक्तव्यम् ? मोक्षे सुखमनाकाङ्क्षमाणस्य यथा सुखाधिक्यं भवति तथा मोक्षगतं सुखं काङ्क्षमाणस्य सुखं पूर्णं न लभ्यत इत्यभिप्रायेण काङ्क्षितेनेति विशेषणम् । ‘काङ्क्षतो मोक्षगमपि सुखं नाकाङ्क्षतो यथा’ इति वचनात् ॥ ३१ ॥

सत्यधर्मीया

तुष्टे तु तत्रेति श्लोकेऽगुणेन सत्त्वादिगुणाजन्येन मोक्षेण कांक्षितेन किं न किमपि फलमिति सर्वापेक्षितस्य मोक्षस्य काङ्क्षा सर्वथा धर्मादिकाङ्क्षावन्न कर्तव्येति प्रल्हादेनोच्यते तदयुक्तम् । मोक्षशास्त्रवैयर्थ्यापत्तेरित्यतः प्रमाणेनैव तदभिप्रायमाह ॥ काङ्क्षत इति । मोक्षगं मोक्षे विद्यमानं सुखं काङ्क्षतोऽधिकारिणः सकाशात् । आकाङ्क्षतो विशिष्टाधिकारिण एकान्तिकस्य मोक्षगं सुखं यथा सम्यग्भवति । अनेन काङ्क्षतोऽल्पमनल्पमनाकाङ्क्षतः सुखं भवतीति प्रल्हादवादभावो द्योतितो भवतीति मन्तव्यम् ॥ ततश्चायं मूलार्थः ॥ सुखदुःखप्राप्तिहानीतरत्वात्कथं भगवत्तोषस्तोषदो नः स्यादित्यत आह ॥ तुष्टे त्विति । अनन्ते अपरिच्छिन्ने । आद्ये सर्वादिभवे । तत्र तस्मिन्भगवति तुष्टे प्रीते सति । अलभ्यं किं न किमपि दुर्लभं सर्वं सुलभमेवेत्यर्थः । चरणयोः । ‘‘स्वित्यानन्दः समुद्दिष्टो वरिति ज्ञानमुच्यते । मुक्तिदानेन तद्दानात्सुवरस्य पदद्वयम् । दक्षिणश्चैव सव्यश्च’’ ॥ इति बृहद्भाष्योक्तेः । तयोः सारं रसं जुषां सेवमानानां नोऽस्माकं तमेव सारम् । उपगायतां च । ये इहानुसिद्धा जन्मप्रभृतिप्राप्तास्तैर्गुणव्यतिकरैः शब्दादिविषयसुखैः किं न किञ्चित्प्रयोजनम् । किं चागुणेन गुणत्रया-जन्येन मोक्षेणापि किम् । तर्हि तदभिधायकं मुधा स्याच्छास्त्रमित्यत आह ॥ काङ्क्षितेनेति । तस्या-नाकाङ्क्षणेऽपि तुष्टेऽनन्ते स्वत एवाकाङ्क्षादधिकार्यधिकानन्दवतो लाभो भवतीति भावेनैव न चाकाङ्क्षितेनागुणेन किमित्युक्तवान्न तु सामान्यतो मोक्षाप्रतिष्ठां चकार प्रल्हाद इति ज्ञेयम् । मोक्षोऽपि यदि काङ्क्षितो नाकाङ्क्षयः सुतरां न कृत्यमेतैरतिनश्वरफलकैरित्याह । धर्मादिभिरिति ॥ ३१ ॥

मन्दनन्दिनी

मूले तुष्ट्यापि किं प्रयोजनमित्यत आह ॥ तुष्ट इति ॥ आद्येऽनन्ते उत्पत्ति-नाशरहिते तत्र भगवति तुष्टे त्वलभ्यं किम् । सर्वमाकाङ्क्षितं भवतीति भावः । परं त्वेकान्तैराकाङ्क्षाऽपि न कार्येत्याह । सारं जुषां सर्वोत्तमवस्तुसेवमानानाम् । प्रीणयतां चरणयोरुपगायतां नोऽस्माकं येऽनुषङ्गेणैव सिद्धा वैषयिकसुखादयस्तैर्गुणव्यतिकरैर्गुणत्रयकार्यैः काङ्क्षितं किम् । किं प्रयोजनम् । एवं धर्मादिभिः प्रवृत्तधर्मादिभिरपि काङ्क्षितैः किम् । अन्ततो गुणेन मोक्षेण काङ्क्षितेन किमिति योजना । न किमप्याकाङ्क्षणीयमिति भावः । मोक्षगं सुखं त्वाकाङ्क्षमाणापेक्षया नाकाङ्क्षमाणस्याधिकम् । एकान्तभक्तत्वात् । एतदेवाभिप्रेत्य तात्पर्यम् ॥ काङ्क्षतो मोक्षगमपि सुखं नाकाङ्क्षतो यथा’’ इति चेति ॥ अकाङ्क्षतः काङ्क्षारहितस्य यथाऽतिशयितं तथा काङ्क्षतो नेत्यन्वयः ॥ ३१ ॥

धर्मार्थकाम इति यो विहितस्त्रिवर्ग

ईक्षा त्रयी नयदमौ विविधा च वार्ता ।

मन्ये तदेतदखिलं निगमस्य सत्यम् ।

स्वात्मार्पणं स्वसुह्रदः परमस्य पुंसः ॥ ३२ ॥

पदरत्नावली

ननु शास्त्रविहितानां धर्मादीनां कथङ्कारं साफल्यं भवतीत्याशङ्कां परिहरन्नाह– धर्मार्थ इति ॥ धर्मार्थकाम इति नामभिन्नो यस् त्रिवर्गः शास्त्रे विहितस् तस्य ईक्षा ज्ञानमनुष्ठानं च, या त्रयी त्रयो वेदास् तेषां शब्दतोऽर्थतश्च ज्ञानम्, यौ नयदमौ नीतिदण्डशास्त्रे, तयोरीक्षा तात्पर्यज्ञानं, या च विविधा वार्ता कृषिवाणिज्यादिलक्षणा तदीक्षा प्रयोगज्ञानम् । ‘नाम वा ऋग्वेदो यजुर्वेदः सामवेद अथर्वणश्चतुर्थः’ इत्यारभ्य सर्वयजनविद्यामित्यन्तेन यदुक्तं तस्य सर्वस्यानुकर्षणार्थश्चकारः । यदेतदुक्तं तदेतदखिलं परमपुरुषस्य स्वात्मपूर्वकसमर्पणम् अर्पितुमुद्दिष्टं भवति तर्हि निगमस्य ऋग्वेदादिसकलशास्त्र-पठितस्य सत्यं यथार्थफलमिति मन्य इत्यन्वयः ॥ ३२ ॥

सत्यधर्मीया

तर्हि धर्मादिप्रतिपादकशास्त्रं सफलं कथं स्यादित्यत आह ॥ धर्मेति । धर्मोऽर्थः कामश्चेति यो विहितस्त्रिवर्गस्तस्येक्षा ज्ञानमनुष्ठानं च । या त्रयी वेदस्तस्य चेक्षा शब्दतोऽर्थतश्च ज्ञानम् । यौ च नयदमौ नीतिदण्डसमयौ तयोश्चेक्षा ज्ञानम् । विविधा च वार्ता जीविका तदभिधायिशास्त्रज्ञानं च । ‘‘नाम वा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वणश्चतुर्थ’’ इत्यारभ्य ‘‘सर्पविद्यां नक्षत्रविद्यामित्यादि गर्भीकृत्य’’ देवयजनविद्येत्यन्तोक्तस्य सर्वस्य सङ्ग्राहकश्चशब्दः । यदेतदुक्तमखिलं निगमस्यार्थजातं स्वसुहृदोऽस्मत्कृत्याभावेऽपि स्वयमेवानुकम्पामुपाप्नोतीति सुहृत्तमस्य परमस्य पुंसः परमपुरुषस्य । स्वात्मार्पणं तत्साधनं चेत्सत्यं सफलं मन्ये । अखिलं बलवच्च मन्ये । सकलस्यानुष्ठितस्य ज्ञानस्य च भगवत्समर्पणं चेत्सार्थक्यमन्यथा नैरर्थक्यमिति प्रागुक्तम् । किं धर्मादिभिरित्यसमर्पितधर्मपरमिति मम भाव इति वित्तेति प्रोचे प्रल्हाद इति ध्येयम् ॥ ३२ ॥

मन्दनन्दिनी

भगवत्तुष्टिरेव सम्पाद्या चेद्धर्मार्थकामादिकमसत्यत्वान्निष्फलत्वाद्वा न सम्पाद्य-मित्यायातमित्यत आह ॥ धर्मेति ॥ धर्मार्थशब्दाभ्यां परस्य सुपो लोपः । तथा च धर्मोऽर्थः काम इति यो विहितस्त्रिवर्ग ईक्षा । एतद्विषयकं ज्ञानम् । एतद्विधात्री त्रयी श्रुतिः । नयदमौ नीतिदण्डशास्त्रे । विविधा च वार्ता । कृषिगोरक्षवाणिज्यादिरूपा । तदेतदखिलं निगमस्य नियमेनोक्तत्वात् सत्यमबाध्यं तदुक्तफलसाधनं च मन्ये । अन्यथा वेदस्याप्रामाण्यानुपादेयत्वयोरापत्तेः । परं त्वेतदपेक्षया स्वसुहृदो निर्निमित्तोपकारकस्यास्य पुंसो भगवतः स्वात्मार्पणं नवविधभक्त्या स्वात्मसमर्पणं परमत्युत्तमसाधनमिति योजना । मोक्षफलकत्वात् । इतरस्य च संसारफलकत्वादिति भावः ॥ ३२ ॥

ज्ञानं तदेतदमलं दुरवापमाह

नारायणो नरसखः किल नारदाय ।

एकान्तिनां भगवतस्तदकिञ्चनानां

पादारविन्दरजसाऽऽप्लुतदेहिनां स्यात् ॥ ३३ ॥

पदरत्नावली

नेदं स्वमनीषोत्थं, किन्तु सम्प्रदायतः प्राप्तत्वात् श्रद्धेयमित्याह– ज्ञानमिति ॥ नरसखो ऽनन्तसखः । अनेन विशेषणेनसनकादिभ्य उपदिष्टमिदमिति ज्ञापितम् । किलशब्देन पुरातन-त्वेन ग्राह्यत्वं दर्शयति । ज्ञानाधिकारिण आह– एकान्तिनामिति ॥ ३३ ॥

सत्यधर्मीया

सम्प्रदायागतत्वादवश्यं विश्वसनीयं लोक आलोकीदं तु लोकेश्वरोपदिष्टमिति सर्वथा श्रद्धेयमित्याह ॥ ज्ञानमिति । ज्ञायतेऽनेनेति ज्ञानं तदुत्पादकशास्त्रम् । अमलं निर्दोषम् (निर्दुष्टम्) । अभागवतैर्दुरापं तदेतत् । नरसखोऽनन्तमित्रम् । अनेन शेषतत्समगरुडमार्गगमनसाधन-तामेतस्य द्योत्यते । नारायणो नारदायाह । तत्रापि तदपि पुरातनमेव सोऽप्याहेति द्योतयति– किलेत्यनेन । नास्माकमत्राधिकार इत्यतो नेत्याह ॥ एकान्तिनामिति । भगवतः पादारविन्द-रजसाऽऽप्लुतदेहिनां स्नाताङ्गानाम् । अकिञ्चनानामीश्वरव्यतिरिक्तं किञ्चन शक्तं नास्ति येषां तेऽ-किञ्चनाः । तेषामेकान्तिनां नारायणमात्रमिच्छताम् । तत् पूर्वोदीरितं स्यात् । युष्माकमायुष्मतां तन्मात्रचिन्तनेन दुर्मिलं तदिति भावः ॥ ३३ ॥

मन्दनन्दिनी

कथमेतादृशज्ञानं त्वया लब्धमित्यतः पुरावृत्तमाह । ज्ञानमिति ॥ अवाप्तुमशक्यं तदेतदखिलं ज्ञानम् । ज्ञायतेऽनेनेति ज्ञानम् । शास्त्रम् । नरसखो नारायणः । धर्मपुत्रो नारदायाह किल । भगवदनुग्रहयोग्यानाम् एतादृशं ज्ञानं भवतीति सामान्येनाह । एकान्तिनां भगवतः पादारविन्द-रजसाऽऽप्लुतदेहिनाम् । अकिञ्चनानाम् । तत्ज्ञानं स्यादिति योजना ॥ ३३ ॥

श्रुतमेतन्मया पूर्वं ज्ञानं विज्ञानसंयुतम् ।

धर्मं भागवतं शुद्धं नारदाद् देवदर्शनात् ॥ ३४ ॥

पदरत्नावली

तव कुतः प्राप्तमेतत् ? अत्राह– श्रुतमिति ॥ ३४ ॥

सत्यधर्मीया

तव तु कथमिदं प्राप्तमित्यतस्तदवाप्तिं स्वस्याह ॥ श्रुतमिति । ज्ञानविज्ञानसंयुतं तत्साधनं भागवतं तत एव शुद्धं धर्मम् । नारदात् । सोऽपि न यादृशतादृश इत्याह । देवदर्शनाद्भगवतो देवस्य दर्शनमपरोक्षज्ञानं यस्य तस्मात् । स्याद्धर्ममस्त्रियां पुण्यमित्यमरः ॥ ३४ ॥

मन्दनन्दिनी

भवतु नारदादीनां ज्ञानं, तव तु कथमित्यत आह ॥ श्रुतमिति ॥ योजना तु स्फुटा । ज्ञानं मोक्षसाधनम् । विज्ञानं विशेषतो मोक्षसाधनम् । धर्म्यं धर्मादनपेतम् । देवदर्शना-द्भगवदपरोक्षिणः ॥ ३४ ॥

दैत्यपुत्रा ऊचुः–

प्रह्लाद त्वं वयं चापि नर्तेऽन्यं विद्महे गुरुम् ।

एताभ्यां गुरुपुत्राभ्यां बालानामपि हीश्वरः ॥ ३५ ॥

पदरत्नावली

एतस्मिन्नवसरे दैत्यपुत्राः प्रह्लादकथितार्थशङ्कया तं पृच्छन्तीत्याह– प्रह्लादेति ॥ एताभ्यां गुरुपुत्राभ्यां शण्डामर्काभ्याम् ऋते नान्यं गुरुं विद्महे यस्मात् । किञ्च विज्ञानं चेश्वरविषयं विवक्षितम् । तदुपाधिनापि बालानामक्षराभ्यासनिरतानामस्माकम् ईश्वरः न काङ्क्षित इति यस्मात् । अन्यगुर्वाभावेऽपीश्वर उपदेष्टा स्यादतो वाह– बालानामिति ॥ बालानामीश्वरोऽस्ति किम् ? । नास्ति प्रतिपत्त्यभावात् ॥ ३५ ॥

सत्यधर्मीया

त्वं क्वापि न गतो नागतश्च भगवान्नारदः कथं श्रद्धेयं तव वचनमिति पृच्छन्ति बाला इति लपति ॥ दैत्यपुत्रा इति । हे प्रल्हाद । त्वं वयं चैताभ्यां गुरुपुत्राभ्यां शण्डामर्काभ्यामृते विना । यद्यपि ‘‘उपयामगृहीतोऽसि शंडाय त्वैष ते योनिर्वीरतां पाहि । तं प्रत्नथा पूर्वथा विश्वथे-मथाज्येष्टतातिं बर्हिषदं सुवर्चिदं प्रतीचीनं वृजिनं दोहसे धुनिमाशुं जयन्तमनु यासु वर्धसे । उपयाम गृहीतोऽसि मर्काय त्वैषते योनिः प्रजाः पाहि इति प्रथमाष्टकचतुर्थाध्यायोक्तेः शण्डमर्काभ्यामिति वक्तव्यम् । तथापि शण्डामर्कौ सुतौ तस्य इत्यत्रैव बहुशः प्रयोगादन्येभ्योऽपि दृश्यत इति दीर्घः । छन्दःसमत्वात् सांहितिको वा । अथवा देवत्वविवक्षयाऽनङ् । अन्यारादितरर्त इति पञ्चमी । अन्यं गुरं न विद्मो न जानीमः । विदो लटो वेति । इतस्ततस्तातस्ततजनमुखतः श्रुतमिति वक्तुमुत्कण्ठां कुण्ठयति ॥ हीति । हि यस्माद्बालानां शिशूनां नोऽस्माकमीश्वरो नियन्ता हिरण्यकशिपुरूपोऽप्यस्ति । अतो नान्यत्र गमनयोग इति भावः ॥ ३५ ॥

मन्दनन्दिनी

नारदात् श्रुतमित्येतत्कथं विश्रम्भणीयम् । तवास्माकं च शण्डामर्काभ्यामृतेऽ-न्यस्य गुरोर्लाभाभावात् । ईश्वरोऽपि बालानां नो साक्षादुपदेष्टा । तव चान्तःपुरस्थस्य महत्सङ्गो दुर्लभः । अत्र विश्वासजननोपायोऽस्ति चेत्तमुक्त्वा संशयं छिन्धीत्याशयेनाह ॥ प्रह्लादेति ॥ नोपीत्यत्र नो अपीति पदच्छेदः । प्रगृह्यं तु नाश्रितम् ॥ ३५ ॥

॥ इति श्रीमद्भागवतटिप्पण्यां श्रीव्यासतत्वज्ञविरचितायां

मन्दनन्दिन्यां सप्तमस्कन्धे षष्ठोऽध्यायः ॥ ७–६ ॥

बालस्यान्तःपुरस्थस्य महत्सङ्गो दुरन्वयः ।

छिन्धि नः संशयं सौम्य स्याच्चेद् विस्रम्भकारणम् ॥ ३६ ॥

॥ इति श्रीमद्भागवते सप्तमस्कन्धे षष्ठोऽध्यायः ॥

पदरत्नावली

कस्मिंश्चिदवसरे देशान्तरेऽन्यगुरुसङ्गतिः किं न स्यादिति तत्राह– बालस्येति ॥ तस्मादुत्पन्नं नः संशयं जहीत्यन्वयः । तत्र कृत्यमाहुरित्याह– स्यादिति ॥ ३६ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

सप्तमस्कन्धे षष्ठोऽध्यायः ॥

सत्यधर्मीया

बालस्य तत्राप्यन्तःपुरस्थस्य महत्सङ्गो महतो महतां नारदस्य नारदादीनां सङ्गः सहवासो दुरन्वयो दुःसम्पादः । विस्रम्भकारणं विश्वासहेतुर्वः स्याच्चेद्वर्तेत चेत् । तं नो दुरन्वयसंशयम् । हे सौम्य । छिन्धि छेदय । तन्निमित्तमुपन्यस्य नः संशयं छिन्धीति भावः ॥ ३६ ॥

**॥ इति श्रीसत्यधर्मतीर्थकृतायां श्रीमद्भागवतविवृतौ **

सप्तमस्कन्धे षष्ठोऽध्यायः ॥