०५ पञ्चमोऽध्यायः

पौरोहित्याय भगवान् वृतः काव्यः किलासुरैः

॥ अथ पञ्चमोऽध्यायः ॥

नारद उवाच–

पौरोहित्याय भगवान् वृतः काव्यः किलासुरैः ।

शण्डामर्कौ सुतौ तस्य दैत्यराजगृहान्तिके ॥ १ ॥

पदरत्नावली

हिरण्यकशिपुप्रह्लादसंवादच्छलेन भक्तिस्वरूपं हरेर्निरतिशयस्वातन्त्र्यं च निरूपयत्यस्मिन्नध्याये । काव्यः शुक्रः । शण्डश्च मर्कश्च शण्डामर्कौ । तस्य शुक्रस्य । दैत्यराज-गृहान्तिके स्थित्वा ॥ १ ॥

प्रकाशिका

भगवद्भक्तिरेव प्रह्लादे विद्वेषकारणमिति वक्तुमाह ॥ पौरोहित्यायेत्यादिना ॥ काव्यः शुक्रः । अतस्तस्य शुक्रस्य शण्डामर्कनामानौ सुतौ ग्रहान्तिके न्यवसतामिति शेषः ॥ १ ॥

मन्दनन्दिनी

हिरण्यकशिपुप्रह्लादसंवादच्छलेन भक्तिस्वरूपं हरेर्निरतिशयस्वातन्त्र्यं च निरूप-यत्यस्मिन्नध्याये । काव्यो भार्गवः । दैत्यराजगृहान्तिके पौरोहित्येन वासं चक्रतुः ॥ १ ॥

तौ राज्ञा प्रापितं बालं प्रह्लादं नयकोविदम् ।

पाठयामासतुः पाठ्यानन्यांश्चासुरबालकान् ॥ २ ॥

पदरत्नावली

राज्ञा हिरण्यकशिपुना ॥ २ ॥

प्रकाशिका – राज्ञा हिरण्यकशिपुना । प्रापितं, अध्ययनायेति शेषः । पाठ्यान् दण्डनीत्यादीन्

॥ २ ॥

मन्दनन्दिनी

प्रापितं शिष्यत्वेन ॥ २ ॥

यत् तत्र गुरुणा प्रोक्तं शुश्रुवे न पपाठ ह ।

न साधु मनसा मेने स्वरूपासद्ग्रहाश्रयम् ॥ ३ ॥

पदरत्नावली

अपाठस्य विशेषणभूतेन हेत्यनेन सूचितं हेतुमाह– नेति ॥ असाधुत्वे किं कारणम् ? अत्राह– स्वरूपेति ॥ ‘स्वातन्त्र्यात् स्व इति प्रोक्तः’ इत्यनः स्वस्य स्वतन्त्रस्य हरेः रूपस्य असत्वं शून्यत्वं गृह्णातीति, ‘निराकारो हरिः’ इति यः पक्षः स आश्रयो यस्य तत् तथा । निराकारपक्षविषयत्वादित्यर्थः । प्रपञ्चस्वरूपस्यासद्ग्रहः शून्यवादः । स आश्रयो यस्य तत् तथा । औतविषयत्वादित्यर्थ इति वा । जीवपरस्वरूपयोर् असत् पृथगभावं गृह्णातीति स्वरूपासद्ग्रहः जीवपरमात्मानावभिन्नौ इति यः सिद्धान्तः, स आश्रयो यस्य तत् तथा । औतविषयत्वादित्यर्थः, इति वा । स्वरूपासद्ग्रह औत्पत्तिकदुराग्रहो ऽवैष्णवपक्षपातः स आश्रयो यस्य तत् तथा । वैष्णवसिद्धान्तविरुद्धत्वादित्यर्थ इति वा । विन्यासभेद एवायम् । तात्पर्यतस्त्वेक एवेति ॥ ३ ॥

प्रकाशिका

अपाठे हेतुर् न साध्विति ॥ हशब्दो यस्मादित्यर्थे । कुतो न साधु मेने इत्यत उक्तम् । स्वरूपेति ॥ स्वरूपतो वस्तुतोऽसद् यत्स्वातन्त्र्येण कर्तृत्वमात्मनः । तद्विषयो ग्रहः, दुराग्रहः, स एवाश्रयो यस्य ॥ ३ ॥

मन्दनन्दिनी

तत्र तत् । शुश्रुवे एव न पपाठ । नाभ्यासं चकार । स्वरूपासद्ग्रहाश्रयं स्वरूपेणासदसाधुग्रहः पक्षः । वैष्णवसिद्धान्तविरुद्ध इति यावत् । स आश्रयो यस्य तत् । मनसा न साधु मेन इति योजना ॥ ३ ॥

एकदाऽसुरराट् पुत्रमङ्कमारोप्य पाण्डव ।

पप्रच्छ कथ्यतां वत्स मन्यते साधु यद् भवान् ॥ ४ ॥

मन्दनन्दिनी

यत्साधु मन्यते तत्कथ्यताम् ॥ ४ ॥

प्रह्लाद उवाच–

तत् साधु मन्येऽसुरवर्य देहिनां सदा समुद्विग्नधियामसद्ग्रहात् ।

हित्वाऽऽत्मपातं गृहमन्धकूपं वनं गतो यद्धरिमाश्रयेत ॥ ५ ॥

पदरत्नावली

हे असुरवर्य असद्ग्रहाद् विषयाभिनिवेशात् समुद्विग्नधियां परवशीकृतबुद्धीनां देहिनां तत् साधु संसारनिर्मूलसाधनं मन्य इत्यन्वयः । किं तदिति तत्राह– हित्वेति ॥ आत्मपातं स्वस्य निरयपातम् अन्धमज्ञानं यत् तस्य कूपं निधानस्थानं गृहं हित्वा वनं सज्जनसङ्गमलक्षणं गतः

॥ ५ ॥

प्रकाशिका

असद्ग्रहादविद्यमानस्वातन्त्र्यविषयकदुराग्रहात् ॥ आत्मनः स्वस्य पातो निरयं पतनं यस्मात् । अन्धकूपम् अन्धकूपवन्मोहजनकम् । वनं गतः सन् हरिमाश्रयीतेति यत्तत्साधु संसारनिवर्तकं मन्य इत्यन्वयः ॥ ५ ॥

मन्दनन्दिनी

स्वेन मतं साध्वाह ॥ तदिति ॥ हे असुरवर्य । असद्ग्रहाद्दुर्विषयाभिनिवेशात्सदा समुद्विग्नधियां नित्यं चञ्चलमनसामात्मपातं स्वस्य निरयपातकारणमन्धकूपं प्रकाशरहितकूपस्थानापन्नं गृहं हित्वा वनं सज्जनसङ्गलक्षणं गतो हरिमाश्रयेदिति यत्तत्साधु मन्य इति योजना ॥ ५ ॥

नारद उवाच–

श्रुत्वा पुत्रगिरो दैत्यः परपक्षसमीहिताः ।

जहास बुद्धिर्बालानां भिद्यते परबुद्धिभिः ॥ ६ ॥

पदरत्नावली

सज्जनशिक्षार्थं प्रह्लादेन तत्वमुक्तं, न तु तं ग्राहयितुम् । तस्यासुरावेशेन दुराग्रह-गृहीतत्वात् । तत्फलमाह– श्रुत्वेति ॥ परिहासफलम् । परबुद्धिभिः१ । परपक्षसमीहिताः पूर्वपक्ष-विषयत्वेन प्रवृत्ताः ॥ ६ ॥

प्रकाशिका

परपक्षो विष्णुः सः समीहितः प्रतिपाद्यतयेष्टो यासाम् ॥ ६ ॥

मन्दनन्दिनी

परपक्षसमीहिताः शत्रुपक्षनिष्ठा गिरः ॥ ६ ॥

सम्यग् विधार्यतां बालो गुरुगेहे द्विजातिभिः ।

विष्णुपक्षप्रतिच्छन्नैर्न भिद्येतास्य धीर्यथा ॥ ७ ॥

पदरत्नावली

पुत्रस्नेहेनाभिमतोऽयं न हासः । किं त्वनभिमत एवेत्यभिप्रेत्याह– सम्यगिति ॥ विधार्यताम् अवधार्यताम् । विष्णुपक्षः प्रतिच्छन्नो येषां ते तथा तैः । विष्णुसिद्धान्तमभिगृह्य स्थितैरित्यर्थः

॥ ७ ॥

मन्दनन्दिनी

विष्णुपक्षप्रतिच्छन्नैर्वस्तुतो विष्णुपक्षैः प्रतिच्छन्नैर्गूढैरस्य धीर्यथा न भिद्येत तथाऽयं बालो विधार्यतां विविक्ततया धार्यतामिति योजना ॥ ७ ॥

गृहमानीतमाहूय प्रह्लादं दैत्ययाजकाः ।

प्रशस्य श्लक्ष्णया वाचा समपृच्छन्त सामभिः ॥ ८ ॥

पदरत्नावली

अवशवशीकरणाय चत्वार उपाया विहिताः । तत्र द्विजातीनां सामोपाय एव श्रेयानिति दर्शयितुं परकृतबुद्धिभेदं च ज्ञातुं, तत्रापि योग्यानां भगवत्तत्वज्ञाननिश्चयाय च, दैत्यभयाच्च दैत्ययाजकाः प्रह्लादमपृच्छन्नित्याह– गृहमिति ॥ सामभिर् वचनैः ॥ ८ ॥

मन्दनन्दिनी

प्रह्लादज्ञानं स्वारसिकमाहितं वेति ज्ञातुं सामभिः समपृच्छत् ॥ ८ ॥

वत्स प्रह्लाद भद्रं ते सत्यं कथय मा मृषा ।

बालानति कुतस्तुभ्यमेष बुद्धिविपर्ययः ॥ ९ ॥

पदरत्नावली

तुभ्यं तव यो बुद्धिविपर्यय एष बालान् वयस्यान् अतिक्रम्य कुतः, अभूद् इति शेषः । बालानां बुद्धिमतिक्रम्यैष बुद्धिभेदः कुतः कस्मात् तुभ्यं रोचित इति वा ॥ ९ ॥

प्रकाशिका

बालान् अति सर्वान् बालान् अतिक्रम्य । इतरेषां बालानामविद्यमान इति यावत् । तुभ्यं तव । कुतोऽभूदिति शेषः ॥ ९ ॥

मन्दनन्दिनी

बालान् अति अतिक्रम्यैष बुद्धिविपर्ययः । तुभ्यं तव कुतोऽभूदिति योजना ॥९॥

बुद्धिभेदः परकृत उताहो ते स्वतो भवेत् ।

भण्यतां श्रोतुकामानां गुरूणां कुलनन्दन ॥ १० ॥

पदरत्नावली

एतदेव विवृण्वन्ति– बुद्धिभेद इति ॥ अस्माकं तत्वमेव वक्तव्यं त्वयेत्यतो गुरूणामिति ॥ १० ॥

मन्दनन्दिनी

गुरूणां समीपे । कुलनन्दन दैत्यकुलनन्दन ॥ १० ॥

प्रह्लाद उवाच–

परः स्वश्चेत्यसद्ग्राहः पुंसां यन्मायया कृतः ।

विमोहितधियां दृष्टस् तस्मै भगवते नमः ॥ ११ ॥

पदरत्नावली

उत्तरं वक्ति– पर इति ॥ पुंसां योऽयं परः स्वात्मा इत्यसद्ग्राहः । ‘एकमेवा-द्वितीयम्’ इति श्रुतेः परमार्थवस्तुन एकत्वे प्रामाणिके सिद्धे तत्र श्रीनारायणमन्तरेण परविषयकर्तृत्वं स्वविषयकर्तृत्वमिति भेदः स्वातन्त्र्यकल्पनालक्षणमन्यथाज्ञानम् एष यस्येश्वरस्येच्छया कृतः कल्पितः सर्वकर्तृत्वात् तस्य । तस्मै भगवते महामहिम्ने नम इत्यन्वयः । तत् प्रत्यक्षमित्याह– विमोहित-धियामिति ॥ दृष्टः प्रत्यक्षः । तस्मात् तादृशी बुद्धिर् भवादृशैर्न कार्येति शेषः । विमोहिते-त्यनेनापीश्वराकर्तृत्वं ज्ञायते ॥ ११ ॥

प्रकाशिका

अहो भगवतः सामर्थ्यं, यस्य मायया मोहिता भवन्तो मामित्थं पृच्छन्तीत्या-शयेनाह ॥ परः स्वश्चेति ॥ परः स्वातन्त्र्येण कर्ता । स्वः स्वयं स्वातन्त्र्येण कर्तेत्याग्रहः । जीवेष्व-विद्यमानस्वातन्त्र्यविषयो दुराग्रहः । परमात्मन एव स्वातन्त्र्येण कर्तृत्वाज्जीवानां तद्वशत्वादित्याशयः । यस्य भगवतो माययेच्छया कृतः । विमोहितधियाम् एषां दृष्टश्च तस्मै इत्थं जगन्मोहकाय एतादृशो मोहो न दत्तोऽतो न मया प्रतिकर्तुं शक्यमित्याशयेन नम इत्युक्तम् ॥ ११ ॥

मन्दनन्दिनी

उत्तरं वक्तुं मङ्गलमाचरति ॥ पर इति ॥ विमोहितधियामज्ञानावृतमनसां पुंसां तत्र विषये परो देवतादिः स्वतन्त्रोऽत्र विषये स्वात्माहं स्वतन्त्र इति दृष्टोऽनुभवसिद्धोऽसद्ग्रहो दुरभिमानः । यन्मायया यस्य परमात्मनो मायया मोहिन्या कृतः । तस्मै भगवते नम इति योजना

॥ ११ ॥

स यदाऽनुगतः पुंसां पशुबुद्धिर्विभिद्यते ।

अन्य एष तथाऽन्योऽहमिति देहगताऽसती ॥ १२ ॥

तात्पर्यम्

‘स्वातन्त्र्येणान्यसद्भावनिषेधाय श्रुतिस्त्वियम् । अन्योऽसावन्योऽहमिति पश्यन्नज्ञ इति स्म ह । आत्मानमन्तर्यमयेदिति भेदं स्वरूपतः । आह तद्ब्रह्मणोऽधीना भिन्ना जीवाः सदैव तु । स्वरूपसत्ता कर्तृत्वं भोगो मोक्षस्तथैव च । मुक्तस्यावस्थितिश्चैव सर्वं विष्णोर्वशे सदा’ ॥ इति ब्रह्मतर्के ॥ १२ ॥

पदरत्नावली

यन्माययेत्युक्तं स्पष्ट दर्शयति– स यदेति ॥ स भगवान् यदा पुंसां स्वात्म-परबुद्धिजनकत्वेनानुगतो ऽनुकूलो भवति तदा पशुबुद्धिर् अज्ञबुद्धिर् विभिद्यते । तत् कथमित्यत उक्तम्– अन्य इति ॥ एष देवदत्तोऽन्यः स्वतन्त्रः, अहमन्यः स्वतन्त्र इति । किमस्याधिकरणमिति तत्राह– देहगतेति ॥ अत एवासती वृत्तिज्ञानत्वेन मोक्षानुपयोगित्वात् । ‘अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुः’ इति श्रुतिप्रतीकेनानेन श्लोकेन ‘जीवपरयोर्भेदं निषिध्य चिदैक्यं विधीयते’ इतीममर्थं विहायार्थान्तरकल्पनायां किं प्रमाणमितीयमाशङ्का ‘स्वातन्त्र्येणान्यसद्भावनिषेधाय श्रुतिस्त्वियम् । अन्योऽसावन्योऽहमिति पश्यन्नज्ञ इति स्म ह । आत्मानमन्तर्यमयेदिति भेदं स्वरूपतः । आह तद् ब्रह्मणोऽधीना भिन्ना जीवाः सदैव तु । स्वरूपसत्ता कर्तृत्वं भोगो मोक्षस्तथैव च । मुक्तस्यावस्थितिश्चैव सर्वं विष्णोर्वशे सदा ॥’ इत्यनेन परिहृतेति ज्ञातव्यम् ॥ १२ ॥

प्रकाशिका

यन्माययेत्युक्तं प्रपञ्चयति ॥ स यदेति ॥ सः परमात्मा यदाऽनुगतः योग्यतादिकमनुसृत्य प्रेरयति तदा पशूनामिव स्थिता बुद्धिर्विभिद्यतेऽनेकस्वतन्त्रविषया भवति । तत्कथमित्यत उक्तम् अन्य इति ॥ अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरिति श्रुत्यर्थानुवाद- परेऽस्मिन् श्लोके जीवपरयोर्भेदो निराक्रियत इति भाति । अतस्तां श्रुतिं स्मृत्यैव सम्यग्व्याख्याति ॥ स्वातन्त्र्येणेति ॥ अन्योऽसावन्योऽहमिति श्रुतेरर्थानुवादोऽयमितीयं श्रुतिः स्वातन्त्र्येणान्यकर्तृसद्भाव-निषेधाय प्रवृत्ता न स्वरूपतो भेदनिराकरणाय । तस्य श्रुतिसिद्धत्वादित्याशयेन स्म हेत्युक्तम् । तामेव श्रुतिम् अर्थतः पठति ॥ आत्मानमिति ॥ अनेन य आत्मानमन्तरो यमयत्येष त आत्मान्तर्याम्यमृत इति श्रुतिरुपात्तेति ज्ञातव्यम् । इति श्रुतिरिति शेषः । अनेनैष आत्मा निरुच्यत इति मूलमुक्तार्थमिति ज्ञातव्यम् । स्वातन्त्र्येणान्यसद्भावनिषेधायेत्युक्तमेव विशदयन्नुपसंहरति ॥ तत्, तस्मादिति । जीवा ब्रह्मणो भिन्नाः । स यदा तु विशेषेण ब्रह्मणोऽधीना एव न स्वतन्त्रा इति श्रुत्यर्थ इति शेषः । तमेव विशेषं प्रपञ्चयन्नाह ॥ स्वरूपेति ॥ आद्य एवकारश्चशब्दार्थः । कर्तृत्वमित्यनेन सम्बध्यते । चशब्दो भोग इत्यनेन । द्वितीयस्यैवकारस्य विष्णोरेवेति सम्बन्धः । ततश्चैष परमात्मा अन्यः स्वातन्त्र्येण कर्ता । तथाऽहम् । अहमप्यन्यः स्वातन्त्र्येण कर्तेति विभिद्यते सा बुद्धिः पशुबुद्धितुल्येति मूलं व्याख्येयमित्याशयः । ननु सज्जीवानां कथमेतादृशी बुद्धिरित्यत उक्तम् ॥ देहगतेति ॥ स्वरूपातिरिक्त-मनोगतेत्यर्थः । कुतोऽस्याः पशुबुद्धितुल्यत्वमित्यत उक्तम् ॥ असतीति ॥ शास्त्रविचारजन्या नेत्यर्थः

॥ १२ ॥

मन्दनन्दिनी

उक्तमेव विशदयति ॥ स यदेति ॥ स परमात्मा पुंसां यदा वक्ष्यमाण-भ्रान्तेरनुगतोऽनुकूलस्तदा एषो ब्रह्मादिर्देवोऽन्यः स्वतन्त्रः । तथाऽहमन्यः स्वतन्त्र इत्याकारिका देहगता लिङ्गदेहगता । मनोगतेति यावत् । असती भ्रान्तिरूपा पशुबुद्धिः पशुवदसद्बुद्धिर्विभिद्यते उत्पद्यते? तथाहि श्रुतिः । अथ योऽन्यां देवतामुपास्ते । अन्योऽसावन्योऽहमस्मीति । न स वेद यथा पशुरिति । असौ ब्रह्मादिरन्यः स्वतन्त्रोऽहमन्यः स्वतन्त्र इत्यर्थः । न चेयं श्रुतिर्जीवस्य परमात्मना स्वरूपतो निषेधति तथैव प्रतीतेरिति वाच्यम् । य आत्मानमन्तरो यमयतीति जीवनियामकत्वेनान्तः-शब्देन च स्वरूपतो भेदस्यैवोक्त्या तद्व्याघातापत्तेः । व्याख्याता चैषा श्रुतिर्बृहद्भाष्ये । चर्चिता च न्यायामृते । तदेतत्सर्वमभिप्रेत्य तात्पर्यम् ॥ ‘‘स्वातन्त्र्येणान्यसद्भावनिषेधाय श्रुतिस्त्वियम् । अन्योऽसावन्योऽहमिति पश्यन्नज्ञ इति स्म ह । आत्मानमन्तर्यमयेदिति भेदं स्वरूपतः । आह तद्ब्रह्मणोऽधीना भिन्ना जीवाः सदैव तु । स्वरूपसत्ता कर्तृत्वं भोगो मोक्षस्तथैव च । मुक्तस्यावस्थितिश्चैव सर्वं विष्णोर्वशे सदा’’ इति ब्रह्मतर्के ॥ इयं श्रुतिः केत्यतोऽर्थतोऽनुवदति ॥ अन्योऽसावित्यादिनेति स्म हेत्यन्तेन । प्रतीतेः स्वरूपभेदनिषेध एवार्थः किं न स्यादित्यत आह ॥ आत्मानमिति ॥ तत्तस्माद्ब्रह्मणः परब्रह्मणस्तधीनत्वमेव स्फुटयति सर्वं विष्णोर्वश इति । किं तत्सर्वमित्यत उक्तम् ॥ स्वरूपसत्ता कर्तृत्वमित्यादि ॥ १२ ॥

स एष आत्मा स्वपरेत्यबुद्धिभिर्दुरन्वयानुक्रमणो निरुच्यते ।

मुह्यन्ति यद्वर्त्मनि वेदवादिनो ब्रह्मादयो ह्येष भिनत्ति मे मतिम् ॥ १३ ॥

पदरत्नावली

ननु यदि जीवपरौ मिथो भिन्नौ तर्हि किमिति घटपटभेदज्ञानवत् तद्विषयज्ञानं नोत्पद्यत इत्याशङ्क्य प्रतियोगिज्ञानस्य दुःसाध्यत्वादित्यभिप्रेत्याह– स एष इति ॥ यः स्वस्वकर्मानु-सारेण स्वस्वयोग्यज्ञानमुत्पादयति स एष आत्मा परमात्मा स्वपरेत्यबुद्धिभिर् यथार्थज्ञानविरोधिज्ञान-वद्भिः पुरुषैर्दुरन्वयानुक्रमणः दुरन्वयं दुर्ज्ञानम् अनुक्रमणं तत्तद्योग्यतानुसरेण प्रवर्तनं यस्य स तथा, दुर्ज्ञेयचेष्ट इत्यर्थः, निरुच्यते निश्चीयते । ननु ‘वेदाहमेतं पुरुषं महान्तमादित्यवर्णम्’ इति श्रुतेर् ब्रह्मादेस् तद्विषयज्ञानश्रवणात् कथं प्रतियोगिज्ञानस्य दुःसाध्यत्वमित्यत आह– मुह्यन्तीति ॥ ब्रह्मादीनां भगवद्विषयज्ञानं दुःसाध्यं किम्वितरेषामित्यतो वाह– मुह्यन्तीति ॥ हिशब्दो ऽप्यर्थे हेतौ वा । वेदवादे कोविदा ब्रह्मादयोऽपि यद्वर्त्मनि यत्र स्वरूपविषये मुह्यन्ति यस्मात् तस्मात् स एष दुरन्वयानुक्रमण इति निरुच्यते । अनेन हरेरनुग्रहमन्तरेण तद्विषयज्ञानं नोत्पद्यते । तस्मिन् सति तत् स्यात् । ‘यमेवैष वृणुते तेन लभ्यः’ इति श्रुतेरन्वयव्यतिरेकौ दर्शितावित्युक्तं भवति । ननु त्वदुक्त्यैव त्वद्बुद्धिभेदजनकः कश्चित् स्यात् (इति ज्ञायते) स क इति विचार्यत इति तत्राह– एष इति ॥ मुह्यन्ति इत्येतदत्राप्यनुकूल्यते । यद्वर्त्मनि मुह्यन्ति एष हरिर्मम मतिं भिनत्ति विषयीकरोति । ‘सर्वस्य स्ववशत्वं, स्वस्यानन्याधीनत्वं, स्वप्रसादान् मोक्षादिसकलपुरुषार्थप्राप्तिः’ इत्यादिबुद्धिं जनयतीति भावः । तदुक्तम्– ‘आह तद्ब्रह्मणोऽधीना भिन्ना जीवाः सदैव तु’ इत्यादि ॥ १३ ॥

प्रकाशिका

ननु स्यादेवं यदि परमात्मन एव स्वातन्त्र्येण कर्तृत्वं प्रामाणिकं स्यात्तदेव कुत इत्यत आह ॥ स एष इति ॥ स एष एक एव स्वातन्त्र्येण कर्ता आत्मा परमात्मा निरुच्यते । नान्योऽतोऽस्ति कर्ता । ‘द्रव्यं कर्म च कालश्चेत्यादौ प्रतिपाद्यत इत्यर्थः । नन्वेवमस्मदादिभिः कुतो न ज्ञायत इत्यत उक्तम् ॥ स्वपरेति ॥ स्वः स्वयं स्वातन्त्र्येण कर्ता । परोऽपि स्वातन्त्र्येण कर्तेत्यबुद्धिभिर्यथार्थज्ञानविरोधिज्ञानवद्भिः पुरुषैः । दुरन्वयानुक्रमणः दुरन्वयं दुर्ज्ञानम् अनुक्रमणं प्रवर्तनं यस्य स तथा । मिथ्याज्ञानित्वाद्युष्मदादीनां नैतादृशं सम्यग्ज्ञानमित्याशयः । नन्वेतादृशं मिथ्याज्ञान-मस्मदादीनां कुत इत्यतोऽत्र कैमुत्यमाह ॥ ब्रह्मादय इति ॥ ब्रह्मा आदिः कारणं येषां मरीच्यादीनां त इत्यर्थः । अतद्गुणसंविज्ञानो वा बहुव्रीहिः । हिशब्दोऽप्यर्थे । इदानीं तैः पृष्टस्योत्तरमाह ॥ एष इति ॥ स्वातन्त्र्येण कर्ता हरिरित्यर्थः । भिनत्ति युष्मदादिमतिभ्यो भिन्नां करोति । स्वस्यैव स्वातन्त्र्येण कर्तृत्वादिविषयां करोतीत्यर्थः ॥ १३ ॥

मन्दनन्दिनी

ब्रह्मणो दुर्विज्ञेयत्वं, १बुद्धिरेषा पराकृतोताहो ते स्वत इत्यस्योत्तरं चाह ॥ स एष इति ॥ स एष आत्मा परमात्मा । स्वपरेत्यविभक्तिको निर्देशः । सुब्लोपो वा । स्वपर-स्वातन्त्र्यविषयिण्यबुद्धिर्विपरीतबुद्धिर्येषां तैर्दुरन्वयानुक्रमणो दुरवगममाहात्म्यो निरुच्यते निरूप्यते । यद्वर्त्मनि यत्सरूपैर्वेदवादिनो वेदार्थज्ञानकुशला ब्रह्मादयः । अतद्गुणसंविज्ञानो बहुव्रीहिः । रुद्रादय इत्यर्थः । एष आत्मा भिनत्ति मे मतिमिति योजना ॥ १३ ॥

यथा भ्राम्यत्ययो ब्रह्मन् स्वयमाकर्षसन्निधौ ।

तथा मे भिद्यते चेतश्चक्रपाणौ यदृच्छया ॥ १४ ॥

पदरत्नावली

एतदर्थं सदृष्टान्तमाह– यथेति ॥ यथा आकर्षस्यायस्कान्तस्य सन्निधौ सति अयः स्वयं भ्राम्यति स्वात्मानमुद्दिश्य गमनशक्तिं करोति, तदिति शेषः । तथा मे चेतो यदृच्छया तदिच्छया चक्रपाणौ भिद्यते तद्विषयीकरणशक्तीक्रियते । अयोगमनशक्तिवत् (मम) चेतनस्यापि (चक्रपाणिविषयीकरणशक्तिः) नैसर्गिकीति भावः । एतेन सर्वं हर्यधीनमित्युक्तं भवति । एतेन ह वा पयो मण्डं भवति’ ‘एतस्य वाऽक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यः स्यन्दन्ते’ ‘य आत्मानमन्तर्य-मयेदिति भेदं स्वरूपतः । आह’ इत्यादिश्रुतिस्मृतिभ्यां विशेषेण चराचरस्य सर्वस्य श्रीहर्यधीन-प्रवृत्त्यवगमात् । ‘पश्यन्नज्ञः’ इत्यनेन पशुबुद्धिरबुद्धिभिरित्येतत्पदद्वयाभिप्रायो दर्शितः ॥ १४ ॥

प्रकाशिका

अत्र किं कारणमित्यतस्तदिच्छैव कारणमित्येतद्दृष्टान्तेनोपपादयति ॥ यथेति ॥ अयः लोहः । आकर्षस्यायस्कान्तस्य सन्निधौ समीपे स्वयमेव दृष्टकारणाभावेऽपीश्वरेच्छया भ्राम्यति लोहमुद्दिश्य चलनशक्तिमद्भवति । यदृच्छया तदिच्छयैव चक्रपाणौ विषये भिद्यते युष्मद्बुद्धितो विलक्षणा जायत इत्यर्थः ॥ १४ ॥

मन्दनन्दिनी

एतदर्थं सदृष्टान्तमाह ॥ यथेति ॥ ब्रह्मन् शण्डामर्क । आकर्षसन्निधा-वयस्कान्तसन्निधौ । स्वयं भ्राम्यति स्वतो गच्छति । यदृच्छया तदिच्छया भिद्यते तद्विषयीकरण-शक्तीक्रियते । अयोगतिवच्चेतोगतिरपि नैसर्गिकीति भावः ॥ १४ ॥

नारद उवाच–

एतावद् ब्राह्मणायोक्त्वा विरराम महामतिः ।

तं निर्भर्त्स्याथ कुपितः सुदीनो राजसेवकः ॥ १५ ॥

पदरत्नावली

सुदीनः वाचा शिक्षायां क्षीणोऽशक्त इत्यर्थः । राजसेवक इत्यनेन भेदज्ञाना-सामर्थ्यं च सूचितम्, उभयोरपि वित्तसाध्यत्वात् ॥ १५ ॥

प्रकाशिका

सुदीनः वाचा शिक्षणेऽशक्तः राजसेवक उवाचेति शेषः ॥ १५ ॥

मन्दनन्दिनी

उपररामोपरतवान् । सुदीन इत्यनेन वाचा शिक्षणासामर्थ्यं राजसेवक इत्यनेन प्रह्लादोक्तं सम्यगिति जानतोऽपि राजसेवनाय शिक्षकत्वमिति सूचितम् ॥ १५ ॥

आनीयतामरे वेत्रमस्माकमयशस्कृतः ।

कुलाङ्गारस्य दुर्बुद्धेश्चतुर्थोऽस्योदितो दमः ॥ १६ ॥

पदरत्नावली

अयशस्कृतो दुष्कीर्तिकरस्यास्य चतुर्थो दमो दण्डसंज्ञक उदित इत्यर्थः ॥ १६ ॥

प्रकाशिका

कुलाङ्गारस्य कुलनाशकवह्नितुल्यस्योपायानां मध्ये चतुर्थो दमो दण्ड उदित उक्तः

॥ १६ ॥

मन्दनन्दिनी

अस्य वाचा शिक्षणानर्हस्य । चतुर्थो दमो दण्ड उदितो विहितः ॥ १६ ॥

दैतेयचन्दनवने जातोऽयं कण्टकद्रुमः ।

तन्मूलोन्मूलपरशोर्विष्णोर्नालायितोऽर्भकः ॥ १७ ॥

पदरत्नावली

उन्मूलयतीत्युन्मूलः । स चासौ परशुश्च उन्मूलपरशुः । तस्य दैतेयचन्दनवनस्य मूलम् । तन्मूलोन्मूलपरशुः (हरिः) तस्य नालायितः दण्डवत् तन्वानः ॥ १७ ॥

प्रकाशिका

तस्य दैतेयचन्दनवनस्य यन्मूलं तदुन्मूले उन्मूलने छेदने इति यावत् । यः परशुस्थानीयो विष्णुस्तस्य नालायितः नालमिवाचरन् । यथा परशोश् छेदकत्वे काष्ठविशेषनिर्मितो दण्डः सहकारी तं विना छेदनासम्भवात् । तथायं विष्णोर्दैत्यमूलछेदने सहकारी जात इत्यर्थः ॥ १७ ॥

मन्दनन्दिनी

दैतेयचन्दनवनमूलोन्मूलकपरशुस्थानापन्नस्य विष्णोर्हरेर्नालायितोऽवष्टम्भक दण्डायितः । एतमवष्टभ्य हरिश् छिनत्तीति भावः ॥ १७ ॥

इति तं विविधोपायैर्भीषयन् तर्जनादिभिः ।

प्रह्लादं ग्राहयामास त्रिवर्गस्योपपादनम् ॥ १८ ॥

पदरत्नावली

त्रिवर्गस्योपपादानं शास्त्रम् ॥ १८ ॥

प्रकाशिका

त्रिवर्गस्योपपादनं प्रतिपादनं यस्मिंस्तच्छास्त्रं ग्राहयामास अध्यापयामास ॥ १८ ॥

मन्दनन्दिनी

त्रिवर्गस्य धर्मार्थकामलक्षणपुरुषार्थत्रयस्य ॥ १८ ॥

तत एनं गुरुर्ज्ञात्वा ज्ञातज्ञेयचतुष्टयम् ।

दैत्येन्द्रं दर्शयामास मातृमृष्टमलंकृतम् ॥ १९ ॥

पदरत्नावली

ज्ञातं ज्ञेयानां धर्मादिपुरुषार्थानां चतुष्टयं येन स तथा तम् । ज्ञातज्ञेयसाधनचतुष्टयं वा । मातृमृष्टं शरीरमलत्यागेन स्नानं कारितम् ॥ १९ ॥

प्रकाशिका

ज्ञातं ज्ञेयं सामाद्युपायानां चतुष्टयं येन तं ज्ञात्वा । दैत्येन्द्रं प्रति । मात्रा मृष्टम् उद्वर्त्य स्नापितम् ॥ १९ ॥

मन्दनन्दिनी

ज्ञातज्ञेयचतुष्टयं पुरुषार्थचतुष्टयम् ॥ यद्यपि त्रिवर्गस्येत्युक्तम् । तथाऽपि ज्ञात्वा शिवं शान्तिमत्यन्तमेतीत्यादेरापातार्थप्रतीतिमालम्ब्य मोक्षस्योपपादनं चोपलक्षणीयम् । यद्वा ज्ञेयचतुष्टयं सामाद्युपायचतुष्टयम् । मातृमृष्टं मात्रा मृष्टम् । निर्मलं स्नापितमलङ्कृतम् भूषितम् ॥ १९ ॥

पादयोः पतितं बालं प्रतिनन्द्याशिषाऽसुरः ।

परिष्वज्य चिरं दोर्भ्यां परमामाप निर्वृतिम् ॥ २० ॥

मन्दनन्दिनी

आशिषा प्रतिनन्द्य सन्तोष्य । निर्वृतिमानन्दम् ॥ २० ॥

आरोप्याङ्कमवघ्राय मूर्धन्यश्रुकलाम्बुभिः ।

आसिञ्चन् विकसद्वक्त्रमिदमाह युधिष्ठिर ॥ २१ ॥

प्रह्लादानूद्यतां१ तात स्वधीतं किञ्चिदुत्तमम् ।

कालेनैतावताऽऽयुष्मन् यदशिक्षद् गुरोर्भवान् ॥ २२ ॥

पदरत्नावली

सुष्ठु अधीतं पठितम् ॥ २२ ॥

प्रकाशिका

स्वधीतं सुष्ठु अधीतं पठितम् ॥ २२ ॥

मन्दनन्दिनी

मूर्धन्यवघ्रायाषिंचत् । मूर्धानमिति विभक्तिविपरिणामेनान्वेति । आयुष्मन्निति सम्बोधनम् । अशिक्षत् । अनुदात्तेतोपि व्यत्ययेन परस्मैपदम् । विद्यां मा दत्तेत्यर्थः ॥ २२ ॥

प्रह्लाद उवाच–

श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् ।

अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥ २३ ॥

तात्पर्यम्

आत्मस्थत्वेन वेदनमात्मनिवेदनम् । ‘मुक्तस्यापि ममान्तस्थो नियन्तैव हरिः सदा । इति ज्ञानं समुद्दिष्टं सम्यगात्मनिवेदनम्’ ॥ इति च ॥ २३ ॥

पदरत्नावली

नियन्तृत्वेनात्मनि मयि स्थितो भगवानिति नितरां वेदनं ज्ञानम् आत्मनिवेदनम् । ‘मुक्तस्यापि ममान्तःस्थो नियन्तैव हरिः सदा । इति ज्ञानं समुद्दिष्टं सम्यगात्मनिवेदनम् ॥’ इति वचनाद् आत्मसमर्पणं नार्थः । किन्तूक्त एवार्थः । इति उक्तप्रकारेण श्रवणादिभिर् नवभिर् लक्ष्यते असम्भवव्यभिचारपरिहारेण ज्ञायत इति ॥ २३ ॥

प्रकाशिका

पादसेवनं परिचर्याख्यम् । रक्षिष्यतीति विश्वासः । आत्मनिवेदनमित्यस्य देहसमर्पणमिति व्याख्यानमप्रामाणिकमिति भावेन स्वयं तद्व्याख्याति ॥ आत्मस्थत्वेनेति ॥ नियन्तृतयेति शेषः । तथा चात्मनीति सप्तम्यन्तं पदम् आधारवाचीत्युक्तं भवति । अत्र प्रमाणमाह ॥ मुक्तस्यापीति ॥ २३ ॥

मन्दनन्दिनी

स्वधीतमनुवक्ति ॥ श्रवणमित्यादिना ॥ विष्णोरिति सर्वत्रान्वेति । श्रवणं श्रोत्रेण माहात्म्यस्य । कीर्तनं नाम्ना वाचा । मनसा स्मरणम् । पादसेवनं हस्ताभ्याम् । एतच्च भगव-त्प्रतिमाभूतभक्तद्वारा । अर्चनं तुलस्यादिभिर्वन्दनमभिवादनम् । स्तुतिर्वा । दास्यं दासोऽहमित्यनु-सन्धानम् । सख्यमत्यन्तस्नेह आत्मनिवेदनमात्मनि सर्वदा नियामकत्वेना स्थितत्वज्ञानम् । ननु दासोऽहमिति समर्पणं दास्यमिति पुनरुक्तेरत एवोक्तं तात्पर्ये ॥ आत्मस्थत्वेन वेदनमात्मनिवेदनम् । ‘‘मुक्तस्यापि ममांतस्थो नियन्तैव हरिः सदा । इति ज्ञानं समुद्दिष्टं सम्यगात्मनिवेदनम्’’ ॥ इति च

॥ २३ ॥

इति पुंसाऽर्पिता विष्णौ भक्तिश्चेन्नवलक्षणा ।

क्रियते भगवत्यद्धा तन्मन्येऽधीतमुत्तमम् ॥ २४ ॥

पदरत्नावली

नवलक्षणा विष्णौ भक्तिर् यस्मिन् शास्त्रेऽर्पिता प्रतिपादिता पुंसा सा भगवत्युक्तश्लोके अद्धा निर्व्याजेन क्रियते चेद् यदि तर्हि तदधीतं शास्त्रम् उत्तमं मन्ये नान्यदित्यन्वयः । नव श्रवणादीनि लक्षणानि चिह्नानि यस्यां सा तथा ॥ २४ ॥

प्रकाशिका

नवलक्षणेति मूलम् । नवानि लक्षणानि ज्ञापकानि यस्याः सा तथा । येनाधीतेन भगवति विष्णौ चेद्भक्तिस्तस्मिन्नर्पिता सती क्रियते । तर्ह्येव तदुत्तममधीतमहं मन्ये ॥ २४ ॥

मन्दनन्दिनी

मूले इत्युक्तप्रकारेण नवलक्षणा नवप्रकारा भक्तिर्भगवति विष्णौ । सप्तम्यर्थविवरणमर्पितेति । तस्यार्थो विषयिका क्रियत इति । येनाधीतेन नवलक्षणा भक्तिर्विष्णुविषयिका भवति । तदधीतं साधु इति मूलार्थः । येनाधीतेन निमित्तेन पुंसाऽर्पिता क्रियते तदधीतमुत्तमं मन्ये इति वा योजना ॥ २४ ॥

नारद उवाच–

निशम्यैतत् सुतवचो हिरण्यकशिपुस्तदा ।

गुरुपुत्रमुवाचेदं रुषा प्रस्फुरिताधरः ॥ २५ ॥

मन्दनन्दिनी

प्रस्फुरिताधरश्चञ्चलीकृताधरोष्ठः ॥ २५ ॥

हिरण्यकशिपुरुवाच–

ब्रह्मबन्धो किमेतत् ते विपक्षं श्रयताऽसता ।

असारं ग्राहितो बालो मामनादृत्य दुर्मते ॥ २६ ॥

पदरत्नावली

ते त्वया ॥ २६ ॥

प्रकाशिका

ते त्वया ॥ २६ ॥

मन्दनन्दिनी

एतद्दुर्वृत्तं किमित्यत आह ॥ विपक्षमिति ॥ मामनादृत्य विपक्षं श्रयता त्वया बालोऽसारं ग्राहित इति यदेतदिति योजना ॥ २६ ॥

सन्ति ह्यसाधवो लोके दुर्मैत्राश्छद्मवेषिणः ।

तेषामुदेत्यघं काले रोगः पातकिनामिव ॥ २७ ॥

पदरत्नावली

साधुत्वेन वृतस्य गुरोः ‘दुर्मते’इति सम्बोध्य निन्दनं कथं घटत इति तत्राह– सन्तीति ॥ ‘गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथं प्रतिपन्नस्य कार्यं भवति शासनम्’ इति वाक्यं हिशब्देन स्मारयति । पातकिनां पापफलत्वेन रोग उदेति यथा तथा तेषामघम् अपराधलक्षणव्यसनं प्रकाशत इत्यन्वयः ॥ २७ ॥

प्रकाशिका

मित्रत्वेन प्रतीयमानस्यापि तवास्मद्विरोधाचरणं नासम्भावितमित्याह ॥ सन्ति हीति ॥ दुष्टं मैत्रं मित्रत्वं येषान्ते तथा । अघम् अपराधाचरणं पातकिनां पापफलेन रोगः यथोदेति तथेत्यर्थः । तथाच तेष्वेको भवानित्याशयः ॥ २७ ॥

मन्दनन्दिनी

सन्ति स्वामिद्रोहिण इत्याह ॥ लोक इति ॥ तेषां दुर्मैत्रादीनामघं मनसि विद्यमानं गूढद्वेषः पातकिनां रोग इव । काले कालविशेषे उदेतीति योजना ॥ २७ ॥

गुरुपुत्र उवाच–

न मत्प्रणीतं न परप्रणीतं सुतो वदत्येष तवेन्द्रशत्रो ।

नैसर्गिकीयं मतिरस्य राजन् नियच्छ मन्युं क्व तदात्ममानः ॥ २८ ॥

तात्पर्यम्

क्व तदात्ममानो मम ? ॥ २८ ॥

॥ इति श्रीमद्भागवते सप्तमतात्पर्ये पञ्चमोऽध्यायः ॥ ५ ॥

पदरत्नावली

ननु लोके सन्त्वसाधवः । नाहं तादृशः । यतस्त्वत्पुत्रो न मया चरितं नापि परेण (चरितं) पठति । अत इत्याह– न मदिति ॥ तर्हि कस्मादियं मतिरभूदिति तत्राह– नैसर्गिकीति ॥ तदा तस्मिन् पक्षे मम आत्मनः स्वरूपाभिमानो मया ग्राहितेयं मतिरिति क्व ? तस्मात् कोपं संहरेति ॥ २८ ॥

प्रकाशिका

प्रणीतं पठितम् । आत्ममान इत्यत्रापेक्षितं पूरयति । क्व तदात्ममान इति । तथा च तदा तस्मिन्पक्षे मम दुर्मित्रत्वम् इति यावत् । मम आत्ममानः ब्रह्मज्ञानं क्व कथं घटेत । न हि ब्रह्मज्ञानिषु छद्माचरणादिदोषः सम्भावितः । अतो मयि दोषारोपं मा कृथा इति मूलार्थ इति भावः

॥ २८ ॥

मन्दनन्दिनी

हे राजन् । अस्य प्रह्लादस्येयं विष्णुविषयिणी मतिर्नैसर्गिकी स्वाभाविकी । अतो मयि मन्युं नियच्छ । मामनादृत्येत्युक्तम् । तदा तत्र मतेर्नैसर्गिकत्वे त्वदनादरणनिमित्तभूतोऽहङ्कारलक्षणो मान आत्मनो मम क्व । तथा च नासङ्गतिरत एवोक्तं तात्पर्ये ‘‘क्व तदात्ममानो ममेति’’ ॥ २८ ॥

नारद उवाच–

गुरुणैवं प्रतिप्रोक्तो भूय आहासुरः सुतम् ।

न चेद्गुरुमुखीयं ते कुतो भद्रासती मतिः ॥ २९ ॥

पदरत्नावली

पुत्राय क्रुद्ध्यन्नाह– गुरुणेति ॥ गुरुमुखी गुरुमुखादुत्पन्ना । इयं मतिः ॥२९॥

प्रकाशिका

गुरुमुखी गुरुवाक्यजनिता । हे भद्र असती मतिः कुत उत्पन्ना ॥ २९ ॥

मन्दनन्दिनी

इयं मतिर्गुरुमुखी गुरुमुखादागता न चेत्तर्हि कुत आगतेति योजना ॥ २९ ॥

प्रह्लाद उवाच–

मतिर्न कृष्णे परतः स्वतोऽपि वा मिथोऽभिपद्येत गृहव्रतानाम् ।

अदान्तगोभिर्विशतां तमिस्रं पुनः पुनश्चर्वितचर्वणानाम् ॥ ३० ॥

पदरत्नावली

सत्येव मन्मतिस्त्वन्मतिरेवासतीति पितरं कटाक्षीकृत्य परिहरति– मतिरिति ॥ परतो गुर्वादिबोधनप्रयत्नेन । स्वतः स्वप्रयत्नेन । तत्र निमित्तमाह– गृहेति ॥ वनादिनिवासमन्तरेण गृह एव अवस्थानलक्षणं व्रतं येषां ते तथा तेषाम् । ननु ‘कुटुम्बी शुचौ देशे स्वाध्यायमधीयानः’ इति श्रुतेर्गृहस्थानामपि श्रेयःप्राप्त्युपपत्तिरिति । तत्राह– अदान्तेति ॥ अदान्तानामिन्द्रियनिग्रहरहितानां पुरुषाणां गोभिर् वाग्भिस् तमिस्त्रं नरकसुखकल्पं विषयसुखं विशतां भुञ्जानानाम् । तत्रापि नूतनापूर्वभोगो नास्तीत्यभिप्रेयत्याह– पुनरिति ॥ पुनःपुनः भुक्तविषयानेव भुञ्जानानामित्यर्थः । अदान्तगोभिर् अशिक्षिताभिर्वाग्भिर् वेदगताभिस् तमिस्त्रम् अतत्वार्थविषयमज्ञानम् अन्यथाज्ञानं च विशतां गाहमानानाम् । न तत्रापि यत्नोऽस्तीत्याह– पुनरिति वा ॥ ३० ॥

प्रकाशिका

महीयसां पादरजोभिषेक एवात्र कारणमिति वक्तुं भवादृशां विषयासक्तानाम् अत्राधिकारो नास्तीत्याह । मतिरिति । परतः गुरोः स्वतो वा । मिथो ऽन्योन्यतो वा । नाभिपद्येत न सम्पद्येत । केषां गृहव्रतानां ग्रहाश्रमोपयुक्तकाम्यकर्मकर्तॄणाम् । अत एवादान्तैर् अनिगृहीतैर्गोभिरिन्द्रियै-र्हेतुभूतैस्तामिस्रं नरकाद्यनर्थम् । गृहेऽपि नापूर्वो भोग इत्याह । पुनः पुनरिति । चर्वितस्य भुक्तस्यैव चर्वणं भोगो येषाम् ॥ ३० ॥

मन्दनन्दिनी

पुनः पुनश्चर्वितचर्वणानां भुक्तानेव विषयान् भुञ्जानानाम् । अदान्तैर-निगृहीतेन्द्रियैः । कृताभिर्गोभिर्नीतिशास्त्रादिवाग्भिः । तमिस्रं संसारं विशतां गृहव्रतानाम् । स्वतः परतो वेत्येवं मिथः परस्परम् । कृष्णे नारायणे मतिर्नाभिपद्येत इति योजना ॥ ३० ॥

न ते विदुः स्वार्थगतिं हि विष्णुं दुराशया ये बहिरर्थभावाः ।

अन्धा यथान्धैरुपनीयमाना वाचीशतन्त्यामुरुदामि्न बद्धाः ॥ ३१ ॥

पदरत्नावली

एतदेव स्पष्टयति– न त इति ॥ दुष्टेषु प्रतीतिसुन्दरेषु परिणामविषयेषु आशयो येषां ते तथा । तत्र हेतुमाह– बहिरिति ॥ बहिरर्थेषु मुखतः प्रतीयमानार्थेष्वेव भावस् तात्पर्यार्थनिश्चयो येषां ते तथा । श्रुतितात्पर्यार्थानभिज्ञा इत्यर्थः । एते स्वार्थगतिं पुरुषार्थस्वरूपं स्वभक्तप्रयोजनसाधकं वा कृष्णं न विदुरित्यन्वयः । अत्र कारणमाह– वाचीति ॥ ईशतन्त्याम् ईशस्य वेदवाग्लक्षणतन्त्यां ब्राह्मणादिबहुनामाख्यलक्षणदामि्न बद्धाः । अत्रोदाहरणमाह– अन्धा इति ॥ अन्धैर् अज्ञैर् उपनीय-माना उपदिश्यमानकर्ममार्गा अन्धा अज्ञा उपदिष्टान्यमार्गं यथा न विदुस्तथेति । अनेन ‘अन्धेनैव नीयमाना यथाऽन्धाः’ इति श्रुतिं स्मारयति ॥ ३१ ॥

प्रकाशिका

एतदेव स्पष्टमाह । न त इति । स्वार्थगतिं स्वेषां पुरुषार्थभूतं गम्यम् । बहिरर्थभावा बाह्यविषयासक्ताः । ननु गुरूपदेशेन तेऽपि विष्णुं कुतो न जानन्तीत्यत आह । अन्धेति । अन्धैरुपनीयमाना अन्धा यथा पन्थानं न विदुः किन्तु गर्ते पतन्ति । तथा तेऽपीशस्य तंत्यां दीर्घरज्जुभूतायां वाचि वेदलक्षणायामुरुदामि्न ब्राह्मणादिबहुनामाख्यदामि्न बद्धा भवन्ति । ब्राह्मणा-द्यधिकृतकाम्यकर्मबोधकवेदतात्पर्यानभिज्ञाः । गुरूपदिष्टमोक्षमार्गं विहाय संसार एव पतन्तीत्याशयः

॥ ३१ ॥

मन्दनन्दिनी

तदेव स्पष्टयति ॥ न त इति ॥ ये दुराशयाः स्वतो दुष्टमनस्का बहिरर्थभावा आपातप्रतीतार्थज्ञानवन्तो गुरुभिरपि तादृशैरन्धैरुपनीयमाना अन्धा यथा तथोपनीयमाना उरुदामि्न स्वर्गादिलक्षणफलेन्द्रादिलक्षणदेवताब्राह्मणादिलक्षणाधिकारिनामलक्षणदामवत्याम् । वाचि वेद-लक्षणायामीशतन्त्यां भगवदीयप्रतिबन्धकतंत्यां बद्धास्ते स्वार्थगतिं स्वपुरुषार्थप्रापकं विष्णुं न विदुरिति योजना । विषयाभिलाषवतां विष्णुज्ञानं न जायत इति भावः ॥ ३१ ॥

नैषां मतिस्तावदुरुक्रमाङ्घ्रिं स्पृशत्यनर्थापगमो यदर्थः ।

महीयसां पादरजोऽभिषेकं निष्किञ्चनानां न वृणीत यावत् ॥ ३२ ॥

पदरत्नावली

नन्वेवं तर्हि गृहव्रतानां मुक्त्युपायः क इत्यत आह– नैषामिति ॥ यावदेषां गृहव्रतानां मति महीयसां निष्किञ्चनानां संन्यासिनां पादरजोऽभिषेकं न वृणीत तावन्तं कालम् उरुक्रमस्याङ्घ्रिं न स्पृशति न विषयीकरोति । उरुक्रमस्याङ्घ्रिस्पर्शस्य किं फलम् ? अत्राह– अनर्थेति ॥ यस्य हरेरंघ्रिस्पर्शोत्थफलम् अनर्थापगमः संसारनिवृत्तिः । अथवा अनर्थापगमो यस्मात् पादरजोऽभि-षेकाद् उत्थितः प्रकाशितो भवति तम् ॥ ३२ ॥

प्रकाशिका

तर्हि कदैतेषां विष्णौ मतिरित्यपेक्षायामाह । नैषामिति ॥ यावदेषां गृहव्रतानां मतिर्निष्किञ्चनानां निवृत्तविषयाभिलाषाणां महीयसां महत्तमानां पादरजोभिषेकं न वृणीत तावन्तं कालम् उरुक्रमस्याङ्घ्रिं न स्पृशति न विषयीकरोति । उरुक्रमाङ्घ्रिस्पर्शस्य किं फलमत आह । अनर्थेति । संसारनिवृत्तिर्यदर्थो यस्योरुक्रमाङ्घ्रिस्पर्शाख्यार्थः प्रयोजनम् । अनेन कुतो भद्रा सती मतिरिति स्पृष्टस्य महीयसां पादरजोभिषेक एवात्र हेतुरिति वदतोत्तरमुक्तमिति ज्ञातव्यम् ॥ ३२ ॥

मन्दनन्दिनी

भगवदेकान्तभक्तपादसेवनं विना गृहस्थानां भगवति मतिर्न जायत इत्याह ॥ नैषामिति ॥ निष्किञ्चनानां विषयानपेक्षाणां महीयसां महात्मनां पादरजोभिषेकं पादरजसां शिरसा धारणं यावन्न वृणीत वृणीरन् । तावदेषां गृहस्थानां मतिः । अनर्थापगमः संसारनिवृत्तिर्यदर्थः । परस्य प्रयोजनं तम् उरुक्रमांघ्रिम् उरुक्रमस्य विष्णोरन्घ्रिं न स्पृशतीति योजना ॥ ३२ ॥

नारद उवाच–

इत्युक्त्वोपरतं पुत्रं हिरण्यकशिपू रुषा ।

अन्धीकृतात्मा स्वोत्सङ्गान्निरस्यत महीतले ।

आहामर्षरुषाऽऽविष्टः कषायीकृतलोचनः ॥ ३३ ॥

पदरत्नावली

कषायीकृतलोचनः रक्तनेत्रः ॥ ३३ ॥

प्रकाशिका

अन्धीकृतात्मा विवेकरहितमनाः । निरस्यत चिक्षेप । अमर्षोऽसहनं तेन सहितया रुषा आविष्टो व्याप्तः । कषायीकृते ताम्रे लोचने यस्य ॥ ३३ ॥

मन्दनन्दिनी

अन्धीकृतात्मा जडीकृतमनाः । स्वोत्सङ्गात्स्वांकात् ॥ असहनप्रयुक्तकोपाविष्ट इत्यमर्षेत्यादेरर्थः । कषायीभूतलोचनो रक्तनेत्रः ॥ ३३ ॥

हिरण्यकशिपुरुवाच –

वध्यतामाश्वयं वध्यो निस्सारयत नैर्ऋताः ।

अयं मे भ्रातृहा शोच्यो हित्वा स्वान् सुहृदोऽधमः ॥ ३४ ॥

प्रकाशिका

हे नैर्ऋता राक्षसाः । वध्यत्वे हेतुः । यतोऽयं मे भ्रातृहा कथं यो विष्णोः पादावर्चति तत्पक्षपातीत्यर्थः । सोऽयमित्यन्वयः ॥ ३४ ॥

मन्दनन्दिनी

यः प्रह्लादो मे भ्रातृहा भ्रातृघ्नः स्वस्य पितृव्यहन्तुर्विष्णोः पादौ स्वान् सुहृदो हित्वाऽर्चति । अयमधमः शोच्य इति योजना ॥ ३४ ॥

पितृव्यहन्तुः पादौ यो विष्णोर्दासवदर्चति ।

विष्णोर्वा साध्वसौ किं नु करिष्यत्यसमञ्जसः ॥

सौहृदं दुस्त्यजं पित्रोरत्यजत् पञ्चहायनः ॥ ३५ ॥

पदरत्नावली

पितृव्यस्य हिरण्याक्षस्य हन्तुः । असौ असमञ्जसः प्रह्लादः विष्णोः किं वा साधु करिष्यति ? ॥ ३५ ॥

प्रकाशिका

विष्णुरप्यसमंजसमेनं किमिति स्वीकृतवानित्याशयेन आह ॥ विष्णोर्वेति ॥ कथमसमंजसमित्यत आह । सौहृदमिति । ओहाज्जहौ ॥ ३५ ॥

मन्दनन्दिनी

अयं विष्णोर्वा साधु सहायं किं करिष्यति । अभक्तत्वादिति भावः । पित्रोः पितृपितृव्ययोः ॥ ३५ ॥

परोऽप्यपत्यं हितकृद् यथौषधं स्वदेहजोऽप्यामयवत् सुतोऽहितः ।

छिन्द्यात् तदङ्गं यदुतात्मनोऽहितं शेषं सुखं जीवति यद्विसर्जनात् ॥ ३६ ॥

पदरत्नावली

कथमसमञ्जसोऽभूत् ? तत्राह– सौहृदमिति ॥ परः शत्रुरप्यवश्यं द्वेषेणापि हितकृच्चेत् स एव सुतः । औषधं तिक्तत्वेन (अपि हितकृत्) ‘हरीतकीं मनुष्याणां मातेव हितकारिणी’ इति वचनात् । स्वदेहजोऽपि सुतोऽपि अहितोऽपकारी चेत् तं छिन्द्यादामयवद् यथा सर्पदष्टाङ्गम् । किञ्च आत्मनः स्वस्य यदहितमङ्गं सर्पदष्टं तच् छिन्द्यात् । तदेव विशिनष्टि– यद्विवर्जनादिति ॥ शेषमङ्गं सुखं जीवतीत्यन्वयः ॥ ३६ ॥

प्रकाशिका

ननु तवायं सुतोऽतः कथं वध्य इत्यत आह । परोऽपीति । अस्वकीयोऽपीत्यर्थः । आस्तां ममतास्पदस्य कथा ॥ स्वाङ्गमपि यच्चरणादि तदप्यात्मनोऽहितं चेच्छिन्द्यादेवेत्यर्थः ॥ ३६ ॥

मन्दनन्दिनी

स्वकीयत्वपरकीयत्वे रक्षणहननयोर्न प्रयोजके । किंतु हिताहितत्वे एवेत्याशयेनाह ॥ परोऽपीति ॥ परकीयमप्यपत्यमरण्यस्थमप्यौषधं यथा तथा हितकृद्भवति । स्वदेहजोऽपि सुत आमय-वदहितः । अनेन स्वकीयत्वपरकीयत्वे हिताहितत्वयोरप्रयोजक इत्युक्तं भवति । यत्त्वात्मनोऽहितं तदङ्गमुताङ्गमपि छिन्द्यात् । कुत इत्यत आह ॥ शेषमिति ॥ तद्विसर्जनाच्छेषमङ्गं जीवति यत इति योजना । यथा सर्पदष्टाङ्गुलिं छित्वा शेषमङ्गं जीवति । तथा वयमप्येतदपत्यं हत्वा जीवेमेति भावः

॥ ३६ ॥

सर्वैरुपायैर्हन्तव्यः सम्भोगशयनासनैः ।

सुहृल्लिङ्गधरः शत्रुर्मुनेर्दुष्टमिवेन्द्रियम् ॥ ३७ ॥

पदरत्नावली

सम्भोगो भोजनम् ॥ ३७ ॥

प्रकाशिका

अतः सर्वैरुपायैर्हन्तव्यः । सम्भोगो भोजनम् । भोजनादिषु विषादिप्रयोगैरित्यर्थः । यथा दुष्टमिन्द्रियं मुनेः शत्रुः ॥ ३७ ॥

मन्दनन्दिनी

सुहृल्लिङ्गधरो मुनेर्द्रष्टेन्द्रियमिव वस्तुतः शत्रुरयं प्रह्लादः । सम्भोगादिभिः । सर्वैरुपायैर्हन्तव्य इति योजना । सम्भोगो विषसम्प्रक्तान्नभोजनम् । शयनं तप्तशिलादौ । आसनं शूलादाविति ज्ञेयम् ॥ ३७ ॥

नैर्ऋतास्ते समुद्दिष्टा१ भर्त्रा वै शूलपाणयः ।

तिग्मदंष्ट्राः करालास्यास् ताम्रश्मश्रुशिरोरुहाः ॥ ३८ ॥

मन्दनन्दिनी

नैर्ऋता राक्षसाः । भर्त्रा स्वामिना समुद्दिष्टा आज्ञप्ताः ॥ ३८ ॥

नदन्तो भैरवं नादं छिन्धि भिन्धीति वादिनः ।

आसीनं चाहनन् शूलैः प्रह्लादं सर्वमर्मसु ॥ ३९ ॥

पदरत्नावली

भैरवं नादमुद्दिश्य ॥ ३९ ॥

मन्दनन्दिनी

भैरवं नादं भयङ्करं नादम् ॥ ३९ ॥

परे ब्रह्मण्यनिर्देश्ये भगवत्यखिलात्मनि ।

युक्तात्मन्यफला आसन्नपुण्यस्येव तत्क्रियाः ॥ ४० ॥

पदरत्नावली

अनिर्देश्यत्वादिगुणशालिनि हरौ युक्तात्मनि प्रयोजितमनस्के प्रह्लादे अपुण्यस्येव पापिन इव तत्क्रियास् तेषां नैर्ऋतानां ताडनादिक्रियाः ॥ ४० ॥

प्रकाशिका

अखिलात्मनि सकलस्वामिनि । युक्तात्मनि समाहितमनसि । अपुण्यस्येवेति । पुण्यहीनस्य क्रिया महोद्यमा यथा अफला भवन्ति तथा तेषां नैर्ऋतानां क्रियास्ताडनादिरूपाः ॥४०॥

मन्दनन्दिनी

अनिर्देश्येऽदृश्यत्वादिगुणके परे ब्रह्मणि विषये । युक्तात्मनि प्रयोजितमनस्के प्रह्लादे । तत्क्रिया वधोपायाः । अपुण्यस्य पापिनः । सम्पदुपाया इवाफला आसन्निति योजना ॥४०॥

प्रयासेऽपिहते तस्मिन् दैत्येन्द्रः परिशङ्कितः ।

चकार तद्वधोपायान् निर्बन्धेन युधिष्ठिर ॥ ४१ ॥

प्रकाशिका

निर्बन्धेनेत्याग्रहेण ॥ ४१ ॥

मन्दनन्दिनी

तस्मिन्प्रह्लादविषये वधार्थं कृतप्रयासेऽपिहते व्यर्थे सति निर्बन्धेनाग्रहेण ॥ ४१ ॥

दिग्गजैर्दन्दशूकेन्द्रैरभिचारावपातनैः ।

मायाभिः सन्निरोधैश्च गरदानैरभोजनैः ॥ ४२ ॥

पदरत्नावली

वधोपायानाह– दिग्गजैरित्यादिना ॥ अवपातनं गिरिशृृङ्गादधःपातनम् । सन्निरोधैर् अनिर्गमगर्तगृहे निक्षिप्य पीडनैः ॥ ४२ ॥

प्रकाशिका

अभिचाराः कृत्यादयः । अवपातनं गिरिशृङ्गादधःपातनम् । सन्निरोधैर् अनिर्गम-गर्ते निक्षिप्य पीडनैः ॥ ४२ ॥

मन्दनन्दिनी

दन्दशूकेन्द्रैः सर्पश्रेष्ठैः । आभिचारैर्मरणोद्देश्यकयागादिभिः । अवपातैर्गिरि-शृङ्गादधःपातनैः । मायाभिः शून्यक्रियाभिः । सन्निरोधैर्गन्तुमशक्यस्थलवासैः ॥ ४२ ॥

हिमवाय्वग्निसलिलैः पर्वताक्रमणैरपि ।

न शशाक यदा हन्तुमपापमसुरः सुतम् ॥ ४३ ॥

पदरत्नावली

पर्वताक्रमणैः पर्वतारोहणैः, उपरि पर्वतपातनैर्वा ॥ ४३ ॥

प्रकाशिका

पर्वताक्रमणैः पर्वतानां तदुपरि पातनैः ॥ ४३ ॥

मन्दनन्दिनी

हिमेत्यादेस्तत्प्रक्षेपैरित्यर्थः । पर्वतस्याक्रमणैरारोपणैः । तृतीयान्तानां तद्वधोपाय-मिति पूर्वेण हन्तुमित्युत्तरेणान्वयः ॥ ४३ ॥

चिन्तां दीर्घतमां प्राप्तस्तत्कर्तुं नाभ्यपद्यत ।

एष मे बह्वसाधूक्तो वधोपायाश्च निर्मिताः ॥ ४४ ॥

पदरत्नावली

तत् कर्तुं हननं कर्तुम् ॥ ४४ ॥

प्रकाशिका

तद्धननं कर्तुं नाभ्यपद्यत । हननसाधनमिति शेषः ॥ चिन्ताप्रकारमेवाह ॥ एष इति त्रिभिः । मे मया असाधुपरुषं यथा भवति तथा ॥ ४४ ॥

मन्दनन्दिनी

चिन्तां हननविषयाम् । तद्धननं कर्तुम् । बह्वसाधूक्तो बहुनिष्ठुरैर्भर्जितः ॥ ४४ ॥

तैस्तैर्द्रोहैरसद्धर्मैर्मुक्तः स्वेनैव तेजसा ।

वर्तमानोऽविदूरे वै बालोऽप्यजडधीरयम् ॥ ४५ ॥

पदरत्नावली

असद्धर्मैर् असतां योग्यैः । अविदूरे समीपे विदूरे वा वर्तमानः । अजडधीः पटुतरबुद्धिः ॥ ४५ ॥

प्रकाशिका

असद्धर्मैरसतां योग्यैः प्रकारैरविदूरे वर्तमानोऽपि बालोप्ययम् अजडधीः पटुतरबुद्धिः

॥ ४५ ॥

मन्दनन्दिनी

असद्धर्मैरसतां चोरादीनां योग्यैः । अजडधीरमन्दधीः ॥ ४५ ॥

न विस्मरति मेऽनार्यं१ शुनःशेप इव प्रभुः ।

अप्रमेयानुभावोऽयमकुतश्चिद्भयोऽमरः ॥ ४६ ॥

पदरत्नावली

अनार्यं मूर्खकर्म । अन्याय्यमिति पाठे नयशास्त्रविरुद्धम् । ‘मह्यमपरं शतं दत्त । अहमेनं विशसिष्यामि’ इत्याद्याजीगर्तकृतकर्म शुनःशेपेन यथाऽसोढुं तथेति ॥ ४६ ॥

प्रकाशिका

मेऽनार्यं मरणनिमित्तमपकारं न विस्मरति । अजीगर्तस्य मध्यमपुत्रः शुनःशेपो नाम पितृभ्यां हरिश्चन्द्राय विक्रीतः सन् तथा तयोरपकारं न विस्मृतवान् तथैवेति ॥ ४६ ॥

मन्दनन्दिनी

मे सकाशाद्भविष्यदनर्थम् । शुनःशेप इवाजीगर्तकृतं विक्रयणं भाविनं वाऽवयवद्वारा यागं न विस्मरति नालोचयति ॥ ४६ ॥

नूनमेतद्विरोधेन मृत्युर्मे भविता न वा ।

इति तच्चिन्तया किञ्चिन्म्लानश्रियमधोमुखम् ।

शण्डामर्कावौशनसौ विविक्त इति होचतुः ॥ ४७ ॥

पदरत्नावली

इति वक्ष्यमाणप्रकारम् । हेति उच्यमानेऽर्थे तात्पर्यातिशयं वक्ति ॥ ४७ ॥

प्रकाशिका

न वा भविता ब्रह्मवरस्यामोघत्वादित्याशयः । औशनसावुशनसः पुत्रौ । विविक्ते एकान्ते ॥ ४७ ॥

मन्दनन्दिनी

एतद्विरोधेनैतादृशमहानुभावविरोधेन मे मृत्युः प्रायेण भविता नूनम् । वितर्के न वा । पाक्षिक्यभावकोटिः । औशनसावुशनसः शुक्रस्य पुत्रौ । विविक्ते एकान्तस्थले ॥ ४७ ॥

जितं त्वयैकेन जगत्त्रयं भ्रुवोर्विजृम्भणत्रस्तसमस्तधिष्ण्यपम् ।

न तस्य चिन्त्यं तव नाथ चक्ष्महे न वै शिशूनां गुणदोषयोः पदम् ॥ ४८ ॥

पदरत्नावली

धिष्ण्यपाश् चन्द्रादित्यादयः लोकपाला वा । चक्ष्महे पश्यामः । शिशूनां प्रेङ्खायां शयनशीलानां बुद्धिविकासरहितानां वा तत्कारणं गुणदोषयोः पदम् आस्पदं न वै हि गुणदोषग्रहण-बुद्धिविकासाभावादित्यर्थः । शिशूनां गुणदोषयोः पदं नास्तीति वा ॥ ४८ ॥

प्रकाशिका

भ्रुवोर्विजृम्भणेनैव निरस्ताधिष्ण्यपा लोकपाला यस्मिन् । यस्य तव चिन्त्यं न चक्ष्महे न पश्यामः । शिशूनां वृत्तं गुणदोषयोः पदम् आस्पदं नैवेत्यर्थः ॥ ४८ ॥

मन्दनन्दिनी

भ्रुवो विजृम्भणेन त्रस्ताः समस्ता धिष्ण्यपा लोकपाला यस्मिंस्तादृशं जगत्त्रयम् । येन त्वयैकेन जितम् । तस्य चिन्त्यं चिन्तनीयं कार्यं न चक्ष्महे न पश्यामः । न च प्रह्लादहननं चिन्त्यम् । अतः शिशूनामन्तःकरणं गुणदोषयोः पदं नित्यस्थानं न वै इति योजना । एषा बुद्धिर्गच्छेदिति भावः

॥ ४८ ॥

इमं तु पाशैर्वरुणस्य बद्ध्वा निधेहि भीतो न पलायते यथा ।

बुद्धिश्च पुंसो वयसाऽऽर्यसेवया यावद्गुरुर्भार्गव आगमिष्यति ॥ ४९ ॥

पदरत्नावली

तर्हि काऽपरबुद्धिरत्रोच्यते । आह– इममिति ॥ तुनाऽधुनेयमेव बुद्धिरिति विशिनष्टि । कियन्तं कालमेवमिति तत्राह– यावदिति ॥ तावदिति शेषः । ततश्च किम् ? तत्राह– बुद्धिश्चेति ॥ पापजननी च वयसा कालविशेषविशिष्टेनायुर्लक्षणेन आर्याणां सेवया, स्यादिति शेषः

॥ ४९ ॥

प्रकाशिका

यावद्गुरुरागमिष्यति तावद् बद्ध्वा निधेहि ततः किमित्यत ऊचतुः । बुद्धिमिति । समीचीनेति शेषः । आर्यसेवया च भवति ॥ ४९ ॥

मन्दनन्दिनी

यावद्गुरुर्भार्गव आगमिष्यति तावद्भीतो यथा न पलायते वरुणस्य पाशैस्तथा । बद्ध्वा निधेहि । पुंसो वयसा । आर्यसेवया बुद्धिः समीचीना भविष्यतीति योजना ॥ ४९ ॥

तथेति गुरुपुत्रोक्तमनुज्ञायेदमब्रवीत् ।

धर्मा ह्यस्योपदेष्टव्या राज्ञां ये गृहमेधिनाम् ॥ ५० ॥

प्रकाशिका

अनुज्ञायाङ्गीकृत्य ॥ ५० ॥

मन्दनन्दिनी

अनुज्ञायाङ्गीकृत्य ॥ ५० ॥

धर्ममर्थं च कामं च नितरां चानुपूर्वशः ।

प्रह्लादायोचतू राजन् प्रश्रितावनताय१ च ॥ ५१ ॥

मन्दनन्दिनी

आनुपूर्वशः क्रमेण । प्रश्रितेति लुप्तचतुर्थीकम् । विनीताय नम्राय चेत्यर्थः ॥ ५१ ॥

यथा त्रिवर्गं गुरुभिरात्मने उपशिक्षितम् ।

न साधु मेने तच्छिक्षां द्वन्द्वारामोपवर्णिताम् ॥ ५२ ॥

पदरत्नावली

यथा द्वन्द्वारामोपवर्णितां रागद्वेषादिव्यापृतबुद्धिभिर्व्याख्याताम् ॥ ५२ ॥

प्रकाशिका

द्वन्द्वारामोपवर्णितां रागद्वेषादिव्यावृत्तबुद्धिभिर्व्याख्याताम् ॥ ५२ ॥

मन्दनन्दिनी

त्रिवर्गं धर्मार्थकामविषयम् । रागद्वेषादियुक्तो यथा भवति तथोपवर्णिताम् ॥५२॥

यदाऽऽचार्यः परावृत्तो गृहमेधीयकर्मसु ।

वयस्यैर्बालकैस्तत्र सोपहूतः कृतक्षणैः ॥ ५३ ॥

पदरत्नावली

यदा आचार्योऽध्यापनात् परावृत्त उपरतः । गृहमेधीयकर्मसु अग्निहोत्रादि-लक्षणेषु व्यापृतो वा तत्र तदा कृतक्षणैः कृतावतारैर् वयस्यैर्बालकैः स उपाहूतः, क्रीडार्थमिति शेषः । ‘सोक्षिन्नुभद्राक्षुमता’ ‘सोचिन्नु सर्वा’‘सैष दाशरथी रामः’ इत्यादिषु द्रष्टव्योऽयं प्रयोगः ॥ ५३ ॥

प्रकाशिका

परावृत्तो ऽन्यत्रगतः । स उपहूतः । क्रीडार्थमिति शेषः । सोपहूत इति सन्धिः सैष दाशरथी राम इत्यादाविव पादपूरणार्थः ॥ कृतक्षणैः क्रीडार्थं लब्धावसरैः ॥ ५३ ॥

मन्दनन्दिनी

गृहमेधीयकर्मस्वग्निहोत्रादिकर्मसु परावृत्तोऽध्यापनस्थानात्परावृत्त्योद्युक्तः । कृतक्षणैः कृतावसरैः । स प्रह्लाद उपहूतः । सोऽचिलोपो चेत्पादपूरणमिति सुलोपः ॥ ५३ ॥

अथ तान् श्लक्ष्णया वाचा प्रत्याहूय महाबुधः ।

उवाच विद्वान् तन्निष्ठां कृपया प्रहसन्निव ॥ ५४ ॥

पदरत्नावली

अथ आगतः सन् । यस्यां क्रियायां निष्ठाम् इच्छां विद्वान् । तेषां वयस्यानां निष्ठां स्वस्मिन् स्नेहविशेषं वा ॥ ५४ ॥

प्रकाशिका

तन्निष्टां तेषां बालानां समीचीनां योग्यताम् ॥ ५४ ॥

मन्दनन्दिनी

तान्वयस्यान् । तन्निष्ठां भगवन्निष्ठाम् ॥ ५४ ॥

ते तु तद्गौरवाः सर्वे त्यक्तक्रीडापरिच्छदाः ।

बाला न दूषितधियो द्वन्द्वारामेरितेहितैः ॥ ५५ ॥

पदरत्नावली

द्वन्द्वारामेरितैर्वचनैर् ईहितैः प्रवृत्तिभिश्च न दूषितधियः ॥ ५५ ॥

प्रकाशिका—द्वन्द्वारामाणामीरितैर्वचनैः रहितैश्चेष्टितैश्च न दूषिता धीर्येषाम् ॥ ५५ ॥

मन्दनन्दिनी

द्वन्द्वारामेरितेहितैः रागद्वेषाद्युक्तोऽध्येता यथा भवति तथेरितैः प्रोक्तैः । वचनैरीहितैः प्रवृत्तिभिश्च ॥ ५५ ॥

पर्युपासत राजेन्द्र तन्न्यस्तहृदयेक्षणाः ।

तानाह करुणो मैत्रो महाभागवतोऽसुरः ॥ ५६ ॥

॥ इति श्रीमद्भागवते सप्तमस्कन्धे पञ्चमोऽध्यायः ।

पदरत्नावली

‘स एषोऽसुः स एष प्राणः’ इति श्रुतेर् मुख्यप्राणे रमत इत्यसुरः ॥ ५६ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

सप्तमस्कन्धे पञ्चमोऽध्यायः ॥

प्रकाशिका

यतो बालास्तस्मिन्नेव न्यस्तं हृदयम् ईक्षणं च यैः ॥ ५६ ॥

॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां

श्रीमद्भागतटिप्पण्यां सप्तमस्कन्धे पञ्चमोऽध्यायः ॥

मन्दनन्दिनी

तन्न्यस्तेत्यादेः प्रह्लादन्यस्तमनश्चक्षुष्का इत्यर्थः । असुरः प्रह्लादः ॥ ५६ ॥

**॥ इति श्रीमद्भागवतटिप्पण्यां श्रीव्यासतत्वज्ञविरचितायां **

मन्दनन्दिन्यां सप्तमस्कन्धे पञ्चमोऽध्यायः ॥ ७–५ ॥