०४ चतुर्थोऽध्यायः

एवं वृतः शतधृतिर् हिरण्यकशिपोरथ

॥ अथ चतुर्थोऽध्यायः ॥

नारद उवाच–

एवं वृतः शतधृतिर् हिरण्यकशिपोरथ ।

प्रादात् तत्तपसा प्रीतो वरान् तस्य सुदुर्लभान् ॥ १ ॥

पदरत्नावली

वरदानादिसम्भूतं लवणाब्धिजलवृद्धिह्रासवत् क्षणिकं भगवदभक्तैश्वर्यम्, श्रीनारायणप्रसादाविर्भूतमनन्तकालीनं शाश्वतं स्यात्, तदेवापाद्यं बुभूषुभिरित्यादितात्पर्यं निरूप्यते कतिपयेष्वध्यायेषु तत्र हिरण्यकशिपवे ब्रह्मवरदानप्रकारं तेनास्य सर्वस्य विजयप्रकारं च निरूपयति– एवं वृत इत्यादिना । अथशब्देन न केवलं ब्रह्मणो वरदानमेवोच्यते । अपि तु हिरण्यकशिपुविषया कथा साकल्येन कथ्यत इति सूचयति ॥ १ ॥

प्रकाशिका

शतधृतिर्ब्रह्मा ॥ १ ॥

मन्दनन्दिनी

अत्र दैत्यादीनां वरलब्धमैश्वर्यमनित्यम् । योग्येष्वेव भगवदनुग्रह इत्येतत्कतिपयै-रध्यायैर्निरूप्यते । तत्रादौ हिरण्यकशिपुचर्यामाह ॥ एवं वृत इति ॥ श्लोकाश्च स्फुटयोजना इति तत्र तत्र पदार्थ एव निरूप्यते । अथ वरदानानन्तरम् । तस्य हिरण्यकशिपोः ॥ १ ॥

ब्रह्मोवाच–

तातेमे दुर्लभाः पुंसो यान् वृणीषे वरान् मम ।

तथाऽपि वितराम्यङ्ग वरान् यदपि दुर्लभान् ॥ २ ॥

पदरत्नावली

मम सकाशात् । यदपि यद्यपि । दुर्लभान् अन्ततो दुःखप्रापकत्वात् । ‘दुरशोभ-नदुःखयोः’ इति यादवः ॥ २ ॥

प्रकाशिका

मम मतः । यदपि यद्यपि । इमे दुर्लभा इत्यन्वयः ॥ २ ॥

मन्दनन्दिनी

तात वत्स । यान्मम सकाशाद्वृणीषे इमे यदपि यद्यपि दुर्लभास्तथाऽपि वितरामीति योजना ॥ २ ॥

ततो जगाम भगवानमोघानुग्रहो विभुः ।

पूजितोऽसुरवर्येण स्तूयमानः प्रजेश्वरैः ॥ ३ ॥

पदरत्नावली

भगवान् पूज्यः । अत्र प्रतिक्षणं दृष्टश्रुतविस्मरणशीलानां मन्दानां स्फुरणार्थं कृतव्याख्यानां पदानां पुनरपि तथावचनं न दोषाय । तदर्थं हीदं प्रवृत्तमिति । अमोघानुग्रहः, योग्यानामिति शेषः ॥ ३ ॥

प्रकाशिका

भगवान्पूज्यः ॥ ३ ॥

मन्दनन्दिनी

अमोघानुग्रहोऽव्यर्थानुग्रहः ॥ ३ ॥

एवं लब्धवरो दैत्यो बिभ्रद्धेममयं वपुः ।

भगवत्यकरोद् द्वेषं भ्रातुर्वधमनुस्मरन् ॥ ४ ॥

तात्पर्यम्

‘स्वतो भक्ता हिरण्याद्याः परावेशाद्धरौ द्विषः’ इति च ॥ ४ ॥

पदरत्नावली

समग्रैश्वर्यादिगुणरत्नाकरे परे द्वेषमकरोदसुरावेशात्, जयांशत्वेन स्वतो भक्तोऽ-पीति तात्पर्यम् । तदुक्तम्– ‘स्वतो भक्ता हिरण्याद्याः परावेशाद्धरौ द्विषः’ इति । ‘परोऽरिपरमात्मनोः’ इत्यभिधानादत्र परः शत्रुरसुरस् तदावेशादित्यर्थः ॥ ४ ॥

प्रकाशिका

भगवति समग्रैश्वर्यादिगुणवति हरौ । ननु पूर्वाध्याये स्तुतिर्हिरण्यकस्य हरौ भक्तिरुक्ता इदानीं कथं द्वेषमकरोदित्युच्यत इत्यत्रोपपत्तिं प्रमाणेनैवाह ॥ स्वतो भक्ता इति ॥ परो वैरी असुरस् तस्यावेशादित्यर्थः । तथा च स्तुतिकालेऽसुरावेशाभावात्स्वाभाविकीभक्तिरेव स्थिता । इदानीम् असुरावेशाद् द्वेषमकरोदत उभयथोक्तिर्युक्तेत्याशयः ॥ ४ ॥

मन्दनन्दिनी

भ्रातुर्हिरण्याक्षस्य वधं वराहकृतम् । भगवति द्वेषमकरोत् । भक्तिमतोऽपि द्वेषः परावेशात् । तदुक्तं तात्पर्ये ॥ ‘‘स्वतो भक्ता हिरण्याद्याः परावेशाद्धरौ द्विषः’’ इति ॥ ४ ॥

स विजित्य दिशः सर्वा लोकांश्च त्रीन् महासुरः ।

देवासुरमनुष्येन्द्रान् गन्धर्वगरुडोरगान् ॥ ५ ॥

मन्दनन्दिनी

गन्धर्वगरुडा गन्धर्वश्रेष्ठाः । यद्वा । गरुडजातीयाः पक्षिणः ॥ ५ ॥

सिद्धचारणविद्याध्रान् ऋषीन् पितृपतीन् मनून् ।

यक्षरक्षःपिशाचेशान् प्रेतभूतपतीनपि ॥ ६ ॥

मन्दनन्दिनी

विद्याध्रान् विद्याधरान् । पितृपतीन् चिरपितॄन् ॥ ६ ॥

सर्वसत्वपतीन् जित्वा वशमानीय विश्वजित् ।

जहार लोकपालानां स्थानानि सह तेजसा ॥ ७ ॥

पदरत्नावली

सर्वसत्वपतीन् सिंहादीन् बलश्रेष्ठान् वा । किं बहुना ? विश्वं चराचरं विजितवानिति । तेजसा प्रभावेण सह जहार ॥ ७ ॥

प्रकाशिका

सर्वसत्त्वपतीनिति मूलम् ॥ सर्वेषां सत्त्वानां प्राणिनां ये ये पतयस्तान् । किं बहुना । विश्वजित् सर्वजित् । तेजसा सामर्थ्येन सह सञ्जहार ॥ ७ ॥

मन्दनन्दिनी

सर्वसत्त्वपतीन् सिंहादीन् । बलश्रेष्ठान्वा । विश्वजित्सर्वजित् ॥ ७ ॥

देवोद्यानश्रिया जुष्टमध्यास्ते स्म त्रिविष्टपम् ।

महेन्द्रभवनं साक्षान्निर्मितं विश्वकर्मणा ॥ ८ ॥

पदरत्नावली

त्रिविष्टपं स्वर्गम् । स्वर्गे त्रीणि स्थानानि सन्ति । ततोऽपि श्रेष्ठं महेन्द्रभवनम् अमरावती नाम, तत्स्थानापेक्षया साक्षात् तुरीयमित्युच्यते । ‘साक्षात् प्रत्यक्षतुर्ययोः’ इत्यभिधानात् । अत एवाखिलर्द्धिमदित्युक्तम् । साक्षात् प्रत्यक्षम् अध्युवास इत्यनेन वा सङ्गमयितव्यम् । त्रीणि विष्टपानि स्थानानि सकलसमृद्धिमन्ति अस्मिन्निति त्रिविष्ठपशब्दार्थपर्यालोचनयाऽयमर्थः सम्पद्यते । त्रिदिव-पदस्याप्ययमेवार्थः । अन्यथा त्रिशब्दस्य गतिर्वक्तव्येति ॥ ८ ॥

प्रकाशिका

त्रिविष्टपं स्वर्गम् । तत्रापि महेन्द्रभवनमध्युवास ॥ ८ ॥

मन्दनन्दिनी

त्रिविष्टपं वर्णयति ॥ देवोद्यानेत्यादिना ॥ अध्यास्ते स्म अध्यासाञ्चक्रे । साक्षात्प्रत्यक्षम् । तुरीयं वा । विष्टपत्रयात् । साक्षात्प्रत्यक्षतुर्ययोरित्यभिधानात् ॥ ८ ॥

त्रैलोक्यलक्ष्म्यायतनमध्युवासाखिलर्द्धिमत् ।

यत्र विद्रुमसोपाना महामरकता भुवः ॥ ९ ॥

पदरत्नावली

सोपानम् आरोहावरोहलक्षणं कुट्टिमम् ॥ ९ ॥

प्रकाशिका

अखिलवृद्धिमत्त्वमेवाह ॥ यत्रेति त्रिभिः ॥ ९ ॥

मन्दनन्दिनी

अखिलर्द्धिमत् सर्वसम्पत्तिमत् । भुवः । प्रवालश्रेणिका इन्द्रनीलमयी इत्यर्थः

॥ ९ ॥

यत्र स्फटिककुड्यानि वैदूर्यस्तम्भपङ्क्तयः ।

यत्र चित्रवितानानि पद्मरागासनानि च ॥ १० ॥

पदरत्नावली

वितानम् उपरि पिधानवस्त्रम् ॥ १० ॥

मन्दनन्दिनी

वितानान्युपरि पिधानवस्त्राणि ॥ १० ॥

पयःफेननिभाः शय्या मुक्तादामपरिच्छदाः ।

कूजद्भिर्नूपुरैर्देव्यः शब्दयन्त्य इतस्ततः ।

रत्नस्थलीषु पश्यन्ति सुदतीः सुन्दरं मुखम् ॥ ११ ॥

पदरत्नावली

सुदतीः प्रशस्तदन्तपङ्क्तयः स्त्रियः ॥ ११ ॥

प्रकाशिका

मुक्तादामानि परिच्छदाः परितः स्थिता यासां ताः । सुदतीः शोभमानदन्ताः स्त्रियः ॥ ११ ॥

मन्दनन्दिनी

शब्दयन्त्यः सञ्चारेण ध्वनिं कारयन्त्यः । सुदतीः सुदत्यः ॥ ११ ॥

तस्मिन् महेन्द्रभवने महासुरो महाबलो निर्जितलोक एकराट् ।

रेमेऽभिवन्द्याङ्घ्रियुगः सुरादिभिः प्रतापितैरूर्जितचण्डशासनः ॥ १२ ॥

प्रकाशिका

ऊर्जितम् अधिकं चण्डं क्रूरं शासनं यस्य ॥ १२ ॥

मन्दनन्दिनी

सुरादिभिरित्यतद्गुणसंविज्ञानो बहुव्रीहिः । गन्धर्वादिभिरित्यर्थः । अन्यथा त्रिभिर्विनेति वक्ष्यमाणविरोधात् । वस्तुतस्तु अयज्ञभुजोऽपि देवाः सुरशब्देनोच्यन्ते । तत्पदं सुरपदम् । तात्पर्ये तथा वक्ष्यमाणत्वात् ॥ १२ ॥

तमङ्ग मत्तं मधुनोरुगन्धिना विवृत्तताम्राक्षमशेषधिष्ण्यपाः ।

उपासतोपायनपाणिभिर्विना त्रिभिस्तपोयोगबलौजसां पदम् ॥ १३ ॥

तात्पर्यम्

‘आदित्या वसवो रुद्रास्त्रिविधा हि सुरा यतः । मरुतश्चैव विश्वे च साध्याश्चैव च तद्गताः । अतस्त्रय इति प्रोक्ताश्चत्वारो मानुषाः स्मृता’ इति स्कान्दे ॥ ‘उपायनं ददुः सर्वे विना देवान् हिरण्यके’ ॥ इति च । ‘अयज्ञभागेष्वपि तु सुरशब्दः प्रदृश्य(युज्य)ते । यज्ञभागभुजस्त्वेव त्रय इत्यभिशब्दिताः’ इति च ॥ १३ ॥

पदरत्नावली

त्रिभिरादित्यवसुरुद्रैर्मरुदादिदेवानाम् एष्वन्तर्भाविवक्षया त्रिधाभिक्षैस् तदुक्तं ‘‘आदित्यावसवोरुद्रास्त्रिविधा हि सुरायतः । मरुतश्चैव विश्वे च साध्याश्चैव च तद्गताः ॥ अतस्त्राय इति प्रोक्ताश्चत्वारो मानुषाः स्मृता उपायनं ददुः सर्वे विनादेवान् हिरण्यके’’ इति वचनात् । न ब्रह्मविष्णुमहेश्वरैरित्यर्थो ग्राह्यः । किं चात्रेदं तात्पर्यं तथा हि द्विविधा देवा यज्ञभागभुज इति । तत्र प्रथमे त्रिधा भिन्ना जातिभिन्नत्वान् मन्त्रेण ज्ञानेसमूहेनागमनाच्च । चरमेषु सुरशब्दमन्त्रं वर्तते । तदन्ते वाति वद्वर्तमाना अयज्ञभागेष्वपि तु सुरशब्दः प्रयुज्यते । यज्ञ भागस्त्वेव त्रय इत्यभिशब्दिता इति वचनादयं विशेषः कल्प्यत इति इतोप्यत्र त्रित्वसङ्ख्ययादित्यादय उच्यन्ते इत्यङ्गीकर्तव्यं दैत्यस्य देवोपास्यत्वे देवानां सदा सद्यशोभाजामयशः स्यात्तदनुपपन्नं प्रमाणविरोधात्तदित्तरेषाम् उभयभाक्त्व-मितीश्वरक्लृप्तमिदमिति यत्र क्वचयशः स्यानमन्येषाम् इति केशवः । सर्वत्रापि तु देवानामित्यन्यान्पूज-येत्क्वचिद् इत्युक्तेश्चयोगः सन्नहन इत्यभिधानादणि मादिनोपायस्थानीभूतः ॥ १३ ॥

प्रकाशिका

अङ्ग हे राजन् मधुना सुरया मत्तं, अत एव विवृत्ते विघूर्णिते ताम्रे अक्षिणी यस्य तम् । अशेषधिष्ण्यपाः सर्वलोकपालाः । पदमाश्रयभूतम् । अत्र त्रिभिर्ब्रह्मविष्णुमहेश्वरैर्विना सर्वे देवा उपासतेति व्याख्यानमसदिति भावेन विवक्षितं तात्पर्यं प्रमाणेनैव दर्शयति ॥ आदित्या इति ॥ मरुदादीनां सत्त्वात् कथं त्रिविधा इत्युक्तमित्यत आह ॥ मरुत इति ॥ आद्यस्यैवशब्दस्य त्रिविधा एवेति सम्बन्धः । द्वितीयस्तु तद्गता एवेति ॥ तेष्वादित्यादिषु गतास्तत्रैवान्तर्भूता इत्यर्थः । त्रय इति प्रोक्तास्त्रिशब्देनोक्ता इत्यर्थः । तथा च मूले त्रिभिर्विनेति त्रिशब्देनैते एव व्यावर्तिता इत्याशयः ॥ चत्वार इति ॥ ब्रह्मक्षत्रियवैश्यशूद्रभेदेन चत्वारो यतोऽतः क्वचिच्चतुर्शब्दो नोक्त इत्यर्थः । ननु त्रिभिरित्यस्य कुत एवं व्याख्यानं परोक्तमेव किं न स्यादित्यत आह ॥ उपायनमिति ॥ उपायनं ददुरित्युपलक्षणम् ॥ तमुपासतेत्यपि ग्राह्यम् ॥ तथा च तदीयव्याख्यानस्य विरुद्धत्वादस्मदीयमेव व्याख्यानं युक्तमित्याशयः ॥ ननु भवद्व्याख्यानेऽपि सुरादिभिरभिवन्द्यांघ्रियुग इति पूर्वग्रन्थविरोध इत्यत आह ॥ अयज्ञभागेष्विति ॥ तु विशेषेण प्र(दृश्य)युज्यते । तु विशेषेणाभिशब्दिता इतितुशब्दयो-रन्वयः । तथा च पूर्वमयज्ञभागाः सुरशब्देन विवक्षिताः । अत्र तु त्रिशब्देन यज्ञभागभुज एवातो न विरोध इत्याशयः ॥ १३ ॥

मन्दनन्दिनी

ओति युधिष्ठिरसम्बोधनम् । तपोयोगबलौजसां पदमाश्रयं तमित्यन्वयः । त्रिभिर्विना वसुरुद्रादित्यभेदेन त्रिविधैः सुरैर्विना । मरुदादीनां तत्रैवान्तर्भावात् । नाधिक्यशङ्का कार्या । तदुक्तं तात्पर्ये ॥ ‘‘आदित्या वसवो रुद्रास्त्रिविधा हि सुरा यतः । मरुतश्चैव विश्वे च साध्याश्चैव च तद्गताः । अतस्त्रय इति प्रोक्ताश्चत्वारो मानुषाः स्मृताः’’ इति स्कान्दे ॥ मरुदादयः क्रमेण तद्गताः । आदित्यान्तर्गताः । मानुषाश्चत्वारो वर्णभेदेन । उक्तरीत्या देवानां त्रिशब्देन ग्रहणसम्भवेऽपि सुरादिभिरभिवन्द्याङ्घ्रियुगयुक्तत्वात् त्रिशब्दो ब्रह्मविष्णुरुद्रपरः किं न स्यात् । देवानां हिरण्यकशिपु सेवकत्वाभावस्य स्पष्टमनुक्तेरित्यतस्तात्पर्यम् ॥ ‘‘उपायनं ददुः सर्वे विना देवान् हिरण्यक’’ इति ॥ विषयसप्तमी । चतुर्थ्यर्थे वा । तर्हि पूर्वोत्तरविरोध इत्यतस्तात्पर्यम् ॥ अयज्ञभागेष्वपि तु सुरशब्दः प्रयुज्यते । यज्ञभागभुजस्त्वेव त्रय इत्यभिशब्दिता इति चेति ॥ १३ ॥

जगुर्महेन्द्रासनमोजसा स्थितं विश्वावसुस्तुम्बुरुरस्मदादयः ।

गन्धर्वसिद्धा ऋषयोऽस्तुवन् मुहुर्विद्याधरा अप्सरसश्च पाण्डव ॥ १४ ॥

मन्दनन्दिनी

ओजसा स्वसामर्थ्येन । महेन्द्रासनं स्थितमास्थितम् ॥ १४ ॥

स एव वर्णाश्रमिभिः क्रतुभिर्भूरिदक्षिणैः ।

इज्यमानो हविर्भागानग्रहीत् स्वेन तेजसा ॥ १५ ॥

मन्दनन्दिनी

इन्द्रादिपदत्यक्तमन्त्रैर्दीयमानान्हविर्भागान्स्वयमेवेज्यमान उद्देश्यः सन् अग्र-हीदिति योजना ॥ १५ ॥

अकृष्टपच्या तस्यासीत् सप्तद्वीपवती मही ।

तथा कामदुघा द्यौश्च नानाश्चर्यपदं नभः ॥ १६ ॥

पदरत्नावली

अकृष्टपच्या उल्लेखनमन्तरेण सस्यादिपरिपाकोपेता ॥ १६ ॥

प्रकाशिका

अकृष्टपच्या कर्षणमन्तरेण सस्यादिपरिपाकोपेता ॥ १६ ॥

मन्दनन्दिनी

अकृष्टपच्योल्लेखमन्तरेण सस्यादिपरिपाकोपेता मही । कामदुघेच्छानुसारेण वर्षणाद्युपेता । नानाश्चर्यपदं नानाग्रहतारकाद्युपेतम् ॥ १६ ॥

रत्नाकराश्च रत्नानि तत्पत्न््नयश्चोहुरूर्मिभिः ।

क्षारसीधुघृतक्षौद्रदधिक्षीरामृतोदकाः ॥ १७ ॥

पदरत्नावली

तत्पत्न्यस् तेषां समुद्राणां पत्न्यो नद्यः । क्षारं लवणम् ॥ १७ ॥

प्रकाशिका

रत्नाकराः समुद्रास्तत्पत्न््नयो समुद्रपत्न््नयो नद्यः । ऊहुर् वहन्ति स्म । रत्नाकरानेवाह ॥ क्षारेति ॥ क्षारं लवणम् । सीधुशब्द इक्षुरसपरः । क्षौद्रशब्दो मधुपर्यायः सुरापरः ॥ १७ ॥

मन्दनन्दिनी

क्षारेक्ष्वादयो रत्नाकराः समुद्रास्तत्पत्न््नयो नद्यश्च रत्नानि । ऊर्मिभिस्तरङ्गैरूहुस्तीरं प्रापयामासुः ॥ १७ ॥

शैला द्रोणीभिराक्रीडं सर्वर्तुषु गुणान् द्रुमाः ।

दधार लोकपालानामेक एव पृथग् गुणान् ॥ १८ ॥

प्रकाशिका

आक्रीडं क्रीडास्थानम् । गुणान् अस्योचितपुण्यफलादीन् पृथग्विधान् गुणान् वर्षणदहनशोषणादीन् ॥ १८ ॥

मन्दनन्दिनी

आक्रीडं क्रीडास्थानम् । गुणान् पुष्पादिसम्पत्तीरूहुरित्यन्वयः । लोकपाला-नामिन्द्रादीनाम् । पृथग्गुणान्वर्षणपाचनादीन् । एक एव दधार ॥ १८ ॥

स इत्थं निर्जितककुबेकराड् विषयान् प्रियान् ।

यथोपजोषं भुञ्जानो नातृप्यदजितेन्द्रियः ॥ १९ ॥

पदरत्नावली

यथोपजोषं यथासुखम् ॥ १९ ॥

प्रकाशिका

निर्जिताः ककुभो येन स निर्जितककुप् । यथोपजोषं यथाप्रीतिम् ॥ १९ ॥

मन्दनन्दिनी

यथोपजोषं यथाकामम् ॥ १९ ॥

एवमैश्वर्यमत्तस्य दृप्तस्योच्छास्त्रवर्तिनः ।

कालो महान् व्यतीयाय ब्रह्मशापमुपेयुषः ॥ २० ॥

मन्दनन्दिनी

ब्रह्मशापं सनकादिशापम् ॥ २० ॥

तस्योग्रदण्डसंविग्नाः सर्वे लोकाः सपालकाः ।

अन्यत्रालब्धशरणाः शरणं ययुरच्युतम् ॥ २१ ॥

मन्दनन्दिनी

संविग्ना भीताः ॥ २१ ॥

तस्यै नमोऽस्तु काष्ठायै यत्रात्मा हरिरीश्वरः ।

यद् गत्वा न निवर्तन्ते शान्ताः संन्यासिनोऽमलाः ॥ २२ ॥

मन्दनन्दिनी

काष्टायै तारतम्यान्तगायै । यत्र यः यत्पदम् ॥ २२ ॥

इति ते संयतात्मानः समाहितधियोऽमलाः ।

उपतस्थुर्हृषीकेशं विनिद्रा वायुभोजनाः ॥ २३ ॥

मन्दनन्दिनी

संयतात्मनो निगृहीतमनस्काः ॥ २३ ॥

ओं नमो भगवते महापुरुषाय महात्मने ।

विशुद्धानुभवानन्दसन्दोहाय यतोऽभयम् ॥ २४ ॥

पदरत्नावली

यतो यस्माद् हरेरभयं भवति तस्मा इति ॥ २४ ॥

प्रकाशिका

यतो यस्माद्धरेरभयं भवति तस्मादित्यर्थः ॥ २४ ॥

मन्दनन्दिनी

यतोऽभयं यस्मादभयं लोकस्य ॥ २४ ॥

तेषामाविरभूद् वाणी अरूपा मेघनिस्वना ।

सन्नादयन्ती ककुभः साधूनामभयङ्करी ॥ २५ ॥

पदरत्नावली

अरूपा अशरीरिणी ॥ २५ ॥

प्रकाशिका

अरूपा अशरीरिणी ॥ २५ ॥

मन्दनन्दिनी

अरूपाऽशरीरिणी ॥ २५ ॥

मा भैष्ट विबुधश्रेष्ठाः सर्वेषां भद्रमस्तु वः ।

मद्दर्शनं हि भूतानां सर्वश्रेयोपपत्तये ॥ २६ ॥

पदरत्नावली

मद्दर्शनं मद्विषयज्ञानम् ॥ २६ ॥

प्रकाशिका

मद्दर्शनं मद्विषयकं ज्ञानम् । सर्वेषां श्रेयसामुपपत्तये प्राप्तये ॥ २६ ॥

मन्दनन्दिनी

सर्वश्रेयोपपत्तये सर्वश्रेयोलाभाय । अकारान्तोऽपि श्रेयःशब्दोऽस्ति । टालोपस्यासिद्धत्वं वा नाश्रितम् ॥ २६ ॥

ज्ञातमेतस्य दौरात्म्यं दैतेयापसदस्य यत् ।

तस्य शान्तिं करिष्यामि कालस्तावत् प्रतीक्ष्यताम् ॥ २७ ॥

मन्दनन्दिनी

दैतेयापसदस्य दैतेयक्षुल्लकस्य ॥ २७ ॥

यदा देवेषु वेदेषु गोषु विप्रेषु साधुषु ।

धर्मे मयि च विद्वेषः स वा आशु विनश्यति ॥ २८ ॥

पदरत्नावली

यस्य वेदादिषु विद्वेषः स आशु साधनसामग््रयाम्(सत्यां विनश्यति) ॥ २८ ॥

मन्दनन्दिनी

स इति तच्छब्दश्रवणाद्यस्येत्यध्याहारः । आशु क्षिप्रम् ॥ २८ ॥

निर्वैराय प्रशान्ताय स्वसुताय महात्मने ।

प्रह्लादाय यदा द्रुह्येद्धनिष्येऽपि वरोर्जितम् ॥ २९ ॥

तात्पर्यम्

‘यत्र क्व च यशः स्थानमन्येषामिति केशवः । सर्वत्रापि तु देवाना-मित्यन्यान्पूजयेत्क्वचित्’ इति च ॥ २९ ॥

प्रकाशिका

यदा वेदेषु देवेष्विति देवादिद्रोहं हिरण्यकनाशे निमित्ततयोक्त्वा प्रह्लादाय यदा द्रुह्येदिति प्रह्लादद्रोहे अतिशयेन तद्वधे निमित्ततयोच्यते । तेन देवाद्यपेक्षया प्रह्लाद अतिशयित इति भगवतोऽभिप्रेतमिति भाति । अतोऽत्र विवक्षितं भगवदभिप्रायं प्रमाणेनैव दर्शयति ॥ यत्रेति ॥ यत्र क्वच विषयेऽन्येषां देवव्यतिरिक्तानां प्रह्लादादीनां यशस्थानं यशोनिमित्तमस्तीति मत्वा देवानां तु सर्वत्रापि विषये यशोनिमित्तमस्तीति मत्वा अन्यान् प्रह्लादादीन् क्वजिद्ग्रन्थे पूजयेद् देवाद्यपेक्षयाऽतिशयिता-न्वदेदित्यर्थः । देवाः सर्वत्रापि विषये यशोनिमित्तवन्तः । अतस्तेषां यशोविस्ताराय न मया वाग्व्यापारः कर्तव्यः । प्रह्लादादयस्तु न तथेति मत्वा तेषां यशोविस्ताराय प्रह्लादाय यदा द्रुह्येदिति वाक्यं केशवेनोक्तमित्याशयः ॥ २९ ॥

मन्दनन्दिनी

प्रह्लादाय यदा द्रुह्येत्तदा वरोर्जितमपि हनिष्य इति । अत्र प्रह्लादद्रोहं निमित्तीकृत्य हननप्रतिज्ञया देवापेक्षया प्रह्लादे प्रीतिविशेष इति न मन्तव्यम् । देवानां सर्वदा प्रसिद्धत्वेन प्रह्लादादीनां देवाद्यपेक्षयाऽल्पभक्तानां यशःप्राप्त्यर्थमित्थं प्रतिज्ञोपपत्तेः । एतदुक्तं तात्पर्ये ॥ ‘‘यत्र क्वच यशस्थानमन्येषामिति केशवः । सर्वत्रापि तु देवानामित्यन्यान्पूजयेत्क्वचित्’’ ॥ इति च ॥ स्थानशब्दो निगूहस्थानमित्यत्रेव निमित्तवाची । यत्र क्वचिद् यदा कदाचित् । सर्वत्रापि सर्वदाऽपि । यशः स्थानमित्यनुवर्तते । तथा च देवानां सर्वदा यशोनिमित्तं भवामीति हेतोरन्येषामपि कदाचिद्यशःस्थानं भविष्यमीत्यभिप्रायेण केशवोऽन्यानपि प्रह्लादाम्बरीषादीन्कदाचिदपूजयन्मानयामासेत्यर्थः ॥ २९ ॥

नारद उवाच–

इत्युक्ता लोकगुरुणा तं प्रणम्य दिवौकसः ।

न्यवर्तन्त गतोद्वेगा मेनिरे चासुरं हतम् ॥ ३० ॥

मन्दनन्दिनी

गतोद्वेगा गतभयाः । हतं मेनिरे । ‘‘एष्यत्तु निश्चितं यत्तु तदतीतत्वेन भण्यते’’ इत्युक्तेः ॥ ३० ॥

तस्य दैत्यपतेः पुत्राश्चत्वारः परमाद्भुताः

प्रह्लादोऽभून्महान् तेषां गुणैर्महदुपासकः ।

ब्रह्मण्यः शीलसम्पन्नः सत्यसन्धो जितेन्द्रियः ॥ ३१ ॥

प्रकाशिका

सत्यसन्ध इति मूलं सत्यप्रतिज्ञ इत्यर्थः ॥ ३१ ॥

मन्दनन्दिनी

तेषां मध्ये महदुपासको महतः परमात्मन उपासकः । सत्यसन्धः सत्यप्रतिज्ञः

॥ ३१ ॥

आत्मवत् सर्वभूतानामेकः प्रियसुहृत्तमः ।

दासवत् सन्नतार्याङ्घ्रिः पितृवद् दीनवत्सलः ॥ ३२ ॥

पदरत्नावली

आत्मवत् परमात्मवत् । ‘अन्येषां हरिसाम्यं तु किञ्चित् साम्यमुदीरितम् । सम्यक्साम्यं तु मत्स्यादेरिति शास्त्रस्य निश्चयः ॥’ इति वचनादत्र हरिसाम्यकथनं तात्पर्यादवगन्तव्यम्

॥ ३२ ॥

प्रकाशिका

सर्वभूतानामात्मवत् स्वात्मवद् एक एव प्रियः सुहृत्तमश्च । सम्यक् नता आर्याणा-मङ्घ्रयो येन ॥ ३२ ॥

मन्दनन्दिनी

सर्वभूतानां सज्जनानां मध्ये एको मुख्य आत्मवत्प्रियः सुहृत्तमः प्रियः प्रीति-विषयः सुहृत्तमश्च । उत्तमहीनसमेषु वृत्तिप्रकारमाह ॥ दासवदित्यादिना ॥ ३२ ॥

भ्रातृवत् सदृशे स्निग्धो गुरुष्वीश्वरभावनः ।

विद्यार्थरूपजन्माद्यैर्मानस्तम्भविवर्जितः ॥ ३३ ॥

पदरत्नावली

मानस्तम्भविवर्जितो ऽभिमाननिमित्तस्तम्भदोषरहितः ॥ ३३ ॥

प्रकाशिका

गुरुष्वीश्वरोऽस्तीति भावना यस्य । मानस्तम्भविवर्जितो ऽभिमानस्तब्धरहित इत्यर्थः ॥ ३३ ॥

मन्दनन्दिनी

विद्यादिनिमित्तैः प्राप्तगर्वस्तम्भादिदोषवर्जित इति विद्येत्यादेरर्थः ॥ ३३ ॥

नोद्विग्नचित्तो व्यसनेषु निःस्पृहः श्रुतेषु दृष्टेषु गुणेष्ववस्तुदृक् ।

दान्तेन्द्रियप्राणशरीरधीः सदा प्रशान्तकामो रहितासुरोऽसुरः ॥ ३४ ॥

पदरत्नावली

गुणेषु शब्दादिषु । शरीरस्य दान्तत्वमुपवासादिना । रहितासुरो ऽसुरस्वभाव-कर्मरहितः । जात्या असुरः ॥ ३४ ॥

प्रकाशिका

व्यसनेषु सत्सु नोद्विग्नचित्तः । गुणेषु विषयेषु निस्पृहः । यतश्च वस्तुषु अवस्तुदृक् अनित्यत्वज्ञानी । शरीरस्य दान्तत्वमुपवासादिना । रहित आसुरो ऽसुरस्वभावो यस्य । असुरो जात्या ॥ ३४ ॥

मन्दनन्दिनी

व्यसनेषु सत्सु नोद्विग्नचित्तः । श्रुतादिषु गुणेषु शब्दादिविषयेषु निस्पृहः । यतोऽवस्तुदृक् अनित्यबुद्धिः । दान्तेत्यादि निगृहीतेन्द्रियप्राणशरीरमनाः । रहितासुर आसुरेण कर्मणा रहितः । राजदन्त्यादिवत्पूर्वनिपातः । जात्या त्वसुरः ॥ ३४ ॥

यस्मिन् महागुणा राजन् गृह्यन्ते कविभिर्मुहुः ।

न तेऽधुनाऽभिधीयन्ते यथा भगवतीश्वरे ॥ ३५ ॥

तात्पर्यम्

‘अन्येषां हरिसाम्यं तु किञ्चित्साम्यमुदीरितम् । सम्यक्साम्यं तु मत्स्या-देरिति शास्त्रस्य निर्णयः’ इति च ॥ ३५ ॥

॥ इति श्रीमद्भागवते सप्तमतात्पर्ये चतुर्थोऽध्यायः ॥ ४ ॥

पदरत्नावली

‘यथा भगवतीश्वरे’ इत्यत्रापि ‘अन्येषां हरिसाम्यं तु किञ्चित् साम्यमुदीरितम्’ इत्यादिप्रमाणमित्यत्रापि ज्ञातव्यमिति ॥ ३५ ॥

प्रकाशिका

यस्मिन्विद्यमाना महागुणा गृह्यन्ते । अस्माकमेतादृशा गुणाः स्युरिति प्रार्थ्यन्त इत्यर्थः । यथा भगवतीश्वरे इति प्रह्लादस्य गुणानाशे हरिसाम्यमुच्यमानं कथं घटत इत्याशङ्कां प्रमाणेनैव परिहरति ॥ अन्येषामिति ॥ हरिव्यतिरिक्तानामित्यर्थः । तुशब्दोऽवधारणे । किञ्चित्साम्यमेवेत्यन्वयः । हरिसाम्यमुच्यते चेत्तत्रेति शेषः । मत्स्यादेर्हरिसाम्यमुच्यते तत्र सम्यक् हरिसाम्यमेवोदीरितमित्यर्थः । शास्त्रस्य द्विविधस्य ॥ ३५ ॥

मन्दनन्दिनी

महागुणाः केचन गृह्यन्ते । गृहीता अपि नाभिधीयन्ते नाभिधातुं शक्यन्ते । यथा भगवानीश्वर इति दृष्टान्तीकरणेऽपि न तत्साम्यं ज्ञेयम् । सर्वथाऽसम्भवात् । किन्तु किंचित्साम्यम् । अत एवोक्तं तात्पर्ये– ‘‘अन्येषां हरिसाम्यं तु किञ्चित्साम्यमुदीरितम् । सम्यक्साम्यं तु मत्स्यादेरिति शास्त्रस्य निर्णयः’’ इति ॥ ३५ ॥

यं साधुगाथासदसि रिपवोऽपि सुरा नृप ।

प्रतिमानं प्रकुर्वन्ति किमुतान्ये भवादृशाः ॥ ३६ ॥

पदरत्नावली

प्रतिमानं दृष्टान्तम् ॥ ३६ ॥

प्रकाशिका

मूले साधुगाथा सदसीति साधुकथावत्यां सभायामित्यर्थः । प्रतिमानं दृष्टान्तम्

॥ ३६ ॥

मन्दनन्दिनी

रिपवोऽपि सुराः साधुगाथाः सज्जनविषयकगाथां कुर्वन्तो यं प्रतिमानं दृष्टान्तं कुर्वन्ति । किमुतान्ये भवादृशा इति ॥ ३६ ॥

गुणैरलमसङ्ख्येयैर्माहात्म्यं तस्य सूच्यते ।

वासुदेवे भगवति यस्य नैसर्गिकी रतिः ॥ ३७ ॥

प्रकाशिका

सूच्यते सुष्ठु कथ्यते ॥ ३७ ॥

मन्दनन्दिनी

गुणैः । अलं कथितैरिति शेषः ॥ ३७ ॥

न्यस्तक्रीडनको बालो जडवत् तन्मनाः सदा ।

कृष्णग्रहगृहीतात्मा न वेद जगदीदृशम् ॥ ३८ ॥

पदरत्नावली

कृष्णाख्यो ग्रहः, तेन वशीकृतमनाः ॥ ३८ ॥

प्रकाशिका

नैसर्गिकरतेर्लिङ्गान्याह ॥ न्यस्तक्रीडनक इति षड्भिः । कृष्णाख्यो ग्रहस्तेन वशीकृत आत्मा मनो यस्य ॥ ३८ ॥

मन्दनन्दिनी

न्यस्तेत्यादेर्निरस्तक्रीडासाधनक इत्यर्थः । जडवज्जडभरतवत् । विषयासक्तमूढ-वद्वा । कृष्णेत्यादेर्नारायणाख्याग्रहगृहीतमना इत्यर्थः ॥ ३८ ॥

आसीनः पर्यटन्नश्नन् शयानः प्रपिबन् ब्रुवन् ।

नानुसन्दध एतानि गोविन्दपरिरक्षितः ॥ ३९ ॥

पदरत्नावली

अनुसन्दधे सस्मार ॥ ३९ ॥

प्रकाशिका

अनुसन्दधे सस्मार । एतान्यासनादीनि । गोविन्देन ध्यानविषयीभूतेन परिरक्षितः कृपयाऽभिवीक्षितः ॥ ३९ ॥

मन्दनन्दिनी

एतान्यासनादीनि ॥ ३९ ॥

क्वचिद् रुदति१ गोविन्दचिन्ताचञ्चलचेतनः ।

क्वचिद्धसति तच्चिन्ताह्लाद उद्गायति क्वचित् ॥ ४० ॥

मन्दनन्दिनी

रुदति रोदिति । अनेन श्लोकत्रयेण सार्धेन भक्तलक्षणं सूचितम् ॥ ४० ॥

नदति क्वचिदुत्कण्ठो विलज्जो नृत्यति क्वचित् ।

क्वचित् तद्भावनायुक्तस्तन्मयोऽनुचकार ह ॥ ४१ ॥

पदरत्नावली

तद्भावनायुक्तस् तस्य श्रीनारायणस्य ध्यानोपेतः। तन्मयस्तत्प्रधानः ॥ ४१ ॥

प्रकाशिका

तद्भावनायुक्तस् तध्द्यानेनोपेतः । तन्मयस्तत्प्रधानः । अनुचकार तदीयचेष्टां स्वयं कृतवान् ॥ ४१ ॥

मन्दनन्दिनी

तन्मयस्तदासक्तः ॥ ४१ ॥

क्वचिदुत्पुलकस्तूष्णीमशेषस्पर्शनिःस्पृहः ।

अस्पन्दप्राण आनन्दसलिलामीलितेक्षणः ॥ ४२ ॥

पदरत्नावली

स्पर्शेषु विषयेषु स्पृहारहितः । अस्पन्दप्राणः प्राणचेष्ठारहितः । आनन्दसलिलेन सन्तोषाश्रुजलेन निमित्तेन किञ्चिन्निमीलितनेत्रः ॥ ४२ ॥

प्रकाशिका

स्पर्शेषु विषयेषु निःस्पृह इच्छारहितः । अस्पन्दप्राणः प्राणचेष्टारहितः । आनन्दसलिलेन आनन्दाश्रुनिमित्तेन मीलिते ईषन्मीलिते ईक्षणे नेत्रे यस्य ॥ ४२ ॥

मन्दनन्दिनी

स्पर्शो विषयः । अस्पन्दप्राणोऽचञ्चलश्वासः ॥ ४२ ॥

स उत्तमश्लोकपदारविन्दयोर्निषेवयाऽकिञ्चनसङ्गलब्धया ।

तन्वन् परां निर्वृतिमात्मनो मुहुर्दुःसङ्गहीनः स्वमनःशमं व्यधात् ॥ ४३ ॥

पदरत्नावली

अकिञ्चनानां महतां सतां सेवालक्षणसङ्गेन प्राप्तस्य ॥ ४३ ॥

प्रकाशिका

अकिञ्चनानां महतां सङ्गेन सेवालक्षणेन लब्धया ॥ ४३ ॥

मन्दनन्दिनी

अकिञ्चनसङ्गलब्धया नारदादिसत्सहवासप्राप्तया ॥ ४३ ॥

तस्मिन् महाभागवते महाभागे महात्मनि ।

हिरण्यकशिपू राजन् अकरोदघमात्मजे ॥ ४४ ॥

पदरत्नावली

अघं मरणलक्षणं व्यसनम् ॥ ४४ ॥

प्रकाशिका

अघं द्रोहम् ॥ ४४ ॥

मन्दनन्दिनी

अघमपराधम् ॥ ४४ ॥

युधिष्ठिर उवाच–

देवर्ष एतदिच्छामो वेदितुं तव सुव्रत ।

यदात्मजाय शुद्धाय पिताऽधात् साधवे अघम् ॥ ४५ ॥

पदरत्नावली

‘विद्वेषो दयिते पुत्रे कथमासीन्महात्मनि’ इति स्वपृष्टं कथान्तरासक्त्या नारदेना-परिहृतं जानन् युधिष्ठिरः पुनरपि ‘जानन् न करोदघमात्मजे’ इति प्रसक्तं श्रुत्वा तदेव पृच्छति– देवर्ष इति ॥ पुत्रस्य मरणकारणमासुरकर्म, न तु शास्त्रीयमिति ज्ञापनाय साधवे अधमिति संहिताकार्यं न कृतम् ॥ ४५ ॥

प्रकाशिका

‘विद्वेषो दयिते पुत्रे’ इति प्रथमाध्यायान्ते पृष्टमेवान्ते विस्मयेन पृच्छति ॥ देवर्ष इति ॥ तव त्वत्तः ॥ ४५ ॥

मन्दनन्दिनी

तव सकाशात् । आत्मजायेत्याद्युक्तिरपकरणायोग्यत्वद्योतनाय ॥ ४५ ॥

पुत्रान् विप्रतिकूलांश्च पितरः पुत्रवत्सलाः ।

उपालभन्ते शिक्षार्थं नैवाघमपरे यथा ॥ ४६ ॥

पदरत्नावली

अपरे शत्रवः ॥ ४६ ॥

प्रकाशिका

उपालभन्ते आक्षिपन्ति । अघं मरणान्तिकं द्रोहम् । अपरे शत्रवः ॥ ४६ ॥

मन्दनन्दिनी

उपालभन्ते वञ्चयन्ति । भयं जनयन्तीति यावत् । अपरे शत्रवः ॥ ४६ ॥

किमुतानुवशान् साधून् तादृशान् गुरुदेवतान् ।

एतत् कौतूहलं ब्रह्मन्नस्माकं विधम प्रभो ।

पितुः पुत्राय यद् द्वेषो मरणाय प्रयोजितः ॥ ४७ ॥

॥ इति श्रीमद्भागवते सप्तमस्कन्धे चतुर्थोऽध्यायः ।

पदरत्नावली

विधम परिहर । पुत्राय प्रयोजितो विद्वेषः पितुर्मरणायाभूदिति यत् तस्मात् कौतूहलम् ॥ ४७ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

सप्तमस्कन्धे चतुर्थोऽध्यायः ॥

प्रकाशिका

पुत्राय प्रयोजितो विद्वेषः पितृमरणायाभूदिति यत्तदेव कौतूहलं विधम परिहर ॥ ४७ ॥

॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां

श्रीमद्भागतटिप्पण्यां सप्तमस्कन्धे चतुर्थोऽध्यायः ॥

मन्दनन्दिनी

विधम परिहर । पितुः पित्रा ॥ ४७ ॥

**॥ इति श्रीमद्भागवतटिप्पण्यां श्रीव्यासतत्वज्ञविरचितायां **

मन्दनन्दिन्यां सप्तमस्कन्धे चतुर्थोऽध्यायः ॥