०३ तृतीयोऽध्यायः

हिरण्यकशिपू राजन्नजेयमजरामरम्

॥ अथ तृतीयोऽध्यायः ॥

नारद उवाच–

हिरण्यकशिपू राजन्नजेयमजरामरम् ।

आत्मानमप्रतिद्वन्द्वमेकराजं व्यधित्सत ॥ १ ॥

पदरत्नावली

बहुकोटिसंख्यातकालेनानेकसम्भारैराजितैरयोग्यं दुष्प्रापम्, योग्यं चानेकविध-साधनैः सुसाध्यं तूष्णीम्भावेनेत्यादिकं हिरण्यकशिपुतपश्चरणव्याजेनाभिप्रेयतेऽस्मिन्नध्याये । व्यधित्सत कर्तुमैच्छत् ॥ १ ॥

प्रकाशिका

साधूनां कदने दानवानादिश्य, बन्धूनां शोकं तत्त्वनिरूपणेनापनीय हिरण्यकशिपु-र्यत्कृतवांस्तदाह ॥ हिरण्यकशिपुरित्यादिना ॥ अप्रतिद्वन्द्वं प्रतिपक्षहीनम् । एकराजमेकमेव राजानम् । व्यधित्सत कर्तुमैच्छत् ॥ १ ॥

मन्दनन्दिनी

साधनातिशयेनाप्ययोग्यं पदं न प्राप्यत इति हिरण्यकशिपुतपःकथनव्याजेन निरूप्यतेऽस्मिन्नध्याये । प्रायेण श्लोकाः स्फुटयोजनाः । हिरण्यकशिपुरात्मानमुक्तविशेषणविशिष्टम् । एकराजं त्रिलोक्या अपि मुख्यं राजानं व्यधित्सद्विधातुमैच्छत् ॥ १ ॥

स तेपे मन्दरद्रोण्यां तपः परमदारुणम् ।

ऊर्ध्वबाहुर्नभोदृष्टिः पादाङ्गुष्ठाश्रितावनिः ॥ २ ॥

प्रकाशिका

नभसि दृष्टिर्यस्य । पादाङ्गुष्ठेनाश्रितावनिर्येन ॥ २ ॥

मन्दनन्दिनी

तेपे तपः कृतवान् ॥ २ ॥

जटादीधितिभी रेजे संवर्तार्क इवांशुभिः ।

तस्मिंस्तपस्तप्यमाने देवाः स्थानानि भेजिरे ॥ ३ ॥

पदरत्नावली

संवर्तार्कः प्रलयसूर्यः । स्थानानि गमनवर्जनानि इतस्ततो यात्रां मुक्त्वा स्वस्थानानि भेजुः ॥ ३ ॥

प्रकाशिका

संवर्तार्कः प्रलयकालीनसूर्यः । पूर्वं येऽलक्षिताः सन्तो विचेरुस्ते देवा पुनः स्वानि स्थानानि भेजिरे ॥ ३ ॥

मन्दनन्दिनी

संवर्तार्क इव प्रलयसूर्य इव । स्थानान्यगम्यस्थानानि ॥ ३ ॥

तस्य मूर्ध्नः समुद्भूतः सधूम्रोऽग्निस्तपोमयः ।

तिर्यगूर्ध्वमधोलोकानतपद् विष्वगीरितः ॥ ४ ॥

प्रकाशिका

विष्वगीरितः सर्वतः प्रसृतः सन् ॥ ४ ॥

मन्दनन्दिनी

विष्वगीरितः परितः सञ्चरन् ॥ ४ ॥

चुक्षुभुर्नद्युदन्वन्तः सद्वीपाद्रिश्चचाल भूः ।

निपेतुः सग्रहास्तारा जज्वलुश्च दिशो दश ॥ ५ ॥

मन्दनन्दिनी

चुक्षुभुः क्षुब्धाः ॥ ५ ॥

तेन तप्ता दिवं त्यक्त्वा ब्रह्मलोकं ययुः सुराः ।

धात्रे विज्ञापयामासुर्देवदेव जगत्पते ॥ ६ ॥

मन्दनन्दिनी

तप्तास्तापिताः ॥ ६ ॥

दैत्येन्द्रतपसा तप्ता दिवि स्थातुं न शक्नुमः ।

तस्य चोपशमं ब्रह्मन् विधेहि यदि मन्यसे ॥ ७ ॥

पदरत्नावली

उपशमं परिहारम् ॥ ७ ॥

प्रकाशिका

उपशमं परिहारम् ॥ ७ ॥

मन्दनन्दिनी

न शक्नुमो न समर्थाः । उपशमं परिहारम् ॥ ७ ॥

लोका न यावन्नङ्क्षयन्ति बलिहारास्तव प्रभो ।

तस्यायं किल सङ्कल्पश्चरतो दुश्चरं तपः ॥ ८ ॥

पदरत्नावली

बलिहारा उपहारार्थकाः ॥ ८ ॥

प्रकाशिका

बलिहाराः पूजाकारिणः ब्रह्मणस्तस्मिन् द्वेषमुत्पादयितुं तत्सङ्कल्पमाहुः । तस्येति चतुर्भिः ॥ ८ ॥

मन्दनन्दिनी

बलिहारा बलिप्रदाः । सङ्कल्पोऽभिप्रायः ॥ ८ ॥

श्रूयतां किं न विदितं१ तवापि विनिवेद्यते२ ।

सृष्ट्वा चराचरमिदं तपोयोगसमाधिना ॥

अध्यास्ते सर्वधिष्ण्येभ्यः परमेष्ठी निजासनम् ॥ ९ ॥

पदरत्नावली

किं तद् विज्ञापनम् ? अत्राह– सृष्ट्वेति ॥ ब्रह्मा तपोज्ञानादिनेदं चराचरं सृष्ट्वा सर्वधिष्ण्येभ्यो रुद्रादिपदेभ्यः परं यन्निजासनमध्यास्ते । ‘अधिशीङ्स्थासां कर्म’ इति सप्तम्यर्थे द्वितीया । अहं तद् आत्मनः साधयिष्ये इत्यन्वयः ॥ ९ ॥

प्रकाशिका

ब्रह्मा तप आदिना चराचरं सृष्ट्वा सर्वधिष्ण्येभ्यः परं यन्निजासनम् अध्यास्ते । अहं तत्तथैवात्मनः साधयिष्य इत्यन्वयः ॥ ९ ॥

मन्दनन्दिनी

निजासनमध्यास्ते सत्यलोकमधितिष्ठति । अधिशीङ्स्थासामित्यधिकरणस्य कर्मत्वम् ॥ ९ ॥

तदहं वर्धमानेन तपोयज्ञसमाधिना ।

कालात्मनोश्च नित्यत्वात् साधयिष्ये तथाऽऽत्मनः ॥ १० ॥

तात्पर्यम्

‘जानतामपि कर्तव्यं कर्मात्मसदृशं सदा । तत्रात्मसदृशाज्ञानाद्रागाद्यैर्वा विमोहिताः । जानन्तोऽपि ह्यसदृशं कर्म कुर्युर्ऋते विभुम् । चतुरास्यं स नायोग्यं कर्म कुर्या-त्कथञ्चन’ ॥ इति नारदीये ॥ ‘तपसा विद्यया वापि ज्ञानध्यानादिनाऽथवा । व्यस्तैः समस्तैरपि वा कुर्वतां यत्नमुत्तमम् । संहारविक्षेपशतैर्बहुकोटिभिरेव वा । न शक्यन्ते समारोढुं स्वात्मा-योग्यपदानि तु । तथाप्याचरतां कुर्युर्दैत्यानां सुरनायकाः । विघ्नं तु तप आदीनां वैयर्थ्यस्यापनुत्तये’ ॥ इति प्रकाशसंहितायाम् ॥ १० ॥

पदरत्नावली

स्वनाशे दुर्घटम् ? अत्राह– कालात्मनोरिति ॥ कालस्यात्मनश्चेतनस्य च नित्यत्वाद् अविनाशात् । अन्यथा तस्यासाध्यत्वे । हिरण्यकशिपोरीदृशं कर्म नाद्भुतम् । यतो ब्रह्माणमेकमन्तरेण आत्मयोग्याज्ञानेन रागादिना वा मोहिता जानन्तोऽपि स्वासदृशं कर्म चरन्तो दृश्यन्ते । तदुदितम्– ‘जानतामपि कर्तव्यं कर्मात्मसदृशं सदा । तत्रात्मसदृशाज्ञानाद्रागाद्यैर्वा विमोहिताः । जानन्तोऽपि ह्यसदृशं कर्म कुर्युर्ऋते विभुम् । चतुरास्यं स नायोग्यं कर्म कुर्यात् कथञ्चन ॥’ इति । न चैतत् तपआदिसाध्यम् । अयोग्यत्वात् । ‘तपसा विद्यया वाऽपि ज्ञानध्यानादिना तथा । व्यस्तैः समस्तैरथवा कुर्वता यत्नमुत्तम् । सम्भारविक्षेपशतैर्बहुकोटिभिरेव च । न शक्यन्ते समारोढुं स्वात्मायोग्यपदं त्विति । तस्माद् योग्यमेवानुष्ठेयं नायोग्यमिति सिद्धम् । एवं तत्त्वं चेत् तर्हि किमर्थं तपआदेर्विघ्नं कुर्वन्तीति चेन्न । तपआदीनां निष्फलत्वपरिहारार्थत्वात् । ‘तथाप्याचरतां कुर्युर्दैत्यानां सुरनायकाः । विघ्नं तु तपआदीनां वैयर्थ्यस्यापनुत्तये ॥’ इति वचनात् ॥ १० ॥

प्रकाशिका

स्वनाशो दुर्घटमिदमत्राह ॥ कालात्मनोरिति ॥ बहुभिर्जन्मभिः साधयिष्य इत्यन्वयः । ब्रह्मपदमन्येषामयोग्यमिति जानता हिरण्यकेन कथमिदं तपश्चरणरूपं कर्म कृतमित्याशङ्कां प्रमाणेनैव परिहरति ॥ जानतामपीति ॥ अपि यद्यपि जानतां ज्ञानवद्भिरात्मसदृशं स्वयोग्यं कर्म कर्तव्यमिति स्थितिः । तत एवं स्थितौ सत्यामपि केचिदात्मसदृशम् इदमित्यज्ञानादसदृशं कर्म कुर्यु-रित्यन्वयः । अस्यापवादमाह । ऋत इति । ततश्च हिरण्यकशिपुरिदं स्वात्मयोग्यमिति जानन्नपि रागद्वेषादिभिर्मोहितः सन्निदं कृतवानिति समाधानमनेनोक्तं भवतीति ज्ञातव्यम् । ब्रह्मपदमन्येषां यत्नसाध्यं नेति देवाः सम्यक् जानंत्येव तत्कुतो ब्रह्माणं प्रति विज्ञाप्य तत्तपो विघ्नं कारितवन्त इत्याशङ्कां प्रमाणेनैव परिहरति । तपसेति । व्यस्तैः समस्तैस्तपआदिभिः । संहार उपसंहारः पूरकमिति यावत् । विक्षेपशतैः प्राणायामशतैरित्यर्थः । बहुकोटिभिः संहारविक्षेपैः । तुशब्दोऽप्यर्थः । यद्यप्येवं जानन्तीत्यर्थः । आचरताम् अयोग्यपदमुद्दिश्य कर्मकुर्वताम् । कुतो विघ्नं कुर्युरित्यत आह । तपआदीनामिति । वैय्यर्थ्यस्य वैय्यर्थ्यशङ्कायाः । यदि देवास्तपआदीनां विघ्नं न कुर्युस्तर्हि दैत्यानामस्माभिर्ब्रह्माणं प्रति तपः कृतं फलं न जातम् । अतः केनापि तं प्रति तपो न कार्यं वैय्यर्थ्या-दिति बुद्धिः स्यात्तदपनुत्तये विघ्नं कुर्युः । विघ्ने कृते तु मध्ये विघ्नस्य देवैः कृतत्वात्फलं न जातमित्येव तेषां बुद्धिः स्यादित्याशयः ॥ १० ॥

मन्दनन्दिनी

तत्तु ब्रह्मपदम् । तथा ब्रह्मवदात्मनः समाधियोगेन साधयिष्य इत्यन्वयः । अयोग्यपदकामना हिरण्यकशिपुप्रभृतीनामयोग्यत्वाज्ञानाद्रागाद्यौत्कण्ठ््याच्च युज्यते । अत एव तात्पर्यम् ॥

‘‘जानतामपि कर्तव्यं कर्मात्मसदृशं सदा ।

तत्रात्मसदृशाज्ञानाद्रागाद्यैर्वा विमोहिताः ।

जानन्तोऽपि ह्यसदृशं कर्म कुर्युर्ऋते विभुम् ।

चतुरास्यं स नायोग्यं कर्म कुर्यात्कथंचनेति नारदीये ॥

तपसा विद्यया वाऽपि ज्ञानध्यानादिनाऽथवा ।

व्यस्तैः समस्तैरपि वा कुर्वतां यत्नमुत्तमम् ।

सम्भारविक्षेपशतैर्बहुकोटिभिरेव वा ।

न शक्यन्ते समारोढुं स्वात्मायोग्यपदानि तु ।

तथाऽप्याचरतां कुर्युर्दैत्यानां सुरनायकाः ।

विघ्नं तु तप आदीनां वैयर्थ्यस्यापनुत्तये’’ ॥ इति प्रकाशसंहितायाम् ॥

ब्रह्मज्ञानिनामप्यात्मसदृशमात्मयोग्यकर्म कर्तव्यम् । तत्र ब्रह्मज्ञानिष्वपि केचनात्मसदृशाज्ञानात् । सदृशपदमसदृशस्याप्युपलक्षणम् । तथा चेदं योग्यमिदमयोग्यमिति विवेकाभावात् । अयोग्यस्यापि योग्यत्वभ्रमात् । जानन्तोऽपि ब्रह्मज्ञानिनोऽपि असदृशमयोग्यकर्म कुर्युः । जानन्तोऽपीत्यस्यासदृश-मित्यनेनान्वयः । आत्मसदृशाज्ञानादित्यनेन व्याघातात् । केचन रागाद्यैर्विमोहिता ज्ञातामप्ययोग्यतां विस्मृत्य रागजनितयोग्यताभ्रान्तिमन्तः कर्म कुर्युः । उक्तस्यापवादमाह ॥ ऋते विभुं चतुरास्यमिति ॥ कथञ्चन योग्यायोग्यज्ञानाभावाद्रागौत्कण्ठ््यादित्यर्थः । अत्र यदि योग्यताभ्रांत्यादिना हिरण्यकशिप्वादयः कुर्युः । तर्ह्ययोग्यपदस्य सर्वथाऽप्यप्राप्तेः कुतो विघ्नं कुर्वन्ति सुरा इत्यत आह ॥ तपसेति ॥ विद्यया वेदविद्यया व्यस्तैः प्रत्येकमनुष्ठितैः समस्तैर्मिलितैः । बहुकोटिभिर्जन्मभिरार्जितैः सम्भारविक्षेपशतैः । सम्भारा यज्ञसाधनद्रव्याणि विक्षेपोऽग्नौ विक्षेपः । तथा च यागशतैरपीत्यर्थः । यद्यप्येवं तत्पदप्राप्तिभयं नास्ति । तथाऽपि वैयर्थ्यस्यापनुत्तये वैयर्थ्यज्ञानस्य परिहाराय यदि सम्पूर्णं तपआदिकम् । तदा पदाप्राप्त्या तपसोऽसाधनत्वे ज्ञातदैत्याः पुनरयोग्यपदोद्देशेन तपआदिकं न कुर्युः । विघ्ने तु कृतेऽविघ्नं चेत्तपस्तदा साधयेदेव पदमिति भ्रान्तिरनुवर्तत इति भावः ॥ १० ॥

अन्यथेदं विधास्येऽहमयथापूर्वमोजसा ।

किमन्यैः कालनिर्धूतैः कल्पान्तैर्वैष्णवादिभिः ॥ ११ ॥

तात्पर्यम्

वैष्णवादिभिर्ब्रह्मनिर्मितैः । ‘ब्रह्मा स्वयम्भूर्द्रुहिणो वैष्णवः शतदृक्तथा’ इति शब्दनिर्णये ॥ ११ ॥

पदरत्नावली

वैष्णवो ब्रह्मा आदिः कर्ता येषां ते तथा तैः । ब्रह्मनिर्मितैरित्यर्थः । ‘ब्रह्मा स्वयम्भूर्द्रुहिणो वैष्णवः शतधृत् तथा’ इति शब्दनिर्णये । तथाऽपि विष्णोः पदमत्रोच्यत इति किं न स्यात् ? अत्राह– कालनिर्धूतैरिति ॥ तर्हि कियन्तं कालं स्थितैरिति तत्राह– कल्पान्तैरिति ॥ मन्वन्तरादिकल्पावसानकैः । ‘न यत्र माया न रजस्तमश्च’ इत्यादिना विष्णोः पदस्य वैलक्षण्योक्तेः

॥ ११ ॥

प्रकाशिका

अन्यथेत्युक्तमेव विवृणोति । अन्यथेति । किमन्यैर्ध्रुवादिपदैः कल्पान्ते काल-निर्धूतैः कालेन विनाशितैर्वैष्णवादिभिरित्यस्य वैकुण्ठादिपरत्वे कालनिर्धूतैरिति विशेषणासम्भव-मालोच्यात्र विवक्षितमर्थं दर्शयति । वैष्णवादिभिरिति । तथाच वैष्णवो ब्रह्मा आदिः कारणं येषामिति व्याख्यानं सूचयति । ब्रह्मणो वैष्णवशब्दवाच्यत्वे प्रमाणं पठति । ब्रह्मेति ॥ ११ ॥

मन्दनन्दिनी

मूले पुनर्हिरण्यकशिपोरभिप्रायमाह ॥ अन्यथेति ॥ इदं जगदन्यथा विधास्ये । अन्यथेत्यस्य विवरणम् अयथापूर्वमिति । धातुर्ब्रह्मत्वकाले इन्द्रादयो दिक्पालाः स्वायम्भुवादयो मन्वन्त-राधिपा मम ब्रह्मत्वकाले तु दैत्या एव दिक्पालादय इत्येवमयथापूर्वमित्यर्थः । तर्हीन्द्रादयो विरुंध्युरित्यत आह ॥ किमिति ॥ वैष्णवादिभिर्ब्रह्मनिर्मितैः कल्पान्तैर् मनुकल्पाद्यायुष्कैः कालनिर्धूतैः क्लृप्त-कालावसितपदैरन्यैरिन्द्रादिभिः किं कार्यं भवतीति योजना । अत्र वैष्णवपदं ब्रह्मपरमिति साभिधानक-माह तात्पर्यकृत् ॥ वैष्णवादिभिर्ब्रह्मनिर्मितैः । ब्रह्मा स्वयम्भूर्द्रुहिणो वैष्णवः शतधृक्तथेति शब्दनिर्णये

॥ ११ ॥

इति शुश्रुम निर्बन्धं तपः परममास्थितः ।

विधत्स्वानन्तरं युक्तं स्वयं त्रिभुवनेश्वर ॥ १२ ॥

पदरत्नावली

निर्बन्धम् असदाग्रहम् ॥ १२ ॥

प्रकाशिका

निर्बन्धमिति मूलम् । असदाग्रहमित्यर्थः । अत एवासौ तपः परममास्थितः । यदत्र युक्तं तदनन्तरमेव विधत्स्व ॥ १२ ॥

मन्दनन्दिनी

श्रुतं विज्ञाप्यानन्तरं यदुक्तं तत्कार्यमित्याह मूले ॥ इतीति ॥ निर्बन्धमाग्रहयुक्तम्

॥ १२ ॥

तवासनं हि जगतां पारमेष्ठ्यं जगत्पते ।

भवाय श्रेयसे भूत्यै क्षेमाय विजयाय च ॥ १३ ॥

तात्पर्यम्

‘भवाय श्रेयसे चैव न कश्चित्तदपेक्षते । मधुकैटभयोश्चैव हिरण्यादेस्तथैव च । नान्यो ब्रह्मपदं वाञ्छत्यृजून्योग्यान्विना क्वचित् । ततः श्रेयांसि वाञ्छन्ति न तु तत्पद-माप्नुयुः’ ॥ इति ब्रह्माण्डे ॥ ‘भवो वृद्धिः समुद्दिष्टा श्रेयो मोक्ष उदाहृतः । वृद्धस्य न पुनर्ह्रासो भूतिरित्येव कथ्यते’ इति शब्दनिर्णये ॥ १३ ॥

पदरत्नावली

ननु हिरण्यकशिपोरन्येषां पदानि विहाय तव पदाकाङ्कायां को विशेषहेतुरत्राह– तवेति ॥ तवासनं सर्वदुःखानि निरस्य स्थातुं योग्यं पदं पारमेष्ठ्यम् अत्यन्तसुखकारणं यस्मात् तस्मा-ज्जगतां भवाय ज्ञानादिगुणसमृध्द्यै, भूत्यै समृद्धस्य पुनर्ह्रासादिराहित्याय, श्रेयसे संसारान्मुक्तये, क्षेमाय रक्षणाय, विजयाय इन्द्रियजयाय च भवति । तस्मादत्युत्तमपदत्वाद्धिरण्यकशिपुरचीक्लृपत् । तदुक्तम्– ‘भवाय श्रेयसे चैव न कश्चित्तदपेक्षते । मधुकैटभयोश्चैव हिरण्यादेस्तथैव च । नान्यो ब्रह्मपदं वाच्छत्यृजून् योग्यान् विना क्वचित् । ततः श्रैयांसि वाच्छन्ति न तु तत्पदमाप्तये’ ॥ इति । ‘भवो वृद्धिः समुद्दिष्टा श्रेयो मोक्ष उदाहृतः । वृद्धस्य न पुनर्ह्रासो भूतिरित्येव कथ्यते ॥’ इति शब्दनिर्णये । ‘दिवि स्थातुं न शक्नुमः’ इत्यतो हिरण्यकशिपुना ब्रह्मपदावाप्त्यै सकामं तपसि स्थितमिति ज्ञायते । यः सकामं तप आचरति तस्य तपसा तप्ते लोके स्थितिर्न घटते सन्तप्तकटाहान्तःस्थितिवत् । यस्तु निष्कामं तपः करोति तेन सुखावाप्तिः स्यात् । तदुक्तम्– ‘सकामं तु तपः क्रूरं लोकानां क्षोभकृद् भवेत् । इतर-च्छान्तये सर्वलोकानां भवति ध्रुवम् ॥’ इति । ‘ब्रह्माणमभजद् ब्रह्मपदार्थं स हिरण्यकः’ इति च ॥१३॥

प्रकाशिका

हिरण्यकेनेतराणि पदानि विहाय तत्पदमेव कस्माद्वांच्छितमित्यत आह । तवासनमिति ॥ पदमित्यर्थः । तथा च त्वत्पदस्यात्युत्तमत्वात्तेन तद्वांछितमित्याशयः । ननु ब्रह्माणं प्रति तपः कृत्वा तत्पदमेव हिरण्यकेन वांछितमित्येतदसम्भावितमतो देवैर्ब्रह्मणस्तस्मिन्द्वेषजननार्थ-मविद्यमानमेवोक्तमित्याशङ्कापरिहाराय हिरण्यकेन तथा वांछा कृतेत्यत्र प्रमाणं पठति । भवायेति । भवाय लौकिकाभिवृध्यै श्रेयसे लौकिकसुखाय च । तद् ब्रह्मपदम् । मधुकैटभयोश्चान्यः हिरण्यादे-श्चान्यः । ब्रह्मपदं तथा मधुकैटभादिवन्नैव वांछति । अस्यापवादमाह । ऋजूनिति । योग्यानित्यनेनान्येषां तदयोग्यतां दर्शयति । ततो ब्रह्मण आप्तये पुरुषार्थप्राप्त्यर्थं तत्पदं तस्य ब्रह्मणः पदं न तु वांछति । भवाय श्रेयसे भूत्यै इति पदत्रयस्य पौनरुक्त्यशङ्कापरिहाराय विवक्षितमर्थं प्रमाणेनैव दर्शयति । भवो वृद्धिरिति । क्षेमाय प्राप्तपरिपालनाय । विजयाय वैरिपराभवायोत्कर्षाय वा इति प्रसिद्धमेवेति तत्पदद्वयं न व्याख्यातम् ॥ १३ ॥

मन्दनन्दिनी

इतरद्धित्वा मत्पदमेव कुत आकाङ्क्षत इत्यतः पदं स्तौति ॥ तवासनमिति ॥ हे जगत्पते तव पारमेष्ठ्यं चतुर्दशलोकाधिपत्यरूपमासनं पदं जगतां भवाय ज्ञानादिगुणवृद्धये श्रेयसे मोक्षाय भूत्यै ह्रासराहित्याय क्षेमाय प्राप्तपरिरक्षणाय विजयायाप्राप्तलाभाय भवतीति योजना । इतरान्विना कुतोऽयमेवाकाङ्क्षत इत्यतो ब्रह्मपदमाकाङ्क्षमाणानां परिगणनं प्रमाणेन भवादिपदार्थं चाभिधानेनाह तात्पर्यकृत् ॥

भवाय श्रेयसे चैव न कश्चित्तदपेक्षते ।

मधुकैटभयोश्चैव हिरण्यादेस्तथैव च ।

नान्यो ब्रह्मपदं वांछत्यृजून्योग्यान्विना क्वचित् ।

ततः श्रेयांसि वांछन्ति न तु तत्पदमाप्तये ॥ इति ब्रह्माण्डे ।

भवो वृद्धिः समुद्दिष्टा श्रेयो मोक्ष उदाहृतः ।

वृद्धस्य न पुनर्ह्रासो भूतिरित्येव कथ्यते ॥ इति शब्दनिर्णये ।

भवायेत्यादिकमुक्तमात्रोपलक्षणम् । न कश्चिदित्येतद्विवृणोति ॥ मधुकैटभयोरिति ॥ हिरण्यादेः सकाशादिति शेषः । ऋजून्योग्यानित्यनेन मधुकैटभादेरयोग्यत्वं सूचयति । एवं च योग्या ऋजवोऽ-योग्यानां मध्ये मधुकैटभादयो ब्रह्मपदमाकाङ्क्षन्त इति परिगणना सूचिता ॥ १३ ॥

इति विज्ञापितो देवैर्भगवानात्मभूर्नृप ।

परीतो भृगुदक्षाद्यैर्ययौ दैत्येश्वराश्रमम् ॥ १४ ॥

मन्दनन्दिनी

अनन्तरं ब्रह्मणा कृतमाह ॥ इतीति ॥ परितः परिवृतः ॥ १४ ॥

तं ददर्श प्रतिच्छन्नं वल्मीकतृणकीचकैः ।

पिपीलिकाभिराकीर्णं मेदत्वङ्मांसशोणितम् ॥ १५ ॥

पदरत्नावली

कीचकैरनिलोद्धूतत्वेन स्वनद्वेणुभिः । पिपीलिकाभिर्व्याप्तत्वात् क्वचित् शरीरा-वयवैर्मेदसा क्वचित् त्वचा क्वचित् शोणितेन च युक्तम् ॥ १५ ॥

प्रकाशिका

पिपीलिकादिभिराकीर्णानि भक्षितानि मेदस्त्वङ्मांसशोणितानि यस्य तम् ॥१५॥

मन्दनन्दिनी

कीचकैरनिलेन स्वनवद्वेणुभिः । कीचका वेणवस्ते स्युर्ये स्वनन्त्यनिलोद्धता इत्यभिधानात् । आकीर्णमिति मेदःप्रभृतीनां विशेषणं बहुव्रीहिः ॥ १५ ॥

तपन्तं तपसा लोकान् यथा भाविततं रविम्१ ।

विलक्ष्य विस्मितः प्राह हसंस्तं हंसवाहनः ॥ १६ ॥

तात्पर्यम्

‘सकामं तु तपः क्रूरं लोकानां भयकृद्भवेत् ॥ इतरच्छान्तये सर्वलोकानां भवति ध्रुवम्’ इति प्रकाशिकायाम् ॥ ‘ब्रह्माणमभजद्ब्रह्मपदार्थं स हिरण्यकः’ इति स्कान्दे ॥ १६ ॥

पदरत्नावली

तपन्तमित्यनेनापि तपसः क्रूरत्वमाह । भासा विततम् । अहो दैत्यानामयोग्ये वस्तुनि प्रयत्नातिशय इत्यालोच्य हसन् मन्दस्मितं कुर्वन् । हंसवाहनो ब्रह्मा । ‘विष्णुपद्मासनावुक्तौ पण्डितैर्हंसवाहनौ’ इत्यभिधानम् ॥ १६ ॥

प्रकाशिका

तपंतं तपसा लोकानित्यत्र तपसो लोकतापकत्वमुच्यते । न हीदं सम्भवति । ऋष्यादिभिर्मोक्षार्थं क्रियमाणस्य तपसो लोकसन्तापकत्वाभावादतोऽत्र व्यवस्थां प्रमाणेनैव दर्शयति । सकाममिति । तुशब्दोऽवधारणे । सकाममेव तपः क्रूरं चेल्लोकानां क्षोभकृद्भवेत् । इतरन्निष्कामम् । शान्तये सुखाय । तथा च सकाममेव क्रूरेण तपसेति मूलं व्याख्येयमिति भावः । ननु हिरण्यकेन कृतमपि तपो निष्काममेव किन्न स्यादित्यतस्तस्य सकामत्वे प्रमाणं पठति । ब्रह्माणमिति । ब्रह्मपदार्थं ब्रह्मपदप्राप्त्यर्थम् । कया भासा विततम् ॥ १६ ॥

मन्दनन्दिनी

अभ्रपिहितं मेघेनावृतम् । लोकान् जनान् । तपसा तपंतं सन्तापयन्तं विलक्ष्य दृष्ट्वा हसन् अयोग्ये महाप्रयत्न इति हसन् हंसवाहनश्चतुर्मुखस्तं प्राह । मुनिषु तपत्सु२ प्राप्तौ लोकताप एतत्तपसा कुत इति चोद्यं निराकर्तुं तात्पर्यम् ॥ सकामं तु तपःक्रूरं लोकानां भयकृद्भवेत् । इतरच्छान्तये सर्वलोकानां भवति ध्रुवमिति प्रकाशिकायाम् ॥ १६ ॥

ब्रह्मोवाच–

उत्तिष्ठोत्तिष्ठ भद्रं ते तपः सिद्धोऽसि काश्यप ।

वरदोऽहमनुप्राप्तो व्रियतामीप्सितो वरः ॥ १७ ॥

मन्दनन्दिनी

प्राहेत्युक्तोक्तिप्रकारमाह ॥ ब्रह्मोवाचेति ॥ अत्र ब्रह्मशब्देन हिरण्यगर्भ इति कथं निर्णयः । हंसवाहनशब्दस्य ‘‘विष्णुपद्मासनावुक्तौ पण्डितैर्हंसवाहनावि’’त्यभिधानेन विष्णुसाधारण्यात् । हिरण्यगर्भपदप्राप्तिकामं प्रति तस्यैव वरदत्वायोगाच्चेति चेन्न । तस्यैव तपसाऽराधितत्वेन वरदत्वोपपत्ते-रित्याशयेन तात्पर्यम् ॥ ब्रह्माणमभजद्ब्रह्म पदार्थं स हिरण्यक इति स्कान्दे ॥ मूले काश्यप कश्यपपुत्र

॥ १७ ॥

अद्राक्षमहमेतत् ते हृत्सारं महदद्भुतम् ।

दंशभक्षितदेहस्य प्राणा ह्यस्थिषु शेरते ॥ १८ ॥

पदरत्नावली

हृदो हृदस्य सारं दार्ढ्यम् । दंशाः सूचीमुखाः शूकाः । हि अस्थिष्वेव शेरते इति यस्मात् तस्मादूभुतम् ॥ १८ ॥

प्रकाशिका

हृत्सारं हृदयदार्ढ्यम् । दंशैर् मक्षिकाविशेषैर्भक्षितो देहो यस्य । हि यस्मादस्थिषु शेरते तस्मादद्भुतम् ॥ १८ ॥

मन्दनन्दिनी

हृत्सारं हृदयदार्ढ्यम् ॥ १८ ॥

नैतत् पूर्वर्षयश्चक्रुर्न करिष्यन्ति चापरे ।

निरम्बुर्धारयेत् प्राणान् को वै दिव्यसमाः शतम् ॥ १९ ॥

पदरत्नावली

इतोऽप्यद्भुतमित्याह– नैतदिति ॥ निरम्बुर् जलपानरहितः । ‘निर्निश्चय-निषेधयोः’ इत्यमरः । ‘स्युरेवंतु पुनर्वैवेत्यवधारणवाचकाः’ इत्यभिधानाद् वा इत्यनेन दिव्यशतसमा-स्वेकापि किञ्चिदूना न भवतीत्याह ॥ १९ ॥

प्रकाशिका

निरम्बुर्जलपानरहितः ॥ १९ ॥

मन्दनन्दिनी

ब्रह्माणमिति प्रमाणेऽपि हिरण्यगर्भनिर्णायकान्तराभावाद्ब्रह्मपदस्य पूर्ववच्छङ्काव-कुण्ठितत्वेनानिर्णायकत्वात्कथमियं योजनेति विचार्यम् । ब्रह्माणं बृहस्पतिमित्यर्थोपपत्तेः । चतुर्मुखस्या-राधितत्वानिश्चायकत्वाच्च । वस्तुतस्तु सकामतपः क्रूरमस्त्विदं निष्काममेव किं न स्यादित्यत आहेति पूर्वसङ्गतत्वेन योज्यम् । अथवा हिरण्यकशिपुतपसो ब्रह्मपदेतरफलानुद्देशितत्वात् । ब्रह्मणः कोप-जननायैव देवैर्ब्रह्मपदोद्देशित्वमुक्तम् । वस्तुतस्तु न तथा तस्य काम इति मूलाशयकल्पनोपपत्तेः । तदुद्देशित्वस्याप्यभावान्निष्कामत्वमेव तस्य सन्तापकत्वोक्त्या निष्कामतपोऽपि सन्तापकरी प्रकाशिका वचने शान्तय इत्यस्य नाशायेत्यर्थोपपत्तेः । अत एव पूर्ववाक्यान्यपि तात्पर्यकृद्भिर्न वक्तव्यानीति मन्दाशङ्कानिरासायाहेत्यवतरणमिदं भवति । निरम्बु जलरहितं यथा भवति तथा ॥ १९ ॥

व्यवसायेन तेऽनेन दुष्करेणामनस्विभिः ।

तपोनिष्ठेन भवता जितोऽहं दितिनन्दन ॥ २० ॥

तात्पर्यम्

जितः वशीकृतः । ‘पराभूतं वशस्थं च जितमित्युच्यते बुधैः’ इति शब्द-निर्णये ॥ २० ॥

पदरत्नावली

इनः समर्थः । तेन व्यवसायेन अमनस्विभिर् मनोबलरहितैर् दुष्करेण दुःसाधनेन जितो वशीकृतः । ‘पराभूतं वशस्थं च जितमित्युच्यते बुधैः’ इति शब्दनिर्णये ॥ २० ॥

प्रकाशिका

अमनस्विभिर् मनोदार्ढ्यरहितैः । दुष्करेण ते तवानेन व्यवसायेन कारणेन भवता कर्त्रा जितः । अत्र पराजित इत्यर्थप्रतीतिवारणाय विवक्षितमर्थं दर्शयति ॥ जित इति ॥ अत्र प्रमाणं पठति ॥ पराभूतमिति ॥ २० ॥

मन्दनन्दिनी

अनेन तेन तपसा विजितो वशीकृतः । न तु पराजितः । अत्र तात्पर्यम् ॥ जितो वशीकृतः । पराभूतं वशस्थं च जितमित्युच्यते बुधैरिति शब्दनिर्णये ॥ २० ॥

ततस्त आशिषः सर्वा ददाम्यसुरपुङ्गव ।

मर्त्यस्य ते ह्यमर्त्यस्य दर्शनं न च निष्फलम् ॥ २१ ॥

पदरत्नावली

ददामि दास्यामीतीच्छामि । मर्त्यस्य मरणशीलमनुष्यशरीरं प्राप्तस्य ते तव अमर्त्यस्य जरामरणशून्यस्य देवस्य मम दर्शनमभूद् हि (यस्मात् तस्मात्) निष्फलं नैव ॥ २१ ॥

प्रकाशिका

अमर्त्यस्य मरणशून्यस्य देवस्य मम दर्शनं निष्फलं नैव ॥ २१ ॥

मन्दनन्दिनी

ते तुभ्यम् । अमर्त्यस्य मम ॥ २१ ॥

नारद उवाच–

इत्युक्त्वाऽऽदिभवो देवो भक्षिताङ्गं पिपीलिकैः ।

कमण्डलुजलेनौक्षद् दिव्येनामोघराधसा ॥ २२ ॥

पदरत्नावली

आदेर्हरेर्भवो जन्म यस्य स तथा, विष्णुभूरित्यर्थः । सर्वस्यादौ भवतीति वा । औक्षत् प्रोक्षितवान् । दिव्यत्वमाह– अमोघेति ॥ २२ ॥

प्रकाशिका

आदेर्भवो जन्म यस्य स तथा । सर्वस्यादौ भवतीति वा । औक्षत् प्रेक्षितवान् ॥२२॥

मन्दनन्दिनी

आदौ भवो यस्य स आदिभवो ब्रह्मा । औक्षदसिञ्चत् । अमोघराधसाऽव्यर्थ-सिद्धिमता ॥ २२ ॥

स तत्कीचकवल्मीकात् सह ओजोबलान्वितः ।

सर्वावयवसम्पन्नो वज्रसंहननो युवा ।

उत्थितस्तप्तहेमाभो विभावसुरिवैधसः ॥ २३ ॥

पदरत्नावली

एधस इन्धनात् ॥ २३ ॥

मन्दनन्दिनी

वज्रसंहननो वज्रवद्दृढः । एधस इन्धनात् ॥ २३ ॥

स निरीक्ष्याम्बरे देवं हंसवाहनमास्थितम् ।

ननाम शिरसा भूमौ तद्दर्शनमहोत्सवः ॥ २४ ॥

मन्दनन्दिनी

अम्बरे स्थितमिति योजना ॥ २४ ॥

उत्थाय प्राञ्जलिः प्रह्व ईक्षमाणो दृशा विभुम् ।

हर्षाश्रुपुलकोद्भेदो गिरा गद्गदयाऽगृणत् ॥ २५ ॥

पदरत्नावली

प्रह्वः प्रवणः ॥ २५ ॥

प्रकाशिका

प्रह्वः प्रवणः ॥ २५ ॥

मन्दनन्दिनी

प्रह्वः प्रवणः । अगृणादस्तौत् ॥ २५ ॥

हिरण्यकशिपुरुवाच–

कल्पान्ते कालसृष्टेन योऽन्धेन तमसाऽऽवृतम् ।

अभिव्यनग् जगदिदं स्वयंज्योतिः स्वरोचिषा ॥ २६ ॥

आत्मना त्रिवृता चेदं सृजत्यवति लुम्पति ।

रजःसत्वतमोधाम्ने पराय महते नमः ॥ २७ ॥

तात्पर्यम्

‘प्रायस्तु स्तुतिशब्देषु मिश्रा वाचो हरिं विना । केचिज्जीवगुणास्तत्र तन्नियन्तुर्हरेः परे । एकस्थानैककार्यत्वाद्विष्णोः प्राधान्यतस्तथा । जीवस्य तदधीनत्वान्न भिन्नाधिकृतं व चः’ इति ब्रह्मतर्के ॥ त्रिवृता प्रकृत्या ॥ २६,२७ ॥

पदरत्नावली

मिश्रामिश्रभेदेन द्विविधा स्तुतिर्वर्तते । तत्र हिरण्यकशिपुर्मिश्रया परोक्षात्मगतया स्तुत्या देवतातृप्तिर्भवतीति तादृश्या स्तौति– कल्पान्त इत्यादिना ॥ अत्र ये चतुर्मुखस्यासम्भाविता गुणास् ते तदन्तर्यामिण्येककार्यत्वेनैकस्थानस्थिते सर्वोत्तमे हरौ योज्याः । १न चैतावता स्तुतेर्भिन्नाधि-करणत्वमापन्नम् । तस्य तदधीनत्वेन नित्योपसंह्रियमाणगुणान्तर्भूतत्वेन तच्छ्रवणस्मरणाभ्यामन्तः-करणस्योल्लाससम्भवात् । तदुक्तम्– ‘प्रायस्तु स्तुतिशब्देषु मिश्रा वाचो हरिं विना । केचिज्जीवगुणास्तत्र तन्नियन्तुहरेः परे । एकस्थानैककार्यत्वाद् विष्णोः प्राधान्यतस्तथा । जीवस्य तदधीनत्वान्न भिन्नाधिकृतं वचः ॥’ इति । प्रलयकालप्रवर्तकेण हरिणा सृष्टेनान्धेन तमसा दुर्गाभिमन्यमानेन आवृतमिदं जगद् अभिव्यनक् अभिव्यक्तं कृतवान् । स्वरोचिषा स्वसामर्थ्येन ॥ २आत्मना क्षोभितया त्रिवृता त्रिगुणात्मिकया तेजोबन्नात्मिकया वा प्रकृत्या चेदं जगत् सर्जनादिक्रियाविशिष्टं करोति तस्मै नम इत्यन्वयः । रजःसत्वतमोधाम्न इत्यनेन सृष्ट्यादौ रजआदिगुणानां प्राधान्यं सूचयति । पराय महत इत्यनेन ‘अणोरणीयान् महतो महीयान्’ इति श्रुतिसिद्धोभयविधानं संस्मारयति । दृश्यविषययाऽनया स्तुत्या किं स्यादिति नाश्रद्धेयम् । तथा हि आत्मना परमात्मना प्रेरितो वा उपादानभूतया प्रकृत्या रजःप्रधानयेदं सृजति । सत्वप्रधानतया जातैर्मन्वादिभिरिदमवति । तमःप्रधान(त)या जातेन रुद्रेण संहरति । तस्मै महते महत्तत्वाभिमानिने पराय रुद्राच्छ्रेष्ठाय भगवते नमः ॥ २६,२७ ॥

प्रकाशिका

कल्पान्त इत्यादिना ब्रह्मस्तुतिर्हिरण्यकेन क्रियते । तत्र ब्रह्मण्यसम्भाविता विष्णुमात्रनिष्ठाः केचन धर्माः कथ्यन्तेऽतः कथं ब्रह्मस्तुतिरियमित्यतोऽत्राभिप्रायं प्रमाणेनैव दर्शयति । प्रायस्त्विति । तुशब्दोऽवधारणे । मिश्रा जीवेश्वरप्रतिपादकाः । प्राय एवेत्युक्तस्य व्यावर्त्यं दर्शयति । विनेति । केवलं हरिस्तुतिं विनेत्यर्थः । मिश्रत्वे कथं तत्र योजनेत्यपेक्षायामाह । केचिदिति । अत्र मिश्रस्तुतिषु केचिज्जीवगुणा जीवेऽप्यमुख्यया वृत्त्या सम्भाविता गुणा उच्यन्ते । परे ये जीवेष्व-सम्भावितास्ते तन्नियन्तृहरेरेवोच्यन्त इत्यर्थः । सर्वापि स्तुतिर् मुख्यया वृत्या ईश्वरविषयैव फलदाने तस्यैव स्वातन्त्र्यात् । अमुख्यया वृत्या जीवे सम्भाविताश्चेत्केचिद्गुणास्ते जीवेऽपि योज्या इत्याशयः । ननूक्तरीत्या मिश्राः स्तुतयो जीवांतर्यामिपराः कुतः प्रवृत्ताः पृथक्स्थितहरिजीवपराः कुतो न ज्ञाता इत्यत आह । एकेति । एकस्मिन् स्थाने शरीररूपे स्थित्वोभयोरपि स्तोतृपुरुषार्थप्रदानादिरूपैककार्य-कर्तृत्वाद्वचः मिश्रस्तुतिरूपं वाक्यं भिन्नौ पृथक् स्थितौ हरिजीवावधिकृतौ प्रतिपाद्यौ यस्य तत्तथा । पृथक्स्थितहरिजीवप्रतिपादकं न भवति । ननु तर्हि हरिजीवौ तत्र किं साम्येन प्रतिपाद्यौ नेत्याह । विष्णोः प्राधान्यतः । तथा जीवस्य तदधीनत्वादेकस्थानैककार्यत्वादित्यन्वयः । अतः न तयोः साम्येन प्रतिपाद्यत्वमित्याशयः ॥ त्रिवृतेत्यस्य प्रकृतसङ्गतमर्थं दर्शयति । त्रिवृतेति । त्रिगुणान् वृणोतीति त्रिवृत् । सा च प्रकृतिरेवेत्याशयः । ततश्च कल्पान्त इत्यादिमूलस्यायमर्थः । प्रलयकालप्रवर्तकेन हरिणा सृष्टेनान्धेन तमसा दुर्गाभिमन्यमानेनावृतमिदं जगदभिव्यनक् अभिव्यक्तमकरोत् । आत्मना कर्त्रा । त्रिवृता प्रधानेनोपादानेन । इदं श्लोकद्वयं हरिमात्रपरम् । प्रलयकालीनतमोनाशनस्य प्रधानोपादानकसृष्टेः पालननाशनयोश्च ब्रह्मकृतत्वासम्भवात् ॥ २६,२७ ॥

मन्दनन्दिनी

स्तौति ॥ कल्पान्त इति ॥ महाकल्पान्ते कालसृष्टेन तत्कालव्यक्तेन । अन्धेनान्धयतीत्यन्धं तेन तमसाऽऽवृतम् । तुच्छेनाश्वपिहितं यदासीदित्यादेः । इदं जगत् । जग-त्सर्जकादिरूपं प्रद्युम्नादिकम् । स्वयं ज्योतिः स्वतन्त्रज्योतिः स्वरोचिषा स्वतेजसा । तमो व्यक्ती-कृत्याभिव्यनगभिव्यक्तमकरोत् । तथाऽऽत्मना स्वेन कार्योन्मुखीकृतया त्रिवृता जडप्रकृत्योपादानभूतयेदं महत्तत्त्वादिकं सृजत्यवति लुम्पति च । यत्तदोर्नित्यसम्बन्धात्तस्मै रजः सत्त्वतमोधाम्ने । सृष्ट्यादि-क्रमानुसारेणेत्थमुक्तिः । पराय च स्वतन्त्राय महते पूज्याय नम इति श्लोकद्वये इति योजना । अत्र चतुर्मुखेऽसम्भाव्यमाना गुणाश्चतुर्मुखनियामके भगवति । इतरे चतुर्मुखे योज्याः । हरिस्तुतिं विना देवतांतरस्तुतेः प्रायेण मिश्रस्तुतित्वात् । प्रकृतेस्त्रिभिर्गुणैर्वर्तत इति व्युत्पत्त्या त्रिवृच्छब्दवाच्यत्वम् । एतदभिप्रेत्य तात्पर्यकृदाह ॥ ‘‘प्रायस्तु स्तुतिशब्देषु मिश्रा वाचो हरिं विना । केचिज्जीवगुणास्तत्र तन्नियन्तुर्हरेः परे । एकस्थानैककार्यत्वाद्विष्णोः प्राधान्यतस्तथा । जीवस्य तदधीनत्वान्न भिन्नाधिकृतं वचः’’ इति ब्रह्मतर्के ॥ हरिं विना हरिस्तुतिं विना । मिश्रत्वं स्पष्टयति ॥ केचिदिति ॥ परेऽन्ये कुत एव मिश्रत्वमित्यत आह ॥ एकेति ॥ एकदेहस्थितत्वाद्वरदानादिलक्षणैक कार्यकरत्वात् । एककार्य-करत्वेऽप्याराधितस्य देवतान्तरस्यैव स्तुतिः किं न स्यादित्यत आह ॥ विष्णोरिति ॥ वचः स्तुतिवचः । भिन्नाधिकृतं प्रत्येकमात्रविषयं न । त्रिवृच्छब्देति तात्पर्यं त्रिवृता प्रकृत्येति ॥ २६,२७ ॥

नम आद्याय बीजाय ज्ञानविज्ञानमूर्तये ।

प्राणेन्द्रियमनोबुद्धिविकारैर्व्यक्तिमीयुषे ॥ २८ ॥

पदरत्नावली

आद्याय पुरुषरूपेण जगदादौ व्यक्ताय । अन्यत्र आदिकर्ता श्रीनारायणः, तस्माज् जाताय । बीजाय व्यञ्जकाय, फलरूपायेति वा, जगदुत्पत्तौ बीजशक्तियुक्ताय वा । ज्ञानविज्ञाने एव मूर्तिर् विग्रहो यस्य स तथा तस्मै । अन्यत्र ज्ञानविज्ञानयोरुपदेष्टृविग्रहाय । प्राणेन्द्रियमनोबुद्धि-लक्षणैर्विकारैः सप्तदशकैर्व्यक्तिमीयुषे । ब्रह्माण्डान्तर्विराट्पुरुषतयेति शेषः । उभयत्र समम् ॥ २८ ॥

प्रकाशिका

आद्याय वासुदेवरूपेण जगदादौ व्यक्तायान्यत्र तस्मात्पुंनाम्ना जाताय । बीजाय व्यञ्जकाय कारणायेति यावत् । उभयत्र समम् । ज्ञानविज्ञाने मूर्तिर् विग्रहो यस्यान्यत्र ज्ञानविज्ञान-प्रवर्तकमूर्तये । प्राणेन्द्रियमनोबुद्धिलक्षणैर्विकारैर्ब्रह्माण्डान्तर्विराट्पुरुषतया व्यक्तिमीयुषे । उभयत्र समम्

॥ २८ ॥

मन्दनन्दिनी

आद्याय बीजाय कारणाय । ज्ञानविज्ञानमूर्तये सामान्यविशेषज्ञानोपदेष्टृशरीराय । प्राणेन्द्रियमनोबुद्धिलक्षणैर्विकारैः । ब्रह्माण्डान्तर्व्यक्तिं शरीरमीयुषे । प्राप्तायेति योजना ॥ २८ ॥

त्वमीशिषे जगतस्तस्थुषश्च प्राणेन मुख्येन पतिः प्रजानाम् ।

चित्तस्य चित्तिर्मनइन्द्रियाणां पतिर्महाभूतगुणाशयेशः ॥ २९ ॥

तात्पर्यम्

प्राणेन सह ॥ २९ ॥

पदरत्नावली

मुख्येन प्राणेन सह त्वं स्थावरजङ्गमात्मकस्य ईशिषे प्रवर्तकोऽसि । चित्तस्य चित्तिः स्मरणशक्तिप्रदः, साक्षी वा । महाभूतानां गुणानां शब्दादीनाम् आशयस्य अन्तःकरणस्य प्रवर्तकः । पुनर्वचनं दैनन्दिनप्रवृत्त्यर्थम् ॥ २९ ॥

प्रकाशिका

त्वमेव जगतो जङ्गमस्य तस्थुषः स्थावरस्य चेशिषे नियन्ता भवसि । प्राणेनेत्ये-तत्प्राणेन निमित्तेनेत्यन्यथा प्रतीतिवारणाय व्याख्याति । प्राणेनेति । तथा च सहार्थे तृतीयेति भावः ॥ चित्तिः स्मरणशक्तिप्रदः । पतिः पालकः । महाभूतानां गुणानां शब्दादीनाम् आशयस्यांतः करणस्येशः प्रवर्तकः । पालनेशनयोर्भेदान्नाशयांशेन पौनरुक्त्यम् । एतच्छ्लोकोक्तमुभयत्र समम् ॥ २९ ॥

मन्दनन्दिनी

मुख्येन प्राणेन सह । तस्य चतुर्मुखसमत्वात् । ईशितृकोटिप्रवेशः । न त्वीशितव्यकोटौ । हरिपरत्वे त्वीशितव्यत्वमेव । जगतो जङ्गमस्य तस्थुषः स्थावरस्य त्वमीशिषे ईश्वराकाररूपं यद्ब्रह्माण्डं तस्येश इत्यर्थः । अत एव तात्पर्यम् ॥ प्राणेन सहेति ॥ २९ ॥

त्वं सप्ततन्तून् वितनोषि तन्वा त्रय्या चतुर्होत्रकविद्यया च ।

त्वमेक आत्माऽऽत्मवतामनादिरनन्तपारः कविरव्ययात्मा ॥ ३० ॥

तात्पर्यम्

सप्ततन्तून्सप्तक्रतून् ॥ ३० ॥

पदरत्नावली

त्रय्या तन्वा प्रतिमास्थानीयेन वेदत्रयेण । चातुर्होत्राख्यमन्त्रप्रकाश्यं चतुर्होत्रकं तद्विषयया विद्यया च सप्ततन्तून् सप्तक्रतून् वितनोषि विस्तृत्य करोषि । द्रव्यमन्त्रक्रियादेवतास्थत्वेन बहिरुपदेष्टृत्वेन कर्तृत्वेन कारयितृत्वेन शस्त्रेज्यास्तुतिप्रायश्चित्तादिरूपया च । ‘अग्निमीे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम्’ इत्यादिश्रुतेः ‘यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः’ इति । आत्मवताम् आत्मज्ञानिनां प्रेष्ठः । ‘आत्मा प्रेष्ठे स्वरूपे च जीवे ज्ञातरि केशवे । वायौ देहे स्वयं स्वान्ते नवसु प्रोच्यते बुधैः ॥’ इति । अनादिः कारणशून्यः । पुरातनो वा । अनन्तपारो ऽप्रमेयः । अव्यये हरौ आत्मा मनो यस्य स तथा । ‘न भारती मेऽङ्ग मृषोपलक्ष्यते’ इत्यादेः । अन्यत्र अव्ययानां मुक्तानाम् आत्मा स्वामी । ‘असंसार्यव्ययो मुक्त अचिरानन्द उच्यते’ इति च ॥ ३० ॥

प्रकाशिका

सप्ततन्तूनित्यस्य विवक्षितमर्थं दर्शयति । सप्ततन्तूनिति । अग्निष्टोमादि-सप्तयज्ञानित्यर्थः । नन्वत्र तन्वाश्रितया त्रय्या वेदत्रयेण चत्वारो होतारो यत्र तच्चतुर्होतृकं कर्म तद्विषयया विद्यया च वितनोषि । विस्तारयसि । इदमुभयत्र समम् । आत्मवतां प्राणिनामन्तर्यामी । नास्त्यन्तः कालतः पारञ्च देशतो यस्य स तथा । कविः सर्वज्ञः । अव्ययानां मुक्तानाम् आत्मा स्वामी अन्यत्राव्यये हरावात्मा मनो यस्य ॥ ३० ॥

मन्दनन्दिनी

मूले तन्वा भगवतः प्रतिमास्थानीयया त्रय्या वेदत्रयेण । स त्रिभिर्विधीयतेति श्रुतेः । चतुर्होतृकविद्यया च ब्रह्महोतृअध्वर्याग्नीध्रलक्षणर्त्विक्चतुष्टयव्यापारप्रतिपादिकया कल्पसूत्रादि-विद्यया च त्वं सप्ततंतून् क्रतून् वितनोषि । आत्मवतां ब्रह्मज्ञानिनाम् आत्मा प्रेष्ठः । ‘‘आत्मा प्रेष्ठे स्वरूपे च जीवज्ञातरि केशवे । वायौ देहे स्वयं स्वान्ते नवसु प्रोच्यते बुधैः’’ इत्युक्तेः । अनादिरादिशून्याय । अनन्तपारोऽनन्तान् संसारान्पारयतीत्यनन्तपारः । अव्यये हरावात्मा मनो यस्याव्ययात्मा । अत्र तात्पर्यम् ॥ सप्ततन्तून् क्रतूनिति ॥ सप्तक्रतूनित्यपपाठः । ‘‘यज्ञः सत्रोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः’’ इति कोशात् ॥ ३० ॥

त्वमेव कालोऽनिमिषो जनानामायुर्लवाद्यावयवैः क्षिणोषि ।

कूटस्थ आत्मा परमेष्ठ्यजो महान् त्वं जीवलोकस्य च जीव आत्मा ॥ ३१ ॥

तात्पर्यम्

जीवानां प्राणधारकः ॥ ३१ ॥

पदरत्नावली

अनिमिष इत्यनेन नित्यं जाग्रत्स्वभाव उच्यते । कूटस्थो निर्विकारः । १आत्म-वलोकस्य व्याप्तः । परमेष्ठी सर्वोत्तमः । महानजः ब्रह्मणोप्यधिक इत्यनेन सर्वोत्तमत्त्वं निर्णयति । अन्यत्र आज् जातोऽत एव महान् अव्यवधानेन तत्पुत्रत्वात् । जीव जीवराशेः प्राणधारकः । ‘जीव प्राणधारण’ इति धातोः । कथं धत्त इत्यत उक्तम्– आत्मेति ॥ इष्टादानादिकर्ता । ‘अव सन्तर्पण’ इति धातोः । अवतिरूपोऽयं शब्दः सामान्यविशेषाभ्यां योजनीयः ॥ ३१ ॥

प्रकाशिका

कालः कालनामा । अनिमिषः जाग्रद्रूपः । आत्मा आदानादिकर्ता । परमेष्टी सर्वोत्तमस्थानः । अज उत्पत्तिशून्यः । अन्यत्राज्जातः । महान् सर्वोत्तमः । अन्यत्र महत्तत्वाभिमानी । जीवलोकस्य जीवः । अत्र जीवादभेदप्रतीतिवारणाय प्रमाणमाह । जीवानामिति । तथा च लोकशब्दः समुदायपरः । द्वितीयो जीवशब्दः योगवृत्या प्राणधारकपर इत्युक्तं भवति । आत्मेति मूलं स्वामीत्यर्थः

॥ ३१ ॥

मन्दनन्दिनी

अनिमिषो जाग्रत्स्वभावः कालः कालनियामकः कूटस्थो निर्विकारः । आत्मा व्याप्तः परमेष्ठी सर्वोत्तमः । न जायत इत्यजः । महान्परममहान् । महत्तत्वमानी वा । जीवलोकस्य जीवजातस्य जीवः प्राणधारकः । जीवप्राणधारण इति धातोः । त्वं लवाद्यवयवैर्जनानामायुः क्षिणोषीति योजना । अत्र चतुर्मुखेऽसम्भवन्ति विशेषणानि तन्नियन्तरि हरौ योज्यानि । अत्र तात्पर्यम् ॥ ‘‘जीवानां प्राणधारकः’’ इति ॥ ३१ ॥

त्वत्तः परं नापरमप्यनेजदेजच्च किञ्चिद् व्यतिरिक्तमस्ति ।

विद्याकलास्ते तनवश्च सर्वा हिरण्यगर्भोऽसि बृहत् त्रिपृष्टः ॥ ३२ ॥

तात्पर्यम्

‘परावरेषु यस्मात्त्वं व्याप्तो विष्णुः सनातनः । तस्मान्न व्यतिरिक्तं त्वदित्याहुर्वेदवेदिनः’१ इति पाद्मे ॥ विद्याश्च कलाश्च विद्याकलाः । ‘महाविद्याः कलाश्चैव त्वत्तनावाश्रिता यतः । विद्यातनुरिति प्राहुरतस्त्वां तत्त्ववेदिन’ इति च । त्रिपृष्ठस् तुरीयः ॥३२॥

पदरत्नावली

अत्र बृहच्चासि महत्तत्वात्मकं चासि इत्येकदेशीयैर्व्याख्यातम् । तत् सम्प्रदायज्ञैर् हरेर्महत्तत्वात्मकगुणत्वेन सङ्गच्छत इति निरूप्य ‘ब्रह्माणं तद्गुणैः स्तौति तद्गविष्णुविवक्षया’ इत्युक्त-त्वान् न च तद्व्यापित्वेन तदात्मकत्वमुच्यत इति वाच्यम्, तर्ह्ययं व्याख्याता चतुर्मुखस्य तदभिमानित्वेन घटतां तस्याप्युक्तदोषानिस्तारादिति ॥ ३२ ॥

प्रकाशिका

त्वत्तः परं नापरमित्यत्र जगदभेदो ब्रह्मांतर्यामिण उच्यत इति भाति । अतोऽत्र विवक्षितं तात्पर्यं प्रमाणेनैवाह । परावरेष्विति । विद्याकला इत्येतद्विद्यानां कला एकदेशा इत्यन्यथा-प्रतीतिवारणाय व्याख्याति । विद्याश्चेति । तथाच विद्या वेदादिरूपाः कला गन्धर्वाद्युपवेदरूपा इत्यर्थः । ननु विद्यानां कलानां च कथं च तनुत्वमित्याशङ्कां प्रमाणेनैव परिहरति । महाविद्या इति । त्रिपृष्ट इत्यस्य विवक्षितमर्थं दर्शयति । त्रिपृष्ट इति । तथा च तिसॄणां जाग्रदाद्यवस्थानां पृष्ठः परतः स्थितस् ता अतिक्रम्य वर्तमान इति यावत् । स च तुरीय एवेत्युक्तं भवति । ततश्चायं श्लोकार्थः । परमतीतं परमेष्यद्वर्तमानं च यत्किंचिदनेजत् स्थावरमेजज्जङ्गमं च वस्तु तत्सर्वं त्वत्तो व्यतिरिक्तं नास्ति त्वयैव व्याप्तमित्यर्थः ॥ विद्या महावेदादिरूपाः कला गन्धर्वाद्युपवेदरूपाः सर्वास्ते तनवस् त्वत्त-नावाश्रिताः । हिरण्यं ब्रह्माण्डं गर्भे उदरे यस्य स तथा । त्रिपृष्ठो ऽवस्थात्रयातीतस् तुरीयः ॥ ३२ ॥

मन्दनन्दिनी

मूले । परमतीतम् अपरमनागतं वर्तमानमपि । अनेजत्स्थावरम् । एजज् जङ्गमं च । किञ्चित्सर्वं त्वया व्याप्यत्वात्त्वत्तो व्यतिरिक्तं नास्ति । सर्वा विद्याः कलाश्च विद्याकलाः । विद्या महा-विद्याः कलाः कलाविद्यास्ते तनवस्तन्वाश्रिताः । तास्थ्यात्तच्छब्दम् । हिरण्यगर्भोऽसि हिरण्यात्मकं ब्रह्माण्डं गर्भे उदरे यस्य सोऽसि । बृहद्गुणपूर्णं वस्त्वसि । त्रिपृष्ठस्तिसृभ्योऽवस्थाभ्यः पृष्ठोऽतिक्रान्तः । तुरीय इति यावत् । एतादृशोऽसीति योजना । अत्र विष्णुगुणैर्ब्रह्मणो स्तोत्रं तद्गतविष्णुविवक्षयेति ज्ञातव्यम् । एतदेवाभिप्रेत्य तात्पर्यम् ॥ ‘‘परावरेषु यस्मात्त्वं व्याप्तो विष्णुः सनातनः । तस्मान्न व्यतिरिक्तं त्वदित्याहुर्वेदवेदिः’’ इति पाद्मे ॥ विद्याश्च कलाश्च विद्याकलाः । ‘‘महाविद्याः कलाश्चैव त्वत्तनावाश्रिता यतः । विद्यातनुरिति प्राहुरतस्त्वां तत्त्ववेदिनः’’ इति च । त्रिपृष्ठस्तुरीयः । ब्रह्मणोऽ-प्यधिकं विष्णुं जानन्नपि हिरण्यकः । ब्रह्माणं तद्गुणैः स्तौति तद्गविष्णुविवक्षयेति च ॥ ३२ ॥

व्यक्तं विभो स्थूलमिदं शरीरं येनेन्द्रियप्राणमनोगुणांस्त्वम् ।

भुङ्क्ते स्थितो धामनि पारमेष्ठ्ये अव्यक्त आत्मा पुरुषः पुराणः ॥ ३३ ॥

पदरत्नावली

इदानीं भगवत्येव सम्भाव्यमानैर्विशेषणैर्विशिष्टं तदन्तर्यामिणमभिष्टौति– त्वत्त इति ॥ परम् अतीतम् अपरम् एष्यद् अपि वर्तमानं यत् किंचिद् अनेजत् स्थावरम् । एजज् जङ्गमं च वस्तु तत् सर्वं त्वत्तो व्यतिरिक्तं नास्ति । त्वयैवान्तर्बहिश्च व्याप्तत्वात् । त्वामन्तरेण स्वातन्त्र्येण स्थितं नास्तीत्यर्थः । ‘अन्तर्बहिश्च तत् सर्वं व्याप्य नारायणः स्थितः’ इति श्रुतेः । ‘सर्वं खल्विदं ब्रह्म’ इति च । ‘परावरेषु यस्मात् त्वं व्याप्तो विष्णुः सनातनः । तस्मान्न व्यतिरिक्तं त्वदित्याहुर्वेदवादिनः ॥’ इत्यतः, त्वत्तो भिन्नं नास्ति किन्तु त्वमेवेत्यर्थो न घटत इति । अत उक्त एवार्थः । ज्ञानं वेदादि-विद्ययैव, तदवाप्तिरपि तस्यास्त्वत्तनावाश्रितत्वात् त्वदनुग्रहमन्तरेण सुशका न स्यादित्यभिप्रेत्याह– विद्येति ॥ विद्याश्च कलाश्च विद्याकलाः परविद्याऽपरविद्येति तव तनवस् ते वपुषि स्थितत्वात् तथोच्यन्ते । कलाश् चतुःषष्टिलक्षणा वा । विद्याकला वेदाङ्गानीत्यन्यथाप्रतीतिनिरासायाचार्यैर् विद्याश्च कलाश्चेति विगृहीतम् । एतस्मिन्नर्थे ‘महाविद्याः कलाश्चैव त्वत्तनावाश्रितायतः । विद्यातनुरिति प्राहु-रतस्त्वां तत्त्ववेदिनः’ इति मानं चोदाहरन्ति । तस्मादयमेवार्थः । इदं च माहात्म्यं हरेरेव युक्तमित्याह– हिरण्यगर्भेति ॥ हिरण्यमण्डं गर्भे यस्य स तथा । गर्भीकृतानन्तब्रह्माण्डत्वात् तन्नाम तवैव युक्तम् । ‘हिरण्यकोशं रजसा परीवृतम्’ इति श्रुतेः । हिरण्यमयब्रह्माण्डोदराभिव्यक्तत्वाद्वा तन्नामाऽसि । निर्गुणस्य हरेरेते गुणाः कथं सम्भवेयुः ? अत्राह– बृहदिति ॥ गुणपूर्तित्वाद् बृहद् ब्रह्म । ‘अथ कस्मादुच्यते ब्रह्मेति । बृहन्तो ह्यस्मिन् गुणाः’ इति श्रुतेः । ननु तर्हीदं शबलं किं न स्यात् ? अत्राह– त्रिपृष्ट इति ॥ जाग्रदाद्यवस्थाम् अतिक्रम्य स्थितत्वात् त्रिपृष्ठ इत्युच्यते । त्रयाणां लोकानां पृष्ठे वर्तमान इत्यपव्याख्याननिरासाय तुरीय इत्याचख्युराचार्य इति । चतुर्मुखादप्यधिकं विष्णुं जानता हिरण्य-कशिपुना तदन्तर्यामियोग्यगुणैरयं ब्रह्मा न स्तूयते किन्त्वन्तर्यामी स्तूयते इति ज्ञापनाय । तदुक्तम्– ‘ब्रह्मणोप्यधिकं विष्णुं जानन्नपि हिरण्यकः । ब्रह्माणं तद्गुणैः स्तौति तद्गविष्णुविवक्षया ॥’ इति ।

ज्ञानानन्दादिलक्षणगुणमूर्तिं निरूप्याधुनाऽव्यक्तमूर्तिं निरूपयति– व्यक्तमिति ॥ हिरण्यगर्भ इत्यनेन ब्रह्माण्डस्य शरीरस्थानीयत्वं सूचितम् । तत्र तिष्ठन् हरिः सुखलक्षणान् गुणान् भुङ्क्ते न तु देवदत्तवद् दुःखलक्षणानित्यतो वाह– व्यक्तमिति ॥ पारमेष्ठ्ये धामनि वैकुण्ठादिस्थाने, सत्यलोके वा, स्वरूपभूते महिमि्न वा, स्थितः पुराणः पुरुषस् त्वं येन शरीरेणेन्द्रियप्राणमनसां गुणान् (शुभ) विषया-नेव भुङ्क्ते न तु दुःखलक्षणान् ? कुत एतत् ? अत्राह– आत्मेति ॥ ‘एष ह्यानन्दमादत्तेऽत आत्मा’ इति श्रुतेर् आनन्दस्वभावत्वात् । तह्येतद्विषयज्ञानं कथं नोत्पद्यत इति तत्राह– अव्यक्त इति ॥ ‘तदव्यक्तमाह हि’ इति सूत्रात् । हे विभो तदिदं व्यक्तं ब्रह्माण्डलक्षणं तव स्थूलशरीरम्, आचक्षत इति शेषः । यद्वाऽनेन ब्रह्माणमेव तद्योग्यैर्विशेषणैः स्तौति । तथा हि– पुरं शरीरमणतीति पुराणः । आत्मेत्यभिधानादात्मा चतुर्मुखः । अवतारेण व्यक्तिर्नास्तीत्यव्यक्तः । जगत्सृष्ट्याद्यैश्वर्यलक्षणाद् गुणान् । इतरत् स्पष्टम् ॥ ३३ ॥

प्रकाशिका

हे विभो इदं स्थूलं ब्रह्माण्डाख्यं व्यक्तं यथा स्यात्तवैव शरीरम् । कुतः येन कारणेन तदन्तर्गते पारमेष्ट्ये धामनि स्थितस्त्वमिन्द्रियप्राणमनसां गुणान्विषयान् भुङ्क्ते । अव्यक्तः स्वप्रसादमन्तरेण न व्यक्तः । आत्मा स्वामी ॥ ३३ ॥

मन्दनन्दिनी

मूले । हे विभो समर्थ । हिरण्यगर्भः पुराणपुरुष आदिपुरुष आत्मा स्वामी अव्ययस्त्वम् । येन यदधिष्ठायेन्द्रियप्राणमनसां गुणान्विषयान् भुङ्क्ते । इदं ब्रह्माण्डाख्यं व्यक्तं स्पष्टं तव स्थूलशरीरं शरीरस्थानापन्नम् । ब्रह्मणो विराड्शरीरत्वादिति योजना ॥ ३३ ॥

अनन्ताव्यक्तरूपेण येनेदमखिलं ततम् ।

चिदचिच्छक्तियुक्ताय तस्मै भगवते नमः ॥ ३४ ॥

पदरत्नावली

स्थावरजङ्गमात्मकं जगत् त्वद्व्यतिरिक्तं नास्ति । त्वया व्याप्तत्वादित्यर्थतो व्याप्तिरुक्ता । तदिदं कीदृशेन रूपेण व्याप्तमिति मन्दाशङ्कापरिहाराय स्पष्टमाह– अनन्तेति ॥ अनेन परिच्छिन्नस्य सर्वस्यापरिच्छिन्नाद्धरेर्बहिष्ट्वं युक्तिविरुद्धमित्युक्तं भवति । ‘तम आसीत्तमसा गू•मग्रे’ इति श्रुतेः प्रकृत्या व्याप्तत्वप्रतीतेः कथं हरेरेव विशिष्योक्तिर्घटत इति तत्राह– चितचिदिति ॥ शक्तिपदस्य द्विरावृत्तिः कर्तव्या । ‘शक्यत्वात् शक्तयो भार्याः’ इति वचनात् । उभयविधा या शक्तिः प्रकृतिस् तस्या या कार्येषु शक्तिस् तस्या अपि भगवच्छक्त्यविनाभूतत्वात् तद्व्याप्तिस्तन्नियतेत्यत एव युक्त्येत्युक्तम् । न चानेन गुणभूतत्वं हरेरिति वाच्यम् ? शिष्येणोपाध्याय आगत इत्यत्रोपाध्यायप्राधान्यवदुपपत्तेः । ननु लोके प्रतिवस्त्वेकनियतत्वादर्शनाच् चिदचिदात्मकप्रपञ्चे कस्यचित् तदनियतत्वसम्भवेन स्वातन्त्र्येण सर्वव्याप्तत्वं हरेः कथं युज्यत इत्यतो वाह– चिदचिदिति ॥ ‘द्रव्यं कर्म च कालश्च’ इत्यादेः परमाणु-मात्रवस्तुनोऽपि भगवदनियतत्वासम्भवात् । एतादृशीशक्तिरस्यास्तीति कुत इत्यत उक्तम्– भगवत इति ॥ उक्तार्थं पदम् । ‘भूयिष्ठां ते नमउक्तिं विधेम’ इति वाक्यार्थं स्मरता हिरण्यकेन नम इत्युक्तम् । तदुक्तेः फलाधिकत्वात् ॥ ३४ ॥

प्रकाशिका

स्थावरादिरूपं जगत् हरिणा व्याप्तमित्युक्तं तत्कीदृशेन रूपेणेत्यपेक्षायामाह । अनन्तेति । देशतः कालतो गुणतश्चानन्तं स्वप्रसादमन्तरेणाव्यक्तं च यद्रूपं तेनेत्यर्थः । चिदचिच्छक्ति-युक्ताय चिदचित्प्रेरकशक्तियुक्ताय ॥ ३४ ॥

मन्दनन्दिनी

अनन्ताव्यक्तरूपेणासङ्ख्यातातीन्द्रियरूपेणेदमखिलं जगत्ततं व्याप्तं तस्मै चिद-चिन्नियामकशक्तियुताय भगवते नम इति योजना । भगवच्छब्देन हरिग्रहणेऽखिलशब्देन निरुपचरितं सर्वं हिरण्यगर्भग्रहणे यथोचितं ग्राह्यम् ॥ ३४ ॥

यदि दास्यस्यभिमतान् वरान् मे वरदोत्तम ।

भूतेभ्यस्त्वद्विसृष्टेभ्यो मृत्युर्मा भून्मम प्रभो ॥ ३५ ॥

नान्तर्बहिर्दिवानक्तमन्यस्मादपि चायुधैः ।

न भूमौ नाम्बरे मृत्युर्न नरैर्न मृगैरपि ॥ ३६ ॥

तात्पर्यम्

‘ब्रह्मणोऽप्यधिकं विष्णुं जानन्नपि हिरण्यकः । ब्रह्माणं तद्गुणैः स्तौति तद्गविष्णुविवक्षये’ति च ॥ ३६ ॥

॥ इति श्रीमद्भागवते सप्तमतात्पर्ये तृतीयोऽध्यायः ॥ ३ ॥

पदरत्नावली

किं बहुनोक्तेन त्वदभीष्टं वदेत्याशङ्कित आह– यदीति ॥ विविधत्वेन सृष्टेभ्यः । अन्यस्मादपि कालाद् अथवा भावाद् अवयवविशिष्टात् । भूतेभ्य इत्युक्तेप्यन्येभ्यः किमित्यतो विशिनष्टि– न नरैरिति ॥ व्यसुभिर् विगतप्राणैः पाषाणादिभिः । असुमद्भिर् ग्रहादिभिः । ऐकपत्यम् ऐकाधिपत्यम् ॥ ३५–३७ ॥

प्रकाशिका

नन्वस्त्वियं मिश्रस्तुतिरिति वस्तुगतिस्तथापि हिरण्यकस्य तदैवमनुसन्धानं स्थित-मिति कुत इत्यतोऽत्र प्रमाणं पठति । ब्रह्मणोऽपीति । मूलेऽन्यस्मादपीति । नित्यात्प्रकृत्यादेः । त्वद्विसृष्टेभ्य इत्युक्तानेव प्रपञ्चयति । न नरैरिति ॥ ३६ ॥

मन्दनन्दिनी

वरान्वृणोति ॥ यदि दास्यसीत्यादि चतुःश्लोक्या ॥ योजना तु स्फुटा । त्वद्विसृष्टेभ्यस्त्वन्निमित्तेभ्यः ॥ नान्तरिति नञ् । आयुधैरित्यन्तं प्रत्येकं सम्बध्यते । अपिचशब्दौ समुच्चये । अन्यस्माद् विभक्तिवचनव्यत्ययः । देहावयवभिन्नैरायुधैः खड्गादिभिः ॥ ३५,३६ ॥

व्यसुभिर्वासुमद्भिर्वा सुरासुरमहोरगैः ।

अप्रतिद्वन्द्वता युद्धे ऐकपत्यं च देहिनाम् ॥ ३७ ॥

प्रकाशिका

व्यसुभिर्विगतप्राणैः पाषाणादिभिः । असुमद्भिर्ग्रहादिभिः । सुरासुरमहोरगरूपै-रसुमद्भिरिति वा । ऐकपत्यमेकाधिपत्यम् ॥ ३७ ॥

मन्दनन्दिनी

व्यसुभिर्वा व्यसुभिः शिलादिभिः । असुमद्भिः शत्रुनियुक्तैः श्वानादिभिः । वाशब्दान्नञनुवर्तते । सुरासुरमहोरगैरित्यत्रापि वाशब्देन नञनुवर्तते । मृत्युरिति सर्वत्रान्वेति । भवेदिति शेषः ॥ ३७ ॥

सर्वेषां लोकपालानां महिमानं तथाऽऽत्मनः ।

तपोयोगप्रभावेन यो न रिष्यति कर्हिचित् ॥ ३८ ॥

इति श्रीमद्भागवते सप्तमस्कन्धे तृतीयोऽध्यायः ।

पदरत्नावली

महिमानम्, वृण इति शेषः । आत्मनस् तव यो महिमा स यथा न रिष्यति न नश्यति तथा मम महिमा अस्तु । यो महिमा यथा कर्हिचिन् न रिष्यति तथाऽऽत्मनो मम महिमा न नश्यत्विति च ॥ ३८ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

सप्तमस्कन्धे तृतीयोऽध्यायः ॥

प्रकाशिका

तथाशब्दः समुच्चये । सर्वेषां लोकपालानां महिमानमात्मनो मम वृण इति शेषः । यो महिमा अन्येषां तपोयोगप्रभावेन कर्हिचिदपि न रिष्यति न नश्यति तं वृण इत्यन्वयः ॥ ३८ ॥

॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां

श्रीमद्भागतटिप्पण्यां सप्तमस्कन्धे तृतीयोऽध्यायः ॥

मन्दनन्दिनी

यो महिमा कर्हिचित्कदाचिदपि न रिष्यति न नश्यति तं महिमानमित्यन्वयः । द्वितीयान्तानां देहीत्यध्याहृतेनान्वयः ॥ ३८ ॥

**॥ इति श्रीमद्भागवतटिप्पण्यां श्रीव्यासतत्वज्ञविरचितायां **

मन्दनन्दिन्यां सप्तमस्कन्धे तृतीयोऽध्यायः ॥