०२ द्वितीयोऽध्यायः

भ्रातर्येवं विनिहते हरिणा क्रोडमूर्तिना

॥ अथ द्वितीयोऽध्यायः ॥

नारद उवाच–

भ्रातर्येवं विनिहते हरिणा क्रोडमूर्तिना ।

हिरण्यकशिपू राजन् पर्यतप्यद् रुषा शुचा ॥ १ ॥

पदरत्नावली

हिरण्यकशिपुः स्वतो विष्णुभक्तः, असुरावेशात् तद्द्वेषीत्ययं विवेकस्तद्वचनेन ज्ञातुं शक्य इत्येतदर्थमस्याध्यायस्य प्रारम्भः । तत्र प्रह्लादनामि्न पुत्रे द्वेषः कथं पितुरभूदित्यस्य प्रश्नस्य परिहारं वक्तुमारभते– भ्रातरीति ॥ हरिविषयरूषा । भ्रातृविषयशुचा ॥ १ ॥

प्रकाशिका

विद्वेषो दयिते पुत्रे कथमासीदिति प्रश्नस्योत्तरं वक्तुं तदुपयुक्तां कथामाह ॥ भ्रातरीति ॥ एवं देवपक्षपातेन हरिविषयरुषा भ्रातृविषयशुचा ॥ १ ॥

मन्दनन्दिनी

युधिष्ठिरकृतप्रश्नं प्रतिवक्तुं प्रारभते ॥ भ्रातरीति । भ्रातरि हिरण्याक्षे क्रोडमूर्तिना वराहमूर्तिना । रुषा हरिविषयककोपेन शुचा भ्रातृविषयकशोकेन पर्यतप्यत सन्तापमकार्षीत् ॥ १ ॥

आह चेदं रुषा पूर्णः सन्दष्टदशनच्छदः ।

कोपोज्ज्वलाभ्यां चक्षुर्भ्यां निरीक्षन् धूम्रमम्बरम् ॥ २ ॥

पदरत्नावली

दशनच्छद ओष्ठः । चक्षुषो रोचिषा यथा धूम्रं भवति तथा पश्यन् ॥ २ ॥

प्रकाशिका

सन्दष्टः दशनच्छदो ओष्ठो येन । उज्वलाभ्याम् उज्वलद्भ्यां तदुत्थितधूमेनैव धूम्रमभ्रम् ॥ २ ॥

मन्दनन्दिनी

दष्टो दशनच्छदोऽधरोष्ठो येन स हिरण्यकशिपुर्धूम्रं यथा भवति तथाऽम्बरं निरीक्षन् इदं वक्ष्यमाणमुवाच ॥ २ ॥

करालदंष्ट्रोग्रदृष्ट्या दुष्प्रेक्ष्यभ्रुकुटीमुखः ।

शूलमुद्यम्य सदसि दानवानिदमब्रवीत् ॥ ३ ॥

पदरत्नावली

भ्रुकुट्या नीलशिरया युक्तमुखः ॥ ३ ॥

प्रकाशिका

करालदंष्ट्राभिरुग्रदृष्ट्या च दुष्प्रेक्ष्यं भृकुटीयुक्तं मुखं यस्य स तथा ॥ ३ ॥

मन्दनन्दिनी

करालदंष्ट्रोग्रदृष्ट्या भयङ्करदंष्ट्राभिर्युक्तया उग्रदृष्ट्या निमित्तेन दुष्प्रेक्ष्यभ्रुकुटीमुखः प्रेक्षितुमशक्यभ्रुवोराक्रमयुक्तमुखः । इदं वक्ष्यमाणमब्रवीत् ॥ ३ ॥

हिरण्यकशिपुरुवाच–

भो भो दानव दैतेय द्विमूर्धंस्त्र्यक्ष शम्बर ।

शतबाहो हयग्रीव नमुचे पाक इल्वल ॥ ४ ॥

विप्रचित्ते मम वचः पुलोमन् शकुनादयः ।

शृृणुताऽनन्तरं सर्वैः क्रियतामाशु मा चिरम् ॥ ५ ॥

पदरत्नावली

हे पाक ॥ ४ ॥

मन्दनन्दिनी

सम्बोधनद्योतकस्य भो इत्यस्यादराद् द्विरुक्तिः । ‘‘स्युः प्याट् पाडङ्ग हे है भोः’’ इत्यमरः । भो भगो इति यादेशः । लोपो व्योरिति लोपः । दानवदैतेया इति सामान्यतः सम्बोधनम् । द्विमूर्धन्नित्यादि तन्नामकीर्तनम् । हयग्रीवेति तन्नामकदैत्यसम्बोधनम् । पाक इल्वलेत्यत्रा-विवक्षणात्संहिताभावेन तत्कार्य एकदेशाभावः । वाक्ये तु सा विवक्षामपेक्षत इत्युक्तेः । असंधिः काव्य एव दोषः । क्रियताम् । मदुक्तमिति शेषः । आश्वित्यस्य माचिरमिति विवरणं चिरं यथा न भवतीति

॥ ४, ५ ॥

सपत्नैर्घातितः क्षुद्रैर्भ्राता मे दयितस्सुहृत् ।

पार्ष्णिग्राहेण हरिणा समेनाप्युपधावनैः ॥ ६ ॥

पदरत्नावली

क्षुद्रैर् अल्पैः कपटिभिर्वा । पार्ष्णिग्राहेण पृष्ठावेक्षकेण बालकेन । ‘देवानां दानवानां च सामान्यमधिदैवतम्’ इत्यतः समेनापि उपधावनैः स्वोदर्चनैर् विषमेण ॥ ६ ॥

प्रकाशिका

समेनाप्युपधावनैर्भजनैर्निर्मित्तभूतैः । पार्ष्णिग्राहेण पक्षपातिना सता ॥ ६ ॥

मन्दनन्दिनी

क्षुद्रैरल्पैः सपत्नैः शत्रुभिः । अदितिपुत्रैरिति यावत् । वस्तुतो दैत्यादित्यसमेनापि उपधावनैर्देवकर्तृकोपसत्तिभिः । टीकायां स्योदवनैरिति लेखकदोषः । स्वपादवनैरित्येव स्वपादभजनै-रित्यर्थः । एवमुत्तरत्रापि लेखकदोषा मार्जनीयाः । तुष्टेन पार्ष्णिग्राहेण देवरक्षकेण हरिणा घातितो हननं प्रापित इति योजना । तदानीमदित्यां हरेरवताराभावेन हरेः साम्यं बलवत्त्वं चेति तस्य ज्ञानम् ॥ ६ ॥

तस्य त्यक्तस्वभावस्य घृणेर्मायावनौकसः ।

भजन्तं भजमानस्य बालस्येवास्थिरात्मनः ॥ ७ ॥

पदरत्नावली

त्यक्तस्वभावस्य त्यक्तसाम्यावस्थस्य । तत एवास्माभिर् घृणेः शोच्यस्य । ‘घृणिर्विभावसौ सूर्ये रश्मौ शोच्ये विघर्षणे’ इत्यभिधानम् । भजन्तं स्वात्मानं सेवमानं भजमानस्य प्रत्युपकारं कुर्वतः ॥ ७ ॥

प्रकाशिका

त्यक्तः स्वभावः समत्वरूपो येन तस्य । अत एव घृणेः शोच्यस्य । ‘‘घृणिर्विभावसौ सूर्ये रश्मौ शोच्ये विघर्षणे इत्यभिधानात् । भजन्तं स्वात्मानं सेव्यमानम् । भजमानस्यानुसरतः ॥ ७ ॥

मन्दनन्दिनी

स्वाभिप्रायमाविष्करोति ॥ तस्येति श्लोकद्वयेन । तस्य हरेः षष्ठ्यन्तानि तस्य विशेषणानि । त्यक्तस्वभावस्य त्यक्तसाम्यस्वभावस्य । घृणेः शोच्यस्य । ‘‘घृणिर्विभावसौ सूर्ये रश्मौ शोच्ये विघर्षणे’’ इत्यभिधानम् । मायावनौकसो मायया कापट्येन वनस्थानकवराहरूपस्येत्यर्थः । भजन्तं स्वसेवकं भजमानस्य स्वसेवानुसारेण फलदातुः । बालस्येवास्थिरात्मनश्चञ्चलमनस्कस्य ॥ ७ ॥

मच्छूलभिन्नग्रीवस्य भूरिणा रुधिरेण वै ।

युद्धप्रियं तर्पयिष्ये भ्रातरं मे हतव्यथः ॥ ८ ॥

मन्दनन्दिनी

युधि मच्छूलभिन्नग्रीवस्य तस्य भूरिणा रुधिरेण प्रियं भ्रातरं हतव्यथः सन् तर्पयिष्य इति योजना ॥ ८ ॥

तस्मिन् कूटेऽहिते नष्टे कृन्तमूले वनस्पतौ ।

विटपा इव शुष्यन्ति विष्णुप्राणा दिवौकसः ॥ ९ ॥

पदरत्नावली

अन्तर्दुष्टं दृश्यमानरमणीयं कूटम् । अस्थिरात्मनः कूटत्वादिभाववचनं मोहनार्थ-मासुरमतमुदीरितमिति ज्ञातव्यम् । तदुक्तम्– ‘विष्णुभक्तेश्च तज्ज्ञानादन्यतो मुक्तिवाचकाः । विष्णो-र्गुणह्रासवाचः श्रीब्रह्मादेस्तथा क्रमात् ॥ विष्ण्वादिद्वेषिणश्चैव सुखवाचस्तथाऽखिलाः । मोहनार्थाः समुद्दिष्टास्तथार्थद्योतकास्तथा ॥’ इति ॥ ९ ॥

प्रकाशिका

कूटे कपटिनि । अहिते वैरिणि ॥ ९ ॥

मन्दनन्दिनी

तस्मिन्नष्टेऽदृष्टे दुष्टे वा । कूटे कपटे हते सति । कृन्तमूले वनस्पतौ विटपाः शाखा इव विष्णुप्राणा दिवौकसः । अनायासेन शुष्यन्तीति योजना ॥ ९ ॥

तावद् यात भुवं यूयं ब्रह्मक्षत्रसमेधिताम् ।

सूदयध्वं तपोयज्ञस्वाध्यायव्रतदानकान् ॥ १० ॥

तात्पर्यम्

‘विप्रयज्ञादिमूलं तु हरिरित्यासुरं मतम् । हरिरेव हि सर्वस्य मूलं सम्यङ्मतो नृप’ इति ब्राह्मे ॥ १० ॥

मन्दनन्दिनी

अहं हरिमन्वेषयामि । यूयं तावद्विप्रादिसमेधितां भुवं यात । दानकानित्यत्र स्वार्थे कप्रत्ययः । यद्वा मत्वर्थे कः । तथा च तपादींस्तद्वतो ब्रह्मादीन्वा सूदयध्वंमिति योजना ॥ १० ॥

विष्णुर्द्विजक्रियामूलो यज्ञो धर्ममयः पुमान् ।

देवर्षिपितृभूतानां धर्मस्य च परायणम् ॥ ११ ॥

यत्र यत्र द्विजा गावो वेदा वर्णाश्रमाः क्रियाः ।

तं तं जनपदं यात सन्दीपयत वृश्च्यत ॥ १२ ॥

पदरत्नावली

द्विजक्रियामूलः द्विजाश्च यज्ञादिक्रियाश्च मूलं यस्य स तथा । भक्तिज्ञानादिक-मन्तरेण केवलं यागादिक्रियया प्रसन्नो भवतीत्येतदासुरं मतम् । ‘विष्णुभक्तेश्च तज्ज्ञानादन्यतो मुक्ति-वाचकाः’ इत्येतदत्रापि प्रमाणम् । द्विजैः क्रियमाणां यागादिक्रियां मूलयति प्रतिष्ठापयति इति द्विज-क्रियामूलमित्येतद् देवमतम् । ‘मूल प्रतिष्ठायाम्’ इति धतुः । इज्यत इति यज्ञः । धर्ममयः धर्मप्रधानः । दानादिधर्मेण प्रसीदति इत्येतदप्यासुरं मतम् । ‘यथार्थद्योतकः’ इति वचनाद्धारकतम इत्यन्योऽर्थः । परायणम् उत्तमाश्रय इत्येतद्देवमतम् ॥ सन्दीपयत दहत । वृश्च्यत छिन्दत ॥ ११, १२ ॥

मन्दनन्दिनी

तावता विष्णोः किमपकृतमित्यत आह ॥ विष्णुरिति ॥ देवर्षिपितृभूतानां धर्मस्य च परायणम् । मुख्याश्रयो यज्ञ इज्यत इति यज्ञः । पुमान्पुरुषः । धर्ममयो धर्मप्रधानो विष्णुः । द्विजक्रियामूलो द्विजानां ब्रह्मक्षत्रादीनां क्रिया तप आदिका मूलमुपोद्बलिका यस्य तादृशः । यत्र यत्र द्विजादयस्तं तं जनपदं यात । सन्दीपयत वह्निना ज्वलयत । वृश्च्यत । ओ व्रश्च् च्छेदन इति धातोः । छेदनं कुरुतेति योजना । तथा च द्विजानां यज्ञकारित्वेन गवां हविःसम्पादकत्वेन वेदानां मन्त्रादि-रूपत्वेन वर्णाश्रमोचितक्रियाणां विहितत्वेन विष्णुप्रीतिसाधनतया विष्णूपोद्बलकत्वेन तदपकारे विष्णोरपकृतं भवतीति भावः । विष्णोः स्वस्यैव सर्वमूलत्वेन द्विजक्रियामूलत्वमित्येतदासुरं मतम् । एवमन्यदपि विरुद्धमासुरं मतं बोध्यम् । अत एवात्र तात्पर्यम् ॥ विप्रयज्ञादिमूलं तु हरिरित्यासुरं मतम् । हरिरेव हि सर्वस्य मूलं सम्यङ्मतो नृप ॥’’ इति ब्राह्मे ॥ सर्वस्य मूलमित्यतःपरमितिशब्दोऽनुवर्तनीयः

॥ ११,१२ ॥

इति ते भर्तृनिर्देशमादाय शिरसाऽऽदृताः ।

तथा प्रजानां कदनं विदधुः कदनप्रियाः ॥ १३ ॥

पुरग्रामव्रजोद्यानक्षेत्रारामाश्रमाकरान् ।

खेटखर्वटघोषांश्च ददहुः पत्तनानि च ॥ १४ ॥

केचित् खनित्रेर्बिभिदुः सेतुप्राकारगोपुरान् ।

आजीव्यांश्चिच्छिदुर्वृक्षान् केचित् परशुपाणयः ।

प्रादहञ्छरणानन्ये प्रजानां ज्वलितोल्मुकैः ॥ १५ ॥

पदरत्नावली

कदनं (हिंसाव्यापारान्) । कद हिंसायाम् ॥ गवामावासस्थानं व्रजः, गोपाल-वसतिर्वा । आश्रमो मुनिनिवासः । आकरो रत्नाद्युत्पत्तिस्थानम् । खेटो नाट्यस्थानम् । खर्वटो वसन-विक्रयस्य स्थानम् । घोष आभीरपल्लिः । वणिग्भिरधिष्ठितं पत्तनम् ॥ आजीव्यान् वृक्षान् नारिकेल-क्रमुकपनसादीन् ॥ १३–१५ ॥

मन्दनन्दिनी

आज्ञानुसारेण भृत्यानां करणप्रकारमाह ॥ इति ते भर्तृनिर्देशमित्यादि सार्ध-श्लोकत्रयेण । योजना तु स्फुटा । कदनं हिंसाम् । कद हिंसायामिति धातोः । राजाधिष्ठानं पुरम् । ग्रामो बहुजनाकीर्णस्थानम् । व्रजं गवामावासस्थानम् । गोपालवसतिर्वा । आश्रमो मुनिवासः । उद्यानं महावनम् । क्षेत्रं श्रीमुष्णादि । आराम उपवनमाकरो रत्नाद्युत्पत्तिस्थानं खेटो नाट्यस्थानं खर्वटो वसनविक्रयस्थानं घोष आभीराणां पल्ली, पत्तनं वणिग्भिरधिष्ठितम् । आजीव्यान्नारिकेलक्रमुक-पनसादिवृक्षान् । शरणानि गृहाणि ॥ १३,१५ ॥

एवं विप्रकृते लोके दैत्येन्द्रानुचरैर्मुहुः ।

दिवं देवाः परित्यज्य भुवि चेरुरलक्षिताः ॥ १६ ॥

हिरण्यकशिपुर्भ्रातुः सम्परेतस्य दुःखितः ।

कृत्वा कटोदकादीनि भ्रातृपुत्रानसान्त्वयत् ॥ १७ ॥

शकुनिं शम्बरं धृष्टं भूतसन्तापनं वृकम् ।

कालनेमिं महानाभं हरिश्मश्रुमथोत्कलम् ॥ १८ ॥

तन्मातरं रुशद्भानुं दितिं च जननीं गिरा ।

श्लक्ष्णया देशकालज्ञ इदमाह जनेश्वर ॥ १९ ॥

पदरत्नावली

विप्रकृते विपरीतमापादिते विनाशिते । कटोदकं प्रेतमुद्दिश्य दीयमानमुदकम् । तन्मातरं तेषां मातरं नाम्ना रुशद्भानुं दितिं जननीं च श्लक्ष्णया गिरा इदमाहेत्यन्वयः ॥ १६–१९ ॥

मन्दनन्दिनी

एवं विप्रकृते विनाशिते लोके लोकपाला देवा अलक्षिता अदृष्टाः ॥ कटोदकं धर्मोदकम् । शकुनिमित्यादीनि नव पुत्रनामानि । रुशद्भानुं हिरण्याक्षपत्नीम् । जननीं हिरण्याक्षमातरम् । देशकालज्ञो मृतस्य पुत्रादिगृहे तत्काले यद्वक्तव्यं तत्ज्ञः । श्लक्ष्णया मनोहरया गिरा इदमाहेत्यन्वयः

॥ १६–१९ ॥

हिरण्यकशिपुरुवाच–

अम्बाम्ब हे वधूः पुत्रा वीरं माऽर्हथ शोचितुम् ।

रिपोरभिमुखे श्लाघ्यः शूराणां वध ईप्सितः ॥ २० ॥

भूतानामिह संवासः प्रपायामिव सुव्रते ।

दैवेनैकत्र नीतानामुन्नीतानां तथाऽध्रुवः ॥ २१ ॥

पदरत्नावली

हे वधूर् हे सहोदरभार्ये हे पुत्राश्च । परेण वध ऐहिकामुष्मिकजनश्लाघ्यो न भवतीति कृत्वा शोकः ? उत अत्रैव कञ्चित् कालं जीवानीत्यभीष्टहान्या, अहोस्वित् पितृमातृपुत्र-भावस्य क्षणिकतेति ? तत्र प्रथमद्वितीयौ प्रत्याह– रिपोरिति ॥

इह कर्मभुवि दैवेन विधिना, अन्यत्र हरिणा वा एकत्र नीतानां संमिलितानाम् उन्नीतानां पुत्रपौत्रादिसमृद्धिं प्रापितानां भूतानामेकत्र संवासः सहवासः प्रपायां पानीयशालायामिव यथा अध्रुवस् तथाऽनित्यो भवतीत्यन्वयः । ‘प्रपा पानीयशाला स्यान्मन्त्रशाला प्रतिश्रयः’ इत्यभिधानम् ॥२०,२१॥

मन्दनन्दिनी

अम्बाम्बेति दितेर्वधूरिति रुशद्भानोः सम्बोधनम् । श्लाघ्यो जनैः शूराणामीप्सित इष्टः । अनेन श्लाघ्याऽभीप्सितप्राप्त्या शोको न कार्य इत्युक्तं भवति । नाप्येकत्र संवासो गत इति तस्याध्रुवत्वनियमादित्याह ॥ भूतानामिति ॥ प्रपायां नानापथा गच्छद्भ्यो दीयमानपानीयशालायाम् । ‘‘प्रपा पानीयशाला स्यान्मन्त्रशाला प्रतिश्रय’’ इत्यभिधानम् । दैवेन कर्मवशेनैकत्र नीतानां सङ्गतानां तथा पूर्वं पश्चाच्चोन्नीतानां वियुक्तानां संवासोऽध्रुव इति योजना ॥ २०,२१ ॥

नित्य आत्माऽव्ययः शुद्धः सर्ववित् सर्वगः परः ।

धत्तेऽसावात्मनो लिङ्गं मायया विसृजन् गुणान् ॥ २२ ॥

यथाऽम्भसा प्रचलता तरवोऽपि चला इव ।

चक्षुषा भ्राम्यमाणेन दृश्यते भ्रमतीव भूः ॥ २३ ॥

एवं गुणैर्भ्राम्यमाणे मनस्यविकलः पुमान् ।

याति तत्साम्यतां भद्रे ह्यलिङ्गो लिङ्गवानिव ॥ २४ ॥

तात्पर्यम्

**धत्तेऽसावात्मनो लिङ्गं जीवमनआदीनामाधारं ब्रह्म ॥ लिङ्गवानिव । जीव इव । ‘असमं समतामेति भ्रान्तिदृष्ट्यैव केवलम् । जीवेन ब्रह्म न समं तत्त्वदृष्ट्या कथञ्चन’ इति षाड्गुण्ये ॥ ‘यथोदचलनाद् वृक्षप्रतिबिम्बप्रचालनात् । तटस्थवृक्षचलनं कल्पयेदबुधो नरः । तथा मनसिजैर्दोषैराभासे दूषिते नरे । आभासिनो ब्रह्मणश्च दोषमज्ञः प्रकल्पयेत् । आत्मन-श्चक्षुषो भ्रान्त्या यथा पश्येद्भ्रमं भुवः । तथैव स्वात्मनो दोषाद्दोषवद्ब्रह्म पश्यति’ इति ब्रह्मतर्के **

॥ २२,२४ ॥

पदरत्नावली

भूतानां सहवासोऽनित्यश्चेत् तर्हि केन सह वासो नित्य इत्याशङ्क्य सर्वगतत्वात्, जीवस्य मनआदीन्द्रियाधारत्वाच्च हरिणा सह वासो नित्यः । ‘सता सोम्य तदा सम्पन्नो भवति’ ‘प्राज्ञेनात्मनाऽन्वारुढ उत्सर्जयाति’ इत्यादिना सुप्तिमरणावस्थयोरपि सहस्थित्युक्तेरन्यदा किं वक्तव्य-मित्याशयेन दैवं मतमाह– नित्य इति ॥ असौ हरिर् आत्मनो जीवस्य मनआदीन्द्रियजातं धत्ते । तस्याधारभू इत्यर्थः । नित्यत्वादिकं स्वरूपत्वेनोच्यते । पर इति जीवव्यावर्तकम् । मायया स्वेच्छया वासनया वा । गुणान् शब्दादीन् । विसृजन् ददानः । संसारिण इव देहेन, मनआदीन्द्रियाणां (परमात्मना) नित्यसम्बन्धो युज्यत इत्यतः सर्वगत इत्युक्तम् । प्रपायां प्राणिसहवासवत् परमात्मनो देहसम्बन्धोऽनित्य इत्याशयेन असुरमतमप्यनेनोच्यते । गुणान् विसृजन् बुभूषुरसावात्मा परमात्मा आत्मनो भोगायतनं लिङ्गं कर्मज्ञानेन्द्रियपञ्चवायुमनसां समुदितरूपं शरीरं धत्ते । माययेत्युक्त्या अनित्यो देहसम्बन्ध इति ॥

इतोऽप्यविद्याबलाद्ब्रह्मैव संसारीत्येतदासुरं मतमित्याशयेनाह– यथेति ॥ एवं गुणैर् भ्राम्यमाणे इतस्ततश्चञ्चलीक्रियमाणे मनसि अविकलः पुमान् पूर्णपुरुषः श्रीनारायणस् तस्य जीवस्य साम्यतां दोषित्वं संसारित्वं यातीति प्रतीयते । कथमिव ? लिङ्गवानिव जीव इव । मनोदोषैराभासे ब्रह्मप्रतिबिम्बे जीवे दूषिते तद्विषयज्ञानहीने सति तन्महाभासो बिम्बभूतस्य ब्रह्मणोऽपि दुष्टत्वं कल्पयतीत्यर्थः । न चेतदुपपत्तिमदित्याह– अलिङ्ग इति ॥ नीरूपं (ब्रह्म)। तस्मादघटिताविद्याकल्पितमित्यर्थः । अन्यत्र प्राकृतशरीररहितः । कथमिव ? प्रचलताऽम्भसा तरवोऽपि प्रचला इव दृश्यन्ते यथा, जलसंचलनाद् जले प्रतिबिम्बितवृक्षसंचलनात् तटस्थनिश्चलवृक्षसंचलनं कल्पयत्यज्ञस्तथेति । नन्वत्र प्रतिबिम्बितवृक्ष-चलनेन तटस्थवृक्षचलनकल्पनमुन्मत्तकल्पनमेव । प्रत्यक्षेणान्यथा दृश्यमानत्वादित्युक्त्या दृष्टान्तान्तर-माह– चक्षुषेति ॥ यथा परिभ्रमतः पुरुषस्य भ्राम्यमाणेन चक्षुषा भूर्भ्रमतीव दृश्यते । ‘असमं समतामेति भ्रान्तिदृष्ट्यैव केवलम् । जीवेन ब्रह्म न समं तत्वदृष्ट्या कथञ्चन ॥ यथोदचलनाद् वृक्षप्रतिबिम्ब-प्रचालनात् । तटस्थवृक्षचलनं कल्पयेदबुधो जनः ॥ तथा मनसिजैर्दोषैराभासे दूषिते नरे । आभासिनो ब्रह्मणश्च दोषमज्ञः प्रकल्पयेत् ॥ आत्मनश्चक्षुषोर् भ्रन्त्या तथा पश्येद् भ्रमं भुवः । तथैव स्वात्मनो दोषाद् दोषवद् ब्रह्म पश्यति ॥’ इत्येतत्प्रमाणसिद्धत्वादुक्त एवार्थो न त्वितरः । विष्णुर्द्विजक्रियामूल इत्यारभ्योच्यमानं दैवमासुरं चेत्युभयमतमिति ज्ञापनाय ‘विप्रयज्ञादिमूलं तु हरिरित्यासुरं मतम् । हरिरेव हि सर्वस्य मूलं सम्यङ्मतो नृप ॥’ इत्येतद्वाक्यमाचार्यैरुदाहृतम् । उपर्यप्यनुसन्धानाय वा ॥ २२–२४ ॥

मन्दनन्दिनी

तत्त्वमुपदिशति ॥ नित्य आत्मेत्यादिना श्लोकपञ्चकेन । नित्यः स्वरूपतोऽ-व्ययो देहतोऽपि व्ययरहितः । शुद्धो गुणत्रयरहितः । सर्ववित्सर्वज्ञः । सर्वगः सर्वत्र गतः । परः स्वतन्त्रः । असावात्मा हरिर्गुणान्पूर्वं सौक्ष्म्येण विद्यमानान् आदिसृष्टौ स्वमायया स्वेच्छया विसृजन् आत्मनो जीवस्य लिङ्गं मनआदिषोडशकलात्मकलिङ्गशरीरं धत्ते धारयति । पुष्णाति चेति योजना । एतदेवाभिप्रेत्य तात्पर्यम् ॥ जीवमनआदीनामाधारं ब्रह्मेति ॥ अत्र धत्त इत्यनेन नियामकत्वेन भगवतोऽन्तःस्थितत्वप्राप्त्या जीवस्येव गुणप्रयुक्तो बन्धस्तस्यापि स्यादित्यतः स्वातन्त्र्यपारतन्त्र्याभ्यां सम्भोगो नेशजीवयोरित्युक्तरीत्या तस्य न बन्धः । किं त्वज्ञेन बद्धजीवेन तत्समीपस्थो भगवानपि भ्रांत्या तथा दृश्यत इत्याह ॥ यथेति ॥ नौकादिकमधिरुह्य जले गच्छतः पुंसः प्रचलताऽम्भ-साऽम्भोगतप्रतिबिम्बभूततरुसमूहेन निमित्तेन तीरस्थतरवोऽपि यथा चला इव दृश्यन्ते । यथा वा चक्षुषा भ्राम्यमाणेन भ्रमणयुक्तेन भूरपि भ्रमतीव दृश्यते ॥

एवं गुणैर्भ्राम्यमाणेऽज्ञानभ्रमादिबन्धयुक्ते । ‘‘मननान्मन उद्दिष्ट’’ इत्युक्तेर् मनसि जीवे । अविकलो वैकल्यरहितः पुमान्परमपुरुषोऽलिङ्गो लिङ्गशरीररहितो लिङ्गवान् जीवभ्रांत्या । तत्साम्यताम् । स्वार्थे ष्यञ् । तत्साम्यतां यातीति योजना । एतत्सर्वमभिप्रेत्य प्रवृत्तं तात्पर्यम् ॥ लिङ्गवानिव जीव इव ।

असमं समतामेति भ्रान्तिदृष्ट्यैव केवलम् ।

जीवेन ब्रह्म न समं तत्त्वदृष्ट्या कथञ्चन ॥ इति षाड्गुण्ये ।

यथोदचलनाद्वृक्षप्रतिबिम्बप्रचालनात् ।

तटस्थवृक्षचलनं कल्पयेदबुधो नरः ।

तथा मनसिजैर्दोषैराभासे दूषिते नरे ।

आभासिनो ब्रह्मणश्च दोषमज्ञः प्रकल्पयेत् ।

आत्मनश्चक्षुषो भ्रान्त्या यथा पश्येद्भ्रमं भुवः ।

तथैव स्वात्मनो दोषाद्दोषवद्ब्रह्म पश्यति ॥ इति ब्रह्मतर्के ॥

असमं ब्रह्म तत्त्वदृष्ट्या न समम् । आभासे नरे प्रतिबिम्बभूते जीवे । आभासिनो बिम्बस्य । आत्मनः स्वस्य भ्रान्त्या चलनेन भ्रमं चलनमित्यर्थः ॥ २२२४ ॥

एष आत्मविपर्यासो ह्यलिङ्गे लिङ्गभावना ।

एवं प्रियाप्रियैर्योगो वियोगः कर्मसंसृतिः ॥ २५ ॥

पदरत्नावली

परमात्मानमेवं जानतः किं फलम् ? तत्राह– एष इति ॥ अलिङ्गे प्राकृत-देहेन्द्रियादिरहिते, अत एव परतन्त्रत्वादिसर्वदोषरहिते परमात्मनि या लिङ्गभावना प्राकृतदेहेन्द्रियात्म-त्वादिचिन्ता, एष आत्मनः स्वस्यैवायोग्यस्य जनस्य विपर्यासस् तमःप्राप्तिलक्षणोऽनर्थो भवति । इहापि, यथा परत्र तमोलक्षणोऽनर्थः, एवं प्रियाप्रियादियोगवियोगादिलक्षणा पूर्वकर्मानुसारेण संसृतिर्भवति ॥ २५ ॥

मन्दनन्दिनी

एवमुक्तरीत्याऽलिङ्गे लिङ्गशरीररहिते लिङ्गाभावाना । अर्शाद्यच् । लिङ्ग-शरीरयुक्तस्य जीवस्य भावना साम्यबुद्धिः । य एषः प्रक्रम्यमानपरामर्शित्वात्पुल्लिङ्गम् । आत्मविपर्यासः परमात्माधिष्ठानको भ्रमः । तस्य फलमाह ॥ एवमिति ॥ एवं भ्रमे सति प्रियाप्रिययोगादयो दोषा भवन्तीति योजना । वियोगो बन्धुभिः । कर्म पापम् । संसृतिः संसारबन्धः ॥ २५ ॥

सम्भवश्च विनाशश्च शोकश्च विविधः स्मृतः ।

अविवेकश्च चिन्ता च विवेकस्मृतिरेव च ॥ २६ ॥

तात्पर्यम्

विवेकस्मृतिर् अविवेकिन एव विवेकित्वभ्रान्तिः । ‘अन्तर्हिरण्यकादीनां भक्तिरस्त्येव केशवे । असुरावेशतस्त्वन्यान् हरिस्तोतृन्द्विषन्ति च’ ॥ इति पाद्मे ॥ २६ ॥

पदरत्नावली

(संसृतिः)कीदृशीति विशिष्याह– सम्भव इति ॥ अज्ञानपूर्तिपर्यन्तं पुनः पुनः सम्भवः । तस्मिन् सति स्वरूपविनाशः । विवेकस्मृतिर् अविवेकिन एव विवेकभ्रान्तिर् ज्ञानित्व-भ्रान्तिः । असुरसिद्धान्तनिष्ठितस्य हिरण्यकशिपोरेवं देवसिद्धान्तोपन्यासेन कथं स्वबन्धुबोधनमितीय-माशङ्का ‘अन्तर्हिरण्यकादीनां भक्तिरस्त्येव केशवे । असुरावेशतस्त्वन्यान् हरिस्तोतॄन् द्विषन्ति च ॥’ इत्यनेन परिहरणीयेति ॥ २६ ॥

मन्दनन्दिनी

स्मृतोऽनुभवसिद्धो विविधशोकश्च विवेकःस्मृतिर् वस्तुतोऽविवेकिन एव । अविवेकेऽसम्यग्ज्ञाने विवेकस्मृतिः सम्यग्ज्ञानमिति भ्रान्तिरित्यर्थः । अतो दोषमध्ये परिगणनं युक्तम् । एतदेवाभिप्रेत्य तात्पर्यम् ॥ विवेकस्मृतिरविवेकिन एव विवेकित्वभ्रान्तिरिति ॥ अत्र तत्त्वोपदेशे हिरण्य-कशिपोः केशवे भक्तिः प्रतीयते । अतः कथं तत्स्तोतारं प्रह्लादं द्वेष्टीत्यत आह तात्पर्यकृत् ॥ अन्तर्हिरण्यकादीनां भक्तिरस्त्येव केशवे । असुरावेशतस्त्वन्यान् हरिस्तोतॄन्द्विषन्ति च ॥’’ इति पाद्मे

॥ २६ ॥

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।

यमस्य प्रेतबन्धूनां संवादं तं निबोधत ॥ २७ ॥

पदरत्नावली

पुत्रमित्रकलत्रादिभिः सह निवासो दैवाधीन इति मत्वा शोको न कार्य इत्यस्मिन्नर्थ इतिहासलक्षणकथाऽस्तीत्याह– अत्रेति ॥ २७ ॥

मन्दनन्दिनी

भूतानामिह संवासोऽध्रुव इति न केवलं मयोक्तं किं त्वत्रेतिहासमप्युदाहर-तीत्याह ॥ अत्रेति ॥ प्रेतबन्धूनां कस्यचिन्मृतस्य ज्ञातीनाम् । तमितिहासं निबोधत जानीत । बुद्ध्यतेर्व्यत्ययेन शप् ॥ २७ ॥

उशीनरेष्वभूद् राजा सुयज्ञ इति विश्रुतः ।

सपत्नैर्निहतो युद्धे ज्ञातयस्तमुपासत ॥ २८ ॥

मन्दनन्दिनी

उशीनरेषूशीनरस्य जनपदेषु । तद्राज्यस्य । लुग्बहुष्विति लुक् । ज्ञातयो बान्धवा उपासन्त तद्विषयकचिन्तामकुर्वन् ॥ २८ ॥

विशीर्णरत्नकवचं विभ्रष्टाभरणस्रजम् ।

शरनिर्भिन्नहृदयं शयानमसृगाविलम् ॥ २९ ॥

पदरत्नावली

असृगाविलं रुधिररूषितम् । स्तब्धाक्षं निश्चलनेत्रम् । रजःकुण्ठं धूलिधूसरं मुखाम्भोजं यस्य स तथा तम् । छिन्न आयुधयुक्तभुजो यस्य स तथा तम् ॥ २९ ॥

मन्दनन्दिनी

असृगाविलं रक्तेन व्याप्तम् ॥ २९ ॥

विकीर्णकेशं स्तब्धाक्षं संरम्भाद् दष्टदच्छदम् ।

रजःकुण्ठमुखाम्भोजं छिन्नायुधभुजं मृधे ॥ ३० ॥

पदरत्नावली

स्तब्धाक्षं निश्चलनेत्रम् । रजःकुण्ठं धूलिधूसरं मुखाम्भोजं यस्य स तथा तम् । छिन्न आयुधयुक्तभुजो यस्य स तथा तम् ॥ ३० ॥

मन्दनन्दिनी

स्तब्धाक्षं निश्चलनेत्रम् । संरम्भात्कोपात् । रजःकुण्ठमुखाम्भोजं धूलिधूसरं मुखाम्बुजं यस्य तम् । छिन्न आयुधयुक्तभुजो यस्य तम् ॥ ३० ॥

उशीनरेन्द्रं विधिना तथाकृतं

पतिं महिष्यः प्रसमीक्ष्य दुःखिताः ।

हताः स्म नाथेति करैरुरो भृशं

घ्नन्त्यो मुहुस्तत्पदयोरुपापतन् ॥ ३१ ॥

मन्दनन्दिनी

तत्पदयोः पत्युः पदयोः ॥ ३१ ॥

रुदन्त्य उच्चैर्दयिताङ्घ्रिपङ्कजं

सिञ्जन्त्य औः कुचकुङ्कुमारुणैः ।

विस्रस्तकेशाभरणाः शुचं नृणां

सृजन्त्य आक्रन्दनया विलेपिरे ॥ ३२ ॥

पदरत्नावली

कुचकुंकुमधूलिभिररुणवर्णैः । आक्रन्दनया उच्चरोदनेन नृणां शुचः शोकान् सृजन्त्यः कुर्वाणा विलेपिरे परिदेवनं चक्रुः ॥ ३२ ॥

प्रकाशिका

शुचः शोकान् । सृजन्त्यः कुर्वाणाः । विलेपिरे प्रलापनं चक्रुः ॥ ३२ ॥

मन्दनन्दिनी

आक्रन्दनयोच्चरोदनेन नृणां शोचं सृजन्त्यः कुर्वाणा विलेपिरे परिदेवनं चक्रुः

॥ ३२ ॥

अहो विधात्राऽकरुणेन नः प्रभो

भवान् प्रणीतो धिगगोचरं दृशाम् ।

उशीनराणामपि वृत्तिदः पुरा

कृतोऽधुना येन शुचां विवर्धनः ॥ ३३ ॥

पदरत्नावली

नो दृशां चक्षुषाम् अगोचरम् अविषयं (देशं) नीतः । येन विधिना ॥ ३३ ॥

प्रकाशिका

नः दृशामगोचरम् अविषयम् । देशं प्रणीतः गमितः । येन विधिना पुरा उशीनराणां वृत्तिदः कृतोऽसि तेनैवाधुना शुचां विवर्धनः कृतोऽसि ॥ ३३ ॥

मन्दनन्दिनी

हे प्रभो नाथ । भवान्येनाकरुणेन विधात्रा नोऽस्माकं दृशामगोचरमविषयं देशं नीतः । उशीनराणां वृत्तिदः कृतोऽधुना शुचां विवर्धनः कृतः । तं विधातारं धिक् । अहो आश्चर्यमिति योजना ॥ ३३ ॥

त्वया कृतज्ञेन वयं महीपते

कथं विना स्याम सुहृत्तमेन ।

तत्रानुयानं तव वीर पादयोः

शुश्रूषतीनां दिश यत्र यास्यसि ॥ ३४ ॥

पदरत्नावली

स्याम सत्तां प्राप्नुमः । तर्हि किं कर्तव्यम् ? तत्राह– तत्रेति । यत्र यास्यसि तत्र पादयोर् अनुयानं दिश ॥ ३४ ॥

प्रकाशिका

त्वया विना कथं स्याम भवेम । अतः हे वीर यत्र त्वं यास्यसि तत्र अनुयानम् अनुगमनं शुश्रूषतीनां श्रुश्रूषां कुर्वतीनाम् अस्माकं दिश देहि ॥ ३४ ॥

मन्दनन्दिनी

हे महीपते सुहृत्तमेन कृतज्ञेन त्वया विना कथं स्याम तिष्टेम । हे वीर तव पादयोः शुश्रूषतीनामस्माकं त्वं यत्र यास्यसि तत्रानुयानं दिशेति योजना ॥ ३४ ॥

एवं विलपतीनां वै परिगृह्य मृतं पतिम् ।

अनिच्छतीनां निर्हारमर्कोऽस्तं सन्न्यवर्तत ॥ ३५ ॥

पदरत्नावली

निर्हारं दाहम् ॥ ३५ ॥

प्रकाशिका

निर्हारं दाहम् ॥ अस्तम् अस्ताचलं प्रति ॥ ३५ ॥

मन्दनन्दिनी

निर्हारं शवर्निहरणम् । अनिच्छन्तीनां मृतं पतिं परिगृह्यैवं विलपतीनां सतीनाम् । विलपतीषु सतीष्विति यावत् । यस्य च भावेन भावलक्षणमिति षष्ठी । अर्कोऽस्तं यथा भवति तथा संन्यवर्तत रथनिवर्तनमकरोदिति योजना ॥ ३५ ॥

तत्र ह प्रेतबन्धूनामाश्रुत्य परिदेवनम् ।

आह तान् बालको भूत्वा यमः स्वयमुपागतः ॥ ३६ ॥

पदरत्नावली

हेत्यनेन कथान्तरप्रसक्तिं सूचयति ॥ ३६ ॥

मन्दनन्दिनी

परिदेवनं विलापनम् । योजना तु स्फुटा ॥ ३६ ॥

यम उवाच–

अहो अमीषां वयसाऽधिकानां विपश्यतां लोकविधिं विमोहः ।

यत्रोद्भवस्तत्र गतं मनुष्यं स्वयं सधर्मा अनुशोचन्त्यपार्थम् ॥ ३७ ॥

तात्पर्यम्

यत्रोद्भवस्तत्र गतम् अदर्शनं गतम् । ‘अदर्शनादिहायातः पुनश्चादर्शनं गत’ इति भारते ॥ ३७ ॥

पदरत्नावली

यमो मा कुरुध्वं यूयं शोकं युष्मभ्यं सुयज्ञो दत्त इत्यादेरिति तत्राह– अहो इति ॥ लोकविधिं जन्ममरणादिप्रकारं विपश्यताम् अमीषां प्रेतबन्धूनां विमोहो ऽहो दिक् । स्वयं सधर्मा जन्मादिसमानधर्मा अमी बन्धवः यत्र यस्य मनुष्यदर्शनायोग्यात् स्वर्गनरकादन्यत्र उद्भव उत्पत्तिर् देहयोगलक्षणाऽभूत् तं तत्र तद् अस्मच्चक्षुरगोचरं स्वर्गादिकं गतं मनुष्यमनुशोचन्तीति यत् तद् अपार्थं व्यर्थम् । गतानुगतिकत्वात् । ‘अदर्शनादिहायातः पुनश्चादर्शनं गतः’ इति वचनात् । यत्र स्वर्गादेरुद्भवः यस्य स यत्रोद्भवस् तत्र गतं स्वर्गादिगतमिति वा । अपार्थमनुशोचन्तीति वा ॥ ३७ ॥

प्रकाशिका

लोकस्य विधिं जननमरणादिप्रकारं विशेषेणापि पश्यतामपि विमोहः । विमोह-मेवाह ॥ यत्रेति । अत्र यत्रोद्भवस्तत्र गतमित्यस्य प्रकृतसङ्गतमर्थं सप्रमाणकमाह ॥ यत्रोद्भव इति । न विद्यते दर्शनं साक्षात्कारो यस्य तददर्शनम् अतीन्द्रियं स्वर्गादिकम् । तथा च यत्र यस्मात्स्वर्गनरका-देरायात्तस्येहोद्भवस्तत्र तत्स्वर्गाधिकं गतं मनुष्यं प्रति अपार्थं व्यर्थम् अनुशोचन्ति । जननमरणयोर-परिहार्यत्वान्न शोकः प्रेक्षावता कार्यः । एते च तत्रापरिहार्येऽर्थे वृथा शोकं कुर्वन्त्यतो विमोह इत्याशयः । कथम्भूताः स्वयं सधर्माः । मृतेन सह समानो मृत्युपलक्षणो धर्मो येषां ते तथाऽतोऽपि विमोह इति मूलार्थः ॥ ३७ ॥

मन्दनन्दिनी

बालरूपस्य यमस्योक्तिप्रकारमाह ॥ अहो इति ॥ मतो वयसाऽधिकानां लोकविधिं मर्त्यलोकस्थितिं विपश्यताममीषां प्रेतबन्धूनामेषो विमोहो अहो आश्चर्यकरः । एष कः । यत्र पूर्वमदर्शनम् उद्भव उत्पत्तिः । तत्र तद्दर्शनं गतं मनुष्यं स्वयं सधर्मास्तादृशोत्पत्त्यादिमतोऽपार्थं व्यर्थ-मनुशोचन्तीति य इति योजना । एतदेवाभिप्रेत्य तात्पर्यम् ॥ यत्रोद्भवस्तत्र गतमदर्शनं गतम् । ‘‘अदर्शनादिहायातः पुनश्चादर्शनं गत’’ ॥ इति भारते ॥ ३७ ॥

अहो वयं धन्यतमा यदत्र

त्यक्ताः पितृभ्यां न विचिन्तयामः ।

अभक्ष्यमाणा अबला वृकादिभिः

स रक्षिता रक्षति यो हि गर्भे ॥ ३८ ॥

पदरत्नावली

सर्वस्य दैवाधीनत्वं स्वानुभवसिद्धमिति ज्ञापयति– अहो इति ॥ यद्वा यत्र उत्पन्नं तत्र पृथिव्यादिगतं मनुष्यशरीरं प्रति व्यर्थमनुशोचन्तीति । तस्मात् सर्वं दैवाधीनमिति मत्वा न शोकः कार्य इत्याशयेनाह– अहो वयमिति ॥ पितृभ्यां मातापितृभ्याम् । अबला दुर्बलाः । कुतश्चिन्ता नास्तीति तत्राह– स रक्षितेति ॥ यो गर्भे अस्मान् रक्षति स भगवान् अधुना बहिर्गतान् रक्षिता हि यस्मात्, तस्मादिति शेषः ॥ ३८ ॥

प्रकाशिका

स्थितिमरणादिकं सर्वं भगवदधीनमिति जानतां नैतादृशशोकप्रसक्तिरित्यत्र वयमेवोदाहरणमित्याह ॥ अहो वयमिति ॥ अबला दुर्बला अपि वृकादिभिरभक्ष्यमाणा वयं न विचिन्तयामः,अस्माकं रक्षिता क इति चिन्तां न कुर्मः । कुतः । स परमात्मा रक्षति इति निश्चयवन्तो यत इति शेषः ॥ ३८ ॥

मन्दनन्दिनी

बन्धुवियोगेनानुशोचनस्याकार्यत्वमुक्त्वा तादृशचिन्तारहितस्य स्वस्य धन्यत्वं रक्षकाभावे रक्षणं कथमित्यतो भगवत एव रक्षकत्वं चाह ॥ अहो वयमिति ॥ अत्र लोके पितृभ्यां मातापितृभ्यां त्यक्ताः । रक्षकरहिता इति यावत् । अबला दुर्बला अपि वृकादिभिरभक्ष्यमाणाः । यो हि गर्भे रक्षति स एव सर्वदाऽपि रक्षिता रक्षक इति निश्चित्य मातापितृवियोगादिकं न विचिन्तयामः । यद्यस्मादहो तस्माद्वयं धन्यतमा हीति योजना ॥ ३८ ॥

य इच्छयेशः सृजतीदमव्ययो य एव रक्षत्यवलुम्पते यः ।

तस्याबलाः क्रीडनमाहुरीशितुश्चराचरं निग्रहसङ्ग्रहे प्रभोः ॥ ३९ ॥

पदरत्नावली

न केवलं रक्षिता अपि तु सृष्ट्यादिकर्ताऽपि । अतः संशयो न कार्य इति भावेनाह– य इच्छयेति ॥ अत इच्छयेति इच्छाग्रहणेन सर्वत्र सृष्टिप्रसङ्गे मायाशब्दस्येच्छार्थो ज्ञायते । हे अबलाः सृष्ट्यादिकर्ता यतोऽतः मरणलक्षणस्य निग्रहस्य सङ्ग्रहे परिहारलक्षणे प्रभोः समर्थस्य तस्येशितुश् चराचरं क्रीडनं लीलासाधनम् ॥ ३९ ॥

प्रकाशिका

ननु प्राणिनां मरणादिकम् अवाप्तसमस्तकामो भगवान् किमर्थं करोतीत्यपेक्षाया-मिच्छयैव सर्वजगज्जन्मादिकर्तुरियं केवलं क्रीडेत्याह । य इच्छयेति ॥ हे अबलाः । तस्य प्रभोर् ईशितु-श्चराचरं निग्रहेण मरणेन सहिते सङ्ग्रहे पालने विषये क्रीडासाधनमाहुः । न ताभ्यां तस्य प्रयोजन-मित्याशयः ॥ ३९ ॥

मन्दनन्दिनी

अन्यसृष्टं संहारके चास्मिन् सति प्रयोजनाभावे च कथं रक्षतीत्यतः सृष्ट्यादि-कर्तैक एव । प्रयोजनाभावेऽपि रक्षणादिव्यापारेच्छारूपस्य भगवतः क्रीडैव । देवस्यैष इति श्रुतेः । जगच्च क्रीडोपकरणमित्याशयेनाह ॥ य इच्छयेति ॥ हे अबलाः । य एवेदं स्वेच्छयैव सृजति य एव रक्षति अवलुम्पते संहरति । स्वयमव्ययः । तस्य निग्रहसङ्ग्रहे सृष्ट्यादिना सङ्ग्रहे संहारदिना निग्रहे प्रभोः समर्थस्येशितुः स्वामिनश्चराचरं क्रीडनं क्रीडोपकरणमाहुर्विद्वांस इति योजना ॥ ३९ ॥

पथि च्युतं तिष्ठति दिष्टरक्षितं

गृहे स्थितं तद्विहतं विनश्यति ।

जीवत्यनाथोऽपि तदीक्षितो वने

गृहेऽपि गुप्तोऽस्य हतो न जीवति ॥ ४० ॥

पदरत्नावली

दैवाधीनं जगत् सर्वमित्युक्तेः कथमीश्वराधीनं चराचरमित्याशङ्क्य दिष्टदैवादि-शब्देन संस्तुतोऽच्युत इत्याशयेनाह– पथीति ॥ भक्तायाऽभीष्टं दिशतीति दिष्टशब्दवाच्यो मुकुन्दः । तेन रक्षितम् । तेन विहतम् । अस्य अनेन हतः । (अस्य) सकाशाद् इति वा ॥ ४० ॥

प्रकाशिका

स्थितिमरणयोर्भगवदधीनत्वमन्वयव्यतिरेकाभ्यामुपपादयति ॥ पथिच्युतमिति ॥ दिष्टेन दैवेनेश्वरेण । तेनेश्वरेण विहतम् । अस्यानेन ॥ ४० ॥

मन्दनन्दिनी

रक्षणादिकं भगवदधीनमेव न जीवव्यापाराधीनम् । तस्यान्वयव्यतिरेक-व्यभिचारादित्याशयेनाह ॥ पथिच्युतमिति ॥ अत्र दिष्टशब्देन भगवानभिधीयते । अस्यानेन । योजना तु स्फुटा ॥ ४० ॥

भूतानि तैस्तैर्निजयोनिकर्मभिर्भवन्ति काले न भवन्ति सर्वशः ।

न तत्र हात्मा प्रकृतावपि स्थितस्तस्या गुणैरन्यतमो निबध्यते ॥ ४१ ॥

तात्पर्यम्

अन्यतम आत्मा परमात्मा । ‘सुविरुद्धस्वरूपत्वाज्जीवादन्यतमो हरिः’ ॥ इति वामने ॥ भगवन्माहात्म्यकथनेन सर्वस्य तद्वशत्वात्स एव भजनीयो न शोकेन प्रयोजनम्’ इति फलितार्थः ॥ ४१ ॥

पदरत्नावली

सृष्ट्यादिकं कुर्वन् आत्मा तत्तत्प्राणिकर्माण्युल्लङ्घ्य करोति उत तदनुसारेणेति तत्राह– भूतानीति ॥ निजयोनिकर्मभिः स्वजातिविहितकर्मभिर् भूतानि विहितकाले भवन्तीति, आत्मप्रेरितैरिति शेषः । ‘द्रव्यं कर्म च कालश्च’ इत्यादेः । कालशब्दवाच्यपरमात्माधिकरणतया सृष्ट्यादिकमाप्नुवन्तीति वा । ननु जीवात्मनोरुभयोरपि देहस्थितेः कस्य संसारबन्धाभाव इति सुहृद्भावेन पृच्छन्तमाह– न तत्रेति ॥ तत्र तयोर् जीवपरयोरन्यतम आत्मा प्रकृतौ प्रकृतिनिर्मितशरीरे स्थितेऽपि तस्याः प्रकृतेर् गुणैः सत्वादिभिर् न निबध्यते ह किल । ‘सत्वं सुखे सञ्जयति रजः कर्मणि भारत । ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत ॥’ इत्यादिवाक्योक्तबन्धो नास्तीत्यर्थः । हेत्यनेन ‘तुच्छेनाभ्वपि-हितं यदासीत् तमस्तन्महिनाऽजायतैकम्’ इति वाक्यं सूचयति । ‘सुविरुद्धस्वरूपत्वाज्जीवादन्यतमो हरिः’ इत्यतो हरेरन्यतमत्वं प्रामाणिकमिति वा । परमात्मा न बध्यतेऽन्यतमो बध्यत इत्येतदुत्तरश्लोकेन पुनरुक्तं स्यादिति (हेतोः) अन्यथा व्याख्यातमाचार्यैः ‘अन्यतमा आत्मा परमात्मा’ इति ॥ ४१ ॥

प्रकाशिका

भूतानि तैस्तैरिति श्लोकेऽन्यतमशब्देनानन्वितस्यात्मशब्दस्य जीवपरत्वप्रतीति-वारणाय विवक्षितमर्थमाह । अन्यतम इति ॥ ननु परमात्मन एकत्वात्कथमतोऽन्यतमशब्दवाच्यत्व-मित्याशङ्कां प्रमाणेनैव परिहरति । सुविरुद्धेति । अन्यतमो ऽन्यतमशब्दवाच्यः । तथा च अयमति-शयनार्थकतमबन्त इत्याशयः । ननु शोको न कार्य इत्येतदुपपादके वक्तव्ये भूतानि तैस्तैरित्यादिना किमर्थमसङ्गतं भगवन्माहात्म्यवर्णनं क्रियत इत्याशङ्कायां तत्रापि प्रकृतिरभिप्रेतास्तीत्याह । भगव-न्माहात्म्येति ॥ फलितार्थ अभिप्रेतार्थ इत्यर्थः । अतो न प्रकृतासङ्गतिरित्याशयः । ततश्चायं भूतानीत्यादि मूलार्थः । निजयोनिकर्मभिः स्वयोग्यदेवादियोनिसाधनैः कर्मभिः । काले देहारम्भककर्म-समाप्तिकाले । न भवन्ति नश्यन्ति । सर्वशः देवादयोऽपि । तत्र तदा प्रकृतौ देहाकारेण परिणतायां स्थितोप्यात्मा परमात्मा तस्याः प्रकृतेर्गुणैः सत्वादिभिर्जीववन्न निबध्यते । कुतः यतोऽन्यतमः । जीवात्सुविरुद्धस्वभावत्वेनातिशयेनान्यो ऽत्यन्तविलक्षणः ॥ ४१ ॥

मन्दनन्दिनी

किंचिदनिमित्तीकृत्य भगवतः स्रष्टृत्वादौ वैषम्यादीत्यत आह ॥ भूतानीति ॥ भूतानि प्राणिनः सर्वशः पूर्णेन भगवता तैस्तैर्निजयोनिकर्मभिः स्वजन्मकारणीभूतकर्मभिर्निमित्तीकृतैः काले कालविशेषे भवन्ति जायन्ते । एवं मृतिकारणीभूतकर्मभिः कालविशेषे न भवन्ति म्रियन्ते । तत्र जननादौ प्रकृतौ तत्कार्ये देहे स्थितोऽपि जीवादन्यतमः सुविरुद्धस्वरूप आत्मा परमात्मा । तस्याः प्रकृतेर्गुणैः सत्त्वादिभिः । सत्त्वं सुखे जयतीत्यादिनोक्तैस्तत्कार्ये न निबद्ध्यत इति योजना । एतदेवाभिप्रेत्य तात्पर्यम् ॥ अन्यतम आत्मा परमात्मा । ‘‘सुविरुद्धस्वरूपत्वाज्जीवादन्यतमो हरिः’’ इति वामने ॥ ४१ ॥

इदं शरीरं पुरुषस्य मोहजं यथा पृथग् भौतिकमीयते गृहम् ।

तथोदकैः पार्थिवतैजसैर्जनः कालेन जातो विकृतो विनश्यति ॥ ४२ ॥

पदरत्नावली

परमात्मनो बन्धाभाववचनेन जीवात्मनोर्यो भेद अर्थादाप्तः स केन प्रकारेणेत्या-शङ्क्याह– इदं शरीरमिति ॥ पुरषस्य संसारिणो मोहेन अन्यथाज्ञानेन, ‘मुह वैचित्त्ये’ इति धातोः । विपरीतज्ञानजं यस्मात् तस्मादात्मनो भिन्नमिति ज्ञातव्यम् । तथा हि । भौतिकं भूतविकृतैर्वृक्षैर्विरचितं गृहं गृहस्थात् पृथक् भिन्नमीयते तथा विनश्यति च, तथा उदकैः पार्थिवतैजसैः परमाणुभिः कालनाम्ना हरिणा चोदितैः, विकृतो विकारं प्राप्तो जातो जन्यते इति जनो देहो विनश्यति तथा उदकैः पार्थिवतैजसैः स्वकारणावस्थितिमाप्नोतीति यस्मात् तस्माज्जीवाद् भिन्न इति निश्चीयते । ‘नित्यो नित्यानाम्’ इति श्रुतेः ॥ ४२ ॥

प्रकाशिका

भगवान्न बध्यते चेत्तर्हि को बध्यत इत्याशङ्कां परिहरन् शरीरं तटस्थतयैव भगवतोऽधिकरणम् अतो नास्य बन्धकमित्युपपादयति । इदमिति । पुरुषस्य जीवस्य मोहोऽहं ममेत्यभि-मानः । अनेन जीवस्यैव बन्धकमिति सूचितम् । यथा भौतिकम् ॥ भूतविकृतैर्वृक्षादिर्जातं गृहं पुरुषस्य जीवस्य पृथक् तटस्थमेव सदीयते । अधिकरणतया ज्ञायते । तथा पुरुषस्य षड्गुणपूर्णस्य हरेः पृथगीयते । तटस्थमेव सदधिकरणतया ज्ञायतेऽतो हरौ न स्वगुणसम्बन्धापादकमित्यर्थः । एवं न बध्यत इत्येतदुपपाद्यान्यतम इत्युक्तं जीवादत्यन्तवैलक्षण्यं हरेरुपपादयति । उदकैरित्यादिना ॥ जनो जीव उदकैर् आप्यैः पार्थिवैस्तैजसैः परमाणुभिस्तदात्मकशरीरसम्बन्धेनेति यावत् । कालेन कालनामकेन हरिणा कर्त्रा जातः सन् विकृतो भवति । सुखदुःखादिनोच्चत्वादिप्रकारं प्राप्नोति । कालेनैव शरीरवियोगे विनश्यति । तथा च हरेर् जीवजन्मादिकर्तृत्वात्तदपेक्षयात्यन्तवैलक्षण्यमङ्गीकार्यमित्याशयः ॥ ४२ ॥

मन्दनन्दिनी

देहे स्थितः परमात्मा न निबद्ध्यत इत्यनेन जीवो बाध्यत इत्यायातम् । तत्कथम् । तस्यापि देहात्पृथक्त्वादित्यतो जीवमिथ्याज्ञानमूलत्वाद्युक्तस्तस्य बन्ध इत्याशयेनाह ॥

इदं शरीरमिति ॥ यथा भौतिकं पञ्चभूतकार्यं गृहं गृहमानिना पृथगीयते । तथोदकैः पार्थिवतैजसैः । उपलक्षणया पञ्चभूतैरुपादानैः कालेन मुख्यनिमित्तेन भगवता जातमिदं शरीरं पृथगभिमानिनो भिन्नम् । यद्यपि तथाऽपि पुरुषस्य जीवस्य । मोहजं स्वातन्त्र्यादिमिथ्याज्ञाननिमित्तकं यतोऽतो जनो देहस्थो जीवो जातो विकृतो विनश्यति । जननजरादिविकारमरणप्रयुक्तदुःखलक्षणबन्धवान् भवतीति योजना । अत्र शोको न कार्य इत्यर्थे यत्रोद्भव इत्यादिना देहानित्यत्वोक्तेरुपयोगेऽप्यहो वयमित्यादिना भगव-न्माहात्म्योक्तेः कोपयोग इत्यतस्तात्पर्यम् ॥ भगवन्माहात्म्यकथनेन सर्वस्य तद्वशत्वात्स एव भजनीयो न शोकेन प्रयोजनमिति फलितार्थः ॥ ४२ ॥

यथाऽनलो दारुषु भिन्न ईयते

यथाऽनिलो देहगतः पृथक् स्थितः ।

यथा नभः सर्वगतं न सज्जते

तथा गुणैः सर्वगुणाश्रयः परः ॥ ४३ ॥

तात्पर्यम्

‘देहदारुगतौ प्राणवह्नी सर्वगतं नभः । देहादिभ्यो यथा भिन्ना न लिप्यन्ते च तद्गुणैः । तथा जीवगतो विष्णुर्जीवाद्भिन्नो न तद्गुणेः’ ॥ इति च ॥ ४३ ॥

पदरत्नावली

जीवस्य नित्यत्वात् तदेव दृष्टान्तान्तरेण स्पष्टयति– यथेति ॥ यद्वा ननु जीवस्य शरीराद् भेदोऽस्तु । तस्य नश्वरत्वात् । परमात्मना जीवस्याभेदः किं न स्यादिति मन्दाशङ्कां परिहरति– यथेति ॥ दारुषु स्थितो वह्निर् दारुभ्यो भिन्नस्तद्गुणैस्तेषु न सज्जते यथा, देहिनां देहगतो वायुर्देहात् पृथक् स्थिततद्गुणैश्च न लिप्यते यथा, सर्वगतं नभः सर्वस्माद् भिन्नं ज्ञायते सर्ववस्तुगुणैश्च न लिप्यते यथा, तथा ज्ञानानन्दादिसर्वगुणाश्रयः परः परमात्मा, सर्वेषां जन्तूनां गुणभूतं भोगायतनं शरीरम् आश्रयो यस्य सः सर्वगुणाश्रयः सर्वजीवदेहगतः, परो विलक्षणो भिन्न इति यावत्, जीवादिति शेषः । प्रकृतत्वात् । जीवगुणैर्न लिप्यत इति । देहाद् भेदस्य प्रकृतत्वात् स एवात्रोच्यत इति किं न स्यादितीयं शङ्का ‘देहदारुगतौ प्राणवह्नी सर्वगतं नभः । देहादिभ्यो यथा भिन्ना न लिप्यन्ते च तद्गुणैः । तथा जीवगतो विष्णुर्जीवाद् भिन्नो न तद्गुणैः ॥’ इति वाक्येन परिहर्तव्या । अत्रायं फलितार्थः । भगवन्माहात्म्यकथनेन सर्वस्य तद्वशत्वात् स एव भजनीयो न शोकेन प्रयोजनमिति ॥ ४३ ॥

प्रकाशिका

ननु शरीरस्य तटस्थतयाधिकरणस्य भगवति स्वगुणानापादकत्वेऽपि जीवस्य स्वान्तर्गतेन भगवता पृथगज्ञायमानत्वेन गुणादेर्गुण्यादिनैवाभेदोऽत एव तद्गुणत्वं च भगवतः प्राप्तमित्याशङ्कायामाह । यथाऽनल इति ॥ अप्रतिपत्तिविप्रतिपत्तिनिरासाय श्लोकतात्पर्यं प्रमाणेनैवाह । देहदारुगताविति । आदिपदाद्दारुसर्वगतयोर्ग्रहणम् ॥ तद्गुणैर्देहादिगुणैः । अनेन मूलेऽनलानिलरूप-दृष्टान्तद्वये दार्वादिगुणलेपाभावोऽपि ग्राह्यः । नभोदृष्टान्ते सर्वस्माद्भिन्नमित्यपि ग्राह्यमिति सूचयति । ततश्चायं श्लोकार्थः । वह्निर् भिन्न ईयते ज्ञायते ज्ञानिभिस्तद्गुणी नेति चेयते ज्ञायते पृथक् स्थितः पृथक्त्वेन ज्ञातस्तद्गुणी नेति च ज्ञातं सर्वगतं सर्वपदार्थेषु विद्यमानं नभः सर्वस्माद्भिन्नमीयते गुणैः । सर्वपदार्थानां गुणैर् न सज्जते न लिप्यते । तथा सर्वे च ते गुणा अप्रधाना जीवाः स एवाश्रयो यस्य स परः परमात्मा सर्वगुणेभ्यः पृथगीयतेऽत एव भिन्नो न तद्गुणवानिति । तथा च विवेकिनाम-पृथक्सिद्धिर्नाभेदसाधिका दारुवह्न्यादिषु व्यभिचाराद्विवेकिनां जीवपरयोः पृथक्सत्त्वे नापृथक्सिद्धि-रित्याशयः ॥ ४३ ॥

मन्दनन्दिनी

जीवस्य गुणबन्धे निमित्तमुक्त्वा परस्य तदबन्धे निमित्तं दृष्टान्तपूर्वमाह ॥ यथेति ॥ यथा भिन्नोऽनल ईयते सदाह्यत्वात्तद्गुणेन दाह्यत्वादिना न लिप्यते च । अनिलो देहगतः पृथक् स्थितश् छेद्यदेहात्पृथगच्छेद्यत्वादिना विलक्षणतया स्थितस्तद्गुणेन छेद्यत्वादिना न सज्जते । यथा नभः सर्वगतं कूटस्थत्वान्न सर्वगुणैः सज्जते । तथा परः परमात्मा सर्वगुणाश्रयः सर्वज्ञः स्वातन्त्र्याद्याश्रयो गुणैर्देहस्य जीवस्य वा गुणैर्न सज्जत इति योजना । एतदेवाभिप्रेत्य तात्पर्यकृत्प्रमाणमाह ॥

देहदारुगतौ प्राणवह्नी सर्वगतं नभः ।

देहादिभ्यो यथा भिन्ना न लिप्यन्ते च तद्गुणैः ।

तथा जीवगतो विष्णुर्जीवाद्भिन्नो न तद्गुणैरिति च ॥

जीवगतो जीवेन सह गतः । तद्गत इति वा । तद्गुणी तस्य जीवस्य देहस्य वा गुणलेपवानित्यर्थः

॥ ४३ ॥

सुयज्ञो नन्वयं शेते मूढा यमनुशोचथ ।

यः श्रोता योऽनुवक्तेह न स दृश्येत कर्हिचित् ॥ ४४ ॥

न श्रोता नानुवक्ताऽयं मुख्योऽप्यत्र महानसुः ।

यस्त्विहेन्द्रियवानात्मा स चान्यः प्राणदेहयोः ॥ ४५ ॥

भूतेन्द्रियमनोलिङ्गान् देहानुच्चावचान् विभुः ।

भजत्युत्सृजति ह्यन्यस्तच्चापि स्वेन तेजसा ॥ ४६ ॥

तात्पर्यम्

इन्द्रियवान् जीवः । भजत्युत्सृजति ह्यन्यः परमात्मा । स एव श्रोताऽनुवक्ता च । ‘नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता स योऽतोऽश्रुत’ इत्यादेः ॥ मुख्यप्राणोऽपि स्वतो न श्रोता किमु जीव इति । अयं ननु सुयज्ञ इत्याक्षेपः । यश्च सुयज्ञः सोऽपि स्वतः श्रोतुं वक्तुं न च शक्तः । अतस्तस्यानुशोकेन किमित्यर्थः । ‘अन्यो जीवो चितो देहात्तद्वशो देह उच्यते । पश्यामीत्यभिमानोऽस्य चक्षुराद्यभिमानवान् ॥ न तद्वशाश्चक्षुराद्या न दृष्ट्यादौ स ईश्वरः । चक्षुराद्या मनो जीवो दृष्ट्यादिश्चापि यद्वशे ॥ स प्राण इति विज्ञेयो ज्ञाता मन्ता च स प्रभुः । तस्यापि ज्ञातृमन्तृत्वं न स्वतः शक्यते क्वचित् ॥ यस्तस्य ज्ञातृमन्तृत्वदाता स भगवान् हरिः । स्वतो ज्ञाता च मन्ता च द्रष्टा श्रोता च केशवः ॥ ज्ञानादिदो न तस्यान्यः सर्वस्य ज्ञानदो हरिः । स देहान्भजते विष्णुः स्वेच्छयैवोत्सृजत्यपि ॥ यावद्देहस्थितो विष्णुस्तावज्जीवो विपर्ययः । तावत् क्लेशादयश्चास्य वृथा चेन्द्रियवृत्तयः ॥ यदोत्सृजति देहं स हरिः सर्वात्मना विभुः । तदा तदभिमानी तु जीवो मुच्येत संसृतेः ॥ अतिभिन्नस्वरूपौ तौ जीवेशावेकदेहगौ । देहाभिमानी त्वेकोऽत्र न मानी मानदः परः’ इति गारुडे । ‘इन्द्रियाद्यभिमानेन तद्वान् जीव उदीर्यते । अतन्मानाद्धरिः प्रोक्तस्त्वदेहोऽनिन्द्रियस्तथा । जीवानभिमते देहे न विष्णुर्जीवति स्थितः । अतश्चादेह उद्दिष्टः परमात्मा सनातनः ॥’ इति प्रकाशसंहितायाम् । स चान्यः श्रोतुर्वक्तुश्चेति चशब्दः ॥ भूतेन्द्रियमनोरूपान् । ‘लिङ्गं स्वरूपमुद्दिष्टं लिङ्गं ज्ञापकमेव च’ इति शब्दनिर्णये ॥

आत्मा परमात्मा । कर्मनिबन्धनो जीवः । ततः परमात्मनो विपरीतः ॥ मृषा वृथा । स्वप्नदृष्टवित्तादिवत् । ‘लेपाभिमानी जीवस्तु स्वरूपानुभवी न च । मुक्तेः प्राक्तेन मान्युक्तो न मानी विष्णुरुच्यते । सर्वं ममेति पश्यन्नप्यलेपाभिमतिर्यतः । सम्यक्स्वरूपानुभवात्स्वतन्त्र-त्वाददोषतः’ ॥ इति ब्रह्मतर्के ॥ ४४ ॥

पदरत्नावली

किञ्च भवच्छोकायोग्यस्य सुयज्ञस्य दृश्यमानत्वात् तं प्रति शोको न कार्य इति गूढाक्षेपं करोति– सुयज्ञ इति ॥ हे मूढा यमनुशोचथ अयं सुयज्ञः शेते निद्रां करोति । ननु न मृतः । ‘ननु च स्याद् विरोधादौ’ इत्यभिधानात् । शेत एव लोकान्तरं न गत इति वा । ‘प्रश्नावधारणानु-ज्ञानुनयामन्त्रणे ननु’ इत्यभिधानात्, अवधारणार्थो ननुशब्दः । श्रोत्रादीन्द्रियव्ेयापारादर्शनादिना मरणानुमानात् कथं न मृत इत्याक्षिप्यत इति तत्राह– यः श्रोतेति ॥ इह सुयज्ञशरीरे यः श्रोता यश्चानुवक्ता स परमात्मा कर्हिचित् कदाचिदपि न दृश्येत । तस्य सूक्ष्मस्वभावत्वात् । ‘तदव्यक्तमाह हि’ इति सूत्राच्च । तस्यैव श्रोतृत्वादिकं कुत इति चेन्न । ‘नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता’ इत्यादेः ॥

ननु सुयज्ञशरीरस्थस्य मुख्यप्राणस्य श्रोतृत्वादिसम्भवात् कथं तदन्ययोगव्यवच्छेदः क्रियत इति तत्राह– न श्रोतेति ॥ अत्र सुयज्ञदेहे श्वासोच्छ्वासादिलक्षणेन मुखे व्यज्यमानत्वान्मुख्यो यो महानसुर् मुख्यप्राणः सोऽपि स्वतो न श्रोता नानुवक्ता च । ‘तस्य वाङ् मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम्’ इति श्रुतेरन्ययोगव्यवच्छेदो युक्त इति । ननु तर्हि सुयज्ञनाम्नो जीवस्य श्रोतृत्वादिकमासीत् प्राक् । तदिदानीं न । तस्मान्मृत इति प्राचीनशङ्काशेषं कैमुत्यन्यायेन परिहरति– यस्त्विति ॥ तुशब्देन नेत्याकृष्यते । इह सुयज्ञे इत्युपलक्षणम् । जीवराशिदेहे य इन्द्रियवान् यश्च प्राणदेहयोरन्यः स जीवात्मा श्रोतुं वक्तुं च न शक्त इति किं वक्तव्यम् ? ‘एतद् बाणमवष्टभ्य विधारयामि’ इति श्रुतेः सर्वशक्तिमतोऽपि प्राणस्य स्वतः श्रोतृत्वाद्ययुक्तेरुक्तत्वात् । तस्मात् सुयज्ञं प्रति शोकेन किं प्रयोजनम् ? तस्माज्जीवतामपि श्रोतृत्वाद्यनुपपत्तेः प्रामाणिकत्वेन मृतोऽयमित्यस्य लक्षणान्तरं वक्ति– अन्य इति ॥ अनेन हरेर्माहात्म्यातिशयः प्रकटित इति सूचितम् ? न केवलं प्राणदेहयोरन्यः । किन्तु पूर्णश्रोतृत्वादिगुणयुक्ताद्धरेश्चान्यः(जीवः) इति चशब्दार्थः ॥

हरेर्देहस्थितिसद्भावेन तस्मादप्यन्य इति च वक्तुं युक्तम् । तत्कुत इति तत्राह– भूतेन्द्रियेति ॥ भूतेन्द्रियमनांसि लिङ्गं रूपं येषां ते तथा तानुच्चावचान् सुरनरतिर्यगात्मनोत्तममध्यमाधमान् देहान् भजति । पश्चाद् उत्सृजति हि यस्मात् तस्मादन्य इति वक्तुं युक्तम् । स्पष्टं चाह– अन्य इति ॥ देहयोगवियोगभाजो जीवादिति शेषः । ‘लिङ्गं स्वरूपमुद्दिष्टं लिङ्गं ज्ञापकमेव च’ इति वचनात्, लिङ्गशब्दस्य स्वरूपार्थो युक्तः । यदि देहभजनोत्सर्जने हरेः, तर्हि जीवात् को विशेष इति तत्राह– तच्चेति ॥ परिच्छिन्नविषये भजनोत्सर्जने व्याप्तस्य विष्णोः कथं घटते इत्यतो वाह– तच्चेति ॥ ततश् चशब्देन जीवस्य पारतन्त्र्येणेति विशेषमाह । अपिशब्देन रूपान्तरेणेत्युपपत्तिमाह । अत्र जीव-परमात्मनोर्भेदस्य तयोरुभयोर्देहादेर्भेदस्य च हरेरेव मुख्यश्रोतृत्वादेश्च प्रकरणावान्तरभेदस्य च ज्ञापनाय आचार्यैः पूर्वापरभावेन ‘इन्द्रियवान् जीवः’ इत्यादि व्याख्यातम् । ननु जीवस्य प्राणदेहयोरन्यत्वे मरणे देहनाशान्मुक्तौ तदभावाद्विषयभोगाभाव इत्याशङ्कापरिहारायोक्तमाचार्यैः ‘अन्यो जीवः’ इत्यादि । जडदेहादन्यत्वं, न स्वरूपभूतादुच्यत इत्यर्थः । अचितो जडात् । इन्द्रियवत्वं चामुख्यं तेषाम् । अवशत्वात् । अभिमानादेव तद् द्वयम् । ‘पश्यामीत्याभिमानोऽस्य’ इत्यादेः । तर्हि चक्षुरादीनि कस्याधीनानीत्यतः प्राणाधीनानीति द्योतयितुं ‘चक्षुराद्या मनो जीवः’ इत्यादेः प्राणेऽपि न पर्याप्त-मित्युक्तम् । ‘तस्यापि ज्ञातृमन्तृत्वं न स्वतः शक्यते क्वचित्’ इति । ‘यस्तस्य ज्ञातृत्वमन्तृत्वदाता स भगवान्’ इत्याद्यपि सूचितम् । यः श्रोता इत्यत्र प्रमाणं ‘ज्ञाता च मन्ता च’ इत्यादि । ‘ज्ञानादिदो न तस्यान्यः’ इत्येतत् ‘अनु’ इति सूचितम् । ‘सर्वस्य ज्ञानदो हरिः’ इत्येतत् ‘न स दृश्येत’ इत्यनेन सूचितम् । स्वविषयज्ञानदातेति चेद् दृश्य इत्यर्थः । ‘भूतेन्द्रियमन’ इत्यादिना विष्णुरुच्यते न जीव इत्यत्र मानं ‘स देहान् भजते’ इत्यादिना ॥ ४४४६ ॥

प्रकाशिका

देह एवात्मेति भ्रान्तान् प्रति शोको न कार्य इत्येतत्प्रकारान्तरेणाप्युपपादयति ॥ सुयज्ञ इत्यादिना ॥ तत्र यस्त्विहेन्द्रियवानिति सार्धश्लोकेऽन्योन्यभिन्नजीवद्वयविषयत्वप्रतीतिवारणाय विषयौ दर्शयति । इन्द्रियवानिति ॥ आत्मशब्दार्थकथनम् । जीव इति । अस्य जीवपरत्वज्ञापक-प्रदर्शनायेन्द्रियवानिति तल्लिङ्गमुक्तम् । इन्द्रियाभिमानवानित्यर्थः । परमात्मेति विभुशब्दकथनम् । अस्यासङ्गतिशङ्कापरिहारायापेक्षितं पूरयति । स एवेति । स्वत इति शेषः । तथा च स्वतः श्रोताऽनु-वक्ता च क इत्यपेक्षायां तत्स्वरूपमनेनोक्तमित्याशयः । अत्र हिशब्दसूचितां श्रुतिमाह । नान्योऽत इति ॥ असङ्गतिपरिहाराय न श्रोतेति श्लोकतात्पर्यमाह । मुख्यप्राणोऽपीति । इति भाव इति शेषः । सुयज्ञो नन्वित्यस्यापि प्रकृतसङ्गतमर्थं दर्शयति ॥ अयं नन्विति । तथा चाव्ययानामनेकार्थत्वा-न्नन्वित्यस्य किंशब्दार्थाक्षेपपरत्वमित्याशयः । तेन हे मूढा यो देहः शेते इदानीं निश्चेष्टः पतितोऽस्त्य-चेतन इति यावत् । यमुद्दिश्यानुशोचथ । अयं देहः न तु सुयज्ञः किं सुयज्ञः नैव किंत्वस्मादन्यस्तद्वश एवायं देह इति मूलयोजनां सूचयति । सत्यं सुयज्ञो देहादन्य इति । तथा च स पूर्वम् अस्मिन् देहे श्रोतृत्वाद्यभिमानवत्तया दृष्ट इदानीं तथा न दृश्यतेऽतः शोक इति शङ्कापरिहाराय प्राप्तस्य यःश्रोता योऽनुवक्तेहेत्यर्धस्य तात्पर्यमाह ॥ यश्च सुयज्ञ इति । अनेन सुयज्ञ इत्यस्यावृत्तिश्चशब्दस्य चाध्याहार इति सूचयति । एतेन यश्च सुयज्ञः । श्रोताहं श्रोतेत्यभिमानवान् अनुवक्ताहं वक्तेत्यभिमानवान् । उपलक्षणमेतत् । अहं पश्यामीत्याद्यभिमानवान्, इह देहे दृश्यते दृष्टः सोऽपि न कर्हिचित् कदापि न । स्वतः श्रोताऽनुवक्ता चातोऽविद्यमानकल्पस्य तस्य सम्बंधिना शोकेन किमिति मूलं योज्यमिति दर्शयति । उक्तव्याख्यानदार्ढ्याय एतत्प्रकरणव्याख्यानरूपां स्मृतिमेवोदाहरति । अन्यो जीव इति । अयं ननु सुयज्ञ इत्याक्षेपलब्धार्थप्रदर्शनं देहादन्यो जीव इति । अन्यत्वोपपादनायात इत्युक्तम् । अनेन शेत इत्यस्य लब्धार्थो दर्शितः । तद्वशस्तत्सम्बन्धेन चेष्टावानित्यनेन शेत इति वर्तमानार्थकलट्योगात्पूर्वं सुयज्ञसम्बन्धेन चेष्टावत्त्वमस्तीति ध्वनितं यत्तत्सूचितमिति ज्ञातव्यम् । यः श्रोतेत्यादिकमुपलक्षण-परमित्याशयेन पश्यामीत्यभिमानोऽस्येत्युक्तम् । श्रोतास्मीत्याद्यभिमानोपलक्षणमेतत् । चक्षुराद्यभिमान-वानित्यनेनेन्द्रियवानिति वक्ष्यमाणमत्रापि सम्बध्यते । इन्द्रियपदं च तदभिमानोपलक्षकमिति दर्शयति– न तद्वशाश्चक्षुराद्या इत्यनेन । सोऽपि स्वतः श्रोतुं वक्तुं च न समर्थ इति । यत्र तात्पर्यमुक्तं तत्प्रमापितम् ।

असुशब्दवाच्यस्य प्राणस्य मुख्यो महानिति यद्विशेषणद्वयमुक्तं तल्लब्धार्थप्रदर्शनं चक्षुराद्या इति । न श्रोता नानुवक्ताचे(ऽयं)त्यस्य व्याख्यानं तस्यापीति । असङ्गतिशङ्कापरिहाराय यत्पूरितं स एव श्रोता वक्ता चेति तस्य व्याख्यानं यस्तस्येत्यादि केशव इत्यन्तम् । तच्च स्वेन तेजसेत्युक्तस्य व्याख्यानं ज्ञानादिद इति । भूतेन्द्रियमनोलिङ्गानीति श्लोकतात्पर्यं स देहानिति । विभुरित्यस्य व्याख्यानं विष्णुरिति । भजतीति क्रियायां स्वातन्त्र्योक्त्या लब्धार्थप्रदर्शनं स्वेच्छयैवेति । यावल्लिङ्गान्वित इति श्लोकतात्पर्यमाह । यावद्देहे स्थित इति । विपर्ययः स्वरूपापेक्षया विपरीतो वर्तत इत्यर्थः । वृथा चेन्द्रियवृत्तय इत्यनेन वितथाभिनिवेशोऽयमिति श्लोकतात्पर्यमुक्तम् । यावत्तावदित्यवधिवाचकशब्द-प्रयोगेन लब्धार्थप्रदर्शनं यदोत्सृजतीति ॥ मरणव्यावृत्त्यर्थं सर्वात्मनेत्युक्तम् । एतत्प्रकरणलब्धार्थ-प्रदर्शनाय यस्त्विहेन्द्रियवानात्मेति वाक्यं, तस्य तात्पर्यमाह । अतिभिन्नेति । नन्विन्द्रियवानिति जीवस्य देहेन्द्रियादिमत्वमुक्तं तद्देहान् भजतीत्यादिना परमात्मनाप्युच्यते । तथात्वे तस्यादेहत्वादिप्रतिपादक-श्रुतिविरोध इत्यतोऽत्राभिप्रायं प्रमाणेनैवाह । इन्द्रियेति ॥ आदिपदेन देहग्रहणम् । अनेनेन्द्रियपदं देहोपलक्षकमिति दर्शयति । इन्द्रियवत्वं भगवत्यतिप्रसक्तमतो साधारण्येन व्यपदेशा भवन्तीति न्यायेनेन्द्रियवत्वं जीवस्याभिमानेनैवोपपादनीयमित्याशयः । एतल्लब्धार्थप्रदर्शनम् अतन्मानादिति । विष्णोरदेहत्वे निमित्तान्तरं चाह । जीवानभिमत इति ॥ मृतशरीरव्यावृत्यर्थं जीवतीत्युक्तम् । स्वयमेव पाञ्चभौतिकदेहस्थितत्वात्तं देहं न जीवयति । किन्तु जीवाभिमान युक्त एवातोऽप्यदेह उद्दिष्ट इत्यर्थः । स चान्यः प्राणदेहयोरित्यत्र चशब्दसमुच्चयस्यान्यस्य दर्शनात्तद्वैय्यर्थ्यमित्याशङ्कापरिहाराय तत्समुच्चयं दर्शयति । स चान्य इति ॥ इत्यत्रेति शेषः । तेन न केवलं स जीवः देहप्राणयोरन्यः किन्तु यः स्वतः श्रोता वक्ता भगवांस्तस्मादप्यन्य इति दर्शयितुं चशब्द इत्युक्तं भवति । भूतेन्द्रियमनोलिङ्गानित्यत्र देहानां भूतादिज्ञापकत्वमुच्यत इति प्रतीतिनिरासायात्र विवक्षितं लिङ्गशब्दार्थं दर्शयति । भूतेन्द्रिय-मनोरूपानिति । भूतादिविकारभूतानित्यर्थः । अत्र प्रमाणं पठति । लिङ्गमिति । एवशब्दः प्रायेणेत्यर्थे । यावल्लिङ्गान्वितो ह्यात्मेत्यत्रात्मशब्दस्य जीवपरत्वप्रतीतिवारणाय योग्यमर्थमाह । आत्मा इति ॥ कर्मबन्धशब्दस्यापि योग्यमर्थं दर्शयति । कर्मनिबन्धन इति । ततो विपर्यय इत्यस्यापि प्रकृतसङ्गतमर्थ-माह । तत इति । परमात्मनस्तत्प्रेरणयेत्यर्थः । विपर्यय इत्यस्यार्थो विपरीत इति । स्वरूपापेक्षया विरुद्धस्वभाव इत्यर्थः । यथा मनोरथः स्वप्नः सर्वमैन्द्रियकं मृषेत्येतन्मृषापदेन मिथ्यात्वमुच्यते इति प्रतीतिवारणाय व्याख्याति ॥ मृषा वृथेति । भित्वा मृषाश्रुरित्यादौ मृषापदस्य वृथेत्यर्थेऽपि प्रयोग-दर्शनादित्याशयः । स्वप्नपदं मनोरथस्याप्युपलक्षकम् । अतन्मानाद्धरिः प्रोक्त इत्यादिना हरेर्देहाभिमानो नास्तीत्युक्तम् । तदयुक्तम् । अहं ममेत्यभिमानस्य तत्रापि सत्वादित्याशङ्कापरिहारायात्राभिमानं प्रमाणेनैव दर्शयति । लेपाभिमानीति । पापलेपकाभिमानवानित्यर्थः । तुशब्दः प्रकृतत्वानुसन्धानार्थः । एतदुपपादनायोक्तं स्वरूपेति । सम्यक् स्वरूपानुभवी नेत्यर्थः । चशब्दो हेत्वर्थे । ओपाभिमतिः पापलेपकराभिमतिशून्यः । कुत इत्यत आह । सम्यगिति । सर्वदेति शेषः । ततश्च सुयज्ञो नन्वित्यादि मूलस्यायमर्थः । हे मूढा यो देहः शेते इदानीं निश्चेष्टः पतितोऽस्ति अचेतन इति यावत् । यमुद्दिश्यानुशोचथ अयं देहः । ननु सुयज्ञः किं सुयज्ञः नैव किं त्वस्मादन्यः । सत्यम् । सुयज्ञो देहादन्य इति स पूर्वस्मिन् देहे श्रोतृत्वाद्यभिमानवत्तया दृष्ट इदानीं तथा न दृश्यतेऽतः शोचाम इत्यत आह । यः श्रोतेति । यश्च सुयज्ञ इह देहे श्रोता श्रोतृत्वाद्यभिमानवान् यश्चानुवक्ता यश्चेन्द्रियाभिमानवान् दृश्येत दृष्टः सः कर्हिचित् कदापि स्वतः श्रोता स्वतो वक्ता च न भवति अतस्तं प्रति शोकेन किमित्यन्वयः

॥ ४४ ॥

प्रकाशिका

कुतस्तस्य स्वतः श्रोतृत्वाद्यभाव इत्याशङ्कायां कैमुत्येनैतदुपपादयति । न श्रोतेति महान् जीवानां तदिन्द्रियाणां च नियामकोऽयं श्वासप्रेरकः मुख्योऽसुः प्राणोऽपि न स्वतः श्रोता न स्वतो वक्ता तदा किमु वाच्यं जीवः स्वतो वक्तृत्वादिमान्नेति ॥

कस्तर्हि स्वतः श्रोतृत्वादिमानित्यपेक्षायामाह । भूतेन्द्रियेति । भूतेन्द्रियमनांस्येव लिङ्गानि स्वरूपाण्युपादानानि येषां तानुच्चावचान् सुरनरादिरूपान् देवान् जीवेभ्योन्यः विभुर्विष्णुर्भजति प्रेरणाय स्वेच्छयैव प्रविशति । उत्सृजति । मरणकाले त्यजति । इदं जीववन्न परापेक्षमित्याह । तच्चेति । चशब्दः प्रकृतत्वानुसन्धानार्थः । अपिरवधारणे । तद्देहभजनादिकं स्वेनैव तेजसा स्वसामर्थ्येन भवति न जीववत्प्रेरणया । अतः स एव स्वतः श्रोताऽनुवक्ता च । एतत्प्रमाणसिद्धमिति दर्शनाय हिशब्दः । ततश्च किमित्यपेक्षायामेतत्प्रकरणसिद्धमर्थं पिण्डीकृत्य दर्शयति । यस्त्विहेन्द्रियेति । इह देहे य इन्द्रिय-वान् इन्द्रियाद्यभिमानवान् । तुशब्दश्चशब्दार्थः । श्रोतृत्वाद्यभिमानवांश्चात्मा जीवः स प्राणदेहयोः प्राणाद्देहाच्चान्यः । न केवलमेतावत्किंतु यः स्वतः श्रोतृत्वादिमान् विष्णुस्तस्माच्चान्यः । विष्णुस्तु नेन्द्रियाद्यभिमानवान् किन्तु तद्दाता । अतो देह एवात्मेति भ्रांत्या शोको नोचित इत्याशयः ॥

इतश्च शोको न कार्य इत्याह ॥ सुयज्ञ इति । हे मूढ । यमनुशोचथात्र यः शेते देहोऽसौ सुयज्ञोऽयं ननु किमित्याक्षेपः । तथा चानुशोच्यः सुयज्ञो देहो नेत्यर्थः । देहस्याश्रोतृत्वेन जडत्वात् । तर्हि श्रोतारमनुशोचाम इत्युक्ते किं मुख्यं श्रोतारमुतामुख्यम् । आद्ये आह ॥ य इति ॥ यो मुख्यतः श्रोताऽनुवक्ता च हरिः स इह लोके कर्हिचिन्न दृश्येत् । अव्यक्तत्वात् ॥

सुयज्ञो जीवो मुख्यश्रोता किं न स्यादित्यतः कैमुत्येन नेत्याह ॥ न श्रोतेति ॥ अत्र लोके देहे वेतरापेक्षया महान्मुख्योऽसुरपि मुख्यप्राणोऽपि न स्वतः श्रोताऽनुवक्ता चेति यदा तदा देहप्राणयोः सकाशात् । चशब्दात्स्वतः श्रोतुर्वक्तुर्भगवतश्चान्योऽभिमानत इन्द्रियवानात्मा जीवोर् यः स तु न स्वतः श्रोताऽनुवक्ता चेति किमु वक्तव्यम् इति योजना । अत एव तात्पर्यं प्रवृत्तम् । इन्द्रियवान् जीव इति ॥

यः श्रोताऽनुवक्तेत्यत्र मुख्यतः श्रोता यः स न दृश्यते इत्युक्तम् । स क इत्याशङ्कायामाह ॥ भूतेति ॥ यो जीवादन्यः परमात्मा विभुः समर्थः । जीवस्य संसारमोक्षार्थं भूतेन्द्रियमनोलिङ्गान् भूतेन्द्रियमनांसि लिङ्गं स्वरूपं येषां तान् । उच्चावचान्सुरनरतिर्यगादीन्देहान् जीवनियामकतया स्थातुं स्वयमपि भजते । लोकान्तरं च जीवं गमयितुमुत्सृजति । स एव स्वतः श्रोताऽनुवक्ता चेत्यध्याहृत्य योजना । जीवस्य देहभजनोत्सर्जनादिकं स्वान्याधीनमिव स्वस्याऽपि देहभजनादिकं किमन्याधीन-मित्याशङ्कापरिहाराय तदपि स्वेन तेजसा च स्वसामर्थ्येनैवेति चतुर्थः पादो योजनीयः । एतावदभिप्रेत्यैव तात्पर्यं प्रवृत्तम् । ‘‘भजत्युत्सृजति ह्यन्यः परमात्मा । स एव श्रोताऽनुवक्ता च । नान्योऽतोऽस्ति श्रोता स योऽतोऽश्रुत इत्यादेः’’ इति । सिंहावलोकनन्यायेन पूर्वश्लोकतात्पर्यमाहाचार्यः ॥ ‘‘मुख्यप्राणोऽपि स्वतो न श्रोता किमु जीव इति’’ इति । एतदनुसारेणैव पूर्वं मूलं योजितं च । तत्पूर्वश्लोकस्यापि तेनैव न्यायेन तात्पर्यमाह ॥ अयं ननु सुयज्ञ इत्याक्षेप इति ॥ आक्षेपप्रकारश्च पूर्वमुक्तः । अमुख्यं श्रोतारं सुयज्ञमनुशोचाम इति तृतीयपक्षस्य सुयज्ञस्यास्वातन्त्र्यात् । तच्छोकेनापि किं फलमित्यध्याहृत्य मूले उत्तरं द्रष्टव्यम् । एतदेवाभिप्रेत्य तात्पर्यं प्रवृत्तम् । यस्तु सुयज्ञः सोऽपि स्वतो वक्तुं श्रोतुं न शक्तः । अतस्तस्यानुशोकेन किमित्यर्थ इति । पूर्वश्लोकोक्तस्योत्तरश्लोके वक्ष्यमाणस्य तत्प्रसक्तस्य प्रमेयान्तरस्य निर्णायकं प्रमाणं मध्ये पठति तात्पर्यकृत् ॥ अन्यो जीवो चितो देहात्तद्वशो देह उच्यते । पश्या-मीत्यभिमानोऽस्य चक्षुराद्यभिमानवान् । न तद्वशाश्चक्षुराद्या न दृष्ट्यादौ स ईश्वरः । ‘‘चक्षुराद्या मनो जीवो दृष्ट्यादिश्चापि यद्वशे । स प्राण इति विज्ञेयो ज्ञाता मन्ता च स प्रभुः । तस्यापि ज्ञातृमन्तृत्वं न स्वतः शक्यते क्वचित् । यस्तस्य ज्ञातृमन्तृत्वदाता स भगवान् हरिः । स्वतो ज्ञाता च मन्ता च द्रष्टा श्रोता च केशवः । ज्ञानादिदो न तस्यान्यः सर्वस्य ज्ञानदो हरिः । स देहान्भजते विष्णुः स्वेच्छयैवोत्सृजत्यपि । यावद्देहस्थितो विष्णुस्तावज्जीवो विपर्ययः । तावत्क्लेशादयश्चास्य वृथा चेन्द्रियवृत्तयः । यदोत्सृजति देहं स हरिः सर्वात्मना विभुः । तदा तदभिमानी तु जीवो मुच्येत संसृतेः । अतिभिन्नस्वरूपौ तौ जीवेशावेकदेहगौ । देहाभिमानी त्वेकोऽत्र न मानी मानदः परः ॥’’ इति गारुडे ॥ अनेन पतितो देहः सुयज्ञो नन्वित्याक्षेपो विवृतः । चक्षुषा पश्यामीत्यभिमानोऽत एव चक्षुरा-द्यभिमानवान् चक्षुराद्या न तद्वशा दर्शनेच्छायामपि कदाचिदपाटवादौ ज्ञानाजनकत्वात् । कारण-स्यानधीनत्वादेव तद्वृत्तौ वृष्ट्यादावपि स ईश्वरः समर्थो न भवति । अनेनाभिमानत एवेन्द्रियवानित्ये-तत्समर्थितं भवति । बाह्यकरणान्तःकरणतद्व्यापारवान् जीवो यस्य वशे स प्राण इति विज्ञेयः । तस्यापि प्राणस्यापि ज्ञातृमन्तृत्वं न स्वतः । अनेन न श्रोता नानुवक्ताऽयं मुख्योऽपीत्येतद्विवृतम् । यस्तस्ये-त्यादिना सर्वस्य ज्ञानदो हरिरित्यन्तेन यः श्रोता योऽनुवक्तेहेत्येतद्विवृतम् । उत्सृजत्यपीत्यन्तेन भजत्यु-त्सृजति ह्यन्य इत्येतद्विवृतम् । यावद्देहान्वित इत्यारभ्य यावल्लिङ्गान्वितो ह्यात्मेति वक्ष्यमाणश्लोकस्य तात्पर्यकथनं देहान्वितो लिङ्गदेहादिजडदेहान्वितस्तावत्पर्यन्तं विपर्ययः । विपर्येतीति विपर्ययः । विपरीतमतिमान् । इन्द्रियवृत्तयश्च संसारहेतवः । यदा सर्वात्मनोत्सृजति न कमपि जडदेहमवशेषयति तदा संसृतेर्मुच्यते । अतिभिन्नस्वरूपावतिविलक्षणस्वरूपौ । मानदोऽभिमानप्रदः । पूर्वमिन्द्रियवानित्यनेन जीव उक्तः । क्वचिद्देहोऽनिन्द्रिय इति भगवानुच्यते । तत्कथं स्वस्वामिभावसम्बन्धस्य भगवत्येव मुख्यत्वादित्यतोऽत्र विधिनिषेधयोर्विवक्षितं निमित्तांतरमुदाहरति तात्पर्यकृत् ॥

इन्द्रियाद्यभिमानेन तद्वान् जीव उदीर्यते ।

अतन्मानाद्धरिः प्रोक्तस्त्वदेहोऽनिन्द्रियस्तथा ।

जीवानभिमते देहे न विष्णुर्जीवति स्थितः ।

अतश्चादेह उद्दिष्टः परमात्मा सनातनः । इति प्रकाशसंहितायाम् ॥

अनेन देहादिमत्वोक्तावभिमानो निमित्तम् । ओह इत्याद्युक्तौ तु अभिमानाभावः । ओहत्वोक्तौ निमित्तान्तरं चाह ॥ जीवानभिमत इति ॥ जीवतीति सप्तम्यन्तम् । श्वासोच्छ्वासादिमतीत्यर्थः । यदि रामकृष्णादिविग्रहः प्राकृतः स्यात्तदाऽयं नियमो न स्यात् । देवदत्तादिस्तु स्वेतरजीवानभिमते जीवति देहे तिष्ठतीति न तस्यादेहत्वम् । तथा च स्वेतरजीवानभिमतश्वासोछ्वासादिमच्छरीरकत्वं देहवत्वोक्तौ निमित्तम् । तदभावोऽदेहवत्वोक्तौ निमित्तमिति भावः । सिंहावलोकनन्यायेन स चान्यः प्राणदेहयो-रित्यत्र चशब्दसमुच्चयमाह तात्पर्यकृत् । स चान्यः श्रोतुर्वक्तुश्चेति चशब्द इति स चान्य इत्यत्र चशब्दः श्रोतुर्वक्तुश्चेति समुच्चयार्थ इत्यर्थः । पुनः सिंहावलोकनन्यायेन भूतेन्द्रियमनोलिङ्गानित्यनूद्य लिङ्गशब्दस्य स्वरूपार्थे प्रमाणमाह तात्पर्यकृत् ॥ भूतेन्द्रियमनोरूपान् । लिङ्गं स्वरूपमुद्दिष्टं लिङ्गं ज्ञापकमेव चेति शब्दनिर्णये ॥ ४४,४६ ॥

यावल्लिङ्गान्वितो ह्यात्मा तावत् कर्मनिबन्धनः ।

ततो विपर्ययः क्लेशो मायायोगोऽनुवर्तते ॥ ४७ ॥

पदरत्नावली

नन्वयं जीवः कियन्तं कालं देहान्वितो भवतीति चोद्यं परिहरति– यावदिति ॥ यावन्तं कालम् अन्नमयप्राणमयमनोमयलक्षणेषु लिङ्गेषु अन्वितो भवति आत्मा परमात्मा तावन्तं कालं कर्मभिर् नितरां बन्धनं यस्य स तथा जीव एषु देहेषु अन्वितो भवति । हिशब्दात् हरिर्यदा त्रिविध-देहानुत्सृजति तदा स्वयमप्युत्सृजतीति ग्राह्यम् । अत्रायं विशेषः । यदा परमात्मा देहं सर्वात्मनोत्सृजति तदाऽयमपि सर्वात्मना तदनुग्रहेणोत्सृज्य संसारान्मुक्तो भवति, न चेदनेन सह देहान्तरं भजतीति । तस्मादद्य अनेन (हरिणा)रूपान्तरेण कृतदेहोत्सर्जनत्वादनेनापि सुयज्ञेन तदाचरितमिति देहोत्सर्जन-लक्षणमरणस्य पराधीनत्वेनापरिहार्यत्वात्, न शोकेन प्रयोजनमिति भावः । ‘यावद् देहान्वितो विष्णु-स्तावज्जीवः’ इत्येतदत्र मानम् । ‘यदोत्सृजति देहं स हरिः सर्वात्मना विभुः’ इति च । ननु परमात्मा जीवाभिन्नः सन् देहान् भजत्युत्सृजतीत्युच्यत इति किं न स्यात् कल्पनालाघवात् ? एकमेव ब्रह्माज्ञानात् संसरति मुच्यते च इत्यङ्गीकाराच्चेति तत्राह– तत इति ॥ तस्मात् हरेर् जीवो विपर्ययो विरुद्धः पर्ययो निश्चयो यस्य स तथा, विरुद्धलक्षण इत्यर्थः । ‘अतिभिन्नस्वरूपौ तौ जीवेशावेकदेहगौ’ इत्यादेः । अतो ब्रह्मणोऽज्ञानकल्पनमप्रामाणिकमिति भावः । ‘देहाभिमानी त्वेकोऽत्र न मानी मानदः परः’ इत्येतद्भेदोपपादकम् । इतोऽपि भिन्न इत्याह– क्लेश इति ॥ नानाक्लेशाधिकरणत्वाद्भिन्न इत्यर्थः । ‘विपर्ययः । तावद् क्लेशादयश्चास्य’ इत्यादेः । क्लेशफलमाह– मायेति ॥ ४७ ॥

प्रकाशिका

कियन्तं कालम् एवं भगवदधीनो जीवः संसरतीत्यपेक्षायामाह । यावल्लिङ्गेति । यावंतं कालमात्मा परमात्मा लिङ्गान्वितः देहान् भजति तावत्पर्यंतमेव । नितरां कर्मभिर्बंधनं यस्य स जीवस्ततः परमात्मनस् तत्प्रेरणयेति यावत् । विपर्ययः विपरीतः । स्वस्वरूपापेक्षया विरुद्धस्वभावो भवति । तमेव दर्शयति । क्लेश इति । अस्येति शेषः । मायायोगः । न वा देहसम्बन्धः । यदाऽयं परमात्मा सर्वथा देहान्न भजति तदा जीवः संसृतेर्मुच्यत इत्यपि ग्राह्यम् ॥ ४७ ॥

मन्दनन्दिनी

एवं जीवस्य पुनः पुनः देहप्राप्तौ कदा मोक्ष इत्यतो मूलं प्रवृत्तम् ॥ याव-ल्लिङ्गेति ॥ अत्र तात्पर्यम् । आत्मा परमात्मा । कर्मनिबन्धनो जीवः । ततः परमात्मनो विपरीत इति । तथा च यावल्लिङ्गान्वितो लिङ्गशरीरादिजडदेहान्वित आत्मा परमात्मा कर्मबन्धनं संसृतौ यस्य तादृशो जीवस्ततः परमात्मन एव विपर्ययो विपरीतमतिमान्वर्तते । क्लेशः संसारक्लेशो मायायोगोऽविद्यायोग-स्तन्निमित्ताभिमानोऽपि तावदनुवर्तत इति योजना । यदोत्सृजति देहं सः हरिः सर्वात्मना विभुः । तदा तदभिमानी तु जीवो मुच्येत संसृतेरित्यपि योजनीयम् । गारुडे एवमेवोक्तेः । तथा च कदा मोक्ष इति शङ्का परास्ता ॥ ४७ ॥

वितथाभिनिवेशोऽयं यद्गुणेष्वर्थदृग्वचः ।

यथा मनोरथः स्वप्नः सर्वमैन्द्रियकं मृषा ॥ ४८ ॥

पदरत्नावली

कोऽयं मायायोगो नाम येनासौ क्लेशफलः स्यादिति तत्राह– वितथेति ॥ गुणेषु शब्दादिषु अर्थदृग्वचः प्रयोजनदर्शनं तद्वाचकं वचनं च ‘स्वर्गे लोके न भयं किञ्च नास्ति’इत्यादिलक्षणं यद् अयं वितथाभिनिवेशः मिथ्याग्रहः भ्रान्तिज्ञानमित्यर्थः । क्लेशपरिजिहीर्षया शब्दादिष्विन्द्रियप्रवर्तनं तत्फलमित्युपचारः । वचनाद्धि वितथाभिनिवेशो भवति । गुणेष्वर्थदर्शनस्यापि तथाभिनिवेशित्वं सदृष्टान्तमाह– यथेति ॥ ‘सप्तसु प्रथमा’ इति सूत्रान् मनोरथे कल्पितं राज्यं स्वप्ने दृष्टं रत्नं यथा मृषा वृथा तथा सर्वमिन्द्रियप्रवर्तनम् । मृषा सदसद्विलक्षणमित्यर्थं ‘वृथा चेन्द्रियवृत्तयः’ इत्येतद् विरुणद्धि । ‘इन्द्रियाद्यभिमानेन तद्वान् जीव उदीर्यते ।

अतन्मानाद्धरिः प्रोक्तस्त्वदेहो निद्रयास्तथा ।

जीवानभिमते देहे न विष्णुर्जिववत्स्थितः ॥

अतस्त्वदेह उद्दिष्टः परमात्मा सनातनः’ इत्येतद् जीवपरयोर्भेदस्य जीवस्येन्द्रियवत्वमौपचारिक-मित्यस्य चोपपादने प्रमाणम् । जीवस्येन्द्रियवत्वमुपचरितं चेत् कस्य तन्मुख्यमित्याशङ्का– ‘लेपाभिमानी जीवस्तु स्वरूपानुभवी न च । मुक्तेः प्राक् तेन मान्युक्तो न मानी विष्णुरुच्यते । सर्वं ममेति पश्यन्नप्य-लेपाभिमतिर्यतः । सम्यक्स्वरूपानुभवात् स्वतन्त्रत्वाददोषतः ॥’ इत्यनेन परिहर्तव्या । स्वानधीने वस्तुनि स्वाधीनताबुद्धिर् लेपाभिमानः । सोऽस्यास्तीत्येतादृशदोषो वितथाभिनिवेश इत्युच्यते । हरेर्जीवदेहेन्द्रियादिषु स्वाधीनेषु स्वाधीनताबुद्धिः (न) लेपाभिमानः । स गुणो यथार्थज्ञानलक्षणः । तस्माद्धरेर्देहेन्द्रियादौ स्वामित्वेन तद्वत्वं मुख्यम् । तत्राविवेकग्रहणं कर्मनिबन्धनम् । ततो विपर्यय इत्यादिलक्षणैर् जीवोऽनीदृशः श्रीनारायण इति स्मर्तव्यम् ॥ ४८ ॥

प्रकाशिका

ननु पराधीनेनापि सुयज्ञेनास्माकं शब्दादिविषयप्राप्तिरूपं प्रयोजनमभूत्तदिदानीं गतमतः शोचाम इत्याशङ्कायामाह ॥ वितथेति ॥ गुणेषु शब्दादिषु अर्थदृक् पुरुषार्थत्वेन ज्ञानं वचश्चेति यत् सोऽयमभिनिवेश आग्रहो वितथा व्यर्थः । एतदेव दृष्टान्तमुखेनोपपादयति ॥ यथेति ॥ मनोरथः । मनोरथकल्पितस्वप्नस्तत्र दृष्टं वित्तादिकं यथा मृषा वृथा तथैन्द्रियकमिन्द्रियविषयभूतं शब्दादिकं मृषा वृथा । तेभ्यो मौक्तिकसुखालाभादित्याशयः ॥ ४८ ॥

मन्दनन्दिनी

एवं तर्हि संसारेषु पुरुषार्थो नास्तीत्यायातम् । कथं तर्हि स्वर्गलोके न भयं किञ्चनास्तीत्यादिवचनबलात्स्वर्गादौ पुरुषार्थत्वज्ञानं जीवस्येत्यत आह ॥ वितथेति ॥ गुणेषु गुणकार्येषु स्वर्गादिष्वर्थदृक् पुरुषार्थ इति ज्ञानमयं वितथाभिनिवेशोऽयथार्थाभिमानः । वस्तुतः स्वर्गादेः परम-पुरुषार्थत्वाभावात् । वचोऽपि वितथा न प्रतीतार्थम् । तत्रत्यस्वर्गपदस्य मोक्षपरत्वात् । अत्र दृष्टान्तमाह ॥ यथेति ॥ सप्तसु प्रथमेत्युक्तेः । मनोरथे स्वप्ने वैन्द्रियकमिन्द्रियेण प्रतीयमानवित्तादिकं मृषा वृथा । इदं वित्तादिकं मम पुत्राद्युपयोगी भवतीत्यभिनिवेशो यथा तथेति योजना । स्वप्नमनोरथपदार्थानां वासना-द्युपादानकत्वेन सत्यत्वस्य तद्विषयकबाह्यार्थक्रियाकारित्वज्ञानभ्रान्तित्वस्य स्वप्नाधिकरणे निर्णीतत्वात् । अत एव तात्पर्यम् ॥ मृषा वृथा ॥ स्वप्नदृष्टवित्तादिवदिति मायायोगपदेनाभिमानः संसारकारणमित्युक्तम् ईश्वरस्याभिमानस्य सत्त्वेन संसारापत्तेरित्यतोऽभिमानं विवेचयति प्रमाणेन तात्पर्यकृत् ‘‘लेपाभिमानी जीवस्तु स्वरूपानुभवी न च । मुक्तेः प्राक् तेन मान्युक्तो न मानी विष्णुरुच्यते । सर्वं ममेति पश्यन्नप्यलेपाभिमतिर्यतः । सम्यक्स्वरूपानुभवात्स्वतन्त्रत्वाददोषतः’’ ॥ इति ब्रह्मतर्के ॥ अत्र स्वकीयत्वबुद्धिमात्रं नाभिमानः किं त्वस्वकीये स्वकीयत्वबुद्धिः । किंचिद्दत्तस्वत्वकेऽपि वस्तुन्यदत्त-स्वत्वबुद्धिश्चात एव लेपस्य पुण्यपापलेपस्य कारणम् । एवं लिप्यत इति लेपः । सम्बद्धं वस्तु तथा चासाधारण्येन व्यपदेश इति । स्वरूपसुखादौ मदीयत्वबुद्धिर्नास्ति किन्तु बाह्यमात्राभिमानवान् । उक्तद्विविधलेपाभिमानस्य मुक्तेः प्राक् सत्वाद् । तदैव जीवो मान्युक्तः । विष्णुस्तु तदभावान्न मानीत्युच्यते । लेपाभिमतेरेव मानीत्युक्तौ निमित्तत्वात्सर्वं पश्यन्नपि विष्णुरमानीत्युच्यते । लेपाभिमत्य-भावमुपपादयति ॥ सम्यगित्यादिना ॥ आद्येन बाह्यमात्राभिमानाभावः । द्वितीये नास्वकीये स्वकीयत्वबुद्धेरभावः । तृतीयेन पुण्यपापलेपकारणत्वाभाव उपपादित इति ध्येयम् ॥ ४८ ॥

अथ नित्यमनित्यं वा नेह शोचन्ति तद्विदः ।

नान्यथा शक्यते कर्तुं स्वभावः शोचतामिति ॥ ४९ ॥

पदरत्नावली

यस्मात् सर्वस्येश्वराधीनत्वेन जन्तूनां मरणादिकमपरिहार्यं तस्मात् सर्वथा देहेन्द्रियादेरनित्यत्वं नित्यत्वं वाऽस्तु । तथापि शोककरणं न पण्डितमतम् । ‘गतासूनगतासूंश्च नानु-शोचन्ति पण्डिताः’ इत्यादेरित्याह– अथेति ॥ अतस्तन्मूर्खमतमिति सन्तोष्टव्यम् । स्वभावत्वा-दित्याह– नान्यथेति ॥ ४९ ॥

प्रकाशिका

उपसंहरति ॥ अथेति ॥ अथ तस्मात् । वाशब्द उपमार्थः । नित्यमिवानित्यं देहादिकमुद्दिश्य । तद्विद उक्तरीत्या जीवादेः सर्वस्य हर्यधीनत्वादिविदः । ननु तर्हि लोका बन्धूनां मरणे सति किमर्थं शोचन्तीत्यपेक्षायां मूर्खा इत्याशयेनाह ॥ नान्यथेति ॥ इत्यनेन प्रकारेण शोचताम्

॥ ४९ ॥

मन्दनन्दिनी

शोको न कार्य इत्येतदुपसंहरति ॥ अथेति ॥ स्वभावो नित्यानित्यस्वभावः शोचतां शोचद्भिरन्यथा कर्तुं न शक्यत इति ज्ञात्वाऽथ तस्मादन्यथा कर्तुमशक्यत्वात् । तद्विदो नित्यानित्यविदो नित्यमनित्यं वोद्दिश्य नानुशोचन्तीति योजना ॥ ४९ ॥

लुब्धको विपिने कश्चित् पक्षिणां निर्मितोऽन्तकः ।

वितत्य जालं विदधे तत्र तत्र प्रलोभनम् ॥ ५० ॥

कुलिङ्गमिथुनं तत्र विचरन् समदृश्यत ।

तयोः कुलिङ्गी सहसा लुब्धकेन प्रलोभिता ॥ ५१ ॥

पदरत्नावली

अस्मिन्नेवार्थे कञ्चनेतिहासमाह– लुब्धक इति ॥ लुब्धको मृगयुः । निर्मितः, विधिनेति शेषः । वितत्य विस्तृत्य । प्रलोभनं वञ्चनम् ॥ ५०–५१ ॥

प्रकाशिका

स्वयं सधर्मा इति यदुक्तं तत्रेतिहासमाह ॥ लुब्धक इत्यादिना ॥ पक्षिणामन्तक ईश्वरेण निर्मितः । यत्र यत्र पक्षिणस्तत्र तत्र जालं वितत्य विस्तार्य तेषामामिषादिभिः प्रलोभनं विदधे कृतवान् ॥ ५० ॥

मन्दनन्दिनी

एवं बालरूपो यमः स्वयमेवमुक्त्वा वैराग्यं जनयितुं काञ्चन कथामाह ॥ लुब्धक इत्यादिभिः कतिपयैः श्लोकैः ॥ योजना तु स्फुटा । लुब्धको मृगुयुर्निर्मितः । विधिनेति शेषः । वितत्य विस्तृत्य प्रलोभनं वञ्चनम् ॥ कुलिङ्गमिथुनम् । ‘‘दार्वाघाटो दारुकुट्टः कुलिङ्गो दीर्घतुण्डकः’’ इत्यभि-धानम् । मिथुनं स्त्रीपुंसद्वन्द्वम् ॥ ५०,५१ ॥

साऽसज्जत सिचा तन्त्या महिषी कालयन्त्रिता ।

कुलिङ्गस्तां तथाऽपन्नां निरीक्ष्य भृशदुःखितः ॥ ५२ ॥

पदरत्नावली

सिचा जालेन सह यन्त्रितया तन्त्या सूत्रेण । महिषी कुलिङ्गभार्या । काल-यन्त्रिता कालाधीना ॥ ५२ ॥

प्रकाशिका

सिचा तन्त्या जालरूपसूत्रेणासज्जत बन्धं प्राप । आपन्नाम् आपदं प्राप्ताम् ॥ ५२ ॥

मन्दनन्दिनी

सिचा जालेन सह यन्त्रितया तन्त्या सूत्रेण । महिषी कुलिङ्गभार्या । कालयन्त्रिता मृत्युवशमापन्ना ॥ ५२ ॥

स्नेहादकल्पः कृपणां पर्यदेवयदातुरः ।

अहो अकरुणो देवः स्त्रिया कृपणया विभुः ॥ ५३ ॥

पदरत्नावली

अकल्पोऽसमर्थः, मोचयितुमिति शेषः । पर्यदेवयद् विलपितवान् ॥ ५३ ॥

प्रकाशिका

अकल्पो ऽसमर्थः । मोचयितुमिति शेषः । पर्यदेवयद्विलपितवान् ॥ ५३ ॥

मन्दनन्दिनी

अकल्पो मोचयितुमसमर्थः । पर्यदेवयद्विलपितवान् । विलपनप्रकारमाह ॥ अहो इति ॥ देवो विधिर्यमो वा अकरुणो दयारहितः स्वप्रयोजनाभावेऽपि हंतृत्वात् । एवंविधया स्त्रिया हृतया किं करिष्यतीत्यकारुण्योपपादनम् ॥ ५३ ॥

कृपणं माऽनुशोचन्त्या दीनया किं करिष्यति ।

कामं नयतु मां देवः किमर्द्धेनात्मनो हि मे ॥ ५४ ॥

प्रकाशिका

आत्मनो देहस्यार्धेन भार्याख्येन ॥ ५४ ॥

मन्दनन्दिनी

दुःखेन स्वात्मनो वधमाशास्ते ॥ काममिति ॥ अर्धेनात्मना देहेन ॥ ५४ ॥

दीनेन जीवता दुःखं मन्देन विधुरायुषा ।

कथं त्वजातपक्षांस्तान् मातृहीनान् बिभर्म्यहम् ।

मन्दभाग्या प्रतीक्षन्ते नीडे मे मातरं प्रजाः ॥ ५५ ॥

पदरत्नावली

दुःखं जीवता दीनेन क्षीणेन आत्मनोऽर्द्धेन मे मम किं प्रयोजनम् ? न किमपि । कुतः ? विधुरायुषा आयूरहितेन । आत्मनोऽर्द्धस्य नष्टत्वात् । मे प्रजाः पुत्राः ॥ ५५ ॥

प्रकाशिका

विधुरायुषा विरहितायुष्येन । दुःखं यथा स्यात्तथा जीवतो देहेन मे किं प्रयोजनमतोऽपि मां नयत्वित्यन्वयः । मे प्रजा पुत्राः ॥ ५५ ॥

मन्दनन्दिनी

विधुरायुषा स्त्रीरहितायुष्मताऽर्धेन देहेन दुःखं जीवता । अनेनार्धस्य वैयर्थ्यमुपपादितम् । जीवनेऽनुपपत्तिमाह ॥ कथमिति ॥ मे प्रजाः ॥ ५५ ॥

एवं कुलिङ्गं विरुवन्तमारात् प्रियावियोगातुरमश्रुकण्ठम् ।

तदैव तं शाकुनिकः शरेण विव्याध कालप्रहितो निलीनः ॥ ५६ ॥

पदरत्नावली

शाकुनिकः पक्षिमारकः । कालेन अन्तकेन प्रहितः प्रेरितः । निलीनः वृक्षमूले छन्नः । कुलिङ्गं दीर्घतुण्डम् । ‘दार्वाघाटो दारुकुट्टः कुलिङ्गो दीर्घतुण्डकः’ इत्यभिधानम् ॥ ५६ ॥

प्रकाशिका

शाकुनिकः पक्षिमारकः कालेनान्तकालेन प्रहितः प्रेरितः । निलीनश् छन्नःसन्

॥ ५६ ॥

मन्दनन्दिनी

शाकुनिकः पक्षिमारकः कालेनान्तकेन प्रहितः प्रेरितः । निलीनश् छन्नः ॥ ५६ ॥

एवं यूयमपश्यन्त्य आत्मापायमबुद्धयः ।

नैनं प्राप्स्यथ शोचन्त्यः पतिं वर्षशतैरपि ॥ ५७ ॥

पदरत्नावली

अनेन प्रकृते किमभूत् ? तत्राह– एवमिति ॥ आत्मापायं युष्मन्नाशं देहनाशं वा

॥ ५७ ॥

प्रकाशिका

आत्मापायं स्वमृत्युम् ॥ ५७ ॥

मन्दनन्दिनी

एवं कुलिङ्गवत् । आत्मापायं स्वविनाशम् ॥ ५७ ॥

हिरण्यकशिपुरुवाच–

बाल एवं प्रवदति सर्वे विस्मितचेतसः ।

ज्ञातयो मेनिरे सर्वमनित्यमयथोत्थितम् ॥ ५८ ॥

तात्पर्यम्

‘अहं ममाभिमानादि त्वयथोत्थमनित्यकम् । महदादि यथोत्थं च नित्या चापि यथोत्थिता । अस्वतन्त्रैव प्रकृतिः स्वतन्त्रो नित्य एव च । यथार्थभूतश्च पर एक एव जनार्दनः’ ॥ इति च ॥ ५८ ॥

पदरत्नावली

किं ज्ञातयो बालभाषितमित्युपेक्षां चक्रुरिति तत्राह– बाल इति ॥ यद् देहादिकं तत् सर्वमनित्यं मेनिरे । यद् देहात्मत्वं तद् अयथोत्थितं स्वप्नजाग्रत्त्ववद् भ्रान्तिं मेनिरे । ‘अहं ममाभिमानादित्वयथोत्थमनित्यकम्’ इति स्मृतेः । नन्वेवं तर्हि महदादिजगतश्चित्प्रकृतेश्च भ्रान्ति-कल्पितत्वमायातम् । तयोरपि सर्वान्तर्गतत्वादित्याशङ्का वक्ष्यमाणवचनेन परिहर्तव्या । तथा हि यन्महदादि तत्सर्वं जगद् अकारवाच्यस्य हरेरनुग्रहान्नित्यम् । आत् परमात्मनो यथार्थत्वेन सत्यत्वेन उत्थितं सृष्टम् । चित्प्रधानस्यापि नित्यत्वं भगवन्तमन्तरेण यथाऽस्वातन्त्र्येण स्थितत्वं च । तदुक्तं च– ‘महदादि यथोत्थं च नित्या चापि यथोत्थिता । अस्वतन्त्रैव प्रकृतिः स्वतन्त्रो नित्य एव च । यथार्थ-भूतश्च पर एक एव जनार्दनः ॥’ इति । अनेन महदादेरप्यनित्यत्वादिकं नास्तीति किमु हरेरिति कैमुत्यन्यायो दर्शितः ॥ ५८ ॥

प्रकाशिका

सर्वमनित्यमयथोत्थितमित्येतत्सर्वम् ईश्वरादिकं जगदनित्यमयथोत्थितं मिथ्यैव प्रतीयमानमिति प्रतीतिवारणाय प्रमाणेनैव व्याख्याति ॥ अहं ममाभिमानादीति ॥ अहं ममेत्यभिमानो यत्रेति विग्रहेणाहं ममाभिमानविषयीभूतं स्वातंत्र्यमित्यर्थः । तुशब्दोऽवधारणे । तदेव अयथोत्थं मिथ्यैव प्रतीयमानं न सर्वमित्यर्थः । तुशब्दः महदादीत्यत्रापि योज्यः । तथा च महदाद्येव नित्यकं न सर्वमित्यर्थः । ननु कुत एवमुभयत्र सङ्कोच इत्यत आह ॥ यथोत्थमित्यादि ॥ महदादियत्थोत्थं प्रकृतिश्चेतनाऽचेतनाच यथोत्थितं यथार्थभूता । जनार्दनश्चायथार्थभूतोऽतो यथोत्थत्वस्यापि महदादि-मात्रान्विततया सङ्कोचः कृत इत्यर्थः । ननु प्रकृतिजनार्दनयोर्नित्यत्वे यथार्थत्वे च साम्यं प्राप्तमित्यत उक्तं प्रकृतिरस्वतंन्त्रैव जनार्दनः स्वतंत्र एवेति ॥ ५८ ॥

मन्दनन्दिनी

विस्मितचेतसो वृद्धानामस्माकमविद्यमानमेतादृशं ज्ञानं बालस्यास्तीत्याश्चर्य-युक्तचेतसो ज्ञातयो बान्धवाः सर्वदेहगेहाद्यनित्यं तत्र प्रतीयमानस्वत्वं स्वकीयत्वादिकमयथोत्थितमसत्यं मेनिर इति योजना । एतद्व्याख्यातुं तात्पर्यं प्रवृत्तम् ।

अहं ममाभिमानादि त्वयथोत्थमनित्यकम् ।

महदादि यथोत्थं च नित्या चापि यथोत्थिता ।

अस्वतन्त्रैव प्रकृतिः स्वतन्त्रो नित्य एव च ।

यथार्थभूतश्च पर एक एव जनार्दनः ॥ इति ब्रह्मतर्के ।

अहं ममाभिमानादिशब्देन तद्विषयीभूतगेहादि लक्ष्यते । तत्रापि प्रकारीभूतास्वत्वस्वकीयत्वादि । अयथोत्थमसत्यम् । विशेषभूतं देहगेहादि तु अनित्यम् । अविद्यायास्तन्मूलजगतश्च सत्यत्वात् । कथमयं विवेक इत्यतः सर्वं सत्यमित्याह । महदादि यथोत्थं सत्यमनित्यं च प्रकृतिश्चिदचित्प्रकृतिर्नित्या यथोत्थिता च । अपि तथाऽप्यस्वतन्त्रैव परः परमात्मा जनार्दन एक एव स्वतन्त्रः । तथा स्वयं च यथार्थभूतः । सत्यनित्य एव । नाचित्प्रकृतिवन्नित्यानित्य इत्यर्थः ॥ ५८ ॥

यम एतदुपाख्याय तत्रैवान्तरधीयत ।

ज्ञातयोऽपि सुयज्ञस्य चक्रुर्यत् साम्परायिकम् ।

ततः शोचत मा यूयं परं चात्मानमेव च ॥ ५९ ॥

पदरत्नावली

साम्परायिकं मृतविषयम् ॥ ५९ ॥

प्रकाशिका

मूले साम्परायिकं पारलौकिकं कृत्यम् ॥ ५९ ॥

मन्दनन्दिनी

अन्तरधीयतादृश्योऽभूत् । साम्परायिकमौर्ध्वदेहिकम् । ततः स्वत्वादेरसत्यत्वाद् देहादेरनित्यत्वात् । यूयं परं च परदेहमात्मानं स्वदेहं चोद्दिश्य मैव शोचत । मा शब्दोऽयं न माङ्

॥ ५९ ॥

क आत्मा कः परो वाऽत्र स्वीयः पारक्य एव च ।

स्वपराभिनिवेशेन विनाऽज्ञानेन देहिनः ॥ ६० ॥

तात्पर्यम्

‘क आत्मा कः पर’ इति देहाद्यपेक्षया । ‘न हि देहादिरात्मा स्यान्न च शत्रुरुदीरितः । अतो दैहिकवृद्धौ वा क्षये वा किं प्रयोजनम् । यस्तु देहगतो जीवः स हि नाशं न गच्छति । ततः शत्रुविवृद्धौ वा स्वनाशे शोचनं कुतः । देहादिव्यतिरिक्तौ तु जीवेशौ प्रतिजानताम् । अत आत्मविवृद्धिस्तु वासुदेवे रतिः स्थिरा । शत्रुनाशस्तथाऽज्ञाननाशो नान्यः कथञ्चन’ इति ब्रह्मवैवर्ते ॥ ६० ॥ इति सप्तमतात्पर्ये द्वितीयोऽध्यायः ॥ २ ॥

पदरत्नावली

आत्मपरावुद्धिश्य किमिति शोको न कार्य इति तत्राह– क आत्मेति ॥ देहादिकमपेक्ष्यात्मपरौ आक्षिप्येते । तथा हि– आत्मपरयोश्चेतनत्वेन नित्यत्वाद्देहादेर् भौतिकत्वेन नश्वरत्वात् किंशब्दस्याक्षेपत्वमेव नत्वनिर्वचनीयः । तर्हि ‘अहं’‘परः’ इति व्यवहारस्य किं मूलमिति तत्राह– स्वपरेति ॥ स्वः पर इति दुराग्रहलक्षणमज्ञानमन्तरेण न किमपि कारणम् । तस्मादात्मनो वृद्धिः । श्रीवासुदेवे दृढा मन•ेरतिरज्ञाननामशत्रुनाशश्चापादनीयौ पुरषेणेति निश्चेतव्यम् । ‘न हि देहादिरात्मा स्यान्न च शत्रुरुदाहृतः । अतो दैहिकवृद्धौ वा क्षये वा किं प्रयोजनम् । यस्तु देहगतो जीवः स हि नाशं न गच्छति । अतः शत्रुविवृद्धौ वा स्वनाशे शोचनं कुतः । देहादिव्यतिरिक्तौ तु जीवेशौ प्रतिजानताम् । अत आत्मविवृद्धिस्तु वासुदेवे रतिः स्थिरा । शत्रुनाशस् तथाऽज्ञाननाशो नान्यः कथञ्चन ॥’ इत्यनेन तात्पर्यमवगन्तव्यमिति सिद्धम् ॥ ६० ॥

प्रकाशिका

शत्रुपक्षपातिना हरिणा स्वकीयो हिरण्याक्षो हत इति शोचतो मात्रादीनुद्दिश्याह । क आत्मेति । अत्र भेदनिराकरणप्रतीतिवारणाय तात्पर्यमाह ॥ क आत्मेति ॥ आदिपदेनेन्द्रियादि-सङ्ग्रहः । तथा च चेतनं देहेन्द्रियादिकं लक्षीकृत्यैव क आत्मा कः पर इत्याक्षिप्य तेन तद्गतौ चेतनौ येन भेदनिराकरणप्राप्तिरित्यर्थः । अत्र प्रमाणं पठति । न हीति । आत्मा स्वरूपम् । अचेतनत्वा-दित्याशयः । स्वदैहिकवृद्धौ शत्रुदेहक्षये । नाशं न गच्छतीत्युपलक्षणम् । स्वदेहगतो वृद्धिं च न गच्छतीत्यपि ग्राह्यम् । नन्वेवं स्वात्मवृद्धिः शत्रुनाशश्च कर्तव्यतया कथं शास्त्रेण कथ्यत इत्यतस्तस्य तात्पर्यमाह ॥ अत इति ॥ अवधारणार्थकतुशब्दस्य रतिरेवेत्यन्वयः । ततश्चायं श्लोकार्थः । स्वस्य दृश्यमानो देहादिः क आत्मा न कोऽपि । परस्य दृश्यमानो देहादि कः परः शत्रुर् न कोऽपि । एवं स्वीय इत्यादिकमपि स्वपरसम्बन्धिदेहादिकं लक्षीकृत्यैव व्याख्येयम् । अयमभिप्रायः । स्वपोषणे शत्रुनाशे च यतभानाः शोचयता मानाः प्रष्टव्याः । किं शत्रुदेहावुद्दिश्यायं यत्न उत तद्गतौ जीवा-वुद्दिश्य । नाद्यः । तयोरचेतनत्वेन स्वशत्रुत्वयोरभावात् । न द्वितीयः । जीवानां नित्यत्वेन पोषण-नाशयोरसम्भवात् । अतः शत्रुविवृद्धौ स्वस्य स्वीयस्य वा नाशे शोको व्यर्थ इति । नन्वेवमयं स्वीयोऽतः पोषणीयोऽयं शत्रुरतोविनाश्य इति लोके कथं व्यवहार इत्यत आह ॥ स्वपरेति ॥ स्वः पर इत्यभिनिवेश आग्रहो येन तेन अज्ञानेन विना क आत्मेत्याद्यन्वयः । ततश्चाज्ञानमूलकोऽयं व्यवहार इत्याशयः ॥ ६० ॥

मन्दनन्दिनी

स्वपराभिनिवेशेन स्वदेहपरदेहादावात्मत्वपरात्मत्वभ्रान्तेः स्वपरगेहादौ स्वकीयत्व- परकीयत्वभ्रांतेश्च जनकेनाज्ञानेन विना देहिनां भिन्नदेहवतां को देहः । आत्मा स्वस्वरूपभूतः को वा देहः । परः परात्मभूत इत्याक्षेपः । न कोऽपि न देह आत्माभिन्नः । एवं को गेहदेहादिः स्वीयः को वा पारक्यः परकीयः न कोऽपीति योजना । एतदेवाभिप्रेत्य तात्पर्यं प्रवृत्तम् ।

क आत्मा कः पर इति देहाद्यपेक्षया ।

न हि देहादिरात्मा स्यान्न च शत्रुरुदीरितः ।

अतो दैहिकवृद्धौ वा क्षये वा किं प्रयोजनम् ।

यस्तु देहगतो जीवः स हि नाशं न गच्छति ।

ततः शत्रुविवृद्धौ वा स्वनाशे शोचनं कुतः ।

देहादिव्यतिरिक्तौ तु जीवेशौ प्रतिजानताम् ।

अत आत्मविवृद्धिस्तु वासुदेवे रतिः स्थिरा ।

शत्रुनाशस्तथाऽज्ञाननाशो नान्यः कथञ्चन ॥’’ इति ब्रह्मवैवर्ते ॥

देहादिरित्यादिपदेनेन्द्रियादिकम् । अतः स्वपरस्वरूपत्वाभावात् । क्षये वेत्यत्र बुद्ध्या विवेकेन दैहिकस्येत्यनुवर्तते । शत्रुदैहिकस्येत्यर्थः । तत उक्तहेतोरेव शोचनं कुतः । देहयोरात्मत्वाभावात् । अविवेकिनामकार्यमुक्त्वा विवेकिनां सम्पाद्यवृद्धिशत्रुनाशावाह ॥ देहादिव्यतिरिक्ताविति ॥ अतोऽ-न्यस्य वृद्धित्वाद्यभावात् । अज्ञाननाशोऽज्ञानतत्कार्यभ्रान्त्यादिनाशः ॥ ६० ॥

नारद उवाच–

इति दैत्यपतेर्वाक्यं दितिराकर्ण्य सस्नुषा ।

पुत्रशोकं क्षणात् त्यक्त्वा तत्वे चित्तमधारयत् ॥ ६१ ॥

इति श्रीमद्भागवते सप्तमस्कन्धे द्वितीयोऽध्यायः ।

पदरत्नावली

प्रकरणसमाप्तावितिशब्दः ॥ ६१ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

सप्तमस्कन्धे द्वितीयोऽध्यायः ॥

प्रकाशिका

तत्त्वे परब्रह्मणि ॥ ६१ ॥

॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां

श्रीमद्भागतटिप्पण्यां सप्तमस्कन्धे द्वितीयोऽध्यायः ॥

मन्दनन्दिनी– दैत्यपतेर्वाक्येन दितेः शोकनिवृत्तिर्जातेत्याह ॥ इति दैत्यपतेरिति ॥ तत्त्वे परतत्त्वे ।

**॥ इति श्रीमद्भागवतटिप्पण्यां श्रीव्यासतत्वज्ञविरचितायां **

मन्दनन्दिन्यां सप्तमस्कन्धे द्वितीयोऽध्यायः ॥ ७–२ ॥