०१ प्रथमोऽध्यायः

समः प्रियः सुहृद् ब्रह्मन् भूतानां भगवान् स्वयम्

श्रीमद् भगवद्बादरायणप्रणीतम्

श्रीमद्भागवतम्

सप्तमस्कन्धः

॥ अथ प्रथमोऽध्यायः ॥

ॐ नमो भगवते वासुदेवाय

राजोवाच—

समः प्रियः सुहृद् ब्रह्मन् भूतानां भगवान् स्वयम् ।

इन्द्रस्यार्थे कथं दैत्यानवधीद्विषमो यथा ॥ १ ॥

**श्रीमद्विजयध्वजतीर्थविरचिता **

पदरत्नावली

षष्ठस्कन्धाभिधे तीर्थे स्नातः सप्तमनाम््नयथ ।

श्रीमद्भागवते स्नातुं प्रयते तत्वसंविदे ॥

सेवा येषामपवर्गगतिर्जगताममलास्ते

श्रीमद्विष्ण्वङ्घ्रिसरोरुहयुगले भ्रमन्तः सन्तः ।

कुर्वन्तु दयां मयि विजयध्वजतीर्थे नित्यं

नित्याभ्यस्तादितिजाङ्घ्रितनुनखतीर्थसुतीर्थे ॥

सन्ततवेदान्तपरिनिष्ठितानामपि श्रीनारायणपरमप्रसादमन्तरेणानापादितसमीचीनज्ञानामृतकलानां क्वचित् क्वचिदसुरजनमोहाय प्रदर्शितशुक्रशोणितसम्पर्कादिभिरिव भगवतः प्रादुर्भावैस् तत्वे संशयालूनां सतां विसंशयार्थं श्रीनृसिंहावतारस् तत्प्रसक्तये नानाविधवर्णाश्रमाचारभेदविचारस् तत्पूजाप्रकारश्च निरूप्यतेऽस्मिन् स्कन्धे ।

तदर्थं परीक्षित्पश्नपूर्वकमुपोद्घातं रचयति– सम इति ॥ यो भगवान् भूतानां योग्यतातिरेकेण पक्षपरिग्रहशून्यः, आत्मादेः प्रियश्च, ‘तदेतत् प्रेयः’ इति श्रुतेः । सत्तादिप्रदत्वात् सुहृत्वाच्च । तैरनुष्ठितसमर्चनादिसुकृतस्य सुखलक्षणफलदातृत्वेन उपकर्तृत्वात् । किमत इति तत्राह– स्वयमिति ॥ विषय इव इन्द्रस्यार्थे स्वप्रयोजनमन्तरेण परप्रयोजनार्थं कतं दैत्यानवधीदित्यन्वयः ॥ १ ॥

**श्रीयादवार्यविरचिता **

भागवतप्रकाशिका

सुखादिगुणसम्पूर्णं दुःखाज्ञानादिवर्जितम् ।

शुकादिमुनिमध्यस्थं व्यासयोगीशमाभजे ॥ १ ॥

यदुक्तं पूर्वस्कन्धान्ते,

हतपुत्रा दितिः शक्र पार्ष्णिग्राहेण विष्णुना ।

मन्युना शोकदीप्तेन ज्वलन्ती पर्यचिन्तयत् ॥ इति ।

तच्छ्रुत्वा परीक्षित्पृच्छति ॥ सम इति त्रिभिः ॥ प्रियत्वादेव सुहृत् । समस्य सुहृदस्य च वैषम्यं न सम्भावितमित्याशयः ॥ १ ॥

**श्रीव्यासतत्वज्ञविरचिता श्रीभागवतटिप्पणी **

मन्दनन्दिनी

चरणस्मरणात्सर्वदुरितस्य विदारणम् ।

शरणं नृहरिं वन्दे करुणावरुणालयम् ॥ १ ॥

आपाततोऽन्यथाभातभागं भागवतं सताम् ।

तात्पर्यतोऽजितपद्यस् तं तत्त्वज्ञमुनिं भजे ॥ २ ॥

वाणीनर्तनरङ्गाभवक्त्रान् जयमुनीन् गुरून् ।

अस्मद्दैशिकपर्यन्तान् बुद्धिशुद्ध्यै समाश्रये ॥ ३ ॥

योऽतनोत्प्रभया विष्णुतत्त्वकर्मविनिर्णयौ ।

तमो निरास्यच्च तमाचार्यसूर्यमहं भजे ॥ ४ ॥

सृष्टिकूपे निपतितं द्विजमुद्धृत्य मापतेः ।

पदाम्बुजे जिहासन्तं भुवनेन्द्रमहं भजे ॥ ५ ॥

सप्तमस्कन्धगफले अतिस्वादयिष्टे रसम् ।

शुकानुकम्पया व्यासस्तत्त्वज्ञः कश्चन द्विजः ॥ ६ ॥

विजयध्वजतीर्थानां कृतेरनुकृतिर्मम ।

शिशोरिव कृतिः पित्रोर्हासहर्षावहासिताम् ॥ ७ ॥

सप्तमस्कन्धपद्यानां श्रीमद्भागवते शुभे ।

भुवनेन्द्राज्ञया कुर्वे योजनां मन्दनन्दिनीम् ॥ ८ ॥

अत्र सप्तमस्कन्धे सर्वसज्जनदुरितविदारिश्रीनृसिंहावतारस्तत्प्रसादाय विविधवर्णाश्रमाचारस्तत्सपर्या-प्रकारश्च प्रतिपाद्यते । तदर्थं परीक्षित्प्रश्नपूर्वमुपोद्घातं रचयति ॥ सम इति ॥ ‘‘समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः’’ इत्यादिवचनेषु समत्वाद्युक्तेरुभयत्र समात् । एकस्यार्थे परस्य वधाद्ययोगः । लोके तथा दर्शनात् । अत्र समत्वादेः प्रत्येकमेव वधायोगप्रयोजनकत्ववैशिष्ट्ये कृत्याभावात् । विषमो यथेत्युपलक्षणं बोध्यम् । यद्यपि सिद्धान्त्यभिमतं समत्वं न वधविरोधि । प्रियत्वादिकं न सर्वत्रास्ति । तथापि तादृशसिद्धान्ताविर्भावायैवेयमुक्तिरित्यवधेयम् ॥ १ ॥

न ह्यस्यार्थः सुरगणैः साक्षान्निःश्रेयसात्मनः ।

नैवासुरेभ्यो विद्वेषो नोद्वेगश्चागुणस्य हि ॥ २ ॥

पदरत्नावली

ननु सुरगणैः क्रियमाणस्य स्वप्रयोजनस्य सम्भवादवधीदिति किं न स्यादिति तत्राह– न हीति ॥ हिशब्दो हेत्वर्थः । कुतो नास्तीत्यत्राह– निःश्रेयसात्मन इति ॥ नित्यनिर्दुःखा-नन्दस्वरूपस्य । तादृशत्वं मुक्तस्याप्यस्तीति तत्राह– साक्षादिति ॥ नित्यनिर्दुःखानन्दानुभवस्वरूपस्य परप्राप्यप्रयोजनाभावान् मुक्तस्य तदभावात् । ननु असुरप्रद्वेषात् सुरहितं क्रियत इति तत्राह– नैवेति ॥ विद्वेषश्च तत्तत्स्वरूपत्वद्योतनाय असुरेभ्य इति पञ्चमी । वृक्षात् पर्णं पतति इतिवत् कादाचि-त्कत्वाभावात् । नित्ये द्वेषे वधानुपपत्तिर् अन्यथा वधस्यापि सन्ततानुवृत्तिः स्यात् । अतो नोपपत्तिः स्यादिति भावः । स्वाभिभवलक्षणभयात् तद्वध इति तत्राह– नेति ॥ उद्वेगो भयलक्षणः । कुत इत्यत उक्तम्– अगुणस्येति ॥ प्राकृतगुणसम्बद्धस्य तादृक्स्वभावत्वात् । हरेस्तदभावात् । ‘निर्गुणश्च’ इति श्रुतेः । अनेन निःश्रेयसात्मनोऽपि गुणसम्बन्धेन जीववत् तथात्वं स्यादिति शङ्काऽपि निरस्तेति ज्ञायते

॥ २ ॥

प्रकाशिका

किञ्च यैर्यस्य प्रयोजनं सिध्यति स तत्पक्षपाती भवति । येभ्यो बिभेति तान् द्वेष्टि । न चैतदुभयमत्रास्तीत्याह ॥ न हीति ॥ निःश्रेयसं परमानन्द एव आत्मा स्वरूपं यस्य । असुरेभ्यश्चो-द्वेगो भयं नास्त्यतो विद्वेषोऽपि नास्त्येव । उभयत्र हेतुः ॥ अगुणस्येति ॥ सत्वादिगुणविकार-शून्यस्येत्यर्थः । हीति सर्वत्र प्रमाणसिद्धिं दर्शयति ॥ २ ॥

मन्दनन्दिनी

युक्त्यन्तरेणापि वधायोगमाशङ्कते– न ह्यस्येति ॥ किं चेन्द्रस्यार्थे दैत्यवधः किमिन्द्रेण स्वप्रयोजनसद्भावात् । यद्वा स्वस्यैव दैत्यद्वेषसद्भावात् । यद्वा भाविबाधकशङ्काजनितभयात् । नाद्य इत्याह– न ह्यस्येति ॥ तत्र हेतुः । साक्षान्निःश्रेयसात्मन इति । निर्दुःखानन्दादेः स्वरूपत्वं नासम्पादनीयत्वात् । स्वस्यानन्याधीनत्वेनाभिव्यक्त्यर्थं स्थित्यर्थमप्यधिकारिवद्रमावच्चानन्यापेक्षणात् । न द्वितीय इत्याह ॥ नैवासुरेभ्य इति ॥ विद्वेषस्यापि क्रोधादिरूपतया । क्रुध्द्रुहेर्ष्यासत्यार्थानां यं प्रति कोप इति चतुर्थी । न तृतीय इत्याह ॥ नोद्वेगश्चेति ॥ उभयत्र हेतुः ॥ अगुणस्येति ॥ द्वेष उभयोर्गुणकार्यत्वात् । अस्य निर्गुणत्वात् ॥ २ ॥

इति नः सुमहाभाग नारायणगुणान् प्रति ।

संशयः सुमहान् जातस्तद्भवान् छेत्तुमर्हति ॥ ३ ॥

प्रकाशिका

नारायणस्य गुणाननुग्रहनिग्रहादीन् प्रति तत् तं संशयम् ॥ ३ ॥

मन्दनन्दिनी

नारायणगुणान्प्रतीति समत्वादौ निःश्रेयसात्मत्वे निर्गुणत्वे च सति सुरोप-कारकत्वदैत्यसंहारकत्वादिगुणायोगः । तस्मिन्वा सत्युक्तगुणायोग इति बहुगुणविषयकः सन्देह इत्यर्थः

॥ ३ ॥

** श्रीशुक उवाच –**

साधु पृष्टं महाराज हरेश्चरितमद्भुतम् ।

१तत्र भागवतमाहात्म्यं भगवद्भक्तिवर्धनम् ॥ ४ ॥

पदरत्नावली

प्रामाणिकत्वद्योतनाय प्रश्नं स्तौति– साध्विति ॥ तत्र हरिचरिते भागवतानां माहात्म्यं भगवद्भक्तिवर्धनमित्यनेन तन्माहात्म्यं भगवन्माहात्म्याविनाभूतमित्यवगन्तव्यम् ॥ ४ ॥

मन्दनन्दिनी

प्रश्नं स्तौति ॥ साधु पृष्टमिति ॥ यस्माद्भगवत्सम्बन्धिमाहात्म्यं पृष्टादिकं सद् भगवद्भक्तिवर्धनं तत्तस्मात्त्वया पृष्टं साध्विति योजना ॥ ४ ॥

गीयते परमं पुण्यम् ऋषिभिर्नारदादिभिः ।

नत्वा कृष्णाय मुनये कथयिष्ये हरेः कथाम् ॥ ५ ॥

पदरत्नावली

प्रश्नप्रतिवचनं भगवदनुग्रहमन्तरेण सुवचं न स्यादिति प्रकटनाय भगवन्तं प्रसाद्य वक्तव्यार्थं प्रतिजानीते– नत्वेति ॥ ५ ॥

प्रकाशिका

कृष्णाय व्यासाय ॥ ५ ॥

मन्दनन्दिनी

नत्वा कृष्णायेत्यत्र ‘‘क्रियार्थोपपदस्य तत्कर्मणि स्थानिन’’ इत्यनेन चतुर्थी

॥ ५ ॥

निर्गुणोऽपि ह्यजोऽव्यक्तो भगवान् प्रकृतेः परः ।

स्वमायागुणमाविश्य बाध्यबाधकतां गतः ॥ ६ ॥

**श्रीमदानन्दतीर्थ भगवत्पादाचार्यविरचितः **

श्रीमद्भागवततात्पर्यनिर्णयः

‘बाध्यादिस्थो हरिर्नित्यं बाध्यतादिगतेत्यपि । गीयते न तु बाध्यत्वाद्यददोषयुतत्वतः’ इति भविष्यत्पर्वणि ॥ ६ ॥

पदरत्नावली

हरेर्हन्तृत्वधर्मो न घटत इति वदन्, लोकेष्वेकत्वात्, उत तद्विलक्षणत्वादिति वा वदसि । समत्वादिधर्मोपन्यासानुपपत्तेर्न प्रथमः । अघटितघटकशक्तिमत्वेन सर्वस्योपपत्तेर् द्वितीयो युक्त एवेति भावेनाह– निर्गुण इति ॥ अयं भावः– भगवान् स्वमायागुणं स्वेच्छागुणमनुसृत्य स्वाधीन-प्रकृतिगुणनिर्मितदेवासुरदेहं वाऽऽविश्य तत्र स्थित्वा बहिश्च नृसिंहादिप्रादुर्भावरूपेणासुरादिबाधकताम् असुरादिबाध्यवस्तुषु नियामकत्वेन स्थित्वा बाध्यतां गतो भवति । किमत्र मानमिति शङ्का । ‘बाध्यादिस्थो हरिर्नित्यं बाध्यतादि गतेत्यपि । गीयते न तु बाध्यत्वाद् यददोषयुतत्वतः ॥’ इति भविष्यत्पर्ववचनेन परिहर्तव्येति । हिशब्देन ‘लोकवत्तु लीलाकैवल्यम्’ इति सूत्राद् लीलां प्रयोजयति । निर्गुणत्वादिकं वैलक्षण्ये लिङ्गमिति ज्ञापनाय प्रयुक्तम् । पुरुषाणां गुणदोषानुसारेण रक्षाद्यभावेन समत्वादिकमपि न युज्यत इति प्रदर्शनाय अपिशब्दः । तर्हि कुतो विविच्य न ज्ञायत इत्यतः– अव्यक्त इति ॥ ‘दधिस्थघृतवत् काष्ठे बह्निवच्च जनार्दनः । देहेन्द्रियासु जीवेभ्यो विविच्य ज्ञायते न तु ॥’ इत्यतो विविच्याज्ञानं युक्तम् ॥ ६ ॥

प्रकाशिका

उत्तरं वक्तुमाह ॥ निर्गुण इति ॥ निर्गुणोऽपीत्यनुवादः । तदुपपादनायाजत्वादि-कम् । स्वमायागुणं स्वाधीनप्रकृतिकार्यं देवासुरादिदेहम् । बाध्यबाधकतामिति ॥ असुरदेहेषु बाध्यतां देवदेहेषु बाधकताम् । अत्र देवासुरदेहो हरेः प्रतीयते । स च प्रमाणविरुद्धोऽतोऽत्र विवक्षितं तात्पर्यं प्रमाणेनैव दर्शयति ॥ बाध्यादिस्थ इति ॥ आदिपदेन बाधकसङ्ग्रहः । बाध्यादिस्थः । बाध्यादीनां बाध्यतादिप्रद इत्यर्थः । बाध्यतादिगतेत्यत्र सुपां सुलुगिति विभक्तिलोपः । अपिशब्दाद् बाध्य-बाधकपदसङ्ग्रहः । गीयते भागवतादौ । तथा च हरौ तदधीनत्वादिति न्यायेन बाध्यतादिगतशब्दप्रयोग इति भावः । न तु बाध्यत्वात् । बाध्यताधिकरणत्वादित्यर्थः । बाधकत्वाधिकरणत्वमप्यस्तीति ज्ञापनाय, न तु बाध्यत्वादित्येवोक्तम् । ततश्चायं श्लोकार्थः । भगवान्निर्गुणोऽपि सत्वादिगुणकृत-विकारशून्योऽपि स्वमायागुणं स्वाधीनप्रकृतिगुणकार्यं देवासुरादिदेहम् आविश्य बाध्यबाधकतां गतः । असुरादिदेहेषु प्रविष्टः बाध्यतां गतः । नियमनाय प्राप्त इत्यर्थः । सुरादिदेहेषु प्रविष्टः बाधकतां गतः । नियमनाय प्राप्तः ॥ ६ ॥

मन्दनन्दिनी

उत्तरमाह ॥ निर्गुणोऽपीति । अपीत्यावर्तते । भगवानिति च ॥ अपि यद्यपि । भगवान्विष्णुर्निगुणो गुणत्रयरहितोऽत एव तत्कार्यद्वेषोद्वेगरहितः । प्रकृतेर्लक्ष्म्या अपि परः । भगवान् समग्रैश्वर्यवान् । अत एव सुरगणैर्नास्यार्थोऽस्ति । अपि तथापि स्वमायया गुणमाविश्य स्वतन्त्रेच्छा-लक्षणगुणं स्वेच्छाधीनसत्वादिगुणं वाऽऽश्रित्य बाधकतां गतो भवति । इन्द्रस्यार्थे दैत्यानवधीदिति यावत् । तथा चेन्द्रजन्योपकारादिकारणत्रयाभावेऽपि स्वेच्छाधीनगुणाद्यनुरुद्धया स्वेच्छयैव कारणेन वधो गुणाद्यनुरोधाच्च न वैषम्यादि । अत्र निर्गुणत्वस्य सत्वे तत्कार्यजननादिरूपकार्याभावः । तत्कारणी-भूतजडप्रकृतेः परत्वं च लिङ्गमित्याशयेनाज इति । प्रकृतेः पर इति चोक्तम् । अनेन द्वितीयश्लोकोक्त-शङ्काया निरासः । नन्वत्र षष्ठीतत्पुरुषोपगमे बाधकाभावेऽपि द्वन्द्वात्तल्प्रत्ययोपगमे कथं बाध्यबाधकतां गत इति सङ्गच्छते । तल्प्रत्ययस्य सर्वत्र सम्बन्धेन निर्दोषस्य बाध्यतां गतत्वस्यायोगादिति चेन्न । बाध्यस्थत्वेनैव निमित्तेन बाध्यतां गत इत्युक्तेः सम्भवात् । अत एवात्र तात्पर्यम् । बाध्यादिस्थो हरिरित्यादिभविष्यत्पर्वणीति । अत्र बाध्यतादिगतेत्यपीत्यत्राविभक्तिको वा सुपो लुका वा निर्देशः । अत्रादिपदेन विद्धदुःखादेर्ग्रहणम् । अनेन प्रवृत्तिनिमित्तनियामकत्वेन लक्षणतदधीनत्वनयन्यायेनैव प्रवृत्तिनिमित्ताश्रयस्थत्वेनापि तच्छब्दवाच्यत्वमित्युक्तं भवति । न च बाध्यस्थत्वोक्तिरनुपयुक्तेति वाच्यम् । बाध्यताप्रयोजकलोकपीडाजनकबलप्रदत्वेन तत्स्थत्वस्य वक्तव्यत्वात् । न च बाध्यस्थत्वमनुपलब्धि-बाधितम् । अव्यक्तत्वात् । अत एवाव्यक्त इति मूले उक्तम् । एतच्च प्रथमश्लोकोक्तशङ्कापरिहार-स्याप्युपलक्षणम् । समत्वं न तावद्वधविरोधि । तस्य यमे समवर्तित्ववत्तत्तद्योग्यतानुसारेण फलप्रद-रूपत्वात् । प्रीतिकत्वरूपं प्रियत्वम् । प्रत्युपकारमनपेक्ष्योपकारकर्तृत्वरूपं सुहृत्वं च सज्जनेष्वेवेति ॥६॥

सत्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः ।

न तेषां युगपद् राजन् ह्रास उन्नाह एव च ॥ ७ ॥

पदरत्नावली

स्वमायागुणमाविश्येत्युक्तं विवृणोति– सत्वमित्यादिना ॥ प्रकृतेः स्वरूपभूताः । आत्मनः परमात्मनः ज्ञानादिवन् न स्वरूपभूताः, किन्त्वधीनाः । जीवस्यापि अभिमानादेव । गुणानां भिन्नस्वभावत्वात् । युगपत् प्रवृत्त्यनुपपत्तेरित्यतः शक्तिप्रकटनप्रकारं दर्शयति– न तेषामिति ॥ ह्रासो ऽनुद्भूतत्वम् । उन्नाह उद्भूतत्वम् । क्षयवृद्धिक्रमेणेति परिहारः ॥ ७ ॥

प्रकाशिका

उक्तमेव विवृणोति ॥ सत्वमित्यादिना ॥ प्रकृतेः स्वरूपभूताः । न तथा परमात्मन इत्यर्थः । अनेन निर्गुण इत्येतद्विवृतमिति ज्ञातव्यम् । बाध्यबाधकतां गत इत्युक्तं प्रपञ्चयितु-माह ॥ न तेषामिति ॥ उन्नाहो वृद्धिः । अन्यथा बाध्यबाधकभावो न स्यादित्याशयः ॥ ७ ॥

मन्दनन्दिनी

निर्गुणत्वं विवृणोति ॥ सत्त्वं रज इति ॥ अत्र सुरासुरादिगतसत्त्वादि गुणानु-सारेण भगवतस्तत्तत्कार्यकारित्वं कथम् । प्रत्येकगुणत्रयादिसत्वात् । न च प्राचुर्यानुसारेण तदिति वाच्यम् । तथात्वे सुरेषु तमःकार्यस्य कदाऽप्यनापत्तेरिति चेन्न । प्रचुरगुणस्यैव जन्मलयकाले विवृद्धत्वेन तदनुसारेण भगवत्कार्यव्यवस्थोपपत्तेः । मध्ये रजआदेरपि किञ्चिद्विवृद्ध्या सुरादिषु तत्कार्योपपत्ति-रित्याशयेनाह ॥ न तेषामिति ॥ तथा च युगपद् ह्रासवृद्ध्यभावान्नाव्यवस्थेति भावः ॥ ७ ॥

जयकाले तु सत्वस्य देवर्षीन् रजसोऽसुरान् ।

तमसो यक्षरक्षांसि तत्कालानुगुणो भजन् ॥ ८ ॥

पदरत्नावली

तं क्रमं विविनक्ति– जयेति ॥ सत्वस्य जयकाले उन्नाहविषये देवर्षीन् भजन् आभातीत्यन्वयः । रजस उन्नाहविषये असुरान् वर्धयन्, तमस उन्नाहविषये यक्षादीन् वर्धयन् । एवं गुणानां शक्तिं जृम्भयतीत्यर्थः । तत्रापीत्थम्भावोऽस्तीत्याह– तत्कालेति ॥ तत्तत्कालगुणमनुसृत्य वर्तमानः ॥ ८ ॥

प्रकाशिका

ततः किमित्यत आह । जयकाल इति ॥ उन्नाहकाल इत्यर्थः । सत्वस्य जयकाले देवर्षीन् भजन्नाभाति । तान्प्रविश्यासुरादिबाधकतां ददातीत्यर्थः । रजसो जयकाले असुरान् भजन्ना-भाति । तेषामपीतरबाधकतां ददातीत्यर्थः । तमसो जयकाले यक्षरक्षांसि भजन्नाभाति । तेषामपीतर-बाधकतां ददाति । कुत एवं करोतीत्यत उक्तम्– तत्कालानुगुण इति ॥ सत्वादिविजय-कालमनुसृत्येत्यर्थः ॥ ८ ॥

मन्दनन्दिनी

कथं तर्हि व्यवस्थेत्यत आह ॥ जयकाल इति ॥ रजस इत्यादावपि जयकाल इति सम्बध्यते । असुरान्सुरभिन्नान्मनुष्यान् । नित्यसंसारिण इति यावत् । यक्षरक्षांसीति तमोयोग्योप-लक्षणम् । भजन् । एवं देवादीन् जन्मलयकाले विभजन् तत्कालानुगुणस्तत्कालेऽभिवृद्धगुणानुगुण आस्त इत्यन्वयः ॥ ८ ॥

ज्योतिरादिरिवाभाति सङ्घातान्न विविच्यते ।

विन्दन्त्यात्मानमात्मस्थं मथित्वा कवयोऽन्ततः ॥ ९ ॥

तात्पर्यम्

‘दधिस्थघृतवत्काष्ठे वह्निवच्च जनार्दनः । देहेन्द्रियासु जीवेभ्यो विविच्य ज्ञायते न तु’ इति च ॥ ९ ॥

पदरत्नावली

इममर्थमानुभाविकं करोति– ज्योतिरादिरिति ॥ अयमर्थः । ज्योतिरादीति उत्तरायणादिकालादिगुणः केषाञ्चित् फलानामुन्नाहं केषाञ्चिध्द्रासं कुर्वन् यथा (भाति) सत्वादिजयादि-विषये उन्नाहादिकालमनुवर्तमानो भाति तथेति । कथमव्यक्तत्वं हरेरिति तत्राह– सङ्घातादिति ॥ देहेन्द्रियादिकार्यकारणसंघातान्न विविच्यते पृथग्भूतो न ज्ञायते । अत्रापीदमेवोदाहरणम्– ज्योति-रादीति ॥ ज्योतिरादि घृतादिद्रव्यं दध्यादिभ्यो मथनात् पूर्वं न विविच्यते पृथग्भूतं न ज्ञायते न प्रतीयते । तथा आत्मापीति भावः । ‘तेजोऽशितं त्रेधा विधीयते’ इति श्रुतेर्घृतस्य ज्योतिश्शब्दाभिधेयत्वं प्रामाणिकम् । ‘दधिस्थघृतवत् काष्ठे वह्निवच्च जनार्दनः’ इत्यादेश्च । ननु यदि केनचिद् देहादि-व्यतिरिक्तत्वेनायं ज्ञायते तर्हि ‘दधिस्थघृतवत्’ इत्यादि निदर्शयितुं पार्यते । तदेव कुत इति ? आह– विन्दन्तीति ॥ कवयः ब्रह्मादयः शास्त्रेण मथित्वा अन्ततो निर्णीय आत्मस्थं देहादिस्थम् आत्मानं विन्दन्ति जानन्ति । किञ्च अन्ततश् चरमनाशे विन्दन्ति लभन्ते । ‘लभ निष्पत्तौ’ इति धातोः । नितरां प्राप्नुवन्तीत्यर्थः । अनेन कवीनां ज्ञानमस्मिन्नर्थे प्रमाणमुक्तं भवति ॥ ९ ॥

प्रकाशिका

नन्वेवं भगवतो देवादिदेहगतत्वे कस्मात्तैर्देहादिव्यतिरिक्ततया स नानुभूयत इत्याशङ्कापरिहाराय यदव्यक्त इत्युक्तं तद्विवृणोति– ज्योतिरादिरिवाभाति सङ्घातान्न विविच्यत इति ॥ अप्रतिपत्तिविप्रतिपत्तिनिरासायास्य विवक्षितमर्थं प्रमाणेनैव दर्शयति ॥ दधिस्थेति ॥ आदिशब्दार्थकथनं दधिस्थेति । वह्निवदित्यनेन ज्योतिःशब्दो वह्निपर इति दर्शयति । सङ्घातशब्दार्थ-प्रदर्शनं देहेन्द्रियासु जीवेभ्य इति । न विविच्यते इत्यस्य व्याख्यानं विविच्य ज्ञायते न त्विति । ननु कथं ज्योतिरादिनिदर्शनं तस्य मथनेनान्तत उपलभ्यमानत्वादित्यतो भगवानपि तथेत्याह ॥ विदन्तीति ॥ आत्मानं परमात्मानम् । मथित्वा शास्त्रविचारेण निर्णीय । अन्ततः निर्णयपरिपाके ॥ ९ ॥

मन्दनन्दिनी

बाध्यादिस्थो भगवान् व्यक्त इत्येतद्दृष्टान्तमुखेनाह ॥ ज्योतिरादिरिति ॥ अरणौ ज्योतीरूपेण वह्निः । आदिपदेन दध्यादौ घृतादिः । यथा विद्यमानोऽपि न भाति तथाऽऽत्मस्थोऽपि परमात्मा न भाति । ‘‘अमानोनाःप्रतिषेध’’ इति प्रतिषेधार्थकम् अभातीत्यत्र अइत्यव्ययम् । न भातीत्यस्यैवाभिप्रायमाह ॥ सङ्घातादिति ॥ देहेन्द्रियासु जीवसमुदायान्न विविच्यते विविच्य न ज्ञायते । अविद्यमान एव न भातीति किं न स्यादित्यत आह ॥ विदन्तीति ॥ यतः कवयो मथित्वा श्रवणादिविचारं कृत्वा तत आत्मादिस्थं देहादिस्थमपरोक्षन्ति जानन्ति । यथाऽरणौ वह्निं दधि्न वा घृतम् । कवयो मथनकुशलाः । अतो नास्तीति वक्तव्यमिति भावः । अत एवैतत्सर्वमभिप्रेत्योक्तं तात्पर्ये । दधिस्थघृतवदित्यादि ॥ ९ ॥

यदा सिसृक्षुः पुर आत्मनः परो

रजः सृजत्येष पृथक् स्वमायया ।

सत्वं विचित्रासु रिरंसुरीश्वरः

शयिष्यमाणस्तम ईरयत्यसौ ॥ १० ॥

पदरत्नावली

देहादेर् विविक्तत्वेन ज्ञानं कस्मान् नोत्पद्यत इत्याशङ्क्य स्वसृष्टशरीरेषु जीववत् प्रविष्टत्वान् न तद्विषयं ज्ञानमित्यभिप्रेत्याह– यदा सिसृक्षुरिति ॥ यदा परमात्माऽऽत्मनोऽर्थे निवासाय पुरः शरीराणि सिसृक्षुः स्रष्टुमिच्छति तदा गुणवैषम्यन्यायेन स्वेच्छया नियतो रजोगुणमुपादाय महदहङ्कारपञ्चमहाभूतानि सृष्ट्वा तैः पृथक् तत्तद्योग्यतानुसारेण शरीराणि सृजति । यदा चेश्वरस् तासु विचित्रासु सुरनरतिर्यक्संज्ञितासु पूर्षु रिरंसुर् जीवगतस्वादृष्टयोग्यतामनुसृज्य सुखादिकमुत्पाद्य तत्साक्षित्वेन क्रीडितुमिच्छति तदा स्थितिहेतुत्वात् सत्वगुणमुपादत्ते । यदा शयिष्यमाणः योगनिद्रां चिकीर्षति तदाऽसौ तमोगुणमीरयति तच्छक्तिमुज्जृम्भयति ॥ १० ॥

प्रकाशिका

भगवतः सत्वादिजयमपेक्ष्य प्रवृत्तौ सत्वादिगुणाधीनत्वं प्राप्तमत आह । यदेति ॥ आत्मनः स्वस्य निवासाय पुरः शरीराणि सिसृक्षुः स्रष्टुमिच्छति तदा पृथक् देवासुरादियोग्यतानुसारेण रजः रजोगुणकार्याणि शरीराणि स्वमायया स्वेच्छया सृजति । यदा विचित्रासु सुरनरतिर्यगादिरूपासु पूर्षु रिरंसुः क्रीडितुमिच्छति तदा सत्वमीरयति । शयिष्यमाणः योगनिद्रां कर्तुमिच्छति संहरिष्यन्निति यावत्, तदा तम ईरयति । तच्छक्तिमुज्जृम्भयतीत्यर्थः । तथा च स्वतन्त्रसाधनापेक्षायां सत्वादिकं च भगवदधीनप्रवृत्तिकमतो नोक्तदोष इत्याशयः ॥ १० ॥

मन्दनन्दिनी

जयकाले तु सत्त्वस्येत्यादिना गुणत्रयप्रकृतत्वात्प्रसङ्गात्सृष्टिरक्षासंहृतिष्वपि गुणत्रयोपादानं विवेकेनाह ॥ यदा सिसृक्षुरिति ॥ परः परमात्मा आत्मनः पुरः शरीरस्थानापन्नानि महदादितत्त्वानि तदभिमानिदेवशरीराणि ब्रह्माण्डं तदन्तर्गतशरीरजातं च सिसृक्षुर्भवति तदा पृथक् साम्यावस्थापन्नाद्विविच्य स्वमायया स्वेच्छया रजो रजोगुणं सृजति सृष्टौ व्यापारयति । यदा चैषः सृष्टासु विचित्रासु पूर्षु रिरंसुः । अन्तर्णीतणिच् । रिरक्षुरिति यावत् । तदा सत्वमीरयति । यदा चासौ शयिष्यमाणः स्वयं प्रलयजले स्वान्तर्वा लोकान् शयिष्यमाणः । अन्तर्णीतणिच् । स्थापयिष्यन् भवति । तदा तम ईरयति । अत्र सर्वत्रेश्वरः समर्थ इति ॥ १० ॥

कालं चरन्तं सृजतीश आश्रयः

प्रधानपुंभ्यां नरदेव सत्यकृत् ।

स तत्र तत्रोभयसिद्धिमाप्नुयात्

लिङ्गात्मनो लिङ्गगुणाश्च सन्ति ॥ ११ ॥

तात्पर्यम्

प्रधानपुंभ्यां सह ॥ ११ ॥

पदरत्नावली

किञ्च चरन्तम् अतीतानागतवर्तमानभेदेन वर्तमानं कालं सृजतीत्यर्थः ॥ ईश आश्रय इत्येताभ्यां पदाभ्याम् एषां सर्जनसामार्थ्यं सूचयति । अत्र प्रमाणमाह– सत्यकृदिति ॥ सत्यं मीमांसाशास्त्रम्, तस्य कर्ता । इदानीं स्वसृष्टानामन्तश्शयनप्रकारमाह– स तत्रेति ॥ तत्र तत्र देहेषु स्थित उभयसिद्धिं महति वस्तुनि महत्परिमाणं महासामर्थ्यप्रकटनम् अणुनि अणुपरिमाणमणुसामर्थ्यं वाऽऽप्नुयात् । ‘अणोरणीयान् महतो महीयान्’ इति श्रुतेः । अत्रेदं लिङ्गात्मनो लिङ्गगुणाश्च सन्ति इति निदर्शनम् । चशब्द एवार्थे । यथा लिङ्गं शरीरस्थानीयं काष्ठं व्याप्य तिष्ठन्नग्निर् लिङ्गात्मेत्युच्यते । तस्याग्नेर् लिङ्गस्य काष्ठस्य गुणा महत्वाणुत्वलक्षणाः सन्ति । महति काष्ठे महान्, अणुनि काष्ठे अणुरग्निरिति । ‘लिङ्गं शरीरे चिह्ने च साधने शेफभस्मनि’ इत्यभिधानम् । ननु सृष्टौ प्रवर्तमानेश्वरस्य निरपेक्षत्वात् स्वातन्त्र्येण किञ्चत् कारणापेक्षाऽसम्भवः, तदनपेक्षत्वे मृद्दण्डादेरिव शक्त्यभावेन कार्य-सामग्य्रभाव इति तत्राह– लिङ्गात्मन इति ॥ लिङ्गात्मनः प्रधानादेः कारणस्य ये लिङ्गगुणाः कार्य-जनकशक्तिलक्षणाः सन्ति, ते च लिङ्गात्मनः शरीरस्वामिनो हरेः सन्ति विद्यमानाः, तदधीनत्वादिति द्विरावृत्या योजनीयम् । ‘द्रव्यं कर्म च कालश्च’ इत्यादेः । यद्वा लिङ्गस्य प्रधानादेर् गुणाः कार्यापादन-शक्तिलक्षणा लिङ्गात्मनः पूर्णद्वात्रिंशल्लक्षणस्वरूपस्य हरेः सन्ति । तेषां स्वरूपाभिन्नत्वद्योतनाय चशब्दः । ऊर्णनाभिस् तुरीवेमादि विना स्वरूपभूतलीलयैव यथा जालं करोति तथाऽयमित्यर्थपरो वा । प्रधानसृष्टिर् ब्रह्मणोऽस्तु, अवान्तरसृष्टिरवान्तरकारणात् स्यात्, कुलालादेर् दृष्टत्वाद् इत्यतो वाऽऽह– स इति ॥ तत्र तत्र कार्यकारणेषु प्रातिस्विकेषु स्थित्वा उभयसिद्धिं जगत्कारणस्य जनकत्व-लक्षणाकार्यस्य जन्यत्वफलं प्रापयति । उभयोः शक्त्योर् एतदधीनत्वाद् इत्याह– लिङ्गात्मन इति ॥ लिङ्गात्मनो मृदादेर् लिङ्गगुणाः कार्यजननशक्तयः सन्ति । ते चानेन नियता इति शेषः । लिङ्गात्मनः कार्यस्य ये लिङ्गगुणाः पृथुबुध्नोदराकारादिलक्षणाः सन्ति ते च । ‘तत्र तत्र स्थितो विष्णुस्तत्तच्छक्ति-प्रबोधकः’ इत्यादेः । अनेन बाध्यबाधकतां गत इत्येतत् स्पष्टीकृतम् । तथाहि– तत्र तत्र देवासुरेषु उभयसिद्धिं जयपराजयलक्षणां कार्यसिद्धिं प्राप्नोति । शिरस्त्राणवर्मादिलक्षणं वहतो भटस्य ये लिङ्गगुणाः शौर्यादिलक्षणा जयाजयौ वा ते च हर्यधीनाः । ‘स वै बलं बलिनां चापरेषाम्’ इत्यादेः । अत्र सर्वत्र हर्यधीनत्वदर्शनाय प्रधानपुंभ्यां कारणाभ्यां कायर्ं सृजतीत्यङ्गीकारे प्रधानपुरुषावन्तरेण कालसृष्ट्य-शक्तिर्हरेः प्रकटिता स्यादित्यन्यथाप्रतीतिनिरासायाचार्यैस् ताभ्यां सहेति व्याख्यातम् ॥ ११ ॥

प्रकाशिका

ननु तथापि तत्कालानुगुण इत्युक्त्या कालाधीनत्वं प्राप्तमित्याशङ्कायामाह । कालमिति ॥ चरन्तं वर्तमानादिभेदेन प्रवर्तमानम् । ईश आश्रय इत्येताभ्यां तस्य सर्जनसामर्थ्यं सूचयति । ननु तथापि प्रधानपुरुषाभ्यां सहकारिभ्यां सृजतीत्युक्त्या प्रधानाद्यधीनत्वं प्राप्तमित्याशङ्कायामत्र विवक्षितां योजनामाह । प्रधानपुंभ्यां सहेति । प्रधानपुंभ्यां सह कालं सृजतीत्युक्त्या प्रधानपुरुषयोरपि सृज्यत्वं लभ्यते । तथा च न किञ्चिद्भगवदनधीनं साधनमस्तीत्याशयः । नन्वविद्यमानमेव मायया प्रदर्शयति न तु सृजतीत्यत उक्तम् । सत्यकृदिति ॥ सत्यमेव सृजतीत्यर्थः । कुतस्तत्सृष्टस्य सत्यत्वमित्यत आह ॥ स तत्रेति ॥ स परमात्मा तत्र स्वसृष्टे सत्वादौ कालादौ चोभयसिद्धिं बाध्य-बाधकतादिप्रदत्वरूपां सिद्धिं प्राप्नुयात् । तथाचार्थक्रियाकारित्वात्तस्य सत्वमित्याशयः । ननूभयसिद्धिरपि मायामयी किं न स्यादित्यत आह । लिङ्गात्मन इति ॥ शरीरस्वामिनो जीवस्य लिङ्गगुणाः शरीरधर्मा दुःखादयः सन्ति, अबाध्या एवानुभूयन्ते । यदि भगवत उभयसिद्धिर्मायामयी तर्हि जीवे तद्दत्त-बाध्यतादिना दुःखादिकमबाध्यतया नानुभूयेतेति बाधकमनेनोक्तमिति ज्ञातव्यम् ॥ ११ ॥

मन्दनन्दिनी

कालादेव जगदुत्पत्त्युपपत्तेर्न भगवानपेक्षणीय इति कालशब्देश्वरैकत्वमतान्य-प्येवमेव हीत्यनुव्याख्यानोक्ताः कालैकत्ववादिनः प्रधानपुंभ्यामेवोत्पत्तिरिति सांख्याः । तन्मतं निराह ॥ कालं चरन्तमिति । कालोऽखण्डो न । क्षणलवादिभेदस्यौपाधिकत्वस्य समयपादे निरासेन स्वाभाविकत्वात् । तथा च प्रवाहतश्चरन्तं कालमपि भगवानेव सृजति । ‘‘कला मुहूर्ता’’ इत्यादि श्रुतेः । नापि प्रधानपुरुषयोः स्रष्टृत्वम् । ताभ्यां सह कालस्य सृष्टत्वादित्याशयेनाह ॥ प्रधान-पुंभ्यामिति । नेयं पञ्चमी । किन्तु सहयोगे तृतीया । ‘प्रकृतिं पुरुषं चैव प्रविश्य पुरुषोत्तमः । क्षोभयामास’ इति वचनात् । एतदेवाभिप्रेत्योक्तं तात्पर्ये ॥ प्रधानपुंभ्यां सहेति ॥ इदमिदानीमिति प्रतीतिसिद्धकालाश्रयत्वप्रदोऽपि भगवानित्यभिप्रेत्याश्रय इत्युक्तम् । आरोपितत्वाज्जगतो मायापेक्षा वक्तव्या । न तूक्तगुणत्रयापेक्षेत्येतद्वेति चोद्यं निराह ॥ सत्यकृदिति ॥ विश्वं सत्यमित्यादिश्रुतेः । अनीशो हि मिथ्यां दर्शयति । अयं चेश इतीत्युक्तम् ॥ ईश इति ॥ एवं जगत्सर्जनेन तत्र तत्र प्रवेशनादिना च स्वप्रयोजनाभावात्कथमेतदित्यत आह ॥ स तत्र तत्रेति ॥ योग्यायोग्यजनेषु स्थित्वा शुभाशुभलक्षणोभयसिद्धिमाप्नुयात् । अन्तर्णीतणिच् । आपयेत् । तथा च स्वस्य विहार एवायम् । जनस्य सदसन्मोक्षलाभ एव प्रयोजनमिति भावः । तथाप्युपादाननिमित्ताद्यपेक्षणात्परापेक्षत्वं तच्छक्त्य-भावाच्चापूर्णत्वमित्यत आह ॥ लिङ्गात्मन इति ॥ ‘लिङ्गं शरीरे चिह्ने च साधने शेफभस्मनो’-रित्यभिधानात् । लिङ्गस्य शरीरस्थानीयस्य साधनस्य वा प्रकृतिकालादेरात्मनः स्वामिनो लिङ्गगुणाः स्वाधीनतया सन्ति । षष्ठ्यर्थः स्वत्वम् । तथा च ‘साधनानां साधनत्वं यदात्माधीनमिष्यते । तदा साधनसम्पत्तिरैश्वर्यं द्योतिका भवेत्’ ॥ इत्युक्तेः । साधनापेक्षया न स्वातन्त्र्यहानिः । नाप्यपूर्णत्वम् । यतो लिङ्गशक्तयः परमात्मनः सन्ति । सर्वसामर्थ्योपेतत्वात् । शशविषाणादिसर्जनसामर्थ्यमप्यस्ति । किन्तु सत्यसङ्कल्पत्वान्न तथा करोतीत्येव । यद्वा पृथिव्यबादीनां जडानां या आस्पदत्वतदर्थेकत्वादि-शक्तयो याश्च देवानां शक्तयस्ताश्च सन्तीति न भगवतो न्यूनत्वम् । इदं च पद्यं प्राचीनैर्बहुधा योजितमपि मन्दानन्दायेत्थं योजितमिति क्षन्तव्यम् ॥ ११ ॥

य एष राजन्नपि काल ईशिता सत्वं सुरानीकमिवैधयत्यजः ।

तत्प्रत्यनीकानसुरान् सुरप्रियो रजस्तमस्कान् प्रमिणोत्युरुश्रवाः ॥ १२ ॥

तात्पर्यम्

**काले कालविषयेऽपीशिता । देहादिकारणत्वात् सुरानीकमिव स्थितं सत्वम् । ‘स्वभावतः प्रियत्वात्तु सदा देवप्रियो हरिः । अप्रियश्चासुराणां स स्वभावात्तूभयं नृणाम् । देशकालौ गुणांश्चैव१ भक्त्यादीनप्यपेक्ष्य२ तु । योग्यतां च तथा कर्म सम इत्यभिधीयते । स्वतः प्रियोऽपि देवानामुत्पाद्यैव गुणानिमान् । इतरेषां तथा दोषान्सुखदुःखे ददात्यजः । उभयं तु मनुष्याणामतः सम इतीरितः । अनादिनियताश्चैव गुणदोषाः सुरादिषु । यथाक्रमं पुनश्चैव नियमाद्वर्धितास्तथा३ । विष्णुनैव ततो नित्यं विषमश्च जनार्दन’ इति ब्रह्मतर्के ॥ ‘न विष्णो-र्विषमत्वं तु योग्यतापेक्षया क्वचित् । योग्यतायास्तन्नियत्या विषमत्वं भवेदिति’ ॥ इति स्कान्दे ॥ ‘विषमत्वं तु दोषाय शुभाशुभविपर्यये । अतस्तादृशवैषम्यं ब्रह्मसूत्रे निराकृतम् । शुभाशुभ-नियन्तृत्वं न दोषो गुण एव सः । अतस्तदिष्टं कृष्णस्य ब्रह्मसूत्रकृतो विभोः ॥’ इति तन्त्रनिर्णये **

॥ १२ ॥

पदरत्नावली

नन्वत्र साम्यगुणाधिकरणस्य हरेर् वैषम्याधिकरणत्वं कथमित्यस्य प्रश्नस्य परिहारः कथं स्फुटमायात इत्याशङ्क्य स्वतो देवप्रियत्वमसुराप्रियत्वं मनुष्याणामुभयत्वमेव समत्वं तत्तद्योग्यतावतां तेषाम् । अन्यथा त्वदभिमतवैषम्यप्राप्तिसाम्यहानी स्यातामित्याशयवानाह– य एष इति ॥ य एष हरिः काले कालविषये ईशिता कालस्यापि प्रवर्तनसमर्थः । प्रधानपुरुषयोरीशितृत्वे किं वक्तव्यमिति ईशितेति पदम् । स विष्णुः सुरानीकमिव स्थितं सत्वमेधयति । सत्वस्य देहादिकारणत्वात् सत्वगुणप्रधानान् देवान् समेधयतीत्यर्थः । रजस्तमस्कान् रजस्तमस्स्वभावान् तत्प्रत्यनीकान् तेषां सुराणां शत्रुभूतान् असुरान् प्रमिणोति निहन्ति । ‘मिन हिंसायाम्,’ इति धातुः । सुरप्रिय इत्यनेन असुराणामप्रियो मनुष्याणामुभयात्मकः स्वभावत इति ध्वनितम् । तदुक्तम्– ‘स्वभावतः प्रियत्वात्तु सदा देवप्रियो हरिः । अप्रियश्चासुराणां स स्वाभावात्तूभयं नृणाम् ॥’ इति । सत्वमेधयतीत्यनेन या सुखयोग्यता,१ रजस्तमस्कानित्यनेन या वधयोग्यता, ये च देहेन्द्रियादेः कारणभूतास्त्रयो गुणाः, यश्च गुणानामुन्नाहकरकालः, यच्च तेषां त्रयाणां गुणानां (सकाशात्) पुण्यपापोभयलक्षणं कर्म, यच्च मूलकारणभूतं प्रकृतिपुरुषस्वरूपम्, यच्च भक्त्यादिकम्, एतत् सर्वमपेक्ष्य देवानां भक्त्यादिगुणानितरेषां द्वेषादिदोषान् मनुष्याणामुभयात्मकमुत्पाद्य सुखासुखजयाजयजननमरणादिफलदातृत्वेन सम इत्युक्तम् । तदुक्तम्– ‘देशकालौ गुणांश्चैव भक्त्यादीनप्यवेक्ष्य तु । योग्यतां च तथा कर्म सम इत्यभिधीयते ॥ स्वतः प्रियोऽपि देवानामुत्पाद्यैव गुणानिमान् । इतरेषां तथा दोषान् सुखदुःखे ददात्यजः । उभयं तु मनुष्याणामतः सम इतीरितः ॥’ इति । ननु सुरादिषु स्थितानां गुणदोषाणां तत्तत्कालीनत्वेनोत्तरकाले नाशसम्भवेनानित्यत्वे नियमो न स्यादित्याशङ्क्य शास्त्रविहितत्वान् नियमोऽस्त्येवेत्याशयवानाह– उरुश्रवा इति ॥ उरु बहु श्रूयते इति उरुश्रवाः । शास्त्रं नियमप्रतिपादकं यस्य स तथा । तदप्युक्तम्– ‘अनादिनियताश्चैव गुणदोषाः सुरादिषु । यथाक्रमं पुनश्चैव नियमाद् वर्धितास्तथा ॥ विष्णुनैव ततो नित्यं विषमश्च जनार्दनः ॥’ इति । ‘नियमाद् वर्धितास्तथा’ इत्येतत् कुत्र प्रमाणीक्रियते इत्यस्य उरुश्रवा इत्यत्रेति वक्तव्यम् । उरु वर्धनलक्षणं श्रवो यस्य स तथेत्यर्थः । ननु वैषम्यं तदवस्थमेवाभूदिति चेन्न । योग्यतानिमित्तत्वात् । तदुक्तम्– ‘न विष्णोर्विषमत्वं तु योग्यतापेक्षया क्वचित्’ इति । हरेर्योग्यतानियत्या यदागच्छद् वैषम्यलक्षणमुरुश्रवस् तदा तदस्तु विहितत्वादत उक्तम्– उरुश्रवा इति ॥ तदुक्तम्– ‘योग्यतायास्तन्नियत्या विषमत्वं भवेत्’ इति । नन्वेवं तर्हि क्वापि वैषम्यं नेत्यापन्नमिति चेदुच्यते । शुभाशुभयोर्विपर्यये शुभवतामशुभकर्म अशुभवतामसुराणां शुभकर्मानुसृत्य फलदाने सति विषमत्वं हरेर्दोषाय स्यादिति यदतस् तत्तद्योग्यताबलविहितशुभाशुभोभयकर्मानुसारेण तत्तत्फलस्य विकर्मेन्द्रियार्थे अशुभकर्मदैत्यबललक्षणस्य दानेनेश्वरवैषम्यमित्यतः– उरुश्रवा इति ॥ जयस्तम्भ-कल्पनाम हरेर्युक्तम् । ‘इन्द्रस्यार्थे कथं दैत्यानवधीद्विषमो यथा’ इत्यादिप्रश्नपरिहार इति सिद्धम् । ‘विषमत्वं तु दोषाय शुभाशुभविपर्यये । अतस्तादृशवैषम्यं ब्रह्मसूत्रे निराकृतम् ॥ शुभाशुभनियन्तृत्वं न दोषो गुण एव सः । अतस्तदिष्टं कृष्णस्य ब्रह्मसूत्रकृतो विभोः ॥’ इति वचनात् ॥ १२ ॥

प्रकाशिका

नन्वेवम् ईश्वरस्य बाध्यतादिप्रदत्वे वैषम्यमेव प्राप्तं न समः प्रिय इत्यादेः परिहार इत्यतो बाध्यबाधकतां गत इत्येतत् प्रपञ्चयति । य एष राजन्निति ॥ अत्र काल इत्यस्य प्रथमान्तत्वेन प्रकृतासङ्गतिरित्यालोच्य सप्तम्यन्ततया छेदं दर्शयति । काल इति ॥ तस्य चाधिकरणार्थत्वे पुनरसङ्गति-रेवातो व्याख्याति । कालविषयेऽपीति । तथा च काल इति विषयसप्तमी । तेन च अपिशब्दस्य सम्बन्ध इत्युक्तं भवति । तथा च सर्वप्रवर्तककालविषयेऽपीशिता । किन्त्वितरविषय इति कैमुत्यार्थ-कत्वोक्त्या सर्वेशितृत्वं यत्पूर्वमुक्तं तदनूदितं भवतीति ज्ञातव्यम् । सत्वं सुरानीकमिवैधयतीत्यत्र सुरानीकमिव सत्वमेधयतीत्युक्ते न प्रकृतसङ्गतिः । रजस्तमस्कानसुरानितिवत्सत्वात्मकं सुरानीकमेधय-तीत्येव प्रकृते वक्तव्यत्वात् । अत एतदर्थलाभाय स्थितशब्दमध्याहृत्य योजयति ॥ सुरानीकमिव स्थितं सत्वमिति । सुरानीकात्मकं सत्वमित्यर्थः । ननु कथं सत्वस्य सुरानीकात्मकत्वमित्यतस्तदुपपादयति । देहादीति ॥ देहेन्द्रियाद्युपादनत्वादित्यर्थः । तथाच सुरानीकमिव स्थितं सत्वं सत्वात्मकदेहाद्युपेतं सुरानीकमेधयतीति मूलं व्याख्येयमिति भावः । कुत इत्यतः सुरप्रिय इति हेतुगर्भं विशेषणमुक्तम् । तदसुरप्रिय इत्यादेरपि उपलक्षकमभिप्रेत्य श्लोकतात्पर्यं प्रमाणेनैव दर्शयति । स्वभावत इति ॥ तुशब्दोऽवधारणे । स्वभावत एव प्रियत्वादित्यन्वयः । देवानामिति शेषः । असुराणामप्रियः । नृणा-मुभयं प्रियश्चाप्रियश्चेत्यत्र स्वभावत एवासुराणामप्रियत्वात्स्वभावत एव नृणामुभयरूपत्वादित्युपपादकं ग्राह्यम् ।

नन्वेवं समत्ववाचकश्रुत्यादिविरोध इत्यत आह ॥ देशकालाविति ॥ चशब्दार्थ एवकारः । देशकालौ चेति सम्बध्यते । गुणान् सत्वादीन् । तत्तद्गुणयोग्यतादीनां यद्योग्यं फलं नाधिकं न न्यूनं तदेव ददाति । अतः सम इत्युच्यते इत्यर्थः । अनेन सत्वं सुरानीकमिवैधयति रजस्तमस्कानसुरान् प्रमिणो-तीत्यादिकमुक्ततात्पर्यमित्यवगन्तव्यम् । ननु स्वतः प्रियत्वादिनैव देवादीनां सुखदुःखादिदानोपपत्तौ किं भक्त्यादिगुणापेक्षया अत उक्तरीत्या समत्वानुपपत्तिरित्यत आह ॥ स्वतः प्रियोऽपीति ॥ इमान् भक्त्यादीन् द्वेषादींश्च । सुखदुःखे, देवानां सुखमितरेषां दुःखम् । स्वतः प्रियत्वादिके विद्यमानेऽपि वेदप्रामाण्यसंरक्षणायेमान् दोषांश्चोत्पाद्यैव यदि सुखदुःखे ददाति तर्हि तत्पूर्वं गुणाद्यभावात्पुनर्वैषम्यमेव प्राप्तं न समत्वमित्यत आह ॥ अनादीति ॥ यथाक्रममेव नियमादेवेत्येवकारयोः सम्बन्धः । तथा च पूर्वपूर्वगुणादीनपेक्ष्यैवोत्तरोत्तरगुणादीनुत्पादयत्यतो न वैषम्यप्राप्तिरित्याशयः ।

नन्वेवमनादिगुणादिसत्वे किं तदुत्पादनेनेत्यत उक्तम् । नियमादेव वर्धिता इति । तथा यथाक्रममेवेत्यन्वयः । नन्वेवमनादिगुणादिपरम्परामपेक्ष्य फलदानेऽस्वातन्त्र्यं प्राप्तमित्यत उक्तम् । विष्णुनैवानादिनियता इति । ननु तर्हि पुनर्वैषम्यं प्राप्तमित्यत आह । तत इति ॥ एतादृशं वैषम्यं तस्य भूषणमेवेत्याशयः । उक्तमर्थं प्रमाणान्तरेण दृढयति । न विष्णोरिति । तुशब्दोऽवधारणे । नैवेत्यन्वयः । योग्यतापदं कर्मादेरुपलक्षकम् । भवेद्भूषणमिति शेषः । अनेनोरुश्रवा इत्येतदुक्ततात्पर्यम् । नन्वेवमन्ततो वैषम्याङ्गीकारे वैषम्यनैर्घृण्येनेति ब्रह्मसूत्रे कथं वैषम्यं निराकृतमित्यतस्तदधिकरणतात्पर्यं प्रमाणान्तरेण दर्शयति ॥ विषमत्वमिति ॥ तुशब्दोऽवधारणे । शुभाशुभविपर्यय एवेत्यन्वयः । शुभकर्मणोऽशुभफलदानेऽशुभकर्मणः शुभफलदाने हि वैषम्यम् एतादृशमेव वैषम्यं निराकृतमित्यर्थः । ननु पूर्वपूर्वतनं शुभादिकं भगवदनधीनं चेत्पुनर्वैषम्यं प्राप्तमित्यत आह । शुभाशभेति ॥ शुभाशुभनियन्तृत्वं तादृशवैषम्यं गुण एव भूषणमेव । यादवकृष्णव्यावृत्यर्थं ब्रह्मसूत्रकृत इत्युक्तम् । तदुक्तरूपं वैषम्यमिष्टम् । ‘‘स कारयेत्पुण्यमथापि पापं न तावता दोषवानीशितापी’’ति श्रुतौ उपलभ्यते चेति सूत्रखण्डे-नोपपादितत्वादित्याशयः ।

ततश्चायं श्लोकार्थः । य एष हरिः कालविषयेपीशिता किमु प्रकृत्यादीनाम् । स्वतन्त्र इति यावत् । अनेन सात्विकत्वात् सुराणां स्वभावत एव भगवत्प्रियत्वमुक्तमिति ज्ञातव्यम् । एधयति तत्तद्योग्यतानु-सारेण भक्तिज्ञानादिकमुत्पाद्य सुखं ददाति । कुत इत्यत उक्तम् । यतः सुरप्रिय इति । स्वभावादेवेति शेषः । तत्प्रत्यनीकान् देवप्रतिपक्षभूतान् रजस्तमस्कानत्र रजोग्रहणं प्रसंगान्मनुष्याणामपि संग्रहाय । तमस्कान् तमोगुणप्रचुरदेहाद्युपेतानसुरान् । अनेन असुराणां स्वभावत एव भगवदप्रियत्वमुक्तमित्यव-गन्तव्यम् । प्रमिणोति हिनस्ति । तद्योग्यतानुसारेण स्वद्वेषादिकमुत्याद्यांधेतमसि दुःखं ददातीति यावत् । कुत इत्यतो यतः स्वभावत एवासुराप्रिय इति ग्राह्यम् । रजोगुणप्रचुरदेहाद्युपेतानत एव स्वभावत एव भगवति प्रीत्यतिप्रीतियुतान् मनुष्यान् एधयति प्रमिणोति च । तद्योग्यतानुसारेण गुणान् दोषांश्चोत्पाद्य-सुखदुःखे ददातीत्यर्थः । नन्वेवं स्वभावत एव सुरप्रियत्वात् सुरानेधयति । स्वभावत एवासुराप्रियत्वाद-सुरान्हन्तीत्युत्तरमुक्तं स्यात् । एवं चेद्विषम एव स्यान्न सम इत्यत एतादृशंवैषम्यं तस्य भूषणमेव । न तु दूषणमित्याशयेनाह । उरु बहु श्रवः कीर्तिर्यस्येति । कीर्तिनाशकरो हि दोषो भवति । अनेन च तस्य कीर्तिरुत्कष्टैव भवति । अतो न दोष इत्यर्थः । समत्वं तु तत्तद्योग्यतानुसारेणैव फलदानादुपपद्यत इति

॥ १२ ॥

मन्दनन्दिनी

निर्गुणोऽपि ह्यज इति प्रतिवचनश्लोके स्वमायागुणमाविश्येत्येतेन स्वेच्छाधीन-सत्त्वादिगुणालम्बनाद्वधादिकं युक्तमित्युक्तम् । तदेव प्रयोजनोक्त्या प्रपञ्चयति ॥ य एष इति श्लोकद्वयेन ॥ य एष उरुश्रवाः पुरुकीर्तिर्दूरश्रवणादिकीर्तिमान्वा भगवान् कालप्रकृतिपुरुषादिविषये ईशिता सुराणामनीकमिव बलोपष्ठम्भकसैन्यमिव स्थितं देहेन्द्रियादिकारणीभूतं सत्त्वमेधयति । रजस्तमस्कान् तत्प्रत्यनीकान् सुरविरोधिनोऽसुरान् प्रमिणोति निहन्ति । तमसि संसारे वा प्रक्षिपति । एतत्किमर्थमित्युक्ते स भगवान् स्वसृष्टस्य स्थितिरक्षानुवृत्तये स्थितेस्तदर्थं रक्षायाश्चानुवृत्तये प्रकृतैतावत्वं हीत्यधिकरणोक्तरीत्या संहर्तुरसंहारातिरिक्तान्नदानादिरूपरक्षां विना स्थित्ययोगात् । सत्त्वं सत्त्वगुणं तेन सुराणां च मुहुः प्रतिस्थितिकालमुपबृंहयते वर्धयते । असुरान्नाशयतीति च ग्राह्यम् । अत्र काल ईशितेत्यत्र प्रथमाभ्रान्तिं वारयितुं तात्पर्यम् । काले कालविषये ईशितेति । अनेन प्रकृतिपुरुषकालादिभि-र्बलात्कृत इत्थं करोतीति न प्रयोजनचिन्तेति चोद्यं निरस्तम् । सुरानीकमिवेत्यस्यैधयतीत्यनेनान्वयभ्रान्तिं निवारयितुं सादृश्यं प्रकटयितुं च प्रवृत्तं तात्पर्यम् । देहादिकारणत्वेन सुरानीकमिव स्थितं सत्त्वमिति । एवं चेवेत्यस्य स्थितमित्यध्याहृतेनान्वयः । उपोद्बलकत्वेन च सादृश्यमित्युक्तं भवति । मूले सुरप्रियेत्युक्तिरनुपपन्ना । कदाचिदसुरादावप्यैश्वर्यादिप्रियकारित्वात् । न च सदा प्रियत्वेन विशेषः । तथात्वे सर्वसमत्वानुपपत्तेरित्यतस्तद्घटयितुं प्रवृत्तं तात्पर्ये ब्रह्मतर्कवचनम् ।

स्वभावतः प्रियत्वात्तु सदा देवप्रियो हरिः ।

अप्रियश्चासुराणां स स्वभावात्तूभयं नृणाम् ॥

अत्र हरिर्देवप्रिय उच्यते । अत्र हेतुद्वयं सदा प्रियत्वात्स्वभावतः प्रियत्वादिति । प्रीतेः कर्तृविषय-स्वभावोभयनिमित्तकत्वं बोध्यम् । तुशब्दो नैव सुरादिष्विति विशिनष्टि । चशब्दस्तुशब्दार्थे असुराणां त्वित्यर्थः । यद्वा अनुक्तसमुच्चयः सदा चेत्यर्थः । यद्वा । न केवलं सुरप्रियोऽसुराणामप्रियश्चेति । नॄणां तूभयम् । प्रियाप्रिय इत्युच्यत इत्यर्थः । अत्रापि स्वभावात्सदेति ग्राह्यम् । एवं तर्हि समत्वानुपपत्तिरित्यत आह ॥

देशकालगुणांश्चैव भक्त्यादीनप्यपेक्ष्य तु ।

योग्यतां च तथा कर्म सम इत्यभिधीयते ।

भारतादिदेशं कृतत्रेतादिकालम् । सदाचारादिगुणान् भक्तिश्रद्धादीन् अनादियोग्यतां पूर्वपुण्यकर्म चापेक्ष्य । एवमसुराणां देशादिकं द्वेषादिकं तस्य योग्यतां पूर्वपापं च मनुष्याणां तु मिश्रमवेक्ष्य फलं ददातीति सम उच्यते । न वैषम्यम् । अत एव वैषम्यनैर्घृण्ये न सापेक्षत्वादिति सूत्रम् । प्रकारान्तरेण समत्वमाह ।

स्वतः प्रियोऽपि देवानामुत्पाद्यैव गुणानिमान् ॥

इतरेषां तथा दोषान् सुखदुःखे ददात्यजः ।

उभयं तु मनुष्याणामतः सम इतीरितः ।

पूर्वं स्थितं साधनमपेक्ष्य फलदानात्समत्वम् । अत्र तु स्वतः प्रियत्वादौ सत्यपि गुणादिकमुत्पाद्यैव फलदानात्समत्वमिति भेदः । एवं तर्ह्यसुरेषु गुणे सुरेषु दोषे सति किं करोतीत्यत आह ॥

अनादिनियताश्चैव गुणदोषाः सुरादिषु ।

यथाक्रमं पुनश्चैव नियमाद्वर्धितास्तथा ।

विष्णुनैव ततो नित्यं विषमश्च जनार्दनः ॥ इति ब्रह्मतर्के ।

यतः सुरासुरादिषु गुणदोषा यथाक्रममनादिनियता अतो नोक्तशङ्केति भावः । एवं मिश्रेषू-भयमनादिनियतमिति ग्राह्यम् । अत्र गुणपदं मोक्षसाध्यपरम् । दोषपदं तमःसाधनपरम् । उभयं च संसारापादकं ग्राह्यम् । एवं च सुरेषु दुःखापादकस्यासुरेषु सुखापादकस्य च सत्वेऽपि न दोष इत्यवधेयम् । नन्वेवं गुणदोषप्रवाहस्यानादित्वे सदसन्मुक्तिः कदाचिदेव कथमापाद्येते इत्यत आह ॥ नियमाद्वर्धिता इति ॥ तथा च यथा योग्यमभिवृद्धयोरेव गुणदोषयोः सदसन्मुक्तिकारणत्वान्न पूर्वं तदापत्तिः । मनुष्याणां तु साधनानुष्ठानपर्यवसितपक्षे यथायोग्यं वर्धितत्त्वं ज्ञेयम् । यथायोग्यमनन्तर-मनुष्ठितं च साधनं मुक्तानुष्ठितकर्मैव न फलसाधनं किन्तु पूर्वमेव । फलं तु स्वरूपसुखदुःखोभयानुसारि-बाह्यसुखदुःखानुभवापर्यवसानमेव । केचिल्लिङ्गभङ्गमप्याचक्षते । साधनानुष्ठानापर्यवसितपक्षे तु न क्रमाद्वृद्धिरित्यवधेयम् । एवमपि सुरेष्वनादिगुणनियत्याऽसुरेषु दोषनियत्या विषमः स्यादेवेत्यत आह ॥ नित्यं विषमश्च जनार्दन इति ॥ तर्हि विषमत्वं नास्तीत्युक्तेः का गतिरित्यतस्तात्पर्ये स्कान्दवचनं प्रवृत्तम्–

न विष्णोर्विषमत्वं तु योग्यतापेक्षया क्वचित् ।

योग्यतायास्तन्नियत्या विषमत्वं भवेदिति । इति स्कान्दे ।

इति योग्यतापेक्षया योग्यताऽतिक्रमापेक्षया तद्व्यत्यासापेक्षया वा विषमत्वं नास्ति । यथास्थिततन्नियत्या-पेक्षया तु विषमत्वं स्यादेव । विषमत्वं नास्तीत्युक्तिस्तु योग्यताऽतिक्रमापेक्षया नास्तीत्यभि-प्रायिका । नन्वेवं तर्हि यथाकथंचिद्विषमत्वं दोषप्राप्तय इत्यतो नेदं विषमत्वं दोषायेत्याशयेन प्रवृत्तं तात्पर्यम्–

विषमत्वं तु दोषाय शुभाशुभविपर्यये ।

अतस्तादृशवैषम्यं ब्रह्मसूत्रे निराकृतम् ।

शुभाशुभनियन्तृत्वं न दोषो गुण एव सः ।

अतस्तदिष्टं कृष्णस्य ब्रह्मसूत्रकृतो विभोः ॥

इति तन्त्रनिर्णय इति । शुभाशुभविपर्यये । पुण्यपापविपर्यये योग्यताविपर्यये वा । विपर्ययेण फलदान इति यावत् । उक्तं चानुव्याख्याने ।

वैषम्यनिर्घृणत्वं च वेदाप्रामाण्यकारणम् ।

नाङ्गीकार्यमतोऽन्यत्तु न वैषम्यादि नामकम् ॥

इति । विवृतमेतत्सुधाचन्द्रिकयोः ॥ १२,१३ ॥

स वै पुनः स्वसृष्टस्य स्थितिरक्षानुवृत्तये ।

सत्वं सुरगणान् विष्णुरुपबृंहयते मुहुः ॥ १३ ॥

पदरत्नावली

सुरप्रियः’ इत्येतद् विवृणोति– स वा इति ॥ अयमर्थः– सत्वं सत्वगुणसम्पन्नान् मुहुरनुयुगम् उपबृंहयते सम्यग् वर्धयति । किं कारणम् ? अत्राह– पुनरिति ॥ स्वेन सृष्टस्य जगतः पुनः पुनः स्थितिरक्षानुवृत्तये स्थितिपालनयोः प्रवर्तनार्थम् । वा इत्यनेन सृष्ट्याद्यष्टकमपि हरेरेवेति दर्शयति । ‘यदा सिसृक्षुः’ इत्यनेन यः प्रस्तुतस् तं स इति तच्छब्देन परामृशति । तत्रापीश्वरशब्देन रुद्र उपक्रान्त इति भ्रान्तिनिवारणाय विष्णुरिति । यद्वा यत्र क्वापि रुद्रादुत्सर्जनादिकं प्रतीयते तदपि तत्स्थहरिणेति प्रकटनाय विष्णुरिति ॥ १३ ॥

प्रकाशिका

सत्त्वात्मकं सुरानीकमेधयतीत्युक्तमेव विशदयति । स वा इति । सत्त्वं सत्वात्मकदेहाद्युपेतम् । त्रिमूर्तिषु विष्णोः फालकत्वाद्विष्णुरित्युक्तम् । उपबृंहयते भक्तयादिगुणपूर्णान् कृत्वा सुखिनः करोतीत्यर्थः ॥ मुहुः प्रतियुगम् ॥ १३ ॥

अत्रैवोदाहृतः पूर्वमितिहासः सुरर्षिणा ।

प्रीत्या महाक्रतौ राजन् पृच्छतेऽजातशत्रवे ॥ १४ ॥

पदरत्नावली

सुरप्रिय इत्येतदितिहासेन दर्शयति– अत्रेति ॥ सुरप्रिय एव, नासुरप्रियो हरिरित्यन्ययोगव्यवच्छेदार्थ एवशब्दः ॥ १४ ॥

प्रकाशिका

स्वभावत एव सुरप्रियोऽसुराणामप्रिय इत्येतदितिहासेन दर्शयति ॥ अत्रैवेति । महाक्रतौ राजसूये ॥ १४ ॥

मन्दनन्दिनी

अत्रैव स्वभावतः सुरप्रिय इत्यत्रैव ॥ १४ ॥

दृष्ट्वा महाद्भुतं राजा राजसूये महाक्रतौ ।

वासुदेवे भगवति सायुज्यं चेदिभूभुजः ॥ १५ ॥

प्रकाशिका

चेदिभूभुजः शिशुपालस्य ॥ १५,१६ ॥

मन्दनन्दिनी

महाद्भुतं निन्दकस्यापि सायुज्यरूपमाश्चर्यम् ॥ १५ ॥

तत्रासीनं सुरऋषिं राजा पाण्डुसुतः क्रतौ ।

पप्रच्छ विस्मितमना मुनीनां शृृण्वतामिदम् ॥ १६ ॥

मन्दनन्दिनी

विस्मितमना आश्चर्ययुक्तचित्तः ॥ १६ ॥

युधिष्ठिर उवाच–

अहो ह्यत्यद्भुतं ह्येतद् दुर्लभैकान्तिनामपि ।

वासुदेवे परे तत्वे प्राप्तिश्चैद्यस्य विद्विषः ॥ १७ ॥

पदरत्नावली

एक एवान्तो निर्णय एषामस्तीति । भक्तिरेव पुरुषार्थसाधनं नान्यत् कर्मादिकमिति निर्णयवताम् । विष्णुरेव मुमुक्षुभिर्निषेव्य इति निश्चयवतां वा ॥ १७ ॥

प्रकाशिका

एकस्मिन् मुख्ये हरावेवांतो निर्णय एषामस्तीत्येकांतिनस्तेषाम् ॥ १७ ॥

मन्दनन्दिनी

चैद्यस्य शिशुपालस्य ॥ १७ ॥

एतद् वेदितुमिच्छामः सर्व एव वयं मुने ।

भगवन्निन्दया वेनो द्विजैस्तमसि पातितः ॥ १८ ॥

पदरत्नावली

भगवन्निन्दनं सतां कर्णशूलायमानमप्येतच्छ्रोतुं तच्चित्रमित्याशयवानाह– भगवन्निन्दयेति ॥ १८ ॥

प्रकाशिका

तस्य वेनवत्तमः प्राप्तिरेव युक्तेत्याह ॥ भगवन्निंदयेति ॥ १८ ॥

मन्दनन्दिनी

भगवन्निन्दायास्तमोहेतुत्वे निदर्शनमाह ॥ वेन इति ॥ १८ ॥

दमघोषसुतः पाप आरभ्य कलभाषणात् ।

सम्प्रत्यमर्षी गोविन्दे दन्तवक्रश्च दुर्मतिः ॥ १९ ॥

प्रकाशिका

दमघोषसुतः शिशुपालः कलभाषणात्कोमलभाषणमारभ्य । सम्प्रति अधुनापि । अमर्षी द्वेषी । दंतवक्रश्चेतीमौ कथं तस्मिन् लयं सायुज्यम् ईयतुरिति वक्ष्यमाणेनान्वयः ॥ १९ ॥

मन्दनन्दिनी

कलभाषणमारभ्य सम्प्रत्येतत्कालपर्यन्तमप्यमर्षी द्वेषी ॥ १९ ॥

शपतोरसकृद् विष्णुं यद् ब्रह्म परमव्ययम् ।

श्वित्रो न जातो जिह्वायां नान्धं विविशतुस्तमः ॥ २० ॥

कथं तस्मिन् भगवति दुरवग्राह्यधामनि ।

पश्यतां सर्वलोकानां लयमीयतुरञ्जसा ॥ २१ ॥

तात्पर्यम्

‘नियमाद्भुज्यते पुम्भिर्धर्माधर्मफलं मृतौ । कैश्चिदत्रापि भुज्येत तस्मान्ना-धर्ममाचरेदि’ति भारते ॥ २० ॥

पदरत्नावली

श्वित्रः श्वेतकुष्ठः । दुःखग्राह्यं दुर्ज्ञेयं धाम स्वरूपं यस्य स तथा तस्मिन् । लयं सायुज्यलक्षणम् । ननु ‘अत्युत्कटैः पुण्यपापैरिहैव फलमश्नुते’ इति वचनात् ‘श्वित्रो न जातः’ इत्यादि-वाक्यं कथं सङ्गच्छते ? उच्यते– भगवद्वेषिणोऽपि बहुविधाः । तत्र केचिन् मरणानन्तरं पापफलं भुञ्जते । केचिदत्रैव । तत्कुतः ? इति चेन्न ‘नियमाद् भुज्यते पुंभिर् धर्माधर्मफलं मृतौ । कैश्चिदत्रापि भुज्येत तस्मान्नाधर्ममाचरेत् ॥’ इति वचनात् । अनेन धर्मिणोऽपि व्याख्याताः । ‘धर्मी स्वर्गं विधर्मी निरयम्’ इति च । अत्र कश्चिद्विशेषोऽस्ति । जयविजययोः सात्विकत्वेन, भक्तत्वेन, द्वारपालकत्वेन हरेरतिप्रियत्वात् सनकादिशापादसुरजन्मन्यपि क्वचिद्भक्त्यलोपाद् द्वेषफलभोक्तुरन्यत्वाच्च । द्वेषस्य पापिष्ठासुरकृतत्वादनयोरुपचरितत्वाच्च । अनेन स्वापराधनाशलक्षणानुग्रहपात्रत्वेन प्रतिज्ञातशपथत्वेन च हरेः सुरप्रियत्वं च विशदमभूदिति रहस्यम् ॥ २०–२१ ॥

प्रकाशिका

श्वित्रः श्वेतकुष्ठम् । अत्र पापस्य पारत्रिकनरकप्राप्तिवदैहिकं कुष्टादिकमपि नियमेन फलमिति प्रतीतिवारणाय विवक्षितं तात्पर्यं प्रमाणेनैवाह ॥ नियमादिति ॥ मृतौ मृत्यनन्तरम् । अत्रापि पापसाधनदेह एव भुज्येत भुज्यते । धर्माधर्मयोरत्युत्कटत्वदिति शेषः । तथाच नियमाभावेऽपि ‘‘अत्युत्कटैः पुण्यपापैरिहैव फलमश्नुते’’ इति वचनात् सम्भावनया श्वित्रो न कुतो जात इति पृष्टमित्याशयः ॥ दुरवग्राह्यं दुर्ज्ञेयं धाम स्वरूपं यस्य तस्मिन् ईयतुः । यद्यपि दन्तवक्त्रलयस् तदानीं न जातस्तथापि तदीयजातकप्रमाणेनैवं सिद्धवन्निर्देशः ॥ २०,२१ ॥

मन्दनन्दिनी

श्वित्रः श्वेतकुष्टः । धर्मी स्वर्गं विधर्मी निरयमेत्येवेति श्रुतेः । धर्माधर्मयो-र्मृत्यनन्तरभाविफलकत्वात् । श्वित्रो न जात इति कथमुच्यत इत्यतस्तात्पर्यं प्रवृत्तम् ।

नियमाद्भुज्यते पुंभिर्धर्माधर्मफलं मृतौ ।

कैश्चिदत्रापि भुज्येत तस्मान्नाधर्ममाचरेत् ॥ इति भारते ।

कैश्चिदत्युत्कटैरित्यर्थः । ‘‘अत्युत्कटैः पुण्यपापैरिहैव फलमश्नुते’’ इत्युक्तेः । भगवन्निंदनस्य चात्युत्कटत्वात् ॥ दुरवग्राह्यधामन्यप्राप्यस्वरूपे ॥ २०,२१ ॥

एतद् भ्राम्यति मे बुद्धिर्दीपार्चिरिव वायुना ।

ब्रूह्येतदद्भुततमं भगवन्नत्र कारणम् ॥ २२ ॥

मन्दनन्दिनी

एतदेतस्मिन्विषये बुद्धिर्भ्राम्यति । निन्दा तमः कारणमिति श्रुतिशतसिद्धां निन्दकस्य सायुज्यं प्रत्यक्षसिद्धम् । अतो मनो नान्यतरन्निश्चेतुमर्हतीत्यर्थः ॥ २२ ॥

श्रीशुक उवाच–

राज्ञस्तद्वच आकर्ण्य नारदो भगवान् ऋषिः ।

तुष्टः प्राह तमाभाष्य शृण्वन्त्याः सदसः कथाः ॥ २३ ॥

प्रकाशिका

आभाष्य सम्बोध्य । सीदन्ति निषीदन्त्यस्यामिति सदः सभा तस्याः सदसः शृृण्वन्त्याः सत्याः कथाः प्राहेत्यन्वयः ॥ २३ ॥

मन्दनन्दिनी

सदसः कथाः शृृण्वन्तः सन्त इत्यर्थः ॥ २३ ॥

नारद उवाच–

निन्दनस्तवसत्कारन्यक्कारार्थं कलेवरम् ।

प्रधानपरयो राजन् अविवेकेन कल्पितम् ॥ २४ ॥

पदरत्नावली

देहाद्यभिमानवतस्तव निन्दनादिना मनःखेदहर्षादिसम्भवेन क्रोधादिकं स्यात् । हरेस्तदभावान् निन्दनादिना विशेषानुदयात् स्वतो नित्यतृप्तत्वेन परप्राप्यप्रयोजनाभावात् तत्तद्योग्यतानुसारेण तत्तत्फलदातृत्वं युक्तमित्यादिकं वक्तुमुपक्रमते– निन्दनेति ॥ निन्दनं दोष-सङ्कीर्तनम् । स्तवः स्तुतिः, गुणकथनलक्षणा । सत्कारः कायिकपूजा । न्यक्कारः कायिकावज्ञा । तेषां निन्दनादीनाम् अर्थं विषयभूतं कलेवरं प्रधानपरयोः प्रधानाद् देहेन्द्रियाद्यात्मकात् परस्य जीवस्या-विवेकेनाभेदेन कल्पितम् । स्वतश्चिदानन्दस्य (जीवस्य) प्रकृतेरनात्मनो भेदाग्रहादिदं जडशरीरं क्लृप्तमित्यर्थः ॥ २४ ॥

प्रकाशिका

भगवन्निन्दकस्य नरकाद्यनर्थेन भवितव्यमिति वदतस्तव कोऽभिप्रायः । किं तदीयनिन्दया भगवति दुःखमुत्पादितमिति । उत तदभावेऽपि सुरापानादिवन्निषिद्धाचरणरूपं भगव-न्निन्दनमिति । तत्राद्यस्य प्राकृतदेहधारिणां तदभिमानिनामेव परकृतनिन्दनादिना दुःखाद्युत्पत्तिर्भगवतस्तु न प्राकृतो देहो नापि तदभिमानो ऽतो न परकृतनिन्दया दुःखोत्पत्तिरित्युत्तरमाह । निन्दनेति सार्धैस्त्रिभिः ॥ निन्दनं दोषसङ्कीर्तनम् । स्तुतिर् गुणकथनम् । सत्कारः पूजा । न्यक्कारोऽवज्ञा । तदर्थं तन्निमित्तकदुःखाद्यनुभवार्थं कलेवरं षोडशकलात्मकं शरीरं प्रधानाद्देहेन्द्रियाद्यात्मकात्परस्य जीवस्या-विवेकेन स्फुटतरभेदाग्रहेण कल्पितं समर्थं भवति । अत्र स्तुतिसत्कारयोः प्रसङ्गाद्ग्रहणम् ॥ २४ ॥

मन्दनन्दिनी

युधिष्ठिरोक्तप्रश्नं प्रतिवक्तुमारभते ॥ निन्दनेत्यादिना ॥ अत्र निन्दनादिना भगवतः क्रोधदुःखहिंसनाद्युपद्रवप्राप्त्या कथं चैद्यस्य सायुज्यमिति वा । एतज्जन्मनि साधनाभावात्कथं तदिति वा । द्विषतोऽपि सायुज्ये वेनस्यापि तत्स्यादिति वा । नाद्य इत्याह ॥ निन्दनेति ॥ हे राजन् । प्रधानपुरुषयोः प्रकृतिपुरुषयोर्देहजीवयोर्वाऽविवेकेनात्यन्ताभेदज्ञानेन निमित्तेन यत्कल्पितं निष्पादितं तदेव कलेवरं देहादिकं निन्दनाद्यर्थं भवति । निन्दनस्तवौ दोषगुणसङ्कीर्तनरूपवाचकव्यापारौ । सत्कारन्य-क्कारौ सन्मानावमानलक्षणौ कायिकौ । एतैः कार्यं क्रोधदुःखादिकं लक्ष्यते । तथा च स्वर्गार्थं याग इतिवन्निन्दनादिजन्यक्रोधाद्युपद्रवायेदं निन्दनाद्यर्थम् । अर्थेन नित्यसमासो विशेष्यनिघ्नता च ॥ २४ ॥

हिंसा तदभिमानेन दण्डपारुष्ययोर्यथा१ ।

वैषम्यमिह भूतानां ममाहमिति पार्थिव ॥ २५ ॥

पदरत्नावली

ततः किं फलमिति तत्राह– हिंसेति ॥ तदभिमानेन देहाभिमानेन भूतानाम-विवेकज्ञानिनां ममाहमिति इह देहे । हिंसा ताडनादिलक्षणा । दण्डपारुष्ययोर् निमित्तयोः (सतोः) वैषम्यं विषमावस्था फलतीत्यर्थः ॥ २५ ॥

प्रकाशिका

उक्तरूपविवेकोऽपि कथं दुःखाद्यनुभवजनक इत्यत उपलक्षणया दुःखाद्यनुभव-जनकत्वं तस्योपपादयति ॥ हिंसेति । भूतानां प्राणिनां तदभिमानेन तस्मिन् देहे स्फुटतरजीव-भेदाग्रहरूपेण दण्डस्ताडनं, पारुष्यं निन्दा तयोर्निमित्तभूतयोः सतोरिह देहे हिंसा ममाहमिति वैषम्यं च भवति । ताभ्यां च जीवो दुःखमनुभवतीति वाक्यशेषः ॥ २५ ॥

मन्दनन्दिनी

एवं दण्डपारुष्ययोः शरीरदण्डननिष्ठुरवाचोरपि निमित्तयोः सतोः शरीराभिमानेन हिंसा भवति । चेतनस्य हिंसाऽभावेनाभिमन्यमानशरीरहिंसयैव हिंसितो देवदत्त इति व्यवहारात् । तदभिमानेनेत्येतत्सर्वत्रापि ग्राह्यम् । कोऽभिमानो नामेत्यतो भूतानां ममाहमिति यद्वैषम्यं तदिति । अस्वकीये ममेति स्वकीयता बुद्धिः । अनहम्भूतेऽहमिति बुद्धिश्चेत्यर्थः ॥ २५ ॥

यन्निबन्धोऽभिमानोऽयं तद्वधात् प्राणिनां वधः ।

तथा न यस्य कैवल्यादभिमानोऽखिलात्मनः ।

परस्येदमकर्तुर्हि हिंसा केनास्य कल्प्यते ॥ २६ ॥

तात्पर्यम्

कैवल्याद् देहाद्यभावादेव । अकर्तुस्तस्यान्यः कर्ता न विद्यते । इदम् एषा । ‘व्यत्ययोऽतिशय कुत्सनभेदेष्वि’ति सूत्रात् ॥ २६ ॥

पदरत्नावली

ततः किम् ? तत्राह– यन्निबन्ध इति ॥ ममाहमित्याभिमानो यन्निबन्धो यस्मिन् देहे निबद्धस्तद्वधात् तस्य देहस्य वधात् हिंसादिलक्षणात् प्राणिनां चेतनानां वध इत्युपचार इति यत् तस्मान्निन्दादिकं देहस्यैव फलति नात्मनः । तस्य निष्फलमित्याशयः । यथा जीवस्य ममाहमिति देहाभिमानादनर्थपरम्परा तथा हरेरपि देहस्थत्वाविशेषात् साम्यात् किम् ? नेत्याह– तथेति ॥ अखिलात्मनो अखण्डस्वामिनो यस्य न तथा जीववद् देहाभिमानो नास्ति । कुतः ? कैवल्याद् देहाद्य-भावादेव । ननु प्रकृत्यात्मकस्य देहस्याभावो हेतुः क्रियते ? सच्चिदानन्दात्मकदेहस्य वा ? इत्येतयोरिद-मेवोत्तरम् । प्रकृत्यात्मकदेहादेरभावात् प्रकृतिप्राकृतवैकृतमिश्ररहितसच्चिदानन्दात्मकदेहसद्भावात् । ‘सद्देहः सुखगन्धश्च’ इत्यादेः । परस्य परमात्मनः१ । इदमेषा हिंसा केन निमित्तेनास्तीति कल्प्यते । निमित्ताभावात्, नैमित्तिकाभावाच्च इत्यर्थः । अन्यस्मिन् हिंसादिकर्तरि सति हरेर् हिंसादिकमस्तीति कल्पयितुं शक्यते । स च नास्तीत्याशयेनोक्तम्– अकर्तुरिति ॥ तस्यान्तः कर्ता न विद्यते इत्यकर्ता तस्य । हिशब्देन यद्यप्यायुधादिना प्रहर्ता दृश्यते तथापि तत्फलं छेदादिकं नास्तीत्याह । ‘अच्छेद्योऽय-मदाह्योऽयम्’ इत्यादेः । तत्सर्वं कथमित्यत उक्तम्– परस्येति ॥ लोकविलक्षणस्य । तर्ह्ययं शून्यकल्प इत्यस्यापीदमुत्तरम्– परस्य ब्रह्मणः । ‘ब्रह्मविदाप्नोति परम्’ इति श्रुतेः । ‘इदं हिंसा’ इति लिङ्ग-व्यत्ययो हिंसायाः कुत्सितत्वद्योतनाय । एतच्च ‘व्यत्ययोऽतिशयकुत्सनभेदेषु’ इति सूत्राज्ज्ञायते । हरौ हिंसाशङ्का कुत्सितेत्यर्थः । ‘नास्य जरयैतज्जीर्यते न वधेनास्य हन्यते । एतत् सत्यं ब्रह्मपुरम्’ ‘न हन्यते हन्यमाने शरीरे’ इत्यादेश्च ॥ २६ ॥

प्रकाशिका

ननु देहे हिंसायां जीवे कस्माद्दुःखानुभव इत्यतस्तत्राप्युक्तरूपाभिमान एव सम्बन्धरूप इत्याह ॥ यन्निबन्ध इति ॥ यस्मिन्देहे निबद्धोऽयमुक्तरूपोभिमानस्तस्य देहस्य वधात्प्राणिनां दुःखाद्यनुभवो भवतीत्यर्थः । हरेस्तु नैवमित्याह । तथेति । अत्र श्लोके कैवल्यादकर्तु-रिदमिति पदत्रयस्य प्रकृतसङ्गतमर्थं दर्शयति । कैवल्यादित्यादिना । नन्वेषेति वक्तव्ये कुत इदमिति व्यत्ययेनोक्तमित्यतो प्रयोजनं महाव्याकरणसूत्रेणाह । व्यत्यय इति । हरेर् जीवापेक्षयातिशयः हरौ हिंसादिकुत्सना हरौ जीवभेदः । एतेष्वर्थेषु विवक्षितेषु व्यत्ययो भवतीति सूत्रार्थः । तथाच हरौ हिंसायाः कुत्सितत्वद्योतनायेदमिति व्यत्ययेनोक्तमित्यर्थः । ततश्चायं श्लोकार्थः । यस्यास्य परस्य हरेस् तथा इतर-प्राणिवदभिमानः स्फुटतरविवेकाभावरूपो न । कुतः कैवल्यात् प्राकृतदेहाद्यभावादेव । तदपि कुत इत्यत उक्तम् ॥ अखिलात्मन इति ॥ प्रकृत्यादिसर्वस्वामिन इत्यर्थः । न हि शृृङ्खलाधिपतिः प्रेक्षावान् शृृङ्खलया स्वात्मानमपि बध्नातीत्याशयः । एतदपि कुत इत्यत उक्तम् अकर्तुरिति । न विद्यते तस्यान्यः कर्ता यस्य स तथोक्त इत्यर्थः । तत्र प्रमाणप्रसिद्धिद्योतनाय हिशब्दः । इदमेषा कुत्सिता हिंसा तन्निमित्तकदुःखानुभवश्च केन कारणेन कल्प्यते । न केनापि तत्कारणीभूतोक्तरूपाभिमानाभावा-दित्याशयः ॥ २६ ॥

मन्दनन्दिनी

तथा चायमभिमानो यद्देहनिबन्धस्तद्वधादेव प्राणिनां वधः । प्रकृते किमायातमित्यत आह ॥ यदिति ॥ यस्येत्यस्य परस्येत्युत्तरेणान्वयः । ‘‘अकयप्रविसम्भूमसखहा विष्णुवाचका’’ इत्युक्तेर्यस्य विष्णोरिति वार्थः । अभिमानो नास्तीत्यत्र कैवल्यादखिलात्मन इति च हेतुः । अखिलस्वामित्वादस्वकीयाभावेन नास्वकीये स्वकीयताबुद्धिः । कैवल्यपदं च कैवल्याद्देहाद्य-भावादिति तात्पर्ये एव व्याख्यातम् । हिंसालक्षणोपद्रवोऽपि नास्तीत्याह ॥ परस्येति ॥ अकर्तुरित्यत्र न तत्पुरुषः किन्तु बहुव्रीहिरित्याशयेन तात्पर्यम् अकर्तुस्तस्यान्यः कर्ता न विद्यत इति । हिंसेत्यस्य विशेषणे इदमित्यत्र लिङ्गव्यत्ययेनेति प्रवृत्तं तात्पर्यम् इदमेषा । व्यत्ययोऽतिशयकुत्सनभेदेष्विति सूत्रादिति । परमात्मनोऽतिशये हिंसायाः कुत्सितत्वम् । अस्वतन्त्रत्वादत्यन्तभेदं वा द्योतयितुं व्यत्यय इत्यर्थः । तथा च भगवतोऽभिमानाभावेन भिन्नदेहाभावेन स्वातन्त्र्येण च निन्दनादिना कोऽप्युपद्रवो नास्तीति । नाद्यः पक्षो युक्तः । यद्यपि वेनादिकृतनिन्दनादिनाऽप्युपद्रवो नास्ति । अन्यथा परमात्मा केनापि निन्दनादिकं न कारयेत् । तथाऽपि वेनादिकृतनिन्दनादिना स्वाभाविककोप एवाभिव्यज्यते । तेन तस्य तमःप्राप्तिः । भक्ते तु चैद्यादौ स्वाभाविकः कोपो नास्ति । औपाधिकस्तु नोत्पद्यते । किन्तु स्वाभाविकी प्रीतिः । ततश्चान्यावेशकृतं निन्दनादिकं सोढ्वा कृपालुर्मुक्तिमेवाददादिति भावः ॥ २६ ॥

तस्माद् वैरानुबन्धेन निर्वैरेण भयेन वा ।

स्नेहात् कामेन वा युञ्ज््यात् कथञ्चिन्नेक्षते पृथक् ॥ २७ ॥

तात्पर्यम्

कथञ्चिन्नेक्षते पृथक् । तत्रैव मनसोऽभिनिवेशेन तदन्यं नेक्षते । वैरादी-नामेकतमेनापि यो युञ्ज्यात् स तदन्यं नेक्षत इति स्वभावकथनं न विधिः ।

‘कर्मणा मनसा वाचा यो द्विष्याद्विष्णुमव्ययम् । मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः’ । ‘तानहं द्विषतः क्रूरान्संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु । आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्’ ॥ ‘अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम्’ ॥ ‘मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः’ ॥ ‘यदनिन्दत्पिता मे त्वामविद्वांस्तेज ऐश्वरम् । तस्मात्पिता मे पूयेत दुरन्ताद्दुस्तरादघात् । हिरण्यकशिपुश्चापि भगवन्निन्दया तमः । विविक्षुरत्यगात् सूनोः प्रह्लादस्यानुभावतः’ ॥ ‘वरतोऽपि न मुच्यन्ते द्वेषिणः शापतोऽपि तु । भक्ता नैव निपात्यन्ते धर्माधर्मैस्तथेतरैः । अन्यावेशकृतं यत्तु तद्वराद्यैरपोह्यते । तद्विरुद्धस्वभावानामन्यथा न कथञ्चने’त्यादेः ॥

यस्मादेवं कोऽप्युपद्रवो नास्ति भगवतस्तस्मादेव द्वेषादिनापि मनो योक्तुं शक्यते तत्प्रेरणया । तादृशानाम् एतदेव चिन्तयति च । अन्यथा आत्मनो दुःखकारणं द्वेषादिकं कथं सर्वनियामको हरिरुत्पादयेत् ॥ २७ ॥

पदरत्नावली

अत्रैवं हरिस्वरूपे स्थिते स्वयोग्यानन्दाविर्भावलक्षणमोक्षसाधनक्षमा अक्षीणा भक्तिरेव । द्वेषादिकमर्थवादलक्षणं तत्तत्स्वभावज्ञापनार्थमुच्यत इत्याशयेनाह– तस्मादिति ॥ यस्माज् जडशरीरेन्द्रियाद्यभावेन हरेरहंममाभिमाननिमित्तोपद्रवो दूरतो निवारितः, तस्माद् वैरानुबन्धनादिना यो हरौ मनो युञ्ज्यात् प्रयुङ्क्ते स कथञ्चित् पृथक् नेक्षते । मनसस् तत्राभिनिवेशेन हरेरन्यं न चिन्तयति, तमेवानुस्मरतीत्यन्वयः । अनेन वैरादीनामेकतमेनापि हरौ मनो युञ्जानो वैरादिमानेव भवतीति तत्तद्वस्तु-स्वभावात् तथोच्यत इति ज्ञातव्यम् । तदुदितमाचार्यैः– ‘कथञ्चिन्नेक्षते पृथक् । तत्रैव मनसोऽभिनिवेशेन तदन्यं नेक्षते । वैरादीनामेकतमेनापि यो मनो युञ्ज्यात् स तदन्यन्नेक्षते इति स्वभावकथनम्’ इति । नन्वत्र संयुञ्ज्याद् इत्यस्य प्रथमप्राप्तं विध्यर्थं परित्यज्यान्यार्थकल्पनायामश्रुतकल्पना स्यादिति चेन्न– ‘भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन,’ ‘यमेवैष वृणुते तेन लभ्यः’‘ प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः’ इत्यादिना भक्तेरेव भगवत्प्रीतिजनकत्वोक्तेः । ‘अनानुभूतीरवधून्वानः’ इत्याद्यनर्थ-श्रुतेश्च । अतो न विध्यर्थोऽङ्गीकारयोग्यः । तदप्युक्तम्– न विधिरिति ॥ न केवलं द्वेष्टुः स्वस्यैवानर्थः । अपि तु तत्पितृणामपि । तदुक्तम्– ‘कर्मणा मनसा वाचा यो द्विष्याद् विष्णुमव्ययम् । मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः ॥’ इति ।

नन्वेकदाकृतद्वेषप्राप्तनरकोपभोगेन क्षीणदोषस्य पुनः शुद्धान्तःकरणतया भक्तिकरणयोग्ययोनिप्राप्तिः स्यादिति तत्राह– ‘तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥’ इति । कीदृशो द्वेष इति तत्राह– ‘अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् ॥’ इति । ‘स्वर्गकामो यजेत’ इत्यादेः सत्कर्मणा तेषां सद्गतिः स्यात् किम् ? नेत्याह– ‘मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥’ इति । ननु तर्हि हिरण्यकशिप्वादेर् दुरन्ताघादुत्थितिः कथमभूदिति तत्राह– ‘यदनिन्दत् पिता मे त्वामविद्वान् तेज ऐश्वरम् । तस्मात् पिता मे पूयेत दुरान्ताद् दुस्तरादघात् ॥’ ‘हिरण्यकशिपुश्चापि भगवन्निन्दया तमः । विविक्षुरत्यगात् सूनोः प्रह्लादस्यानुभावतः ॥’ इति । नन्वेवं तर्हि भक्तद्वेषिणोः शापवराभ्यां विपर्ययः स्यात् किम् ? नेत्याह– ‘वरतोऽपि न मुच्यन्ते द्वेषिणः शापतोऽपि तु । भक्ता नैव निपात्यन्ते धर्माधर्मैस्तथेतरैः ॥’ इति । योग्यताया बलवत्वाद् इति शेषः । नन्वेवं चेत् पुनश्चानर्थ आपन्न इति तत्राह– ‘अन्यावेशकृतं यत्तु तद्वराद्यैरपोह्यते । तद्विरुद्धस्वभावानामन्यथा न कथञ्चन ॥’ इत्यादि । हिरण्यकशिप्वाद्याविष्टासुरकृतपापं प्रह्लादादिभिः परिहृतम् । न तु स्वतोऽसुरस्येत्यर्थः ॥ २७ ॥

प्रकाशिका

एवमाद्यस्योत्तरमुक्त्वा भगवति दुःखाभावेऽपि भगवन्निन्दनं निषिद्धाचरणरूपमिति द्वितीयस्योत्तरं वक्तुमाह । तस्मादिति ॥ अत्र जीवः स्वस्मात् परमात्मानं पृथङ्नेक्षत इत्युच्यत इति भाति । अतोऽत्राभिप्रेतं तात्पर्यं दर्शयति । कथञ्चिदिति । तत्रैव भगवत्येव । तदन्यं भगवद्व्यतिरिक्तं पदार्थम् । वैरादीनामेकतमेनापि हरौ मनो युंज्यादिति विधाय कुत इत्यतो यस्मादेतैरुपायैः पृथङ्नेक्षत इति परकीयचतुर्थपादयोजनां दूषयितुं स्वयं तद्योजनाप्रकारमाह ॥ वैरादीनामिति । उक्तानुवादपूर्वकं यत्तछब्दावध्याहृत्य चतुर्थपादो योज्य इत्याशयः ।

नन्वेवं तस्य वैय्यर्थ्यमित्यत उक्तम् । स्वभावकथनमिति । प्रसङ्गादभिनिवेशेन मनोयोग-स्वभावकथनमित्यर्थः । ननु कुत एवं परोक्तैव योजना किं न स्यादित्यत आह । न विधिरिति । स्यादेवं यदि युंज्यादिति विधिः स्यात् । तथात्वे वैरापरपर्यायद्वेषेणापि हरौ मनोयोगो मोक्षहेतुतया विहितः स्यात् । स च बहुप्रमाणविरुद्ध इत्याशयेन द्वेषस्यानर्थहेतुत्वप्रतिपादकानि प्रमाणानि पठन्ति । कर्मणेति ॥ तानहमित्यारभ्य गीतावाक्यम् । अवजानन्ति द्विषन्ति । मम भूतं विद्यमानं महेश्वरं महेश्वरत्वम् अवजानन्त इत्यन्वयः । यदनिन्ददिति सप्तमस्कन्धस्थं भागवतवाक्यम् । अनिन्दत्, द्वेषेणेति शेषः । हिरण्यकशिपुश्चापि इति चतुर्थस्कन्धगतम् । निन्दया द्वेषपूर्विकया । विविक्षुर् वेशनसम्भावनाविषयः । ननु द्वेषिणामपि वरेण द्वेषापगमे मोक्षः, भक्तानामपि शापेन भक्त्याद्यपगमे तमः क्वचिदुच्यतेऽतः कथमेतदित्यत आह । अन्यावेशेति । तद्विरुद्धस्वभावानां द्वेषविरुद्धस्वरूपाणाम् । स्वभावतो भक्तानामिति यावत् । वरेण यो द्वेषोऽपगत इत्युच्यते सोऽन्यावेशकृतो दैत्यावेशकृतो न स्वाभाविकः । तद्विरुद्धस्वभावानां भक्तिविरुद्धस्वभावानां स्वभावतो द्वेषिणां यो भक्त्या गुणः शापेनापगत इत्युच्यते सोऽपि अन्यस्य सज्जनस्यावेशकृतो न स्वाभाविक इत्यर्थः । तथा च येषां द्वेषिणां वरेण मोक्ष उच्यते ते न स्वभावतो द्वेषिणः किं त्वन्यावेशेनैव । येषां च भक्तानां शापेन तम उच्यते तेऽपि न स्वभावतो भक्ताः । किं त्वन्यावेशेनैव, अतो नोक्तनियमभङ्ग इत्यर्थः । अन्यथेति । स्वभावतो द्वेषिणां मोक्षः स्वभावतो भक्तानां च तम इति कथञ्चन नेत्यर्थः । इत्यादेर्वाक्याद्द्वेषस्यानर्थहेतुत्वावगमेन न विधिरित्यन्वयः । विधित्वाभावे कथं तद्योजनेत्यपेक्षायामवशिष्टं पादत्रयं द्वितीयपक्षोत्तरतया व्याख्याति । यस्मादेवमिति । एवं तथा न यस्य कैवल्यादित्युक्तरीत्या । मनो युञ्ज्यादित्यस्यार्थो मनो योक्तुं शक्यत इति । योक्तुं माहात्म्यज्ञानपूर्वकस्नेहयुक्तं कर्तुं शक्यत इत्यर्थः । योगशब्दः स्नेहवाचीत्यग्रे वक्ष्यमाण-त्वात् ।

ननु वैरानुबन्धेन मनः कथं स्नेहयुक्तं कर्तुं शक्यमित्यत आह ॥ तत्प्रेरणयेति । भगवत्प्रेरण-येत्यर्थः । ननु तर्हि मागधादिद्वेषिणामपि मनः कुतो न स्वस्मिन् स्नेहयुक्तं करोतीत्यत आह ॥ तादृशानामिति । स्वभावतो भक्तानामन्यावेशेन द्वेषिणामित्यर्थः । एतदेव एतेषां मनः कदा मयि स्नेहयुक्तं करिष्यामीत्येतदेव । चिन्तयति कालप्रतीक्षां करोति । न सर्वद्वेषिणामतो नोक्तदोष इत्यर्थः । चशब्दः प्रेरणासमुच्चयार्थः । एतदेव विपक्षबाधकमुखेनोपपादयति । कथमिति । अन्यथा अन्यावेशेन द्वेषिणां मनस्यन्ततः स्वप्रेरणया स्नेहानुत्पत्तौ आत्मनो द्वेषादिकमित्यन्वयः । स्वसम्बन्धिद्वेषाधिकं तादृशानां भक्तानां दुःखकारणं तमःसाधनं कथमुत्पादयेत् । न कथमपि । यथा भक्तानां तम आत्मनः स्वस्य दुःखकारणमनिष्टकारणमित्यपि योज्यम् । ननु हरिस्तेषां न नियामक इत्यत उक्तम् । सर्व-नियामक इति । उत्पादयेदित्यस्यानन्तरमुत्पादयति च । तस्मात्तेषां मनस्यन्ततः स्नेहो यथास्यात्तथा प्रेरयतीत्यपि ग्राह्यम् । तथाचान्ततो हरिप्रेरणया जायमानेन माहात्म्यज्ञानपूर्वकस्नेहेन तेषां निन्दाजनित-पापपरिहारसम्भवान्नानर्थप्रसक्तिरिति द्वितीयपक्षस्योत्तरमनेन लब्धमित्याशयः ॥ २७ ॥

मन्दनन्दिनी

न द्वितीय इत्याह ॥ तस्मादिति ॥ सर्वथाऽप्युपद्रवाभावाद्वैरानुबन्धादिना केनापि प्रकारेण युञ्ज्यात् । अत्र निर्वैरेण युञ्ज्यादिति विशिष्टविधिः । वैरानुबन्धेनेत्यादावप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीदित्यत्र वेनविशेषणे तात्पर्यम् । किन्तु योगमात्रविधाने वैरादेर्निषिद्धत्वात् । इयं चानुव्याख्यानसुधारीतिः । वस्तुतस्तु य इत्यध्याहारेण यो वैरानुबन्धादिना युञ्ज्यात्सः कथञ्चित्पृथ-गन्यद्वस्तु नेक्षते इत्येकवाक्यतया योजना । तथा चान्याविषयकत्वे सति भगवद्विषयकत्वं मनसो लक्ष्यते । तदेव मुक्तिसाधनमिति भावः । अत एव तात्पर्यं ‘‘कथञ्चिन्नेक्ष्यते पृथक् ॥ तत्रैव मनसोऽभि-निवेशेन तदन्यं नेक्षते । वैरादीनामेकतमेनापि युञ्ज्यात्स तदन्यं नेक्षत इति स्वभावकथनं न विधिः’’ इति ॥ तथा चान्यविषयकभगवद्विषयकमनोयोगलक्षणसाधनसद्भावादिह जन्मनि साधनाभाव इत्येत-त्सिद्धम् । ननु वैरानुबन्धाद्यंशेऽपि विधिः किं न स्यादित्यतो बाधकं वक्तुं प्रवृत्तं तात्पर्यं कर्मणा मनसेत्यारभ्य कथंचनेत्यादेरित्यन्तम् ।

तत्र–

कर्मणा मनसा वाचा यो द्विष्याद्विष्णुमव्ययम् ।

मज्जन्ति पितरस्तस्य नरके शाश्वतीः समा ॥ इति ग्रन्थान्तरस्थवचनम् ।

अत्र द्विषतः पितॄणामपि नरकोक्तेर्द्वेषस्याकार्यत्वं लब्धम् ।

तानहं द्विषतः क्रूरान्संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ।

आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यांत्यधमां गतिम् ।

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् ।

मोघशा मोघकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥

इति गीतावचनम् ।

अत्र द्विषतामधोगत्युक्त्याऽवजानता मोघाशत्वादेः राक्षसासुरस्वभावत्वस्य चोक्त्या द्वेषस्याकर्तव्यत्वं लक्ष्यते ।

यदनिन्दत्पिता मे त्वामविद्वांस्तेज ऐश्वरम् ।

तस्मात्पिता मे पूयेत दुरन्ताद्दुस्तरादघाद् ॥

इत्यत्रैवं वक्ष्यमाणं वचनम् । अत्र निन्दनप्रसक्तात्पति प्रार्थनान्निन्दनस्याकर्तव्यत्वम् । एतच्च सज्जीवविषयम् । दुर्जनस्य विषये प्रार्थनस्य पावनस्य चायोगात् ।

हिरण्यकशिपुश्चापि भगवन्निन्दया तमः ।

विवक्षुरत्यागात्सूनोः प्रह्नादस्यानुभावतः । इति चतुर्थस्कन्धगतवचनम् ।

अत्रापि निन्दया तमोवेशनप्रसक्त्युक्तेर्निन्दनस्याकर्तव्यत्वम् । एतदपि सज्जीवविषयम् ।

वरतोऽपि न मुच्यन्ते द्वेषिणः शापतोऽपि तु ।

भक्ता नैव निपात्यन्ते धर्माधर्मैस्तथेतरैः ।

अन्यावेशकृतं यत्तु तद्वराद्यैरपोह्यते । तद्विरुद्धस्वभावानामन्यथा न कथञ्चनेन ॥ इति ग्रन्थान्तर-स्थम् । अत्र स्वभावद्वेषिणो वरतोऽपि मुक्त्यभावोक्त्या द्वेषस्याकर्तव्यत्वम् । स्वभावभक्तस्य शापतोऽपि निपातनाभावोक्तेर्दृष्टान्तत्वम् । इतरैर्धर्मैरपि द्वेषिणो मुक्त्यभावः । अधर्मैर्निपतनाभाव इत्यर्थः । द्वेषविरुद्धस्वभावानामेवान्यावेशकृतद्वेषादेर्वरादिनापवादस्य स्वभावद्वेषानपवादस्य चोक्त्या द्वेषस्या-कर्तव्यत्वम् । मूले तस्माद्वैरानुबन्धेनेति ॥ अत्र तच्छब्दस्य यच्छब्दसापेक्षितत्वात् । तात्पर्यकृद्योजयति ॥ यस्मादेवं कोऽप्युपद्रवो नास्ति भगवतस्तस्मादेव द्वेषादिनाऽपि मनो योक्तुं शक्यते तत्प्रेरणया । तादृशानां तदेव चिन्तयन्ति च । अन्यथाऽऽत्मनो दुःखकारणं द्वेषादिकं कथं सर्वनियामको हरि-रुत्पादयेदिति । अनेन तथा नयस्य कैवल्याद्यभिमान इत्यनेनोक्ताभिमानो लक्षणोपद्रवाभावस्य परामर्श इति सूचितम् । शक्यते इत्यनेन युञ्ज्यादिति लिङ्गो न विधिरर्थः । किन्तु शक्यत्वमिति सूचितम् । इदमपि द्वेषादिना मनोयोगादिकं भगवतो नोपद्रवादिकारणमित्यनेन न किन्तु तत्प्रेरणया । न ऋते त्वत्क्रियत इति श्रुतेर् इति भावेनोक्तं तत्प्रेरणयेति । तादृशानामन्याविष्टानां भक्तानां तदेव यथाकथञ्चि-द्योजनं भवत्विति द्वेषादिना मनोनिवेशनं चिन्तयति आलोचयति च । भगवांस्तादृशानां नित्यद्वेषादिमतां तदेव तत्पूर्वं मनोनिवेशनमेवेति वाऽर्थः । प्रेरणयाऽपि भगवत उपद्रवाभावो लब्ध इति भावेनाह ॥ अन्यथेति ॥ २७ ॥

यथा वैरानुबन्धेन मर्त्यस्तन्मयतामियात् ।

न तथा भक्तियोगेन इति मे निश्चिता मतिः ॥ २८ ॥

तात्पर्यम्

तत्रैव हेतुः । यथा वैरानुबन्धेनेति । यथा वैराभिनिवेशिनस् तथा भक्त्यभि-निवेशिनो न सन्ति । तत्कथमन्यथा भक्तानेव बहून्हरिः कुर्यादिति भावः ॥

कीटः पेशस्कृतेत्यादि चैद्यादीनां भक्तियुतत्वप्रतिपादनम् । स्नेहाद्यायतननाशादिनाऽप्युप-द्रवोऽस्य नास्तीति निर्वैरेणेत्याद्युक्तम् ।

‘ततः कनीयसा एव देवा ज्यायसा असुरा’ इति श्रुतिः । तन्मयतां मनसस्तत्राभि-निवेशनम् । ‘मागधाद्या यथा नित्यं द्वेषादाग्रहिणो हरौ । न तथाऽऽग्रहिणो भक्ता ऋते ब्रह्माणमव्ययम्’ इति हरिवंशेषु ॥

योगः स्नेहः । संरम्भभययुक्तस्नेहेन । ‘प्रीतिः स्नेहस्तथा योगः प्रेमबन्ध इतीर्यते’ इति शब्दनिर्णये ॥

वैरयुक्तयाऽप्यनुचिन्तया तमापुः । ‘अनुचिन्तेति तामाहुर्भक्तिपूर्वा तु या स्मृतिः’ इति च ॥ ‘स्नेहादन्नं ददातीति स्वाकर्षणभयेऽपि च । विद्यमानेऽप्यल्पकोपे सङ्गतिस्नेहतस्तथा ॥ पेशस्कृद्रूपतां कीटो यथा याति तथैव तु । चैद्यादयोऽसुरावेशाद्धरौ द्वेषयुता अपि निजस्वभावया भक्तया नीता हरिसरूपताम् । तथा हि करुणो विष्णुरन्यावेशाद्यदि द्विषन् । हीयते किं ममानेन नित्यानन्दस्वरूपिणः । देहबन्धयुतानां हि द्वेषिणाऽपकृतं भवेत् ॥ मम को ह्यपराध्येत निर्दोषसुखरूपिणः । अतो मय्यपराधस्तु स्वस्मिन्नेव न मे भवेत् ॥ अतो यच्चासुरावेशा-त्कृतमेतेन दुष्कृतम् । अनादिभक्तो यस्मान्मे मोचयिष्ये ततस्त्वहम् ॥ इति मत्वा मोचयति चैद्यादीनपि केशवः’ ॥ इति ब्रह्माण्डे ॥

पदरत्नावली

कुतः स्वतोऽसुरस्य पापं न परिह्रियत इत्याशङ्क्य द्वेषाभिनिविष्टमनस्कत्वेन तद्योग्यत्वेन भगवत्प्रेरितत्वेनाभीष्टनिवृत्तित्वेन तदात्मकत्वादित्याशयेनाह– यथेति ॥ मर्त्यस् तमोयोग्यो वैरानुबन्धेन निरन्तरवैरस्मरणेन तन्मयतां तत्तद्वेषविषयवस्तुनि यथा मनसोऽभिनिवेशम् इयात् प्राप्नोति तथा भक्तिलक्षणोपायेन भक्तिविषये वस्तुनि मनोऽभिनिवेशं न करोति । तत्र किं प्रमाणमिति तत्राह– इतीति ॥ निश्चिता मतिरित्यनेन साक्षिलक्षणा मतिर्गृह्यते । भक्तियोगेन इति इत्यत्र सन्धिकार्याभावो द्वेषाभिनिवेशिनां बाहुल्यं भक्त्याभिनिवेशिनां कनीयस्त्वं च दर्शयितुम् । कुत एतदवगतमिति चेन्न ।यथा वैराभिनिवेशिनः’ इत्याचार्योक्तेः । वैरिणां बाहुल्यमन्येषामल्पसङ्ख्याकत्वं कथमिति चेन्न । हरिणा भक्तानां बाहुल्याकरणात् । एतदप्युक्तम्– ‘कथमन्यथा’ इत्यादि । ‘ततः कनीयांस एव देवा ज्यायांस असुराः’ इति च । भक्त्यभिनिवेशिष्वपि कश्चिद् विशेषोऽस्तीति ज्ञापनाय वा सन्ध्यभावः । ‘ऋते ब्रह्माणमव्ययम्’ इत्युक्तेः । असुराणां नित्यद्वेषाग्रहित्वप्रकटनाय– अनुबन्धेनेति ॥ ‘मागधाद्या यथा नित्यं द्वेषादाग्रहिणो हरौ । न तथाऽऽग्रहिणो भक्ता ऋते ब्रह्माणमव्ययम् ॥’ इत्युक्तेः ॥ २८ ॥

प्रकाशिका

यथा वैरानुबन्धेनेत्यस्य तेष्वपि वैरानुबन्धः श्रेष्ठ इत्याहेति सङ्गतिकथनं प्रमाण-विरुद्धमित्याशयेन स्वयं सङ्गतिमाह ॥ तत्रैव हेतुरिति । उच्यत इति शेषः ॥ तत्रैवान्यावेशेन द्वेषिणां चैद्यादीनां मनः स्वप्रेरणया भक्तियुक्तं करोति । न सर्वद्वेषिणामित्यत्रैवेत्यर्थः । एवकारः परोक्तसङ्गति-निरासार्थः । श्लोकाभिप्रायमाह । यथेति । यथा यावन्तो वैराभिनिवेशिनस् तथा तावन्त इत्यर्थः । इदं कथमुक्तार्थोपपादकमित्यत आह । तत्कथमन्यथेति । अन्यथा अन्यावेशेन द्वेषिणामेव मनः स्वप्रेरणया भक्तियुक्तं करोतीति नियममनङ्गीकृत्य सर्वद्वेषिणां मनः भक्तियुक्तं करोतीत्यङ्गीकारे तद्वेषिणां बहुत्वं, भक्तानामल्पत्वं च कथं घटते । न कथमपीत्यर्थः । तथात्वे वैपरीत्यमेव स्यादित्याह ॥ भक्तानेवेति ॥ तथात्व इति शेषः । न च करोति । तेन ज्ञायते तादृशानामेव मनः स्वप्रेरणया भक्तियुक्तं करोति न सर्वद्वेषिणामिति पूर्वोक्तार्थसिद्धिरनेनेति ज्ञातव्यम् ।

नन्वेवं कीटः पेशस्कृतेति श्लोके कीटदृष्टान्तेन चैद्यादीनां द्वेषेण मुक्त्युपपादनमनुपपन्नं स्यादित्यत आह । कीट इति ॥ तत्रापि चैद्यादीनां भक्तियुतत्वमेव प्रतिपाद्यतेऽतो न विरोध इत्यर्थः । यथा चैतत्तथाऽग्रे स्वयमेव प्रदर्शयिष्यति । ननु वैरेण हिंसाद्युपद्रवप्रसक्तिवन्निर्वैरभयादिभिरुपद्रवप्रसक्तेरेवा-भावात् कथं यस्मात्कोऽप्युपद्रवो नास्तीत्यस्य निर्वैरादिना मनोयोगे हेतुत्वमित्याशङ्कायां तत्राप्युप-द्रवप्रसक्तिं दर्शयंस्तदभावस्य हेतुत्वमुपपादयति ॥ स्नेहाद्यायतनेति ॥ आदिपदेन वैराभावभयकामानां ग्रहणम् । निर्वैरपदोदितवैराभावस्यादित्वेऽपि स्नेहग्रहणम् । मुच्यमानोपद्रवप्रसक्तेस्तत्र शीघ्रमनुभवारोहा-त्कृतम् । स्नेहाद्यायतनं स्नेहादीनामवच्छेदकं स्नेहादिकर्तृशरीरं तस्य नाशेन । आदिपदेन तस्य रोगोपहतत्वग्रहणम् । तेन च स्नेहादिविषये य उपद्रवः मनःखेदादिरूपः सोऽप्यस्य भगवतो नास्तीति हेतोर् निर्वैरेणेत्याद्युक्तमुपपन्नमित्यर्थः । इदमुक्तं भवति । लोके हि यो यस्मिन् स्नेहं करोति यमिच्छति यस्माद्बिभेति यत्र च वैरं न करोति तस्य कर्तुः शरीरनाशादिके सति स्नेहादिविषयस्य मनःखेदो दृश्यते । न तथा स्नेहादिविषयस्य भगवतः मनःखेदाद्युपद्रवप्रसक्तिः प्राकृतशरीराद्यभावात् । अतः यस्मादेवं कोऽप्युपद्रवो नास्तीत्यस्य निर्वैरादिना मनोयोगेऽपि हेतुत्वेनोपादानमुपपन्नमिति ।

यथावैरानुबन्धेनेत्यत्र यद्वैरिणामसुराणां बहुत्वं भक्तानामल्पत्वमित्यभिप्रायवर्णनं कृतं तत्र श्रुतिसंवादं दर्शयति । ततः कनीयसा इति । कनीयसा अल्पा देवा भक्ता ज्यायसा बहवः । तन्मयतामित्यस्य तादात्म्यार्थताप्रतीतिवारणाय प्रकृतसङ्गतमर्थं दर्शयति । तन्मयतामिति । यथा वैरानुबन्धेनेत्यस्य यथा येन प्रकारेण मर्त्योऽसुरः वैरानुबन्धेन वैरलक्षणनिमित्तेन तन्मयतां हरौ आग्रहविशेषमिति यावत्, प्राप्नोति तथा तेन प्रकारेण भक्तः भक्तियोगेन तन्मयतां नेयादित्यपि व्याख्यानमभिप्रे्रत्य तत्र प्रमाणं पठति । मागधाद्या इति ॥ अस्मिन्व्याख्याने वैरानुबन्धेन मनोयोगस्य भक्तियोगेन मनोयोगस्य च स्वरूपकथनार्थमयं श्लोक इत्यवगन्तव्यम् । कीटः पेशस्कृतेत्यादि चैद्यादीनां भक्तियुक्तत्वप्रतिपादन-मित्युक्तं तत्कथमित्यतस्तत्प्रकारं दर्शयति । योग इत्यादिना । ततः किमित्यत आह । संरम्भेति । ततश्च संरम्भभययोगेनेत्यस्य संरम्भभययुक्तस्नेहेनेत्यर्थः । सम्पन्न इत्यर्थः । तथा च कीटः यथा संरम्भ-भययुक्तस्नेहेन पेशस्कृत्स्वरूपतां प्राप्नोति तथा चैद्यादयोऽपि वैरयुक्तस्नेहेनैव भगवत्स्वरूपतां प्राप्नु-वन्तीत्यर्थस्य विवक्षितत्वात्कीट इत्यादिश्लोकद्वयं चैद्यादीनां भक्तियुतत्वप्रतिपादकमित्याशयः । योगशब्दस्य स्नेहवाचित्वे प्रमाणं दर्शयति । प्रीतिरिति । नन्वेवं कृष्ण इति दार्ष्टान्तिकवाक्ये वैरेण धूतपाप्मान इति वैरस्यैव कथं मुक्तिहेतुत्वमुच्यत इत्यत आह ॥ वैरयुक्तयापीति ॥ युक्तयेत्यनेन वैरेणेतिसहार्थे तृतीयेति सूचयति । वैरयुक्तयाऽप्यनुचिन्तया तमापुरित्युक्ते वैरयुतत्वं सर्वेषामधिकारि-णाम् ॥ अनुचिन्ताया आवश्यकमिति भाति अतोऽपि शब्दोऽध्याहृतः । तेन वैरेण युक्तयाप्यनुचिन्तया तमापुः किमु शुद्धयेत्यर्थलाभान्नोक्तदोष इत्यवधेयम् ।

नन्वेवमपि वैरयुक्तानुचिन्ताया एव मुक्तिहेतुत्वं प्राप्तम् । न भक्तेस् तद्वाचकपदाभावादित्याशङ्काया-मनुचिन्तापदमेव तद्वाचकमस्तीत्यभिप्रेत्यानुचिन्तापदस्य तद्वाचकत्वे प्रमाणं पठति । अनुचिन्तेति । एवं दृष्टान्तदार्ष्टान्तिकवाक्ययोर्भक्तेरेव सारूप्यहेतुत्वमुच्यत इति प्रतिपाद्य तद्दार्ढ्याय समाख्याप्रमाणं पठति । स्नेहादिति ॥ कीटः पेशस्कृता क्रियमाणस्वाकर्षणनिमित्तकभये विद्यमानेऽपि पेशस्कृति अल्पकोपे विद्यमानेऽपि पेशस्कृदन्नं ददाति इति स्नेहात्तथा पेशस्कृता साकं या संगतिस्तज्जनितस्नेहतः पेशस्कृद्रूपतां पेशस्कृत्सारूप्यं याति यथा तथैवेति योजना । तुशब्दः प्रकृतत्वानुसन्धानार्थः । भक्तयेत्यनन्तरं हरिप्रेरणयोद्भूतयेत्यपि ग्राह्यम् । एवं दार्ष्टान्तिकवाक्ययोस्तात्पर्यसमाख्यया दृढीकृत्य यन्निन्दनस्तव-सत्कारेत्यादिप्रकरणतात्पर्यमुक्तं तदपि प्रमाणशेषेण दृढयति । तथाहीति ॥ करुणः कृपालुः । ननु द्वेषिकृतहिंसादिना दुःखप्राप्तिरित्यत आह । देहबन्धेति ॥ एतेन तथा नयस्येत्येतदुक्तार्थमिति ज्ञातव्यम् । एतेन चैद्यादीन् इति मत्वेत्यनेन तादृशानां तदेव चिन्तयतीत्येतदपि प्रमापितमिति ज्ञातव्यम् । तस्माद्वैरानुबन्धेनेति श्लोकद्वयं तात्पर्यव्याख्यानेनैव स्पष्टार्थम् ॥ २८ ॥

मन्दनन्दिनी

न केवलं वैरानुबन्धादिना मनो योजयितुं शक्यते । किन्तु भक्त्याद्यपेक्षयाऽति-शयेनेत्याह ॥ यथेति ॥ एतदभिप्रायेणैव तात्पर्यं– तत्रैव हेतुरिति ॥ वैरानुबन्धेन मनोयोजनस्य कर्तुं शक्यत्वेऽतिशयेन तत्साधनत्वं हेतुरित्यर्थः । तन्मयतां मनसस्तत्राभिनिवेशनम् । श्लोकार्थस्तु स्फुटः । अनेन प्रमेयान्तरमपि लब्धमित्याशयेनाह तात्पर्यकृद् यथा वैराभिनिवेशिनः सन्ति तथा भक्त्यभि-निवेशिनो न सन्ति । तत्कथमन्यथा भक्तानेव बहून्हरिः कुर्यादिति भाव इति ॥ सदसन्मुक्तियोग्यानां भगवदभिनिवेशनस्यावश्यकत्वात्तत्र वैरादेः सुलभसाधनत्वाद्भक्तैश्च दुर्लभत्वाद्वैराभिनिवेशिनो बाहुल्येन सन्ति । न तथा भक्ताः । अन्यथा भक्तेरेव सुलभत्वे बहून् भक्तान्कुर्यादित्याशयः ॥ २८ ॥

कीटः पेशस्कृता रुद्धः कुड्ये यान्तमनुस्मरन् ।

संरम्भभययोगेन विन्दते तत्सरूपताम् ॥ २९ ॥

पदरत्नावली

ननु ‘तन्मयताम्’ इत्यस्य तादात्म्यार्थः किं न स्यादिति तत्राह– कीट इति ॥ द्वेषेण निन्दतश्चैद्यस्य कृष्णेन सायुज्यं कथमभूदिति प्रश्नस्य परिहारः कथमागत इत्यतो वा आह– कीट इति ॥ यथा पेशस्कृता भृङ्गेण कुड्ये भित्तिसुषिरे रुद्धः कीटः श्यामनामा कृमिस् तस्य भृङ्गस्य सरूपतां समानाकारतां विन्दते, न तु तादात्म्यं, ततो भिन्नत्वेन दृश्यमानत्वात् । कीदृशः ? यान्तम् उपर्यागत्य गम्भीरं नदन्तं भृङ्गं संरम्भभययोगेन ईषत्कोपभययुक्तस्नेहेन, अन्नं सन्ददातीति स्नेहेन, स्वात्मानमाकृष्य क्लिश्नातीति कोपयुक्तभयेन चानुस्मरन् । अत्र स्नेहस्यैव प्राधान्यम् । प्राणधारणपोषणयोः सन्तत-मिष्टत्वात् । कोपभययोस् तत्कालिकत्वादप्रधान्यमित्यतो योगस्य संरम्भभययोर्विशेषणतयोक्तिः । योगस्य स्नेहार्थत्वं ‘प्रीतिस्स्नेहस्तथा योगः प्रेमबन्ध इतीर्यते’ इति शब्दनिर्णये सिद्धम् ॥ २९ ॥

प्रकाशिका

कीट इत्यादिश्लोकद्वयस्य चायमर्थः । द्वेषिणामप्यन्ततो जातया भक्त्यैव मुक्ति-रित्युक्तमर्थं दृष्टान्तमुखेनोपपादयति । कीट इति । यथेत्यादौ उपस्कर्तव्यम् । पेशस्कृता भृङ्गेन कुड्ये भित्तिसुषिरे रुद्धः कीटः श्यामनामा कृमिस् तस्य भृङ्गस्य सरूपतां समानाकारतां विन्दते प्राप्नोति । कीदृशः यान्तं स्वसुषिरं विहाय बहिर्गच्छन्तं भृङ्गं संरम्भभययोगेन संरम्भः स्वात्मानं रोधयतीति कोपः भयं स्वाकर्षणनिमित्तं ताभ्यां सहितेन योगेनान्नं ददातीति स्नेहेनानुस्मरन् ध्यायन् ॥ २९ ॥

मन्दनन्दिनी

कीटः पेशस्कृतेत्यादि चैद्यादीनां भक्तियुक्तत्वप्रतिपादनमिति तात्पर्यम् । तथा च कीटः कृमिविशेषः पेशस्कृता भ्रमरविशेषेण कुड्ये तद्गतकर्दमकृतनीडे रुद्धः स्वाशनदानाय यान्त-मनुस्मरन् संरभभययोगेन कोपभययुक्तस्नेहेन तत्स्वरूपतां तादृश्यं विन्दते लभत इति योजना । चैद्यादय ईदृशा इति भावः । अत्र सिंहावलोकनन्यायेन पूर्वस्य निर्वैरेणेत्यादेः कृत्यं वक्तुं तात्पर्यम् । स्नेहा-द्यायतनदेहनाशादिनाऽपि उपद्रवो ऽस्य नास्तीति निर्वैरेणेत्याद्युक्तमिति । तस्माद्वैरानुबन्धेनेत्यत्र उक्तपक्षपाद्यके निर्वैरेण स्नेहात्कामेनेति पक्षत्रयं मुख्यम् । तत्रापि क्रमात्तारतम्यम् । वैरभयपक्षे तु भक्त्या मुक्तावप्यस्योपासकस्य स्वस्नेहाद्यायतनस्य देहस्य चक्रादिनाशयातनाद्युपद्रवोऽस्ति । उक्तपक्षत्रये तु नास्तीत्यभिप्रायेण निर्वैरेणेत्याद्युक्तमित्यवधेयम् । पूर्वं यथा वैराभिनिवेशिन इति स्ववाक्ये वैराभि-निवेशिनां बाहुल्यं भक्तानां स्वल्पत्वं युक्त्या समर्थितम् । अधुना श्रुतिमपि तत्राह । ततः कनीयांस एव देवा ज्यायांसो असुरा इति श्रुतिः । तत इत्यस्य भक्तेर्दौर्लभ्यादित्यर्थो भाति । पूर्वश्लोके तन्मयता-मित्यस्याभेदार्थभ्रान्तिं वारयति ॥ तन्मयतां मनसस्तत्राभिनिवेशनमिति ॥ प्रमेयविशेषं चाह ।

मागधाद्या यथा नित्यं द्वेषादाग्रहिणो हरौ ।

न तथाऽऽग्रहिणो भक्ता ऋते ब्रह्माणमव्ययम् ॥ इति हरिवंशेषु ।

द्वेषादाग्रहो नाम द्वेषविषये उत्तमत्वम् । माहात्म्यप्रतिपादकेषु तत्र स्नेहं कुर्वत्स्वपि द्वेषस्तद्वधो-द्योगः । एवं भक्त्याऽऽग्रहोऽपि तद्विषयनिन्दकादेरपि जिह्वाच्छेदादि शपथं तदुन्मूलनोद्योगादि । एतच्च भाविब्रह्मत्वे भीमसेने स्पष्टम् । अनेन केवलभक्त्याऽभिनिवेशिनोऽल्पाः किन्तु तदाग्रही सुतरां दुर्लभ इति प्रमेयविशेष उक्तः । अत्र योगशब्दार्थमाह । योगः स्नेहः । संरम्भभययुक्तस्नेहेन । प्रीतिः स्नेहस्तथा योगः प्रेमबन्ध इतीर्यते’’ इति शब्दनिर्णये । अनेन शाकपार्थिव इत्यत्र प्रियपदस्येव संरम्भभययोगेनेत्यत्र युक्तपदस्य लोप उक्तो भवति । अभिधाने स्नेहः प्रीतिरित्यादिशब्दैरीर्यत इति योजना ॥ २९ ॥

एवं कृष्णे भगवति मायामनुज ईश्वरे ।

वैरेण धूतपाप्मानस् तमापुरनुचिन्तया ॥ ३० ॥

पदरत्नावली

कृष्णे भगवत्येवं वैरेण युक्तयाऽनुचिन्तया भक्तिपूर्वं स्मृत्या धूतपाप्मानश्चैद्यादयस् तं कृष्णमापुरित्यन्वयः । अत्र सज्जीवानां शापादिनाऽसुराविष्टानामेव मुक्तिः । न केवलानाम् (असुराणाम्) तस्मात् तदाविष्टासुरा वैरेण प्राप्तपाप्मानः ‘असुर्या नाम ते लोकाः’ इति श्रुतेः, तं लोकसमुदायं प्रापुः । सन्तो जयादयोऽनुचिन्तया तं कृष्णमापुरित्ययं विशेषो ‘वैरयुक्तयाप्यनुचिन्तया’ इत्याचार्योक्तापिशब्देन गर्हाभिधायिना ज्ञातव्यः । ‘अनुचिन्तेति तां प्राहुर्भक्तिपूर्वा तु या स्मृतिः’ इति वचनाद् भक्तिपूर्वैवानुचिन्ताऽत्राभिप्रेतेति ज्ञातव्यम् । अतोऽत्र चैद्यादीनां भक्तियुतत्वं प्रतिपाद्यत इत्युप-गन्तव्यम् । अन्यथा कीटोदाहरणं निरन्वितं स्यात् । तदुदाहरणस्यापि भक्त्यर्थत्वं कुत इति चेन्न, ‘स्नेहादन्नं ददातीति स्वाकर्षणभयेऽपि च । विद्यमानेऽप्यल्पकोपे सङ्गतिस्नेहतस्तथा ॥ पेशस्कृद्रूपतां कीटो यथा याति तथैव तु । चैद्यादयोऽसुरावेशाद्धारौ द्वेषयुता अपि ॥ निजस्वभावया भक्त्या नीता हरिसरूपताम् । तथाऽपि करुणो विष्णुरन्यावेशाद् यदि द्विषन् ॥ हीयते किं ममानेन नित्यानन्द-स्वरूपिणः । देहबन्धयुतानां हि द्वेषिणाऽपकृतं भवेत् । मम को ह्यपराध्येत निर्दोषसुखरूपिणः ॥ अतो मय्यपराधस्तु स्वस्मिन्नेव न मे भवेत् । अतो यद्यसुरावेशात् कृतमेतेन दुष्कृतम् ॥ अनादिभक्तो यस्मान्मे मोचयिष्ये ततस्त्वहम् । इति मत्वा मोचयति चैद्यादीनपि केशवः ॥’ इति वचनात् । किञ्च निर्वैरेणेत्याद्युक्तमत्रानुसन्धेयम् । तेन स्नेहाद्यायतनस्य देहस्य नाशादिना कीटस्योपद्रवाभावात् हरेरप्युप-द्रवाभावोऽनुमीयते । ‘तथापि करुणो विष्णुरन्यावेशाद् यदि द्विषन् । हीयते किं ममानेन नित्यानन्दस्वरूपिणः ॥’ इत्यादिना च ॥ ३० ॥

प्रकाशिका

दार्ष्टांतिकमाह ॥ एवमिति । माययेच्छया मनुजे मनुवद्दृश्यमाने वैरेणान्यावेश-प्रयुक्तेन युतयाऽनुचिन्तया भक्त्या वैरानन्तरं भगवत्प्रेरणयोद्भूतया स्वाभाविकभक्त्येति यावत् । धूतपाप्मानः परिहृतवैरनिमित्तपापाश्चैद्यादयस्तं कृष्णमापुः । तत्सारूप्यादिकं प्राप्ता इत्यर्थः ॥ ३० ॥

मन्दनन्दिनी

न केवलं चैद्यः किन्तु बहवोऽप्यन्याविष्टा भक्ता एवमित्याह ॥ एवमिति ॥ एवं चैद्यवद्बहवो भगवति कृष्णे मायामनुजे स्वेच्छया मनुष्यवत्प्रतीयमाने वस्तुत ईश्वरे वैरेणानुचिन्तया वैरपूर्वकभक्त्या धूतपाप्मानः सन्तस्तमापुरिति योजना । अत्र वैरेणेत्यस्य युक्त्याऽपीत्यध्याहृत्यानुचिन्तये-त्यनेनान्वयः । न धूतेत्यनेन ॥ अनुचिन्तापदं च भक्तिवाचीत्याशयेनाह तात्पर्यकृत् ॥ वैरयुक्तयाऽप्यनु-चिन्तया तमापुः । अनुचिन्तेति तामाहुर्भक्तिपूर्वा तु या स्मृतिरिति च । अत्र श्लोकेऽनुचिन्तापदस्य भक्तिपरत्वम् । द्वेषादेरन्यावेशकृतत्वं भगवतः कृपालुत्वाद् द्वेषस्यागणनम् । स्वाभाविकभक्तेरेवानु-सरणम् । इत्यादिकं कुतः कल्प्यत इत्यतोऽत्र सर्वत्रैकं प्रमाणमाह ॥ स्नेहादन्नं ददातीति ॥ स्वाकर्षणभयेऽपि च विद्यमानेऽल्पकोपे सङ्गतिस्नेहतस्तथा ।

पेशस्कृद्रूपतां कीटो यथा याति तथैव तु ।

चैद्यादयोऽसुरावेशाद्धरौ द्वेषयुता अपि ।

निजस्वभावया भक्त्या नीता हरिसरूपताम् ।

तथा हि करुणो विष्णुरन्यावेषाद्यदि द्विषन् ।

हीयते किं ममानेन नित्यानन्दस्वरूपिणः ।

देहबन्धयुतानां हि द्वेषिणापकृतं भवेत् ।

मम को ह्यपराध्येत निर्दोषसुखरूपिणः ।

अतो मय्यपराधस्तु स्वस्मिन्नेव न मे भवेत् ।

अतो यच्चासुरवशात्कृतमेतेन दुष्कृतम् ।

अनादिभक्तो यस्मान्मे मोचयिष्ये ततस्त्वहम् ।

इति मत्वा मोचयति चैद्यादीनपि केशवः ॥ इति ब्रह्माण्डे ।

अत्र चशब्दस्तथाशब्दश्च परस्परसमुच्चये । तथा चाकर्षणभयेऽप्यल्पकोपेऽपि तथा सङ्गतिस्नेहत एकत्र सहवासं स्नेहादन्नं ददातीति स्नेहाच्च पेशस्कृद्रूपतां यथा याति कीटस्तथा चैद्यादय इति योजना । यदि यद्यपि द्विषन्नास्ते चैद्यादिस्तथाऽपि करुणो विष्णुरिति मत्वा मोचयतीति योजना । एतत्सर्वमभि-प्रेत्यैव ‘‘स्मर्तव्यो भगवान्नित्यमित्यर्थेनैव हि क्वचित् । द्वेषादिव गुणानाह पुराणे वृद्धवाक्यवत्’’ ॥ इत्यनुव्याख्यानव्याख्यावसरे सुधायां ‘‘वैरेण यन्नृपतयः’’ इत्यादि स्मरणयोगप्रधानकवाक्यानां स्मरण-कर्तव्यत्वे तात्पर्यं गतिः । द्वेषाच्चैद्यादय इत्यादिना द्वेषप्रधानकानां गुणे तात्पर्यं गतिरित्युक्तम् । गुणप्रकारश्च शापादिना द्वेषिणोऽपि चैद्यादयस्तात्कालिकं द्वेषमनुरूप्य पूर्वतनीं भक्तिमेवापेक्ष्य भगवता मोचिताः । अहो कृपालुत्वं निर्विकारत्वं सत्यसङ्कल्पत्वं चेति तत्रैवोक्तः । वृद्धवाक्यवदिति प्रतीतार्थं तात्पर्याभाव एव दृष्टान्तः । ननु शाब्दप्रमाजनकत्वे पुराणवाक्यस्य तथात्वेऽप्रामाण्यापत्तेः । तथा च पुराणवाक्यस्य प्रतीयमाने द्वेषहेतुकत्वे न तात्पर्यम् । किन्तु कृपालुत्वे तात्पर्यम् । तद्बोधलाभश्च द्वेषादिति पञ्चमी ल्यब्लोपनिमित्ता । कृपयेत्यध्याहारः । द्वेषमनिरूप्य कृपया तद्गतिं गता इति योजनया वृद्धवाक्यं तु प्रतीतिकेऽर्थे न तात्पर्यवत् । द्विषदन्नं न भोक्तव्यमित्यत्र तात्पर्यवदपि न तच्छाब्दबोधजनकम् । वचनलिङ्गानुमा हि सा’’ इति कर्मनिर्णयोक्तेः । अनुमानप्रकारश्च तट्टीकायां न्यायामृते च व्यक्तः

॥ ३० ॥

कामात् स्नेहाद् भयाद् द्वेषाद् यथा भक्त्येश्वरे मनः ।

आवेश्य तदघं हित्वा बहवस्तद्गतिं गताः ॥ ३१ ॥

तात्पर्यम्

कामादिभिरपि यथावद्भक्त्या सहैव मन आवेश्य तदघं यत्तु द्वेषादिकृतमघं यथाभूतया भक्त्या हित्वा ॥ ३१ ॥

पदरत्नावली

इतोऽपि भक्तिगर्भकामादिनैव भगवत्प्राप्तिरित्याह– कामादिति ॥ कामाद् इति तृतीयार्थे पञ्चमी । कामादिभिरपि यथा यथावद् भक्त्या सहैव कृष्णे मन आवेश्य द्वेषादिना यद-घमापादितं तदघं हित्वा तस्य कृष्णस्य गतिं लोकं गता इत्यन्वयः । प्रथमतः कामादियुक्त्या भक्त्या हरौ मन आवेश्य पश्चाद्यथाभूतया भक्त्याऽघं हित्वेत्यर्थः ॥ ३१ ॥

प्रकाशिका

एवं द्वेषिणामन्ततो जातया भक्त्यैव मुक्तिरित्युपपाद्यायं प्रकारः भयेन स्नेहात्कामेन वा युञ्ज्यादिति यत्कामादेरपि मोक्षहेतुत्वमुक्तं तत्रापि द्रष्टव्य इति सूचयन् विश्वासजननायात्र पुराकल्प-रूपार्थवादमाह ॥ कामादिति ॥ अत्र यथा भक्त्या तद्गतिं गतास्तथा कामादिभ्य इति भाति । न तु कामादिमतां भक्तिरतो योजनां दर्शयति ॥ कामादिभिरपीति ॥ न केवलं द्वेषेणेत्यपिशब्दार्थः । यथाभक्त्येत्यनेन यथाशब्दो यथावदित्यर्थकः यथाभक्त्येत्येकं पदमिति सूचयति । तारतम्यानुसारिण्या भक्त्येत्यर्थः । सहैवेत्यनेन सहार्थे तृतीयेति दर्शयति । तदघमित्येतत्तस्येश्वरस्याघमिति प्रतीतिवारणाय व्याख्याति ॥ तदघमिति ॥ हित्वेत्यत्र कामादित्यादिनोक्तकामादेरेव हेतुतया सम्बन्धतया प्रतीतिं वारयितुं यथाभक्त्येत्येतस्यैवावृत्त्याऽत्र सम्बन्ध इत्यभिप्रेत्याह ॥ यथाविर्भूतयेति ॥ तारतम्यानु-सारिण्येत्यर्थः । ततश्चायं श्लोकार्थः । कामादिभ्योऽपि यथाभक्त्या तारतम्यानुसारिण्या भक्त्येश्वरे मन आवेश्य ध्यात्वा यथाभक्त्या तदघं कामादिकृतमघं हित्वा परिहृत्य तस्य कृष्णस्य गम्यते इति गतिं लोकं गता प्राप्ता इति ॥ ३१ ॥

मन्दनन्दिनी

न केवलं वैरेणानुचिन्तया तमापुः किन्तु कामादिभिरपीत्याह ॥ कामादिति ॥ कामादित्यादौ तृतीयार्थे पञ्चमी । कामेन यथा यथावत् । स्वयोग्यया भक्त्या सहेति केचित् । एवं स्नेहेन मित्रादिसाधारणस्नेहेन यथावद्भक्त्या सह । अपरे एवं भयेन द्वेषेणापि यथावद्भक्त्येश्वरे मन आवेश्य तदघं यद्वेषादिना प्राप्तमघं यथावद्भक्त्या पश्चात्तापयुक्तया भक्त्या हि बहवस्तद्गतिं गता भगवत्प्राप्तिं गता इति योजना । अत्र यथेति न दृष्टान्तस्तथेत्यस्याश्रवणात् । किन्तु योग्यतार्थः । यथा भक्त्येत्येतदावृत्त्या तदघं हित्वेत्यत्र सम्बध्यते । कारणान्तरश्रवणादित्याशयेनाह तात्पर्यकृत् । ‘‘कामादिभिरपि यथावद्भक्त्या सहैव मन आवेश्य तदघं यत्तु द्वेषादिकृतमघं यथाभूतया भक्त्या हित्वा’’ इति । अनेन तदघमिति भिन्नं पदम् । यद्वेषादिकमिति शेषः । भक्त्येति सहयोगे तृतीया । यथापदं योग्यपरमिति सूचयति । कामस्यादित्वेऽपि द्वेषस्यैव विशेषमघकारणत्वात् । द्वेषादित्युक्तिः । मूले स्नेहपदेन भक्त्यन्तर्गत-सुदृढस्नेहपरम् । पृथगुक्त्ययोगात् । अघकारणत्वायोगाच्च । किन्तु कृष्णस्य मार्गगमने शत्रवो नोप-द्रवेयुरिति सैन्यस्य सह प्रेषणकारणीभूतयुधिष्ठिरादिगतस्नेहपरमिति ध्येयम् ॥ ३१ ॥

गोप्यः कामाद् भयात् कंसो द्वेषाच्चैद्यादयो नृपाः ।

सम्बन्धाद् वृष्णयः स्नेहाद् यूयं भक्त्या वयं विभो ॥ ३२ ॥

तात्पर्यम्

‘गोप्यः कामयुता भक्ताः कंसाविष्टः स्वयं भृगुः । ज्ञेयो भययुतो भक्त-श्चैद्यादिस्था जयादयः । विद्वेषसंयुता भक्ता वृष्णयो बन्धुसंयुताः । बहुमानस्नेहसाम्याद्देवा भक्ताः प्रकीर्तिताः । स्नेहोपसर्जनादेव बहुमानान्मुनीश्वराः । बहुमानोऽपि देवानामृषि-भ्योऽप्यधिको मतः । ब्रह्मवीन्द्रेन्द्रकामादेरितरेषां यथाक्रमम्’१ ॥ इति ब्रह्मतर्के ॥ ३२ ॥

पदरत्नावली

बहव इत्युक्तस्य विषयविभागमाह– गोप्य इति ॥ कामात् कामयुक्तया भक्त्या । कंसः कंसाविष्टो भृगुर् भययुक्तया भक्त्या । चैद्यादयश् चैद्यादिस्था जयादयः द्वेषयुक्तया । वृष्णयः सम्बन्धो बन्धुता तन्निमित्तया (प्रीत्या भक्तियुक्तया) । यूयं पाण्डवाः समतुलितबहुमानयुक्तया । वयं शुकादिशब्दवाच्याः केवलया भक्त्या । अत्र कश्चन विशेषः– ‘गोप्यः कामयुता भक्ता कंसाविष्टः स्वयं भृगुः । ज्ञेयो भययुतो भक्तश् चैद्यादिस्था जयादयः ॥ विद्वेषसंयुता भक्ता वृष्णयो बन्धुसंयुताः । बहुमानस्नेहसाम्याद् देवा भक्ता प्रकीर्तिताः ॥ स्नेहोपसर्जनादेव बहुमानान्मुनीश्वराः । बहुमानोऽपि देवनाम् ऋषिभ्योऽप्यधिको मतः । ब्रह्मवीन्द्रोन्दकामादेरितरेषां यथाक्रमम् ॥’ इति वचनादवगन्तव्यः ॥ ३२ ॥

प्रकाशिका

के ते कामादिभ्यः प्राप्ता बहव इत्यतस्तान्विभज्याह ॥ गोप्य इति ॥ कामा-दित्यादेर्गता इत्यनेन सम्बन्धः । नन्वत्र कामादिभ्य एव भगवत्प्राप्तिरित्युच्यते न भक्त्येत्यतस्तत्राभि-प्रेतमर्थं प्रमाणेनैव दर्शयति ॥ गोप्य इति ॥ कंसाविष्ट इत्यनेन कंसपदं तदाविष्टभृगुपरमिति सूचयति । चैद्यादिस्था इत्यनेन चैद्यादिदेहस्था जयादयश्चैद्यादिपदेन ग्राह्या इति दर्शयति । सम्बन्धस्यातिप्रसक्तत्वा-त्सम्बन्धाद्वृष्णय इत्यस्यार्थमाह ॥ वृष्णयो बन्धुसम्युता इति ॥ बन्धुत्वसम्युता इत्यर्थः । ततश्च सम्बन्धपदं शरीरसम्बन्धपरमित्याशयः । भक्ता इत्यस्यात्रोत्तरत्र चानुवृत्तिः । स्नेहाद्यूयं वयं भक्त्येत्युक्त्या पाण्डवानां भगवति न भक्तिरिति प्रतीयते । न हि नारदादीनां भक्तिर्देवावताराणां पाण्डवानां न भक्ति-रित्येतत्सम्भवत्यतोऽत्र विवक्षिततात्पर्यमाह ॥ बहुमानेति ॥ बहुमानो माहात्म्यज्ञानं स्नेहस् तत्पूर्वकस् तयोः साम्यात्समप्रधानभावात् । अनेन स्नेहान् माहात्म्यज्ञानेन समाधानादित्यध्याहृत्य मूलं व्याख्येय-मिति दर्शयति । स्नेहोपसर्जनादेवेत्यनेन मूले भक्त्येति शब्दान्तर्गतस्नेहस्योपसर्जनत्वं माहात्म्यज्ञानस्य प्राधान्यमिति सूचयति । नन्वेवं देवापेक्षया ऋषीणां माहात्म्यज्ञानमधिकमिति प्राप्तमित्यतो आह ॥ बहुमानोऽपीति ॥ तथा च ऋषीणां बहुमानस्तद्गतस्नेहापेक्षयैवाधिको विवक्षितो न सर्वापेक्षयेत्याशयः । देवानामपि बहुमानो न सम इत्याह ॥ ब्रह्मवीन्द्रेति ॥ ब्रह्मवीन्द्रेन्द्रकामादेस्तदितरेषां च यथाक्रमं तारतम्यक्रममनतिक्रम्य बहुमानोऽधिक इत्यर्थः । यथापदमिति पाठे पदानुसारेणाधिक इत्यर्थः । ततश्चायं श्लोकार्थः । गोप्यः कामात्कामानन्तरमाविर्भूतस्वाभाविकभक्त्या, कंसः कंसाविष्टो भृगुर् भयाद् भयानन्तरमाविर्भूतस्वाभाविकभक्त्या, चैद्यादयस्तद्देहस्था जयादयो द्वेषाद् द्वेषानन्तरमाविर्भूतस्वाभाविक-भक्त्या, यूयं पाण्डवाः स्नेहान् माहात्म्यज्ञानेन समप्रधानात् , वयं नारदाद्या ऋषयः भक्त्या स्नेहोप-सर्जनान्माहात्म्यज्ञानात्तद्गतिं गता इत्यन्वयः ॥ ३२ ॥

मन्दनन्दिनी

कामादेरुदाहरणमाह ॥ गोप्यः कामादिति ॥ अत्र पूर्वानुरोधान्मानान्तरानु-साराच्च यथा भक्त्येत्यनुवर्तते । तद्गतिं गता इति च । कामाद्भोगलौल्यात् । भयात्कदा मारयतीति भयात् । वृष्णयो यादवाः । सम्बन्धाद्देहानुबन्धरूपबान्धवात् । यूयमित्यपरोक्षीकृतयुधिष्ठिरादीनां निर्देशः । स्नेहान्मित्रादिसाधारणस्नेहात् । वयमिति नारदादिनिर्देशः । भक्त्या कामादिरहितया केवल-भक्त्या । एतदपि कृष्णावतारदशायामिति ज्ञेयम् । अन्यदा सर्वेषामपि केवलभक्तत्वात् कंसाविष्ट-भृगोर्मुनित्वाद्धर्मादीनां चोत्तमदेवतया नारदादप्यधिकं केवलभक्तत्वात् । तत्रापि भीमसेनस्य न कदाऽपी-दृशस्नेहः । परममाहात्म्यज्ञाने जाग्रति तस्याजननादित्यनुसन्धेया योजना । गोप्यः कामाद्गतिं गता इति प्रत्येकं द्रष्टव्यम् । अत्र भक्तेति पूरणीयमिति वक्तुं कंसचैद्याविष्टांश्च वक्तुं प्रमेयविशेषं च वक्तुं तात्पर्यं प्रवृत्तम् ॥

गोप्यः कामयुता भक्ताः कंसाविष्टः स्वयं भृगुः ।

ज्ञेयो भययुतो भक्तश्चैद्यादिस्था जयादयः ।

विद्वेषसंयुता भक्ता वृष्णयो बन्धुसंयुताः ।

बहुमानस्नेहसाम्याद्देवा भक्ताः प्रकीर्तिताः ।

स्नेहोपसर्जनादेव बहुमानान्मुनीश्वराः ।

बहुमानोऽपि देवानामृषिभ्योऽभ्यधिको मतः ।

ब्रह्मवीन्द्रेन्द्रकामादेरितरेषां यथाक्रमम् ॥ इति ब्रह्मतर्के ॥

अत्र गोपीत्वदशायामेव कामयुतत्वम् । अप्सरस्त्वदशायां केवलभक्तत्वम् । भृगोरपि कंसेना-विष्टत्वदशायामेव भययुक्तभक्तत्वम् । चैद्यादिस्था इत्यत्र स्वनिष्ठावेशकर्तृत्वसम्बन्धेन हिरण्यकशिप्वादि-नामकदैत्यस्थत्वं ज्ञेयम् । दैत्यानामेव पिशाचस्थानापन्नत्वात् । बन्धुसंयुता बन्धुत्वसंयुताः । माहात्म्य-ज्ञानपूर्वकसुदृढस्नेहो भक्तिः । केषुचित्तु भक्तेषु माहात्म्यज्ञानलक्षणबहुमानस्नेहयोः समानाधिकरणयोः साम्यम् । केषुचित्तु माहात्म्यज्ञानस्यैवाधिकत्वम् । अत्राधिकारिद्वैविध्यविवक्षायामधमेषु भक्तेषु ऋष्यादिषु स्वगताप्रचुरस्नेहकप्रचुरमाहात्म्यज्ञानवत्वम् । तदपि तारतम्यानुसारेणोत्तमेषु देवेषु स्वगतस्नेहसमान-माहात्म्यज्ञानवत्वम् । ऋष्याद्यपेक्षया माहात्म्यज्ञानमधिकमेव । एतदपि तारतम्येन । अधिकारित्रैविध्य-विवक्षायां तु स्वगतस्नेहापेक्षया प्रचुरमाहात्म्यज्ञानवत्वम् । अधमानां समोभयत्वम् । मध्यमानां प्रचुरस्नेहवत्वं चोत्तमानां ब्रह्मादीनां सर्वमपि तत्तत्तारतम्यानुसारेणेत्यवध्येयम् ॥ ३२ ॥

कतमोऽपि न वेनस्य पञ्चानां पुरुषं प्रति ।

तस्मात् केनाप्युपायेन मनः कृष्णे निवेशयेत् ॥ ३३ ॥

तात्पर्यम्

कतमोऽपि भक्तियोगो न वेनस्य । तस्मात्केनापि प्रकारेण उपायेनैव मनो निवेशयेत् । नानुपायेन । ‘उपायो भक्तिरुद्दिष्टो द्वेषाद्या अनुपायकाः’ इति शब्दनिर्णये ॥३३॥

पदरत्नावली

भक्त्यैव पुरुषार्थो न केवलद्वेषेणेत्याशयवानाह– कतम इति ॥ कामाद्युपसर्जन-भक्तियोगानां पञ्चानां मध्ये कतमोऽपि भक्तियोगो वेनस्य नास्ति । असौ कश्चन द्वेषात्मक एव । यस्माद् भक्तियोगमन्तरेण पुरुषार्थो नास्ति तस्मात् केनापि प्रकारेणापादितोपायेन भक्तिलक्षणेन कृष्णे मनो निवेशयेत् । न द्वेषादिना । ‘उपायो भक्तिरुद्दिष्टो द्वेषाद्या अनुपायकाः’ इत्यभिधानात् । अत उपायो भक्तिरेव । अतो भक्तिमन्तरेणोपायो नास्तीत्यर्थः ॥ ३३ ॥

प्रकाशिका

ननूक्तेषु भक्तियोगेषु मध्ये वेनस्यापि कस्यचिद्भक्तियोगस्य सम्भवात् स किमिति तमसि पातित इत्यत आह । कतमोऽपीति । अत्र विशेष्यं न प्रतीयते तस्मादध्याहृत्य योजयति । कतमोऽपीति । तथा च पुरुषं श्रीहरिं प्रतिपुरुषस्य वेनस्य कामासम्भवाद्येऽवशिष्टा भयादयः पञ्चभक्ति-योगा उक्तास्तेषां पञ्चानां मध्ये कतमोऽपि भक्तियोगो वेनस्य नास्ति अतस्तमसि पातित इति मूलार्थः । उपसंहरति । तस्मादिति । अत्र केनापि उपायेनेत्युक्त्या केवलद्वेषेणापीति प्रतीयतेऽतोऽ-वधारणमध्याहृत्य योजनामाह । तस्मात्केनापीति । कामादिषु केनापि प्रकारेणेत्यर्थः । कामादि-व्यतिरिक्तौ कावुपायावित्यतः प्रमाणेनैव प्रकृतौपयुक्तौ तौ दर्शयति । उपाय इति । द्वेषाद्या इत्यत्राद्यशब्देनान्येऽपि मोक्षविरोधिनो ग्राह्याः । ततश्च कामादिषु केनापि प्रकारेणोपायेन भक्तयैव कृष्णे मनो निवेशयेन् नानुपायेन केवलद्वेषादिनेति मूलार्थ इत्याशयः ॥ ३३ ॥

मन्दनन्दिनी

द्वेषयुतस्यापि चैद्यस्य भगवत्प्राप्तौ वेनस्यापि स्यादिति तृतीयपक्षं निराह ॥ कतमोऽपीति ॥ केवलभक्तिस्तु नास्ति । कामाद्युपसर्जनानामपि पञ्चानां भक्तिलक्षणोपायानां कतमोऽपि पुरुषं प्रति पुरुषविषयकभक्तिलक्षणोपायो वेनस्य नास्ति । अतो न तस्य चैद्यवद्भगवत्प्राप्तिरिति शेषः । तस्माद्भक्तिसत्वे भगवत्प्राप्तेरावश्यकत्वात्केनाप्युपायेन कामाद्युपसर्जनभक्तिलक्षणोपायेन मनः कृष्णे निवेशयेदिति योजना । अत्रोपायशब्दो भक्तिपरः । अन्यथा द्वेषेणाभिनिवेशस्य चैद्यादेरप्यधिकं वेने सत्वेनोपायो नास्तीत्यस्य बाधापत्तेरित्याशयेन व्याचष्टे तात्पर्यकृत् – कतमोऽपि भक्तियोगो न वेनस्य ॥ तस्मात्केनापि प्रकारेणोपायेनैव मनो निवेशयेत् । नानुपायेन । ‘‘उपायो भक्तिरुद्दिष्टो द्वेषाद्या अनुपायकाः’’ इत्यभिधानमिति ॥ स्पष्टमेतत् ॥ ३३ ॥

मातृष्वस्रेयो वश्चैद्यो दन्तवक्रश्च पार्थिव ।

पार्षदप्रवरौ विष्णोर्विप्रशापात् पदच्युतौ ॥ ३४ ॥

तात्पर्यम्

स्वतो भक्ताश्चैद्यादयोऽपि परावेशाद्द्वेषिण इत्यत्र हेतुर्मातृष्वस्रेय इत्यादि

॥ ३४ ॥

पदरत्नावली

पेशस्कृता रुद्ध इत्यत्र चैद्यादयः स्वतो भक्ता असुरावेशाद्द्वेषिण इत्युक्तम् । अत्र हेतुमाह– मातृष्वसेय इति ॥ पार्षदप्रवरत्वं स्वतो भक्तत्वे, विप्रशापादसुराविष्टत्वं द्वेषित्वे हेतुः ॥३४॥

प्रकाशिका

मातृष्वस्रेयो वश्चैद्य इत्याद्युत्तरग्रन्थस्य पूर्वग्रन्थेन सङ्गत्यप्रतीतेस्तामाह ॥ स्वतो भक्ता इति ॥ स्वतो इत्यादिबहुवचनं जात्यभिप्रायम् । स्वतो भक्ता अपीत्यन्वयः । हेतुर्विप्रशापरूप उच्यत इत्यादीत्यविभक्तिको निर्देश इत्यादिनेत्यर्थः । विष्णोः पार्षदप्रवरौ इत्यनेन तयोः स्वतो भक्तत्वं प्रदर्शितम् । पदच्युतौ असुराविष्टौ जातौ ॥ ३४ ॥

मन्दनन्दिनी

पेशस्कृता रुद्ध इत्यत्र चैद्यादयः स्वतो भक्ता असुरावेशाद्वेषिण इत्यत्र हेतु-र्मातृष्वसेय इत्यादीत्येवं तात्पर्येणैव श्लोकोऽवतारितः । इत्यत्र हेतुर् इत्यत्रेतिशब्दात्परमुक्तमिति । हेतु-रित्यतः परमुच्यत इति शेषः । मातृष्वस्रेय इति । ढकि लोप इत्यनुवृत्त्या मातृष्वसुश्चेति सूत्रात् । ढकि अन्त्यलोपे च रूपम् । हे पार्थिव वो युष्माकं मातृष्वसुः पुत्रश्चैद्यो दन्तवक्रश्च विष्णोः पार्षदौ विप्रशापात्पदच्युताविति योजना स्पष्टा ॥ ३४ ॥

युधिष्ठिर उवाच–

कीदृशः कस्य वा शापो हरिदासाभिमर्शनः ।

अश्रद्धेय इवाभाति हरेरेकान्तिनां भवः ॥ ३५ ॥

देहेन्द्रियासुहीनानां वैकुण्ठपुरवासिनाम् ।

देहसम्बन्धसम्बन्धमेतदाख्यातुमर्हसि ॥ ३६ ॥

पदरत्नावली

हरिदासान् हरिभक्तान् अभिमृशति स्पृशतीति हरिदासाभिमर्शनः । हरेरेकान्तिनां नियतभक्तानां भव उत्पत्तिः शरीरयोगलक्षणः स्वपदभ्रंशलक्षणः शापः । अश्रद्धेय इवाभाति सयुक्तिकं निरूपयितुं न क्षममिति प्रतीयते ॥ तत्र कारणमाह– देहेति ॥ देहाद्यभावश्च कुत्रत्यानामिति तत्राह– वैकुण्ठेति ॥ तेषां प्राकृतदेहाद्यभावेन जन्मादिकं कथं घटत इति शङ्क्यत इत्यर्थः । देहसम्बन्धः देहयोगस् तस्य सम्बन्धः निमित्तभूतः शापः । एतत् शापादिनिमित्तम् । अनेन देहयोगं तन्निमित्तं शापं तन्निमित्तं च व्याख्यातुमर्हसीत्यर्थसमुदायो लक्ष्यत इत्यर्थः ॥ ३५,३६ ॥

प्रकाशिका

हरिदासान् हरिभक्तान् अभिमृशति स्पृशति, अभिभवतीति यावत् । अश्रद्धेय इवानादरणीय इव । एकान्तिनां नियतभक्तानाम् । भव उत्पत्तिः ॥ अश्रद्धेयत्वमेवोपपादयन्पृच्छति ॥ देहेन्द्रियेति ॥ प्राकृतदेहेन्द्रियासुहीनानामित्यर्थः । अत्रापि जात्यभिप्रायं बहुवचनम् । प्राकृतदेहसम्बन्धेन सम्बन्धो जनकतया यस्य तत्तथा । प्राकृतदेहसम्बन्धे निमित्तं विप्रशापरूपम् । एतत्त्वया पूर्वमुक्तम् आख्यातुमर्हसि सनिमित्तकं वक्तुमर्हसीत्यर्थः ॥ ३५,३६ ॥

मन्दनन्दिनी

विप्रशापात्पदच्युताविति श्रुत्वा युधिष्ठिरः पृच्छति कीदृश इति श्लोकद्वयेन । हरिदासान् जयादीन् अभिमृशति स्पृशतीति हरिदासाभिमर्शनः शापः । कीदृशः किंप्रकारः । कस्येति कर्तृविशेषप्रश्नः । विप्रशापादित्यनेन सामान्यस्य निश्चितत्वात् । शापप्रयुक्तो भवश्चाश्रद्धेय इवाविश्वसनीय इव भाति । तत्र हरेरेकान्तिनां नियतभक्तानां देहेन्द्रियासुहीनानामसवः प्राणाः । वैकुण्ठपुरवासिनां वैकुण्ठस्य पुरं वैकुण्ठाख्यपुरमिति वा । एतत्त्रयं हेतुः । एकान्तिनां परोपद्रवायोगात् । देहादिहीनानां पुनरुत्पत्त्ययोगात् । वैकुण्ठपुरात्पुनरावृत्तेरयोगाच्च । अतो देहसम्बन्धस्य सम्बन्धं सम्बध्यतेऽनेनेति निमित्तम् एतदाख्यातुमर्हसीति योजना ॥ ३५ ॥

नारद उवाच–

एकदा ब्रह्मणः पुत्रा विष्णोर्लोकं यदृच्छया ।

सनन्दनादयो जग्मुश्चरन्तो भुवनत्रयम् ॥ ३७ ॥

पञ्चषड्ढायनार्भाभाः पूर्वेषामपि पूर्वजाः ।

दिग्वाससः शिशून् मत्वा द्वास्थौ तान् प्रत्यषेधताम् ॥ ३८ ॥

तात्पर्यम्

द्वास्थावित्येननाधिकारस्थत्वमुक्तम् । ‘अधिकारस्थिताश्चैव विमुक्ताश्च द्विधा जनाः । विष्णुलोकस्थितास्तेषां वरशापादियोगिनः । अधिकारस्थिता मुक्तिं नियतं प्राप्नुवन्ति च । विमुक्त्यननन्तरं तेषां वरशापादयो न तु । देहेन्द्रियासुयुक्ताश्च पूर्वं पश्चान्न तैर्युताः । अप्यभीमानिभिस्तेषां देवैः स्वात्मोत्तमैर्युताः’ इति तन्त्रसारे ॥ ३८ ॥

पदरत्नावली

तदर्थजातं कुतोऽवगम्यते ? इति परिहारवचनादित्यत आदितो वक्ति– एकदेति ॥ पञ्चषड्ढायनार्भाभाः पञ्चवर्षाः षड्वर्षा अर्भा अर्भकाः, तद्वदाभा दीप्तिर्येषां ते तथा, तत्समाना इत्यर्थः । शिशून् मत्वा मूर्खान् पुरप्रवेशकरणाय वेषान्तरमापन्नान् इत्याशङ्क्येत्यर्थः । द्वाःस्थौ द्वारिस्थौ जयविजयौ तान् सनन्दनादीन् प्रत्यषेधतां वेत्रविधानेन न्यवारयतामित्यन्वयः । द्वाःस्थावित्यनेन जयविजययोरधिकारस्थत्वं सूचयति । तेन वैकुण्ठे अधिकारस्थिता मुक्ताश्चेति द्विविधा जनाः सन्ति । तत्राधिकारस्था देहादियोगित्वाद् वरशापयोग्याः, पश्चान्न योग्या इति ज्ञायते । तदुक्तम्– ‘अधिकारस्थिताश्चैव विमुक्ताश्च द्विधा जनाः । विष्णुलोकस्थितास्तेषां वरशापादियोगिनः ॥ अधिकारस्थिता मुक्तिं नियतं प्राप्नुवन्ति च । विमुक्त्यनन्तरं तेषां वरशापादयो न तु ॥ देहेन्द्रियासु-युक्ताश्च पूर्वं पश्चान्न तैर्युताः । अप्यभीमानिभिस्तेषां दैवैः सत्वोत्तमैर्युताः ॥’ इति । अनेन वैकुण्ठे मुक्तामुक्तस्थानद्वयमस्तीति ज्ञायते ॥ ३७–३८ ॥

मन्दनन्दिनी

नारद उत्तरमाह ॥ एकदेत्यादिना श्लोकपञ्चकेन । भगवद्भक्तान् भगवन्तं च द्रष्टुकामा भुवनत्रयं चरन्तो ब्रह्मणः पुत्राः सनंदनादयो यदृच्छया भगवदिच्छयैकदा विष्णोर्लोकं जग्मुः ॥ पञ्च वा षड्वा पञ्चषट् । समासान्तरस्य टचोऽभावो अनित्यत्वात् । पञ्चषड् हायना अब्दा यस्य । ‘‘हायनोऽस्त्री शरत्समाः’’ इत्यमरः । तादृशोऽर्भोऽर्भकस्तस्याभेवाभा येषां ते पञ्चषढ्ढायनार्भाभाः । ‘‘ब्रह्मणः प्रथमे ॥ कल्पे रुद्रः प्रथमसम्भवः । सनकाद्याश्च वाराह’’ इत्युक्तेः । पूर्वेषां पूर्वजा ब्रह्मणो ज्येष्ठपुत्राः । दिग्वाससः । एतच्च विशेषणत्रयं सनन्दनादीनाम् । तथा च जग्मुरिति पूर्वेणान्वयः । तान् शिशून्मत्वा द्वाःस्थौ जयविजयौ प्रत्यषेधतां वेत्रविधानेन न्यवारयतामिति योजना ॥

अत्र प्रत्यषेधतामित्यनेन शापनिमित्तमात्रमुक्तम् । शापप्रकारश्च वक्ष्यते । देहेन्द्रियासुहीनाना-मित्यादिना प्राप्तापुनर्भवासम्भवशङ्का कथं निरस्तेत्यतस्तात्पर्यकृदाह ॥ द्वाःस्थावित्यनेनाधिकारस्थत्व-मिति । अनेनापि कथं परिहार इत्यतः प्रमाणमुपन्यस्यति ॥ ‘‘अधिकारस्थिताश्चैव विमुक्ताश्च द्विधा जनाः । विष्णुलोकस्थितास्तेषां वरशापादियोगिनः । अधिकारस्थिता मुक्तिं नियतं प्राप्नुवन्ति च । विमुक्त्यनन्तरं तेषां वरशापादयो न तु । देहेन्द्रियासुयुक्ताश्च पूर्वं पश्चान्न तैर्युताः । अप्यभीमानिभिस्तेषां देवैः स्वात्मोत्तमैर्युताः’’ इति तन्त्रसारे ॥ अनेन विष्णोः पार्षदा गरुडानन्तविष्वक्सेनजयादयो द्विविधाः सन्ति । वैकुण्ठादिधामत्रयोद्देशेऽपि द्विविधः । अमुक्तगम्यो मुक्तमात्रगम्यश्चेति । तत्रामुक्तगम्यदेशे विद्यमानाः पार्षदाः संसारिणः । मुक्तदेशे तु मुक्ताः । तथा च देहेन्द्रियासुहीनानामित्युक्तं हेतुत्रय-सिद्धम् । अत एव शेषस्य लक्ष्मणादिभावेन भवः, गरुडस्यापि शापादिना नावताराः । सनन्द-नादीनामपि लिङ्गत्वमेव । वाराहकल्पब्रह्मजातशरीरवत्वात् । तथा चापराधशापतत्प्रयुक्तजन्मादिमत्वं सर्वं युक्तमित्युक्तं भवति । जना गरुडानन्तादयः पार्षदा अधिकारस्था विमुक्ताश्चेति द्विविधा विष्णुलोके स्थिताः । एषां मध्येऽधिकारस्थितास्तद्दशायां वरशापादियोगिनो ब्रह्मलयकाले नियतं यथा भवति तथा मुक्तिं यान्ति । विमुक्त्यनन्तरं तैर्जडदेहादिभिरपि जडदेहादिनाऽपि स्वात्मोत्तमैर्देवैस्तेषां गतदेहादीना-मभिमानिभिः । द्यङ््य् मनुष्ये बहुलमिति अभीत्यस्य दीर्घः । अभिमानवद्भिर्युता भवन्ति अत एव चानन्याधिपतिरिति सूत्रम् । मुक्तः स्वकीयावरयन्त्रताऽस्ति इत्यनुव्याख्यानसुधयोर्विवृतमेतत् । अत्र देवैरित्यनेन एकादशस्कन्धे वक्ष्यमाणा असुरा मित्राश्चाभिमानिनो मुक्तौ न सन्तीति ध्वनितम्

॥ ३७,३८ ॥

प्रकाशिका

पञ्च वा षड्वा हायनानि वर्षाणि येषां ते च तेऽर्भा बालास्तद्वदाभा दीप्तिर् येषां ते तथा तत्समाना इत्यर्थः । दिग्वाससः दिगम्बराः । अत एव शिशून्मत्वा द्वास्थौ द्वारपालौ जयविजयौ । प्रत्यषेधतां वेत्रनिधानेन न्यवारयतामित्यर्थः । ननु युधिष्ठिरेण सयुक्तिकं पृष्टस्यैकदा ब्रह्मणः पुत्रा इत्यादिना नारदेन किमुत्तरमुक्तमित्यतस्तदुत्तरज्ञापकपदं प्रदर्शयन् तत्तात्पर्यमाह ॥ द्वास्था-वित्यनेनेति ॥ अधिकारस्थितत्वोक्त्याऽपि कथमुत्तरं जातमित्यतः प्रमाणेनैव तं प्रकारं दर्शयति ॥ अधिकारस्थिता इत्यनेन ॥ तेषां द्विविधानां मध्ये अधिकारस्थिता एव वरशापादियोगिनः । आदिपदेन तज्जन्यं सुखदुःखादिकं ग्राह्यम् । नियतं नियमेन । न तु नैव । पश्चान्मुक्त्यनन्तरम् । ननु पूर्वं देहेन्द्रियासुयुतत्वे तदभिमानिदेवयुतत्वेनापि भाव्यमित्यतस्तदप्यस्तीत्याह ॥ अप्यभीमानिभिरिति ॥ तेषामिन्द्रियादीनामभिमानिभिर्देवैरपि पूर्वं युताः पश्चात्स्वोत्तमैर्मुक्तैर्देवैर्युता इत्यर्थः । ततश्च जयविजय-योर्द्वारपालनरूपाधिकारस्थितत्वेन मुक्त्यभावाद्वैकुण्ठपुरवासित्वेऽपि शापयोग्यतास्तीत्युत्तरं द्वास्थावित्य-नेनोक्तं भवतीति ज्ञातव्यम् ॥ ३८ ॥

अशपन् कुपिता एवं युवां वासं न चार्हथः ।

रजस्तमोभ्यां रहिते पादमूले मधुद्विषः ॥ ३९ ॥

प्रकाशिका

वासमपि नार्हथः । कुतस्तत्सेवामिति चकारार्थः ॥ ३९ ॥

मन्दनन्दिनी

एवं प्रतिषेधेन कुपिताः सनन्दादयोऽपश्यन् कोपेन जयविजयावपश्यन्नित्यर्थः । मधुद्विषः पादमूले पादसमीपे । रजस्तमोभ्यां तत्कार्याभ्यां रहितम् । युवां वासं न च नैवार्हथः ॥३९॥

पापिष्ठामासुरीं योनिं बालिशौ यातमाश्वतः१ ।

एवं शप्तौ स्वभवनात् पतन्तौ तैः कृपालुभिः ॥ ४० ॥

प्रकाशिका

हे बालिशौ ॥ ४० ॥

मन्दनन्दिनी

पापिष्टां पापो दैत्यस्तद्युक्ता पापिनी । अतिशयेन तथाभूतामासुरीम् । सुरभिन्नोऽसुरस्तत्सम्बन्धिनीं योनिम् । आश्वितः शरीरात् । यातं गच्छतमित्यूचुश्चेति शेषं कृत्वा योजना । न केवलं कुपिता अपश्यन् किं त्वित्यूचुश्चेत्यर्थः । अत्र पापिष्टामित्यनेन महादैत्यावेशलाभः । आसुरीमित्यस्य सुरभिन्नसम्बन्धिपरतया व्याख्यानात् । दैत्यराक्षसमानुषभावेऽपि न दोषः ॥ ४० ॥

प्रोक्तौ पुनर्जन्मभिर्वां त्रिभिर्लोकाय कल्पताम् ।

जज्ञाते तौ दितेः पुत्रौ दैत्यदानववन्दितौ ।

हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजस्ततः ॥ ४१ ॥

प्रकाशिका

त्रिभिर्जन्मभिर्वां स्वलोकाय स्वस्थानप्राप्तये कल्पतामयं शाप इति शेषः । तावता समाप्यतामित्याशयः ॥ ४१ ॥

मन्दनन्दिनी

एवं शप्तौ अनन्तरमेव पतन्तौ । द्वाःस्थयोः प्रतिषेधो धर्मः । भगवद्भक्ताव-स्माभिर्वृथा शप्तौ । अत उद्धारः कार्य इत्येवं पतनकाले कृपालुभिस्त्रिभिर्जन्मभिरेवं भूत्वा पुनरिमं लोकं वां विभक्तिव्यत्ययेन युवां पुनरिमं लोकं यातमिति प्रोक्ताविति योजना । ततोऽनुजो हिरण्यकशिपोरनन्तरं जातः । एवं क्रमेण ज्येष्ठकनिष्ठौ जयविजयौ ज्ञेयौ ॥ ४१ ॥

हतो हिरण्यकशिपुर्हरिणा सिंहरूपिणा ।

हिरण्याक्षो धरोद्धारे बिभ्रता सौकरं वपुः ॥ ४२ ॥

प्रकाशिका

धरोद्धारे धरोद्धारार्थं सौकरं वपुर् बिभ्रता ॥ ४२ ॥

मन्दनन्दिनी

सिंहरूपिणा नृसिंहरूपिणा । योजना तु स्फुटा । सौकरं वपुर्वराहसम्बन्धिशरीरं बिभ्रता हरिणा हिरण्याक्षो हत इति योजना ॥ ४२ ॥

हिरण्यकशिपुः पुत्रं प्रह्लादं भगवत्प्रियम् ।

जिघांसुरकरोन्नाना यातना मृत्युहेतवे ॥ ४३ ॥

पदरत्नावली

नाना यातना बहुविधतीव्रवेदनाकारणानि ॥ ४३ ॥

प्रकाशिका

हिरण्यकशिपोर्वधे कारणं सूचयति ॥ हिरण्यकशिपुः पुत्रमिति ॥ नाना यातना बहुविधतीव्रवेदनाकारणानि ॥ ४३ ॥

मन्दनन्दिनी

जिघांसुर्हंतुमिच्छुर्मृत्युहेतवे मरणरूपप्रयोजनाय नानायातना बहून् शरीरोपद्रवान् हिरण्यकशिपुरकरोदिति योजना ॥ ४३ ॥

तं सर्वभूतात्मभूतं प्रशान्तं समदर्शनम् ।

भगवत्तेजसा स्पृष्टं नाशक्नोद्धन्तुमुद्यमैः ॥ ४४ ॥

तात्पर्यम्

सर्वभूतात्मनि भूतम् ॥ ४४ ॥

पदरत्नावली

सर्वभूतात्मनि चराचरान्तर्यामिणि हरावेव, भूतं स्थितम् ॥ ४४ ॥

प्रकाशिका

सर्वभूतात्मभूतमित्येतत्सर्वभूतस्वरूपमिति प्रतीतिवारणाय व्याख्याति ॥ सर्वभूतात्मनीति ॥ तथा च सर्वभूतात्मनि सर्वप्राण्यन्तर्यामिणि भूतं मनसा स्थितमित्यर्थ इत्याशयः । प्रशान्तं द्वेषादिरहितम् । स्पृष्टं व्याप्तं गुप्तमिति यावत् । उद्यमैः शस्त्रप्रहारादिभिः ॥ ४४ ॥

मन्दनन्दिनी

सर्वभूतात्मभूतं तत्र तात्पर्यम् ॥ सर्वभूतात्मनि भूतमिति ॥ सर्वभूतस्वामिनि भूतं दासभूतम् । प्रशान्तम् । प्रकर्षेण विष्णुनिष्ठबुद्धिम् । अतदर्हणमुक्तनानायातनाऽयोग्यम् । भगवत्तेजसा स्पृष्टं भगवदनुग्रहाय तेजसा सामर्थ्यविशेषेण स्पृष्टं युक्तम् । तं प्रह्लादम् । उत्तमैर्हननोद्योगैर्हन्तुं नाशक्नोदिति योजना ॥ ४४ ॥

ततस्तौ राक्षसौ जातौ केशिन्यां विश्रवःसुतौ ।

रावणः कुम्भकर्णश्च सर्वलोकप्रतापिनौ ॥ ४५ ॥

तात्पर्यम्

‘हिरण्यकशिपुर्भूतममन्यत मृतौ हरिम् ॥ अतो भयानको जातस्तत्र राजानमेव च । मत्वा राजैव सञ्जातः कृष्णं चक्रादिलक्षणैः । मृतिकाले हरिं चैव मत्वा भक्त्यैव केवलम् । द्वाःस्थत्वं हरिमाविश्य प्रापैव मनुजोऽपि तु’ इति गारुडे ॥ ‘विष्णुभक्तेश्च तज्ज्ञाना-दन्यतो मुक्तिवाचकाः । विष्णोर्गुणह्रासवाचः श्रीब्रह्मादेस्तथा क्रमात् । विष्ण्वादिद्वेषतश्चैव सुखवाचस्तथाऽखिलाः । मोहनार्थाः समुद्दिष्टा यथार्थद्योतकास्तथा’ ॥ इति प्रकाशसंहितायाम्

॥ ४५ ॥

पदरत्नावली

ननु ‘आसुरीं योनिं यातम्’ इत्ययं शाप आसुरयोनिप्राप्तिहेतुः । तत्र जय-विजययोर्दित्यां जन्म तदनुगुणम् । केशिन्यादिजन्म कथं युज्यते, ‘राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः’ इति भिन्नयोनित्वादितीयं मन्दाशङ्का, ‘हिरण्यकशिपुर्भूतममन्यत मृतौ हरिम् । अतो भयानको जातस्तत्र राजानमेव च ॥ मत्वा राजैव संजातः कृष्णं चक्रादिलक्षणैः । मृतिकाले हरिं चैव मत्वा भक्त्यैव केवलम् । द्वाःस्थत्वं हरिमाविश्य प्रापैव मनुजोऽपि तु ॥’ इत्यनेन परिहर्तव्या । ‘यं यं वाऽपि स्मरन् भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय’ इत्यादेः । सुरविरुद्धत्वमुभयोः सममित्यतो हरिद्वेषश्च सम इति भावः ॥ ४५ ॥

प्रकाशिका

नन्वासुरीं योनिं यातमिति शापानुसारेण जयविजययोर् हिरण्यकशिपुहिरण्याक्ष-जन्मवदवशिष्टं जन्मद्वयमपि दित्यामेव वक्तव्यं, तत्कथं द्वितीयं जन्म राक्षसयोनौ तृतीयं राजयो-नावित्यतोऽत्र कारणं प्रमाणेनैव परिहरति ॥ हिरण्यकशिपुरिति ॥ इदमुपलक्षणम् । हिरण्याक्षश्चेत्यपि ग्राह्यम् । भूतं भयङ्करम् । प्राणिनां मृतौ मृतिकाले ॥ अत इति ॥ ‘यं यं वापि स्मरन्भावं’ इति वचनादित्याशयः । भयानकः भयङ्करो राक्षसः । तत्र राक्षसजन्मनि मृतिकाले । चशब्दः हरिमित्य-स्यानुकर्षार्थः । तयोरन्ते कृष्णप्रवेशेऽपि निमित्तमाह ॥ कृष्णमिति ॥ तत्रेत्यनुवर्तते । तत्र च मृतिकाले कृष्णं हरिमेव मत्वा हरिं कृष्णमाविश्य द्वाःस्थत्वमेव स्वमूलरूपैक्यमेव प्रापेत्यन्वयः । ननु गोप्यः कामादित्यादावुक्तरीत्या भक्तियुतत्वस्याभिप्रेतत्वे पुराणकर्त्रापि तथैव वक्तव्यम् । कामादित्यादिकमेव किमर्थमुक्तमित्याशङ्कां प्रमाणेनैव दर्शयति ॥ विष्णुभक्तेरिति ॥ अन्यतः कामादेः । श्रीब्रह्मादेर् अक्रमात्तारतम्यक्रमं विहाय गुणह्रासवचः न केवलमुक्तार्थवाचकं वाचः किन्तु तथार्थद्योतका-स्तत्सदृशार्थसूचका अपि वाचस् तथा मोहनार्थाः समुद्दिष्टा इत्यर्थः ॥ ४५ ॥

मन्दनन्दिनी

ततो वराहेण नृसिंहेन च हननानन्तरम् । तौ केशिन्यां राक्षस्यां राक्षसौ जातौ राक्षसत्वजातिमन्तौ । मातृजातिः सुतानामित्युक्तेः । कीदृशौ किं नामानौ कस्य सुतावित्यतः सर्वलोकप्रतापिनौ रावणकुम्भकर्णश्चेति नामवन्तौ विश्रवसः सुताविति ॥

तत्रापि रावणादिजन्मन्यपि शापमुक्तये न्यहनदिति योजना । त्रिषु जन्मस्वहमेव हन्मीति विष्णोर्वरो हिरण्यकशिप्वादिजन्मनि सुराद्यवध्यत्वविषयको धातुर्वरश्च ग्रन्थान्तरादवसेयौ । दैत्यजन्मान्तरं राक्षसत्वे तदनन्तरं मानुषत्वे तदनन्तरं सायुज्ये च किं कारणमित्यतस्तात्पर्यकृत्प्रमाणमाह ॥

हिरण्यकशिपुर्भूतममन्यत मृतौ हरिम् ।

अतो भयानको जातस्तत्र राजानमेव च ।

मत्वा राजैव सञ्जातः कृष्णं चक्रादिलक्षणैः ।

मृतिकाले हरिं चैव मत्वा भक्त्यैव केवलम् ।

द्वाःस्थत्वं हरिमाविश्य प्रापैव मनुजोऽपि तु ॥ इति गारुडे ॥

भूतं राक्षसं भयानको राक्षसः । ‘‘यं यं वाऽपि स्मरन् भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय’’ इत्युक्तेः । केवलं भक्त्या द्वेषमुज्झित्वा बहुपश्चात्तापयुक्तया महाभक्त्या निमित्तेन मनुजोऽपि हरिमाविश्य प्रापेत्यन्वयः । तुशब्दस्य तत्रेत्यनेनान्वयः । रावणजन्मनि त्वित्यर्थः । राजैव सञ्जात इत्यनन्तरं तत्र त्वित्यनुवर्तते । राजजन्मनि त्वित्यर्थः । एतत्सर्वं हिरण्याक्षेऽप्यनुसन्धेयम् ॥ ४५ ॥

तत्रापि राघवो भूत्वा न्यहनच्छापमुक्तये ।

रामवीर्यं श्रोष्यसि त्वं मार्कण्डेयमुखात् प्रभो ॥ ४६ ॥

मन्दनन्दिनी

वनवासकाले भविष्यन्तीं मार्काण्डेयकथां मनसि कृत्वा श्रोष्यसीति लृट् प्रयोगः

॥ ४६ ॥

तावद्य क्षत्रियौ जातौ मातृष्वस्रात्मजौ तव ।

अधुना शापनिर्मुक्तौ कृष्णचक्रहतांहसौ ॥ ४७ ॥

मन्दनन्दिनी

तौ रावणकुम्भकर्णौ ॥ कृष्णचक्रहतांहसौ कृष्णचक्रहतमंहस्त्रिजन्मकृतं पापं ययोस्तौ ॥ ४७ ॥

वैरानुबन्धतीव्रेण ध्यानेनाच्युतसाम्यताम् ।

नीतौ पुनर्हरेः पार्श्वं जग्मतुर्विष्णुपार्षदौ ॥ ४८ ॥

तात्पर्यम्

वैरानुबन्धः वैरयुक्ता भक्तिः । ‘अनुबन्धस्तु भक्तिः स्याद्बन्धः स्नेह उदाहृतः’ इति च ॥ ४८ ॥

॥ इति सप्तमतात्पर्ये प्रथमोऽध्यायः ॥ १ ॥

पदरत्नावली

वैरानुबन्धेन वैरयुक्तभक्त्या तीव्रेण अत्युत्कटेन । अच्युतसाम्यतां श्रीकृष्णस्वरूप-प्रवेशलक्षणाम् । हरेर्वैकुण्ठगमनानन्तरं पार्षदौ जयविजयाख्यमूलरूपेणैकीभूय हरेः पार्श्वं जग्म-तुरित्यन्वयः । ‘अनुबन्धस्तु भक्तिः स्याद् बन्धः स्नेह उदाहृतः’ इत्यभिधानाद् अनुबन्धशब्दस्य नैरन्तर्यार्थताऽनुपपन्नेति ॥ ४८ ॥

प्रकाशिका

वैरानुबन्धतीव्रेणेत्यत्र वैरानुबन्धशब्दस्य प्रकृतसङ्गतमर्थं दर्शयति ॥ वैरानुबन्ध इति ॥ तथा च मध्यमपदलोपीसमासः । अनुबन्धशब्दो भक्तिवाचक इत्युक्तं भवति । अनुबन्धशब्दस्य भक्तिवाचकत्वे प्रमाणं दर्शयति ॥ अनुबन्धस्त्विति ॥ तुशब्दः प्रकृतत्वानुसंधानार्थः । अच्युतसाम्यतां कृष्णप्रवेशरूपाम् ॥ पुनः कृष्णस्य वैकुण्ठगमनानन्तरं विष्णुपार्षदौ सन्तौ स्वमूलरूपाभ्याम् एकीभूयेति यावत् ॥ ४८ ॥

मन्दनन्दिनी

वैरानुबन्धतीव्रेण वैरयुक्तभक्तिभरेणात्युत्कटध्यानेनाच्युतसाम्यताम् । स्वार्थे ष्यञ् । अच्युतदेहप्रवेशं नीतौ । विष्णुपार्षदौ पुनर्हरेः पार्श्वं जग्मुरिति योजना । अत्र द्वेषेणैव साक्षात्साम्यं किं न स्यादित्यतो बहुप्रमाणबाध उक्तः ॥ प्रमाणान्तरबाधं चाह तात्पर्यकृत् ॥

‘‘विष्णुभक्तेश्च तत्ज्ञानादन्यतो मुक्तिवाचकाः । विष्णोर्गुणह्रासवाचः श्रीब्रह्मादेस्तथा क्रमात् । विष्ण्वादिद्वेषतश्चैव सुखवाचस्तथाऽखिलाः । मोहनार्थाः समुद्दिष्टा यथार्थद्योतकास्तथा’’ ॥ इति प्रकाशसंहितायाम् ॥

श्रीब्रह्मादेः क्रमाद्गुणह्रासवाच इत्यनुवर्तते । विद्यमानगुणानां ह्रासवाच इत्यर्थः । बुध्या विवेकिनां क्रमादवरताक्रमात् । विद्यमानश्रीब्रह्मादेः सकाशाद्विष्णोर्ह्रासवाच इति वाऽन्वयः । तथार्थद्योतका विरुद्धार्थद्योतकाः । अन्येऽपि तथा मोहनार्थाः समादिष्टा इत्यर्थः । एतच्च वचनं क्वचित्तात्पर्यकोश इह नास्ति । किंतूत्तराध्यायादौ । अभिधानपूर्वकं वैरानुबन्धपदं व्याचष्टे । वैरानुबन्धो वैरयुक्ता भक्तिः । ‘‘अनुबन्धस्तु भक्तिः स्याद्बन्धः स्नेह उदाहृतः’’ इति प्रकाशसंहितायाम् ॥ ४८ ॥

युधिष्ठिर उवाच–

विद्वेषो दयिते पुत्रे कथमासीन्महात्मनि ।

ब्रूहि मे भगवन् येन प्रह्लादेऽप्यच्युतात्मनि ॥ ४९ ॥

॥ इति श्रीमद्भागवते सप्तमस्कन्धे प्रथमोऽध्यायः ।

पदरत्नावली

दयितत्वं महात्मत्वं च प्रश्नस्य कारणम् । येन केन निमित्तेन । अच्युते आत्मा मनो यस्य स तथा तस्मिन् ॥ ४९ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

सप्तमस्कन्धे प्रथमोऽध्यायः ॥

प्रकाशिका

अच्युते आत्मा मनो यस्य तस्मिन् ॥ ४९ ॥

॥ इति श्रीमद्भागवतसप्तमस्कन्धटिप्पण्यां यदुपतिविरचितायां

प्रकाशिकायां सप्तमस्कन्धे प्रथमोऽध्यायः ॥

मन्दनन्दिनी

अच्युतात्मनि विष्णुमनस्के । अत एव महात्मनि । दयिते दयाविषये । पुत्रे प्रह्लादे विद्वेषः कथमासीत् । यन्निमित्तमासीत्तन्मे ब्रूहीति योजना ॥ ४९ ॥

**॥ इति श्रीमद्भागवतटिप्पण्यां श्रीव्यासतत्वज्ञविरचितायां **

मन्दनन्दिन्यां सप्तमस्कन्धे प्रथमोऽध्यायः ॥ ७–१ ॥