व्रतं पुंसवनं ब्रह्मन् भवता यदुदीरितम्
॥ अथ एकोनविंशोऽध्यायः ॥
राजोवाच—
व्रतं पुंसवनं ब्रह्मन् भवता यदुदीरितम् ।
तस्य वेदितुमिच्छामो१ येन विष्णुः प्रसीदति ॥ १ ॥
पदरत्नावली
अत्र निष्कामत्वेन क्रियमाणं पुंसवनं नाम व्रतं श्रीनारायणानुग्रहजनकज्ञानजनक-त्वेन पुरुषार्थसाधनं भवतीत्यभिप्रायेण प्रश्नोत्तरपूर्वकमेतद् व्रतं निरूप्यते । पुंसवनस्य विधानम् ॥ १ ॥
सत्यधर्म
निष्कामनया चीर्णं पुंसवनं पूर्णफलं भवतीति विनेयविनेतृनृपमुनिप्रश्नोत्तरपूर्वकं निरूप्यते । तत्र परीक्षित्पृच्छतीति प्रथमत आह ॥ राजेति । यत्पुंसवनं भवतोदीरितं येन विष्णुः प्रसीदति तस्य व्रतमनुष्ठानप्रकारं वेदितुं ज्ञातुमिच्छामो मुनयोऽहं च ॥ १ ॥
चट्टी –यद्वैष्णवं व्रतं चक्रे दितिः पुंसवनाभिधम् ।
अत्र लोकोपकाराय तत्स्वरूपं निरूप्यते ॥
पुंसवनाख्यं व्रतं तस्य प्रकारमिति शेषः ॥ १ ॥
श्रीशुक उवाच—
शुक्ले मार्गशिरे पक्षे योषिद् भर्तुरनुज्ञया ।
आरभेत व्रतमिदं सार्वकामिकमादितः ॥ २ ॥
पदरत्नावली
मार्गशिरे धनुर्मासि शुक्लपक्षे । सार्वकामिकं मोक्षादिसर्वपुरुषार्थसाधनम् । आदितः शुक्लपक्षमारभ्य । आदितो मरुतां जन्मेति वा ॥ २ ॥
सत्यधर्म
मार्गशिरे मासि तत्रापि शुक्लपक्षे तत्राप्यादितः प्रथमतिथिमारभ्यारभेत प्रारम्भं कुर्यात् । निष्कामुककृतं नैकफलपर्यवसायीत्याह ॥ सार्वकामिकमिति ॥ २ ॥
चट्टी
मार्गशिरे मासि शुक्लपक्षे आदितः प्रतिपदि । सार्वकामिकं मोक्षादिसर्वपुरुषार्थसाधनम्
॥ २ ॥
निशम्य मरुतां जन्म ब्राह्मणाननुमन्त्र्य च ।
स्नात्वा शुक्लदती शुक्ले वसीतालङ्कृताम्बरे ॥ ३ ॥
पदरत्नावली
शुक्ले अम्बरे च ॥ ३ ॥
सत्यधर्म
आदित इति अत्राप्यन्वेतव्यम् । मरुतां जन्मादितः प्रथममारभ्य निशम्याचार्यमुखतः श्रुत्वा ब्राह्मणाननुमन्त्र्य । तदाज्ञां गृहीत्वा स्नात्वा शुक्लदती । अग्रान्तशुद्धशुभ्र । वराहेभ्यश्चेति सूत्र-व्याख्यावसरे इहानुक्तसमुच्चयार्थश्चकारस्तेन मूषिकादन्निति सिद्ध्यतीत्याहुः’’ इति तत्त्वसुबोधिन्युक्ते-श्चकारग्राह्ये मुद्रणाभावाच्छुक्लदतीति सम्भवतीति ज्ञेयम् । शुक्ला दन्ता यस्याः सा । उगितश्चेति ङीप् । शुक्लेऽम्बरे वसीत अलङ्कृता सती ॥ ३ ॥
चट्टी
अनुमन्त्र्य पृष्ट्वा । शुक्ला दन्ता यस्याः सा शुक्लदती धौतदन्ता । अलङ्कृता सती पूजयेदित्यन्वयः ॥ ३ ॥
पूजयेत् प्रातराशात् प्राक् भगवन्तं श्रिया सह ।
उपचारैः षोडशभिरुपतिष्टेत मन्त्रतः ।
नमस्ते निरपेक्षाय पूर्णकाम नमोऽस्तु ते ।
महाविभूतिपतये नमः सकलसिद्धये ॥ ४ ॥
सत्यधर्म
प्रातराशात्प्राग्भोजनात्प्रागेव श्रिया सह भगवन्तं पूजयेत् । षोडशभिरुपचारैर्मन्त्रत उदाहरिष्यमाणादुपचारैरुपतिष्ठेत । तं मन्त्रमाह ॥ नम इति ॥ निरपेक्षाय निर्गतोऽपेक्षाया इति स तथा तस्मै । हे पूर्णकाम । ते नमोऽस्तु । महाविभूतिर्महालक्ष्मीस्तस्याः पत्ये सकलसिद्धये तद्रूपाय । नम इति देहलीदीपनीत्योभयान्वयि । अन्यथैकेन चारितार्थ्यात्स्थानद्वये न पृथक् प्रयोज्यं स्यात् ॥ ४ ॥
चट्टी
नमस्कारमन्त्रानाह ॥ नम इति त्रिभिः । केवलं ते तुभ्यं नमोऽस्तु । तत्र हेतुः ॥ निरपेक्षायेति । निरपेक्षत्वे हेतवः । हे पूर्णकाम महाविभूतिपतये लक्ष्मीपतये । सङ्कल्पमात्रेणैव सिद्धयोऽणिमाद्या यस्मिंस्तस्मै ॥ ४ ॥
यतस्त्वं कृपया भूत्या तेजसा महतौजसा ।
तुष्ट१ ईश गुणैः सर्वैस्ततोऽसि भगवान् विभुः ॥ ५ ॥
सत्यधर्म
महतेत्येतत्तेजओजसोर्विशेषणम् । तेजः कान्तिरोजोऽवष्टम्भनशक्तिः । यत इत्याद्यैः सर्वैर्गुणैर्युक्तो भगवान्विभुस्ततः स्तुतोऽसि । नाविद्यमानगुणस्तुतिरियमिति भावः ॥ ५ ॥
चट्टी
भो ईश । यतो यस्मात्त्वं कृपादिभिर्जुष्टोऽन्यैश्च सत्यसङ्कल्पादिभिः सर्वैर् गुणैस्तत-स्तस्माद्भगवच्छ्ब्दवाच्योऽसि ॥ ५ ॥
विष्णुपत्नि महामाये महापुरुषलक्षणे ।
प्रीयेथा मे महाभागे लोकमातर्नमोऽस्तु ते ॥ ६ ॥
सत्यधर्म
श्रिया सहेति प्रागीरितत्वात्तत्सुतिमपि तनुयादिति वदति ॥ विष्णुपत्नीति । महापुरुषलक्षणे महापुरुषस्य लक्षणं चिन्हं श्रीवत्सरूपं यस्यास्तत्सम्बुद्धिः । लोकमातर्जगज्जननि मे मयि प्रियेथाः प्रीता स्याः । सम्बुद्धिर्लोकमातः ॥ ६ ॥
चट्टी
महामाये महामाहात्म्ये महापुरुषस्य श्रीनारायणस्यैव लक्षणानि निरपेक्षत्वादीनि यस्यास्तस्याः सम्बोधनम् ॥ ६ ॥
ओं नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सह महाविभूतिभिर् बलिमुपाहरामीति । अनेनाहरहर्मन्त्रेण विष्णोरावाह१नार्ध्यपाद्योपस्पर्शनस्नानवास-उपवीतभूषणगन्धपुष्पधूपदीपोपहाराद्युपचारांश्च समाहित उपाहरेत् ॥ ७ ॥
सत्यधर्म
महाविभूतिभिस्तत्परिवारभूतरमादिमहाविभूतिभिर्योग्यतानुसारिमहाविभवैर्वा तव बलिमुपाहरामि इति मन्त्रेणावाहनं प्रतिमादिषु । पादार्घ्यमिति यावत् पाद्यमर्ध्यमित्यन्वयः । उपस्पर्शनं तयोर्दानम् । ‘‘तदागा अस्पृशत्’’ इत्यादिप्रयोगात् । पादस्पर्शमात्रमाचमनं वा । ‘‘उपस्पर्शः स्पर्शमात्रे स्नानाचमनयोरपि’’ इति विश्वः । वासो वस्त्रम् । उपवीतं यज्ञोपवीतम् । उपहारः फलपाय-सादिनिवेदनम् । अनेन वक्ष्यमाणेन ॥ ७ ॥
चट्टी
पूजामन्त्रमाह ॥ ॐ नम इति । महाविभूतिभिः परिवारदेवताभिः सह वर्तमानाय । उपस्पर्शनमाचमनम् ॥ ७ ॥
हविश्शेषं तु जुहुयादनले द्वादशाहुतीः ।
ओं नमो भगवते महापुरुषाय महाविभूतिपतये स्वाहेति ।
श्रियं विष्णुं च वरदावाशिषां प्रभवावुभौ ।
भक्तया संपूजयेन्नित्यं यदीच्छेत् सर्वसम्पदः ॥ ८ ॥
पदरत्नावली
प्रभवौ जनकौ ॥ ८ ॥
सत्यधर्म
द्वादशाहुतीः । पूर्वं मन्त्रस्योदाहृतत्वेऽपि स्वाहेत्यनुक्तत्वात्स्वाहान्तो होम-कर्मणीत्यादेस्तन्मात्रयोजनेनानेनेत्युक्तिरिति ज्ञेयम् । तत्र जपे न्यासे नमोऽन्तस्त्वित्युक्तेर्नमोऽस्तु त इत्यभिभाषणमिति ज्ञेयम् । वरदावाशिषां प्रभवौ जनकौ । नित्यम् उक्तदिनमध्येऽखण्डम् ॥ ८ ॥
चट्टी –हविःशेषमुपाहरावशिष्टम् । होममन्त्रमाह ॥ ॐ इति । प्रकर्षेण भवंत्याभ्यामिति प्रभवौ
॥ ८ ॥
प्रणमेद् दण्डवद् भूमौ भक्तिप्रह्वेण चेतसा ।
दशवारं जपेन्मन्त्रं ततः स्तोत्रमुदीरयेत् ॥ ९ ॥
पदरत्नावली
दशवारं दशसंख्या तदूर्ध्वं यथाशक्ति । तावती सर्वथाऽपेक्षिता ॥ ९ ॥
सत्यधर्म
प्रह्वेन प्रवणेन । दशवारं तदनन्तरं यथाशक्ति ॥ ९ ॥
युवां तु विश्वस्य विभू जगतः कारणं परम् ।
इयं हि प्रकृतिः सूक्ष्मा मायाशक्तिर्दुरत्यया ॥ १० ॥
सत्यधर्म
युवामित्याद्युक्त्या साम्यं रमाया आयातं तदपवदति ॥ इयं हीति । दुरत्यया त्वदन्येन
॥ १० ॥
चट्टी
स्तोत्रप्रकारमेवाह ॥ युवामिति सार्धैश्चतुर्भिः ॥ युवां लक्ष्मीनारायणौ ॥ ननु प्रकृतिपुरुषयोर्जगत्कारणत्वं श्रूयते तत्र तत्र, क्वचिच्चाव्यक्तादीनां तत्कथमुच्यते युवामिति तत्राह ॥ इयमिति । इयमेव प्रकृतिः प्रकृतिनामिका । त्वमेव पुरुषः पुरुषनामकः । इयमेव सूक्ष्मा दुर्विभाव्याऽ-व्यक्तशब्दप्रकृतिकथनमेतत् । सूक्ष्मत्वादव्यक्तनाम्नीत्यर्थः ॥ तदुक्तं– कालोऽन्तकः प्रधानं च मृत्युरव्यक्त-मित्यपि । उच्यते प्रकृतिः सूक्ष्मा श्रीश्च दुर्गेति नामभिः’’ ॥ इति । विष्णुशक्तिनियम्यत्वाच्छक्तिनाम्नी च । ‘‘श्रीभूदुर्गेति या भिन्ना प्रकृतिः शक्तिरुच्यते । विष्णुस्वरूपशक्तेः सा शक्यत्वाच्छक्तिरेव तु’’ इति वचनात् । अज्ञानादिना जगद्बन्धकत्वान्मायानाम्नी च । तदुक्तं– ‘‘मायेति प्रकृतिश्चैव माया जीवश्च कथ्यते । मूलकारणभूता तु मायेत्याहुर्मनीषिणः’’ ॥ इति च । सा दुरत्यया भगवत्प्रसादमन्तरेण केनाप्यत्येतुमशक्या ॥ १० ॥
तस्या अधीश्वरः साक्षात् त्वमेकः पुरुषः परः ।
त्वं सर्वयज्ञ इज्येयं क्रियेयं फलभुग् भवान् ॥ ११ ॥
तात्पर्यम्
इज्या क्रिया । ‘अन्तर्यामी तु यज्ञादेर्विष्णुरिज्यादिनां रमा । तत्तच्छब्दैः स्वतो वाच्यौ न तु सर्वस्वरूपतः । अन्तर्यामी श्रियश्चापि विष्णुरेव न संशयः । नान्तर्यामी कश्चिदस्ति विष्णोः क्वापि कुतश्चन’ इति ब्रह्मतर्के ॥ ११ ॥
पदरत्नावली
सर्वयज्ञः सर्वान्तर्यामी । इयं लक्ष्मीर् इज्यान्तर्यामिणी क्रियान्तर्यामिणी । ‘अन्तर्यामी तु यज्ञादेर् विष्णुरिज्यादिनां रमा । तत्तच्छब्दैस्ततो वाच्यो न तु सर्वस्वरूपतः ॥ अन्तर्यामी श्रियश्चापि विष्णुरेव न संशयः । नान्तर्यामी कश्चिदस्ति विष्णोः क्वापि कुतश्चन ॥’ इति वचनात् । फलभुक् यज्ञफलभोक्तरि यजमाने स्थित्वा तत्फलस्य भोजकः ॥ ११ ॥
सत्यधर्म
त्वं सर्वयज्ञ इज्येयमिति तथा गुणव्यक्तिरियं देवीति श्लोके च क्रियेत्यस्यान्वयाप्रतीत्या यज्ञादिरूपत्वं रमाया नारायणस्येति विरुद्धप्रतीत्या वाऽन्वयप्रदर्शनं स्ववचनेन विधाय तत्रेतरत्र च मानमाह ॥ इज्या क्रियेति । इज्या क्रिया यज्ञादेरखण्डकर्म । खण्डानां मध्ये मध्येऽनुष्ठेयानामिज्यादिनाम् इज्यादीनां क्रियाणां तदन्तर्यामिणीति विपरिणतमन्तर्यामीत्यन्वेति । ततस्तस्मादन्तर्यामित्वतः । तत्तच्छब्दैः स्वतः स्वातन्त्र्येण वाच्यौ । न तु सामानाधिकरण्यप्रतीतसर्वस्वरूपतः प्रयोजकात् । तत्रापि विशेषोऽस्तीति भाषते ॥ अन्तर्यामीति । तर्हि तस्यापि कश्चिदस्ति चेत्स किन्नोच्यत इत्यत आह ॥ नेति । क्वापि काले देशे कुतश्चन कस्मादपि हेतोर् इति ब्रह्मतर्कोक्तेर्न कुतर्को युक्तः (इत्यशेष-मतिमङ्गलम् । इति श्रीमत्तात्पर्यभावनवरत्नकोशे एकोनविंशोध्यायः समाप्तश्चायं स्कन्धः) ॥ ततश्च श्लोकार्थः ॥ त्वं सर्वयज्ञस्तदन्तर्यामित्वेन तच्छब्दवाच्यः । इयमिज्या क्रिया । इयं रमा तदन्तर्या-मिणीत्यन्वयः । मुख्यतो भगवान्फलभुगियं भगवती च त्वदनन्तरमिति ज्ञेयम् । यजमानस्त्ववान्तरतया योग्यतामनतिक्रम्य फलभुक् । तद्विषय उभयविषयेऽन्तर्णीतण्यर्थो हि भोजयतीति भुक्शब्द इति च बोध्यम् ॥ ११ ॥
चट्टी
एवम्भूतायास्तस्याः । अधीश्वर इत्यनेन समकक्षतया जगत्कारणत्वं युवामित्यनेन प्रतीतं निराकृतम् ॥ त्वं सर्वयज्ञः सर्वयज्ञान्तर्यामी । इयं श्रीरिज्या क्रियान्तर्यामिणी । इयं क्रिया क्रियान्त-र्यामिणी । भवान् फलभुक् कर्मफलभोक्तृषु स्थित्वा तत्फलभोजकः ॥ ११ ॥
गुणव्यक्तिरियं देवी व्यञ्जको गुणभुग् भवान् ।
त्वं हि सर्वशरीरात्मा श्रीः शरीरेन्द्रियाशया ॥ १२ ॥
पदरत्नावली
सत्वादिगुणानां व्यक्तेः कारणम् । फलव्यञ्जकः । गुणभ•ेक्तरि जीवे स्थित्वा तद्भोजकः । शरीरेन्द्रियाणामभिमानिदेवता ॥ १२ ॥
सत्यधर्म
जडप्रकृतिं द्वारीकृत्य सत्त्वादिगुणानां व्यक्तिर्यया सा तथा । तत्सङ्गोऽङ्गीकृत आसीदस्या इत्यतो नेत्यप्याह ॥ गुणव्यक्तिरिति । गुणानामुक्तरूपाणां विगताऽक्तिः सम्बन्धो यस्याः सा । तत्रापि न स्वतन्त्रं त्वत्कलत्रमित्याह ॥ व्यञ्जक इति ॥ गुणभुक् तत्तच्छुभभोक्ता । सर्वशरीरात्मा सर्वशरीरेष्वादानादिकर्तृतया स्थितः । श्रीश्च श्रीरपि । शरीरेन्द्रियाशया शरीरेन्द्रियेष्वाशयोऽन्तःकरण-मभिमानोऽनभिमानप्रायो यस्याः सा शरीरेन्द्रियाशया तन्नियामकतया तच्छब्दवाच्येति वा । सर्व-शरीरेन्द्रियेष्वाशेत इत्याशयेति वाऽऽशयः । अधिकरणे शेतेरित्यच् ॥ १२ ॥
चट्टी
गुणानां सत्त्वादीनां व्यक्तिरभिव्यक्तिर्भवान्गुणाभिव्यञ्जकः सन् गुणकार्यसुखादिभोजकः । सर्वेषां शरीरिणामात्माऽन्तर्यामी । श्रीस्तु शरीराद्यन्तर्यामी प्रत्ययो नामरूपयोः प्रकाशः । अत्र तत्तदन्तर्यामित्वादेव तत्तच्छब्दवाच्यत्वम् । न तु सर्वाभेदात् ॥ तदुक्तम्– अन्तर्यामी त्वित्यादि ॥१२॥
नामरूपे भगवती प्रत्ययस्त्वमपाश्रयः ।
यथा युवां त्रिलोकस्य वरदौ परमेष्ठिनौ ।
तथेमा उत्तमश्लोक सन्तु सत्या महाशिषः ॥ १३ ॥
पदरत्नावली
नामरूपयोर्गुणहेतुत्वात् श्रियश्च गुणाभिमानित्वान्नामरूपे श्रीरित्युच्यते । प्रत्ययो निश्चयज्ञानं त्वत्प्रसादजनकृत्वम् ॥ १३ ॥
सत्यधर्म
नामरूपे तदभिमानिनीति ते श्रीरुच्येते । अपाश्रय इतराधाररहितः प्रत्ययस्तत्त्व-ज्ञानसाधनत्वेन तत्त्वव्यपदेशः । तथा त्रिलोकस्य विशेषणसमासः । वरदावित्यादि यथा सत्यं तथा । हे उत्तमश्लोक । महाशिष इतरापूरणीयाः सत्याः सन्तु सफला भवन्तु ॥ १३ ॥
चट्टी
न केवलं भवान् यज्ञादीनामेवान्तर्यामी किन्तु सर्वनियामिकायाः श्रियोऽपीत्याह ॥ उपाश्रय इति । उप सर्वाधिकायाः श्रियोऽप्यन्तर्यामित्वेनाश्रय इति भावः ॥ तदुक्तम्– ‘‘अन्तर्यामी श्रिय’’ इत्यादि ॥ युवां त्रिलोकस्य वरदावित्येतद्यथा सत्यं तथा ममाशिषः कामाः सत्याः सन्तु ॥ १३ ॥
इत्यभिष्टूय वरदं श्रीनिवासं श्रिया सह ।
तन्निस्सार्योपहरणं दत्वाऽऽचमनमर्चयेत् ॥ १४ ॥
पदरत्नावली
उपहरणं नैवेद्यं निस्सार्य मोचयित्वा ॥ १४ ॥
सत्यधर्म
उपहरणं निवेदितान्नादिकं वा दर्भास्तरणं वा निःसार्योद्वास्याचमनम् । उत्तरमर्चयेत् । महापुरुषस्य उपसंहारसपर्यां कुर्यात् ॥ १४ ॥
चट्टी
उपहरणं नैवेद्यम् ॥ १४,१५ ॥
ततः स्तुवाना स्तोत्रेण भक्तिप्रह्वेण चेतसा ।
यज्ञोच्छिष्टमवघ्राय पुनरभ्यर्चयेद्धरिम् ॥ १५ ॥
पदरत्नावली
स्तुवाना स्तुतिं कुर्वाणा । यज्ञोच्छिष्टं पूजाशेषम् ॥ १५ ॥
सत्यधर्म –स्तोत्रेण तन्मन्त्रादिना ॥ यज्ञोच्छिष्टं पूजाशेषं पुष्पादिकमवघ्राय पुनर्हरिमर्चयेत् ॥१५॥
पतिं च परया भक्त्या महापुरुषचेतसा ।
प्रियैस्तैस्तैरुपनमेत्१ प्रेमशीलः स्वयं पतिः ॥ १६ ॥
बिभृयात् सर्वकर्माणि पत्न््नया उच्चावचानि च ।
कृतमेकतरेणापि दम्पत्योरुभयोरपि ॥ १७ ॥
पदरत्नावली
महापुरुषो विष्णुरस्मिन् सन्निहित इति बुद्ध्या ॥ पतिः स्वयं यदि पत्न्यां प्रेमशीलस्तर्हि पत्न्यै पत्न्यर्थे उच्चावचानि सर्वकर्माणि पतिर् बिभृयात् । तर्हि तत् पत्नीकृतं न स्यादिति शङ्का मा भूत्, उभयोर्दम्पत्योरेकतरेण कृतमिदं पत्न्याकृतं भवति ॥ १६,१७ ॥
सत्यधर्म
महापुरुषचेतसा महापुरुषो भगवानत्र सन्निहित इति मनसा । लालसा किल सा चेदर्चनेन तदुपसाधनं केन कर्तव्यमित्यतो यथा प्रेमेत्याह ॥ प्रियैरिति । यदि प्रेमशीलः पतिस्तैस्तैः प्रियैर्भार्यापेक्षितैरुपनमेत् । उपयुक्त गृहाणेतिश्शब्दं कुर्यात् ॥ उच्चावचानि नैकप्रकाराणि स्वयं पतिरपि कर्माणि बिभृयात्पूरयेत् । तत्समये पत्न््नयाः साहितीकरणे न प्रत्यवायस्तस्या इति भावः । उच्चावचं नैकभेदमित्यमरः । कदाचिल्लालसायामप्यलसायां केनचिदुपाधिना किं भर्त्रा कार्यमुत त्याज्यमित्याह ॥ कृतमिति ॥ दम्पत्योरुभयोर्मध्ये एकतरेण भर्त्रा वा कलत्रेण वा कृतं कृतमेव न तस्य फलानुपलंभकतेति भावः ॥ १६,१७ ॥
चट्टी
महापुरुषचेतसा भगवानस्मिन्संनिहित इति बुध्द्या पतिं चोपचरेत् । पतिश्च स्वयं प्रेमशीलः सन् पत्न््नयाः कर्माणि बिभृयात् । तदनुकूलो भवेदित्यर्थः । कुत इत्यत आह ॥ कृतमिति । यतो दम्पत्यो- र्मध्ये एकतरेण कृतमुभयोरपि भवति । तस्मादित्यर्थः । यद्वा । उत्तरवाक्यार्थे हेतुरयम् ॥ १६,१७ ॥
पत्न्नयां कुर्यादनर्हायां पतिरेव समाहितः ।
विष्णोर्व्रतमिदं बिभ्रन्न विहन्यात् कथञ्चन ॥ १८ ॥
पदरत्नावली
रजोदर्शनादिनाऽनर्हायां पत्न्यां कथमेदनुष्ठानमन्तरितं घटत इति तत्राह– पत्न्यामिति ॥ १८ ॥
सत्यधर्म
रजोदर्शनादिनाऽनर्हायां हर्यर्हरणानर्हायां पत्न््नयां पतिरेव कुर्यात् । तद्योग्यदिनागमन-पर्यन्तं न स्वयं विष्णोर्व्रतं बिभ्रत्सन् । नाभ्यस्ताच्छतुरिति न नुम् । कथञ्चन कुर्यान्न विहन्यात् ॥ १८ ॥
चट्टी
ननु व्रतमध्ये रजोदर्शनादिनाऽनर्हायां पत्न््नयां कथं तदनुष्ठानमित्यत आह ॥ पत्न््नयामिति । न विहन्यान् न विच्छिन्द्यात् ॥ १८–२० ॥
विप्रान् स्त्रियो वरवतीः स्रग्गन्धबलिमण्डनैः ।
अर्चेदहरहर्भक्त्या देवं नियममास्थिता ॥ १९ ॥
सत्यधर्म
विप्रान्वरवतीः स्त्रियः । देवं च नियममास्थिता भक्त्याऽर्चयेदिति सम्बन्धः ॥ १९ ॥
उद्वास्य देवं स्वे धामि्न तन्निवेदितमग्रतः ।
अद्यादात्मविशुध्द्यर्थं सर्वकामाप्तये तथा ॥ २० ॥
सत्यधर्म
स्वे धामि्न स्वगृहे स्वहृदयरूपगेहे वा । उद्वास्यान्तःस्थापयित्वा । आत्मबिम्बावाहनं कृत्वेति वा । अग्रतस्तद्देवपुरत आत्मविशुद्ध्यर्थं तन्निवेदितं स्वयमद्याद्भक्षयेत् । न केवलं कलेवर-शुद्धिरपि तु सर्वकामाप्तिरपि भवतीत्याह ॥ तथा सर्वकामाप्तय इति ॥ २० ॥
एतेन पूजाविधिना मासान् द्वादश हायनम् ।
नीत्वा चोपरमेत्१ साध्वी कार्तिके चरमेऽहनि ॥ २१ ॥
पदरत्नावली
द्वादशमासान् तदात्मकं हायनं, ‘संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत् समाः’ इत्यभिधानात्, वर्षं नीत्वा कार्तिके मासि चरमेऽहनि अवसानदिवसे ॥ २१ ॥
सत्यधर्म
मासान् द्वादशेत्युक्त्वा व्यासः स्वयमेव क्षयाक्षयमासन्यूनातिरेकशङ्कापराकृत्यै व्याचर्करीति ॥ हायनमिति । ‘‘संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः’’ इत्यमरः । एवञ्च मासास्त्रयोदशसङ्ख्याश्चेतदात्मनि तथैकादशसङ्ख्याश्चेदपि तदात्मके हायने कृतव्रतपूर्तिरेवेति नियमं ज्ञापयामासेति ज्ञेयम् । एवं हायनं नीत्वा गमयित्वा कार्तिके चरमेऽहन्यमायाम् ॥ २१ ॥
चट्टी
द्वादशमासानित्युक्ते कदाचिन्मध्ये मलमासे सति तेन सह द्वादशसङ्ख्यायां सत्यां शुद्धस्यैकस्य त्यागः स्यात् । हायनमित्युक्ते तन्मध्यपातिनस्तस्यापि प्रसङ्गःस्यात् । तदुभयं वारयितु-मुभयमुक्तम् । कार्तिके मासि चरमेऽहनि । अन्तिमे दिवसे । उपचरेत् ॥ २१ ॥
श्वो भूतेऽप उपस्पृश्य कृष्णमभ्यर्च्य पूर्ववत् ।
पयःशृतेन जुहुयाच्चरुणा सह सर्पिषा ।
पाकयज्ञविधानेन द्वादशैवाहुतीः पतिः ॥ २२ ॥
पदरत्नावली
पूर्ववत् पूर्वोक्तार्चनविधिना ॥ २२ ॥
सत्यधर्म
तत्रापि श्वः प्रातर्भूते जाते पूर्ववत्प्रथमदिन इव विधितः पयःशृृतेन क्षीरपक्वेन । श्रापाक इति स्मृतेः । चरुणा हव्यान्नेन सर्पिषा घृतेन सह पाकयज्ञविधानेन द्वादशैवाहुतयः । ‘‘ब्राह्मणान्भोजये-द्भक्त्या त्वन्नाद्यैर्द्वादशात्मवित् । पाकयज्ञविधानेन किं काष्ठेन किं मन्त्रेण किं कालेन कर्तव्यः पाकः’’ इति सूत्राद्युक्तविधानेन द्वादशैवाहुतीर्जुहुयात् । तत्र तस्या नाधिकार इति वेदयितुं वदति ॥ पतिरिति
॥ २२ ॥
चट्टी
श्वो भूते सत्युपस्पृश्य स्नात्वा पयसि श्रुतेन पक्वेन पाकयज्ञविधानेन स्थालीपाकविधानेन
॥ २२ ॥
ब्राह्मणान् भोजयेद् भक्त्या त्वन्नाद्यैर्द्वादशात्मवित् ।
तेभ्यो दद्यात्तिलान् राजन् सोदपात्रान्गुडान्वितान्१ ॥ २३ ॥
पदरत्नावली
द्वादशात्मवित् केशवादिद्वादशमूर्तिलक्षणवेत्ता, ब्राह्मणान् द्वादश, तत्प्रीतये भोजयेदित्यर्थः । सोदपात्रानुदपात्रसहितान् । इडान्वितान् भूमिसहितान् तिलान् । भूमितिलगुडशब्द-वाच्यैः पायसाद्यधिकान्नैर्युक्तानिति वा ॥ २३ ॥
सत्यधर्म
आत्मवित्परमात्मैव ब्राह्मणादिसन्निहित इति वेदिता । अन्नाद्यैर्भक्त्या द्वादश-ब्राह्मणान्भोजयेत् । आधिक्ये पुण्यस्याधिक्यं ध्वनयितुं द्वादशाहुतयो न त्वधिका इति नियन्तुं च निरवधारणसावधारणनिर्देशः कृतो ग्रन्थकृतेति मन्तव्यम् । तेभ्यो भोजनार्थमामन्त्रितेभ्यो गुडान्वितान् गुडो हीक्षुविकारस्तेनान्वितान् । गुडः स्याद्गोलके इक्षुविकारयोरिति विश्वः । सोदपात्रान् एकहलादौ पूरयितव्येऽन्यतरस्यामित्युदादेशः । स्वतन्त्र उदशब्दो वाक्येऽभिहितमभिधानं प्राक् । उदकपात्र-सहितांस्तिलान्दद्यात् ॥ २३ ॥
चट्टी
आत्मविद्ब्रह्मार्पणं ब्रह्महविरित्याद्युक्तप्रकारेण परमात्मानं जानन् । द्वादशब्राह्मणान् भोजयेदित्यर्थः । यद्वा । द्वादशात्मविदित्येकं पदम् । द्वादशनामात्मानं स्वामिनं केशवादिरूपिणं परमात्मानं वेत्तीति तथेत्यर्थः ॥ सोदपात्रान् उदकपूर्णपात्रैः सहितान् । इलान्वितान्भूमिसहितान् । ‘‘गौरिला कुम्भिनी क्षमा’’ इत्यभिधानात् ॥ २३,२४ ॥
आशिषः शिरसाऽऽदाय द्विजैः प्रीतैः समीरिताः ।
प्रणम्य शिरसा भक्त्या भुञ्जीत तदनुज्ञया ॥ २४ ॥
सत्यधर्म
प्रीतैर्द्विजैः समीरिता आशिषो भगवत्प्रीतिपात्रं भवेत्यादिरूपाः शिरसाऽसकृदादाय गृहीत्वा शिरसा भक्त्या प्रणम्य तदनुज्ञया स्वयं भुञ्जीत । न चाकण्ठपूर्ति । श्वासग्रासः कर्तव्य इत्यप्युदीरयति ॥ आभुञ्जीतेति । आङीषदर्थे ॥ २४ ॥
आचार्यमग्रतः कृत्वा वाग्यतः सुसमाहितः ।
दद्यात् पत्न््नयै चरोः शेषं सुप्रजास्त्वं सुसौभगम् ॥ २५ ॥
पदरत्नावली
शोभनं प्रजास्त्वं येन स तथा । शोभनं सौभाग्यं येन स तथा तम् । एतच्चरु-विशेषणम् ॥ २५ ॥
सत्यधर्म
वाग्यतः वाग्यता येन स तथा । सुप्रजास्त्वं व्याख्यातम् । चरोः शेषं स्वभुक्तोर्वरितम्
॥ २५ ॥
चट्टी
सुप्रजास्त्वम् । सत्पुत्रहेतुमित्यर्थः । सुष्टु प्रजाः । यस्मात्तं शेषम् ॥ २५ ॥
एतच्चरित्वा विधिवद् व्रतं विभोरभीप्सितार्थं लभते पुमानिह ।
स्त्रीर्वा तदास्थाय लभेत सौभगं श्रियं प्रजां जीवपतिं यशो गृहान् ॥ २६ ॥
पदरत्नावली
जीवपतिम् आयुष्मन्तं पतिम् । गृहान् गृहाणि ॥ २६ ॥
सत्यधर्म
जीवपतिं जीवत्पतिं गृहान् । गृहाः पुंसि च भूम््नयेवेत्यमरः ॥ २६ ॥
चट्टी
जीवपतिमायुष्मन्तं पतिम् ॥ २६ ॥
कन्याऽपि विन्देत समग्रलक्षणं पतिं त्ववीरा हतकिल्बिषा गतिम् ।
मृतप्रजा जीवसुतान् धनेश्वरी सुदुर्भगा सुभगा रूपमग्य्रम् ॥ २७ ॥
पदरत्नावली
अवीरा पतिरहिता कन्या समग्रलक्षणं पतिं विन्देत लभेत । मृतप्रजा तु जीवत्सुतान् विन्देत ॥ २७ ॥
सत्यधर्म
कन्या व्रतमिदं कुर्याच्चेत्साऽपि समग्रलक्षणं पतिं विन्देत लभेत । वीरो भर्ता तद्रहिता हतकिल्बिषा गतपापा जन्मान्तरे समग्रलक्षणं पतिं विन्देत । तदनन्तरं गतिं भगवल्लोकम् । मृतप्रजा मरिष्यत्तनया । जीवसुतान् जीववदपत्यानि । सुदुर्भगा दरिद्रा धनेश्वरी भवतीति शेषः । सुभगा ज्ञानादिमती
॥ २७ ॥
चट्टी
अवीरा विधवा । हतकिल्बिषा सती गतिं विन्देत । धनेश्वरी सत्यपि या दुर्भगा सा सुभगा भवति । विरूपाऽप्यग्य्रं रूपं विन्देदित्यन्वयः ॥ २७ ॥
विन्देद् विरूपा विरुजो विमुच्यते य आमयावीऽन्द्रियदेहकल्पः ।
एतत् पठन्नभ्युदये च कर्मण्यनन्ततृप्तिं पितृदेवतानाम् ॥ २८ ॥
पदरत्नावली
विरूपा दृष्टिविरुद्धरूपा अग््रयं रूपं विन्देत । इन्द्रियदेहशक्तिरहिता या सा विरुजो विविधरोगान्मुच्यते । अभ्युदये कर्मणि मङ्गलकर्मणि । पितृदेवतानाम् अनन्ततृप्तिमुपैतीति शेषः ॥
भक्तिप्रह्वग्रीवासक्तगतिसमुक्षितः सुरराशिमिमं-
क्षितश्रीब्रह्मप्राणेशप्रमुखविबुधमुकुटतटीघट्टितपादपीठकम् ।
वन्दे लक्ष्मीकान्तं घनरससंवित्साररुचं सरोरुहलोचनं
सत्यज्ञानानन्दाकारं मुदितसुजनसमुदायं मर्दितासुरसंपदम् ॥
शब्दशक्त्यनुसारेण विजयध्वजभिक्षुणा ।
पदरत्नावली भाति षष्ठस्कन्धगता कृता ॥
अनुकूलं यदादिष्टमभून्नारायणस्य ह ।
प्रसादतो लब्धमिदं तदा पुण्यदमस्तु मे ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
षष्ठस्कन्धे एकोनविंशोऽध्यायः ॥
सत्यधर्म
विरूपा कुरूपा । अग्य्रं विन्देद्विन्देत । य आमयावी रोगी । ग्लानग्लासूरामया-वीत्यमरः । आमयोऽस्यास्तीत्यामयावी । आमयस्योपसङ्ख्यानं दीर्घश्चेति वार्तिकादस्मायामेधास्रजो विनिरिति विनौ आमयावीति भवति । विरुजो बहुरोगतो विमुच्यते मुक्तो भवति । न केवलं तावदेव बलमपि भवतीत्याह । इन्द्रियदेहकल्प इन्द्रियैः पृथक् पृथग्देहेनाङ्गेन च कल्पः समर्थश्च भवतीति । अभ्युदये कर्मणि विवाहादिशुभकर्मणि । एतन्मरुज्जन्मप्रतिपादकं पद्यजातं पठन् अनन्ततृप्तिमन्यत्रा-लम्बुद्धिम् । ‘‘तृप्तिरन्यत्रालम्बुद्धिः’’ इति गीताभाष्योक्तेः । केषां पितृदेवतानां पितरश्च देवताश्च तासाम् । विन्देतेत्यन्वयः ॥ २८ ॥
चट्टी
आमयावी रोगी सविरुजः । विविधाद्विशिष्याद्वा रोगाद्विमुच्यते । किञ्चेन्द्रियैः सहितः कल्पः पटुर्देहो यस्य स भवति । अभ्युदये कर्मणि शुभकर्मणि । एतत्पठन् यो वर्तते स पितॄणां देवतानां च । अनन्ततृप्तिं करोतीति शेषः ॥ २८ ॥
तुष्टाः प्रयच्छन्ति समस्तकामान् होमावसाने हुतभुक् श्रीहरिश्च ।
राजन् महन्मरुतां जन्म पुण्यं दितेर्व्रतं चाभिहितं महत् ते ॥ २९ ॥
॥ इति श्रीमद्भागवते षष्ठस्कन्धे एकोनविंशोऽध्यायः ॥
सत्यधर्म
होमावसाने तत्समाप्तौ हुतभुग् हुतवहः श्रीरमा हरिश्च तुष्टाः समस्तकामान्प्रयच्छन्ति । यः पठंस्तस्मा इति शेषः । हे राजन् ते महन्मरुतां जन्म महद्दितेः पुण्यं तत्प्रदं व्रतं चाभिहितं मयेति शेष इत्यशेषमतिमङ्गलम् ॥ २९ ॥
षष्ठतात्पर्यसद्भावनवरत्नखनिं मुनिः ।
वितत्यादर्शयत्तद्गोत्रा सगृह्णातु वाञ्छितम् ॥ १ ॥
न विद्वत्ताभिमत्येदं कृतं विवरणं मया ।
किन्त्वाचार्यवचःसङ्गात्सौवश्रुतशुशुत्सया ॥ २ ॥
महतामहतां नो हि हीयेतामहदर्हणात् ।
उन्मत्तकं किमुन्मत्तो धर्ता धर्ता शिवां शिवः ॥ ३ ॥
अव्यानव्याकृतौ शिक्षातर्ककर्कशतापि नो ।
मीमांसा सा न मीमांसा शुद्धश्रद्धा कृताकृतिः ॥ ४ ॥
गुरुवाणीसुमनसां मध्ये मालं वसन्नसन् ।
तत्तुल्यः कदल्या माल्यः स्याद्गीर्मे पुष्कलबाष्कला ॥ ५ ॥
बद्धोऽहं स्यामवद्धेन किञ्चिच्छुद्धेन शुद्धधीः ।
अगण्यपुण्यो यत्पुण्यं गुरुराप्नोतु सद्गुरुः ॥ ६ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मविरचितायां षष्ठस्कन्धे एकोनविंशोऽध्यायः ॥ ६–१९ ॥
चट्टी
किन्तु हुतभुजादयस्तस्मै समस्तकामान्प्रयच्छन्ति । उपसंहरति ॥ राजन्निति । महत्पुण्यं जन्म महद्गतं चाभिहितम् । इत्यशेषमङ्गलम् ॥ २९ ॥
वाक् प्रसूनकृता चट्टीवेङ्कटाद्रिविपश्चिता ।
ध्रियतां हृदये माला सदये प्रभुणाश्रितः ॥
इति भागवतटिप्पण्यामेकोनविंशोध्यायः ॥ ६–१९ ॥
॥ इति श्रीमद्भागवतटिप्पण्यां सज्जनहिताख्यायां श्रीमद्वेङ्कटाचार्याणां शिष्येण
चेट्टीवेङ्कटाद्रिणा विरचितायां षष्ठःस्कन्धः समाप्तः ॥ ६ ॥
॥ समाप्तोऽयं षष्ठः स्कन्धः ॥
॥ श्रीकृष्णार्पणमस्तु ॥