पृश्निस्तु पत्नी सवितुः सावित्रीं व्याहृतीं त्रयीम्
॥ अथ अष्टादशोऽध्यायः ॥
पृश्निस्तु पत्नी सवितुः सावित्रीं व्याहृतीं त्रयीम् ।
अग्निहोत्रं पशुं सोमं चातुर्मास्यं महामखान् ॥ १ ॥
पदरत्नावली
अस्मिन्नध्याये पूर्वोक्तं सृष्टिशेषं निरूपयति– पृश्निरिति ॥ तुशब्दात् पूर्वस्मात् फलविशेषमाह । सावित्री गायत्र्यभिमानिनीत्युक्तम् । प्रागप्येवमनुसन्धेयम् ॥ १ ॥
सत्यधर्म
दक्षस्त्र्यपत्यान्ववायनिरूपणेऽदित्यपत्यानि द्वादश । ‘‘विवस्वानर्यमा पूषा त्वष्टाऽथ सविता भगः । धाता विधाता वरुणो मित्रः शक्र उरुक्रमः’’ ॥ इति प्रोक्तानि । तत्राष्टमाध्यायान्त-मारभ्यैतदतीताध्यायपर्यन्तं विश्वरूपवृत्रचित्रकेतूपाख्यानैराख्यातस्त्वाष्ट्रो वंश इदानीं सवितुर्वंशं शंसति ॥ पृश्निस्त्विति । व्याहृतित्रयीं ‘‘प्रणवार्था व्याहृतयः । व्याहृतिस्त्रिगुणात्पुनः’’ इत्यादि तन्त्रसारसुधादौ व्याहृतिव्याख्या गायत्रीत्याद्युक्तेर्व्याहृतित्रयार्थीभूतगायत्र्यभिमानिनीं सरस्वतीम् । अग्निहोत्रादिपदेनाभि-मानिनो ग्राह्याः । महामखान् पञ्चमहायज्ञाभिमानिनः प्रासूतेत्यन्वयः ॥ १ ॥
चट्टी –त्वष्टुर्वंशः स संप्रोक्तो वर्णितोऽथ यथाक्रमम् ।
तदन्यादित्यवंशोऽत्र दैत्यवंशश्च वर्ण्यते ॥
दक्षकन्याऽन्वयकथनेऽदित्यां द्वादशपुत्राः प्रोक्ताः । ‘‘विवस्वानर्यमा पूषा त्वष्टाऽथ सविता भगः । धाता विधाता वरुणो मित्रः शक्र उरुक्रमः’’ ॥ इति । तत्र षष्ठाध्यायान्तमारभ्य विश्वरूपवृत्र-चित्रकेतूपाख्यानैस्त्वष्टृवंशमनुवर्ण्येदानीं सवितुर्वंशमाह ॥ पृश्निरिति । सावित्रीमित्यादिषु प्रासूतेत्युत्तर-स्यानुषङ्गः । पशुं पशुयागं महामखान् पञ्चयज्ञान् ॥ १ ॥
सिद्धिर्भगस्य भार्याऽङ्ग महिमानं विभुं प्रभुम् ।
आशिषं च वरारोहां कन्यां प्रासूत सुव्रताम् ॥ २ ॥
सत्यधर्म
भगस्य सिद्धिस्तन्नाम्नी । वरारोहामाशिषं तन्नाम्नीं कन्यामिति वाऽऽशिषं पुमपत्यं सुव्रतां तन्नाम्नीं कन्यां प्रासूत । सर्वत्राप्यभिमानिनो ग्राह्याः । अभिमन्यमानैः सहेति ग्राह्यम् ॥ २ ॥
धातुः कुहूः सिनीवाली राका चानुमतिस्तथा ।
सायं दर्शमथ प्रातः पूर्णमासमनुक्रमात् ॥ ३ ॥
पदरत्नावली
‘चन्द्रे दृष्टे सिनीवाली चन्द्रे नष्टकले कुहूः’ । धातुः क्रियानामभार्या याः कुहूसिनीवाल्याद्यास् ता आधत्त ॥ ३ ॥
सत्यधर्म
धातुः कुहूः सिनीवाल्याद्याश्चतस्रो भार्याः । सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः । कलाहीने साऽनुमतिः पूर्णे राका निशाकर इत्यमरः । सायम्प्रातः पदार्थः पूर्वमुक्तः साभिधानाभिधानमनुसन्धेयः । दर्शपूर्णमासं तन्नामानौ चेति चतुरः पुत्रान्क्रमात्कुहूः । सायं सिनीवाली दर्शं राका प्रातरनुमतिः पूर्णमासमित्यनुक्रमादसूत । दर्शः सूर्येन्दुसङ्गमः । पूर्णमासं पूर्णो माश्चन्द्रो यस्मिन्स तं तदभिमानिनम् । ‘‘माश्चन्द्रः समुदाहृतः’’ इति नामनिधानम् ॥ ३ ॥
चट्टी
धातुर्भार्या कुहूः सायं पुत्रमसूत । एवं सिनीवाली दर्शमित्यनुक्रमादित्यर्थः ॥ ३ ॥
अग्निं पुरीष्यमाधत्त क्रियायां समनन्तरः ।
चर्षणी वरुणस्यासीद् यस्यां जातो भृगुः पुनः ॥ ४ ॥
पदरत्नावली
समनन्तरो विधाता च क्रियायां भार्यायां पुरीषाख्यानग्नीनाधत्त । वरुणनाम्नः सूर्यस्य वारुणी नाम भार्या । पूर्वं ब्रह्मणो जातत्वात् पुनरित्युक्तम् ॥ ४ ॥
सत्यधर्म
समनन्तरस्तत्साक्षाद्भ्राता । विधाता क्रियायां तन्नाम््नयां भार्यायां पुरीष्यं दक्षिणाग्निं प्रोष्यागमनसमयेऽग्निहोत्रिभिर्दक्षिणाग्न्युपस्थापनविषये पठनीये मन्त्रे पुरीष्यपदस्य दक्षिणाशुशुक्षणिरर्थतया व्याख्यातः । मन्त्रस्तु ‘‘अवयमग्निः पुरीष्यो रयिमान्पुष्टिवर्धनः’’ इत्यादि । चर्षणी वरुणस्य । आसीत्पत्नीति शेषः । पुनरित्यनेन पूर्वं चतुराननतनयत्वं सूचयति । पुनरेव वरुणं पितरमुपसासर’’ इति श्रुतिप्रसिद्धिं द्वितीयं जन्म तस्य वरुणत इति ज्ञेयम् ॥ ४ ॥
चट्टी
समनन्तरो विधाता क्रियायां भार्यायां पुरीषाख्यानग्नीन्पञ्चविंशतिम् । ‘‘पुरिष्यासोग्नय’’ इति श्रुतेः, पञ्च वा एतेऽग्नयो याचित इति श्रुतेश्च । चर्षणी वरुणस्य भार्याऽऽसीत् । पूर्वं ब्रह्मणः पुत्रो भृगुर्यस्यां पुनर्जातः ॥ ४ ॥
वाल्मीकिश्च महायोगी वल्मीकादभवत् किल ।
अगस्त्यश्च वसिष्ठश्च मित्रावरुणयोर्ऋषी ॥ ५ ॥
पदरत्नावली
वाल्मीकिश्च वरुणवीर्याद् वल्मीकादभूत् । ब्रह्मजो वसिष्ठश्च पुलस्त्यजोऽगस्त्यश्च द्वौ ऋषी पुनर्मित्रावरुणयोर्जातौ ॥ ५ ॥
सत्यधर्म
वल्मीकाद्वरुणवीर्योत्सिक्ताद्वामलूरोः । ‘‘वल्मीको वामलूरः स्यात्’’ इति विश्वः । ‘‘वामलूरश्च नाकुश्च वल्मीकं पुन्नपुंसकम्’’ इत्यमरः । अपत्यत्वं चौपचारिकम् । इञन्तः । किलेत्यागमसम्मतिं सूचयति ॥ ५ ॥
चट्टी
वाल्मीकिश्च वल्मीकाद्वरुणस्यैव पुत्रो भवेत् । एतौ वरुणस्यैवासाधारणपुत्रौ तथोत्सर्गादयो मित्रस्यासाधारणाः । तयोरेव साधारणौ द्वौ पुत्रावाह ॥ अगस्त्य इति । ब्रह्मजो वसिष्ठश्च । पुलस्त्यजोऽगस्त्यश्च द्वावृषी पुनर्मित्रावरुणयोरभवताम् ॥ ५ ॥
रेतः सिषिचतुः कुम्भे उर्वश्या सन्निधौ द्रुतम् ।
देवत्यां मित्र उत्सर्गमरिष्टं पिप्पलं व्यधात् ॥ ६ ॥
पदरत्नावली
तयोर्जनिप्रकारमाह– रेत इति ॥ उर्वश्या दर्शनात् तत्सन्निधौ द्रुतं स्कन्नं रेतस्तदनन्तरं मित्रावरुणौ कुम्भे सिषिचतुः । तस्मादुभावपि कुम्भसंभवाविति प्रसिद्धिः ॥ ६ ॥
सत्यधर्म
यौ ऊर्वस्या अप्सरस्त्रियः सन्निधौ तद्दर्शनादिति यावत् । द्रुतं स्रुतं रेतः शुक्रं कुम्भे सिषिचतुः । तयोर्मित्रावरुणयोर्मित्रश्च वरुणश्च तयोः । देवताद्वन्द्वे चेत्याङ् । सकाशादगस्त्यो वसिष्ठश्चेति द्वौ ऋषी जाताविति तयोः कुम्भसम्भवत्वं ज्ञेयम् । ‘‘कुम्भे रेतः सिषिचतुः समानम्’’ इति श्रुतेः । मित्रो देवत्यां स्वभार्यायाम् ॥ ६ ॥
चट्टी
यत उभावपि कुम्भे रेतः सिषेचतुः । ‘‘सत्रेहजातादिषितानमोभिः कुम्भे रेतः सिषिचतुः समानम्’’ इति श्रुतेः । द्रुतं स्कन्नम् ॥ ६,७ ॥
पौलोम्यामिन्द्र आधत्त त्रीन् पुत्रानिति नः श्रुतम् ।
जयन्तम् ऋषभं तात तृतीयं मीढुषं प्रभुः ॥ ७ ॥
सत्यधर्म
पौलोम्यां पुलोम्नोऽसुरस्यापत्यं पौलोमी अत एव पौलोम्यपि । तस्यापत्यमित्यण् । गोत्रत्वेन जातित्वात् ङीषिति भानुदीक्षितः । इनण्यनपत्य इत्यतोऽनपत्य इत्यनुवर्तनात् । अन्निति प्रकृतिभावः । तस्यामिन्द्रः शक्रस्त्रीन्पुत्रानाधत्तेति नोऽस्माभिः श्रुतं गुरुतः । तत्राद्यं जयन्तं द्वितीयमृषभं तृतीयं मीढुषमाहुरिति शेषः । अन्यथेतिशब्दसम्बन्धे च जयन्त इतीत्यादिप्रथमत्वस्य क्रमादमुं नारद इत्यबोधीत्यादिवदापत्तेः ॥ ७ ॥
उरुक्रमस्य देवस्य मायावामनरूपिणः ।
कीर्तौ पत्न्नयां बृहछ्लोकास्तस्यासन् सौभगादयः ॥ ८ ॥
सत्यधर्म
माया चेच्छा । सौभगादयः। तस्य वामनस्य सकाशात्कीर्तौ तन्नाम््नयां बृहछ्लोका महायशस आसन् ॥ ८ ॥
चट्टी
बृहछ्लोको नाम पुत्रोऽभवत् । तस्य बृहछ्लोकस्य ॥ ८ ॥
तत्कर्मगुणवीर्याणि कश्यपस्य महात्मनः ।
पश्चाद् वक्ष्यामहेऽदित्यां यथैवावततार ह ॥ ९ ॥
पदरत्नावली
महात्मनः कश्यपस्य पत्न्यामदित्यां यथाऽसावुरुक्रमोऽवततार तत्कर्मादीनि पश्चा-दष्टमस्कन्धे वक्ष्याम इत्यन्वयः ॥ ९ ॥
सत्यधर्म
तस्य वामनस्य । कश्यपस्येति शाटकान्वयेतिवदधुना तदवचनात् । महात्मनः कश्यपाददित्यां यथाऽवततार तत्पश्चादष्टमे वक्ष्यामहे । उरुक्रमस्येत्यादिप्रक्रमणं तु महामङ्गलदान-वान्ववायकीर्तनानर्थनिबर्हणार्थं मङ्गलरूपं तत्रापि झडिति वक्तुं कुण्ठितोत्कण्ठकण्ठतः । आदौ यत्र भागवतः श्रीमानित्यादि श्रीमाञ्छुक उवाचेति भावो ज्ञेयः ॥ ९ ॥
चट्टी
तस्योरुक्रमस्य कर्मादीनि । असौ महात्मनः कश्यपस्य पत्न््नयामदित्यां यथाऽवततार तं प्रकारं पश्चादष्टमस्कन्धे वक्ष्याम इत्यन्वयः ॥ ९ ॥
अथ कश्यपदायादान् दैतेयान् कीर्तयामि ते ।
यत्र भागवतः श्रीमान् प्रह्नादो बलिरेव च ॥ १० ॥
पदरत्नावली
अथ मङ्गलमस्तु । ननु दैत्यवंशवर्णनं किमर्थं क्रियते ? तत्कथनस्य श्रेयःसाधन-तानुपयोगित्वादिति तत्राह– यत्रेति ॥ यत्र दितिसन्ताने । प्रह्लादबलिचरितकीर्तनश्रवणाभ्यां श्रेयः-साधनत्वसम्भवादित्यर्थः ॥ १० ॥
सत्यधर्म
अथादित्यपत्यवचनानन्तरं दैतेयान्दित्या अपत्यानि । कृदिकारादिति ङीषन्तात् स्त्रीभ्य इति ढक् । दित्यदित्येति सूत्रे ह्रस्वान्तस्य ग्रहणम् । लिङ्गविशिष्टपरिभाषा त्वनित्या । अतो ण्यः स्यादिति शङ्काऽनवकाशः । यत्र दैतेयवंशे प्रल्हादो बलिश्च जातौ तान्कीर्तयामीत्यन्वयः ॥ १० ॥
दितेर्द्वावेव दायादौ दैत्यदानववन्दितौ ।
हिरण्यकशिपुर्नाम हिरण्याक्षश्च कीर्तितौ ॥ ११ ॥
सत्यधर्म
दितेर्दायादौ प्रथमोत्पन्नौ । तत्र हिरण्यकशिपुर्ज्येष्ठः किञ्चिद्धिरण्योत्पत्त्यनन्तरं जात-स्ततो हिरण्याक्षस्य पूर्वमूर्वीस्पर्श इति कनिष्ठोऽयमिति यमलयोर्विवेको ज्ञेयः । विस्तृतं चैतत्तृतीय-स्कन्धाष्टादशाध्यायगतयमावित्यादिविवृतौ यादवाचार्यवर्यैः ॥ ११ ॥
चट्टी
दितेर्हिरण्यकशिपुर्हिरण्याक्षश्चेति प्रथमं द्वौ दायादौ पुत्रौ । तौ च कीर्तितौ तृतीयस्कन्धे
॥ ११ ॥
हिरण्यकशिपोर्भार्या कयाधुर्नाम दानवी ।
जम्भस्य तनया दत्ता सुषुवे चतुरः सुतान् ॥ १२ ॥
सत्यधर्म
जम्भस्य तनया दत्ता । तेन हिरण्यकशिपोरिति भार्या । तन्नामाह ॥ कयाधुरिति । नामेति लुप्ततृतीयान्तमव्ययम् ॥ १२ ॥
सह्लादं प्रागनुह्लादं प्रह्लादं ह्लादमेव च ।
तत्स्वसा सिंहिका नाम राहुं विप्रचितोऽग्रहीत् ॥ १३ ॥
पदरत्नावली
विप्रचितः विप्रचितेः सकाशाद् राहुं सुतम् ॥ १३ ॥
सत्यधर्म
तन्नामाह ॥ सल्हादमिति । प्रागित्येतत्प्रल्हादपदेनान्वेतव्यम् । प्राक् प्रह्लादं प्रल्हादा-दनन्तरं सल्हादमनुल्हादं ह्लदमेतांश्चतुरः सुतानसूत । ‘‘प्रल्हादावरजो यः सल्हादो नामतो हरेर्भक्तः’’ इति श्रीमदुक्तेरिव प्रल्हादः पूर्वजस्तेषां सल्हादस्तदनन्तर इत्यादिपर्वणि चोक्तेः । किञ्चासूचयद्ग्रन्थ-कृदपि न सल्हादमिति वदता मयाऽयमेव क्रमो विवक्षितः किन्तु यथामानमेतत्क्रमो ज्ञेय इति सल्हादस्येत्याद्यनन्तरमनुल्हादस्येति वक्तव्ये ह्लादस्य धमनिरिति व्युत्क्रमेण गृह्णान इति मन्तव्यम् । तत्स्वसा तेषां चतुर्णां प्रल्हादादीनां भगिनी सिंहिका नाम्नी विप्रचितो विप्रचितेः सकाशाद्राहुमग्रहीद्गर्भे तज्जातो राहुरिति भावः ॥ १३ ॥
चट्टी
विप्रचितो दानवाद्भर्तुः सकाशाद्राहुं पुत्रमग्रहीत् ॥ १३ ॥
शिरोऽहरद् यस्य हरिश्चक्रेण पिबतोऽमृतम् ।
संह्लादस्य कृतिर्भार्याऽसूत पञ्चजनं ततः ॥ १४ ॥
सत्यधर्म
पुमपत्यशंसनसरणावेतदीरणमुत्तरत्र विविच्यैतद्वचनबीजावापरूपमिति ज्ञेयम् । पिबतो निलीय । ततः सल्हादात् पञ्चजनं नाम्ना ॥ १४ ॥
चट्टी
ततः सल्हादात्पञ्चजनं पुत्रमसूत ॥ १४ ॥
ह्लादस्य धमनिर्भार्याऽसूत वातापिमिल्वलम् ।
योऽगस्त्यायाप्यतिथये पेचे वातापिमिल्वलः ॥ १५ ॥
सत्यधर्म
वातापिं, य इल्वलो वातापिं स्वाग्रजमतिथयेऽगस्त्याय पेचे भोजयामास तमिल्वलं चासूत । अत्रान्यत्र च कथिता कथाऽनुसन्धेया ॥ १५ ॥
चट्टी
यो मेषरूपं वातापिम् । याचेत्तमिल्वलं ययाचे । तं वातापिं चासूतेत्यन्वयः ॥ १५ ॥
अनुह्लादस्य सूर्म्यायां बाष्कलो महिषस्तथा ।
विरोचनस्तु प्राह्लादिर्बलिस्तस्याभवत् किल ॥ १६ ॥
पदरत्नावली
तस्य विरोचनस्य ॥ १६ ॥
सत्यधर्म
बाष्कलस्तथा महिषश्चैतावभूतामित्यन्वयः । प्राह्लादिः प्रल्हादस्यापत्यम् । अत इञितीञ् । तस्य विरोचनस्य ॥ १६ ॥
चट्टी
तस्य विरोचनस्य बलिः सुतोऽभवत् ॥ १६ ॥
बाणज्येष्ठं केतुशतमशनायां ततोऽभवत् ।
तस्यानुभावः१ सुश्लोक्यः पश्चादेवाभिधास्यते ॥ १७ ॥
पदरत्नावली
ततो बलेः । तस्यानुभावः पश्चादष्टमस्कन्धे । अनुभावमिति पाठेऽभिधास्यते वदिष्यति व्यास इति शेषः । अयं जन इति वा ॥ १७ ॥
सत्यधर्म
बाणज्येष्ठमशनायाम् । विन्ध्यावलिस्तदोपेत्य पत्नीजालकमालिनीत्यष्टमोक्तेस्तस्या एवाशनेति नामान्तरमिति मन्तव्यम् । सुश्लोक्यः सु अत्यन्तं कीर्तनीयोऽनुभावो माहात्म्यं पश्चा-दष्टमेऽभिधास्यते मयेति शेषः ॥ १७ ॥
चट्टी
ततो बलेः सकाशात्पुत्रशतमभवत् । सुश्लोक्यः पुण्यकीर्त्याभः । तस्य बलेरनुभावो महात्म्यं पश्चादष्टमस्कन्धेऽभिधास्यते वक्ष्यते ॥ १७ ॥
बाणस्त्वाराध्य गिरिशं लेभे तद्गणमुख्यताम् ।
यत्पार्श्वे भगवानास्ते अद्यापि पुरपालकः ॥ १८ ॥
पदरत्नावली
यस्य बाणस्य पार्श्वे ॥ १८ ॥
सत्यधर्म
तद्ग्रणमुख्यतां पार्वतीपतिपार्षदर्षभत्वं भगवान्पुरहरः पुरपालकः सन् यस्य बाणस्य पार्श्वे पार्श्व इव पार्श्वे समीप इति यावत् । ‘‘पार्श्वः कक्ष्याधरे चक्रोपान्ते’’ इति विश्वः । आस्ते करुणापरवशः ॥ १८ ॥
चट्टी
तस्य गुणेषु मुख्यता प्राधान्यम् । यस्य बाणस्य पार्श्वे ॥ १८ ॥
मरुतश्च दितेः पुत्राश्चत्वारिंशन्नवाधिकाः ।
त आसन्नप्रजाः सर्वे नीता इन्द्रेण सात्मताम् ॥ १९ ॥
पदरत्नावली
सात्मतां समानजातितां सोदरत्वम् ॥ १९ ॥
सत्यधर्म
चत्वारिंशन्नव चेत्येकोनपञ्चाशत्सङ्ख्या मरुतो दितेः पुत्रा आसन् । नवाधिकाश्चेति वा । आधिका आ अत्यन्तमाधिर्यैरिन्द्रस्य त आधयस्त एवाधिका मनोव्यथारूपाः । सर्वे नप्रजा न विद्यते प्रजा येषां ते नप्रजाः । नसमासोऽतो न नञ्दुःसुभ्य इत्यस्य प्राप्तिः । इन्द्रेणोदरनिविष्टेन सात्मतां समानश्च त आत्मानः सात्मानस्तेषां भावो देवत्वम् । सोदरसाम्यं वा नीताः कुलिशेन शकलीकृताः । सात्मतां सप्राणतां नीता इति वा । यद्वक्ष्यति ‘‘चकर्त सप्तधा गर्भम्’’ इत्यादि । सात्मतां सहोरुरितिवत्सौमनस्यं वा ॥ १९ ॥
चट्टी
समानरूपतां देवत्वं प्रापिताः ॥ १९–२१ ॥
राजोवाच—
कथं त आसुरं भावमपोह्यौप्तत्तिकं गुरो ।
इन्द्रेण प्रापिताः साम्यं किं न साधु कृतं हि तैः ॥ २० ॥
पदरत्नावली
साधु पुण्यम् ॥ २० ॥
सत्यधर्म
औत्पत्तिकं स्वभावसिद्धमिन्द्रेण सख्यं प्रापिताः । एतत्प्रापकं तैर्मरुद्भिः किं साधु सुकृतं कृतम् ॥ २० ॥
इमे(ऽ)श्रद्दधते विद्वन् ऋषयो हि मया सह ।
परिज्ञानाय भगवंस्तन्नो व्याख्यातुमर्हसि ॥ २१ ॥
सत्यधर्म
परिज्ञानाय तदर्थं मया सहेमे उपासीना ऋषयः श्रद्धधते विश्वासं कुर्वते । तं तत्प्रकार-माख्यातुमर्हसि । श्रुतमेतावदेवाहं न तद्विदिति तु नेत्याह ॥ विद्वन्निति । इमे मया सह । ओत नञर्थेऽव्ययम् । अ श्रद्धधत इति च पदे न विश्वसन्ति । सहजासुरजातीनां स्वभावापायासम्भवत्वतः । अतः संशयनिरासकज्ञानार्थं भगवन्विद्वन्नो व्याख्यातुमर्हसीति वा । नोश्रद्दधत इति वाऽन्वयः ॥ २१ ॥
सूत उवाच—
तद् विष्णुरातस्य स बादरायणिर्वचो निशम्यादृतमर्थ१वन्मुनिः ।
सभाजयंस्तन्निभृतेन चेतसा जगाद सत्रायण सर्वदर्शनः ॥ २२ ॥
पदरत्नावली
तद् वचः । तन्निभृतेन तस्मिन् स्निग्धेन । सत्रायणः सत्रे प्रधानः सर्वदर्शनः सर्वज्ञः ॥ २२ ॥
सत्यधर्म
आदृतं सम्यक् सादरम् । अल्पकमिति पाठे मिताक्षरमित्यर्थः । अर्थवदत्राभि-प्रायगर्भमुत्तरत्र पुरुषार्थवत्सत्कथात्वात् । तन्निभृतेन तेनैतादृशप्रश्नेन निभृतेन पूर्णेन चेतसा तृणीकृत-मरणोऽयमिति पूर्णान्तःकरणेन । हे सत्रायण सत्रमयनमाश्रयो यस्य तत्सम्बुद्धिः । नारायणशब्द-वण्णत्वम् । शौनक । सर्वदर्शनः सर्वज्ञः सर्व इति शर्व इति दर्शनं यस्येति स तथा । सर्वः शर्वः कालञ्जर इति नामनिधानम् ॥ २२ ॥
चट्टी
सत्रमयनमाश्रयो यस्य । हे सत्रायण शौनक । सर्वदर्शनः सर्वज्ञः । स च बादरायणि-र्मुनिरादृतं सादरमर्थवद्बह्वर्थयुक्तं विष्णुरातस्य परीक्षितस्तद्वचो निशम्य तं विष्णुरातं सभाजयन्स्तुत्या प्रीणयन्निभृतेन हर्षपूर्णेन चेतसा जगादेत्यन्वयः ॥ २२ ॥
श्रीशुक उवाच—
हतपुत्रा दितिः शक्रपार्ष्णिग्राहेण विष्णुना ।
मन्युना शोकदीप्तेन ज्वलन्ती पर्यचिन्तयत् ॥ २३ ॥
पदरत्नावली
पक्षपाततया कर्मकरः पार्ष्णिग्राहस् तेन । शोकसन्दीप्तेन ॥ २३ ॥
सत्यधर्म
हतौ पुत्रौ हिरण्यकशिपुहिरण्याक्षौ यस्याः सा । शक्रपार्ष्णिग्राहेण तत्पाश्चात्य-भागधरता । ‘‘पार्ष्णिः पाश्चात्यभागे स्यात्सेनापृष्टे च’’ इति विश्वः । सहायभूतेनेति यावत् । हरिणा तवौरसाऽसुरसङ्ग्रहणे किममराधिपेनापराद्धं किमर्थमेतद्धन्त्रपत्ययाचनमित्यत आह ॥ पार्ष्णिग्रहेणेति । मुख्यकारणमयमिति भावः ॥ २३ ॥
चट्टी
पार्ष्णिग्राहेण पृष्ठतः सहायेन ॥ २३ ॥
कदा नु भ्रातृहन्तारम् इन्द्रियाराममुल्बणम् ।
अक्लिन्नहृदयं पापं घातयित्वा स्वपे सुखम् ॥ २४ ॥
पदरत्नावली
अक्लिन्नहृदयम् अनार्द्रहृदयम् । स्वपे निद्रां कुर्याम् ॥ २४ ॥
सत्यधर्म
भ्रातृहन्तारमिन्द्रियाराममुल्बणमक्लिन्नहृदयमनार्द्रहृदयं निष्करुणमिति यावत् । उत्पत्स्यमानसूनुतो घातयित्वा स्वस्या अनधिकारादिति रहस्यम् । सुखं यथा तथा स्वपे स्वपिमि । सती सति प्रार्थनीयक्रियाबाहुल्ये यत्स्वप इति दैववशादुदाहृतवतीत्येतदवस्थायामेवेन्द्रस्य दुःखस्यापहारप्रयत्न इति ध्वनयामास व्यास इति मन्तव्यम् ॥ २४ ॥
चट्टी
भ्रातॄणां दैत्यानां हन्तारम् । उल्बणं क्रूरम् । अक्लिन्नहृदयं कठिणचित्तम् ॥ २४ ॥
कृमिविड्भस्मसंज्ञाऽन्ते यस्येशाभिहितस्य वा ।
भूतध्रुक् तत्कृते स्वार्थं किं वेद निरयो यतः ॥ २५ ॥
पदरत्नावली
वाशब्दोऽपिशब्दार्थः । ईशाभिहितस्य ईशोऽहं राजाऽहम् इत्यादिशब्द-वाच्यस्याऽपि यस्य देहान्ते मरणेत्तरकाले क्रिमिविड्भस्मसंज्ञा भवेत् । चिरकालावस्थाने कृमिरिति संज्ञा श्वादिभिर्भक्षिते विट्संज्ञा । वह्निदाहे भस्मसंज्ञा । तत्कृते तस्य देहस्यार्थे भूतध्रुक् सर्वप्राणिहिंसकः स्वार्थं स्वप्रयोजनं किं वेद ? न किमपि वेदेत्यन्वयः । यः स्वार्थं कुरुते स वेद किम् ? ज्ञानवान् किम् ? न भवतीत्यर्थ इति वा । कुत इति तत्राह– निरय इति ॥ निर्गतम् अयम् इष्टप्रदं दैवं यस्मात् स तथा तादृशो भवतीति यतस्तस्मात् । यतः स्वरूपाज्ञानाद्वा, भूतद्रोहाद्वा ॥ २५ ॥
सत्यधर्म
यस्येशाभिहितस्येशोऽहमित्यादिशब्दवाच्यस्य देहस्यान्ते मरणोत्तरं यथायथं कृमिरिति विडिति भस्मेति चिरकालं दग्धृभावे श्वश्वापदाद्यदनेन विष्टा दाहे भसितमिति क्रमात्संज्ञा भवे तत्कृते तादृशशरीरनिमित्तम् । भूतध्रुक् भूतेभ्यो द्रुह्यतीति स तथा । यतो भूतहतेर्निरय ऐहिकं दुर्जन्म दुःखं परत्र नरकादिकं चेति वेद किन्न वेद । वेद चेदेतत्कार्यकारणभावं नैवं कुर्यादिति भावः । एवंविदो मुख्यस्वप्रयोजनज्ञानं नास्तीत्याह ॥ स्वार्थमिति । तात्कालिकं स्वार्थमात्रं वेद । एवं भाविनं स्वार्थं स्वनाशं वेद किमिति योजना वा । स्वार्थं शाश्वतिकमीश्वरदेयं वेद किमिति वा । अस्वार्थं वेदेति वा । तेन किमित्यत आह । यतो निरय इतीति वाऽन्वयः ॥ २५ ॥
चट्टी
ननु तेन स्वदेहरक्षणार्थमन्येषां घातनं करोत्येव किमत्र चित्रम् । तत्राह ॥ कृमीति । ईशः प्रभुरित्यभिहितस्यापि यस्य देहस्यान्ते मरणानन्तरम् । द्वित्रिदिनावस्थितस्य कृमय इति श्वादिभि-र्भक्षितस्य तु विष्टेति । दग्धस्य भस्मेति संज्ञा भविष्यति । तत्कृते तस्य देहस्यार्थे यो भूतेभ्यो द्रुह्यति । स किं स्वार्थं वेद न वेदैव । तत्र हेतुः । यतो भूतद्रुहान्निरयो भवति ॥ २५ ॥
आशासानस्य तस्येदं ध्रुवमुन्नद्धचेतसः ।
मदशोषणमिन्द्रस्य भूयाद् येन सुतो हि मे ॥ २६ ॥
पदरत्नावली
इदं जगद् ध्रुवम् इत्याशासानस्य वाञ्छत उद्धतबुद्धेरिन्द्रस्य मदशोषणं येन सुतेन स्यात् स सुतो मे स्यात् ॥ २६ ॥
सत्यधर्म
तस्य तादृशस्यापि शरीरस्यापि विषये इदं ध्रुवमित्याशासानस्य ज्ञातवतो मघवत उद्घतचेतसो दुर्वृत्तचेतसो (चित्तस्य) मदशोषणं दर्पप्रसरणं येन भूयात्तादृशः सुतो मे भूयात्स्यात् । इदं भवतु मा वेति नापि तु सर्वथा अनेन मम सन्तोष इत्यपि चिन्तयतीत्याह । मदशोषणमिति । मम न विद्यते शोषणं यस्मात्तत्तथा । सुतवितरणं पुष्टिकरमिदमिति भावः । कृमिविडित्यादिना यादृश-शरीरविषय आतुरा तुरासाहं निनिन्द स्वयं पुनस्तदर्थं पुत्रकामिनी कामयमाना पश्यसि परदोषानात्मदोषं नेति विषयतायामायातामात्मनो नानुसन्दध इयमेव हि भागवती मायेति ज्ञेयम् ॥ २६ ॥
चट्टी
इदं देहादिकं ध्रुवं नित्यमाशासानस्य मन्यमानस्य । अत एवमुन्नमुच्छृङ्खलं चेतो यस्य तस्येन्द्रियस्य यो मदस्तस्य शोषणम् । येन सुतेन स्यात् । स सुतो मे भूयात् ॥ २६ ॥
इति भावेन सा भर्तुराचचारासकृत् प्रियम् ।
शुश्रूषयाऽनुरागेण प्रश्रयेण दमेन च ॥ २७ ॥
पदरत्नावली
इति भावेन अभिप्रायेण ॥ २७ ॥
सत्यधर्म
इति भावेन एवं मनसाभिप्रायेणेति वा । शुश्रूषया सेवया । किं वदिष्यतीति श्रोतु-मिच्छया वा । ‘‘शुश्रूषा श्रोतुमिच्छायां परिचर्याकथनयोः’’ इति विश्वः ॥ २७ ॥
चट्टी
इति भावेन सा दितिर्भर्तुः प्रियमसकृदाचचार ॥ २७,२८ ॥
भक्त्या परमया राजन् मनोज्ञैर्वल्गुभाषितैः ।
मनो जग्राह भावज्ञा सुस्मितापाङ्गवीक्षणैः ॥ २८ ॥
सत्यधर्म
मनोज्ञैरपाङ्गवीक्षणैरित्यन्वयः । नेत्रप्रान्तनिरीक्षणैः । तान्यपि न सामान्यानीत्याह ॥ अपाङ्गवीक्षणैरिति । मन्मथोद्रेकसाधनैरिति वा साक्षात्तद्वीक्षणसदृक्षैरिति वा । मनो जग्राह भावज्ञा । अनेन मनोभवप्रादुर्भावस्य कालविलम्बो नास्तीति द्योत्यते । चित्तज्ञाना सुस्मिता मदधीशो मदधीनो जात इति हाससहिता ॥ २८ ॥
एवं स्त्रिया जडीभूतो विद्वानपि विदग्धया ।
बाढमित्याह विवशो नैतच्चित्रं१ हि योषिति ॥ २९ ॥
सत्यधर्म
विदग्धया चातुरीमत्या । एतद् विवशेशवशीकरणं योषिति न चित्रम् । हिना ‘‘अङ्गारसदृशी नारी’’ इत्यादिप्रसिद्धिं द्योतयति ॥ २९ ॥
चट्टी
जडीभावे हेतुद्वयम् ॥ स्त्रियेति ॥ विदग्धयेति च । प्रौढ्येत्यर्थः । विवशः स्त्रीपरवशः सन् बाढं तव मनोरथं पूरयिष्यामीति यदाह । न तच्चित्रं योषिति ॥ २९ ॥
विलोक्यैकान्तभूतानि भूतान्यादौ प्रजापतिः ।
स्त्रियं चक्रे स्वदेहार्धां यया पुंसां मतिर्हृता ॥ ३० ॥
पदरत्नावली
जगदादौ प्रजापतिर्ब्रह्मा भूतान्येकान्तभूतानि परस्परस्नेहरहितानि केवलं मृत्युभूतानि विलोक्य मिथः स्नेहबन्धार्थं स्वशरीरार्धां स्त्रियं चक्रे ससर्जेत्यन्वयः ॥ ३० ॥
सत्यधर्म
इयती शक्तिः कुतो योषितीत्यतस्तदुत्पत्तिरेवमित्याह ॥ विलोक्येति । आदौ जगदादौ प्रजापतिर्वेधा एकान्तभूतानि यस्य कस्यापि यस्मिन्कस्मिंश्चिदपि स्नेहादिर्नैवेति तानि भूतान्येकान्तभूतानि विलोक्य स्वदेहार्धां स्वस्य देहार्धं समांशो यस्याः सा तां स्त्रियं चक्रे । चक्र इत्यात्मनेपदप्रयोगेण तत्फलं पुत्रिकाकामनारूपं लोकदृष्ट्याऽऽत्मन्यपीति सूचयति । चक्रे । अत एव परमप्रयोजनमात्मगामीव मन्यमानस्य भगवतः शास्त्रप्रणयनमिति ज्ञापयितुमात्मनेपदप्रयोग इति सुधोदितेः । कृञ्धातोर्ञित्वाद्वेति मन्तव्यम् । यया योषिता पुंसां मतिर्ह्रता तत्प्राया भवति तामिति ग्रन्थकृदुक्तिरिति वा तातेत्युत्तरत्र सम्बोधनाच्छुकोक्तिरिति वेति नासङ्गतिः ॥ ३० ॥
चट्टी
तत्र हेतुमाह ॥ विलोक्येति । प्रजापतिर्ब्रह्माऽऽदौ सृष्टिकाले । भूतानि प्राणिन एकान्त-भूतानि निःसङ्गानि विलोक्य । मैथुनेन सृष्टिवृद्ध्यर्थं स्वदेहार्धां स्त्रियं चक्रे ससर्जेत्यर्थः । एवं स्त्रिया शुश्रूषितः सन्नाहेत्यन्वयः ॥ ३०,३१ ॥
एवं शुश्रूषितस्तात भगवान् कश्यपः स्त्रिया ।
प्रहस्य परमप्रीतो दितिमाहाभिनन्द्य च ॥ ३१ ॥
सत्यधर्म
अभिनन्द्य ससत्कारमनुमोद्य ॥ ३१ ॥
कश्यप उवाच—
वरं वरय वामोरु प्रीतस्तेऽहमनिन्दिते ।
स्त्रीणां भर्तरि सुप्रीते कः काम इह चागमः ॥ ३२ ॥
पदरत्नावली
भर्त्तरि स्त्रीणामर्थे सुप्रीते सति किं कामः पुरुषार्थो ऽगमः प्राप्तुमशक्य इत्यन्वयः
॥ ३२ ॥
सत्यधर्म
वामोरु सुन्दराङ्के भर्तरि पत्यौ सुप्रीते बहुतुष्टे स्त्रीणां कः कामो विषयोऽगम इव अप्राप्य इव । सर्वं सम्पद्यते काम इति भावः । भर्तरि सुप्रीते कामः काम्यत इति काम इच्छाविषयः । न कोऽपि तत्प्रतीत्युत्तरक्षण एव सर्वः कामः सम्पन्न इति न कामनाविषयोऽवशिष्यत इति भावः । कुत इत्यत आह ॥ चागम इवेति । भर्ता चाय्यत इति चः । यथोक्तमैतरेयभाष्ये । परब्रह्मणो विष्णो-र्वरणादेव सम्यक् चायितं स्वरूपमिति’’ इति । तथैव छान्दोग्यभाष्ये– ‘‘ब्रह्मवर्चसपदव्याख्यावसरे ब्रह्मसम्प्राप्त्या वरतां मुक्तिगामपि’’ इति । वेदेशतीर्थीये च ‘‘चायितं सम्पादितम्’’ इत्यादि । स चासावागमो वृक्षः पूजितः कल्पपादप इति यावत् । आ अगमः समीचीनद्रुमः । असाधारण्यन्यायेन सुरतरुरिवेति वेति ॥ ३२ ॥
चट्टी
इह चकारात्परत्र च । कः कामः पुरुषार्थः । आगम आप्राप्यः ॥ ३२ ॥
पतिरेव हि नारीणां दैवतं परमं स्मृतम् ।
मानसः सर्वभूतानां वासुदेवः श्रियः पतिः ॥ ३३ ॥
पदरत्नावली
ननु ‘तदेतत् प्रेयः’ इति श्रुतेरविगानेन सर्वजनस्य परमेष्टदेवता श्रीधर इति यतः, (अतः)कथं पतिरेव नारीणामिष्टदेवतेति विशिष्योच्यत इति तत्राह– मानस इति ॥ वासुदेवः सर्व-भूतानां मानसः मनसि स्थितः पूज्यः । को वासुदेव इति तत्राह– श्रिय इति ॥ ३३ ॥
सत्यधर्म
दैवतं देवतानां चेति विष्णोरेव परमदैवतत्वेन प्रसिद्धेः कथं पतिः ‘‘नारीणां दैवतं परमम्’’ इत्युक्तिस्तत्रापि स्मृतमिति वचनं चेत्यत आह ॥ मानस इति । सर्वभूतानां मानसो मनसि स्थितोऽत एव वासुदेवशब्दवाच्यः । न वासुदेवोऽयमन्यो यः कोऽपीत्याह ॥ श्रियः पतिरिति । श्रीपतिरिति समसनेन वचनसम्भवे यद्व्यासेन व्यासः शशंस तेन श्रियः पतिरेव पतिस्तत्सन्निधान-निधानत्वेन मदादयस्तदभिधेया इति कश्यपस्याशय इति ध्वनयामासेति ज्ञेयम् । पूर्वं स्मृतम् इत्युदिता स्मृतिरप्येवम्भावेति भावः सूचितोऽनेन ज्ञेयः ॥ ३३ ॥
चट्टी
ननु परदैवते सुप्रीते सर्वकामप्राप्तिरिति सुप्रसिद्धम् । तत्कथमुच्यते भर्तरि सुप्रीत इति । तत्राह ॥ पतिरेवेति । नारीणां परमं दैवतं पतिरेकपत्यावेव सन्निहितं फलदानाय । अतः पत्यौ सुप्रीते तन्निष्ठपरदैवतमपि प्रीयत इति भावः । ननु किं तत्परदैवतं यत्पत्यौ सन्निहितमित्यत आह ॥ मानस इति । सर्वभूतानां मानसो मनसि स्थितः श्रीवासुदेवो लक्ष्मीपतिरेव परमं दैवतमित्यन्वयः ॥ ३३ ॥
स एव देवतालिङ्गैर्नामरूपविकल्पितैः ।
इज्यते भगवान् पुंभिः स्त्रीभिश्च पतिरूपधृक् ॥ ३४ ॥
पदरत्नावली
एतदेव विशदयति– स इति ॥ वासुदेव एव नामरूपाभ्यां विविधत्वेन कल्पितै-र्लिङ्गैर् देवताविग्रहैर् विशेषतः सन्निहितत्वेन स्त्रीभिः पुंभिश्च इज्यते । तत्र स्त्रीभिः पतिसन्निहितत्वेन पूज्यते, तदर्थम्– पतिरूपधृगिति ॥ पुरुषैश्च देवतालिङ्गनामरूपत्वेनेति । लिङ्गं लक्षणं विग्रहश्चोच्यते
॥ ३४ ॥
सत्यधर्म
तदेव विविच्योचे ॥ स इति । पुम्भिर्देवतालिङ्गैर्वज्रधरत्वादिभिरसाधारणलिङ्गैर्नामभि-रिन्द्रादिभिः । रूपैराकारैरिति विकल्पितैः परममुख्यत्ववृत्तित्वविषयैः । विकल्पितैरकल्पितैः सहज-सिद्धैरिति वा । इज्यते । स्त्रीभिश्च पतिरूपधृक् भगवानिज्यत इति सम्बन्धः । देवतारूपैरिति वा ॥३४॥
चट्टी
ननु यदि भगवत्प्रीतिरेव पुरुषार्थसाधनं तर्हि स एव पृथक् सेव्यः । किं पतिसेवयेत्यत आह ॥ स एवेति । स भगवान्पत्यौ रूपविशेषधृगेव स्त्रीभिरिज्यते न पृथगित्यर्थः । अधिष्ठाननियमे दृष्टान्तमाह ॥ देवतेति । अलौकिकार्थैर्नामभिरप्राकृतैः रूपैश्च विविधं कल्पितैरभिव्यक्तैर्देवतानिष्ठै-र्लिङ्गैर्मूर्तिविशेषैरुपलक्षित एव यथा पुंभिरधिकारिविशेषैरिज्यते न पृथक् तद्वदित्यर्थः ॥ ३४ ॥
तस्मात् पतिव्रता नार्यः श्रेयःकामाः सुमध्यमे ।
यजन्तेऽनन्यभावेन पतिमात्मानमीश्वरम् ॥ ३५ ॥
पदरत्नावली
यस्मात् पत्यावाहित ईशस् तस्मात् पतिपूजनेन भगवानेव पूजितः स्यादित्युप-संहरति– तस्मादिति ॥ पतिं पतिस्थम् ॥ ३५ ॥
सत्यधर्म
नैवंविधविधानात्त्वमेकैवैवम् । कामिन्योऽनेका इत्युक्त्योपसंहरति ॥ तस्मादिति । हे सुमध्यमे । याः पतिव्रताः श्रेयस्कामा नार्योऽनन्यभावेनैकनिष्ठया पतिं यजन्ते । यस्मात्स पतिः स्वसन्निहितहरिस्तस्मादात्मानमात्मशब्दवाच्यमीश्वरमेव यजन्ते । एवमनुसन्धाय प्रवर्तमानानां न बन्धायालं संसार इत्याशयः ॥ ३५ ॥
चट्टी
उपसंहरति ॥ तस्मादिति । पतिं पतिस्थमीश्वरं सर्वाभीष्टप्रदानसमर्थम् । आत्मानं परमात्मानम् । अनन्यभावेन न विद्यते ईश्वरादन्यो विषयो यस्य स चासौ भावो भक्तिश्च तेन ॥ तथा चोक्तं भगवता– ‘‘यादृशी मयि भक्तिः स्यात्तादृश्यन्यत्र नैव चेत् । अनन्यभक्तेरुद्रेकात्सा ययैव तरेत्सृतिम्’’ ॥ इति । ‘‘भावो भक्तिः समुद्दिष्टः’’ इति च ॥ ३५ ॥
योऽहं त्वयाऽर्चितो भद्रे ईदृग्भावेन भक्तितः ।
किं ते सम्पादये काममसतीनां सुदुर्लभम् ॥ ३६ ॥
पदरत्नावली
ईदृग्भावेन पतिस्थितः परमात्मा मह्यं प्रसीदत्विति बुद्ध्या ॥ ३६ ॥
सत्यधर्म
योऽहं भगवदनुग्रहपात्रमितीदृग्भावेन भक्तितोऽर्चितः । हे भद्रे तत्तस्मात्ते कामं मनोगतं विषयं सम्पादये सम्पादयामि पूरयामीति यावत् । तत्स्वरूपं निरूपयति । असतीनामपतिव्रतानां सुदुर्लभमत्यशक्यप्राप्तिमिति ॥ ३६ ॥
चट्टी
ईदृग्भावेन हरिरत्र स्थित इति भावनया । पतिमात्मानमीश्वरमित्युक्तत्वात् ॥ तथा चोक्तं सप्तमस्कन्धे– ‘‘या पतिं हरिभावेन भजेच्छ्रीरिव तत्परा । हर्यात्मना हरेर्लोके पत्या श्रीरिव मोदते’’ ॥ इति । तत्तात्पर्ये च– ‘‘हरिरस्मिन् स्थित इति स्त्रीणां भर्तरि भावना । शिष्याणां च गुरौ नित्यं शूद्राणां ब्राह्मणादिषु । भृत्यानां स्वामिनि तथा हरिभाव इतीरितः’’ ॥ इति । असतीनामपतिव्रतानाम् । ‘‘सती साध्वी पतिव्रता’’ इत्यभिधानात् ॥ ३६ ॥
दितिरुवाच—
वरदोऽसि यदि ब्रह्मन् पुत्रमिन्द्रहणं वृणे ।
अमृत्युं मृतपुत्राऽहं येन मे घातितौ सुतौ ॥ ३७ ॥
पदरत्नावली
अमृत्युम् अनश्वरम् ॥ ३७ ॥
सत्यधर्म
यदि वरदोऽसि तर्हीन्द्रहणम् इन्द्रं हन्तीतीन्द्रहा । अन्येभ्योऽपि दृश्यत इति क्विप् । एकाजुत्तरपद इति णत्वम् । इन्द्रहन्तारमिन्द्रघ्नं पुत्रं वृणे । ब्रह्मन्नित्यनेन ‘‘तस्माद्दीक्षितेन सत्यमेव वदितव्यम्’’ इत्याद्यावेदितानृतभाषणदोषज्ञताऽस्तीति न तथा कुर्यादिति सूचयति । मृतपुत्रा काल-मृत्योः । अमर्त्योत्तमः किं तनुयादित्यत आह ॥ येन मे घातितौ सुताविति । ‘‘न मरणमस्य’’ इति वरो देय इत्यर्था यथाऽन्धमेकवारं याचयेति प्रसन्नदेवबोधितोऽहं पौत्रं सुवर्णपात्रे स्थितं चक्षुर्भ्यां पश्येयमित्ययाचतेत्याभाणकमनुकुर्वन्ती प्रार्थयते ॥ अमृत्युं मरणरहितमिति ॥ ३७ ॥
चट्टी
इन्द्रहणमिन्द्रहन्तारम् । अमृत्युं मृत्युशून्यम् । येनेन्द्रेण विष्णुना सहायेन । घातितौ
॥ ३७,३८ ॥
निशम्य तद्वचो विप्रो विमनाः पर्यतप्यत ।
अहो अधर्मः सुमहानद्य मे समुपस्थितः ॥ ३८ ॥
सत्यधर्म
सुमहानधर्मः समुपस्थितः । अहो इति पर्यतप्यतेत्यन्वयः ॥ ३८ ॥
अहो ओन्द्रियारामो योषिन्मय्येशमायया ।
गृहीतचेताः कृपणः पतिष्ये नरके ध्रुवम् ॥ ३९ ॥
सत्यधर्म
इन्द्रियारामः सम्यगिन्द्रियसुखमात्रपरो योषिन्मय्या स्त्र्यात्मिकया । ईशमायया भगव-दिच्छया नरके पतिष्य इत्यन्वतप्यतेत्यन्वयः । यद्यपि तावपि पुत्रावयमपि पुत्रस्तथाऽपि ता वसन्तावयं सन्न तौ मूर्धाभिषिक्तावयं तथेति परस्परं तौ मृतौ मनःपूर्वकं वरं वितार्य मारणं चेत्येतद्विशेषेण नरके पतिष्य इति वचनमुचितमिति भावः ॥ ३९ ॥
चट्टी
कृपणः क्षुद्रः ॥ ३९ ॥
कोऽतिक्रमोऽनुवर्तन्त्याः स्वभावमिह योषितः ।
धिङ् मां बताबुधं स्वार्थे यदहं त्वजितेन्द्रियः ॥ ४० ॥
पदरत्नावली
स्वभावं गुप्तचौर्यभावम् अनुवर्तमानाया अतिक्रमोऽन्यायः । स्वभावं सौशील्य-मनुवर्तन्त्या इति वा ॥ ४० ॥
सत्यधर्म
नास्या उपरि परिपात्यो दोषो, योषित्सामान्यस्वभावोऽसावित्याह ॥ क इति । इह । स्वभावमनुवर्तन्त्या अनुवर्तमानाया योषितोऽतिक्रमो मर्यादाविपर्यासः कः । स्वभावस्तु प्रवर्तत इत्यादेः । अधीतवतोऽपि मम दशेदृशीत्यात्मानं धिक्करोति ॥ धिङ् मामिति । यद्यस्मादहमजितेन्द्रिय इन्द्रियजय-रहितः । इन्द्रमुद्दिश्येत्याद्युक्तेः । नेन्द्रियाणि मद्वशानि किन्त्वेतद्वशानीत्यप्याह ॥ अहं त्वजितेन्द्रिय इति । अहमो भावोऽहन्त्वम् । अभिमान इति यावत् । तेनैव जितानीन्द्रियाणि यस्य सः । अहं त्वेन अन्यगतेन स्त्रीकटाक्षेण जितानीन्द्रियाणि यस्येति वा । तस्मात्स्वार्थेऽबुधमज्ञं मां धिक् । मयैव मम निन्द्यता बत खेद इति भावः ॥ ४० ॥
चट्टी
स्वभावमनुवर्तमानाया योषितः कोऽत्रातिक्रमोऽपराधः । न कोऽपीत्यर्थः ॥ ४० ॥
शरच्चन्द्रोपमं वक्त्रं वचश्च श्रवणामृतम् ।
हृदयं क्षुरधाराभं स्त्रीणां को वेद चेष्टितम् ॥ ४१ ॥
सत्यधर्म
प्रसङ्गादङ्गनास्वभावमावेदयति ॥ शरच्चन्द्रेति । श्रवणेऽमृतं तत्प्रायम् । क्षुरधाराभं तत्सदृशं हृदयं भावं चेष्टितं च को वेद न कोऽपीत्यर्थः । ताश्चैवं कर्त्र्यो बव्ह्य एकोऽपि न ता अतीयायेति बहुवचनैकवचनाभ्यां द्योतयति ॥ ४१ ॥
चट्टी
स्वभावमेवाह ॥ शरदीति द्वाभ्याम् । हृदयं चित्तम् ॥ ४१ ॥
न हि कश्चित् प्रियः स्त्रीणामञ्जसा स्वाशिषात्मनाम् ।
पतिं पुत्रं भ्रातरं वा घ्नन्त्यर्थे घातयन्ति हि ॥ ४२ ॥
पदरत्नावली
स्वार्थे आशीष्षु आत्मा यासां तास्तथा । तासां स्वाशिषमिच्छन्तीनामित्यर्थः
॥ ४२ ॥
सत्यधर्म
आशिषेति टाबन्तः । आशिषासु स्वाशीष्षु आत्मा मनो यासां तासाम् । स्वाशिषा निमित्तेनार्थे विवक्षितविषये आत्मनां जीवानां मध्ये भ्रातरं पुत्रं प्रस्तुतं पतिं घ्नन्ति स्वयं घातयन्त्यन्यैः । हीति माघमाहात्म्यादिप्रसिद्धिं सूचयति । आत्मनामिति कर्मणि षष्ठी । आत्मनोऽपि स्वामपि घ्नन्ति । पतिपुत्रानञ्जसा किम्वित्यर्थो वा ॥ ४२ ॥
चट्टी
स्वाशिषात्मनां स्वार्थकामनयाऽऽत्मवत्पे्रष्टत्वे प्रतीयमानानामित्यर्थः ॥ ४२ ॥
प्रतिश्रुतं ददामीति वचस्तन्न मृषा भवेत् ।
वधं नार्हति चेन्द्रोऽपि तत्रेदमुपकल्पये ॥ ४३ ॥
सत्यधर्म
मम वचो यथा भवेन्न मृषा वृषाऽपि न भवेद्धत इति क्षणं ध्यात्वोभयतः पाशा रज्जुसमा सज्जनादात्मानं वर्जयितुं विदित्वोपायं कञ्चिदुदञ्चयति ॥ प्रतिश्रुतमित्यादिश्लोकत्रयेण । प्रतिश्रुतं प्रतिज्ञातम् ॥ ४३ ॥
चट्टी
इदं वक्ष्यमाणमुपायमुपकल्पये करिष्ये ॥ ४३ ॥
इति संचिन्त्य भगवान् मारीचः कुरुनन्दन ।
उवाच किञ्चित् कुपित आत्मानं च विगर्हयन् ॥ ४४ ॥
सत्यधर्म
किञ्चित् कुपितः स्वधिक्कारमात्रोपयोगिकोपयुक्तः मारीचो मरीचिपुत्रः । कार्यद्वयानु-रूपालोचनं किञ्चित्कपटमूलकं मारीचस्येति तदारभ्य कपटितं प्रति लोकाभाणकं मारीच इति प्रवृत्त इति ज्ञेयम् ॥ ४४ ॥
चट्टी
अयं भावः । वैष्णववृतं तावदुपदेक्ष्यामि । तेनैवास्या अशुद्धचित्ताया इन्द्रक्रोधो निवर्तिष्यते । व्रतवैगुण्येनेन्द्रस्य बाधो न भविष्यतीति ॥ ४४ ॥
कश्यप उवाच—
पुत्रस्ते भविता भद्रे इन्द्रहा देवबान्धवः ।
संवत्सरं व्रतमिदं यद्यञ्जो धारयिष्यसि ॥ ४५ ॥
पदरत्नावली
देवानां बन्धुभूतः ॥ ४५ ॥
सत्यधर्म
इन्द्रहन्तृत्वं देवबान्धवत्वं च विप्रतिषिद्धत्वमुदीरयन्नेतद्भाविगर्भस्थस्तु तादृशो नेत्यभिप्रैतीति मन्तव्यम् । तस्याः समाधानं चेन्द्रहाऽदेवबान्धव इति ज्ञानेनैवेति ज्ञेयम् । अन्यथाऽहमादित्यानां भयावहमिति वक्ष्यमाणं भयावहं स्यात् । अञ्जोऽव्यत्यासेन ॥ ४५ ॥
चट्टी
हे भद्रे । अंजो यथावत् । यदि धारयिष्यसि तर्हीन्द्रहा भविष्यति । वैगुण्ये सति देव-बान्धवो भविष्यति । वैष्णवत्त्वाद्व्रतस्य वैगुण्ये सति सर्वथा नैष्फल्याभावादिति भावः ॥ ४५ ॥
दितिरुवाच—
धारयिष्ये व्रतं ब्रह्मन् ब्रूहि कार्याणि यानि मे ।
यानि चेह निषिद्धानि न व्रतं घ्नन्ति यान्युत ॥ ४६ ॥
सत्यधर्म
निषिद्धानि, तत्फलमालपति ॥ व्रतं घ्नन्तीति ॥ ४६ ॥
चट्टी
कार्याण्यावश्यकानि व्रतं यानि न घ्नन्ति । नावश्यकानि न च निषिद्धानि किं त्वभ्यनु-ज्ञातानि सर्वाण्यपि ब्रूहि ॥ ४६ ॥
कश्यप उवाच—
न हिंस्यात् सर्वभूतानि न शपेन्नानृतं वदेत् ।
न छिन्द्यान्नखरोमाणि न स्पृशेद् यदमङ्गलम्१ ॥ ४७ ॥
सत्यधर्म
न शपेदाक्रोशं न कुर्यात् । अमङ्गलं तैलादि ॥ ४७ ॥
चट्टी
तत्रैकत्रिंशन्निषेधेनाह ॥ न हिंस्यादिति पञ्चभिः । न शपेन्नाक्रोशेत् । अमङ्गलं कपालास्थ्यादि न स्पृशेत् । अपिशब्दो निषेधसमुच्चये ॥ ४७ ॥
नाप्सु स्नायान्न कुप्येत न सम्भाषेत दुर्जनैः ।
न वसीताधौतवासः स्रजं वा विधृतां क्वचित् ॥ ४८ ॥
पदरत्नावली
अधौतवासो ऽनिर्णिक्तवस्त्रं न वसीत नाच्छादयेत् । विधृताम् अन्योपभुक्ताम्
॥ ४८ ॥
सत्यधर्म
अप्स्वनुद्धृतासु । अधौतवासोऽनिर्णिक्तं वस्त्रं न वसीत न परिदध्यात् । स्रजं मालां विधृतां परैः स्वयं पूर्वं च ॥ ४८ ॥
चट्टी
नाप्सु प्रविश्य स्नायात् । अधौतमनिर्णिक्तं वासो वस्त्रं न वसीत नाच्छादयेत् । पूर्वविधृतां स्रजं पुनर्न धारयेत् ॥ ४८ ॥
नोच्छिष्टं चण्डिकान्नं च सामिषं वृषलाहृतम् ।
भुञ्जीतोदक्यया दृष्टं पिबेन्नाञ्जलिना त्वपः ॥ ४९ ॥
पदरत्नावली
चण्डिकान्नं सप्तमातृभ्योऽर्पितमन्नम् । पिपीलिकामक्षिकाभोज्यम् । उदक्यया रजस्वलया ॥ ४९ ॥
सत्यधर्म
उच्छिष्टं पतिव्यतिरिक्तोच्छिष्टम् । चण्डिकान्नं सप्तमातृनिवेदितान्नम् । सामिषं समांसम् । वृषलाहृतं शूद्रेण दृष्टं स्पृष्टं वा । उदक्यया चतुर्थेऽहन्युदकमर्हतीत्युदक्या रजस्वला तया । ऋतु-मत्युदक्याऽपीत्यमरः । अपो जलमञ्जलिना न पिबेत् ॥ ४९ ॥
चट्टी
भोजने पञ्चनिषेधानाह । नोच्छिष्टमिति । चण्डिकान्नं भद्रकाल्यादिशक्तिभ्यो निवेदितं, पिपीलिकादूषितम् । आमिषं मांसम् । जम्बीरादिकं वा । पले जम्बीरमामिषमित्यादेः । तेन सहितमन्नं सामिषम् । वृषलाः शूद्राः कर्मभ्रष्टा वा । ‘‘वृषो धर्मः समुद्दिष्टस्तस्य यः कुरुते लयम् । वृषलं तं विजानीयात्सर्वकर्मसु गर्हितम्’’ ॥ इति भारतवचनात् । तैराहृतमन्नम् । उदक्यया रजस्वलया । अंजलिना तु न पिबेदपः ॥ ४९ ॥
नोच्छिष्टाऽस्पृष्टसलिला सन्ध्ययोर्मुक्तमूर्धजा ।
अनर्चिताऽसंयतवाक् नासंवीता बहिश्चरेत् ॥ ५० ॥
पदरत्नावली
अनर्चिता अलङ्काररहिता । असंवीता प्रावरणादिरहिता ॥ ५० ॥
सत्यधर्म
सन्ध्ययोरुभयोः । नोच्छिष्टाऽस्पृष्टसलिला भोजनानन्तरमन्तरेण करधावनं न बहिरा-गच्छेदिति तदर्थः । मुक्तमूर्धजा प्रसारितकेशा । अनर्चिताऽनलङ्कृता । संयतवाक् पृष्टमात्रोत्तरदा । असंवीता वीतप्रावर्णा बहिः किञ्चिद्गेहबहिः ॥ ५० ॥
चट्टी
गृहाद्बहिर्निर्गमे सप्तनिषेधानाह ॥ नोच्छिष्टेति । अनर्चिता मण्डनहीना । असंवीता अपावृता ॥ ५० ॥
नाधौतपादाऽप्रयता नार्द्रपान्नाप्युदक्शिराः ।
शयीत नापराङ् नान्यैर्न नग्ना न च सन्ध्ययोः ॥ ५१ ॥
पदरत्नावली
अपराक् पश्चिमशिरा न शयीत ॥ ५१ ॥
सत्यधर्म
अधौतपादा अप्रक्षालितचरणा । नाप्रयता नार्द्रपादा उदक्शिरा न शयीत । अपराक् पश्चिमदिशि न शिरः कृत्वा शयीत । तत्राप्येकाकिनीत्याह ॥ नान्यैरपत्यादिभिः सहेति । न नग्ना दिगम्बरा । न सन्ध्ययोः शयीत । एकत्रिंशत्सङ्ख्यानि प्रत्याख्येयानि । तत्र भोजने पञ्च बहिर्निर्गमने सप्त शयनेऽष्टौ, सर्वकालिकानि भूताहिंसादीन्येकादशेति ॥ ५१ ॥
चट्टी
शयनेऽष्टनिषेधानाह ॥ नाधौतपादा इति । नापराक् पश्चिमशिराः । अन्यैः सह ॥५१॥
धौतवासा शुचिर्नित्यं सर्वमङ्गलसंयुता ।
पूजयेत् प्रातराशात् प्राग् गोविप्रान् श्रियमच्युतम् ॥ ५२ ॥
पदरत्नावली
प्रातराशात् प्रातःकालभोजनात् पूर्वम् ॥ ५२ ॥
सत्यधर्म
कार्याण्याह द्वाभ्याम् । धौतवासा सर्वमङ्गलसंयुता हरिद्राकुङ्कुमादिसर्वमङ्गलसंयुता वादित्रादिसंयुता वा । प्रातराशात्प्रातर्भोजनात्प्राक् पूर्वं गोविप्रान् श्रियमच्युतं च पूजयेत् ॥ ५२ ॥
चट्टी
कार्याण्याह ॥ धौतवासा इति द्वाभ्याम् । प्रातराशात्प्रथमभोजनात् ॥ ५२ ॥
स्त्रियो वरवतीश्चार्चेत् स्रग्गन्धबलिमण्डनैः ।
पतिं चार्च्योपतिष्ठेत ध्यायेत् कोष्ठगतं च तम् ॥ ५३ ॥
पदरत्नावली
वरवतीर् भर्तृसहिताः । पतिमभ्यर्च्योपतिष्ठेत स्तुतिं कुर्यात् । पतिस्थितं परमात्मानं ंकोष्ठगतं हृदि गतं ध्यायेत् । स्वबाह्यान्तरगतं वा ॥ ५३ ॥
सत्यधर्म
वरवतीः सुवासिनीः । स्रक्गन्धावलयो मण्डनानि कुङ्कुमकज्जलादीनि तैः पतिं चोपतिष्ठेत । उपान्मन्त्रकरण इत्यात्मनेपदम् । कोष्ठगतं तदन्तर्गतं हृदयनिहितं हरिं ध्यायेत् । अन्तर्बहिरिति स्थानमात्रस्थितं वा ॥ ५३ ॥
चट्टी
वरवतीर् जीवभर्तृका पतिं चार्च्य संपूज्योपतिष्ठेत स्तुतिं कुर्यात् । तं पतिं कोष्ठगतं पुत्ररूपेण कुक्षेरन्तर्गतं ध्यायेत् ॥ तथा च श्रुतिः ॥ आत्मैव पुत्रनामासीति ॥ यद्वा । तं पतिस्थं परमात्मानं कोष्ठगतं हृदयगतं ध्यायेदित्यर्थः ॥ ५३ ॥
संवत्सरं पुंसवनं व्रतमेतदविच्युतम्१ ।
धारयिष्यसि चेत् तुभ्यं शक्रहा भविता सुतः ॥ ५४ ॥
पदरत्नावली
नाम्ना पुंसवनम् ॥ ५४ ॥
सत्यधर्म
पुंसवनं पुंप्रसवहेतुभूतं व्रतम् । अविच्युतमच्छिद्रं संवत्सरं कालं धारयिष्यसि चेत् तुभ्यं तव शक्रहा सुतो भविता ॥ ५४ ॥
चट्टी
पुंसवनं पुत्रोत्पत्तिकरम् । अविच्युतं वैगुण्यरहितम् । तुभ्यं तव ॥ ५४ ॥
श्रीशुक उवाच—
बाढमित्यभ्युपेत्याथ दिती राजन् महामनाः ।
कश्यपाद् गर्भमाधत्त व्रतं चाञ्जो दधार सा ॥ ५५ ॥
सत्यधर्म
अभ्युपेत्याङ्गीकृत्य । अञ्जः पत्युक्तप्रकारेण ॥ ५५ ॥
मातृष्वसुरभिप्रायमिन्द्र आज्ञाय मानद ।
शुश्रूषणेनाश्रमस्थां दितिं पर्यचरत् कविः ॥ ५६ ॥
पदरत्नावली
मातृष्वसुर् मातुरदित्याः स्वसुर्दित्याः ॥ ५६ ॥
सत्यधर्म
मातृष्वसुरदितिभगिन्या दितेः शुश्रूषणे कविः कुशल इन्द्रः । आश्रमस्था नेति नाश्रमस्था सा न भवतीत्यनाश्रमस्था क्वाऽपि न गमनरूपातिशयोनञ्ति द्वयलभ्य इति ज्ञेयम् । तां दितिं पर्यचरत्सिषेव इत्यन्वयः । एवमनन्वये शुश्रूषणेन पर्यचरदित्यनयोरसूपपादोऽर्थ इति मनोदेयम् । शुश्रूष्यतेऽनेनेति शुश्रूषणं वक्ष्यमाणं सेवासाधनं तेनेति वा ॥ ५६ ॥
नित्यं वनात् सुमनसः फलमूलसमित्कुशान् ।
पत्राङ्कुरमृदापश्च काले काल उपाहरत् ॥ ५७ ॥
सत्यधर्म
परिचरणप्रकारं निरूपयति ॥ नित्यमिति । सुमनसः पुष्पाणि । ‘‘स्त्रियः सुमनसः पुष्पम्’’ इत्यमरः । मृद् आआपश्चेति छेदः । स्थाण्डिलादिकरणोपयुक्तां मृदं, आ अपश्च समीचीनोदकानि मृदेति वा छेदः । टाबन्तो वा तृतीयान्तो वा ॥ ५७ ॥
एवं तस्या व्रतस्थाया व्रतच्छिद्रं हरिर्नृप ।
प्रेप्सुः पर्यचरज्जिह्मो मृगहेव मृगाकृतिः ॥ ५८ ॥
सत्यधर्म
व्रतच्छिद्रं नियमव्यत्यासम् । प्रेप्सुर् इच्छुः । मृग व्याधो मृगाकृतिः सन्यथा तं हन्ति तथा जिह्मः कुटिलो गूहितस्वेहित इति यावत् ॥ ५८ ॥
चट्टी
हरिरिन्द्रो व्रतस्य छिद्रं प्रेप्सुः प्राप्तुमिच्छुः । जिह्मः कुटिलः । साधुवेषो मृगहा लुब्धको यथा । मृगवंचनाय मृगवेषो भवति । तद्वदित्यर्थः ॥ ५८ ॥
नाध्यगच्छद् व्रतच्छिद्रं तत्परोऽथ महीपते ।
चिन्तां तीव्रां गतः शक्रः केन मे स्याच्छिवं त्विह ॥ ५९ ॥
सत्यधर्म
शिवं मङ्गलम् । शिवं भद्र इति विश्वः ॥ ५९ ॥
चट्टी
तत्परो व्रतदोषान्वेषणनिष्ठोऽपि नाध्यगच्छत् ॥ ५९ ॥
एकदा सा तु सन्ध्यायामुच्छिष्टा व्रतकर्शिता ।
अस्पृष्टवार्यधौताङ्घ्रिः सुष्वाप विधिमोहिता ॥ ६० ॥
सत्यधर्म
अस्पृष्टवारी अस्पृष्टोदका । विधिमोहिता दैवेन वैचित्यं प्रापिता सुष्वाप ॥६०॥
चट्टी
अस्पृष्टवारी च सा अधौताङ्घ्रिश्च ॥ ६० ॥
लब्ध्वा तदन्तरं शक्रो निद्रोपहतचेतसः ।
दितेः प्रविष्ट उदरं योगेशो योगमायया ॥ ६१ ॥
पदरत्नावली
योगमायया योगसामर्थ्येन ॥ ६१ ॥
सत्यधर्म
तदन्तरं तमवकाशम् । योगमायया योगसामर्थ्येन ॥ ६१ ॥
चट्टी
तदन्तरं तमवकाशम् । निद्रया हृतं चेतो यस्याः । योगमायया योगसामर्थ्येन ॥६१॥
चकर्त्त सप्तधा गर्भं वज्रेण कनकप्रभम् ।
रुदन्तं सप्तधैकैकं मा रोदीरिति तान् पुनः ॥ ६२ ॥
सत्यधर्म
कनकप्रभं सुवर्णवर्णम् । कनकेत्यत्र विपर्यये पितृत्वं न गच्छतीतिवद्गर्भनाशो नास्तीति द्योतनार्थं कनकेत्युक्तिः । गर्भं सप्तधा चिच्छेद । एकैकं रुदन्तं पुनः सप्तधा चकर्तैकैकं प्रातिस्विक्येन । तान्मा त्वं रोदी रोदनं कुर्वित्यब्रवीदिति शेषः ॥ ६२ ॥
चट्टी
मा रोदीरित्युपलालयन्निव तान्पुनरेकैकं सप्तधा चकर्त चिच्छेद ॥ ६२ ॥
ते तमूचुः पीड्यमानाः१ सर्वे प्राञ्जलयो नृप ।
नो जिघांससि किं त्विन्द्र भ्रातरो मरुतस्तव ॥ ६३ ॥
पदरत्नावली
जिघांससि हन्तुमिच्छसि ॥ ६३ ॥
सत्यधर्म
पीड््यमानाः खण्डनेन तमाखण्डलं नोऽस्माञ्जिघांससि हन्तुमिच्छसि । मरुत-स्तन्नामानस्तव भ्रातरः । किन्विति सरलः पाठः किलेत्यर्थे । न वयं तव विद्विष इति वा ॥६३॥
चट्टी
जिघांससि हन्तुमिच्छसि ॥ ६३ ॥
मा भैष्ट भ्रातरो मह्यं यूयमित्याह कौशिकः ।
अनन्यभावान् पार्षदानात्मनो मरुतां गणान् ॥ ६४ ॥
पदरत्नावली
मा भैष्ट भयं मा कुरुध्वम् । कौशिक इन्द्रः, मरुतां गणानाह ॥ ६४ ॥
सत्यधर्म
मह्यं मन्मा भैष्ठ न भीता भवत । कौशिक इन्द्रो मरुतः सप्तगणान्सप्तसप्तकम् । अनन्यभावानेकमनस्कानात्मनः स्वस्य पार्षदान् दासकूटघटितान् । यूयं मम भ्रातरः सौभ्रात्रयुता इत्याहेति सम्बन्धः । ‘‘सप्तगणा वेमे मरुतः’’ इति श्रुतेः ॥ ६४ ॥
चट्टी
मा भैष्ठ मा भयं कुरुध्वम् । कौशिक इन्द्रः । गणाः । ‘‘सप्तगणा वै मरुत’’ इति श्रुतेः
॥ ६४,६५ ॥
न ममार दितेर्गर्भः श्रीनिवासानुकम्पया ।
बहुधा कुलिशक्षुण्णो द्रौण्यस्त्रेण यथा भवान् ॥ ६५ ॥
सत्यधर्म
कुलिशशकलितो गर्भः कथं न ममारोदरान्तर इति परीक्षिच्छङ्कां शुको नेदं चित्रं चित्रचरित्रे भगवति । हे परीक्षित् साक्षी न परीक्षणीयोऽन्यस्त्वामेव त्वं विलोकयेत्याह ॥ न ममारेति । श्रीनिवासानुकम्पया इयत्पर्यन्तं तयाऽऽराधितमाधवदयया द्रौणेरश्वत्थाम्नोऽस्त्रेण ब्रह्मास्त्रेण बहुधा क्षुण्ण इति दृष्टान्ते दार्ष्टान्तिके च कुलिशेनेति विशेषः । ‘‘द्रौण्यस्त्रविप्लुष्टमिदं मदङ्गं सन्तानबीजं कुरुपाण्डवानाम् । जुगोप कुक्षिं गत आत्तचक्रः’’ इत्यादेः ॥ ६५ ॥
सकृदिष्ट्वाऽऽदिपुरुषं पुरुषो याति सात्मताम्१ ।
संवत्सरं किञ्चिदूनं दित्या यद्धरिरर्चितः ॥ ६६ ॥
पदरत्नावली
साम्यतां समानरूपताम् । हरिः श्रीनारायणो दित्या किञ्चिदूनं संवत्सरमर्चितो यदतः साम्यतां यातीति किमु । कुतः ? पुरुषः सकृत् संपूज्य साम्यतां याति तस्मात् ॥ ६६ ॥
सत्यधर्म
कैमुत्येन मरुताममृत्युमाह ॥ सकृदिति । यद्यस्मात्सकृदेकवारमिष्ट्वा सम्पूज्य सात्मतां सारूप्यम् । अनया तु किञ्चिदूनं संवत्सरमर्चितोऽच्युतः सात्मतां सप्राणतां दद्यादिति मुक्तिकालोऽपि बहुलः फलं च लघ्विति न चित्रमिति भावः ॥ ६६ ॥
चट्टी
न ममार दितेर्गर्भमित्येतन्न चित्रमित्याह ॥ सकृदिति । पुरुषो जीवः पुरुषं परमपुरुषं सकृदिष्ट्वाऽपि सात्मतां सारूप्यमपि याति । दित्या च किञ्चिदूनसंवत्सरं हरिरर्चितो यतस्तस्मान्न ममारेति न चित्रमित्यर्थः । यद्वा । मरुतां दितिपुत्रत्वेऽपि देवत्वप्राप्तौ हेतुरनेनोच्यते ॥ ६६ ॥
सजूरिन्द्रेण पञ्चाशद् देवास्ते मरुतोऽभवन् ।
व्यपोह्य मातृदोषं ते हरिणा सोमपा कृताः ॥ ६७ ॥
पदरत्नावली
इन्द्रेण सजूः सह । ‘अश्विभ्यामुषसा सजूः’ इत्यादौ दृष्टत्वात् । हरिणेन्द्रेण । सोमपाः सोमं पिबन्तः ॥ ६७ ॥
सत्यधर्म
एकोनपञ्चाशते शक्र एक इतीन्द्रेण सजूः सह । सजूर्गणेन तृम्पतु । अश्विभ्यामुषसा सजूरित्यादौ तथा व्याख्यातत्वात् । वक्ष्यति च सजूरर्थं ग्रन्थकृदपीन्द्रेण सहितान्देवीति । ननु जुषी प्रीतिसेवनयोरित्यस्मात्सम्पदादिक्विपि समाना प्रीतिः सेवा यस्येति समानशब्दस्य समानस्य छन्दसीति सभावे सहशब्दस्य वोपसर्जनस्येति वा सभावे ससजुषोरिति रुत्वे र्वोरुपधाया दीर्घ इति दीर्घत्वे च निष्पन्नः सजूःशब्दः कथं सहेत्येतन्मात्रार्थक इति चेन्न । ऊर्यादिच्विडाचश्चेति व्याख्या काशिकायां सजूःशब्दः सहार्थे वर्तत इत्युक्तेरत्र रूढ्या सहशब्दार्थकमिदमव्ययमिति ज्ञेयम् । पञ्चाशत्सङ्ख्या देवा मरुतो मरुन्नामानः । मेति रोदीरित्यानुपूर्व्यादिह्नस्वे रुतशब्दाकारलोपे मरुदिति ऋग्भाष्यटीकोक्तेः । पृषोदरीयं सर्वमिदमुदरस्थविषयेऽनुमोदनार्हमिति ज्ञेयम् । मातृदोषं व्यपोह्येति मरुन्मरुत्वपक्षान्वयि । हरिणेन्द्रेण मातृदोषं स्वमारणकारणकुमारार्थं माधवाराधनजं स्वमातृहस्तं व्यपोह तिरस्कृत्येन्द्रेण सजूः पञ्चाशन्मरुतो देवा अभवन्निति तदर्थः । ‘‘भुजबाहू प्रवेष्टो दोः’’ इत्यमरः । मातृदोषं हरिहय-हननसङ्कल्परूपं वा । सोमपास्तत्पानार्हा कृताः ॥ ६७ ॥
चट्टी
इन्द्रेण सजूः सह । हरिणेन्द्रेण दितिसेवितेन विष्णुना वा । मातृदोषं दैत्यत्वं व्यपोह्य परिहृत्य । सोमपाः सोमपानार्हाः कृताः ॥ ६७ ॥
दितिरुत्थाय ददृशे कुमाराननलप्रभान् ।
इन्द्रेण सहितान् देवी पर्यतुष्यदनिन्दिता ॥ ६८ ॥
पदरत्नावली
पर्यतुष्यत् सचेतनत्वात् ॥ ६८ ॥
सत्यधर्म
अनिन्दिता वस्तुतः साधुत्वात् ॥ ६८ ॥
चट्टी
पर्यतुष्यद्गर्भच्छेदेऽपि पुत्राणां मरणाभावादिति भावः ॥ ६८-७० ॥
अथेन्द्रमाह ताताहमादित्यानां भयावहम् ।
अपत्यमिच्छन्त्यचरं व्रतमेतत् सुदुष्करम् ॥ ६९ ॥
पदरत्नावली
आदित्यानाम् अदितिपुत्राणाम् ॥ ६९ ॥
सत्यधर्म
आदित्यानां दित्यदित्येति ण्यः । देवानां सुदुष्करं खलन्तः ॥ ६९ ॥
एकः सङ्कल्पितः पुत्रः सप्तसप्ताभवन् कथम् ।
यदि ते विदितं पुत्र सत्यं कथय मा मृषा ॥ ७० ॥
सत्यधर्म
सप्तसप्त एकोनपञ्चाशत्सङ्ख्याः ॥ ७० ॥
इन्द्र उवाच—
अम्ब तेऽहं व्यवसितमुपधार्यागतोऽन्तिकम् ।
लब्धान्तरोऽच्छिदं गर्भमर्थबुद्धिर्न धर्मवित् ॥ ७१ ॥
सत्यधर्म
हे अम्ब । अम्बार्थनद्योरिति ह्रस्वः । व्यवसितं मद्वचननिश्चयमर्थबुद्धिरैहिकक्षेम-मात्रदृष्टिः । धर्मविन्न पारत्रिकदृष्टिर्न गर्भकर्तनस्य पापप्रापकत्वात् । लब्धान्तर उच्छिष्टास्पृष्ट-सलिलायास्तव शयनाल्लब्धावकाशः ॥ ७१ ॥
चट्टी
दित्या निष्कपटे उक्ते सति इन्द्रोऽपि निष्कपटमेवाह ॥ अम्बेति । लब्धमन्तरमवकाशो येन स तथा । अर्थ एव बुद्धिर्यस्य स तथा ॥ ७१,७२ ॥
कृतो मे सप्तधा गर्भ आसन् सप्त कुमारकाः ।
तेऽपि चैकैकशो वृक्णाः सप्तधा नापि मम्रिरे ॥ ७२ ॥
सत्यधर्म
मे मया । तेऽपि न मम्रिरे ॥ ७२ ॥
ततस्तत् परमाश्चर्यं वीक्ष्याध्यवसितं मया ।
महापुरुषपूजायाः सिद्धिः कार्यानुषङ्गिणी ॥ ७३ ॥
पदरत्नावली
कार्यानुषङ्गिणी कार्यानुकूलं सङ्गमयति ॥ ७३ ॥
सत्यधर्म
श्रीनिवासानुकम्पयेति प्रागुक्तं विविच्य वक्ति ॥ तत इति । तत्परमाश्चर्यं वीक्ष्य कर्तनं प्राणवर्तनं चेति परमाश्चर्यं वीक्ष्य ततोऽनन्तरं महापुरुषपूजायाः सिद्धिः कार्यं स्वरसतो भगवत्क्लृप्तम् । अनुषङ्ग इति स तथेति मया व्यवसितं निश्चितम् ॥ ७३ ॥
चट्टी
अध्यवसायप्रकारमेवाह ॥ महापुरुषेति । महापुरुषस्य भगवतः पूजा यस्य सकाशाद्भवित्री सिद्धिः फलं भवत् प्रसाद इति यावत् । कार्यानुषङ्गिणीं कार्याविनाभूतनियमेनाभिलषितकार्यसाधकः । अतो दितिकृतसेवाजन्यभगवत्प्रसादेन मरुतो न मम्रिर इति भावः ॥ ७३ ॥
आराधनं भगवत ईहमाना निराशिषः ।
ये तु नेच्छन्त्यपि परं ते स्वार्थकुशलाः स्मृताः ॥ ७४ ॥
आराध्यात्मप्रदं देवमात्मानं जगदीश्वरम् ।
को वृणीत गुणस्पर्शं बुधः स्यान्नरकेऽपि यत् ॥ ७५ ॥
पदरत्नावली
फलकामक्रियायोगभाविन्येवंविधा सिद्धिरभूत् किमु निराशीस्त्वेनेति भावेनाह– आराधनमिति । गुणस्पर्शं विषयसुखम् ॥ ७४,७५ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
षष्ठस्कन्धे अष्टादशोऽध्यायः ॥
सत्यधर्म
कामुकविषये हरिपरिचर्यैतादृशी किमु वक्तव्यमकामुकविषय इति वक्तुं तां स्तौति ॥ आराधनमिति । ईहमानास्तदेव माधवाराधनमिच्छन्तो निराशिषोऽफलाभिलाषाः । मोक्षाकाङ्क्षाऽपि नास्तीत्याह । परमुत्तममपि ये नेच्छन्ति ते स्वार्थकुशला अप्रतिहतेहितातिशयितफलसम्पादनपटव इति । स्मृता इत्यनेन समयसम्मतिमदिदं प्रमेयमिति को । बुधो वृणीत न कोऽपि । यदि वृणीत स कः कुत्सित इत्यावृत्यान्वयः गुणस्पर्शं मात्रास्पर्शं वैषयिकं सुखमिति यावत् । यन्नरकेऽपि वर्तते तत् ॥ ७४,७५ ॥
चट्टी
यद्यपि सेवया प्रसन्नो भगवान् सर्वकामान्प्रयच्छति । तथाऽपि निष्कामनया सेव्य इति दितिं कटाक्षीकृत्याह ॥ आराधनमिति द्वाभ्याम् । ये निराशिषो निष्कामा आराधनमीहमानाः कुर्वाणः सन्तः । परमपि परमपुरुषार्थं मोक्षमपि नेच्छन्ति । ते स्वार्थसाधनकुशला इत्यर्थः ॥ आत्मानमपि प्रददातीति तथा । आराध्य गुणस्पर्शं विषयभोगं बुधः को वृणीत । यस्मात्तन्नरकेऽपि स्यात् ॥७४,७५॥
तदिदं मम दौर्जन्यं बालिशस्य महीयसि ।
क्षन्तुमर्हसि मातस्त्वं दिष्ट्या गर्भोऽमृतोत्थितः ॥ ७६ ॥
सत्यधर्म
अकुटिलमानसेन निटिललेखोऽन्यथा भवतीत्यकुटिलमानसां मातरं सहस्राक्षः क्षमापयतीत्याह ॥ तदिति । महीयस्यतिश्रेष्ठे मातर्बालिशस्य । मूर्खस्येत्यवदन्वदंश्च बालिशस्येति बालोऽस्त्यस्मिन्निति बाली तव गर्भस्तस्य शं सुखं बालिन्यास्तव शं क्षेमप्रसवसुखं च येन तस्येति नैरपराध्यं सूचयामासेति ज्ञेयम् । दौर्जन्यं दुर्जनतां क्षन्तुमर्हसि । अमृतः सन् तव गर्भ उत्थितो बहिरुत्पत्तितः । मृत उत्थित उज्जीवितः दिष्ट्या दैवतो दिष्ट्या गर्भस्तत्सदृशोऽहमपि मृतोत्थितः । त्वत्सङ्कल्पेन मृतप्रायो हरिकरुणयोत्थित इति बालिशपदसूचितार्थविवक्षयाऽयमर्थ इति बोध्यम् ॥ ७६ ॥
चट्टी
महीयसि हे महत्तमे । मृतः सन्नुत्थितः । दिष्ट्या मङ्गलम् ॥ ७६–७८ ॥
॥ इति श्रीभागवतटिप्पण्यां चट्टीव्याख्यायां षष्ठस्कन्धे अष्टादशोऽध्यायः ॥ ६–१८ ॥
श्रीशुक उवाच—
इन्द्रस्तयाऽभ्यनुज्ञातः शुक्लभावेन तुष्टया ।
मरुद्भिः सह तां नत्वा जगाम त्रिदिवं प्रभुः ॥ ७७ ॥
सत्यधर्म
शुद्धभावेन मनश्शुद्ध्या तुष्ट्या यथार्थभाषणेन मरुद्भिः सह नत्वा ताम् । तयाऽनुज्ञातस्तैः सह त्रिदिवं जगाम ॥ ७७ ॥
एवं ते सर्वमाख्यातं यन्मां त्वं प्ररिपृच्छसि ।
मङ्गलं मरुतां जन्म किं भूयः श्रोतुमिच्छसि ॥ ७८ ॥
॥ इति श्रीमद्भागवते षष्ठस्कन्धे अष्टादशोऽध्यायः ॥
सत्यधर्म
मङ्गलं मङ्गलप्रदम् ॥ ७८ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मकृतायां षष्ठेऽष्टादशोऽध्यायः ॥ ६–१८ ॥