१७ सप्तदशोऽध्यायः

यतश्चान्तर्हितोऽनन्तस्तस्यै कृत्वा दिशे नमः

॥ अथ सप्तदशोऽध्यायः ॥

श्री शुक उवाच—

यतश्चान्तर्हितोऽनन्तस्तस्यै कृत्वा दिशे नमः ।

विद्याधरश्चित्रकेतुश्चचार गगनेचरः ॥ १ ॥

पदरत्नावली

यथाशास्त्रतत्त्वेन ज्ञातः श्रीनारायणो मुक्तिं ददाति नान्यथा । यथाशास्त्रार्थतत्त्वं योग्यानामेव ज्ञातुं सुशकं नायोग्यानाम् । ‘परोक्षप्रिया इव हि देवाः’ इति श्रुतेः । दुरवगाहं शास्त्रार्थ-तत्वम्, हरेः प्रीतिजनकं तथा प्रतिपादनमित्ययं प्रकारः कथ्यतेऽस्मिन् अध्याये । तत्र चित्रकेतो रुद्राणीशापप्राप्तिप्रकारं वक्तुं तावदाह– यतश्चेति ॥ १ ॥

सत्यधर्म

अत्र भगवान्ज्ञातो ददाति मुक्तिमिति वक्तुं तदुपयुक्तं दर्शयन् चित्रकेतोरियदनन्त-प्रसत्तिमतोऽपि प्रारब्धवशतो शिवशापप्रकारमादौ वदति ॥ यत इति । गगनेचरः । ‘‘हलदन्तात्सप्तम्याः संज्ञायाम्’’ इति सप्तम्या अलुक् । संज्ञात्वविप्रतिपत्तौ ‘‘तत्पुरुषे कृति बहुलम्’’ इत्यलुग्वा । यतो यस्यां दिशि तस्यै दिशे नमः कृत्वा चचारेत्यन्वयः ॥ १ ॥

चट्टी

रुद्रावमानकोपोत्थपार्वतीशापतोऽभवत् ।

चित्रकेतोर्वृत्रजन्मेत्यध्यायेऽस्मिन्निरूप्यते ।

यतो यस्यां तस्यै दिशे नमस्कृत्वा ॥ १ ॥

सलक्षं लक्षवर्षाणामव्याहतबलेन्द्रियः ।

स्तूयमानो महायोगी मुनिभिः सिद्धचारणैः ॥ २ ॥

सत्यधर्म

अव्याहतं बलमिन्द्रियाणि च यस्य । अव्याहतबलानीन्द्रियाणि यस्य स वा ॥ २ ॥

कुलाचलेन्द्रद्रोणीषु नानासङ्कल्पसिद्धिषु ।

रेमे विद्याधरस्त्रीभिर्गापयन्१ हरिमीश्वरम् ॥ ३ ॥

पदरत्नावली

कुलाचलेन्द्रस्य द्रोणीषु निम्नतटीष्वत एव स्त्रीणां पुरुषाणां च नानासङ्कल्पसिद्धिषु

॥ ३ ॥

सत्यधर्म

कुलाचलेन्द्रस्य द्रोण्यो दर्यः । ‘‘द्रोणी काष्ठाम्बुवाहिन्यां ग्रावदर्याम्’’ इति विश्वात् । अत्राचलेन्द्रपदस्य सत्त्वात्केवलदरीमात्रपरता ज्ञेया । सङ्कल्पस्य मनसा सङ्कल्पितस्य सिद्धिर्यासु तासु । सङ्कल्पमात्रेण सिद्धिः फललब्धिर्यासु तासु वा गापयन् गानं कारयन् । अर्तिह्रीत्यादिनादन्तपुक् ॥ ३ ॥

चट्टी

स विद्याधरस्त्रीभिर्हरिं गापयन् रेम इति द्वयोरन्वयः । अव्याहतं बलमिन्द्रियपाटवं च यस्य स तथा । नानाविधाः सङ्कल्पत्वेनैव सिद्धयो यासु । कुलाचलेन्द्रस्य द्रोणिषु निम्नतटेषु ॥ २,३ ॥

एकदा स विमानेन विष्णुदत्तेन भास्वता ।

गिरिशं ददृशे गच्छन् परीतं सिद्धचारणैः ॥ ४ ॥

पदरत्नावली

ततश्च किं प्रकृते ? तत्राह– एकदेति ॥ ४ ॥

सत्यधर्म

विष्णुदत्तेन तन्नाम्ना । अथवाऽनन्तदत्तेन । अनुवादात्प्रागपि वादस्तादृश ऊह्यः । सिद्धचारणैः परिवृतं सिद्धचारणैः सह गच्छन्निति वा ॥ ४ ॥

चट्टी

इदानीं चित्रकेतोरसुरजन्मप्राप्तौ कारणमाह ॥ एकदेत्यादिना ॥ ४ ॥

आलिङ्ग्याङ्कीकृतां१ देवीं बाहुना मुनिसंसदि ।

उवाच देव्यां शृृण्वन्त्यां जहासोच्चैस्तदन्तिके ॥ ५ ॥

पदरत्नावली

दृष्ट्वाऽपि किमभूद् अत्राह– उवाचेति ॥ ५ ॥

सत्यधर्म

अनङ्काऽभूषणरूपा भूषणत्वेन कृताऽङ्कीकृता । ‘‘अङ्कश्चित्रयुद्धे विभूषणे’’ इति विश्वः । ओ कृतामिति पाठो निरङ्कः । अङ्क उत्सङ्गोऽस्यास्तीति सा तथा । अङ्काङ्कत्वेन कृतां तामिति वा । हृदयसंश्लिष्टात्सङ्गत्वात्तथोक्तिरिति वा । तत्रापि मुनिसंसदि तपस्विसभायां तदन्तिके रुद्रसमीपे । उच्चैर्जहासोवाच चेत्यन्वयः ॥ ५ ॥

चट्टी

अंके उत्सङ्गे कृतामुपवेशितां देवीमालिंग्य स्थितमुवाच । तस्यान्तिके स्थितः सन् जहास च ॥ ५ ॥

चित्रकेतुरुवाच–

एष लोकगुरुः साक्षाद् धर्मं१वक्ता शरीरिणाम् ।

आस्ते मुख्यः सभायां वै मिथुनीभूय भार्यया ॥ ६ ॥

सत्यधर्म

साक्षाल्लोकगुरुस्तारकोपदेष्टृत्वात् । न केवलं तावानेवानुबन्धः किन्तु धर्मवक्ता । सभायां मुख्यः प्रधानः सन्नपि भार्यया मिथुनीभूय । ‘‘मिथुनं दम्पतीयुग’’ इति विश्वः। तत्त्वेन भूत्वा

॥ ६ ॥

चट्टी

धर्मं वक्ता वदति । भार्यया मिथुनीभूय चास्ते ॥ ६ ॥

जटाधरस्तीव्रतपा ब्रह्मवादी सतां पतिः ।

ओ कृत्य स्त्रियं चास्ते गतह्रीः प्राकृतो यथा ॥ ७ ॥

सत्यधर्म

कृत्य कृत्वा । प्राकृतो जडो सतां पतिर्नक्षत्राणामधिपतिश्चन्द्रमा ओ चिन्हस्थाने यस्यास्ते स इति वाऽन्वयः । गतह्रीर्निर्लज्जः ॥ ७ ॥

चट्टी

प्राकृतो मूढः ॥ ७ ॥

प्रायशः प्राकृताश्चापि स्त्रियं रहसि बिभ्रति ।

अयं महाव्रतधरो बिभर्ति सदसि स्त्रियम् ॥ ८ ॥

सत्यधर्म

प्राकृता अपि न प्रकृतकृतिकर्तार इति स्वोहनं गूहयति ॥ प्राकृता अपीति ॥ ८ ॥

भगवानपि तच्छ्रुत्वा प्रहस्यागाधधीर्नृप ।

तूष्णीं बभूव सदसि सभ्याश्च तदनुव्रताः ॥ ९ ॥

पदरत्नावली

इदं हीश्वरस्येश्वरत्वं यदन्यैर् असत्कारैर्निर्विकारत्वमित्याशयेन गिरिशस्य क्षमा-प्रकारं वक्ति– भगवानपीति ॥ अगाधधीरन्यैरज्ञातेयत्ताबुद्धिः ॥ ९ ॥

सत्यधर्म

मनोनियन्तुर्नो मनोविकारः सम्भवति भवस्येति भाषते । भगवानपीति । तदनुवृतास् तमनुव्रताः सभ्याः सभाया इति यः । तत्र साधवः । तूष्णीं बभूवेत्येतत्तूष्णीं बभूवुरिति विपरिणतं सदन्वेतीति ज्ञेयम् ॥ ९ ॥

चट्टी

अगाधा गम्भीरा धीर्यस्य स तथा ॥ ९ ॥

इत्यतद्वीर्यविदुषि ब्रुवाणे बह्वशोभनम् ।

रुषाऽऽह देवी धृष्टाय निर्जितात्माभिमानिने ॥ १० ॥

पदरत्नावली

स्त्रीनिमित्तासत्कारपरिहारः स्त्रियैव कार्य इति परमेश्वराभिसान्धिं जानती पार्वती प्रविवक्ति– इतीति ॥ धृष्टाय प्रगल्भाय, निर्जित आत्माभिमान आत्मदर्पो येन स तथा, आत्मविज्ञानं वा येन स तथा, तस्मै ‘अभिमानस्तु विज्ञाने प्रणये दर्पहिंसयोः’ इति यादवः ॥ १० ॥

सत्यधर्म

मन्निमित्तं मन्नाथनिन्दनं मत्तः कृतवानत इतःपरं तूष्णीका अहं चेत्प्रत्यवेयान्नेयादयं दयापात्रं भगवतो निरयं देवकार्यं यत्तद्देवकार्यमिति चार्या विचार्य प्रायश्चित्तरूपोऽस्मै शापो देय इत्यधिककोपमुपाददे देवीति बादरायणिरादरवते महीपतये वदति । इतीति । तद्वीर्यं विद्वान् जानन् जनो नेत्यतद्वीर्यविद्वांस्तस्मिंश्चित्रकेतौ । बह्वशोभनमालिङ्ग्याङ्कीकृतामित्यादिना ब्रुवाणे सति । धृष्टाय वियाताय निर्जितात्माभिमानिने निर्जितोऽपराभावितश्चासावात्मनः स्वस्याभिमानो गर्वश्च सोऽस्यास्तीति स तथा । न बहुव्रीहीत्यादेर्गतिः प्रागुपपादिताऽनुसन्धेया । रुषैतदर्थमुपात्तया देव्याह ॥ १० ॥

चट्टी

न तस्य वीर्यं प्रभावं विद्वान् तस्मिन् । धृष्टाय प्रागल्भाय निर्जितात्माभिमानिने जितेन्द्रियोऽहमित्यभिमानवते रुषा क्रोधेनाह ॥ १० ॥

पार्वत्युवाच—

अयं किमधुना लोके शास्ता दण्डधरः प्रभुः ।

अस्मद्विधानां दुष्टानां निर्लज्जानां च विप्रकृत्१ ॥ ११ ॥

सत्यधर्म

अयं चित्रकेतुः शास्ता शासिता वचनतः । दण्डधरस्ताडनादिना । अधुना दण्डधरो यमः किं तथा प्राप्ताधिकारः किमिति यावदिति वा । निर्लज्जानां दुष्टानामस्मद्विधानां विप्रकृद्विरोधकर्ता ॥११॥

चट्टी

किमयं शास्ता । यतोऽस्मद्विधानां निषेधकृन्निवारको जात इत्यर्थः ॥ ११ ॥

न वेद धर्मं किल पद्मयोनिर्न ब्रह्मपुत्रा भृगुनारदाद्याः ।

न वै कुमारः कपिलो मनुश्च ये नो निषेधन्त्यतिवर्तिनं हरम् ॥ १२ ॥

पदरत्नावली

अयं शापयोग्यापराध इति ज्ञापयितुमित्यभिप्रेत्याह– न वेदेति ॥ अतिवर्तिनम् असम्पज्ञातसमाधित्वेन वर्तमानम् ॥ १२ ॥

सत्यधर्म

पद्मयोनिर्धर्ममेतद्वदन्न वेद किल । किलेत्युपहासः । यदि वेद विधिरेतर्हि मदधियं धिक्कुर्वन्नधिवक्रकार तेनैतज्ज्ञानहीनः स इत्युपहासप्रकारप्रदर्शनम् । एवमुत्तरत्रापि ज्ञेयम् । अतिवर्तिनं हरं ये विध्यादयो नो निषेधन्ति वै । अतस्तेषु वेदधर्मं (वेदावेदितं धर्मं) श्रेयस्तज्ज्ञानं नास्तीति वा । स्याद्धर्ममस्त्रियां पुण्यश्रेयसीत्यमरः । वेदेत्येतद्बहुवचनान्तं सण्यं य इत्यनेनान्वेतीति वा ज्ञेयम् । कुमारः सनत्कुमारः । कपिलो हरेरितरो मुनिर्हरिर्वा । विष्णुर्ब्रह्मेत्याद्युदाहरिष्यमाणप्रमाणगतविष्णुपदस्वारस्यात्

॥ १२ ॥

चट्टी

ब्रह्मादयो धर्मं न विदुः किं यतोऽतिवर्तनं शास्त्रमतिक्रम्य वर्तमानशीलं हरं नो निषेधन्ति न वारयन्तीत्यर्थः ॥ १२ ॥

एषामनुध्येयपदाब्जयुग्मं जगद्गुरुं मङ्गलमङ्गलं स्वयम् ।

यः क्षत्रबन्धुः परिभूय सूरीन् प्रशास्ति धृष्टस्तदयं हि दण्ड्यः ॥ १३ ॥

तात्पर्यम्

एषां पक्षे तदवराणामनुध्येयपदाब्जयुग्मम् । ‘विष्णुब्रह्मप्राणवीन्द्रस्तद्दारानप्यृते हरः । ध्येयो हरेः पार्षदाद्यैर्ध्यायन्हरिचतुर्मुखौ । प्राणमेषां तथा दारान्न स्वतन्त्रतया क्वचित्’ इति तन्त्रमालायाम् ॥ १३ ॥

पदरत्नावली

अनिषेधे कारणमाह– एषामिति ॥ एषां ब्रह्मादीनां पक्षे स्वावराणामिन्द्रादीना-मनुध्येयं पदाब्जयुग्म् । कृद्योगे षष्ठीयम् । नित्यसम्बन्धद्योतनाय वा । (अत्र) तदवराणामित्याचार्यै-र्व्याख्यातम् । इदं किमवलम्ब्योच्यत इति चेन्न । ‘विष्णुब्रह्मप्राणवीन्द्रास्तद्दारानप्यृते हरः । ध्येयो हरेः पार्षदाद्यैर् ध्यायन् हरिचतुर्मुखौ । प्राणमेषां तथा दारान् न स्वतन्त्रतया क्वचित् ॥’ इति वचनबला-श्रयणात् । न तु ब्रह्मादीनामनुध्येयपदाब्जयुग्ममिति, बहुप्रमाणविरोधात् । अत एवास्माभिश्शास्त्रार्थोऽसौ परोक्षत्वेन देवप्रियत्वाद् दुरवगाह इत्यभिहितम् । यस्मादयमपराधी तत् तस्माद् दण्ड्यः ॥ १३ ॥

सत्यधर्म

एषामनुध्येयपदाब्जयुग्ममिति श्लोके प्राक् प्रकृतचतुराननादिध्येयपदतोयजत्वं स्मरहरस्य प्रतीयते सा न सामञ्जस्यं वहतीति किञ्चिदध्याहृत्य तदसङ्गत्यपनुत्त्यै प्रमाणं चोदाहरति ॥ एषां पक्ष इति । एषां चतुराननादीनां सुज्ञानानामिति यावत् । पक्षे मते । तदवराणामित्यध्याहृतस्यानुध्येय-पदाब्जयुग्ममित्यनेनान्वयः । तथा च स्वावरानुध्येयपदाब्जद्वन्द्वमित्यर्थः सम्पन्नो ज्ञेयः । अनेनैषामित्य-नेनान्वयोऽध्याहृतपक्षपदस्येति मन्तव्यम् । यद्वा एषां पक्षे चतुर्मुखाद्येतत्प्रमुखानामिदंपदेन ग्रहणपक्षे प्रसक्ते तदवराणामिति सङ्कोचनीय इदंपदार्थ इत्यर्थः । एतेन पक्ष इत्येव शेषस्तदवराणामिति सामान्यत उत्तमादिसर्वोपस्थापकेदंपदस्य पर्यवसितिसूचकमिति ज्ञेयम् । यद्वा येषामित्यनेनोत्तमग्रहणापेक्षतया अध्याहृततदवराणां ग्रहणपक्षे चेति पक्षेऽनुध्येयपदाब्जयुग्ममित्यत्र मानानुसारेण विग्रहः कर्तव्य इति शेषः । अनुध्येयानि पदाब्जयुग्मानि येन सोऽनुध्येयं पदाब्जयुग्मं यस्य स इति च । दाराः प्रकृत-विष्ण्वादिदारास्तान् । दारपदेन न सौपर्णीपरिग्रहः । शिवावच्छिवसेवायोग्यत्वात् । कांश्चिदुत्तमतया समतया च तदित्युक्तिः । पार्षदाद्यैरिति पाठे स्वावरैरित्यर्थः । पार्षद इति पाठोऽपि हर्षदः । रुद्र-विशेषणम् । न स्वतन्त्रतयेति पक्ष एकस्मिन् हरिं विरहय्येति द्वितीये स्वस्यास्वतन्त्रतयेत्यन्वेति । ननु विध्याद्युपासकत्वेनाधमोपास्यत्वेन यत्पुरौन्नत्यानौन्नत्यकथने भवानी भवानि प्रीयपात्रमिति कथं नानुध्यातवतीति चेन् न । विद्यमानगुणवर्णनस्यैव स्तुतित्वादित्यवेहि ॥ ततश्च पद्ययोजना ॥ सन्तः सततं सम्मानयन्ति यं तमयं वामदेवमवमेन इत्युन्मत्तो दण्ड््य इति वदति ॥ एषामिति ॥ एषां पक्षे तदवराणामनुध्येयपदाब्जयुग्मम् । मूल एभिरिति विहायैषामिति षष्ठीनिर्देशेन सम्बन्धसामान्यं विषयी-कुर्वतोपासकोपास्यत्वानुबन्धं तात्पर्यमूलं सूचितमिति ज्ञेयम् । यद्वा कृत्या नाकृतं रिवेति….. । अनेनैव जगद्गुरुमित्युदितार्थम् । मङ्गलमङ्गलं मङ्गलानां मध्ये मङ्गलम् । अहं तु सर्वमङ्गलाऽयं तु मङ्गलमङ्गल इति मन्त्रार्था भवनयोग्यो भव इत्यभिप्रैति पार्वतीति ज्ञेयम् । यः क्षत्रबन्धुः क्षत्रियाभासः सूरीन् हरानिराकर्तॄन्ज्ञानिनः । ‘‘धीमान्सूरिः कृती कृष्टिः’’ इत्यमरः । परिभूय असमयज्ञत्वेन भावयित्वा तिरस्कृत्य वा । स्वयमित्यनेनानन्य सम्मतिमाह ॥ स्वयं महादैवं महादेवं प्रशास्तीति यत्तत्तस्मादयं चित्रकेतुर्दण्ड््यो दण्डार्हः ॥ १३ ॥

चट्टी

एवं काकूक्त्या विनिंद्य तस्य दण्ड््यत्वं निश्चिनोति ॥ एषामिति । पक्ष इति शेषः । अनुध्येयेत्यतः पूर्वं रुद्रावराणामिति शेषः । यः क्षत्रबन्धुः क्षत्रियाधमः सूरीन् ब्रह्मादीन्परिभूयाज्ञान्कृत्वा एषां पूर्वोक्तानां ब्रह्मादीनां पक्षे रुद्रावराणामनुध्येयं पदाब्जयुगलं यस्य तम् । मङ्गलमङ्गलं परममङ्गलमूर्तिं जगद्गुरुं रुद्रं प्रशास्ति । हि यस्मात्तस्मादयं दण्ड्य इत्यर्थः । अत्र रुद्रस्य ब्रह्मध्येयत्वाभावेन रुद्राणा-मित्यध्याहारो न दोषायेति ज्ञातव्यम् ॥ तथा चोक्तम् ॥ विष्णुब्रह्मेत्यादि तन्त्रमालायाम् ॥ १३ ॥

नायमर्हति वैकुण्ठपादमूलोपसर्पणम् ।

सम्भावितमतिःस्तब्धः१ साधुभिः पर्युपासितम् ॥ १४ ॥

पदरत्नावली

किं दण्डमर्हतीति तत्राह– नायमिति ॥ अनर्हत्वे कारणमाह– सम्भावितात्मेति

॥ १४ ॥

सत्यधर्म

नालीकलोचनां लोचनां चित्ते चकारैवमित्यावेदयति ॥ नायमिति । वैकुण्ठपाद-मूलोपसर्पणं वैकुण्ठस्य नारायणस्य यत्पादमूलं तस्योपसर्पणं प्राप्तिं नार्हति । साधुभिः पर्युपासित-मित्येतस्य पादमूलपदार्थे योग्यतयाऽन्वयः । साधुभिः पर्युपासितं यद्वैकुण्ठपादमूलं तदुपसर्पणमिति तदर्थः । यद्वोपसृप्यत इत्युपसर्पणं पादमूलं च तदुपसर्पणं च । साधुभिः पर्युपासितमिति यथावस्थित-मन्वेति । अयं वैकुण्ठपादमूलं नार्हति चेदर्हति किल पार्वतीत्यत आह । साधुभिः पर्युपासितम् । अप परीवर्जन इत्युक्तेस्तद्वर्जितोपासितं तं निन्दितमिति यावत् । उत्तरदृष्ट्यासुरं जन्मेति शेषः । अर्हतीति । सम्भावितमतिरात्मसम्भावितात्ममतिः । सम्भावितं महादेवं साधुभिः पर्युपासितं हरम् । अतिस्तब्धः प्रशास्तीत्यन्वयो वा । सम्भावितमतिश्चासौ स्तब्धश्चेति पदमेकं वा ॥ १४ ॥

चट्टी

ननु भगवद्भक्तो न दण्डार्ह इति चेत्तत्राह ॥ नायमिति । अयं साधुभिः पर्युपासितं परिसेवितं वैकुण्ठस्य श्रीहरेः पादमूलोपसर्पणं नार्हति । यतः सम्भावितात्माऽहमधिक इति कृता मतिर्येन । अत एवास्तब्धोऽनम्रः ॥ १४ ॥

अतः पापीयसीं योनिमासुरीं याहि दुर्मते ।

यथेह भूयो महतां न कर्ताऽमुत्र किल्बिषम् ॥ १५ ॥

पदरत्नावली

तदर्थं क उपाय इति तत्राह– अत इति ॥ १५ ॥

सत्यधर्म

परोक्षत एवमुत्प्रेक्ष्यापरोक्षतः किञ्चकार त्र्यक्षपद्माक्षीत्यतोऽध्यक्षीकरोति ॥ अत इति । अत एतत्पातकफलत्वेन । अमुत्र मुदं त्रायत इति मुत्रः स न भवतीत्यमुत्रस्तत्सम्बोधनम् । अनन्तोपसत्त्याऽऽयातसन्तोषापालक । महताम् इह एतल्लोके भूयः पुनः किल्बिषं तदापादकमेतदादिकर्म यथा न कर्ता तथा । अथवाऽमुत्र परत्र किल्बिषं तत्फलं न भोक्तेति शेषः । इतरत्समम् ॥ १५ ॥

चट्टी

तदेवं स्वयं दण्ड््यत्वं तं प्रत्याह ॥ अत इति । तत्फलमाह ॥ यथेति । तेनेति शेषः । तेन दण्डेनेहास्मत्समीपे यथा तथा भूयोऽन्यत्र स्थलान्तरेऽतिमहतां किल्बिषमपराधं न कर्ता न करिष्य-तीत्यर्थः ॥ १५,१६ ॥

श्रीशुक उवाच—

एवं शप्तश्चित्रकेतुर्विमानादवरुह्य सः ।

प्रसादयामास सतीं मूर्ध्ना नम्रेण भारत ॥ १६ ॥

पदरत्नावली

शप्तस्य सद्भक्तस्य तदुपसत्तिप्रकारमाह– एवमिति ॥ १६ ॥

सत्यधर्म

नम्रेण मूर्ध्ना सतीमम्बिकाम् । प्रसादनं नैतच्छापापनुत्त्यै किन्तु रुडुन्नहनप्रतिबन्धार्थमिति मन्तव्यम् ॥ १६ ॥

चित्रकेतुरुवाच—

प्रतिगृह्णामि ते शापमात्मनोऽञ्जलिनाऽम्बिके ।

देवैर्मर्त्याय यत् प्रोक्तं पूर्वदिष्टं हि तस्य तत् ॥ १७ ॥

पदरत्नावली

इहामुत्र स्थितानां पूर्वदिष्टं पूर्वजन्मनि यत् पुण्यपापलक्षणं कर्म देवैर्मनुष्याय प्रोक्तं विहितम्, तस्य मर्त्यस्य तत् कर्म ह्येवं सुखदुःखयोः कारणमिति शेषः ॥ १७ ॥

सत्यधर्म

अम्बिके ते तव शापमञ्जलिना गृह्णामि ॥ ॐमिति वदामीति तात्पर्यम् । अम्बिक इत्यनेन माता यदि विषं दद्यादित्यादिनीतिं कटाक्षयतीत्यनुसन्धेयम् । कुत इत्यतः सामान्येन देवमान्यतामाह ॥ देवैरिति । मर्त्याय मनुष्यसदृशातद्विषय इति यावत् । देवैर्यत्प्रोक्तं तत्तस्य मनुष्यस्य पूर्वदिष्टं पूर्वं कारणं दिष्टं दैवं यस्य तत्कारणमदृष्टमित्यर्थः । अनेन न तदपायोपयो विनाऽनुभव-मित्यभिप्रैति ॥ १७ ॥

चट्टी

न मम शापदात्र्यामपि भवत्यां कोपस्तस्य भगवतैव क्लृप्तत्वादित्याह ॥ देवैरिति । यद्वरशापादिकं प्रोक्तं भवति तत्तस्य मर्त्यस्य पूर्वदिष्टं हि प्राचीनकर्मोद्बोधकेन श्रीहरिणा क्लृप्तमेव । ‘‘यत्तद्भगवता क्लृप्तं तदेव नियतं भवेत् । अतोऽन्येषां वरःशापो गुणदोषप्रकर्तृता’’ ॥ इत्यर्थः ॥ १७ ॥

संसारचक्र एतस्मिन् जन्तुरज्ञानमोहितः ।

भ्राम्यन् सुखं च दुःखं च भुङ्क्ते सर्वत्र सर्वदा ॥ १८ ॥

पदरत्नावली

तदेव विशिनष्टि– संसार इति ॥ सर्वत्र जन्मसु ॥ १८ ॥

सत्यधर्म

भगवद्भक्ता यदृच्छयार्छत्सुखदुःखाभ्यां न प्रसीदन्ति न च सीदन्तीति पारोक्ष्येण षड्भिः श्लोकैर्वक्ति ॥ संसारचक्र इति ॥ भ्राम्यन् जन्तुरित्यन्वयः । सर्वत्र प्रतिजन्म ॥ १८ ॥

चट्टी

अयं च संसारचक्रे स्वभाव एव न चित्रमित्याह ॥ संसारचक्र इति ॥ १८ ॥

नैवात्मा न परश्चापि कर्ता स्यात् सुखदुःखयोः ।

कर्तारं मन्यतेऽत्राज्ञ१ आत्मानं परमेव च ॥ १९ ॥

पदरत्नावली

ननु सुखदुःखोत्पत्तौ किं भोक्ता कारणमुतेतर इत्याशङ्क्य यद् भगवता क्लृप्तं तदेव नियतं कर्म कारणं ज्ञानी मन्यते । तत्राज्ञानी स्वमन्यं वा (कारणं) मन्यत इत्याह– नैवेति ॥ आत्मा स्वयं परः स्वस्मादितरः । अं हरिं जानातीति अज्ञः श्रीहरितत्त्वज्ञः परमात्मानमेव मन्यत इति च योजनाऽवगन्तव्या । यत्तद् भगवता क्लृप्तं तदेव नियतं भवेत्’ इति वचनात् ॥ १९ ॥

सत्यधर्म

तर्हीयज्ज्ञानी किमर्थमिममनर्थं सम्पादितवानासीदित्यतो न स्वतन्त्रो जन इत्याह । नैवेति । आत्मा देवदत्तः परो यज्ञदत्तादिः सुखदुःखयोस्तत्साधनकर्मणोः कर्ता न स्यात् । तथाऽप्यत्राज्ञ एतद्विषयज्ञानहीन आत्मानं परं च कर्तारं मन्यत एवेति वा कर्तारमेवेति वैवान्वयः ॥१९॥

चट्टी

ननु यदुक्तं पूर्वदिष्टमिति भगवतः सुखादिकर्तृत्वं तदयुक्तम् । जीवस्यैव तत्कर्तृत्वानु-भवादित्याशङ्क्य सः भ्रान्तिरित्याह ॥ नैवेति । अत्रैवंस्थितेऽपि अप्राज्ञ आत्मानमन्यं च कर्तारं मन्यत इत्यर्थः ॥ १९ ॥

गुणप्रवाह एतस्मिन् कः शापः को न्वनुग्रहः ।

कः स्वर्गो नरकः को वा किं दुःखं सुखमेव च ॥ २० ॥

पदरत्नावली

यत एतं श्रीहरिणा क्लृप्तमायातीत्यतः शापादिप्राप्तौ दुःखादिकं न कार्यमित्याह– गुणेति ॥ गुणप्रवाहे संसारे शापादेः श्रीहरीच्छाधीनप्राचीनसुकृतदुष्कृतयोः कारणत्वात् स्वर्गस्य चानित्याल्पसुखत्वान्नरकस्य किञ्चिद् भुक्त्वा क्षपणसंभवात् सुखादेश्चाल्पत्वादनित्यत्वाच्च । तदुक्तम्– ‘अतोऽन्येषां वरः शापो गुणदोषः प्रकर्तृता । स्वतः प्राप्ता भेदकृतिर्वासनारूपिणो यथा ॥ विद्यमानस्य मनसि पुनः स्वप्नेऽपि दर्शनम् । भगवद्वशता यस्मात् सर्वेषां ज्ञेयमेव तत् ॥’ इति । स्वतः स्वतन्त्राद्धरेः प्राप्ता कर्मणो भेदकृतिः, दृश्यते इति शेषः । अनेनैतदुक्तं भवति– मनसि विद्यमानस्य वासनारूपिणः वस्तुनः स्वप्ने यथा दर्शनं तथा परादनित्यसुखादिदर्शनं स्यात् । न चैतसर्वं स्वाधीनम्, किन्तु हरीच्छाधीनमिति ॥ २० ॥

सत्यधर्म

गुणप्रवाहेऽनुपरतसत्त्वादिगुणकार्ये । अनेन कः शाप इत्यादिसम्भवत्वं सङ्गतमिति ज्ञेयम् । सर्वेषां तत्कर्मानुरोधेनेश्वरपरतन्त्रतया सम्भवन्त्येतानि च फलानीति न क्लेशादिकृत्त्वमिति भावः

॥ २० ॥

चट्टी

शापादेर्भगवन्नियतत्वं न भवत्यां कोप इत्युक्तम् । इदानीमशेषानर्थमूलगुणप्रवाहपतितस्य तदपेक्षया शापादेरल्पत्वान्न तत्प्रयुक्तशोकादिरित्याह ॥ गुणेति । किंशब्द आक्षेपे । गुणानां सत्त्वादीनां प्रवाहे संसारे शापादिकः कियान्न कियानप्यल्प इत्यर्थः ॥ तथा चोक्तम् ॥ ‘‘आक्षिप्यते किमित्ये-तद्यत्राल्पफलता भवेत् । यस्य वस्तुषु चाल्पत्वं पुंसो वा नेति चोच्यते’’ ॥ इति प्रकाशसंहितायाम्

॥ २० ॥

एकः सृजति भूतानि भगवानात्ममायया ।

एषां बन्धं च मोक्षं च सुखं दुःखं च निष्कलः ॥ २१ ॥

पदरत्नावली

ननु हरीच्छादिनियतत्वं शापादेः कस्मात् कल्प्यत इति तत्राह– एक इति ॥ कर्मादिसत्ताऽपि ईशोच्छाधीनेति सूचनाय– एक इति ॥ आत्ममाययेत्यनेनानन्यनियत इति सूचितम्

॥ २१ ॥

सत्यधर्म

स्वातन्त्र्यमीश्वरस्येतरस्यास्वातन्त्र्यमिति स्फुटमाटीकते । एक इति । एषां बन्धं च मोक्षं सुखं दुःखं चेत्येतानि च सृजति तानि च भूतानि सृजतीत्यन्वयः । अन्यथा बन्धं मोक्षमिति निरन्वयि भूयादिति मन्तव्यम् । निष्कलो भिन्नांशविकलः । एक इत्युक्त्या कालकर्मादिकास्वातन्त्र्यं ध्वनयति ॥ २१ ॥

चट्टी

ननु शापादिकं भगवन्नियतमित्युक्तम् । तत्कुत इत्याशङ्क्य तस्यैव सर्वकारणत्वादित्याह ॥ एक इति । भगवानेक एवात्ममायया स्वेच्छया निमित्तभूतया स्वाधीनप्रकृत्या चोपादानभूतया भूतानि प्राणिनः सृजति । एषां बंधादिकं च सृजति । निष्कलः स्वयं बन्धादिशून्य इत्यर्थः ॥ २१ ॥

न तस्य१ कश्चिद् दयितः प्रतीपो न ज्ञातिबन्धुर्न परो न च स्वः ।

समस्य सर्वत्र निरञ्जनस्य कुतोऽनुरागः कुत एव रोषः ॥ २२ ॥

तात्पर्यम्

‘सेवायोग्यातिरेकेण स्वानामपि न दास्यति । अपराधातिरेकेण नान्यस्यातः समो हरिः’ ॥ इति माहात्म्ये ॥ २२ ॥

पदरत्नावली

हरेः समत्वं च स्वभक्तसेवानतिरेकेण फलदातृत्वं शत्रोरप्यपराधानतिरेकेण दण्डकरणत्वम् । ‘सेवायोग्यातिरेकेण स्वानामपि न दास्यति । अपराधातिरेकेण नान्यस्यातः समो हरिः ॥’ इति वचनात् ॥ २२ ॥

सत्यधर्म

न तस्य कश्चिद्दयित इत्याद्ये पद्ये भगवत इष्टद्विष्टसमत्वमुच्यत इत्यन्यथाप्रतीतिं श्लथयति ॥ सेवेति । स्वानामपि सुरादीनां सतामपि सेवायोग्यातिरेकेण तद्योग्यतातिरेकेण तदाधिक्येनेति यावत् । न दास्यति फलमिति शेषः । तथाऽन्यस्य स्वभक्तस्यापराधोत्तरं योग्येति पूर्वोक्तं योग्यपद-मध्याहृत्य योग्यान्वयि । तथा चापराधयोग्यतातिरेकेण न दास्यति यतोऽतः समो हरिरिति योजना भवति । सेवायां योग्यस्तदतिरेकेणेत्यपि केचित् । ‘‘यावत्सेवा परे तत्त्वे तावत्सुखविशेषता’’ इत्यादेः ॥ अथ मूलार्थः । अस्य दयितो दयापात्रं प्रेमपात्रम् । एवमेव प्रतीपादिर् इति । समस्य । न विषमः कुत इति संशयं शमयति । निरञ्जनस्येति निर्गतोऽञ्जनेभ्यो दोषेभ्यो द्वेषादिभ्य इति स तथा तस्य । वैषम्यस्याञ्जनमूलकस्य तदभावादेवाभाव इति भावः ॥ २२ ॥

चट्टी

नन्वेवं भूतविषमसृष्टौ तस्य किं कारणम् । प्रियादिवैषम्याभावादित्याशङ्क्य यद्यपि प्रियादयो न सन्ति । तथाऽपि तत्तद्योग्यताकर्मवशात्सर्वं घटत इत्याह ॥ न तस्येति द्वाभ्याम् । प्रतीपोऽप्रियो न । ज्ञातिर्बन्धुश्चेत्यर्थः । तत्र हेतुः । सर्वत्र समस्य । तत्कुतः । निरंजनस्य निःसङ्गस्य । अत एव तन्निमित्ते सुखे रागो नास्ति । रागानुबन्धी तु रोषः कुतः स्यात् ॥ २२ ॥

तथाऽपि तच्छक्तिविसर्ग एषां सुखाय दुःखाय हिताहिताय ।

बन्धाय मोक्षाय च मृत्युजन्मनोः शरीरिणां संसृतये च कल्पते ॥ २३ ॥

पदरत्नावली

यद्यपि विशेषतोऽनुरागादिकं नास्ति । तथाऽपि तस्य हरेः शक्तेर्विसर्गो विशिष्ट-स्वभाव एषां जीवानां सुखाद्यर्थे कल्पत इत्यन्वयः । यद्यपि भगवानेव मुख्यकर्ता, तथाऽपि तेषां पूर्वकर्मणां शक्तीनां विविधसर्गः समूह एषां शरीरिणामिति वा ॥ २३ ॥

सत्यधर्म

तथाऽपि साम्येऽपि तच्छक्तिविसर्गस्तस्य हरेः शक्तिर्विचित्राः शक्तयोऽस्य हीत्याद्यावेदितास्तस्या विसर्गो लीलामूलक एतत्कर्ममूलक आविर्भावः । हिताहिताय हितेन सहितमहितं वृद्धिसहिताऽवृद्धिस्तस्मै । हि गतौ वृद्धौ चेति स्मरणात् । हितं चाहितं च हिताहितं विप्रतिषिद्धं चेत्येकवद्भावो वा । एतेन सुखाय दुःखायेत्यनेन सुखेन विशेषः सम्पादित इति ज्ञेयम् । येषां शरीरिणामित्यन्वयः । इति संसृतये अथ मोक्षाय च कल्पत इत्यन्वयः । बन्धाय निबन्धाय तमसि तामसानामिति वा । निबन्धाय संसृतये मोक्षाय चेत्येतत्क्रमादधममध्यमोत्तमाधिकारिविवक्षया फलत्रित-योक्तिरिति वा ॥ २३ ॥

चट्टी

यद्यप्येवं तथाऽपि तस्य भगवतः शक्तया सामर्थ्येन नियतो विसर्गः पुण्यपापादिलक्षणं कर्म । ‘‘भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः’’ इति गीतावचनात् । किञ्च विविधः सात्विकादि-लक्षणो विसर्गो निसर्गः । स्वभावयोग्यतेति यावत् । येषां शरीरिणां सुखाद्यर्थमेव कल्पते समर्थो भवतीत्यर्थः । भगवतो योग्यताद्यनुसारेणैव फलप्रदत्वात्समत्वं न विहन्यते । वैषम्यनैर्घृण्ये न सापेक्षत्त्वा-त्तथाहि दर्शयतीति सूत्रादिति भावः ॥ तथा चोक्तम्– ‘‘सेवायोग्यातिरेकेण स्वानामपि न दास्यति । अपराधातिरेकेण नान्यस्यातः समो हरिः’’ ॥ इति । भगवतो योग्यतादिपारतन्त्र्यपरिहाराय तच्छक्ती-त्युक्तम् । न च पुनर्वैषम्याद्यापातः । तादृशवैषम्यादेरिष्टत्वात् । उपपद्यते चाप्युपलभ्यते चेति सूत्रादिति भावः ॥ तथा चोक्तं– ‘‘वैषम्यं निर्घृणत्वं च वेदाप्रामाण्यकारणम् । नाङ्गीकार्यमतोऽन्यत्तु न वैषम्यादिनामकम्’’ ॥ इति ॥ २३ ॥

अथ प्रसादये न त्वां शापमोक्षाय भामिनि ।

यन्मन्यसे असाधूक्तं मम तत् क्षम्यतां सति ॥ २४ ॥

पदरत्नावली

अथ तस्मादीश्वराधीनत्वात् । तर्हि किमाकाङ्क्षसीति तत्राह– यदिति ॥ २४ ॥

सत्यधर्म

अस्तु वस्तुतः सर्वं वस्तु भगवदधीनं मां प्रति किं वदसीत्यत एतावदर्थनीयमित्याह ॥ अथेति । शापदानानन्तरम् । हे भामिनि । शापविमोक्षाय विशापं दत्वा मां मोचयेतीति यावत् । त्वां न प्रसादये । अपराधस्य महत्त्वात्तन्महाफलम् । भगवत्क्लृप्तेऽन्यथा भवत्यपि न कर्तुं शक्तेति किमर्थमनयेति भावः । हे सति मम मया यदुक्तमसाधु मन्यसे तत्क्षम्यताम् ॥ २४ ॥

चट्टी

यत एवमथ तस्मात् । तस्मादथो अथेत्येतद्धेत्वर्थे समुदीरितमित्यभिधानात् । हे भामिनि । कोपने त्वां केवलं प्रसादयामि । न तु शापमोक्षाय । तर्हि किं प्रसादेनेत्यत आह ॥ यदिति । यद्यस्मान्ममोक्तमुक्तिमसाधु मन्यसे । तत्तस्मात्त्वया क्षम्यतामिति प्रसादयामीत्यन्वयः । तत्र भवत्या मनसि कोपादिवृत्तौ ज्ञानादिविलोपलक्षणो महाननर्थो भविष्यतीत्यतस्त्वां प्रसादयामीति भावः ॥२४॥

बादरायणिरुवाच—

इति प्रसाद्य गिरिशौ चित्रकेतुररिन्दम ।

जगाम स्वविमानेन पश्यतोः स्मयतोस्तयोः ॥ २५ ॥

सत्यधर्म

भार्याकोपेन कोपस्तच्छान्त्या च शान्तिः पत्युरिति गिरिशावित्याद्युक्तिः । गिरिशा च गिरिशश्चैवमुत्तरत्रापि पुमेकशेषो ज्ञेयः । स्मयतोः स्मयमानयोः सतोः ॥ २५ ॥

चट्टी

गिरिशौ पार्वतीपरमेश्वरौ प्रसाद्य स्मयतोर्विस्मयं कुर्वतोः ॥ २५ ॥

ततस्तु भगवान् रुद्रो रुद्राणीमिदमब्रवीत् ।

देवर्षिदैत्यसिद्धानां पार्षदानां च शृण्वताम् ॥ २६ ॥

सत्यधर्म

ततश्चित्रकेतुगमनानन्तरं रुद्रो रुद्राणीं पार्वतीमिदं वक्ष्यमाणमब्रवीत् । इयत्यनर्थे वा कान्तामेकामेकान्ततो नीत्वाऽवादीत्किमित्यतो नेत्याह ॥ देवर्षीत्यादिना । तेऽपि नानवधानमानसा इति शंसति ॥ शृृण्वतां चेति । काव्यप्रकाशिकायां सप्तमोल्लासे दोषकथनप्रस्तावे तत्रापि विरुद्धमति-कृदुदाहरणे ‘‘अकार्यमित्रमेकोऽसौ । कान्ता कान्तस्य सहसा विदधाति गलग्रहम् । न त्रस्तं यदि नाम भूतकरुणा सन्तानशान्तात्मनस्तेन व्यारुजता धनुर्भगवतो देवाद्भवानीपतेः । पायाद्वः सोऽम्बिका-रमणः’’ इत्याद्युक्तेः । तथैव परमानन्दचक्रवर्तिकृतव्याख्यासंहितायां तथैव चालङ्कारशिरोभूषणे ‘‘इन्द्राणीरमणमुखैः’’ इत्याद्युदाहृत्यात्रेन्द्राणीरमणपदं विरुद्धमतिकृत् । इन्द्रस्य पत्नीन्द्राणीति यौगिकत्वादिन्द्राणीरमणशब्देन शच्याः पत्यन्तरोपस्थितिर्जायते’’ इत्याद्युक्तेश्च तत्सजातीये रुद्रो रुद्राणीमित्यत्रेन्द्रवरुणेत्यादिनाऽऽनुकि ङीषि च रुद्रस्य स्त्री रुद्राणीति यौगिकत्वाद्रुद्राणीं रुद्रोऽब्रवी-दित्युक्ते रुद्राणीं प्रति वचनकर्ता रुद्रोऽन्यः प्रतीयत इति चेन्न । अत्रोपपत्तिस्तु शब्दोऽयमखण्ड इति वा । विशिष्टवाचकनीत्या वा । वेदस्थम आणीस्थेत्याद्यैतरेयोपनिषद्भाष्येऽणशब्दस्य गतिवाचकत्वा-च्चलम् आणमुच्यत इत्युक्तेराणं चलं मनस्तदस्यास्ति नियम्यतयेति सा आणी । अरुद्रा किञ्चिच्छान्ति-मतीति वा । अक्रूरेति वा सा च सा च तामब्रवीदिति वा । मनो दुर्निग्रहं चलमित्यादेस्तच्चलम् । प्राणो वा आशाया भूयान्’’ इति छान्दोग्योपनिषद्भाष्ये प्राणनामा ण इत्येव ह्यानन्दः समुदीरितः । आणा सरस्वती प्रोक्ता’’ इत्युक्तेराणो हि वायुर्विधिस्तस्येयं स्नुषाऽऽणी तामिति वा । आणा सरस्वती अस्या अभिमानित्वेनास्तीत्याणी वाणी । अस्मिन्पक्षे इदं कामितदमिति क्रियाविशेषणं ज्ञेयम् । तामब्रवीदिति वा । मत्वर्थे इकारः । वस्तुतस्त्वस्य काव्यदोषत्वेन महाशास्त्रे दोषत्वाभावादिति वाऽनुसन्धेया ॥२६॥

देवदेव उवाच—

दृष्टवत्यसि सुश्रोणि हरेरद्भुतकर्मणः ।

माहात्म्यं भृत्यभृत्यानां निःस्पृहाणां महात्मनाम् ॥ २७ ॥

पदरत्नावली

हरेर्भृत्यभृत्यानां माहात्म्यं देहवियोगलक्षणावस्थाप्राप्तावप्यत्रासलक्षणम् ॥ २७ ॥

सत्यधर्म

भृत्यभृत्यानां दासदासानामुपदेवकूटघटितत्वादेतदिदानीमिति भावः । भृत्यर्थमुदर-पोषणार्थं भृत्या न भवन्तीति वा तेषाम् । निस्पृहाणां दारागारादिषु माहात्म्यं दुर्जातिप्रापकशाप-प्रदानेऽपि न प्रसादय इत्येतद् दृष्टवत्यसि ॥ २७ ॥

चट्टी

हरेर्भृत्यानामपि ये भृत्यास्तेषां माहात्म्यमित्यर्थः ॥ २७ ॥

नारायणपराः सर्वे न कुतश्चन बिभ्यति ।

स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिनः ॥ २८ ॥

पदरत्नावली

अस्यैव नैतादृशमाहात्म्यं किन्त्वन्येषामप्यस्तीत्यभिप्रेत्याह– नारायणेति ॥ कुतो न बिभ्यतीति तत्राह– स्वर्गेति ॥ २८ ॥

सत्यधर्म

आश्चर्यविलोकनपरवशो हरः भार्यां प्रति सूचितं विविच्य वदति । नारायणपरा इति । कुतश्चन कस्मादपि भीतिहेतोर्न बिभ्यति भीतियुता न भवन्ति । कुत इत्यत आह ॥ स्वर्गेति । यदैतदाद्यन्यतमस्स्यादुपायातस्तदा तस्मिन्नस्मत्तुल्योऽयमर्थ इति द्रष्टुं शीलमेषामस्तीति ते तथा । तत्प्रयुक्तहर्षाद्ययुक्ता भगवन्मात्रनिभृतमतय इति भावः ॥ २८ ॥

चट्टी

किं तन्माहात्म्यमित्यत आह ॥ कुतश्चन शापादेर्न बिभ्यतीति । स्वर्गादौ तुल्य एवार्थः प्रयोजनमिति द्रष्टुं शीलं येषां ते तथोक्ताः । नन्वस्तु स्वर्गनरकयोः प्रयोजनसाम्यम् । नरकवत्स्वर्ग-स्याप्यनित्यत्वाद् दुःखसम्भिन्नत्वाच्च । अपवर्गे तु कथं साम्यम् । तस्य दुःखासंभिन्ननित्यसुखरूपत्वेन परमपुरुषार्थत्वादित्यत आह ॥ नारायणपरा इति । नारायण एव परः पुरुषार्थो येषां ते तथोक्ता इत्यर्थः । तादृशानामपवर्गेऽप्यनादरात्सर्वत्रापि तुल्यार्थदर्शित्वोक्तिरुपपद्यत इति भावः । यद्वा । अपवर्गो जीवन्मुक्तिः । ततश्च न कश्चित्क्षुद्रोपद्रव इति ज्ञातव्यम् ॥ २८ ॥

देहिनां देहसंयोगाद् द्वन्द्वानीश्वरलीलया ।

सुखं दुःखं मृतिर्जन्म शापानुग्रह एव च ॥ २९ ॥

अविवेककृतः पुंसो ह्यर्थभेद इहात्मनि ।

गुणदोषविकल्पश्च भिदेव स्वप्नकल्पिता ॥ ३० ॥

तात्पर्यम्

‘यत्तद्भगवता क्लृप्तं तदेव नियतं भवेत् । अतोऽन्येषां वरः शापो गुणदोष-प्रकर्तृता । स्वतः प्राप्ता भेदकृतिर्वासनारूपिणो यथा । विद्यमानस्य मनसि पुनः स्वप्नेषु दर्शनम् । भगवद्वशता यस्मात्सर्वेषां ज्ञेयमेव तत्’ ॥ इति प्रकाशसंहितायाम् ॥ ३० ॥

पदरत्नावली

द्वन्द्वानीत्युक्तविवरणं– सुखामित्यादि ॥ ईश्वरलीलया देहसंयोगाद् द्वन्द्वानि, भवन्तीति शेषः ॥ ननु देहसंबन्धाद् द्वन्द्वादीनि सन्तु, अस्य श्वशृगालाद्याकारेण भेदः किङ्कृत इति तत्राह– अविवेककृत इति ॥ इहात्मनि जीवे श्वाऽयं, शृृगालोऽयम् इत्याद्याकारनिमित्तव्यवहारभेदः पुंसोऽविवेकेन हरेः स्वस्य च स्वरूपविषयकज्ञानाभावेन कृतो यस्मात् तस्मादियमनर्थपरम्परा । किञ्चा-त्मन्ययं गुणोऽस्त्ययं दोषोऽस्तीति विकल्पश्चाविवेकेन कृतः । कथमिव ? स्वप्ने कल्पिता वासनो-पादानकृता गजादिलक्षणा भिदेव । अनित्यत्वादेवैतत्साम्यम् । न तु मिथ्यात्वात् । अन्यथा अर्थक्रिया-योग इति ॥ २९,३० ॥

सत्यधर्म

देहिनां देहसंयोगादिति श्लोकं तथैवाविवेककृतः पुंस इति श्लोकं चाप्रतिपत्ति-विप्रतिपत्तिभ्यां मानेन विवृणोति ॥ यत्तदिति । यत् तद्भगवता स चैतदादिदासकश्चासौ भगवांश्च तेन । यत्क्लृप्तं तन्नियतमित्येवार्थविवरणम् । भगवतैवेत्यन्वयो वा । द्वन्द्वानीत्यादेरर्थो वरः शाप इत्यादिनोच्यते । अत एतस्मादन्येषां भगवदितरेषाम् । अन्याश्चान्ये चान्ये । पुमांस्त्रियेत्येकशेषः । प्रस्तुतत्वात्त्वदाद्या मदाद्याश्चेत्येषां वरोऽनुग्रहो शापः निग्रहः गुणदोषप्रकर्तृता गुणदोषाधायकता स्वतः स्वतन्त्रतया तच्छब्दवाच्याद्भगवत एव प्राप्तौ प्राप्ता च । वरः शाप इत्येतद्रूपगुणदोषयोः प्रकर्तृतेति वा । तत्र स्वातन्त्र्यं हरेरेवेति भावः । तत्र दृष्टान्तमाचष्टे ॥ वासनारूपिणो यथेति । मनसि वासनारूपिणो वासनयैव रूपं यस्यास्ति तस्य । मनसि विद्यमानस्य पदार्थस्य पुनः स्वप्नेषु दर्शनम् । तस्याभेदकृतिं स राजगज एवायमिति विशेषकरणमन्यत्र स्वस्वातन्त्र्यानुसन्धानमित्यर्थः । इदं मिथ्याज्ञानमिति सर्वोप-संहारेणाह ॥ भगवद्वशतेति । यस्मात्सर्वेषां भगवद्वशता तस्माद्भगवता यद्यत्क्लृप्तं तदेव भवतीत्यादिकमेवं ज्ञेयमिति योज्यम् ॥ तत इयं श्लोकव्याकृतिः ॥ ईश्वरलीलयेत्यनेन न प्रयोजनमिति सूचयति । देहसंयोगात्तत्सम्बन्धात्तदभिमानादिति यावत् । द्वन्द्वानीत्युक्तं, कानि तानीत्यत आह ॥ सुख-मित्यादिना । भवन्तीति शेषः । पुंस्त इह प्रत्यक्षसिद्ध आत्मनि स्वस्मिन्निव परस्मिन्नपि गुणदोष-विकल्पो वरशापादिवितरणोपयुक्तगुणादियुक्तोऽयं नायमिति विकल्पो । अर्थभेदः हरिं विना स्वस्वेतरा-नेश्वररचित तत्त्वज्ञानं चेत्येतदादिरविवेककृतो भगवत्स्वस्वरूपज्ञानाभावेन कृतः । तत्र दृष्टान्तः स्वप्न-कल्पिताभिदा जाग्रद्गजाद्यात्मको विशेषः कल्पिता यथा तथेत्यर्थः ॥ २९-३० ॥

चट्टी

ननु न कुतश्चन बिभ्यतीत्युक्तम् । तत्कुत इत्याशङ्क्य शापादीनामीश्वरेच्छाक्लृप्तत्वेना-परिहार्यत्वादिति भावेनाह ॥ देहिनामिति ॥ देहिनामपि देहसंयोगान्निमित्तात् सुखं दुःखमित्यादि-द्वन्द्वानीश्वरस्य लीलयेच्छया भवतीत्यर्थः । ननु यदुक्तमीश्वरस्य सुखादिकर्तृत्वं द्वन्द्वानीश्वरलीलयेति तदयुक्तम् । देवदत्तः सुखयति यज्ञदत्तो दुःखयतीति जीवस्यैव कर्तृत्वप्रतीतिरित्याशङ्क्य सा भ्रान्ति-रित्याह ॥ अविवेकेति । अर्थभेदोऽर्थानामीश्वरकर्तृकाणां सुखादिपदार्थानां भेदो वैलक्षण्यम् । जीवकर्तृकत्वमिति यावत् । गुणदोषविकल्पश्च गुणदोषाणामीश्वरकर्तृकाणां सुखादिकारणीभूतपुण्यपापानां भेदो जीवकर्तृकत्वं पुंसोऽविवेकेन कृतो भ्रान्तिकल्पितः । स कारयेत्पुण्यमथाऽपि पापम् । ‘‘सुखं दुःखं भवो भावः’’ इत्यादि श्रुतिस्मृतिभ्य इत्यर्थः । तत्र दृष्टान्तमाह ॥ भिदेवेति । आत्मनि मनसि विद्यमाने । इत्येवं वासनामयत्वेन प्रमिते प्रपञ्चे भिदा भेदः । वासनामयप्रपञ्चवैलक्षण्यं बाह्यत्वमिति यावत् । स्वप्ने स्वप्नावस्थायां यथा कल्पिता । तद्वत् । यदन्यथात्वं जाग्रत्वं सा भ्रान्तिस्तत्र तत्कृतेति कौर्मोक्तेरित्यर्थः ॥ तथा चोक्तम् ॥ यत्तद्भगवता क्लृप्तमित्यादिप्रकाशसंहितोक्तेरयमर्थः । आत्मनि जीवे प्रतीयमानोऽर्थभेदः सुखादिभागः पुण्यपापविभागश्च स्वप्नकल्पिता भिदेव करितुरगादिभेद इवाविवेक-कृतोऽविद्याकल्पित इति । जगन्मिथ्यात्वप्रतीतिवारणाय श्लोकं समाख्यया व्याचष्टे ॥ यत्तदिति । भगवता यत्क्लृप्तं सङ्कल्पितं तदेव नियतं नियमेन भवेत् । भगवानेकः । सर्वकर्तेति यावत् । तत्तस्मा-त्कारणादन्येषां भगवदितरेषामतोऽस्माद्भगवत एव वरादयो भवन्ति । भगवानेव सर्वेषां वरदातेति यावत् । कर्तुर्भावः कर्तृता कर्मगुणदोषप्रकर्तृता पुण्यपापलक्षणकर्मेत्यर्थः । इदमुपलक्षणम् । सुखादिकं च ग्राह्यम् । यद्वा । तद्भगवता तेन स्वतन्त्रतया प्रसिद्धेन भगवता यत्क्लृप्तं तदेवातोऽन्येषां भगवद्व्यतिरिक्तानां भवेत् । यच्छब्दार्थमाह ॥ पर इति । ननु यदुक्तं भगवानेव सर्वकर्तेति तदयुक्तम् । देवदत्तः शपति यज्ञदत्तोऽनुगृण्हातीति वरादीनां जीवकर्तृत्वेन प्रतीतेरित्याशङ्क्य सा भ्रान्तिरित्याह ॥ स्वत इति । स्वतः प्राप्ता स्वतन्त्रभूतभगवत्सङ्कल्पप्राप्ता । भेदकृतिर्विभागकरणम् । भ्रान्तिरिति शेषः । शापादिकं भगवत्कर्तृकं न भवति किन्तु जीवकर्तृकमिति ज्ञानं भ्रान्तिरित्यर्थः । तत्र दृष्टान्तमाह । स्वप्नेषु स्वप्नावस्थायां मनसि यथा यथार्थतया विद्यमानस्य । तत्र हेतुः । वासनारूपिणो वासनोपादानकस्य प्रपञ्चस्य दर्शनं बाह्यत्वेन ज्ञानं यथा भ्रान्तिस्तद्वदित्यर्थः । अस्त्वेवं भगवान्सर्वकर्ता । किं तत इत्यत आह ॥ भगवदिति । यस्मात्सर्वेषां शापादीनां भगवद्वशता तस्मात्तद्भगवत्स्वरूपं स्वतन्त्रत्वादिना ज्ञेयमित्यर्थः ॥ ३० ॥

वासुदेवे भगवति भक्तिमुद्वहतां नृणाम् ।

ज्ञानविज्ञानवीर्याणां न हि कश्चिद् व्यपाश्रयः ॥ ३१ ॥

पदरत्नावली

अन्यः कश्चिद् विशिष्टाश्रयो नास्ति । भक्तिज्ञाने एवेति शेषः ॥ ३१ ॥

सत्यधर्म

अविवेकप्रतियोगिनं विवेकं स्वयमालम्ब्य वक्ति ॥ वासुदेव इति ॥ ज्ञानविज्ञान-वीर्याणां ज्ञानविज्ञानयोर्वीर्यं येषां तेषां कश्चिदीश्वरेतरः । व्यपाश्रयो न हीतीश्वरस्य वशे लोक इत्यादिप्रसिद्धिं द्योतयति ॥ ३१ ॥

चट्टी

स्वर्गादिषु तुल्यार्थदर्शिन इत्युक्तं तद्विवृणोति ॥ वासुदेव इति । ज्ञानविज्ञानयोर्वीर्यं बलं येषां तेषां व्यपाश्रयो विशिष्टबुद्ध्याऽऽश्रयणीयोऽर्थो नास्तीत्यर्थः ॥ ३१ ॥

नाहं विरिञ्चो न कुमारनारदौ न ब्रह्मपुत्रा मुनयः सुरेशाः ।

विदाम यस्येहितमंशकांशका न तत्स्वरूपं पृथगीशमानिनः ॥ ३२ ॥

सत्यधर्म

सम्पादनीयत्वेन निवेदितं वेदनं यथायोग्यमेव न साकल्येन सुशकमेतदादिभिरित्या-वेदयितुं स्वस्येदानीं धर्मप्रवक्त्राचार्यत्वात् पत्न््नया मुख्यश्रोतृत्वेन स्वद्वारकत्वात्तद्ज्ञानस्येति वा विरिञ्चत आत्मानमादावुदाजहार सदाशिव इति नाहमित्यस्य भावोऽवसेयः । कुमारनारदयोर्भगवदावेविभूति-विशेषपात्रतया ब्रह्मपुत्रत्वेऽपि पृथगुक्तिः । ईहितं चेष्टितम् । तत्स्वरूपं न विदाम । अंशांशका भिन्नांशकाः पृथगीशमानिनो वयमीशाः समर्था इत्यभिमानवन्तः । स्वल्पस्यापि प्राप्यज्ञानस्या-नुत्पत्तावयमभिमान एव निमित्तमिति भावः । एतच्च विरिञ्चविषये छत्रिन्यायेन प्रवृत्तम् ॥ ३२ ॥

चट्टी

अस्य श्रीहरिदासत्वेन तत्प्रभावत्वान्नैतच्चित्रमिति वक्तुं श्रीहरेर्माहात्म्यमाह ॥ नाहमिति द्वाभ्याम् । पृथक् तारतम्येन । ईशमानिनो लोकेशा इत्यभिमानवन्तो वयं सर्वे सुरेशा ब्रह्मपुत्राः सनकादयस्तदन्ये मुनयश्च यस्यांशकांशाः प्रतिबिम्बानामपि प्रतिबिम्बाः । तत्तस्य भगवत ईहितमभिप्रायं लीलां वा । स्वरूपं च न विदामेत्यर्थः । सुरेशा इति साम्येनोक्तं विशिष्याह ॥ नाहमित्यादि ॥३२॥

न ह्यस्यातिप्रियः कश्चिन्नाप्रियः स्वः परोऽपि वा ।

आत्मत्वात् सर्वभूतानां सर्वभूतप्रियो हरिः ॥ ३३ ॥

पदरत्नावली

देवदत्तज्ञानवदस्य ज्ञानं न सुसाधनमित्याह– नाहमिति ॥ आत्मत्वात् स्वामित्वात् । न हि सर्वभूतस्वामिनः स्वपरभेदकल्पनायुक्ता । हेत्वन्तरमाह– सर्वभूतेति ॥ ३३ ॥

सत्यधर्म

आत्मत्वादन्तर्यामित्वात् । सर्वभूतप्रियस्तत्तरतमभावेन ॥ ३३ ॥

चट्टी

एवं देवाद्यवेद्यत्वलक्षणमाहात्म्यमुक्त्वा सर्वसमत्वादिलक्षणं च माहात्म्यमाह ॥ न हीति । अस्य भगवतः कश्चिदपि जीवोऽपि योग्यतातिक्रमेण प्रियादिर्नास्ति । सर्वसम इत्यर्थः ॥ तदुक्तं– ‘‘सेवाया योग्यतातिरेकेण’’ इत्यादि । तत्र हेतुमाह ॥ आत्मत्वादिति । स्वामित्वादित्यर्थः । न हि सर्वभूतस्वामिनस्तेषु स्वकीयः परकीय इत्यादिविभागबुद्धिः सम्भवतीति भावः । हेत्वन्तरमाह ॥ सर्वेति । यतो हरिः सर्वेषां भूतानां प्रियः प्रियतमश्चेत्यर्थः । न हि विष्णोः सर्वभूतानि प्रीयन्त इति भावः ॥ ३३ ॥

तस्य चायं महाभागश्चित्रकेतुः प्रियोऽनुगः ।

सर्वत्र समदृक् शान्तो ह्यहं चैवाच्युतप्रियः ॥ ३४ ॥

सत्यधर्म

शान्तस्त्वदनुभवारूढ एव तच्छम इति भामिनीं कटाक्षयितुमियमुक्तिः । स्वयं स्वकोपानुत्पादने कारणमीरयति ॥ अहं चेति ॥ ३४ ॥

चट्टी

एवंभूतस्य श्रीहरेरनुचरत्वादयमपि तादृश एव न चित्रमित्याह ॥ तस्येति द्वाभ्याम् । प्रियोऽनुगः प्रीतिविषयोऽनुचरः । अहं चाच्युतः प्रियो यस्य । अच्युतप्रियश्च तस्मादस्मिन् क्रोधो मा भूदिति भावः ॥ ३४ ॥

तस्मान्न विस्मयः कार्यः पुरुषेषु महत्सु च ।

महापुरुषभक्तेषु शान्तेषु समदर्शिषु ॥ ३५ ॥

सत्यधर्म

महापुरुषभक्तेषु तत्त्वादेव महत्सु ॥ ३५ ॥

श्रीशुक उवाच—

इति श्रुत्वा भगवतः शिवस्योमाऽभिभाषितम् ।

बभूव शान्तधी राजन् देवी विगतविस्मया ॥ ३६ ॥

सत्यधर्म

शान्तधीः समाधानबुद्धिः ॥ ३६ ॥

इति भागवतो देव्याः प्रतिशप्तुमलन्तमः१ ।

मूर्ध्ना सञ्जगृहे शापमेतावत् साधुलक्षणम् ॥ ३७ ॥

तात्पर्यम्

प्रतिशप्तुमलंतमः । ‘देवा एव तदन्येभ्यः शक्ता नास्त्यत्र संशयः । अशक्ता अपि शक्तानां शक्ताः शापादिषु स्फुटम् । तथाप्यशक्तैर्विहिताः शापाद्याः शक्तिमत्सु वै । अत्यल्पाश्चाल्पकालाश्च न सम्यक्प्रभवन्ति च । यत्नेनापोहितुं शक्या उत्तमैस्तु न संशयः । उत्तमेषु कृताः शापाः कर्तॄणां ज्ञानपुण्ययोः । निःशेषेण निहन्तारस्तदनुग्रहमन्तरा । सदारयो-र्ब्रह्मविष्ण्वोर्वरशापादयोऽखिलाः । तदन्येन कृताः सर्वे निष्फला एव निश्चयात् । न चाप्य-वान्तराः शापा भवन्त्येषां तु कुत्रचित् । वरा विष्णोः श्रियश्च स्युर्ब्रह्मणश्च यथाक्रमम् । उत्तमैरधमानां तु वराः शापा यथोदितम् । सम्पूर्णफलदा एव नात्र कार्या विचारणा’ इति स्कान्दे ॥ ३७ ॥

पदरत्नावली

‘अथ प्रसादये न त्वां शापमोक्षाय’ इत्यस्यार्थश्चतुर्धा संभाव्यते शापोऽभिमत इति तन्मोक्षायाप्रसादनम्, अनिष्टोऽप्यतर्कितत्वेन प्राप्तोऽभिमत इति कृत्वा वा, तदभिभवशक्त इति कृत्वेति (वा) आहोस्वित् प्रतिशापदानसमर्थ इति कृत्वेति वा । कोऽयमर्थोऽनेनाङ्गीकृत इति तत्राह– प्रतिशप्तुमिति ॥ मूर्ध्ना संजगृह इत्यनेन द्वितीयोऽभिमत इति ज्ञायते । प्रश्रयस्य साधुलक्षणत्वम् । अस्य च साधुष्वेकत्वाच्चतुर्थपक्षस्योर्वरितत्वेनाङ्गीकारो न भवति । ‘देवा एव तदन्येभ्यः शक्ता नास्त्यत्र संशयः’ इति वचनात् । अत्र यः कश्चिद् विशेषोऽस्तीति मतम् । ‘अशक्ता अपि शक्तानां शक्ताः शापादिषु स्फुटम् । तथाप्यशक्तैर्विहिताः शापाद्याः शक्तिमत्सु च ॥ अत्यल्पा अल्पकालाश्च न सम्यक् प्रभवन्ति च । यत्नेनापोहितं शक्या उत्तमैस्तु न संशयः ॥ उत्तमेषु कृताः शापाः कर्तृणां ज्ञानपुण्ययोः । निश्शेषेण निहन्तारः’ इत्यादि ॥ ३७ ॥

सत्यधर्म

इति भागवतो देव्याः प्रतिशप्तुमलंतम इति श्लोके लोकैश्वर्यासमसामर्थ्यं वा कथञ्चिदतिरेको वेति चित्रकेतोर्ज्ञायतेऽतः किञ्चिदनूद्य प्रमाणद्वारा तद्वारयति ॥ प्रतिशप्तुमिति । अलं क्षम इति पठितुमप्यलं क्षमम् । देवास्तदन्येभ्यः स्वभिन्नेभ्यस्तेऽन्येऽशक्ताः सामर्थ्यविकला अपि शक्तानां शापादिषु तद्दाने स्फुटं झडित्यपरामर्शेनेति यावत् । शक्ताः । तत्रापीयान्विशेष इति भाषते ॥ तथाऽपीति । अत्यल्पाः फलतः । अल्पकाला आशु विनाश्या इति सम्यक् प्रभवन्ति स्वकार्यकारिणो न भवन्ति । उत्तमैरल्पेन साधनेनापोहितुं विफलीकर्तुं नैतावदेवापि तु दातॄणामनुत्तमानामनर्थोऽयं भविष्यतीत्याह । उत्तमेषु कृता इति । शापाद्या इति पूर्वं प्रक्रान्तत्वेऽपि वक्ष्यमाणकार्यमनुसृत्यै-कोक्तिरिति ज्ञेया । तस्याप्यपवादं वदति ॥ तदिति । तेषां शप्तानामुत्तमानाम् । एतेन निहन्तार इत्यस्य तत्त्वेन भविष्यन्त इत्यर्थो ज्ञेयः । तदनुग्रहे तु न हानिस्तयोरिति भावः । उत्तमेषु अन्त इत्यर्थो ज्ञेयः । तदनुग्रहे तु न हानिस्तयोरिति भावः । उत्तमेष्वपीत्येतदपवदति ॥ सदारयोरिति । सदारयोः सभार्ययो-र्विषये । सरस्वती ब्रह्मसमत्वाद्भारतीमारुतावपि व्याख्याताविति ज्ञेयम् । महाहान्यभावेऽपि किञ्चि-दैहिकदैहिकादिश्रमादिसम्भवात्फलमित्यतो नेति लपति ॥ न चापीति । यद्वा मूलरूपे शापवैकल्यं सम्मतं न सम्मतं चावताररूपेषु तदित्यपवदति ॥ न चापीति । अवान्तरा अवतारे वितरिताः । न च कथमिदमुच्यते उच्यते च भृगुगान्धार्यादिशापफलम् । अत्रेवान्यत्रापि पुराण इत्यत आह ॥ कुत्र-चित्त्विति । निश्चयादेषामित्यत्राप्यन्वेति । येषां हर्याद्यवताराणामेव निश्चायादधुनेत्थं नटयामीत्येवंरूपाः कुत्रचित्तथा भवन्ति । तुरेतद्विशेषसूचकः । वरादिप्राप्तावपि तरतमभावमावेदयति ॥ वरा इति । विष्णोः श्रियो ब्रह्मणश्च यथाक्रमम् । विष्णुमात्रतो रमायाः । उभयोरम्भोजभवस्य । वायुसरस्वतीभारत्यादीनां भवस्य चैतेभ्य इति क्रममनुसृत्य । यथा येन प्रकारेण । केचित्त्ववान्तरा वरा इत्यपि योजयन्ति । तद्वदल्पफला अल्पकालाश्च नेत्यर्थः ॥ अथ मूलार्थालपनम् । देव्याः प्रतिशप्तुमलन्तमोऽतिशक्तः । क्षम इति पाठेऽलमत्यन्तं क्षम इत्यर्थः । अतिशयेनालं शक्तोऽलन्तम इति विग्रहः । इति चेदपि मूर्ध्ना शापं जगृहे । अनेन स्वपुण्यादिहानिज्ञानमस्य ध्वन्यते । सोऽयमेक एवैतादृश इति नेति सामान्यार्थान्तर-न्यासमुखेन शंसति ॥ एतावदिति । साधूनां लक्षणं चिन्हं, स्वभाव इति यावत् ॥ ३७ ॥

चट्टी

प्रतिशप्तुं प्रतिशापं दातुमलंतमः समर्थतमोऽपीत्यर्थः । अत्र प्रतिशप्तुमलंतम इत्युक्तिर्न चित्रकेतोः पार्वत्यपेक्षयाऽऽधिक्याभिप्रायः । किंत्वधमानामुत्तमान्प्रत्यपि शापदानसम्भवाभिप्राय इति ज्ञातव्यम् ॥ तथा चोक्तम् ॥ देवा एव तदन्येभ्य इत्यादि । परैरपकृता अपि न प्रतिकुर्वन्ति । इत्येतावदेव साधूनां लक्षणम् ॥ ३७ ॥

जज्ञे त्वष्टुर्दक्षिणाग्नौ दानवीं योनिमाश्रितः ।

वृत्र इत्यभिविख्यातो ज्ञानविज्ञानसंयुतः ॥ ३८ ॥

पदरत्नावली

कुत्रास्य जन्माभूत् ? अत्राह– जज्ञ इति ॥ ३८ ॥

सत्यधर्म

दानवीम् । यद्यपि न त्वष्टा दानवोऽपि दानवी तद्भार्या ततोऽप्यजातत्वाच्चास्य सा न सम्भाविनी । तथाऽपि देवीशापमाहात्म्यतस्तत्त्वमिति तत्त्वं ज्ञेयम् । ज्ञानविज्ञानसंयुतस्तदाचारात्ते ज्ञायेत इति भावः ॥ ३८ ॥

चट्टी

कुत्रास्य जन्माभूदित्यत आह ॥ जज्ञ इति ॥ ३८ ॥

एतत् ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।

वृत्रस्यासुरजातेश्च कारणं भगवन्मतेः ॥ ३९ ॥

पदरत्नावली

परमप्रमेयमुपसंहरति– एतदिति ॥ वृत्रस्य यच्चरितं मां परिपृच्छसि । किञ्च सर्वम् एतत्सर्वम् । किञ्च तस्यासुरजातेरसुरवंशे जननस्य यत् कारणं च एतच्च कथितमिति शेषः ॥ ३९ ॥

सत्यधर्म

वृत्रस्य तत्सम्बन्धिन्या असुरजातेर्भगवन्मतेश्च कारणं यत्परिपृच्छसि पर्यपृच्छस्ते तत्सर्वमाख्यातमित्यन्वयः ॥ ३९ ॥

चट्टी

परमप्रमेयमुपसंहरति ॥ एतदिति । वृत्रस्यासुरजातेरसुरस्वभावेनोत्पत्तेर्भगवन्मतेश्च यत्कारणं परिपृच्छसि पृष्टवानसि । तदेतदाख्यतमित्यन्वयः । यद्वा असुरजातेश्चासुरजात्युत्पन्नस्यापि वृत्रस्य या भगवन्मतिस्तस्याः कारणमित्यर्थः ॥ ३९ ॥

इतिहासमिमं पुण्यं चित्रकेतोर्महात्मनः ।

माहात्म्यं विष्णुभक्तानां श्रुत्वा बन्धाद् विमुच्यते ॥ ४० ॥

पदरत्नावली

फलमाह– इतिहासमिति ॥ ४० ॥

सत्यधर्म

माहात्म्यं तदस्यास्तीति स तमितिहासमित्यन्वयः । तद्वर्णकत्वात्तद्व्यपदेशो वा । चित्रकेतोरन्येषां विष्णुभक्तानामितिहासं च ॥ ४० ॥

चट्टी

एतच्छ्रवणफलमाह ॥ इतिहासमित्यादिना ॥ चित्रकेतोर्विष्णुभक्तानामङ्गिरोनारदादीनां च माहात्म्यमेतदेवम् ॥ ४० ॥

॥ इति श्रीभागवतटिप्पण्यां चट्टीव्याख्यायां षष्ठस्कन्धे सप्तदशोऽध्यायः ॥ ६–१७ ॥

य एतत् प्रातरुत्थाय श्रद्धया वाग्यतः पठेत् ।

इतिहासं हरिं स्मृत्वा स याति परमां गतिम् ॥ ४१ ॥

॥ इति श्रीमद्भागवते षष्ठस्कन्धे सप्तदशोऽध्यायः ॥

पदरत्नावली

शृृङ्खलादिबन्धमोक्षोऽपि बन्धमोक्षः स्यात्, न तु संसारबन्धमोक्षेण वैकुण्ठलोक-प्राप्तिरस्मादवगतेति शङ्कित्वा कालविशेष इतिकर्तव्येन सा स्यादित्याह– य एतदिति ॥ ४१ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

षष्ठस्कन्धे सप्तदशोऽध्यायः ॥

सत्यधर्म

एतदित्यव्ययम् । इतिहासमित्यन्वयः । पठेद्धरिं स्मृत्वेत्युक्त्या पटनात् हरिस्मरण-पूर्वाभावकारणभाव इति स्मरणस्य परमगतिप्राप्तेश्च कार्यकारणभावोऽवगमित इति ज्ञेयम् ॥ ४१ ॥

॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मकृतायां षष्ठस्कन्धे सप्तदशोऽध्यायः ॥ ६–१७ ॥