अथ देवऋषी राजन् सम्परेतं नृपात्मजम्
॥ अथ षोडशोऽध्यायः ॥
श्रीशुक उवाच—
अथ देवऋषी राजन् सम्परेतं नृपात्मजम् ।
दर्शयित्वेति होवाच ज्ञातीनामनुशोचताम् ॥ १ ॥
पदरत्नावली
संसारस्य पुत्रमित्रादिलक्षणनियतत्वं संसारिचेतनस्य हरिनियतनित्यत्वं परम-चेतनस्य परमनित्यत्वं, तज्ज्ञानमेव पुरुषार्थसाधनमित्यादिकमस्मिन्नध्याये निरूप्यते । अत्र नारदो योगमाहात्म्यं विद्योतयन् राजकुमारमुत्थाप्येदं वक्तीत्याह– श्रीशुक इति ॥ १ ॥
सत्यधर्म
इत्युक्तेऽपि न नियतमानसान्सावनीशान्विलोक्य नित्या जीवाः परमनित्यस्तु देहस्ततो नाशान्न शोको युज्यतेऽनादौ संसारे कियन्तः पितरः कियत्यो मातरोऽहं कस्त्वं क इति तं मृतदेहं मन्त्रबलेनोत्थाप्य तन्मुखेन वाचयित्वा समाधत्ते नारद इति वदति ॥ अथेति । दर्शयित्वोत्थाप्येति शेषः । ज्ञातीनामनुशोचतां सतां तं प्रतीत्युवाच ह ॥ १ ॥
चट्टी
जातवैराग्यदार्ढ्यस्य चित्रकेतोः सुतोक्तिभिः । देवर्षेरुपदेशेन श्रेयः प्राप्तिर्निरूप्यते ॥ १ ॥
नारद उवाच—
जीवात्मन् पश्य भद्रं ते मातरं पितरं च ते ।
सुहृदो बान्धवांस्तप्तान् शुचा त्वत्कृतया भृशम् ॥ २ ॥
सत्यधर्म
हे आत्मन् जीव । ते भद्रं मङ्गलमस्तु । ते मातरं पितरं च पश्य । जीव अन्तर्णीत-ण्यन्तः जीवय त्वत्कृतया त्वन्निमित्तया ॥ २ ॥
चट्टी
आदौ तावत्तत्पुत्रमुखेनैव पितृपुत्रादिसम्बन्धोऽनित्य इति दर्शयितुं योगबलेन तमेव ज्ञातिनां दर्शयित्वा जीवात्मन्नित्याद्युवाच ॥ २ ॥
कलेवरं स्वमाविश्य शेषमायुः सुहृद्वृतः ।
भुङ्क्ष्व भोगान् पितृप्राप्तानधितिष्ठ नृपासनम् ॥ ३ ॥
सत्यधर्म
शेषं शिष्टं पितृप्राप्तान् परम्परागतान् ॥ ३ ॥
चट्टी
शेषमवशिष्टमायुरस्ति । अपमृत्युना मृतत्वादिति भावः । पितृप्राप्तान् पितृदत्तान् ॥ ३ ॥
जीव उवाच—
कस्मिन् जन्मन्यमी ब्रह्मन् पितरो मातरोऽभवन् ।
कर्मभिर्भ्राम्यमाणस्य देवतिर्यङ्नृयोनिषु ॥ ४ ॥
पदरत्नावली
एवं जीवात्मना किमवादीत्याह– कस्मिन्निति ॥ ४ ॥
सत्यधर्म
जीव उवाच किमित्यत उवाच ॥ कस्मिन्निति । कर्मभिर्भ्राम्यमाणस्य । क्वेत्यत आह ॥ देवेति । द्वन्द्वान्ते श्रूयमाणयोनिशब्दस्य सर्वत्र सम्बन्धः । ममामी कस्मिन्कतमस्मिञ्जन्मनि मातरः पितरश्चाभवन् । अमूश्चामी चेत्येकशेषः पुमांस्त्रियेत्यनेनेति ज्ञेयम् । जन्मनामानन्त्यादेतत्सदृशानां जननीजनकानामनेकेषां जातत्वात्कं कं कथं कथय सान्त्वयामि । क्व सोऽहं क्वेति जीवभाव इति भावः
॥ ४ ॥
चट्टी
तदेव कलेवरं प्रविश्योपस्थितो जीव उवाच । यद्वा । अन्तराले प्रेतशरीरे स्थित्वोवाचेति ज्ञेयम् । ब्रह्मन् हे नारद ॥ ४ ॥
बन्धुज्ञात्यरिमध्यस्थमित्रोदासीनविद्विषः ।
सर्व एव हि सर्वेषां भवन्ति क्रमशो मिथः ॥ ५ ॥
सत्यधर्म
अरिर्वधादिकर्ता । विद्विषः कुलपारम्पर्येण वैरिणो । मिथः परस्परम् ॥ ५ ॥
चट्टी
मयि मृते पुत्रदृष्ट्या शोकश्चेच्छत्रुदृष्ट्या हर्षः किं न क्रियत इत्याशयेन सम्बन्धस्या-नित्यत्वमाह ॥ बंध्विति । बन्धवो विवाहादिसम्बन्धिनो ज्ञातयः सपिण्डा अरयो बन्धादिकर्तारः । कर्तव्यमुपकारमपकारं ये कुर्वन्ति ते मध्यस्थाः । मित्राणि स्वयमेव क्लेशस्थानं निरूप्योपकर्तारः । कर्तव्ये उपकारेऽपकारे च ये उदासते ते उदासीनाः । विद्विषोऽवासितकर्तारः । अप्रियं कर्तार इति यावत् ॥ तथा चोक्तम् ॥ ‘‘द्वेष्योऽवासितकृत्काऽर्यमात्रकारी तु मध्यमः । प्रियकृत्प्रियो निरूप्यापि क्लेशं यः परिरक्ष्यति । स मित्रमुपकारं त्वनपेक्ष्योपकारकृत् । यस्ततः ससुहृत्प्रोक्तः शत्रुश्चापि वधादिकृत्’’ इति ॥ नारदीये च ॥ ‘‘अनिमित्तस्नेहवांस्तु सुहृत्ज्ञात्वोपकारकृत् । मित्रं वधादिकृदरिर्द्वेषस्त्वप्रियमात्रकृत् । उदासीनः स्नेहवतोऽप्यस्नेही तत्कृतानुकृत् । मध्यस्थ इति विज्ञेयो सुहृदेषु विशिष्यते ॥ इति ॥ ५ ॥
यथा वस्तूनि पण्यानि हेमादीनि ततस्ततः ।
पर्यटन्ति नरेष्वेवं जीवो योनिषु कर्तृषु ॥ ६ ॥
पदरत्नावली
पण्यानि विक्रेयानि । नरेषु विक्रेतृषु । रेतस्सेककर्तृषु पित्रादिषु । योनिषु मातृषु । कर्तृष्विति वा ॥ ६ ॥
सत्यधर्म
पण्यानि व्यवहारार्हाणि । अवद्यपण्येति यत् । नरेषु कर्तृषु विक्रेतृषु पर्यटन्ति ततस्ततः क्रयद्वारा । एवं जीवो योनिषु स्वकर्मायत्तासु पर्यटति ॥ ६ ॥
चट्टी
कर्मभिर्भ्राम्यमाणत्वे दृष्टान्तमाह ॥ यथेति । यथा पण्यानि क्रयविक्रयार्हाणि सुवर्ण-रजतादीनि । कर्तृषु व्यवहर्तृषु नरेषु पुरुषेषु पर्यटन्ति । एवं जीवोऽपि योनिषु जनकेषु परिभ्रमतीत्यर्थः
॥ ६ ॥
नित्यस्यार्थस्य सम्बन्धो ह्यनित्यो दृश्यते नृषु ।
यावद् यस्य हि सम्बन्धो ममत्वं तावदेव हि ॥ ७ ॥
पदरत्नावली
ननु तर्हि हाटकादिवदनित्यत्वमापतितं जीवस्येत्याशङ्क्य संबन्धस्यैवानित्यत्वं न तु जीवात्मन इत्याह– नित्यस्येति ॥ यथा संबन्धस्यानित्यत्वं तथा मम पुत्रोऽयमिति ममत्वमप्य-नित्यमित्याह– यावदिति ॥ हिशब्दाभ्यां प्रत्यक्षादिप्रमाणसिद्धत्वं दर्शयति । एवशब्देनायोगव्यवच्छेदं करोति ॥ ७ ॥
सत्यधर्म
ननु तव नित्यत्वादत्रैव गात्रे वस तनुत तोषमित्यतोऽङ्गसङ्गो भङ्गुर इत्याह ॥ नित्यस्येति । नित्यस्य चेतनस्य । अर्थस्य देहादेः सम्बन्धोऽनित्योऽशाश्वतिकः । नृषु संसारदशापन्नेषु दृश्यते । अनेनानुभवः प्रमाणीकृत इति ज्ञेयम् । यस्य जीवस्य यावत्सम्बन्धः शरीरे सत्ता तावदेव तन्ममत्वं पुत्रादिरिति ममता ॥ ७ ॥
चट्टी
एकस्मिन्नपि जन्मनि सम्बन्धस्यानित्यत्वं सदृष्टान्तमाह ॥ नित्यस्येति द्वाभ्याम् । यथा नित्यस्य जीवतोऽप्यर्थस्य पश्वादेः । नृषु सम्बन्धोऽनित्योऽनियतः क्रयविक्रयादिना सम्बन्धनिवृत्तेः । अस्य पश्वादेर्नृषु सम्बन्धो यावत्कालं वर्तते तावत्कालमेव ममत्वं ममायं पशुरित्याभिमानो भवति ॥७॥
एवं योनिगतो जीवः स नित्योऽनिरहङ्कृतः ।
यावद् यत्रोपलभ्येत तावत् स्वत्वं हि तस्य तत् ॥ ८ ॥
पदरत्नावली
निरहंकृत इति स्वभावाख्यानम् । यत्र योनिषु । स्वत्वं स्वकीयत्वम् ॥ ८ ॥
सत्यधर्म
एवं योनिगतो जीवः स नित्यो यावद्यत्र योनौ अनिरहङ्कृतोऽभिमानवानुपलभ्यते तत्र तस्य स्वत्वं स्वकीयताऽवियोगे वियोगेन किमपीति भावः । निरहङ्कृत इति वा छेदः । तत्पक्षे स्वभावोक्तिः ॥ ८ ॥
चट्टी
एवं योनिगतः पित्रादिसम्बन्धं प्राप्तोऽपि स जीवो नित्यः । देहं जन्मादिना तस्य जन्माद्यभावात् । अत एव वस्तुतो निरहङ्कृतोऽहमस्य पुत्र इत्यभिमानशून्यः । यत्र पित्रादौ सम्बन्धिनि । यावदुपलभ्येत कर्मवशेन वर्तेत तावदेव तस्य पित्रादेस्तत्तस्मिन्स्वत्वम् । न तु विक्रयाद्युत्तरकालेऽपीत्यर्थः । अथवैवं सम्बन्धः । यदुक्तं कलेवरं स्वमाविश्येति तत्र तस्मिन्कलेवरे ममेदानीं स्वत्वं निवृत्तमिति सदृष्टान्तमाह ॥ नित्यस्येति । नित्यस्य चिरकालावस्थायिनः सुवर्णादेः । योनिगतो देहं प्रविष्टः । यत्र देहे तस्य जीवस्य तत्तस्मिन्देहे स्वत्वं न तु मरणोत्तरकालमपीत्यर्थः। शेषं समानम् ॥ ८ ॥
एष नित्योऽव्ययः सूक्ष्म एकः सर्वाश्रयः स्वदृक् ।
आत्ममायागुणैर्विश्वमात्मानं सृजते प्रभुः ॥ ९ ॥
तात्पर्यम्
एष नित्योऽव्ययः । ‘अनित्यसम्बन्धयुताः पित्राद्या नित्ययुग्घरिः’ इति च । आत्मानं चावताररूपेण सृजते ॥ ९ ॥
पदरत्नावली
ननु तर्हि केन सहास्य नित्यसंबन्ध इति तत्राह– एष इति ॥ य आत्ममायया गुणैः स्वाधीनप्रकृतिर्गुणैर्विश्वं परावरं जगत् सृजति आत्मानं चावताररूपेण व्यनक्ति स एषः सर्वाश्रयः सर्वैनित्यसंबद्ध इत्यन्वयः । अनित्यत्वात् कथं घटत इत्यत उक्तम्– नित्य इति ॥ कोऽर्थ इत्यतः– अव्यय इति ॥ अनेन नित्यशब्दो व्याख्यातः । अनुपलब्धौ हेतुमाह– सूक्ष्म इति ॥ न चायं जीववद् बहुत्वसङ्ख्योपेत इत्याह– एक इति ॥ मुख्यत एकत्वसंख्याविशिष्ट इत्यर्थः । सृष्टौ प्रवर्तमानस्य सृज्यसंबन्धेन ज्ञानलोपो नास्तीत्याह– स्वदृगिति ॥ स्वरूपभूतज्ञानस्यापि प्रबलप्रतिबन्धकेनाभिभवः किं न स्यादित्यत आह– प्रभुरिति ॥ अनेन हरिणा नित्यसंबन्धः पित्रादिभिरनित्य इति ज्ञापितम् । ‘अनित्यसम्बन्धयुताः पित्राद्या नित्ययुग्घरिः’ इति वचनात् ॥ ९ ॥
सत्यधर्म
एष नित्योऽव्यय इत्यत्रैतच्छब्देन अव्यवहितजीवपरामर्श इत्यपविमर्शप्रतीतिं वारयितुं किञ्चित्स्वयमनूद्य मानमुदाहरति ॥ एष नित्योऽव्यय इति । अनित्यो यो सम्बन्धो देहादिना तेन युताः पित्राद्या नित्ययुक् नित्यं युज्यत इति स तथा । तर्हि नित्ययुक्ते आत्मानं स्वं सृजत इति कथं कथयेत्यतः कथयति । आत्मानं चावताररूपेण मत्स्यादिरूपेण सृजते सृजति प्रादुर्भावयति तेऽपि नांशि विसदृशाः । यथोक्तं बृहद्भाष्ये । ‘‘सर्वगुणैः पूर्तिरपि मत्स्यादिरूपिणः’’ इति प्रमुखीकृत्य ‘‘सर्वावतार- रूपाणामपि चित्सुखरूपता’’ इत्यन्तेन ॥ अथार्थापनं पद्यस्य ॥ एषोऽव्ययः । नित्य इति ध्वंसव्यावृत्तये । प्रागभावाप्रतियोगित्वं नित्यपदार्थः । एको मुख्यो यदा सदाऽवियोगिनीमपि रमां वियुक्तामिव करोति तदैक इत्युच्यत इत्येको वा । यथोक्तं बृहद्भाष्ये– ‘‘विद्यमानामपि सदा भोगार्थं पुरुषोत्तमः । नित्यत्वेऽप्युभयोर्देवो वियुक्तस्तु यदा तदा । एक इत्युच्यते’’ इत्यादि । तर्हि जना न जानते कुत इत्यत आह ॥ सूक्ष्म इति । तस्याप्येक आश्रयोऽस्ति चेत्स जानीयादित्यत आह ॥ सर्वाश्रय इति । जीववर्गस्य ज्ञानवर्जने नास्त्येव स इति किन्नोच्यत इत्यतः स्वदृगिति । आत्मानं वेद स स्वयमित्यादेः । आत्ममायागुणैर्निजाधीनप्रकृतिगुणैर्विश्वं जगत्सृजति यथायथमुत्पादयति । आत्म-मायागुणैरात्मन इच्छया गुणैरप्रधानैर्ब्रह्मादिभिः । तत्प्रार्थनयेति यावत् । आत्मानं स्वयं च सृजति प्रादुर्भावयति । कुत एवं द्वैविध्यमित्यतः प्रभुरिति । प्रादुर्भावतया ये च तदन्यान् जानते विभोः । तेऽपि यान्ति तमो घोरं तस्मान्नैवं विदो विदुः’’ इत्यारभ्य ‘‘प्रादुर्भावाः प्रकीर्तिता इत्यन्तेन कीर्तितं बृहद्भाष्येऽनुसन्धेयम् । नित्यसम्बन्धोऽयं श्रीपतिना नत्वेतत्पित्रादिनेति भावः ॥ ९ ॥
चट्टी
एवमनित्यसम्बन्धेषु पुत्रादिषु ममतां विहाय नित्यसम्बन्धो भगवानेव भजनीय इत्यभिप्रेत्य भगवतो जीवेन सह नित्यसम्बन्धमाह ॥ एष इति । य आत्ममायागुणैः स्वेच्छानियतप्रकृतिगुणैर्विश्वं परापरं जगत्सृजति । तन्नियामकत्वेन स्वात्मानं च सृजति प्रादुर्भावयति । एषो भगवान् । अव्ययो न व्येति जीवं विहाय नापगच्छतीत्यव्ययः । नित्यसम्बन्ध इति यावत् । कुत इत्यत आह ॥ नित्य इति । चतुर्विधनाशरहित इत्यर्थः । सम्बन्धस्यानित्यत्वं त्रिधा सम्भवति । स्वरूपनाशेन वा देहहान्या वा परिच्छिन्नत्वेन वा तदेतत्त्रयं भगवतो न सम्भवति । ‘‘अनित्यत्वं देहहानिर्दुःखप्राप्तिरपूर्णता । नाश-श्चतुर्विधो ज्ञेयस्तदभावो हरेः सदा’’ ॥ इति वचनात् । जीवस्वरूपस्य च नित्यत्वं प्रागेवोक्तम् । अतस्तयोः सम्बन्धो नित्य इति भावः ॥ तथा चोक्तम् ॥ अनित्येत्यादि । भगवतो नित्यसम्बन्धित्वं नाकाशवत् । किन्तु सर्वोपजीव्यत्वेनेत्याह ॥ सर्वाश्रय इति । धारणपोषणादिकर्तेत्यर्थः । नन्वेवं भगवान्नित्यसम्बन्धश्चेत्संनिहितोऽपि कुतो नोपलभ्यत इत्यत आह ॥ सूक्ष्म इति । अव्यक्तस्वभाव इत्यर्थः । सर्वनियामकत्वेनात्मानं सृजतीत्यनेन प्राप्तां भेदशङ्कां निराकरोति ॥ एक इति । स्वरूपे-ष्वित्यर्थः ॥ तथा चोक्तम् ॥ ‘‘एकोऽपि स्थोऽपि नानात्वान्नानेव हरिरीर्यते । सर्वान्तर्यामिणस्तस्य न भेदो विद्यते क्वचित्’’ ॥ इति ब्रह्मवैवर्ते । जगत्सर्जनोपयोगिन्यौ ज्ञानशक्ती आह ॥ स्वदृक् प्रभुरिति । स्वयमेव सर्वं पश्यतीति तथा । स्वतन्त्रज्ञान इत्यर्थः । प्रभुः समर्थः ॥ ९ ॥
न ह्यस्यातिप्रियः कश्चिन्नाप्रियः स्वः परोऽपि वा ।
एकः सर्वधियां द्रष्टा कर्तॄणां गुणदोषयोः ॥ १० ॥
पदरत्नावली
एवंविधस्य हरेर्योग्यतातिरेकेण न कावपि प्रियाप्रियौ स्त इत्याह– न हीति ॥ कुतोऽतिप्रियाद्यभाव इति तत्राह– सर्वेति ॥ गुणदोषयोः कर्तृणां पुरुषाणां स्त्रीणां च सर्वासां धियां कुशलाकुशलसाक्षित्वेन तदनुसारेण फलदातृत्वादतिप्रियाद्यभाव इत्यर्थः । द्वितीयसद्भावे तद्भयात् कस्मिंश्चिदतिप्रियत्वादिसंभवति । न हि हरेस्तादृशोऽस्तीत्यभिप्रेत्याह– एक इति ॥ १० ॥
सत्यधर्म
ननु प्रियेण सह सदा सम्बन्धोऽप्रियेण नेति तत्सम्बन्धो नित्य इत्यसम्बद्धभाषण-मित्यतो भाषते ॥ न हीति । अस्य भगवतोऽतिप्रियो बहुप्रियः कश्चित्कश्चिदप्रियोऽप्रेमपात्रं न । तत्र हेतुर्न स्वः परश्चेति । गुणदोषयोः कर्तॄणां जनानां तत्सम्बन्धिनीनां सर्वधियां चैक एव द्रष्टा साक्षी । योग्यतामतिक्रम्य प्रियादिकं नास्तीति भावः । यथोक्तं सप्तमतात्पर्ये । ‘‘स्वभावतः प्रियत्वात्तु सदा देवप्रियो हरिः । अप्रियश्चासुराणां स(स्व)स्वभावात्तूभयं नृणाम् । देशकालौ गुणांश्चैव’’ इत्यारभ्य ‘‘अतस्तदिष्टं कृष्णस्य ब्रह्मसूत्रकृतो विभोः’’ इति तन्त्रनिर्णय इत्यन्तेन ॥ १० ॥
चट्टी
ननु यदुक्तं भगवान् स्वदृगिति तदयुक्तम् । तथात्वे सर्वजगत्सर्जनानुपपत्तेः । न हि सर्वज्ञस्य स्वप्रतिकूलदैत्यादिसर्जनं युक्तिमदित्यत आह ॥ न हीति । अस्य भगवतः कश्चिदपि पुरुषः प्रियो मित्रम् । अप्रियः शत्रुः स्वः स्वकीयः परः परकीयो वा नास्ति कुत इत्यत आह ॥ एक इति । हि यस्माद्भगवानेक एकप्रकारः सर्वसमः । न हि सर्वसमस्य शत्रुमित्रादिविभागबुद्धिः सम्भवतीति भावः । नन्वेवं तर्हि कंसः शत्रुः पाण्डवो बन्धुरित्यादिव्यवहारः कथमित्यत आह ॥ सर्वेति । कतॄणां जीवानां याः सर्वा विचित्राः सात्विकादिलक्षणा धियो बुद्धयस्तासां गुणदोषयोः पुण्यपापयोश्च द्रष्टा साक्षीत्यर्थः । भगवतः समत्वेऽपि जीवानामनादियोग्यताकर्मानुसारेणाविषमफलदातृत्वादुक्तव्यवहारो युज्यत इति भावः
॥ १० ॥
नादत्त आत्मा हि गुणं न दोषं न क्रियाफलम् ।
उदासीन इवासीनः परावरदृगीश्वरः ॥ ११ ॥
तात्पर्यम्
‘भोक्ता सद्गुणभोक्तृत्वान्न भोक्ता तदवृद्धितः । अचिन्त्यशक्तितस्तच्च युज्यते परमेशितुः’ इति च ॥ ११ ॥
पदरत्नावली
साक्षित्वं स्पष्टयति– नेति ॥ आत्मा परमात्मा । कथं गुणानादानं हरेः, ‘षाड्वर्गिकं जिघ्रति षड्गुणेशः’ इत्युक्तेः ? अत उक्तम्– हीति ॥ हिशब्दो हेतौ । गुणोपभोगेन लोकवद् वृध्द्यभावो गुणानादानस्यार्थो न तु सर्वात्मना अभोक्तृत्वम् । तथात्वे ‘भोक्ता सद्गुणभोक्तृत्वान्न भोक्ता तदवृद्धितः । अचिन्त्यशक्तितस्तच्च युज्यते परमेशितुः ॥’ इति स्मृतिविरोधः स्फुटः । उदासीन इव सर्वस्मादुत्तमत्वेन स्थित एव । भोक्तृत्वाभोक्तृत्वे लोकविरुद्धे हरेः कथं घटेते इत्यत उक्तम्– ईश्वर इति ॥ परावरदृक्त्वमृषीणामप्यस्तीत्यत उक्तम्– उदासीन इति ॥ तत्तद्वस्तुषु बाह्याभ्यन्तरवृत्त्या तिष्ठन्नेव परावरदृगित्यर्थः ॥ ११ ॥
सत्यधर्म
नादत्त आत्मेति श्लोके गुणभोक्तृत्वं भगवतो नास्तीत्युच्यत इति प्रतीयते । सा च ‘‘गुहां प्रविष्टावात्मानौ हि तद्दर्शनात्’’ इत्यादिमानविरुद्धेत्यतो मानेनैव तदभिप्रायमाह ॥ भोक्तेति । गुणभोक्तृत्वात् शुभभोक्तृत्वात् । तदवृद्धितो ऽतद्वृद्धितस् तद्भोजनप्रयुक्तवृद्धिरहितत्वादिति यावत् । नन्वेकवस्तुस्थितयोः शुभाशुभयोरेकस्य भोगो न भोगोऽन्यस्येति कथमित्यत ऊचे ॥ अचिन्त्यशक्तित इति । तच्च शुभमात्रात्तृत्वं युज्यते । कुतोऽचिन्त्यशक्तिस्तस्येत्यतो वक्ति ॥ परमेशितुरिति । हेतुहेतुमत्ता विपर्ययेण वा ज्ञेया ॥ इयं ततः श्लोकव्याकृतिः ॥ आत्मा परमात्मा गुणं वृद्धिदं नादत्ते न भुङ्क्ते । दोषं सर्वात्मना । क्रियाफलं तदपि नश्वरम् । तर्हि कथङ्कारं वर्तनं भगवत इत्यत आह ॥ उदासीन इव इति । यथोक्तं गीताभाष्यप्रमेयदीपिकयोः । उदासीनवन्न तूदासीनः । तदर्थमाह ॥ असक्तमिति । यस्यासक्त्यैव सर्वकर्मशक्तिः कुतस्तस्य कर्मबन्ध इति भावः । ‘‘न कर्मणा वर्धते नो कनीयान्’’ इति हि श्रुतिः । यः कर्मापि नियामयति कथं च तन्निबध्नाति । उदासीनवदिति चेन्न । स्वयमेव प्रकृतिः सूयत इत्यत आह । स्वतः कर्तृत्वे कथमुदासीनत्वमुच्यत इति चेन्न । वतिना तस्य निषिद्धत्वादित्यादीकृत्य तदज्ञात्वा क्रियाभाव एवोक्त इति मत्वा शङ्कितमित्यन्तेन । कुतो नैतस्य तदबन्धः कुतश्चोदासीन-वदासीनता इत्यतो हेतुमाह ॥ परावरदृगिति । अतीतानागतं करतलामलकवदवलोकयतीति स तथा । स्वरूपासिद्धिं विरूपयितुमीश्वरोऽनन्याधीन इति ॥ ११ ॥
चट्टी
ननु विश्वं सृजत इति यद्भगवतो जगत्कर्तृत्वमुक्तं तदयुक्तम् । कर्तृत्वे देवदत्तवत्कर्मफल-भोगापत्तेरित्यत आह ॥ नेति । आत्मा परमात्मा क्रियाफलं सुखदुःखलक्षणं कर्मफलं नादत्ते नानुभवति । गुणं शुभविषयं क्रीडयाऽऽददन्नपि वृद्धिप्रयोजकत्वेन नादत्ते । नित्यपूर्णस्य गुणभोगप्रयुक्त-वृध्द्यसम्भवात् ॥ तदुक्तम् ॥ भोक्तेत्यादि । दोषमशुभविषयं तु सर्वात्मना नादत्ते । एतत्सर्वं कुत इत्यत आह ॥ उदासीन इति । हि यस्मादुदासीन इवासीन उदासीनपुरुषवद्वर्तमानः । अनादरेण सृष्ट्यादौ वर्तमान इति यावत् । यस्यानायासेनैव जगत्सर्जनशक्तिः कुतस्तस्य कर्मबन्ध इति भावः । एतदेव स्पष्टमाह ॥ ईश्वर इति । अचिन्त्यशक्तिरित्यर्थः । परापरदृक् अतीतानागतद्रष्टा । तस्मादेवं महा-माहात्म्येऽपि तस्य भगवतो नित्यसम्बन्धित्वात्पितृत्वात्सखित्वाच्च स एव भजनीयः । युष्माकं मम च सम्बन्धाभावान्न शोकः कर्तव्य इति प्रघट्टिकार्थः ॥ ११ ॥
श्रीशुक उवाच–
इत्युदीर्य गतो जीवो ज्ञातयस्तस्य ते तदा ।
विस्मिता मुमुचुः शोकं१छित्वाऽऽत्मस्नेहशृृङ्खलाम् ॥ १२ ॥
पदरत्नावली
ज्ञातयस्तस्मिन् जन्मनि सपिण्डाः । आत्मनां स्वेषां तस्मिन् पुत्रे स्नेहाख्यशृङ्खलां छित्वा ॥ १२ ॥
सत्यधर्म
जीवः किं निविवेश शरीरे चिरं किंवाऽचिरेण गत इति चेतोनिकेतं राज्ञः संशय-मपनुदति ॥ श्रीशुक उवाचेति । तस्य ज्ञातयस्तद्देहानुबन्धसहिताः । आत्मस्नेहशृृङ्खलामात्मनां मनः पूर्वको यः स्नेहस्तद्रूपां शृृङ्खलां निगडं छित्वा । ‘‘शृृङ्खला पुंस्कटीवस्त्रे निगडेऽपि च’’ इति विश्वः । विस्मिता अहो हरीहेति शोकं मुमुचुः ॥ १२ ॥
चट्टी
आत्मनां स्वेषां पुत्रस्नेहाख्यां शृृङ्खलां छित्वा स्नेहं स्नेहकार्यं शोकं मुमुचुः । क्वचिच्छोकमित्येव पाठः ॥ १२ ॥
निर्हृत्य ज्ञातयो ज्ञातेर्देहं कृत्वोचिताः क्रियाः ।
तत्यजुर्दुस्त्यजं स्नेहं शोकमोहभयार्तिदम् ॥ १३ ॥
पदरत्नावली
ज्ञातेः सपिण्डस्य तस्य देहं निर्हृत्य दग्ध्वा उचिताः क्रियाः श्राद्धादिलक्षणाः
॥ १३ ॥
सत्यधर्म
श्मशानवैराग्यं सर्वसाधारणं धामगमने पुनः शोको विवेककृतोऽकारि किं तैरित्यतो न तथेति वक्तुं दुस्त्यजं तत्त्यजुरिति पुनर्जगादेति ज्ञेयम् । उचिताः क्रिया अनुपनीतयोग्यकर्माणि ॥ १३ ॥
बालघ्नयो व्रीडितास्तत्र बालहत्याहतप्रभाः ।
बालहत्याव्रतं चेरुर्ब्राह्मणैर्यन्निरूपितम् ।
यमुनायां महाराज स्मरन्त्यो द्विजभाषितम् ॥ १४ ॥
सत्यधर्म
बालघ््नयो गरनिगारणेन ब्राह्मणैर्यन्निरूपितं तद्बालहत्याव्रतं तत्पापापनोदकं प्रायश्चित्तं चेरुश्चक्रुः । द्विजभाषितं द्विजाभ्यामङ्गिरोनारदाभ्यां ब्राह्मणाभ्याम् । ब्रह्मणो ब्राह्मणत्वात् । यथोक्तं बृहद्भाष्ये । ‘‘विष्णोर्ब्राह्मणजातिः सन्ब्रह्मा जज्ञे चतुर्मुखः’’ इति । अद्विजभाषितं निर्दन्तसुतोदितो-दन्तमिति वा । ‘‘दन्तविप्राण्डजा द्विजाः’’ इत्यमरः ॥ १४ ॥
चट्टी
द्विजभाषितमङ्गिरसा प्रोक्तम् । पुत्रादीनां दुःखहेतुत्वं स्मरंत्यः पुत्रकामनाशून्या निर्मत्सराः सत्य इति भावः ॥ १४ ॥
स इत्थं प्रतिबुद्धात्मा चित्रकेतुर्द्विजोक्तिभिः ।
गृहान्धकूपान्निष्क्रान्तः सरःपङ्कादिव द्विपः ॥ १५ ॥
पदरत्नावली
तत्रा चित्रकेतुः किं चकारेति तत्राह– स इत्थमिति ॥ १५ ॥
सत्यधर्म
चित्रकेतुः किं निकेतन एवासीदुत किं भवनं त्यक्त्वा वनं गत इति शङ्कां पराकरोति द्वाभ्याम् ॥ स चित्रकेतुरिति । सरःपङ्कात्सरोवरसम्बन्धिपङ्कात् । द्विपो गजः ॥ १५ ॥
चट्टी
ततश्चित्रकेतुः किं चकारेति तत्राह ॥ स इत्थमिति । निबिडपङ्कतुल्यगृहं विहाय निष्क्रमणमतिर्धीरस्य तस्यैव योग्यं नान्यस्येति दृष्टान्तेनाह ॥ सरसः पङ्काद्विपो गज इवेति ॥ १५ ॥
कालिन्द्यां विधिवत् स्नात्वा कृतपुण्यजलक्रियः ।
मौनेन संयतप्राणो ब्रह्मपुत्राववन्दत ॥ १६ ॥
पदरत्नावली
कृताः पुण्यजलैः क्रियास्तर्पणादिलक्षणा येन स तथा ॥ १६ ॥
सत्यधर्म
कृतपुण्यजलक्रियः कृता अनुष्ठिताः पुण्यानि तत्साधनानि यानि यामुनानि जलानि तैः क्रियास्तर्पणादिरूपिण्यो येन स तथा । मौनेनासम्भाष्यासम्भाषणरूपेण । संयतप्राणो निगृहीत-श्वासादिः । ब्रह्मपुत्रावङ्गिरोनारदौ । रूढोऽयं पुत्रशब्दः । ‘‘अक्ष्णं च पुदिति छिद्रं पुत्रस्तत्त्राणतो भवेत्’’ इति बृहद्भाष्ये । तथा ‘‘पुन्नामनरकात्त्राता पुत्र इत्यभिधीयते’’ इत्यन्यत्रोक्तस्य निर्वचनस्या-निर्वचनीयत्वाद्विधिविषये इति ॥ १६ ॥
चट्टी
कृताः पुण्या जलक्रियाः पितृतर्पणाद्या येन स तथा । संयतप्राणो नियतेन्द्रियः ॥ १६ ॥
अथ तस्मै प्रपन्नाय भक्ताय प्रयतात्मने ।
भगवान् नारदः प्रीतो विद्यामेतामुवाच ह ॥ १७ ॥
पदरत्नावली
अथ तयोर्ब्रह्मपुत्रयोर्मध्ये नारदः । हेत्यनेनाधिकारगुणसंपन्नस्य विद्योक्तफलं साकल्येन फलतीति ध्वनयति ॥ १७ ॥
सत्यधर्म
तत्कालोचितमालोचितं नारदेनाचारि तदनन्तरं वन्दनं दन्धनीकृतं किमित्यत आह ॥ भगवान्नारदः प्रीत इति । इयतः समयस्य यापनं तु तस्याशुचित्वादेव न तु तस्यानधिकारात् स्वस्य अभानादिति वा मन्तव्यम् ॥ १७ ॥
चट्टी
इमां मन्त्रोपनिषदं प्रतीच्छेत्युक्तविद्यामिदानीमुपदिशतीत्याह ॥ अथेति । प्रपन्नायेत्यादिना शिष्याधिकारनिरूपणाद्विवक्षितार्थतत्त्वज्ञानदार्ढ्यादिवाचकभगवच्छब्देन गुर्वधिकारनिरूपणात्प्रीत इत्यनेन गुरुप्रसादकथनाच्चाङ्गवैकल्याभावेन विद्या सम्पूर्णफलप्रदाऽभूदिति सूचितम् ॥ तथा चोक्तं प्राक् । ‘‘गुरुशिष्ययोरयोग्यत्वाद्गुरुवृत्तेरपूर्तितः । अप्रसादाद्गुरोर्विद्या न यथोक्तफलप्रदा’’ इति ॥ १७ ॥
नारद उवाच–
नमस्तुभ्यं भगवते वासुदेवाय धीमहि ।
प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च ॥ १८ ॥
पदरत्नावली
चित्तसन्निहितं सम्बोध्य तुभ्यं नम इति वक्ति । भगवत इत्यादिविशेषणानि गुणसामग्रीद्योतकानि यथशसंभवमूह्यानि ॥ १८ ॥
सत्यधर्म
इमां मन्त्रोपनिषदं प्रतीच्छेति प्रतिज्ञामवन्ध्यसन्ध्यो नारदः पारयितुमारभते ॥ नम इति । मन्त्रोपनिषद आपरोक्ष्यं श्रीपतेर्भवति न सन्देहोऽत्रेति तुभ्यमिति वदन् ध्वनयति । वासुदेवाय वासनाद्वासुदेवोऽसि वासितं ते जगत्त्रयम् । सर्वभूतनिवासोऽसि वासुदेवाय (वासुदेव नमोऽस्तु) ते नमः’’ ॥ इत्यादेरेतदर्थो बोध्यः । प्रद्युम्नः प्रकृष्टद्युतिमान् । अनिरुद्धः वैरिभिरनिरुद्धः । सङ्कर्षणः शेषोऽन्तर्गतः । भगवते नारायणायेति पञ्चरूपायेति वा । भगवान्सर्वदेवेभ्यो विसिष्ठो यत्सदैव हि । रूपमाहुः पञ्चविधं तस्य विष्णोर्महात्मनः ॥ शुक्लं तु वासुदेवाख्यमनिरुद्धं तु नीलकम् । सङ्कर्षणं पिङ्गलं च प्रद्युम्नं हरितं स्मृतम् । नारायणं लोहितं स्यात्पञ्चरूपाण्यजे हरौ’’ ॥ इति बृहदारण्यकभाष्योक्ते-स्तदवान्तरविशेषोऽवसेयः वयं धीमहि ध्यायामः । वासुदेवाय धीमहीति विष्णुगायत्र्यनुवादः ॥ १८ ॥
चट्टी
चित्तसन्निहितत्वात्तुभ्यमिति । नमो धीमहि ध्यायेम । मनसा नमस्याम इत्यर्थः । भगवते षड्गुणपूर्णाय । लक्ष्मीसमेताय वा जगत्सृष्ट्यादिकर्त्रे वा ॥ तथा चोक्तम् ॥ गुणवान् भगवानेव सृष्टिसंहाररक्षकः । द्वौ द्वौ गुणावधिष्टाय सर्गाद्यमकरोत् प्रभुः । प्रद्युम्नश्चानिरुद्धश्च सङ्कर्षण इतीरितः । भगवान् वासुदेवोऽसौ सृष्ट्याद्यमकरोत्स्वयम् । ऐश्वर्यवीर्यवान्सर्गे प्रद्युम्नः प्रत्यपद्यत । तेजः शक्तिं समाविश्यानिरुद्धो ह्यपालयत् । बलज्ञाने तथा द्वे तु सङ्कर्षणाधिष्ठितः । अकरोद्भगवानेव संहारं जगतोऽस्य तु । एवं षड्गुणपूर्णत्वादपि च श्रियः । सर्गादिकारणत्वाच्च भगवानिति चोच्यते’’ ॥ इति भारते । वसति स्वयं सर्वत्र वासयति च सर्वं स्वस्मिन्निति वासुः । स चासौ देवः क्रीडादिगुणशाली च तस्मै ॥ तदुक्तम्– ‘‘सर्वत्रासौ समस्तं च स्वस्मिन् वासयते यतः । ततः स वासुदेवेति विद्वद्भिः परिपठ्यते’’ ॥ इति विष्णुपुराणे । प्रद्युम्नाय प्रकृष्टद्युतिरूपाय ॥ तदुक्तमैतरेयसंहितायाम्– ‘‘प्रद्युम्नो द्युतिस्वरूपत्वाद्विष्णुरेव प्रकीर्तितः’’ इति । न केनापि क्वापि निरुद्ध इत्यनिरुद्धः । अनिभिः प्रयत्नवद्भिर् मुख्यप्राणदासैर्वा हृदि निरुद्ध इति वा । तस्मै । सं सर्वेषां जीवानां कर्षणाद्योग्यतानुसारेण शुभाशुभगतिप्रापणात् सङ्कर्षणस्तस्मै ॥ १८ ॥
नमो विज्ञानमात्राय परमानन्दरूपिणे१ ।
आत्मारामाय शान्ताय निवृत्तद्वैतदृष्टये२ ॥ १९ ॥
पदरत्नावली
नित्यं निवृत्ता द्वैतदृष्टिः स्वावतारादौ भेददर्शनं येन स तथा तस्मै । ‘निवृत्तद्वैतवृत्तये’ इति पाठे निवृत्तेन द्वैतेनान्यथाज्ञानेन वृत्तिर्वर्तनं यस्य स तथा तस्मै । नित्यनिवृत्त-देहाद्यहंममाभिमानायेत्यर्थः ॥ १९ ॥
सत्यधर्म
विज्ञानमात्राय विज्ञानमयाय । परमानन्दात्मकायेति परमानन्दरूपिणे परमा ब्रह्माद्या आनन्दरूपिणो येनेति वा तस्मै । आत्मारामाय स्वरमणाय । शान्ताय विकोपाय सुखस्य तरतमभावेन निर्णायकायेति वा । निवृत्तद्वैतदृष्टये निवृत्तं द्वैतं स्वरूपेषु भेदो येषां ते तेषु दृष्टिर्यस्य तस्मै । स्वसमाधिकवस्त्वन्तरदृष्टिरहितायेति वा ॥ १९ ॥
चट्टी
विज्ञानमात्राय पूर्णज्ञानस्वरूपाय । परमानन्द एव मूर्तिः शरीरं यस्य तस्मै । ‘‘सज्ज्ञानानन्दशीर्षोऽसौ सज्ज्ञानानन्दबाहुकः’’ इत्यादेः ॥ आत्मारामाय स्वरमणाय ॥ शान्ताय पूर्णसुखाय । निवृत्ता द्वैतदृष्टिः स्वावतारेषु भेदज्ञानं यस्मात्तस्मै । यद्वा । द्वैतदृष्टिर्भेददर्शनम् अन्यथाज्ञानमिति यावत् । विद्यमानाकारापेक्षया द्वितीयाकारविषयत्वात् । सा निवृत्ता यस्मादित्यर्थः ॥ तथा चोक्तं स्कान्दे– ‘‘भिन्नस्याभेदतो दृष्टिरपि भेददृशिर्मता । वस्तुयाथ्यात्म्यतस्तस्य भिन्नत्वादिति सूरिभिः । अन्यथा ज्ञानमेवातो भेदज्ञानं विनिन्दितम् । न विद्यमानभेदस्य दर्शनं निन्दितं क्वचित्’’ ॥ इति । निवृत्तद्वैतवृत्तय इति पाठे द्वैतमन्यथाज्ञानम् । ‘‘अन्यथा मतयो द्वैतम्’’ इति वचनात् । निवृत्तद्वैतत्वेन वृत्तिरवस्थानं यस्य स तथा । तस्मै । यद्वा अन्यथाज्ञानवाचिना द्वैतशब्देन तत्कारण-मविद्या लक्ष्यते । ततश्च निवृत्ता द्वैतवृत्तयोऽविद्याः पञ्चपर्वाणि यस्मादित्यर्थः ॥ तदुक्तं भारते– ‘‘तमस्तु शार्वरं प्रोक्तं मोहश्चैव विपर्ययः । तदाग्रहो महामोहस् तामिस्रं क्रोध उच्यते । नरकं त्वंधतामिस्रमविद्या पञ्चपर्विका’’ ॥ इति ॥ तृतीयस्कन्धे च । ‘‘योऽविद्ययानुपहतोऽपि दशार्थवृत्या’’ इति । यद्वा । द्वैतमशुभम् । ‘‘एकं तु शुभमुद्दिष्टमशुभं द्वैतमुच्यते’’ इति भारतवचनात् । ततश्च निवृत्ता द्वैतदृष्टिर्द्वैतवृत्तिर्वा यस्मात्तस्मै शुभदृष्टये शुभव्यापारायेत्यर्थः ॥ १९ ॥
आत्मानन्दानुभूत्यैव सम्यक्त्यक्तोर्मये नमः ।
हृषीकेशाय महते नमस्तेऽनन्तमूर्तये ॥ २० ॥
पदरत्नावली
सम्यक् त्यक्ताः षडूर्मयो यस्येति तस्मै । यद्वा अशनादिषडूर्मिरहिताय । ‘योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति’ इति श्रुतेः ॥ २० ॥
सत्यधर्म
आत्मानन्दानुभूत्या स्वस्वरूपभूतानन्दानुभवेन कारणेन त्यक्ता अनङ्कुरिताः षडूर्मयो जन्मादयो येन । सम्यक् स्वासम्बन्धेनैव त्यक्ताः षडूर्मयः येन स तस्मै । अशनायापिपासे शोकं मोहं जरां मृत्युमत्येतीत्युक्तषडूर्मय इति वा । ऊर्मिरिति सामयिकी संज्ञा । हृषीकेशाय सकलेन्द्रियस्वामिने । हृषीकाणीन्द्रियाण्याहुरित्यादेः । अनन्तमूर्तये शेषान्तर्गताकाराय वा । अनन्ता तत्सामर्थ्येन मात्रा बद्धा मूर्तिर्गात्रं यस्येति दामोदरस्तस्मा इति वा ॥ २० ॥
चट्टी
सम्यक् त्यक्ता जननादिषडूर्मयो येन तस्मै । अशनायादिषडूर्मिरहितायेति वा । ‘‘अशनाया पिपासे शोकं मोहं जरां मृत्युमत्येति’’ इति श्रुतेः । तत्र हेतुः ॥ आत्मेति । स्वरूपानन्दानुभवेनेत्यर्थः । हृषीकाणामिन्द्रियाणामीशः प्रेरकस्तस्मै । यद्वा । हृष्या हर्षहेतवः केशा अस्येति हृषीकेशः । अग्न्यादिषु स्थित्वा स्वकेशनियतैस्तदंशुभिर्जगतो बोधनस्थापनाभ्यां हर्षणाद्धृषीकेश इत्यर्थः ॥ तदुक्तं मोक्षधर्मे– ‘‘सूर्याचन्द्रमसौ शश्वत्केशैर्मेंऽशुसंज्ञितैः । बोधयन् स्थापयंश्चैव जगदुत्पद्यते पृथक् । बोधनात्स्थापनाच्चैव जगतो हर्षसम्भवात् । अग्निषोमकृतैरेभिः कर्मभिः पाण्डुनन्दन । हृषीकेशोऽहमीशानो वरदो लोकभावनः’’ इति ॥ २० ॥
मनस्युपरते१ प्राप्य य एको मनसा सह ।
अनामरूपचिन्मात्रः सोऽव्ययः२ सदसत्परः ॥ २१ ॥
तात्पर्यम्
बाह्यमनस्युपरते चिन्मात्रमनसा सह प्राप्यः ॥ २१ ॥
पदरत्नावली
मन्त्रमुपदिशन् ध्यानप्रकारमाह– वचसीति ॥ बाह्यमनसा सह वचस्युपरते नष्टे चिन्मात्रमनसा सह प्राप्यः । सदसत्परः स्थूलसूक्ष्मप्रपञ्चविलक्षणः ॥ २१ ॥
सत्यधर्म
मनस्युपरते प्राप्य इति श्लोके मनस उपरमानन्तरप्रापकाभावात्केन प्राप्य इत्यतः स्वयं तदुपपत्तिमुपपादयति ॥ बाह्येति । बाह्ये स्थूले जडे मनसि । सहेतरेन्द्रियैरिति शेषः । उपरते सति चिन्मात्रमनसा स्वरूपमनसा प्राप्यः । अतो न प्रापकाभावादिति भावः ॥ अथ मूलार्थः ॥ मनसि सहेतरेन्द्रियैर् बाह्यैरुपरते व्यापारे । एको मुख्यः । मनसा चिन्मात्रमनसा यः प्राप्यो गम्यः । तल्लक्षणम् अनामरूपचिन्मात्र इत्यादि । अनामाऽसावप्रसिद्धत्वादरूपो भूतवर्जनादित्यादेर्न सर्वथा नामरूपवैकल्यं तत्पदार्थ इत्यर्थः । अत एव चिन्मात्र इत्युक्तिः । अव्ययो निर्नाशः । सदसती मूर्तामूर्तजगती कार्यकारणात्मके वा तत्परस्तदतीतो यः स इत्युद्देश्यविधेयभावो यथायथमिति भावः । वचसीति नाचार्यवचसि दृश्यते पाठ इत्यदृश्यः । सोऽव्यान्न इति पाठोऽपि दिव्यः ॥ २१ ॥
चट्टी
वचोमनःशब्दौ सर्वेन्द्रियोपलक्षणे । मनसा बाह्यमनसा सह वचसि वागादिबाह्येन्द्रियजाते । उपरते विलीने सति । मनसा मनआदिचिन्मात्रेन्द्रियैः सह यो भवान् प्राप्यो भवति सोऽव्यादित्यन्वयः । नामप्रवृत्तिनिमित्तानामनन्तत्वेन ज्ञातुमशक्यत्वात्प्राकृतरूपरहितत्वाच्चानामरूपः ॥ तदुक्तम्– ‘‘अप्रसिद्धे-स्तद्गुणानामनामाऽसौ प्रकीर्तितः । अप्राकृतत्वाद्रूपस्याप्यरूपोऽसावुदीर्यते’’ इति । स चासौ चिन्मात्रश्च । सदसत्परः कार्यकारणविलक्षणः । कार्यकारणयोः कारणं वा ॥ २१ ॥
यस्मिन्निदं यतश्चेदं तिष्ठत्यप्येति जायते ।
मृन्मयेष्विव मृज्जातिस्तस्मै ते ब्रह्मणे नमः ॥ २२ ॥
तात्पर्यम्
मृन्मयेष्विव मृज्जातिः । ‘पृथिवी पर्वताश्चैव मृन्मयाः समुदीरिताः । तेषु मृज्जातयः सर्वे जायन्ते स्थावरादयः’ इति च ॥ २२ ॥
पदरत्नावली
अलौकिकवस्तुनो लक्षणमन्तरेण तज्ज्ञानं दुस्साध्यमिति तल्लक्षणमाह– यस्मि-न्निति ॥ इदं जगद् यस्मिंस्तिष्ठत्यप्येति च । यतश्च जायते । अत्र दृष्टान्तमाह– मृन्मयेष्विति ॥ ‘जातिः सामान्यजन्मनोः’ इत्यभिधानात्, मृदो जातिर्जन्म यस्य वृक्षादेः स तथा । यथा वृक्षादिराशि-र्मृन्मयेषु पृथिवीपर्वतादिषु मृद्विकारेषु तिष्ठत्यप्येति तेभ्यो जायते च तथा । मृज्जातिर्मृत्वं मृन्मयेषु घटादिष्विवानुगतमित्यर्थो ब्रह्मणो बहुत्वाभावात् ‘एकमेवाद्वितीयं ब्रह्म’ इति श्रुतेः, ‘पृथिवी पर्वताश्चैव मृन्मयाः समुदीरिताः । तेषु मृज्जातयः सर्वे जायन्ते स्थावरादयः ॥’ इत्यनेन विरुद्धत्वाच्चानुपपन्नः
॥ २२ ॥
सत्यधर्म
यस्मिन्निदमिति श्लोके उपादानत्वमुपादाय ब्रह्मणो जगत्प्रतिप्रवृत्त इत्यन्यथाप्रतीतिं किञ्चिदनूद्य मानतोऽपमानयति ॥ मृन्मयेष्विव मृज्जातिरिति । पृथिवी पर्वता एतदादयो मृन्मयाः समुदीरिताः । तेषु पृथिवीपर्वतादिषु मृज्जातयो मृत्त्वरूपसामान्यसदृशसामान्यकाः । ‘‘जातिश्छन्दसि सामान्ये मालत्यां गोत्रजन्मनोः’’ इति विश्वः । सर्वे स्थावरादयो वृक्षादयो जायन्त इति मृन्मयपदेन पृथिवीपर्वतादिग्रहणात्तेषु स्वस्वबीजजन्मनां मृज्जातिपदेन स्थावराणां तर्वादीनां ग्रहणान्नोपादानोपादेय-भावेनैकीभावावगमकमिदं निदर्शनमिति भावः ॥ ततो मूलमर्थाप्यते । यस्मिन्भगवतीदं जगत्तिष्ठति यदाधारतया यतो यन्निमित्ताज्जायतेऽप्येति नश्यति च । मृन्मयेषु पृथिवीपर्वतादिषु मृज्जातिः स्वस्वबीजोपादानकानामपि वृक्षादीनां सङ्घो मृदि जातिरुत्पत्तिर्यस्येति तथा । तत्रैव तिष्ठत्यप्येति च तथेति । एतेनोपादानोपादेयता भगवज्जगतोः किन्तु सहकारी हरिरिति निदर्शनानुरूपता प्रामाणिकी ज्ञेया । अन्यथा तद्वैय्यर्थ्यं स्यादिति भावः ॥ २२ ॥
चट्टी
तदेवाह ॥ यस्मिन्निति । यस्मिन्निदं कार्यकारणात्मकं जगत्तिष्ठति । अप्येति च यतश्च जायते । तत्र दृष्टान्तमाह ॥ मृण्मयेष्विति । मृज्जातिर्यथा मृदा जातिर्जन्म यस्य सो वृक्षादिमृण्मयेषु पृथिवीपर्वतादिषु तिष्ठत्यप्येति । तेभ्यो जायते च तद्वदित्यर्थः । एतेन मृण्मयेष्विव मृज्जातिरिति दृष्टान्त-बलान्मृद्धटयोरिव ब्रह्मप्रपञ्चयोरप्युपादानोपादेयभाव इत्येतन्निरस्तम् । उपादानोपादेयभावशून्यानामेव दृष्टान्तत्वेन विवक्षितत्वात् ॥ तथा चोक्तम् । पृथिवी पर्वता इत्यादि ॥ २२ ॥
यन्न स्पृशन्ति न विदुर्मनोबुद्धीन्द्रियासवः ।
अन्तर्बहिश्च विततं व्योमवत् तं नतोऽस्म्यहम् ॥ २३ ॥
पदरत्नावली
मनोबुद्धीन्द्रियासवः मनआदिशब्दवाच्या रुद्रादयो देवाः ॥ २३ ॥
सत्यधर्म
मनोबुद्धीन्द्रियासवः पूर्वव्याख्यानरीत्या मनआदिशब्दवाच्या रुद्रादयो देवा यं न स्पृशन्ति । असङ्गत्वात् । न विदुः साकल्येन । तदस्पर्शनमेवमिति निदर्शनप्रदर्शनेन दर्शयति ॥ व्योम-वद्गगनवदन्तर्बहिश्च विततं व्याप्तमिति ॥ २३ ॥
चट्टी
यदुक्तं सदसत्पर इति कार्यकारणात्मकप्रपञ्चवैलक्षण्यं तत्कुत इत्यतो लोक-प्रमाणविषयत्वादित्याह ॥ यदिति ॥ व्योमवदन्तर्बहिर्विततमपि यं भगवन्तमसवः प्राणाः कर्मेन्द्रियाणि क्रियाशक्त्या न स्पृशन्ति । मनआदीनि च ज्ञानशक्त्या न विदुः । यद्वा । मनआदि ज्ञानकर्मेन्द्रियाणि न स्पृशन्ति । न विषयीकुर्वन्ति तदभिमानिनो रुद्रादिदेवाश्च न विदुरित्यर्थः ॥ २३ ॥
देहेन्द्रियप्राणमनोधियोऽमी यदंशविद्धाः प्रचरन्ति कर्मसु ।
नैवान्यदा लोहमिव प्रतप्तं स्थानेषु तद् द्रष्ट्रपदेशमेमि ॥ २४ ॥
पदरत्नावली
भगवदनुग्रहभावाभावौ तद्विषयकज्ञानाज्ञानकारणमित्युक्तम् । तत् स्पष्टमाह– देहेति ॥ यस्य हरेरंशैर्विद्धाः प्रेरिता देहेन्द्रियाद्यभिमानिनो देवा ज्ञानादिकर्मसु प्रचरन्ति प्रवर्तन्ते । अन्यदा यदंशप्रेरणाभावे नैव प्रवर्तन्त इत्यन्वयः । कथमिव ? प्रतप्तमन्तर्निहितवह्निसामार्थ्याल्लोहो दाह-कारणं प्रवर्तते । अप्रतप्तं न हि । अहं तद् ब्रह्म शरणमेमि । कीदृशम् ? देहेन्द्रियादिस्थानेषु स्थितम् । द्रष्ट्रपदेशं साक्षिनाम ॥ २४ ॥
सत्यधर्म
कुतो न जानते ते न स्पृशन्ति चेत्येतत्सङ्कुच्य परिहृतमित्येतत्प्रायं मन्वानो मूल-कृद्विविच्य स्वयमेवाह ॥ देहेन्द्रियेति । यदंशविद्धा यस्य हरेरंशैर्विद्धाः प्रेरिता देहेन्द्रियप्राणमनोधियस् तदभिमानिनो देवाः कर्मसु स्वस्वव्यापारेषु प्रचरन्ति प्रवर्तन्ते । अन्यदा तदंशेशनाभावे न प्रचरन्ती-त्यन्वयः । यथा प्रतप्तं वह्निना लोहं स्वर्णादि दाहादिहेतुरन्यदाऽनग्निलग्नतादशायां न तत्कारणं तथेति । ‘‘लोहं जोड्गके सर्वतैजसे’’ इति विश्वः स्थानेषु देहेन्द्रियादिषु, वृत्तिः सप्तम्यर्थः, स्थितं तद् ब्रह्म तद्द्रष्ट्रपदेशं द्रष्टा साक्षीत्यपदेशोऽपदिश्यते इत्यपदेशो नाम यस्य तत्तदेमि । शरणमिति शेषः प्राप्नुयामिति वा । साक्षी चैतदादेः ॥ २४ ॥
चट्टी
तेषां तदज्ञाने हेतुमाह ॥ देहेति । अमी देहेन्द्रियादयो यस्य परब्रह्मणोंऽशै रूप-विशेषैर्विद्धाः प्रेरिताः सन्तः कर्मसु स्वविषयेषु प्रचरन्ति जागृत्स्वप्नयोः । अन्यदा सुषुप्तिमूर्च्छादौ नैव प्रचरन्ति ॥ तत्प्रेरणाभावात् । यथा प्रतप्तं लोहं न दहति । अतो यथा लोहमग्निशक्त्यैव दाहकं सदग्निं न दहति । एवं ब्रह्मशक्त्युद्बोधितज्ञानक्रियाशक्तिभ्यां प्रवर्तमानदेहादयश्च तदभिमानिनो देवाश्च यं न स्पृशन्ति न विदुश्चेति भावः । स्थानेषु जागरादिषु देहेन्द्रियादिषु वा । द्रष्ट्ररपदेशं साक्षिसंज्ञं तत्परब्रह्म । शरणमेमि ॥ २४ ॥
ओं नमो भगवते महापुरुषाय महानुभावाय महाविभूतये सकलसात्वतपरिवृढ-निकरकरकमलकुड्मलोपलालितचरणारविन्दयुगल परम परमेष्ठिन् नमस्ते ॥ २५ ॥
सत्यधर्म
सात्त्वता भक्ता अखण्डोऽयं सद् भगवांस्तद्वन्तः सात्वता इति तकारान्तादकारान्तः
॥ २५ ॥
चट्टी
ज्ञानशक्त्यादिगुणैः शोभमानाः सात्वताः । ‘‘सत्त्वं तु शोभनं स्यात्तद्युक्ताः सात्वता मता’’ इति वचनात् । सकला ये सात्वतपरिवृढाः सात्वतश्रेष्ठास्तेषां करकमलानां कुड्मलैर्मुकुलै-रुपलालितं चरणारविन्दयुगलं यस्य तस्य सम्बोधनम् । परमोत्कृष्ट । परमेष्ठिन् सर्वेश्वर ॥ २५ ॥
श्रीशुक उवाच–
भक्तायैतां प्रपन्नाय विद्यामादिश्य नारदः ।
ययावङ्गिरसा साकं धाम स्वायम्भुवं विभो ॥ २६ ॥
सत्यधर्म
नारदो भक्ताय हरेः । प्रपन्नाय स्वशरणागताय । स्वयं विद् ब्रह्मोपदेशेन ताम् एतां विद्यामादिश्योपदिश्येमां मन्त्रोपनिषदमिति गदनं पूर्वं मध्येऽन्ते च विद्यामिति रहस्यतां द्योतयितुमिव विद्याधराभिधां चामुधा विधातुमिति बोध्यम् । स्वायम्भुवं धाम सत्यलोकम् । पूर्वं नारदोऽङ्गिरा इति गिरा गिरा चात्र नारदोऽङ्गिरसा साकं ययाविति च ब्रह्मपुत्राविशेषान्न तरतमभाव इति वा पुत्रप्रदातृत्व-मन्त्रप्रदातृत्वविरक्ति जननहेतु जीवोपदेशादिनिमित्तविशेषाद्विशेषो द्योतितो भवत्विति वैवं निर्देश-निमित्तविशेषाद्विशेषो द्योतितो भवत्विति वैवं निर्देश इति ज्ञेयम् ॥ २६ ॥
चट्टी
पूर्वं सनारदाङ्गिरसावाजगामेत्यङ्गिराः प्राधान्येनोक्तश्चित्रकेतोः पुत्रप्रदत्वेन तस्य प्रथम-गुरुत्वात् । इह तु नारदोऽङ्गिरसा साकं ययाविति नारदस्य प्राधान्यनिर्देशः । तदुपदेशेन तस्य परवैराग्योत्पत्तेः । प्रभो हे समर्थ ॥ २६ ॥
चित्रकेतुस्तु विद्यां तां यथा नारदभाषिताम् ।
धारयामास सप्ताहमब्भक्षः सुसमाहितः ॥ २७ ॥
सत्यधर्म
यथा सम्यक् अब्भक्ष्योऽसाधारण्यन्यायेन तन्मात्रप्राशकः ॥ २७ ॥
चट्टी
यथा यथावद्धारयामास ॥ २७ ॥
ततश्च सप्तरात्रान्ते विद्यया धार्यमाणया ।
विद्याधराधिपत्यं स लेभेऽप्रतिहतं नृपः ॥ २८ ॥
सत्यधर्म
अप्रतिहतमप्रच्युतमवान्तरं फलम् ॥ २८ ॥
ततः कतिपयाहोभिर्विद्ययेद्धमनोगतिः ।
जगाम देवदेवस्य शेषस्य चरणान्तिकम् ॥ २९ ॥
तात्पर्यम्
अन्यान्तर्यामिणं विष्णुमुपास्यान्यसमीपगः । भवेद्योग्यतया तस्य पदं वा प्राप्नुयान्नरः’ इति नारदीये ॥ २९ ॥
पदरत्नावली
ननु विष्णूपासनया शेषसमीपगमनं कथं सङ्गच्छत इति चेदुच्यते । तत्त-देवान्तर्यामिविष्णुविषयोपासनया तत्तद्देवसमीपप्राप्त्युपपत्तेः । ‘अन्यान्तर्यामिणं विष्णुमुपास्यान्यसमीपगः । भवेद् योग्यतया तस्य पदं वा चाप्नुयान्नरः ॥’ इत्युक्तेः । अनेन तत्तत्पदप्राप्तियोग्यश्चेत् सुतरां तत्तद्देव-समीपं गत इत्युक्तं भवति । तस्मादत्र चित्रकेतोरनेन प्रत्यक्षविधानेन मुहुर्मुहुः शेषस्य सकाशमभ्ययादिति युज्यते । चित्रकेतुना शेषान्तर्यामिविष्णुरुपासीत इति कुत इति चेत्, ‘शेषान्तर्यामिणं विष्णुं चित्रकेतु-रुपास्य तु । शेषाविष्टहरेश्चापि वरान् प्राप्याप तद्गतिम् ॥’ इति वचनबलात् ॥ २९ ॥
सत्यधर्म
ततः कतिपयाहोभिरिति श्लोके नारदोक्तविद्याया विष्णुविषयत्वादुचिताच्युतचरण-प्राप्तिस्तत्कथं शेषसमीपप्राप्तिर्न चान्यविद्ययाऽन्यप्राप्तिर्दृष्टेष्टा वेत्यतः प्रमाणेनैव तं कोलाहलं शान्तीकरोति ॥ अन्यान्तर्यामिणमिति । उपास्य पूर्वमन्यसमीपगो भवेत् । नरस्तद्वारा भगवदाप्ति-योग्यश्चेत् । तस्य शेषस्य पदं प्राप्नुयात् ॥ अथ मूलार्थः ॥ कतिपयाहोभिः कतिपयाहैः । अनित्यः समासान्ताट्टच् । इद्धाऽभिवृद्धा मनोगतिर्ज्ञानमार्गो यस्य स तथा ॥ २९ ॥
चट्टी
कतिपयैरहोभिर्विद्ययेद्धेन दीप्तेन मनसा गतिर्यस्य स तथा । अत्र विद्याया भगवद्विषय-कत्वेऽपि तथा शेषान्तिकप्राप्तिर्युज्यते । शेषान्तर्यामिण एवोपास्यत्वादिति ज्ञातव्यम् ॥ तदुक्तम् ॥ अन्यान्तर्यामिणमित्यादि नारदीये ॥ २९ ॥
मृणालगौरं शितिवाससं स्फुरत्किरीटकेयूरकटित्रकङ्कणम् ।
प्रसन्नवक्त्रारुणलोचनं वृतं ददर्श सिद्धेश्वरमण्डलैः प्रभुम् ॥ ३० ॥
पदरत्नावली
शितिवाससं नीलवस्त्रम् । कटित्रं काञ्चीगुणम् । ‘कटिसूत्रं सरसनं कटित्रं कटि-भूषणम्’ इत्यभिधानात् ॥ ३० ॥
सत्यधर्म
शेषस्येत्युक्तशेषस्वरूपं कतिपयश्लोकैरुपश्लोकयति ॥ मृणालगौरमिति । मृणालवत् । ‘‘मृणालं बिसम्’’ इत्यमरः । बिसवद्गौरं धवलम् । ‘‘गौरोऽरुणे सितः’’ इत्यमरः । शितिवाससं शिति नीलं वासो वस्त्रं यस्य स तथा तम् । कटित्रं काञ्चीगुणः । ‘‘कटिसूत्रं सारसना कटित्रं कटिभूषणम्’’ इत्यभिधानम् । प्रसन्नानि वक्त्राणि सहस्रमरुणानि लोचनानि द्विसहस्रसङ्ख्यानि यस्य तम् । सिद्धेश्वरमण्डलैर्वृतं परिवृतं ददर्श ॥ ३० ॥
चट्टी
मृणालवद्गौरम् । शितिवाससं नीलांबरम् । स्फुरन्ति किरीटादीनि यस्य तत्कटित्रं कटिसूत्रम् । प्रसन्नानि वक्त्राणि यस्यारुणानि लोचनानि यस्य तं च । सिद्धेश्वराणां मण्डलैः समूहैर्वृतं ददर्श ॥ ३० ॥
तद्दर्शनध्वस्तसमस्तकिल्बिषः१ स्वच्छामलान्तःकरणोऽभ्ययान्मुहुः ।
प्रवृद्धभक्त्याऽऽप्रणयाश्रुलोचनः प्रहृष्टरोमा तमनादिपूरुषम् ॥ ३१ ॥
तात्पर्यम्
अनेन प्रकारेण मुहुस्तत्सकाशमभ्ययात् । ‘शेषान्तर्यामिणं विष्णुं चित्रकेतु-रुपास्य तु । शेषाविष्टहरेश्चापि वरान्प्राप्याप तद्गतिम्’ इति तन्त्रमालायाम् ॥ ३१ ॥
पदरत्नावली
अनस्य वायोरादिः कारणं पूरुषं पौरुषं यस्मिन् तथा तम् ॥ ३१ ॥
सत्यधर्म
तद्दर्शनध्वस्तसमस्तकिल्बिष इति श्लोके श्लोके चोत्तरस्मिन्ननादिपुरुषं परमात्मानं मुहुरभ्ययादिति तथाऽव्यवधानेन भगवत्प्राप्तिरिति च प्रतीयेत इति स्वयमन्वयं प्रदर्श्य मानं चोदाहरति ॥ अनेनेति । अनेन प्रकारेण चित्रकेतुर्मुहुस्तत्सकाशं तत्पार्षदवदभ्ययात् । शेषचरणान्तिकप्राप्तिरप्यनेन प्रकारेणोपास्तिद्वारत्वादित्यत्राप्यन्वेति । शेषाविष्टश्चासौ हरिश्च तत्सकाशाद्वरान्प्राप्य तद्गतिं तत्समीप-गमनमिति वैष्यन्यायेनायनं वा प्राप्तवान् ॥ अथ श्लोकार्थविवेकः ॥ स्वच्छोऽमलो मुमुक्षूपास्यस्त-स्मिन्नन्तःकरणं मनो यस्य सः । अनेन प्रकारेण मुहुस्तत्सकाशमभ्ययात् । आप्रणयाश्रुलोचन इति च्छेदः । ईषत्तोषाश्रुलोचनस्तेषामवशतः प्रवहितम् । बहुलत्वेऽपि महत्सन्निधानेऽप्रदर्शनीयतया स्थगनेनैवमिति ज्ञेयम् । उत्तरलेशपदस्वारस्यात् । अथवा तस्मादेव बहुत्वेऽपि तन्महाकारे तान्यल्पीयांसीति आसम्यगिति पूर्वपद्येवार्थ इति मन्तव्यम् । अनिच्छया गच्छतः स्थगनाभावोऽपि युक्तियुक्तः । अनादिपुरुषम् अनादिः पूरुषो भगवान्यस्मिन्यस्य स्वामित्वेन वा तम् ॥ ३१ ॥
चट्टी
तस्य दर्शनेन ध्वस्तं समस्तं किल्बिषं यस्य । स्वस्थं विक्षिप्तममलं रागादिदोष-रहितमन्तःकरणं मनो यस्य । प्रवृद्धया पूर्णया भक्त्या प्रहृष्टानि रोमाणि यस्य । प्रणयेन स्नेहेनाश्रुयुक्ते लोचने यस्य स चित्रकेतुः । अनेनैव प्रकारेणेति शेषः । इदानीं शेषान्तर्यामिणं विद्ययोपास्य यथा तत्सकाशं प्राप्तोऽनेनैव प्रकारेण मुहुस्तमभ्ययात् । असकृत्तत्सकाशमभ्यगादित्यर्थः ॥ ३१ ॥
स उत्तमश्लोकपदाब्जविष्टरं प्रेमाश्रुलेशैरुपसेचयन् मुहुः ।
प्रेमोपरुद्धाखिलवर्णनिर्गमो नैवाशकत् तं प्रसमीडितुं चिरम् ॥ ३२ ॥
पदरत्नावली
उत्तमश्लोकस्य शेषान्तर्यामिणो हरेः पादपद्ययोर् विष्ठरं पीठम् । उपरुद्धोऽखिलानां वर्णानां शब्दोपलक्षणानां निर्गमो द्वारं यस्य सः ॥ ३२ ॥
सत्यधर्म
उत्तमश्लोकस्य हरेः पदाब्जयोर्विष्टरमासनरूपम् । विष्टरं ज्ञेयमासनमिति नानार्थध्व-निपदमञ्जरी । प्रेम्णाऽश्रुलेशैरुपसेचयन्नभिषिञ्चन् । अखिलवर्णानां सामस्त्येनार्थबोधकतया निर्गमो बहिर्निःसरणं प्रेम्णोपरुद्धः प्रतिबद्धो यस्य स तथा । चिरं नाशकन्न शशाक । उपमेहयन्निति पाठस्त्वश्राव्यः ॥ ३२ ॥
चट्टी
सस् तं प्रसमीडितुं स्तोतुं चिरं नैवाशकन्न शशाक । तत्र हेतुः । उत्तमश्लोकस्य पादाब्जयो-र्विष्टरमासनम् । प्रेम्णा जातैरश्रुबिन्दुभिरुपसेचयन् अभिषिञ्चन् । प्रेम्णोपरुद्धोऽखिलानां वर्णानां निर्गतम् उच्चारणं यस्य स तथा ॥ ३२ ॥
ततः समाधाय मनो मनीषया बभाष एतत् प्रतिलब्धवाग्रसः ।
नियम्य सर्वेन्द्रियबाह्यवर्तनं जगद्गुरुं सात्वतशास्त्रविग्रहम् ॥ ३३ ॥
पदरत्नावली
मनीषया धृतिरूपया प्रज्ञया । प्रतिलब्धः सम्यक् प्राप्तो वाग्रसो वचनवीर्यं येन स तथा । सात्वतानां शास्ता विग्रहस्तत्वोपदेशविशेषो यस्य स तथा तम् । सर्वेन्द्रियाणां बाह्येषु विषयेषु वर्तनं व्यापारम् ॥ ३३ ॥
सत्यधर्म
मनीषया धृतिहेतुभूतमिति विशेषणम् । प्रतिलब्ध आविर्भूतो वाग्रसो रहस्योपनिषद्रूपो यस्मिन्सः । सात्त्वतानां भक्तानां शास्तीति शास्त्रमन्तर्नियामको विग्रहो यस्य तम् । अन्तर्यामि-विवक्षयेदम् । यद्वा सात्वतशास्त्रं भगवांस्तस्य विग्रहरूप इति । शास्त्रमन्तर्यामी । संविच्छास्त्रं परं पदमिति भाष्यात् । सात्वच्छब्दादर्श आद्यच्प्रत्यये सात्वतशब्दनिष्पत्तिर्ज्ञेया सात्वतां रमादीनामिमे सात्वता इति । सात्वतां नवमूर्तीनामित्याद्येकादशस्कन्धतात्पर्ये विष्णोः श्रिय इत्यारभ्य सुपर्णो नवधा प्रोक्त(स्मृत) इत्यन्तेनोक्तः सात्वतपदार्थोऽनुसन्धेयः ॥ ३३ ॥
चट्टी
मनीषया बुद्ध्या मनः समाधायैतद्वक्ष्यमाणं बभाषे । प्रतिलब्धो वाग्रसो वचनवीर्यं येन स तथा । सर्वेषामिन्द्रियाणां बाह्येषु विषयेषु वर्तनं व्यापारम् । सात्वतानां स्वभक्तानां शास्ता सन्मार्ग-शिक्षको विग्रहोऽवतारो यस्य तम् ॥ ३३ ॥
चित्रकेतुरुवाच–
अजित जितः सममतिभिः साधुभिर्भवान् जितात्मभिर्भवता ।
विजितास्तेऽपि च भजतामकामा(त्म)नां य आत्मदोऽतिकरुणः ॥ ३४ ॥
पदरत्नावली
हे अजित अतिकरुणो यस्त्वमकामानां भजतां साधूनामात्मदो यस्मादतस्ते साधवोऽपि भवता विजिताः । किञ्च जितमनस्कैः समबुद्धिभिः साधुभिर्भवानपि जितो वशीकृतः । चशब्दो नियतत्वं सूचयति ॥ ३४ ॥
सत्यधर्म
सममतिभिः समबुद्धिभिर्जितात्मभिर्जितमनस्कैरत एव साधुभिः । अजित सर्वाजित त्वं जितो वशीकृतः । सममतिभिः सम् अत्यन्तम् अमतिभि, अत्यज्ञैरित्यर्थः ममतया सहिताः सममतास्ते विद्यन्ते येषां तैरतिममतावद्भिरिति वा अजित त्वं जितात्मभिः साधुभिर्जित इति वा । तेऽपि त्वज्जयिनोऽपि भवता विजिताः स्वाधीनीकृताः । केनोपायेनेत्यत आह ॥ अकामानामविषयेच्छूनां भजतामात्मदः सायुज्यादिप्रदः । तन्निमित्तमतिकरुण इति । चस्त्वर्थः । संस्तवतत्पराभावनं स्वाभाविकं तत्कर्तृकत्वाज्जयस्तु नटनमात्रमिति विशेषसूचकः ॥ ३४ ॥
चट्टी
भक्तवात्सल्याख्यगुणानुस्मरणेन भगवान् क्षिप्रमनुगृहीष्यतीत्यभिप्रेत्य तदेव प्रथमतोऽनु-स्मरति ॥ अजितेति । हे अजित । अन्यैरजितोऽपि भवान् साधुभिर्भक्तैर्जितो वशीकृत एव । यद्यस्माच्च भगवानतिकरुणः । तद्भक्तिस्तत्करुणा चेत्युभयमपि वशीकरणे हेतुरिति भावः । ते साधवोऽपि निष्कामा अपि च भवता विजिताः । यो भवान् अकामनाम् आत्मानमेव ददाति यस्मादित्यर्थः ॥३४॥
तव विभवः खलु भगवन् जगदुदयस्थितिलयावनादीनि१ ।
विश्वसृजस्तेंऽशांशास्तत्र मृषा स्पर्धन्ति पृथगभिमत्या ॥ ३५ ॥
पदरत्नावली
तत्सत्वे प्रमाणमाह– तवेति ॥ जगदुत्पत्त्यादीनि, तव विभवः स्वरूपलक्षणानि खलु यस्मात् ततस्तत्र तस्यामवस्थायां शास्त्रेण स्थितायां ते भिन्नांशा विश्वसृजोऽहं जगदीश्वरो जगत्स्रष्टेति पृथग् जगदीश्वरत्वाभिमानेन मृषा निष्प्रयोजनं स्पर्धन्तीति व्यत्यासेन हरेर्महात्म्यस्यानन्तत्वं दर्शयति ॥ ३५ ॥
सत्यधर्म
तल्लक्षणमाचष्टे । तव विभव इति । जगदुदयस्थितिलयावनादीनि । उदयश्चोत्पत्तिश्च स्थितिश्च पालनं च लयश्च नाशश्चैतेषामावनं सम्यक् सम्भजनं वियदधिकरणादिव्युत्पादितप्रकारेण यथा-योग्यं चैतदादिर्येषां नियमादीनां तानि । जन्माद्यस्य यतः । यतो वा इमानि । सृष्टिस्थितिश्चेत्यादि सूत्र-श्रुत्यागमाश्चात्र भवन्ति । स्थितिरिति मध्यस्थं स्थानत्रयान्वयि वा । उदयस्थितिर्लयस्थिति रवनस्थिति-र्वेति । यद्वोदयावनमित्यवनं सर्वत्रापेक्षितमिति सर्वान्वयि । अवनं ज्ञानं वा । तर्हि चतुराननादयोऽपि कर्तारो धर्तारो हर्तारश्च प्रतीयन्ते कथमत इदमसाधारणं लक्षणमित्यत आह ॥ विश्वसृज इति । प्रजापतयस्तेंऽशांशाः स्वरूपाविष्टभिन्नांशाः । तत्रैतद्विषये शास्त्रशंसितेऽपि पृथक्पृथगभिमत्याऽभिमाने-नाहं कर्तेत्यादिप्रकारेण मृषा त्वद्गतं कर्तृत्वं किञ्चिद्दत्तं स्वात्मन एवेति वृथा स्पर्धन्ति स्पर्धन्ते । स्पर्धा येषामिति स्पर्धास्तद्वदाचरन्तीति वा । अनेन महतां तेषां तद्वदाचरणमेव न स्वाभाविकं स्पर्धनमिति भावो द्योतितो भवति । ‘‘स्वांशश्चातो विभिन्नांश इति द्वेधांऽश इष्यते । विभिन्नांशोऽल्पशक्तिः स्यात्किञ्चित्सादृश्यमात्रयुक् । विष्ण्वादीनि तु रूपाण्येवान्यानि तु तेजोयुक्तानि’’ । तथा च पैङ्गिखिलेषु– ‘‘विशेषका रुद्रवैन्येन्द्रदेवराजन्याद्या अंशयुता अन्यजीवाः । श्री भूदुर्गाऽम्भ्रणीत्यारभ्य तेनाविष्टा इत्यन्तेन सूत्रभाष्यगीताभाष्यबृहद्भाष्योक्तेर्विभिन्नांशाः प्रजेशा इति ज्ञेयम् ॥ ३५ ॥
चट्टी
अजितेति भगवतोऽनन्याधीनत्वमुक्तम् । तत्कुत इत्याशङ्क्य सर्वस्यापि तदधीनजन्मादि-मत्त्वादित्याह ॥ तवेति । इयं स्तुतिर्न शेषमात्रविषया । किन्तु तदंतर्यामिविषया च । जगत्कारणत्वादि-गुणानां शेषेऽसम्भवादिति ज्ञातव्यम् ॥ तदुक्तम्– शेषान्तर्यामिणमित्यादि । ‘‘क्रियन्ते स्तुतयोऽन्यत्र तदन्तर्याम्यपेक्षया । न जीवेषु गुणाः पूर्णा यथायोग्यं हि तद्गताः ॥’’ इति च । हे भगवन् । जगत उत्पत्त्यादीनि तवैव विभवो महिमा । क्रीडेति यावत् । आदिशब्देन नियमादीनि गृह्यन्ते । कथं तर्हि ब्रह्मादीनां स्रष्टृत्वाद्यभिमानस्तत्राह ॥ विश्वसृज इति । विश्वसृजो ब्रह्मादयो नेश्वराः किन्तु ते तव येंऽशा जीवबिम्बभूतास्तेषामंशाः प्रतिबिम्बाः । त्वदधीना इति यावत् । तत्रैवं स्थितेऽपि पृथक् पृथगीश्वरा वयमित्यभिमानेन वृथैव स्पर्धन्ते ॥ ३५ ॥
परमाणुपरममहतोस्त्वमाद्यन्तान्तरवर्ती त्रयविधुरः ।
आदावन्ते च सत्त्वानां यद् ध्रुवं तदेवान्तरकालेऽपि ॥ ३६ ॥
सत्यधर्म
यज्जगाद जगदुदयेत्यादिना तदुपलक्षितगुणपूर्णतामधुना कालानन्त्यं चानन्तायाह ॥ परमाणुपरममहतोरिति । त्वं तु त्रयविधुरः । अणुमहामध्यमपरिमाणवानेवेति तद्विधुरस्तद्रहितः । गुणत्वेन व्यवहृतैतत्प्रयोजकसत्त्वादित्रयरहित इति वा ॥ परमाणुरिति । परममहानित्येतयोरादिः प्रथमभागोऽन्तोऽन्तिमभागः । अन्तरं मध्यभागः सदेति यावत् । वर्तितुं शीलमस्यास्तीति स तथा । णिनिरयं ताच्छील्ये । केचिदवनं तव सकाशात्सृष्टिनष्टी अम्बुजभवभवाभ्यामित्याचक्षते । ते च न प्रेक्षावन्त इत्याह । यदन्तरालेऽपि स्थितिसमयेऽपीति । यदन्तरालेऽपि ध्रुवं नियतं तदेव सत्त्वानाम् । ‘‘सत्त्वं द्रव्यस्वभावयोः’’ इति विश्वाद्द्रव्यस्य पदार्थसार्थस्यादावन्ते च ध्रुवं सत्त्वानां यदादावुत्पत्तेः प्राक् यच्चान्ते नाशानन्तरं ध्रुवं नित्यं तदेव नान्यत् । अन्तराले मध्येऽपीति योजना ॥ ३६ ॥
चट्टी
त्वमेव सृष्ट्यादिकर्तेत्येतदुपपादयति ॥ परमाण्विति । परमाणुः सूक्ष्मं मूलकारणम् । परमं महद् अन्तिमं कार्यम् । तयोस्त्वमेवाद्यन्तवर्ती आदावंत्ये चान्तरे मध्ये च वर्तितुं शीलं यस्य सः । अत एव त्रयविधुर आद्यन्तमध्यशून्यः ध्रुवः । ब्रह्मादयस्तु त्वया सृज्यन्ते । न तु ध्रुवाः । कुत इत्यत आह ॥ आदाविति । सत्त्वानां सत्त्वशब्दोपलक्षितगुणत्रयकार्याणामादावन्तेऽपि च अन्तराले मध्येऽपि च यदस्ति तदेव ध्रुवमित्यर्थः ॥ ३६ ॥
क्षित्यादिभिरेष किलावृतः सप्तभिर्दशगुणोत्तरैराण्डकोशः ।
यत्र भगवत्यणुभ्योऽणुकल्पः सहाण्डकोटिभिस्तदनन्तम् ॥ ३७ ॥
पदरत्नावली
य अण्डकोशो दशगुणोत्तरैः सप्तभिः क्षित्यादिभिरावृतः स एषोऽण्डकोटिभिः सह यत्र भगवति अणुभ्योऽणुकल्पः सूक्ष्मात् सूक्ष्मतरो वर्तते तद्धरेः स्वरूपम् । अतन्तमिति हेतुगर्भ-विशेषणम् । अपरिच्छिन्नत्वादुचितमिति भावः ॥ ३७ ॥
सत्यधर्म
देशानन्त्यमप्यादिशति । क्षित्यादीति । य अण्डकोशोऽण्डकोशोऽण्डस्य ब्रह्माण्डस्य सम्बन्धी स चासौ कोशश्चेति वा । दशगुणोत्तरैः क्रमाद्दशगुणाधिकैः सप्तभिः क्षित्यादिभिः ‘‘अण्डकोशे शरीरेऽस्मिन् सप्तावरणसंयुते’’ इति तृतीय यादुपत्ये पृथिव्यादि पञ्चभूताहङ्कारमहतत्वसंज्ञैः सप्तभिरित्युक्तः । किलेत्यनेनाबग्नीरनभोहङ्कृदित्याद्युक्तनवावरणपक्षोऽप्येकः सम्भावितोऽस्तीति ध्वनयति । किलशब्दस्तु ‘‘वार्ता सम्भावने’’ इति विश्वः । सोऽप्येषः स्वसदृशोऽण्डकोटिभिरेकदा सह सम्भूयागतोऽपि तत्र भगवति त्वय्यणुभ्योऽतिसूक्ष्मेभ्यः परमाण्वादिभ्योऽप्यणुकल्पोऽत्यणुसदृश-स्तत्तस्मात्त्वमनन्तोऽपरिच्छिन्नस्तत्ततोऽणुभ्योऽणुकल्प इति वा । यद्रोमकूपमपि पूरयितुं न शेकुर्ब्रह्माण्ड-खर्परशतायुतकोटयोऽपीत्यादेः ॥ ३७ ॥
चट्टी
एवं भगवतो ध्रुवत्वेन कालतः परिच्छेदो नास्तीत्युक्तम् । देशतोऽप्यपरिच्छेदमाह ॥ क्षित्यादिभिरिति । पूर्वस्माद्दशगुणमुत्तरोत्तरैः क्रमेणाधिकैः । क्षित्यादिभिरतद्गुणसंविज्ञानबहुव्रीहिः । जलादिभिरित्यर्थः । क्षितेर्दशगुणोत्तरत्वाभावात् । क्षितिसाहित्येऽष्टत्वापत्त्या सप्तभिरित्यनुपपत्तेश्च । क्षितिशब्दोपादानं तु जलनिष्ठदशोत्तरत्वं प्रति क्षितेरवधित्वसूचनार्थम् ॥ तदुक्तम् ॥ ‘‘अबग्नीर नभोहं-कृन्महत्तत्त्वगुणत्रयैः । क्रमाद्दशोत्तरैरेतदावृतं परतस्ततः’’ ॥ इति । दशगुणोत्तरैः सप्तभिरित्यनेन गुणत्रयं मिलितमेव दशगुणोत्तरम् । न तु प्रत्येकमित्युक्तं भवति । एतदभिप्रायेणैवाबग्निरिति श्लोके गुणैरिति वक्तव्ये । त्रयशब्दोपादानं गुणानां परस्परं द्विगुणत्वेन प्रसिद्धेश्च ॥ तदुक्तम्– ‘‘तमसो रजस्तु द्विगुणं रजसः सत्त्वमेव च । परिमाणत एवं स्युस्त्रयं प्रकृतिजा गुणाः’’ ॥ इति । केचित्सत्त्वादीनां प्रत्येकं दशगुणोत्तरत्वमङ्गीकृत्य द्विगुणोक्तिविरोधमाशङ्क्य तदुक्तिः सम्भवाभिप्रायेत्याहुस् तदप्येतेनैव परास्तम् । सप्तभिरित्यनेन विरोधात् । एतैः सप्तभिरावृतः । एषः वर्तमानो ब्रह्माण्डकोशो ब्रह्माण्ड-कोटिभिः सह यत्र यस्मिन्भगवति त्वयि अणुभ्योऽप्यणुकल्पः परमाणुतुल्यो दृश्यते । तत्तस्मात् । त्वद्रूपमनन्तमपरिच्छिन्नमित्यर्थः ॥ ३७ ॥
विषयतृषो नरपशवो य उपासते विभूतीर्न परं त्वाम् ।
तेषामाशिष ईश तदनु विनश्यन्ति यथाऽराजकुलम् ॥ ३८ ॥
पदरत्नावली
एवं स्वरूपमुक्त्वाऽन्वयव्यतिरेकाभ्यां तज्ज्ञानफलमाह– विषयेति ॥ विषयतृषः शब्दादिविषयतृष्णावन्तो ऽत एव नरपशवः । विभूतिर्ब्रह्मादिशब्दवाच्याः । परं तेषां पातारं ज्ञानादि-पूर्तिप्रदातारं तेभ्योऽप्युत्तमम् । तदनु प्राप्तिसमनन्तरं किञ्चित्कालं फलानुभवानन्तरं वा । ‘तद्धास्यान्ततः क्षीयत एव’ इति श्रुतेः । अराजकुलं पालकेन राज्ञा शून्यो जनसमुदायः । धर्मविरुद्धानां राज्ञां कुलं वा
॥ ३८ ॥
सत्यधर्म
हरितदितरवरताज्ञानफलमालपति ॥ विषयतृष इति । नरपशवः । तत्पशुत्वे निमित्तं विषयतृट्त्वं भगवदितरोपासकत्वं चेति ज्ञेयम् । ये विषयतृषः शब्दादिविषयतृष्णावन्तो विभूती रमा तामरससम्भवादीन् उपासते परं तदुत्तमं त्वां न ते नरपशवः । तेषामुपासकानां तेषां दातॄणां सकाशाद्या आशिषः स्वर्गाद्यभिलषितार्थास्तदनु तत्पश्चात्तरतमभावेन योग्यताया विनश्यन्ति । किञ्चिद्भोगानन्तरम् । क्षीणे पुण्य इत्यादेः । यथाऽराजकुलं राजरहितो जनपदजनो नश्यति तथा । ये विषयतृषः । नित्यविषयो हि भगवान् भवान् । तत्र तृड्वन्तो ये विभूतीः परमत्यन्तं मुख्यत्वेनोपासते । परं तन्त्रमुत्तमं त्वामुपासते । हे नर अचल अविनाशिन्वा । ईश । नरशब्दोऽमरशब्दपर्याय इति नरपशवः । पूर्वं मनुष्यपशव इदानीं देवपशव इति विवेकः । यथोक्तं बृहद्भाष्ये ‘‘स न वेद यथा पशुः’’ इति व्याख्यानावसरे । ओयोऽन्यो हरिश्चान्य इति मत्वाऽन्यमेव वा । य उपास्ते न स ज्ञानी मनुष्याणां पशुर्हि सः । सम्यग्ज्ञानी तु देवानां पशुरित्यभिधीयते’’ इति चेति । धिया नरेति ऋग्व्याख्याभाष्ये नरशब्दस्याचलौ नरौ तावविनाशित्वा-दुपचारः क्वचिद्भवेत् । अमरत्ववदिति । तट्टीकायां नरौ तावित्यनूद्याचलाविति व्याख्यानं निर्विकाराविति । ला परिवर्तने ततो नञ्पूर्वात्कः । अविनाशित्वादित्यर्थान्तरम् । रीङ् क्षये रिष् हिंसायां ततो डः । किमेवं नरशब्दव्याख्यानं सर्वत्र नेत्याह ॥ उपचार इतीत्यादि । तट्टिपणे च । ला परिवर्तन इति । यद्यपि ला आदाने इति धातुपाठे लातेरादानार्थत्वमुक्तम् । उत्तरधातुवृत्तौ तु राति लातीति द्वावपि पदार्थाविति चान्द्रा इति दानार्थत्वमुक्तं न तु परिवर्तनार्थत्वं तथाऽपि धातूनामित्यारभ्य बीजमाहेत्यर्थ इत्यन्तेन व्याख्यानं कृतमनुसन्धेयम् । तेषां सतां देवपशूनामनु मोक्षेऽपि यत्तन्नावृतिर्न विनश्यन्ति । अनु मोक्षे दानकर्मणि दर्शत इति विश्वः । यथा राजकुलम् । सराजजनपदजनः । ‘‘कुलं जनपदे गृहे’’ इति विश्वः ॥ ३८ ॥
चट्टी
यस्मादेव परमेश्वरस्त्वमेवान्ये देवास्तव विभूतयः । अतस्त्वां विहाय विषयकामनयाऽ-न्योपासका मन्दा इत्याह ॥ विषयेति । विषयेषु तृट् तृष्णा येषां ते नराकाराः पशवः । कुतः । ये विभूतीर्विविधा नामरूपत्वेनोत्पादितत्वाद्विभूतिशब्दवाच्यानिन्द्रादीनुपासते । न तु परं त्वाम् । ततः किं तत्राह ॥ तेषामिति । तदनूपास्यानन्तरम् । यथा राजकुलमनु राजकुलनाशानन्तरं तत्सेवकानामाशिषो नश्यन्ति तद्वत् । अयं च परमो विधिमर्ध्येऽपि नश्यन्त्येवेति ज्ञातव्यम् ॥ ३८ ॥
कामधियस्त्वयीश रचिता न पुनारोहन्ति१ यथा करम्भबीजानि ।
ज्ञानात्मन्यगुणमये गुणगणतोऽस्य द्वन्द्वजालानि ॥ ३९ ॥
पदरत्नावली
कामधियः शब्दादिगुणविषयज्ञाना अगुणमये प्रकृतिगुणविकृतदेहादिशून्ये ज्ञाना-त्मनि रचितास् त्वद्विषयत्वेनार्षिता यदि स्युस् तर्हि पुनर्नारोहन्ति नोत्पद्यन्ते । करम्भबीजानि भर्जित-धानाः । गुणगणतो विषयसमूहादस्य जगतो द्वन्द्वजालानि सुखदुःखादीनि भवन्तीति शेषः ॥ ३९ ॥
सत्यधर्म
ज्ञानात्मनि ज्ञानशरीरेऽगुणमये सत्त्वादिगुणकृतविकाररहिते सर्वप्रधानप्रधाने । ‘‘मयं प्रधानमुद्दिष्टम्’’ इत्यादिवचनात् । याः कामधियस्तास्त्वयि त्वद्विषये रचिताश्चेत्पुनर्न रोहन्ति संसारापादिका न भवन्ति । ढ्रलोप इति पुना रोहन्तीति दीर्घः । तत्र निदर्शनमाह ॥ यथेति । करम्भबीजानि भर्जितधानाः । यद्यपि करम्भा दधिसक्तव इत्यमरस्तथाऽपि करभादिति पूषणमिति चतुर्थाष्टकाष्टमाध्याय द्वाविंशतिवर्गीयप्रथमर्चव्याख्यायां घृतमिश्रयवाः सक्तव इति यथाऽष्टमाष्टक द्वितीयाध्यायत्रयोविंशवर्गीयद्वितीयर्चव्याख्यायां सक्तुमिव तितउनेति धाना भ्रष्टयवाः । अत्र माधवोक्ते-श्चेति भर्जितयवादिबीजानीति न निर्बीजव्याकरणमिति मन्तव्यम् । धाना भ्रष्टयवास्त्रियामित्युपयुक्तामरः । यथोप्तानि गुप्तान्येव भवन्ति न भवन्त्यङ्कुरात्मना तथेति । अस्य त्वदधियो गुणगणतः कामादेर्गुणकार्यतः। द्वन्द्वजालानि रागद्वेषादियुग्मसङ्घः । द्वन्द्वं रहस्ये द्वन्द्वं मिथुनयुग्मयोरिति विश्वः ॥ ३९ ॥
चट्टी
विषयकामेनापि कृता त्वत्सेवा मोक्षफलैव । ध्रुवादिषु तथा दर्शनादित्याह ॥ कामधिय इति । कामधियो विषयकामना अपीह । ईश । त्वयि रचिताः कृताश्चेन्न पुनरारोहन्ति देहान्तरावृत्तये न भवन्ति । करम्भबीजानि भर्जितबीजानि यथा तद्वत् । कीदृशे त्वयि । ज्ञानात्मनि ज्ञानशब्दोप-लक्षितकल्याणगुणस्वरूपे । अत एवागुणमये न विद्यते गुणमयं प्रकृतिगुणविकृतं देहेन्द्रियादिकं यस्य तस्मिन् । यतोऽस्य जीवस्य सत्त्वादिगुणसम्बन्धादेव सुखदुःखादिलक्षणद्वन्द्वसमूहा भवन्ति । त्वं तु निर्गुणस्ततः कामेनापि निर्गुणस्य तव भजनाच्छनैर्नैगुण्यं भवति । तं यथा यथोपासते तदेव भवति । यादृशो भावितस्त्वीशस्तादृशो जीवो भवेदिति श्रुतिभ्य इति भावः ॥ ३९ ॥
जितमजित तदा भवता यदाऽऽह भागवतं धर्ममनवद्यम् ।
निष्किञ्चना ये मुनय आत्मारामा यमुपासतेऽपवर्गाय ॥ ४० ॥
पदरत्नावली
दुःखात्मकसंसारनिवृत्तिः केन स्यादित्याशङ्क्य भागवतधर्मानुष्ठानेन तन्निवृत्तिः स्यादित्याशयवानाह– जितामिति ॥ हे अजित भवान् यदा अपवर्गाय मुनयो यं धर्ममुपासते तं भागवतधर्ममाह, तदा भवता संसारस्वरूपं जितम् । भागवतधर्मकथनेन भक्तानां संसारजयोपायो दर्शित इत्यर्थः ॥ ४० ॥
सत्यधर्म
अद्वन्द्व द्वन्द्वजालविलय इयतोपायेनेत्याह ॥ जितमिति । हे अजित अपराजित । निष्किञ्चनाः । मयूरव्यंसकादिः । न विद्यते किञ्चन त्वद्व्यतिरिक्तं येषां ते तथा । मुनयो मननशीला आत्मारामा आत्मनि भगवति त्वय्यारमन्त इति ते तथा । यं धर्ममपवर्गाय मोक्षार्थमुपासते । यं च भगवान्भागवमनवद्यं निर्दुष्टं धर्मं यदाहोपदिष्टवान् । तद्द्वन्द्वजालम् । अभवता अस् तच्छब्दवाच्यो भवान्यस्य सः, आ समीचीनो भवान्यस्य तेन भक्तेन जितं पराभूतम् । तदा भवता निमित्तभूतेनेति वा । तेन धर्मेण तैर्मुनिभिर्जितमिति वा । यं धर्मं भवान्यान्प्रति यदा यस्मादाह तदा तस्मात्तैर्जितं तद्द्वन्द्वजालं भवतैव जितमुपदेशकत्वात्तवेति वा ॥ ४० ॥
चट्टी
फलकामनयाऽपि त्वदाराधनं यदा मोक्षहेतुस्तदा । किं वक्तव्यं भागवतधर्ममाहात्म्यमिति वक्तुं तत्संप्रदायप्रवर्तकत्वेन भगवन्तं स्तौति ॥ जितमिति । हे अजित । यथा भवान् भागवतं धर्मं निवृत्तिधर्ममाह । तथा भवता जितं सर्वोत्कर्षेण स्थितम् । यद्वा । भवान् भागवतं धर्मं यथा यथाव-दाहोपदिदेश । तथाशब्दः समुच्चये । भवता जितं चेत्यर्थः । तत्र हेतुः । ये निष्किञ्चनाः सनकादि-मुनयस्ते यं भगवन्तमपवर्गाय सेवते । तेन भवता जितं यद्धर्ममिति वा ॥ ४० ॥
विषममतिर्न यत्र नृणां त्वमहमिति मम तवेति च योऽन्यत्र ।
विषमधिया रचितः स ह्यशुद्धः क्षयिष्णुरधर्मबहुलः ॥ ४१ ॥
पदरत्नावली
तद्वर्मज्ञानेन किं फलमिति तत्राह– विषमेति ॥ यस्मिद् धर्मे ज्ञाते नृणां त्वमह-मित्यादिलक्षणा विषममतिः शास्त्रनिषिद्धबुद्धिर्न स्यात् । चकारादीश्वराधीनं सर्वं, तत्प्रेरितोऽहं कार्येषु प्रवृत्तोऽस्मीति बुद्धिर् इत्यर्थः । येन धर्मेण यस्मिन् त्वयि ज्ञाते वा । हरेरन्यत्र विषमधिया यथा-स्थितवस्तुविपरीतज्ञानेन रचितः कृतस् तन्मय इत्यर्थः । अत एव अहंममतादिप्रचुर इत्यर्थः ॥ ४१ ॥
सत्यधर्म
यत्र त्वदुपदिष्टे निवृत्तधर्मेऽनुष्ठीयमाने नृणामधिकारिणां त्वमहं तवेदं ममेदमिति विषममतिरभिमाननि दानभूता बुद्धिर्न भवति । तर्हि स धर्मः क इत्यतो वक्ति ॥ य इति । अन्यत्रास्मिन्कामुके विषमधिया लघुफलस्वर्गादिकामनाविवशया रचितः कृतः सः हि यतोऽधर्मबहुलः सङ्गताभङ्गात् । बहुलोऽधर्म एवाकमं घटक इति क्षयिष्णुस्तादृशनश्यत्फलको त एवाविशुद्धस्त्वमहं तवेदं ममेदमिति तदनर्हेऽनभिमतिश्च भवतीति स सता नानुष्ठेय इति भावः । हे नयत्र नयं नीतिं त्रायत इति तत्सम्बुद्धिः । न यत्रेत्यावर्तते । यत्राधिकारिणि त्वन्न विषममतिः सन् त्वं मम सदा दासोऽहं तव स्वामीत्यविषममतिः । तेषां नृणां यो धर्मः सह्यश्चाहेयश्च विशुद्धः स्वयं शुद्धिदश्च । अन्यत्र मद्भिन्ने विषमधिया त्वया तद्योग्यतया तत्त्वेन प्रतीयमानेन रचितः कारितो बोधितो वा स धर्मो धर्मबहुलः क्षयिष्णुश्चेति वा । ‘‘धर्मच्छलं पापजनेषु धर्मः’’ इत्यादिश्रीमदुक्तेः ॥ ४१ ॥
चट्टी
अनवद्यानामेवाह ॥ विषमेति । यत्र यस्मिन्भागवतधर्मेऽनुष्ठिते सति त्वं कर्ताऽहं कर्तेति ममेदं तवेदमिति च विषमबुद्धिर्नृणां न भवति । किन्तु भवानेव सर्वकर्ता सर्वस्वामीति च बुद्धिर्भवतीत्यर्थः । अनवद्यपदव्यावृत्त्यमाह ॥ य इति । अन्यत्र भगवदविषयकः । विषमधिया स्वर्गादि- फलकामनया स्वस्वातन्त्र्यभ्रमेण विरचितोऽनुष्ठितो यो धर्मो ज्योतिष्टोमादिलक्षणः । स ह्यविशुद्धः । रागादिमत्वात् । क्षयिष्णुश्च । नश्वरफलत्वात् । अधर्मबहुलश्च । अहिंसादिबाहुल्यादित्यर्थः ॥ ४१ ॥
कः क्षेमो निजपरयोः कियानर्थः स्वपरद्रुहा धर्मेण ।
स्वद्रोहात् तव कोपः परसम्पीडया च तथाऽधर्मः ॥ ४२ ॥
पदरत्नावली
तज्ज्ञानफलं तम एवेत्याह– क इति ॥ ननु तर्हि यागादिकर्मलक्षणधर्मेण पुरुषार्थः स्यादिति तत्राह– निजेति ॥ स्वस्य शरीरक्लेशस्य हेतुना परस्य संज्ञपनलक्षणहिंसाहेतुना । कुतो नास्तीति तत्राह– स्वद्रोहादिति ॥ स्वविहितशरीरक्लेशं विनाऽऽत्महत्यादिद्रोहात् तवाज्ञालङ्घनलक्षणात् ॥ ४२ ॥
सत्यधर्म
काम्यं कर्म न धर्मसाधनमपि तु बाधनं स्वस्यास्वस्येति बोधयति ॥ क इति । निजपरयोः स्वस्य परस्य चेति तयोः कः क्षेमः किं कुशलम् । ननु भवति किल स्वर्गादिरित्यत आह ॥ अर्थः कियानिति । कतिपयसमयवर्ती । स्वपरद्रुहा स्वस्मै कायक्लेशादिना परस्मै पश्वादये हिंसादिना द्रुह्यतीति स तथा तेन । स्वधर्मेण सु अत्यन्तमधर्मेणेत्यान्तरङ्गिको भावः । स्वद्रोहाद् वृथा कायायासमयं सम्पादयतीति परपीड्या तव कोपोऽधर्मश्च भवत इत्यन्वयः । ‘‘कर्षयन्तः शरीरस्थं भूतग्राममचेतसः । मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान्’’ ॥ इति गीतागीतेः । ‘‘इन्द्रियाणि जयन्त्याशु निराहारा मनीषिण इत्यादिभाषणः’’ सद्धर्मपरमिति न विरोधः ॥ ४२ ॥
चट्टी
एतदेव प्रपञ्चयति ॥ क इति । धर्म्येण काम्यकर्मणा निजपरयोः स्वस्य परस्य च कः क्षेमः किं कुशलं न किञ्चित् । न केवलं क्षेमाभावः । किं त्वनर्थो भवेदिति भावेन धर्मं विशिनष्टि ॥ स्वेति । स्वस्मै परस्मै च द्रुह्यतीति स्वपरध्रुक् तेनेत्यर्थः ॥ तदुक्तं प्रकाशिकायाम् ॥ ‘‘स्वकामं तु तपः क्रूरं लोकानां क्षोभकृद्भवेत् । इतरच्छान्तये सर्वलोकानां भवति ध्रुवम्’’ ॥ इति । भवतु काम्यकर्मिणः स्वपरद्रोहः । ततः किं तत्राह ॥ स्वेति । स्वद्रोहात्परपीडया चाधर्मो भवति । तेन च तव कोपो भवतीत्यर्थः । अतो भागवतधर्मा एवानवद्य इति भावः ॥ ४२ ॥
न व्यभिचरति तवेक्षा यया ह्यभिहितो भागवतो धर्मः ।
स्थिरचरसत्वकदम्बेष्वपृथग्धियो य१ उपासते त्वार्याः ॥ ४३ ॥
पदरत्नावली
ननु शिवादिविहितवत् त्वद्विहितस्यान्यथात्वेन त्वद्विहितलक्षणाज्ञातिलङ्घनदोष-निमित्तकोपाभावोपपत्तेरतस्त्वत्प्रेक्षाऽपि व्यभिचारिण्येवेति तत्राह– नेति ॥ तत्र को हेतुरिति पूर्वोक्तं स्मारयति– यमिति ॥ पूर्वस्माद् विशिनष्टि– अपृथगिति ॥ कुत्रेत्यत उक्तम्– स्थिरेति ॥ स्थावर-जङ्गमप्राणिसमूहेषु यथास्थितदर्शिनः । तद् युक्तमित्याह– आर्या इति ॥ तुना तारतम्यमन्ययोगव्यवच्छेदं चाह ॥ ४३ ॥
सत्यधर्म
पाशुपताद्युदितो धर्म आशु पातयत्यनुष्ठातारं तारयति च त्वयोदित इति तद्विशेषं भाषते ॥ नेति । ययेक्षया धर्मस्त्वयाऽभिहितो बुद्धिपूर्वमभिहितोऽभितो हितं येनेति स इति ते च न जिनादीनामिवेति भावः । ‘‘एष मोहं सृजामि’’ इत्यादेः । स भागवतः । स्थिरचरसत्त्वकदम्बेषु स्थावरचेतन सत्त्वसङ्घेषु अपृथग्धियः सर्वत्र भगवान्सन्निहित एक एवेति समबुद्धयः । ‘‘शुनि चैव श्वपाके च पण्डिताः समदर्शिनः’’ इत्यादेः । य उपासते त आर्याः सा तादृशी न व्यभिचरतीत्यर्थः । ‘‘अग्य्रा वर्या’’ इत्यादि पदमनिधाय निधाय चार्या इति प्राक्तनी नवश्लोकी तथोत्तरा चतुःश्लोकी चानेन सहाहत्य चतुर्दशश्लोकीचार्यावृत्तेति सूचयामास व्यास इत्यवसेयं च । सूचनमात्रस्य यत्र कुत्र वाग्रथ-नमलङ्कार एवेति नादावन्ते वा कुतो निबन्ध इति शङ्काऽनवकाशः ॥ ४३ ॥
चट्टी
ननु काम्यधर्मोऽपि भगवतैवाभिहित इति कुतो नानवद्य इत्याशङ्क्य त्वया रागाद्यमपि कथञ्चिद्वेदमार्गे प्रवर्तयितुं काम्यधर्मोऽभिहितो न तत्त्वदृष्ट्या । भागवतधर्मस्तु तत्त्वदृष्ट्योक्त इत्याह ॥ नेति । यया भागवतधर्माभिहितः सा तवेक्षा दृष्टिर्न व्यभिचरति परमार्थं न जहातीत्यर्थः । अव्यभिचारे हेतुमाह ॥ स्थिरेति । स्थावरजङ्गमप्राणिसमूहेषु आर्या यं धर्मं सेवन्ते । अन्यथा तन्न स्यादित्यर्थः । के ते आर्या इत्यत आह । अपृथग्धिय इति । विद्यमानप्रकारापेक्षया भिन्नः प्रकारः पृथक् तद्विषयिणी बुद्धिः पृथक् बुद्धिः । मिथ्याज्ञानमिति यावत् । सा न विद्यते येषां ते तथोक्ता इत्यर्थः ॥ तदुक्तं गारुडे– ‘‘विष्ण्वधीना जगत्सत्ता प्रतीतिश्चेष्टितं गतिः । इति यन्निश्चितं ज्ञानमपृथग्दर्शनं स्मृतम् । मिथ्याज्ञानं पृथग्ज्ञानं तत्पृथग्दृष्टिरुच्यते’’ इति ॥ ४३ ॥
न हि भगवन्नघटितमिदं त्वद्दर्शनान्नृणामखिलपापक्षयः ।
यन्नामसकृच्छ्रवणात् पुल्कसकोऽपि विमुच्यते संसारात् ॥ ४४ ॥
पदरत्नावली
प्रारब्धवशादार्या अपि उपास्तिं कुर्वन्ति । न फलोपलब्ध्या । तस्मादिदम-घटीयमानमर्चयन्तीति तत्राह– न हीति ॥ ४४ ॥
सत्यधर्म
नृणां त्वद्दर्शनात्त्वदपरोक्षेक्षणादखिलपापक्षयः । तदधिगम उत्तरेत्यादिनयेन सर्वाघनाशादिः । न इतरस्मात् । खिलानि दुर्बलान्यनिजफलोपलम्भकानि न भवन्ति तानि पापान्ये-तन्मात्रविनाश्यतामनेन कटाक्षयति । इति यदिदं त्वय्यघटितं दुर्घटं न हि । त्वद्ज्ञानस्य सर्वमेतत्सुघट-मिति भावः । सकृदेकवारं यद्यस्मान्नामश्रवणात्त्वन्नामश्रवणमात्रेण पुल्कसेष्वन्त्यजेष्वधमः कुत्सित इत्यर्थः । बहिरदृश्यमानान्तरङ्कुरितज्ञान इति तात्पर्यम् । संसारान्मुच्यते तस्मात्किं वक्तव्यं परिदृश्यमान-ज्ञानवतामखिलपापक्षयो भवतीति ॥ ४४ ॥
चट्टी
एवं भूतस्य भागवतधर्मप्रवर्तकस्य तव दर्शनात्सर्वपापक्षयो भवतीति किं चित्रमित्याह ॥ न हीति ॥ ४४ ॥
अथ भगवन् वयमधुना त्वदवलोकपरिमृष्टाशयमलाः ।
सुरऋषिणा यदुदितं तावकेन कथमन्यथा भवति ॥ ४५ ॥
पदरत्नावली
नेह संसारतरणे सकृन्नामश्रवणमेवालं, किं पुनः ? भवद्दर्शनमिति यस्मादथ तस्मात् त्वद्दर्शनेनाधुना वयं परिमृष्टाशयमलाः, अभूमेति शेषः । नारदवाक्यं च भगवदीक्षाया अव्यभिचरितत्वे लिङ्गमित्याह– सुरऋषिणेति ॥ ४५ ॥
सत्यधर्म
ते ते स्वस्वयोग्यतया तथा तथा भवन्तु किमार्द्रकवणिजो वहित्रचिन्तयेति तव किमित्यत आह ॥ अथेति । त्वदवलोकेन त्वज्ज्ञानेन परिमृष्टं मार्जितमाशमलं संसारापादकं पापं येषां ते तथेति । अस्मदो द्वयोश्चेति वयमिति सविशेषणत्वप्रयुक्तनिषेधस्याविधेयविशेषणपरत्वात् । अत्र शैवा वयं पञ्चाक्षरीजपपरा इत्यादिवत्सम्भवतीति ज्ञेयम् । तावकेन युष्मदस्मदोरन्यतरस्यां खञ्च तवक-ममकाविति युष्मच्छब्दमपर्यन्तस्य तवकादेशेऽणि च तवायं तावकस् तेन । सुरऋषिणा नारदेन यदुदितं तत्कथमन्यथा फलानाधायकं भवति । सफलमेवेत्याशयः । तावकेनेति फलानन्वयीभावनहेतुत्वमुच्यते
॥ ४५ ॥
चट्टी
अतोऽहं कृतार्थोऽस्मीत्याह ॥ अथेति । अतो हेतोर्वयम् । हे भगवन् । तवावलोकनेन परिमृष्टा निरस्ता आशये चित्ते मला येषां ते तथाभूता इत्यर्थः । त्वद्दर्शनं च मम नारदोपदेशेन जातमित्याह ॥ सुरर्षिणेति । तावकेन यदुदितमुद्दिष्टं तत्कथमन्यथा भवति वृथा न भवतीत्यर्थः ॥४५॥
विदितमनन्त समस्तं तव जगदात्मनो जनैरिहाचरितम् ।
विज्ञाप्यं परमगुरोः कियदिह सवितुरिव खद्योतैः ॥ ४६ ॥
पदरत्नावली
हे अनन्त तावकेन नारदेन समस्तं विदितं ज्ञातम् । भगवज्ज्ञानमव्यभिचारीति यदुदितं च तत् कथमन्यथा भवति ? निगमयति– तवेति ॥ जगदात्मनो जगदन्तर्यामिणः परमगुरोस्तव जनैश्चेष्टितं कियद् विज्ञाप्यम् ? न किमपीति भावः । विज्ञापनं हास्यहेतुरित्यत्र दृष्टान्तमाह– इहेति ॥ इह ज्योतिष्षु प्रकृष्टप्रकाशस्य सवितुः खे वितस्तिप्रदेश एव ध्योतः प्रकाशो येषशं ते तथा तैः ॥४६॥
सत्यधर्म
विस्तरतो वद तव वार्तामित्यतो वदति ॥ विदितमिति । हे अनन्त अनन्त-जनैराचरितं समस्तं तव विदितम् । तत्र निमित्तं जगदात्मन इति । जगदन्तर्यामिणः । परमगुरो-रस्माभिर्विज्ञाप्यं कियत् ? ज्ञानसर्वस्वस्य विज्ञापनमिदं नीत्येत्याह ॥ सवितुरिवेति । सवितुः प्रकाशात्मकस्य सूर्यस्य पुरतः खद्योतैः स्वप्रकाशवर्णनं यथा न गुणप्रदं तथेति भावः । ‘‘खद्योतो ज्योतिरिङ्गणः’’ इत्यमरः ॥ ४६ ॥
चट्टी
यथा चाहं पूर्वमतिमूढ आसम् । यथा नारदेनानुगृहीतोऽस्मि । तत्सर्वान्तर्यामिणस्तव मया किं प्रकाशनीयमित्याह ॥ विदितमिति । हे अनन्त । जनैराचरितं समस्तं तव विदितम् । अतः परमगुरोर्गुरूणामपि गुरोः सर्वज्ञस्य तव विशेषेण ज्ञाप्यं प्रकाशनीयं कियदिदं न किमपीत्यर्थः । तत्र दृष्टान्तः । सवितुर्यथा खद्योतैः प्रकाशनीयं नास्ति तद्वदिति ॥ ४६ ॥
नमस्तुभ्यं भगवते सकलजगत्स्थितिलयोदयेशाय ।
दुरवसितात्मगतये कुयोगिनां नमः परमहंसाय ॥ ४७ ॥
पदरत्नावली
अस्माभिरिदमेव विज्ञाप्यमित्याह– नम इति ॥ ४७ ॥
सत्यधर्म
तर्हि किं भवदर्हणमित्यत आह ॥ नम इति । जगत्स्थितिलयोदयेशाय तुभ्यम् । कुयोगिनामसदुपायानाम् । दुरवसितात्मगतये । अनिर्णीतस्वगतये परमहंसाय नमो नम इत्यन्वयः
॥ ४७ ॥
चट्टी –उक्तलक्षणं भगवन्तं प्रणमति ॥ नम इति द्वाभ्याम् । सकलस्य जगतः स्थित्यादीना-मीशाय । समर्थाय । दुरवसिताऽविज्ञाताऽऽत्मगतिर्निजतत्त्वं यस्य तस्मै । केषां कुयोगिनाम् ॥ ४७ ॥
यं वै श्वसन्तमनु विश्वसृजः श्वसन्ति
यं १चेकितारमनुवृत्तय उच्चकन्ति ।
भूमण्डलं सर्षपायति यस्य मूधर्न
तस्मै नमो भगवतेऽस्तु सहस्रमूर्ध्ने ॥ ४८ ॥
पदरत्नावली
इदमपि त्वदनुग्रहं विना न शक्यमित्याह– यं वा इति ॥ ‘श्वस प्राणने’ इति धातोः । प्राणन्तमनु प्रणन्ति’ इति श्रुतिर्वैशब्देन सूचिता । चेकितानम् अनुवृत्तयस् तत्तद्वस्तुगतज्ञान-वन्तः । उच्चकन्ति सम्यग् जानन्ति । सर्षपायति सर्षपवद् वर्तते । श्रीहरिविवक्षायां ‘सहस्रशीर्षा पुरुषः’ इत्युपपत्तेः ॥ ४८ ॥
सत्यधर्म
नम इति वचनेऽपि न च वयं प्रभवामस्त्वां विनेति वदति ॥ यं वा इति । श्वसन्तं प्राणंतं विश्वसृजोऽजाद्याः प्राणन्ति चेष्टन्ते । प्राणन्तमनु प्राणन्तीति श्रुतिर्वैशब्देन प्रसिद्धिद्योतकेन सूचिता । यं चेकितारं ज्ञातारमनु वृत्तिमनुसृत्य वृत्तयो येषां ते तथा । उच्चकन्त्युत्कृष्टं जानन्ति । यस्य मूधर्ि्न भूमण्डलं सर्षपायति सर्षपवदाचरति । आचारार्थे क्यच् । अकृत्सार्वेति दीर्घः । तस्मै भगवते । भगवद्भिन्नाय शेषाय भगवते नारायणाय च सहस्रमूर्ध्ने । इतरत्स्पष्टम् । सहस्रशीर्षेति श्रुतेरिवानन्त-शीर्षोऽनन्ताक्ष इति स्मृतेश्च भगवतोऽपि सहस्रशीर्षता ज्ञेया ॥ ४८ ॥
चट्टी
विश्वसृजो ब्रह्मादयः श्वसन्तमनुश्वसन्ति चेष्टन्ते । चेकितानं पश्यन्तमनुवृत्तयो ज्ञानेन्द्रिया-ण्युच्चकन्ति स्फुटं पश्यन्ति । सर्षपायति सर्षपवद्वर्तते ॥ ४८ ॥
श्रीशुक उवाच–
संस्तुतो भगवानेवमनन्तस्तमभाषत ।
विद्याधरपतिं प्रीतश्चित्रकेतुं कुरूद्वह ॥ ४९ ॥
पदरत्नावली
अनन्तनामप्रवृत्तिनिमित्तक्रियावत्त्वादनन्तः श्रीहरिः । हरिगुणान्तकथनदर्शना-समर्थत्वादनन्त इत्यर्थः ॥ ४९ ॥
सत्यधर्म
श्रीशुकः किमनन्तस्ततान स्तुतिश्रुतिसमनन्तरमिति परीक्षित्संशयमपनुदतीत्याह ॥ श्रीशुक इति ॥ ४९ ॥
श्रीभगवानुवाच–
यन्नारदाङ्गिरोभ्यां ते व्याहृतं मम शासनम् ।
संसिद्धोऽसि यथा१ राजन् विद्यया दर्शनाच्च मे ॥ ५० ॥
पदरत्नावली
नारदाङ्गिरोभ्यां यन्मम शासनं तव व्याहृतं तत्करणेन, या च मम विद्याऽभ्यस्ता तया, यच्च मम दर्शनं तस्माच्च, संसिद्धोऽसि प्राप्तापेक्षिताशेषपुरुषार्थोऽसीत्यर्थः ॥ ५० ॥
सत्यधर्म
अनन्तरमनन्तः किमभाषतेत्यतो भाषते ॥ यदित्यादिना । ‘‘वासुदेवे भगवति मनो धेह्यात्मनीश्वरे’’ इति विनान्तर्गर्भं हरिविषयत्वेन ज्ञातयाऽङ्गिरस उपदिष्टया विद्यया सह बहिः शेष-विषयत्वेन प्रतीयमाननारदविद्याया अपि ममानुशासनमित्येकयोक्त्या ग्रहणेनेयमपि भागवती विद्येत्या-वेदयामासानन्त इति मूलकृत्सूचयामास व्यास इत्यवसेयम् । विद्यया संसिद्धो ज्ञानयोग्यो, मे दर्शनात्संसिद्धो मुक्तियोग्यश्चासीत्यर्थः ॥ ५० ॥
चट्टी
मम शासनं मद्विषयिणी विद्या । तया विद्यया मम दर्शनाच्च । संसिद्धोऽसि जीव-न्मुक्तोऽसि ॥ ५० ॥
अहं वै सर्वभूतानि भूतात्मा भूतभावनः ।
शब्दब्रह्म परं ब्रह्म ममोभे शाश्वती तनू ॥ ५१ ॥
तात्पर्यम्
‘हरिस्तु सर्वभूतानि तदन्तर्याम्यपेक्षया । तिङ्पदान्यपि सर्वाणि सुप्पदानि तथैव च । तस्मिन्नेव प्रवर्तन्ते मुख्यवृत्त्या विशेषतः’ इति च ॥ ५१ ॥
पदरत्नावली
अधुनाऽहं पूर्वोक्तस्थिरीकरणाय किञ्चिद्विशेषज्ञापनाय वा किञ्चिदुपदिशामि इत्यभिप्रेत्याह– अहमिति ॥ सर्वभूतानि अहमित्यन्वयः । वा इत्यनेन ‘सर्वं खल्विदं ब्रह्म’ इति श्रुतिं सूचयति । अभेदोपदेशस्य कोऽभिप्राय इति तत्राह– भूतात्मेति ॥ भूतानामन्तः स्थित्वाऽऽदानादि-कर्तृत्वात् तद्व्यपदेशः । ‘हरिस्तु सर्वभूतानि तदन्तर्याम्यपेक्षया’ इति स्मृतेः । सत्ताप्रदत्वाच्च तद्व्यपदेश इति भावेनाह– भूतभावन इति ॥ भूतानि भावयति सत्तागतानि करोतीति । अनेन ‘अहमस्मि’ इत्यादिश्रुतिगतानि पदान्यन्तर्यामिणि मुख्यवृत्त्या प्रवर्तन्त इत्युक्तम् । तथाचोक्तं ‘तिङ्पदानि च सर्वाणि सुप्पदानि तथैव च । तस्मिन्नेव प्रवर्तन्ते मुख्यवृत्त्या विशेषतः ॥’ इति । इदञ्च त्वयाऽवश्यं ज्ञातव्यमित्याह– शब्देति ॥ वेदादिशब्दराशिलक्षणं शब्दब्रह्म सचिदानन्दलक्षणं परं ब्रह्मेत्युभे द्वे अपि ब्रह्मणी मम शाश्वती तनू प्रतिमास्वरूपभेदेन । ‘यावद् ब्रह्म विष्ठितं तावती वाक्’ इति श्रुतेः । ‘एष नित्योऽव्ययः सूक्ष्मः’ इति पूर्वोक्तम् ॥ ५१ ॥
सत्यधर्म
अहं वै सर्वभूतानि भूतात्मेति श्लोके सर्वाधिपतेः सर्वभूततादात्म्यमुच्यत इति प्रतीतिं प्रमाणेन निस्त्राणयति ॥ हरिरिति । हरिः सर्वभूतानीत्युच्यते । तत्र तन्त्रमाह ॥ तदन्तर्याम्यपेक्षयेति । तेषां भूतानामन्तर्यामित्वमपेक्ष्य इदं सर्वं, सोऽहमास्मि, यत्र त्वस्य सर्वमात्मैवाभूदित्याद्यभेदवेदकवेदस्य विद्यमानत्वात्कथमन्तर्यामित्वादिप्रयुक्तव्यवहृतिरित्यत आह ॥ तिङ्पदानीति । तदन्तपदानि तथैव सुप्पदानि । ‘‘अन्तर्यामिणमीशेशमपेक्ष्याहं त्वमित्यपि । सर्वे शब्दाः प्रयुज्यन्ते सति भेदेऽपि वस्तुषु’’ । ‘‘अस्मिन्नित्यस्तितामानाद् ओयत्वादहं नाम’’ इत्यादि मानमुदाहृत्य व्याकृतिः कृता तत्त्वनिर्णया-दावनुसन्धेया । तस्मिन्नेव प्रवर्तन्त इति वा प्रवर्तन्ते एवेति वैवाऽन्वयः । मुख्यवृत्त्या निर्वचनलभ्यार्थ-पौष्कल्यनिमित्तकया । विशेषत एव तद्रूपविशेषेणाविशेषतः सामान्यतस्तिङन्तसुबन्तपदैरित्यसङ्कुचितत्वे-नेत्यर्थः ॥ ततश्चायं मूलार्थः ॥ नारदोऽङ्गिरोगिरि विश्वासं जनयन्ननन्तः स्वयं किञ्चिद्वितत्य वक्ति ॥ अहमिति । सर्वभूतान्यहमिति स्वोक्तं किं तत्स्वरूपत्वेनेत्यतः स्वयमेव व्यनक्ति । भूतानामात्माऽन्तः-स्थित्वाऽऽदानादिकर्तेति तथा कथनमिति भावः । ‘‘यदधीना यस्य सत्ता तत्तदित्येव’’ इत्यादेः । उत्पादकत्वाच्च तद्व्यपदेश इत्यप्युपदिशति । भूतभावन इति । भूतानि भावयत्युत्पादयतीति स तथा । ‘‘स एव भगवान्द्रोणः प्रजारूपेण वर्तते । कार्यकारणयोरेकः’’ इत्यादिपूर्वोदाहृतमानाच्च तत्त्वव्यपदेश इत्ययमर्थः प्रामाणिक इत्यर्थः स्वीकार्य इति । प्रसङ्गसङ्गत्या वेदादिमानस्य स्वतस्त्वं निरूपयन्वाङ्मन-सदेवतायाः स्वाधिष्ठानरमायास्तनुत्वं चाह ॥ शब्दब्रह्मेति । शब्दब्रह्म वेदादिः । परंब्रह्म महद्ब्रह्म लक्ष्मीरित्युभे । मम शाश्वती तनुर्नित्यमधिष्ठानत्वात्तत्त्वेन व्यपदिश्यत इत्यर्थः । ममेति पदस्वारस्यात् । ‘‘मम योनिर्महद्ब्रह्म,’’ ‘‘प्रकृतिः परमं ब्रह्म’’ इत्यादे महद्ब्रह्मश्च शब्दपर्यायः परंब्रह्मशब्द इत्येतन्मात्रं सोढव्यम् । शब्दब्रह्म वेदस्तदभिमानिनी रमा च परं ब्रह्म नारायणख्यं परं ब्रह्मपरमं ब्रह्म च ममोभे तनू । एकत्र मम तनुरिति प्रतिमात्वमपरत्र ‘‘राहोः शिरः’’ इत्यादिवदभेदेन ममेत्युक्तिरुपपद्यत इति वाऽर्थः
॥ ५१ ॥
चट्टी
तदुपदिष्टविद्यया वीर्यातिशयाय स्वयमप्युपदिशति ॥ अहमित्यादिना । अहं भूतानामात्मा स्वामी । स्वामित्वं च न राजादिवत्तत्स्थत्वेन किं त्वंतर्यामित्वेनेत्याह ॥ अहमिति । अहं सर्वभूतानि भूतान्तर्यामी । वैशब्दोऽनुक्तार्थप्रमाणसिद्धिं सूचयति ॥ तदुक्तम् ॥ हरिस्तु सर्वेत्यादि । इतोऽपि राजादिवैलक्षण्येन स्वामित्वमित्याह ॥ भूतभावन इति । भूतानां प्रकाशकः कारणं चेत्यर्थः । ननु शब्दब्रह्म प्रकाशकं परं ब्रह्म कारणं च प्रकाशकं चासत्यम् । ते उभे मम रूपे इत्याह ॥ शब्दब्रह्मेति । वेदादिशब्दराशिलक्षणं शब्दब्रह्म सच्चिदानन्दलक्षणं परंब्रह्मेति चेत्युभेऽपि ब्रह्मणी मम शाश्वती शाश्वत्यौ तनू इत्यर्थः । परं ब्रह्म साक्षाद्रूपं शब्दब्रह्म तु प्रतिमारूपं प्रतिपाद्यत्वेन भगवतस्तत्र संन्निहितत्वादिति भावः ॥ तदुक्तम् ॥ तिङ्पदान्यपीत्यादि ॥ ५१ ॥
लोकेऽविततमात्मानं लोकं चात्मनि सन्ततम् ।
उभयं च मया व्याप्तं मयि चैवोभयं कृतम् ॥ ५२ ॥
तात्पर्यम्
लोकं चात्मनि सन्ततं वासनारूपेण ॥ ५२ ॥
पदरत्नावली
आत्मानं जीवं लोके भुवने अविततमव्याप्तं जानीहि । लोकं चात्मनि जीवे वासनारूपेण मनसि निर्व्यूढं विद्धि । विपुलस्य लोकस्यात्मप्रदेशमन्तरेण बाहुल्यायोगाद् लोक आत्मेत्युभयं मया ब्रह्मरूपेण व्याप्तम् । तर्हि जीवलोकयोराधारः क इति तत्राह– मयीति ॥ उभयञ्च मयि समाश्रितमेव ? कुतः ? अहमेवोभयाधार इति समाधत्स्व ॥ ५२ ॥
सत्यधर्म
लोके विततमात्मानमिति श्लोके लोकं मनसि सन्ततं पश्येति भाति । नाणीयसि सम्भावितं तदित्यतस्तद्घटयति । लोकं चात्मनि सन्ततं वासनारूपेणेति । लोकावलोकजनितसंस्काराणां मनोगतत्वात्तत्कारणकानां लोकानां मनोनिष्ठता युक्तेति भावः ॥ तत इयं मूलव्याख्या ॥ लोके विततं मनः पूर्वरूपं मनसा वाऽग्रे सङ्कल्पयतीत्यादेरर्थग्रहणहेतुतया व्याप्तम् । अविततं वस्तुतस्तु सूक्ष्ममिति वा । आत्मनि मनसि लोकं वासनामयतया संततं जानीहि । उभयं लोक आत्मेत्युभयं मया व्याप्तम् । समनेत्याद्युक्तेरीशवदीशिन्या अपि देशकालव्याप्तेस्तस्या अपीति मयेति कथयन्ध्वनयामासेति ज्ञेयम् । मया चेति चान्वयः । एतदुभयमपि मया कृतम् । मयि मदधिकरणकत्वेन । मयेत्यावर्तते । तेन कृतं सम्बध्यते । मयैव मयि कृतं विहितमवेहीत्यर्थः । मयि मया रमया कृतं निवेशितमिति वा । तथा चोक्तं गीताभाष्ये नवमेऽध्याये निधानशब्दव्याख्यावसरे । ‘‘संहारकाले प्रकृत्या जगदत्र निधीयत इति निधानम्’’ । तथा ह्यॄग्वेदखिलेषु । ‘‘अपश्यमप्यये मायया विश्वकर्मण्यदो जगन्निहितं शुभ्रचक्षुति’’ इति
॥ ५२ ॥
चट्टी
अस्तु भगवानेतादृशमाहात्म्योपेतः किं तत इत्याशङ्क्य जाग्रदाद्यवस्थाऽनुभवितृत्व-लक्षणबन्धस्यानादिविषयवासनाऽवसितान्तःकरणमूलत्वात्तयोश्च मदधीनत्वात्तन्निवृत्त्यर्थं मामेवोक्त-वक्ष्यमाणमाहात्म्योपेतमनुस्मर इत्यभिप्रेत्याह ॥ लोक इति चतुर्भिः । आत्मानं मनो लोके स्वविषय-प्रपञ्चे विततं व्याप्तम् । लोकं चात्मनि मनसि । संततं वासनारूपेण व्याप्तम् । उभयमात्मानं लोकं च मया ब्रह्मरूपेण व्याप्तम् उभयमप्याश्रितं मदधीनं च स्मरेदिति तृतीयेनान्वयः । पश्येत्यध्याहारो वा ॥ तथा चोक्तमेकादशस्कन्धे सनकादिप्रश्ने ॥ ‘‘गुणेष्वाविशते चेतो गुणश्चेतसि च प्रभो । कथमन्योन्यसंत्यागो मुमुक्षोरतितीर्षोः’’ इति । तत्समाधाने च ‘‘गुणेष्वाविशते चेतो गुणश्चेतसि वः प्रजाः । जीवस्य देह उभयं गुणश्चेतो मदात्मनः’’ ॥ इति । तात्पर्ये च । ‘‘विष्णुस्था विषयाः सर्वे विष्णावेव मनो मम । इति मय्यर्प्य तत्सर्वं त्यजेत्तत्तन्न बाधते’’ इति । अविततमिति पदं विच्छिद्यात्मानं जीवं लोकेऽ-विततमव्याप्तं जानीहीति व्याख्यानं प्रकृतेऽनुपयुक्तम् । प्रकरणाननुगुणं च । अस्मत्पक्षे तु लोकं चात्मनि सन्ततमित्युक्तवासनाकारणीभूतानुभवप्रतिपादकत्वेन सार्थक्यमुक्तं समाख्याऽनुकूलं चेति ज्ञातव्यम्
॥ ५२ ॥
यथा सुषुप्तः पुरुषो विश्वं पश्यति चात्मनि ।
आत्मानमेकदेशस्थं मन्यते स्वप्न उत्थितः ॥ ५३ ॥
एवं जागरणादीनि जीवस्थानानि चात्मनः ।
मायामात्राणि विज्ञाय तद्द्रष्टारं परं स्मरेत् ॥ ५४ ॥
तात्पर्यम्
मायामात्राणि प्रकृतिनिर्मितानि ॥ ५४ ॥
पदरत्नावली
ननु ‘व्याप्ता ह्यात्मानश्चेतना निर्गुणाश्च’ इति श्रुतेः ‘लोके विततमात्मानम्’ इत्यस्य प्रतीतार्थ एव किं न स्यादित्याशङ्क्य दृष्टान्तानुगुण्यात् कथ्यत इत्यभिप्रेत्याह– यथेति ॥ यथा सुषुप्तः सन् स्वप्नमनुभवन् पुरुषः विश्वं वासनारूपेणात्मनि स्फुरितं चशब्दाद् भिन्नं पश्यति । स्वप्ने आत्मानमेकदेशस्थं मन्यते । न तु व्याप्तम् । स्वप्नादुत्यितः प्रबुद्धोऽपि खट्वादिशायिनं स्वं मन्यते । श्रुतिगतिस्तु परमात्मविषयत्वेन जीवचिद्गुणविषयत्वेन वा कल्प्यते । यथा स्वप्नावस्थायां भगवत्कर्तृकत्वं प्रामाणिकं ‘मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात्’ इति सूत्रात्, तथा जाग्रत्प्रभृत्यवस्थाश्च, ‘अतः प्रबोधोऽस्मात्’ इत्यत इत्यभिप्रेत्याह– एवमिति ॥ यथा स्वप्नावस्था प्रकृतिशब्दवाच्येश्वरेच्छा-निर्मिता तथा जीवस्य सुखोपभोगस्य स्थानानि जागरणादीनि मायामात्राणि भगवदिच्छालक्षणप्रकृति-निर्मितानि विज्ञाय तासामवस्थानां मध्ये निषण्णस्य जीवस्य सुखोपभोगस्य द्रष्टारं साक्षिणं परं ततो भिन्नं स्मरेदित्यन्वयः । ‘अनश्नन्नन्यो अभिचाकशीति’ इति श्रुतेः ॥ ५३,५४ ॥
सत्यधर्म
मनउपादानकलोकावलोकः क इत्यत आह ॥ यथेति । पुरुष एतच्छरीरसम्बन्धी जीवः प्रसुप्तः स्वप्नावस्थास्थः सन् आत्मन्यात्मनेति स्वप्ने स्वप्नादिति च विपरिणतमन्वेति । आत्मना मनसा विश्वं वासनामयं स्वाप्नं यथैकदेशस्थं स्वेन सहैकस्थानस्थितं प्रपश्यति । तथा स्वप्नादुत्थितः सन्नात्मना विश्वमेकदेशस्थम् । एको देशः स्वाधिष्ठितभिन्नस्तत्र तिष्ठतीति तथा । आत्मानं तद्भिन्नदेशस्थमित्येकदेशस्थं न मन्यते । स्वापि्नकपदार्थस्य प्रागुत्तरं चानुपलब्धेरिति भावः । एवं जागरणादीनिति श्लोके मायामात्राणीत्यनिर्वचनीयानीति संशयं व्यंसयितुं स्वयमनूद्य व्याख्याति ॥ मायामात्राणि प्रकृतिनिर्मितानीति । प्रकृतिश्च भगवान्भगवती च तदभिमन्यमानाचिच्च ॥ अथ श्लोकार्थः– ‘‘मनोगतांस्तु संस्कारान्स्वेच्छया परमेश्वरः । प्रदर्शयति जीवाय स स्वप्न इति गीयते’’ ॥ इत्याद्युक्तेर्यथा स्वाप्नार्थनिर्माता च•्रदर्शको मायामात्रमित्यादिना हरिः प्रमितस्तथा जागरणाद्यवस्था । अतः प्रबोधोऽस्मादित्यादिमानतः सर्वेश्वरायत्तेत्याह ॥ एवमिति । जीवस्थानानि स्वस्य सुखदुःखादि-भोगव्यवस्थापकस्थलान्यात्मनो मनःसम्बन्धीनि मायामात्राणि भगवदिच्छया तदनुगृहीतप्रकृत्या च निर्मितानि ज्ञात्वा तद्द्रष्टारं स्वात्मानं परं तद्विलक्षणं स्मरेत् । द्रष्टारं साक्षादीक्षमाणं दर्शयितारं वा परं हरिं स्मरेदिति वा ॥ ५३,५४ ॥
चट्टी
जाग्रदाद्यवस्थानां भगवदिच्छाधीनत्वं संप्रतिपन्नदृष्टान्तेनाह ॥ यथेति द्वाभ्याम् । यथा सुषुप्तो निद्रितः पुरुषो जीवः स्वप्ने स्वप्नावस्थायामात्मनि मनसि विद्यमानं विश्वं वासनामयप्रपञ्चं पश्यति । स्वप्नादुत्थितश्चैकदेशस्थं शयानदेशस्थितं स्वात्मानमेव पश्यति न तु स्वाप्नप्रपञ्चम् । तेन च स्वप्नं माया-मात्रं मन्यत इति ग्राह्यम् । दार्ष्टान्तिकानुसारात् । एवमेव जागरणादीनि जाग्रत्सुषुप्तिमूर्छादीनि जीवानां स्थानान्यवस्था आत्मनः परमात्मनो माययेच्छया निमित्तभूतया तन्नियतयोपादानभूतया प्रकृत्या च मात्राणि निर्मितानि । मा निर्माण इति धातोः । विज्ञाय तेषां जीवस्थानानां द्रष्टारं दर्शयितारम् । जाग्रदादिभिर्जीवबन्धकमिति यावत् । ‘‘स्वतन्त्रे कर्तृशब्दः स्यात्प्रज्ञस्यावेदनं यथा । सर्वप्रदर्शके चैव तुरीये सर्वदर्शितम्’’ ॥ इति ब्रह्मतर्कवचनात् । ‘‘प्राज्ञः किञ्चन संवेत्ति तुर्यस् तत्सर्वदृक् सदा’’ इति श्रुतेश्च । यद्वा । द्रष्टारं स्वातन्त्र्येण जीवावस्थासाक्षिणं विश्वादित्रिरूपम् । परं तद्विलक्षणम् । मोक्षप्रदं तुर्यरूपं भगवन्तं स्मरेदुपासीतेत्यर्थः ॥ तथा च श्रुतिस्मृती । ‘‘कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ । प्राज्ञः कारणबद्धस्तु द्वौ तु तुर्ये न सिद्ध्यतः’’ ॥ इति । ‘‘कार्यकारणबन्धस्य तदधीनत्वतो विभुः । विश्वादिरूपो भगवान् बद्ध इत्युच्यते श्रुतौ । कुतो बन्धः परस्यास्य बन्धेशस्य चिदात्मनः’’ ॥ इति च । यद्वा । स्वप्ने सुषुप्तः पुरुष आत्मनि वासनारूपेण वर्तमानं विश्वं गिरिवनादिरूपं देशान्तरस्थं पश्यति । स्वप्नमध्ये सुप्तिस्वप्नं च पश्यतीत्यर्थः । तदा स्वप्न एवोत्थितः सन् आत्मानमेकदेशस्थं शयनदेशे स्थितं मन्यते । जाग्रदवस्थामनुभवति । तानि च सुषुप्त्यादिस्थानानि तदा जीवस्य स्वातन्त्र्याभावेन यथा मायामात्राणि । एवं प्रसिद्धान्यपि जागरादीनि जीवस्थानानि आत्मनः परमात्मनो माययेच्छया मात्राणि निर्मितानीति विज्ञायेत्यर्थः । शेषं पूर्ववत् ॥ तदुक्तम् ॥ ‘‘मायेतीच्छा समुद्दिष्टा मायामात्रं तदुद्भवम्’’ इति । ‘‘विश्वं पश्यति चात्मनि’’ इत्यनेन मनोगतवासनामयपदार्थावलोकनं स्वप्न इति स्वप्नलक्षण-मुक्तम् । ‘‘मनोगतांस्तु संस्कारान्स्वेच्छया परमेश्वरः । प्रदर्शयति जीवाय स स्वप्न इति गीयते’’ ॥ इति वचनात् । आत्मानमेकदेशस्थं मन्यत इत्यनेन बाह्यपदार्थदर्शनं जाग्रदिति जाग्रल्लक्षणमुक्तम् ॥५३,५४॥
येन प्रसुप्तः पुरुषः स्वापं वेदात्मनस्तदा ।
सुखं च निर्गुणं ब्रह्म तमात्मानमवैहि माम् ॥ ५५ ॥
पदरत्नावली
तद्द्रष्टारमित्यत्र जीवात्मनः परमात्मा सम्यग् विविच्य न प्रतीत इति तद्विवेकार्थ-माह– येनेति ॥ येन प्रसुप्तः प्रस्वापं प्रापितः सन् पुरुषो जीवात्मा तदा सुप्त्यवस्थायामात्मनः स्वापम् इयन्तं कालं किञ्चन नावेदिषमिति स्वापशब्दोक्तमेव ज्ञानं, सुखमहमस्वाप्समित्यनुभूतं सुखं च, सुखिनं स्वात्मानं च वेद, नान्यद् किञ्चिद् वेद तमात्मानं निर्गुणं ब्रह्म ज्ञानादिगुणपूर्णं मामवैहीत्यन्वयः
॥ ५५ ॥
सत्यधर्म
येनेत्यनेन प्रसुप्त इति पदमन्तर्णीतण्यर्थमिति सूच्यते । येन भगवता प्रसुप्तः प्रस्वापितः पुरुषो जीवस्तदा सुप्तिसमये आत्मनः स्वापमियन्तं कालं किञ्चन नावेदिषमिति स्वाज्ञानं कालं सुखं चानुभवितारमात्मानं च वेद, नान्यत्किञ्चित् । एतावन्तं कालं सुखमहमस्वाप्समित्यौत्तरिकस्मरणस्य विनावेदनामनुपपत्तेस्तज्ज्ञानमस्तीति ज्ञायते । स्यादिदं यदि स्याज्जीववैलक्षण्यं ब्रह्मणस्तदेव कुत इत्यत आह ॥ निर्गुणमिति । सत्त्वादिगुणरहितं भिन्नगुणहीनं ब्रह्म गुणपूर्णं तमात्मानं मामवेहि जानीहि । एतेन स्वयमतदवस्थस्तदवस्थं जीवं कर्तुं समर्थ इति सूचयति ॥ ५५ ॥
चट्टी
इदानीं सुषुप्तिस्वरूपं निरूपयन् जाग्रदादिनियामकस्य विश्वादिचतूरूपस्य भगवतः स्वभिन्नत्वशङ्कां परिहरति ॥ येनेति । पुरुषो जीवो येन प्राज्ञनामकेन भगवता प्रसुप्तः प्रस्वापितः सन् । तदा स्वापकाले आत्मनः स्वस्य स्वापं सुप्त्यवस्थां तत्कारणाज्ञानं च स्वापकालं च निर्गुणविषयजन्यं स्वरूपभूतमिति यावत् । सुखं चात्मानं स्वस्वरूपं चेत्येतत्तदेव वेद नान्यत् । एतावन्तं कालं सुखमहमस्वाप्सं नान्यत्किञ्चिदवेदिषमिति सुप्त्युत्तरकालीनस्मरणात् ॥ तथा चोक्तम् । ‘‘नात्मानं न परांश्चैव न सत्यं नापि चानृतम् । प्राज्ञः स वेदयेत्किञ्चिज्जीवकालतमो विना । सुप्त्यवस्थां सुखं चापि विना नान्यत्प्रदर्शयेत् । सर्वं तु दर्शयेन्मुक्तौ तुरीयः परमेश्वरः’’ ॥ इति । येन प्रसुप्त इत्युपलक्षणम् । येन जाग्रदादिकं प्रापितो भवति । तं निर्गुणं गुणकार्यावस्थाऽतीतम् । ब्रह्म संपूर्णगुणम् । आत्मानं चतूरूपं परमात्मानं मामवैहि । मदभिन्नं जानीहीत्यनेन विश्वादीनां चतुर्णामपि परस्परं कार्यभेदप्रयुक्तभेदशङ्का परास्ता ॥ तथा चोक्तम्– ‘‘विश्वादिरूपो यः स्वात्मा स विज्ञेयो मुमुक्षुभिः । निर्विशेषोऽपि भगवांश्चतुर्धा समुदीरितः’’ ॥ इति ॥ ५५ ॥
उभयं स्मरतः पुंसः प्रस्वापप्रतिबोधयोः ।
अन्वेति व्यतिरिच्येत तज्ज्ञानं ब्रह्म तत् परम् ॥ ५६ ॥
तात्पर्यम्
प्रतिबोधोऽन्वेति स्वयमपि प्रतिबुद्धः । सुप्तावस्वपन्व्यतिरिच्येत ॥ ५६ ॥
पदरत्नावली
इतोऽपि जाग्रदाद्यवस्थानुभविनो जीवाद् भिन्नं ब्रह्मेत्याह– उभयमिति ॥ जाग्रत्सुप्तिश्चेत्युभयं स्मरतोऽनुभवतः पुंसः जीवस्य प्रस्वापप्रतिबोधयोस्तत्तद्वस्तुपरिज्ञानलक्षणे जाग्रति यदन्वेति अनुवर्तते, स्वयमपि प्रतिबुद्धः, सुप्तावस्वपनात् तत्तद्वस्त्वपरिज्ञानलक्षणसुप्तौ यद् व्यतिरिच्येत । व्यतिरिक्तं स्यात् । सर्वज्ञानसंभवात् । ‘प्रस्वापः स्वपनं स्वप्नः’ इत्यभिधानात् । अन्यथाज्ञानलक्षणे प्रस्वापपदोक्ते स्वप्नेऽपि यद् व्यतिरिक्तं वर्तते तत् परम् । ‘ब्रह्मविदाप्नोति परम्’ इति श्रुतेः । ततत्वात् तत् । ज्ञानस्वरूपत्वाज्ज्ञानम् । ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति श्रुतेः । अनेन सुप्त्यवस्थानुभवी जीवो ऽननुभूय साक्षित्वेन तिष्ठन् परमात्मा ततो भिन्न इति ज्ञातव्यम् । यद्वा जीवस्य अज्ञानसंभवादस्य तदभावाज्जीवस्याल्पगुणवत्वादस्यानन्तगुणत्वादस्यापरिच्छिन्नत्वाज् जीवस्य परिच्छिन्नत्वात् तदेव ज्ञानं तदेव ब्रह्म तदेव परम् । ‘‘तदेवर्तं तदुसत्यमाहुस्तेदेव ब्रह्म परमं कवीनाम्’’ इति श्रुतेः ॥ ५६ ॥
सत्यधर्म
उभयं स्मरतः पुंस इति श्लोके प्रस्वापप्रतिबोधयोरन्वेति व्यतिरिच्येतेति यथाक्रममन्वये स्वापाप्तिः प्रबोधव्यतिरेकश्चेति भाति भगवत इदं चानुपपन्नमिति स्वयमुपपन्नमन्वयमाह ॥ प्रतिबोध इति । प्रतिबोधे जीवजागरणक्षणे स्वयमपि प्रतिबुद्धः सन्नन्वेति । सुप्तौ तस्य स्वापे स्वयमस्वपन्स्वाप-मनवाप्नुवानः सन्व्यतिरिच्येत । जीवाद्विलक्षणः सन्वर्तेतेत्यर्थः । अन्वेति व्यतिरिच्येतेत्यन्वयव्यतिरेकतो विज्ञायते इत्यर्थभ्रमोऽपि निवारितोऽनेनेति ज्ञेयम् । अथ मूलार्थः ॥ परं स्मरेदित्याद्युदितं परत्वं पुनरुपपादयति ॥ उभयमिति । उभयं प्रबोधः प्रस्वापश्चेत्येतदुभयं स्मरतोऽनुभवतः पुंसो जीवजातस्य स्वापप्रतिबोधयोः प्रतिबोधप्रस्वापयोः प्रबोधे जागरिते यदन्वेति सम्बध्यते तदुद्बोधकतया । यच्च प्रस्वापे मतिवैकल्यकारिदशायां व्यतिरिच्येत । तज्ज्ञानं तस्यामवस्थायामनुभवतो पुंसो ज्ञानं यस्य तत् । साक्षाद्दष्टृसज्जीवविविक्तं स्यात्तस्मात्तद्ब्रह्म परं तदुत्तमम् । अथवा तज्ज्ञानमिति परं तद्विलक्षणमिति वा । तस्याज्ञानं ज्ञानमेतस्य जागरणं चैतदधीनं तज्ज्ञानं चेति सर्वं परताहेतुरिति ज्ञेयम् ॥ ५६ ॥
चट्टी
न केवलं भगवतो जाग्रदादिनियामकत्वज्ञानमेव बन्धनिवर्तकम् । किन्तु भेदज्ञान-मपीत्यभिप्रेत्य जीवेश्वरभेदं सयुक्तिकं निरूपयति ॥ उभयमिति । तज्जाग्रदादिजीवावस्थानियामकं ब्रह्म विश्वादिचतूरूपं परं ब्रह्म उभयं प्रस्वापं प्रतिबोधं च स्मरतोऽनुभवतः पुंसो जीवस्य प्रतिबोधे जाग्रदव-स्थायामन्वेति जीवमनुसरति । जीववत्स्वयमपि प्रतिबुद्धं वर्तत इति यावत् । प्रस्वापे सुषुप्त््यवस्थायां स्वप्नावस्थायां च । ‘‘सुषुप्तिस्वप्नयोश्चैव स्वर्गव्योम्नोस्तथैव च । अन्योन्यनामता ज्ञेया मनोबुध्योस्तथैव च’’ ॥ इति शब्दनिर्णयवचनात् । व्यतिरिच्येत व्यतिरिच्यते । जीववन्नानुसरति । जीववत्सुप्तं न भवतीति यावत् ॥ तथा च श्रुतिः । ‘‘स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति’’ इति । यद्वा । प्रतिबोधः सम्यग्ज्ञानम् । प्रस्वापोऽज्ञानमन्यथाज्ञानं च । अज्ञानं सुप्तिशब्दोक्तमिति वचनात् । तथा चोभयं प्रस्वापं प्रतिबोधं च स्मरतः प्राप्तवतः पुंसः प्रतिबोधे सम्यग्ज्ञानदशायां तद्ब्रह्म अन्वेति प्रतिबुद्धं वर्तते । प्रस्वापेऽज्ञानदशायां मिथ्याज्ञानदशायां च व्यतिरिच्यते तद्रहितं वर्तत इत्यर्थः । अत एव ज्ञानं पूर्णज्ञानस्वरूपम् । अत एव तत्परं तस्मादल्पज्ञानाज्जीवात्परं भिन्नमित्यर्थः । तदेवं भूतं ब्रह्म मामवैहीत्यनुषङ्गः ॥ ५६ ॥
यद्येष विस्मृतः पुंसो मद्भावो भिन्न आत्मनः ।
ततः संसार एतस्य१ देहाद् देहो मृतेर्मृतिः ॥ ५७ ॥
तात्पर्यम्
‘सर्वभिन्नं परात्मानं विस्मरन् संसरेदिह । अभिन्नं संस्मरन् याति तमो नास्त्यत्र संशयः’ इति च ॥ ५७ ॥
पदरत्नावली
विपक्षे बाधकमुपपादयति– यदीति ॥ यदि पुंस आत्मनो जीवाद् भिन्न एष मद्भाव उक्तो मम स्थितिप्रकारो विसॄतस्तर्हि ततस्तयोः सयुजोः सख्योर् जीवात्मपरमात्मनो एकस्य सर्वभिन्नपरमात्मानं विस्मरतो जीवस्य संसारः स्यात् । किंलक्षणक इति तत्राह– देहादिति ॥ देहयोगवियोगलक्षणो देहाद् देहः । तदुक्तम्– ‘सर्वभिन्नं परात्मानं विस्मरन् संसरेदिह’ इति । सर्वभिन्नमिति विशेषणं विस्मरतस्तस्य जीवस्य मृतेर्मृतिर् नित्यदुःखात्मकं तम एव प्राप्यते । एतदप्युक्तम्– ‘अभिन्नं संस्मरन् याति तमो नास्त्यत्र संशयः’ इति ॥ ५७ ॥
सत्यधर्म
यद्येष विस्मृत इत्यत्र देवजीवाभेदः प्रतिपाद्यत इति प्रतीयते तां प्रमाणेन प्रच्यावयति ॥ सर्वभिन्नमिति । सर्वभिन्नं स्वादिसर्वविलक्षणं परात्मानं परमात्मानं विस्मरन् भिन्नत्वेनाननुसन्दधान इह संसरेत्पुनः पुनः संसारमाप्नुयात् । अभिन्नं संस्मरन् समा तदभेदवेदनाया अनिवर्त्यतां द्योतयति । तमो याति । अत्रैतत्प्रमेये संशयो नास्ति । इति च तन्त्रमालायामित्यन्वयः ॥ अथ मूलं विव्रियते ॥ यदि एष हरिरहं भिन्न इति पुंसो विस्मृतस्तत एतस्यात्मनो देहाद्देहो देहावसितिर्न हि भवति । नित्यसंसारीति सारांशः । एष मद्भावः मम भावस्तादात्म्यं यस्य स इति विस्मृतो विशेषेण स्मृतोऽहं चैतस्य पुंसो मृतेर्मृतिः कदाऽप्युत्थानहीना तमो भवतीति पक्षद्वयेऽपि शेषः । वीतिप्रमाणस्थसम्पदस्य व्याख्येयं मूलमिति ज्ञेयम् । एकस्येति पाठो नानेकपुस्तकस्थस्तथाऽपि भिन्न एष इति विस्मृतोऽहं येन तस्यैकस्य देहाद्देह एकस्यैव मद्भावो मदात्मेति येनैकेन विस्मृतस्तस्यैकस्य मृतेर्मृतिस्तमो भवतीति व्याख्येयः । संसरेदिति तमो यातीति तात्पर्ये विलक्षणफललब्धत्वेनालापानुकूल्यात् ॥ ५७ ॥
चट्टी
भेदज्ञानं बन्धनिवर्तकमित्युक्तम् । विपक्षे बाधकमाह ॥ यदिति । आत्मनो जीवाद्भिन्न एषः पूर्वोक्तो मद्भाव मम भावः स्वरूपं यदि विस्मृतः स्यात् । जीवेश्वरभेदो विस्मृतश्चेदिति यावत् । ततस्तर्हि पुंसः संसारो भवति । संसारस्वरूपमाह ॥ देहाद्देह इति । जन्मान्तरं पुनर्जन्मेत्यर्थः । ऐक्यज्ञाने तु तम एवेत्याह ॥ एकस्येति । एकस्य जीवेश्वरैक्यमनुसन्दधतः पुंसो मृतेर्मृतिः । दुःखानन्तरं पुनर्दुःखमंधन्तमो भवतीत्यर्थः ॥ तथा चोक्तम् ॥ सर्वभिन्नमित्यादि ॥ ५७ ॥
लब्ध्वेह मानुषीं योनिं ज्ञानविज्ञानसम्भवाम् ।
आत्मानं यो न बुध्द्येत न क्वचित् क्षेममाप्नुयात् ॥ ५८ ॥
पदरत्नावली
मद्भावः मदैक्यलक्षणः स्वस्मादभिन्न इत्यर्थाङ्गीकार उत्तरश्लोकेन विरुद्ध्यत इत्याह– लब्ध्वेति ॥ ज्ञानविज्ञानयोः संभवो यस्याः सा तथा ताम् । इह जम्बूद्वीपे तत्रापि भरतखण्डे त्रिवर्णलक्षणां मानुषीम् । आत्मानं जीवात्मानं परमात्मानं च । निर्विशेषवादिना ज्ञाने सामान्य-विशेषानाङ्गीकाराद् व्यावहारिकस्याप्रामाणिकत्वाच्चेति ज्ञानं शास्त्रार्थविषयं, विज्ञानम् अनुभवजमित्ययं भेदोऽपि गतार्थ इति ॥ ५८ ॥
सत्यधर्म
योग्यां तनुं प्राप्यापि परं परमात्मानं स्वं चाविजानतो जनस्य नात्र क्षेमः परत्र मोक्षश्च भवत इत्याह ॥ लब्ध्वेति । ज्ञानं सामान्यज्ञानं विज्ञानं विशेषज्ञानं तयोः सम्भवो यस्यां सा ताम् । मानुषीं मनुष्यसम्बन्धिनीं योनिम् । इह कर्मभूमौ लब्ध्वाऽऽत्मानं स्वामिनं भगवन्तम् । आ आत्मानम् ईषदात्मानं दासं स्वं च न बुध्येत विबुध्येत च स न क्वचिद् इह परत्र क्षेमं स्थितस्य परिपालनरूपं मोक्षं च नाप्नुयात् । यो न बुध्येत सामग्य्रां सत्यामपि स एव क्वचित्कौ भूमौ न विद्यते चिद्यस्य स उपलतुल इत्यर्थः । य आत्मानं न बुध्येत तस्य चिज्ज्ञानरूपी भगवान्क्व स दूरे भवतीति भावः । स क्षेमं नाप्नुयादिति वा ॥ ५८ ॥
चट्टी
तदेवमुक्तमाहात्म्योपेतस्य मम ज्ञानार्थमत्रैव प्रयतितव्यम् । भोगादिसंपादनं तु योन्यन्तरेऽपि शक्यमित्याह ॥ लब्ध्वेति । इह कर्मभूमौ ज्ञानविज्ञानसम्भवां ज्ञानं शास्त्रोत्थं विज्ञानमपरोक्षम् । ‘‘श्रवणान्मननाच्चैव यत्ज्ञानमुपजायते । तत्ज्ञानदर्शनं विष्णोर्विज्ञानं शंभुरब्रवीत्’’ ॥ इति वचनात् । तयोः सम्भवो यस्यां तां मानुषीं योनिं लब्ध्वाऽऽत्मानं सर्वगुणपरिपूर्णं परमात्मानम् । ‘‘नित्यातत-गुणत्वात्स आत्मेति श्रुतिषूदितः’’ इति वचनात् । तथाऽऽत्मानं जीवस्वरूपं भगवत्पारतन्त्र्यादिना यो न बुध्द्येत । सः क्वचिदपि क्षेमं नाप्नुयादित्यर्थः ॥ तथा च श्रुतिः । ‘‘इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः’’ इति ॥ ५८ ॥
स्मृत्वेहायां परिक्लेशं ततः फलविपर्ययम् ।
नोभयं चाप्यनीहायां पश्यंस्तद् विरमेत् कविः ॥ ५९ ॥
पदरत्नावली
ननु ज्ञानेन मोक्षो मा भूद् यज्ञेन स्यादिति तत्राह– स्मृत्वेति ॥ ईहायां यज्ञादिकर्मकरणे परितः क्लेशं स्मृत्वा, ततः कर्मणः फलविपर्ययं निरतिशयसुखाप्राप्तिं दुःखापरिहारं च पश्यन्, अनीहायां सर्वकर्माणि हरौ संन्यस्य ज्ञानमार्गप्रवृत्तौ, पश्यन् निरतिशयसुखप्राप्तिं दुःखपरिहारं तयोरमिश्रत्वं वा ज्ञात्वा, तन्निर्विद्य तत् तादृशं कर्म विरमेन्न कुर्यादित्यर्थः ॥ ५९ ॥
सत्यधर्म
अज्ञोऽपि यज्ञादिकं कृत्वा क्षेमं यायादित्यत आह ॥ स्मृत्वेति । ईहायां प्रवृत्तकर्मणि परिक्लेशं कायशान्त्यादिभवं दुःखम् । ततस्तत्कर्मणः प्राप्तस्य फलस्य स्वर्गादेर्विपर्ययं प्रच्युतिं च पश्यंस्तत्तस्मात्प्रवृत्तकर्मणो विरमेत् । व्याङ्परिभ्यो रम इति परस्मैपदता । तन्न कुर्यादित्यर्थः । अनीहायां निवृत्तकर्मणि प्रवृत्ते नोभयं परिक्लेशः पर्यावृत्तिश्चेत्येतदुभयं नो नास्तीति कविर्जानन् तत्रैव रमेतेत्यर्थः ॥ ५९ ॥
चट्टी
प्रवृत्तिमार्गे वैराग्यार्थं प्रवृत्तिनिवृत्तिमार्गयोर्विवेकमाह ॥ स्मृत्वेति । ईहायां प्रवृत्तिमार्गे परिक्लेशमत्यायासम् । तत ईहतः फलविपर्ययम् । फलं सुफलं सुखप्राप्तिर्दुःखनिवृत्तिश्च तयोर्विपर्ययो व्यत्यासः । दुःखनिवृत्तिः सुखप्राप्तिरिति यावत् । तं च स्मृत्वा विचिन्त्यानीहायां निवृत्तिमार्गे तूभयमपि परिक्लेशफलविपर्ययश्च नास्तीत्येवं पश्यन् । यद्वा । भयं पुनः पुनर्जननमरणलक्षणसंसारभयं नो भवति । किंतु नित्यसुखप्राप्तिलक्षणमोक्षो भवतीति पश्यन् । तत्तस्या ईहाया विरमेद्विरज्येतेत्यर्थः ॥ ५९ ॥
सुखाय दुःखमोक्षाय कुर्वाते दम्पती क्रियाः ।
ततोऽनिवृत्तिरप्राप्तिर्दुःखस्य च सुखस्य च ॥ ६० ॥
पदरत्नावली
अग्निहोत्रादिक्रियाकरणयोग्यौ दम्पती । ततः क्रियातः दुःखस्य अनिवृत्तिः सुखस्य चाप्राप्तिः ॥ ६० ॥
सत्यधर्म
अपत्नीकोऽप्यग्निहोत्रमाहरेदित्याद्युक्तेर्विधुरस्य कामनयाऽनुष्ठितेष्ट्यादेः क्लेशाद्यापाद-कत्वेऽपि पत्नीसहितस्यान्धपङ्गुन्यायेन तत्कृतस्य क्रत्वादेरक्षयिष्णुफलोपलम्भकता भवेदित्यतस्तदपि नेत्याह ॥ सुखायेत्यादिना । दम्पती क्रिया दुःखमोक्षाय तत्प्रहाणाय सुखाय च शाश्वतिकानन्दाय कुर्वाते । ततोऽनिवृत्तिर्दुःखस्याप्राप्तिः सुखस्य चेति न ताः कर्तव्या इति भावः ॥ ६० ॥
चट्टी
तदेव विवृणोति ॥ सुखायेति त्रिभिः । दम्पती अग्निहोत्रादिक्रियाकरणयोग्यौ स्त्रीपुरुषौ सुखप्राप्तये दुःखनिवृत्तये च क्रियाः प्रवृत्तिधर्मान्कुर्वाते । ततः प्रवृत्तिधर्मेभ्यो दुःखस्यानिवृत्तिः सुखाप्राप्तिश्च भवति ॥ ६० ॥
एवं विपर्ययं बुध्वा नृणां विद्याभिमानिनाम् ।
आत्मनश्च गतिं सूक्ष्मां स्थानत्रयविलक्षणाम् ॥ ६१ ॥
दृष्टश्रुताभिर्मात्राभिर् विमुक्तः स्वेन तेजसा ।
ज्ञानविज्ञानसन्तृप्तो मद्भक्तः पुरुषो भवेत् ॥ ६२ ॥
पदरत्नावली
कर्मविषयविद्याभ्यासे इयं विद्येत्यभिमानिनाम् । आत्मनो जीवस्य परमात्मनश्च वैकुण्ठादिस्थानत्रयाव्याप्तिभूताप्रतिमभूतिमत्तया विलक्षणाम् । जाग्रदादिस्थानत्रयातीतां वा । मात्राभिः शब्दादिभिः । स्वेन तेजसा विशुद्धबुद्धिसामर्थ्यातिशयेनैव ज्ञात्वा पुरुषो भवेत्, मुक्त इति शेषः
॥ ६१,६२ ॥
सत्यधर्म
विद्याभिमानिनामविद्यायां विद्येत्यभिमानवतां नृणामेवमुक्तरूपविपर्ययं बुद्ध्वा ज्ञात्वाऽऽत्मनः स्वस्य सूक्ष्मां बहुसंविधानलभ्यां स्थानत्रयविलक्षणां वैकुण्ठादिस्थानत्रयेण तद्वत्त्वेनेति यावत् । विलक्षणामक्षयिष्णुफलत्वेन स्वर्गादिविरुद्धलक्षणवतीं गतिं गम्यस्थानं बुध्वा दृष्टश्रुताभि-र्मात्राभिः शब्दादिविषयैः स्वेन तेजसेन्द्रियलौल्यवैकल्यजनितसामर्थ्येन विमुक्तः सन् ज्ञानविज्ञानसन्तृप्त इदमेवालमिति तृप्तः पुरुषो मद्भक्तो भवेत् । स्वेन तेजसा स्वरूपभूतधाम्ना सहितः । ‘‘तेजो धामि्न पराक्रमे’’ इति विश्वः । मुक्तो भवेदिति वा । विमुक्त इत्यावर्त्यान्वयो वा ज्ञेयः ॥ ६१–६२ ॥
चट्टी
तस्मात्पुरुषोऽधिकारी जीवो विद्याभिमानिनां पण्डिताभिमानिनां न तु पण्डितानाम् । प्रवृत्तिधर्मिणामिति यावत् । नृणामेवमुक्तलक्षणफलविपर्ययं बुध्वा । तथाऽऽत्मनः परमात्मनः स्थानत्रयविलक्षणम् । जाग्रदाद्यवस्थात्रयातीतम् । अत एव सूक्ष्मम् । दुर्ज्ञेयं गतिं स्वरूपं च बुध्वा । स्वेन तेजसा विवेकबलेन दृष्टश्रुताभिर्मात्राभिरैहिकामुष्मिकैर्विषयैर्विमुक्तः । तत्र विरक्त इति यावत् । ज्ञानविज्ञानाभ्यां सन्तुष्टः सन् मयि भक्तिमान् भवेदित्यर्थः ॥ ६१–६२ ॥
एतावानेव मनुजैर्योगनैपुण्यबुद्धिभिः ।
स्वार्थः सर्वात्मना ज्ञेयो यत् परात्मैकदर्शनम् ॥ ६३ ॥
पदरत्नावली
उक्तज्ञानम् अन्ययोगाद् व्यवच्छिनत्ति– एतावानेवेति ॥ किं तदित्यत उक्तम्– यदिति ॥ परात्मन एकत्वस्य साम्याधिक्यराहित्यस्य दर्शनम् ॥ ६३ ॥
सत्यधर्म
योगनैपुण्यबुद्धिभिः । नैपुण्येति स्वार्थे ष्यञ् । यद्वा योगस्य यन्नैपुण्यं निपुणता कौशल्यं यत्र बुद्धिस्तत्सम्पादनविषयिणी येषां ते तैः । अथवा करणरूपाभिस्ताभिः । मनुजैः कर्तृभि-रेतावानेव स्वार्थः सर्वात्मना ज्ञेयः । स क इत्यत आह ॥ यत्परात्मेति । एति वत्सं गौरिवेति यन्स चासौ परात्मा चेति । ‘‘सः श्रुतं चेदागमिष्यति’’ इति ऋग्भाष्योक्तेः । ज्ञेय इति प्रस्तुतं ज्ञानं स्तौति ॥ एकदर्शनमिति । मुख्यं ज्ञानमिदमित्यर्थः । यत्परात्मैकदर्शनं समाभ्यधिकरहित एक इति ब्रह्मज्ञानं यद्येन भवति स सर्वात्मना स्वार्थो ज्ञेय इति वा । यत्परात्मैकदर्शनं तेनाहमेक इति ज्ञानम् । हे स्व स्वकीय चित्रकेतो अर्थः नाशरूपम् । तथा सर्वात्मनो न ज्ञेयो हरिरिति । सर्वमुर्वरितं पूर्ववदिति वा
॥ ६३ ॥
चट्टी
मज्ज्ञानादन्यः परमपुरुषार्थो नास्तीत्याह ॥ एतावानिति । योगेन नैपुण्यं यस्याः सा बुद्धिर्येषान्तैर्मनुजैः परस्य सर्वोत्तमस्यात्मनो ममैवैकं दर्शनमिति यावत् । एतां भवानेव सर्वात्मना स्वार्थो ज्ञेय इत्यर्थः ॥ ६३–६५ ॥
॥ इति श्रीभागवतटिप्पण्यां चट्टीव्याख्यायां षष्ठस्कन्धे षोडशोऽध्यायः ॥ ६–१६ ॥
त्वमेतच्छ्रद्धया राजन्नप्रमत्तो वचो मम ।
ज्ञानविज्ञानसम्पन्नो धारयन्नाशु शुध्यति१ ॥ ६४ ॥
पदरत्नावली
तव योग्यं चैतदेव नान्यदित्याह– त्वमेतदिति ॥ ६४ ॥
सत्यधर्म
एतद् ब्रह्म त्वमन्यद्भिन्नम् । त्वं त्वावन्यपर्यायावित्युक्तेर् लोके । वेदे च ब्रह्मा त्वो वदतीत्यादेः । वचो विद्यारूपं भगवान्मदन्य इत्यादिरूपम् । अतः शुध्यति । शुध्यतीति कथं शुध्यसीति वक्तव्यमिति शंका पराकृता । अथवा त्वं विष्णो प्रथमो मातरिश्वन् आविर्भूत्वेत्यृग्भाष्यटीकायां युष्मद्युपपदेऽपि त्वं देवशक्त्यामित्यादौ प्रथमपुरुषो दृष्ट इत्युक्तेर्नियमो वैय्याकरणानां प्रायिक इत्युप-पत्तिर्ज्ञेया । बभूवुरिति बहुवचनमेकवचनार्थ इत्येतावता समाधिसम्भवे गुरुसरणिमुररीकुर्वन् पराचकार नियमनैर्भर्यं परेषामिति ज्ञेयम् ॥ ६४ ॥
श्रीशुक उवाच–
आश्वास्य भगवानित्थं चित्रकेतुं जगद्गुरुः ।
पश्यतस्तस्य विश्वात्मा ततश्चान्तर्दधे हरिः ॥ ६५ ॥
॥ इति श्रीमद्भागवते षष्ठस्कन्धे षोडशोऽध्यायः ॥
पदरत्नावली
चिरस्थितत्वे पुनरपि प्रश्नः स्यादित्येतस्य हरेरन्तर्धानमाह– आश्वास्येति ॥६५॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
षष्ठस्कन्धे षोडशोऽध्यायः ॥
सत्यधर्म
चित्रकेतुमित्थमाश्वास्य चित्रकेतुं च कृत्वा चित्रः केतुः स्वविषयकं ज्ञानं यस्य तं कृत्वा । केतुं कृण्वन्नकेतव इति व्याख्यावसरे तथैवोक्तेः ॥ ६५ ॥
॥ इति श्रीसत्यधर्मतीर्थकृतायां श्रीभगवतटिप्पण्यां षष्ठस्कन्धे षोडशोऽध्यायः ॥ ६–१६ ॥