१५ पञ्चदशोऽध्यायः

ऊचतुर्मृतकोपान्ते पतितं मृतकोपमम्

॥ अथ पञ्चदशोऽध्यायः ॥

श्रीशुक उवाच—

ऊचतुर्मृतकोपान्ते पतितं मृतकोपमम् ।

शोकाभिभूतं राजानं बोधयन्तौ सदुक्तिभिः ॥ १ ॥

पदरत्नावली

अत्र संसारोऽनित्यस् तदुुच्छेदो ज्ञानेनैव, तदपि निरन्तरोपासितश्रीनारायणानु-ग्रहादुत्पद्यत इत्येतत्सर्वं निरूप्यतेऽस्मिन्नध्याये । तत्राङ्गिरोनारदावागत्य किं चक्रतुरित्याशङ्कायामाह– श्रीशुक इति ॥ मृतकोपान्ते शवसमीपे ॥ १ ॥

सत्यधर्म

भगवदवगमतो मतं संसारनिःसरणं, स च निरन्तरतच्चरणपरिचरणादिलभ्य एवमादि-सर्वस्यापि मूलं तदनुग्रहमिति निरूप्यतेऽत्राध्याये । तत्रादावङ्गिरोनारदावागत्यापत्यमृत्यार्तिमन्तं चित्रकेतुं सान्त्वयामासतुरित्याह ॥ ऊचतुरिति । मृतकोपान्ते शवसमीपे मृतकोपमं तत्तुलं सदुक्तिभिः सत्यः समीचीना निर्दुष्टा वोक्तयस्ताभिर्बोधयन्तौ सन्तावूचतुरित्यन्वयः ॥ १ ॥

चट्टी –सत्सङ्गतिश्चित्रकेतोरिव सन्तापहारिणी ।

संसारदावदग्धस्येत्यध्यायेऽस्मिन्निरूप्यते ।

तत्राङ्गिरोनारदावागत्य किं चक्रतुरित्यत आह ॥ ऊचतुरिति । मृतकोपान्ते शवसमीपे ॥ १ ॥

कोऽयं स्यात् तव राजेन्द्र भवान् यमनुशोचति ।

त्वं चास्य कतमः सृष्टौ पुरेदानीमतः परम् ॥ २ ॥

पदरत्नावली

यमनुशोचति अयं तव कः स्यात् ? कीदृशो बन्धुः स्यात् ? इदानीं पुत्र इति भ्रान्तिश्चेत् तर्हि विरिञ्चिसृष्टौ पुराऽतीतकाले त्वमस्य बालस्य बन्धूनां मध्ये कतमो बन्धुः ? पिता मातुलो वा सहोदरो वा ? अतः परमेष्यति काले च कतमो बन्धुरिति शेषः । अयं च पूर्वापर-कालयोस्तव कतम इति योज्यम् । यथा पूर्वोत्तरकाले युवयोर्न कोऽपि सम्बन्धस्तथेदानीमपि भ्रान्तिमन्त-रेणेत्यतः शोको न कार्य इति भावः ॥ २ ॥

सत्यधर्म

लोकेश न शोकेन कार्यमिति निदर्शनप्रदर्शनेनाहतुर् द्वाभ्यां श्लोकाभ्याम् । यमनुशो-चस्ययं तव को नु स्यात् । अस्य बालस्य त्वं वा कतमः केष्वेकः सृष्टावादिकालिक्यां पुराऽतीतकाले इदानीमेतर्हि । अतःपरमुत्तरत्र को वा भविष्यः । अथवाऽतीतादिकालाननुबन्धित्वादिदानीमपि तथैवेति वा ॥ २ ॥

चट्टी

यमनुशोचस्ययं तव कः कीदृशो बन्धुः स्यात् । त्वं चास्य बन्धूनां मध्ये कतमः सृष्टौ प्रवाहरूपायाम् । अयं च मम पुत्रोऽहं चास्य पितेति चेत्तत्राहतुः ॥ पुरेति । ये पूर्वे जन्मनि यं पित्रादि-रूपेण संयुक्ता आसन् । त एव मरणेन ततो विमुक्ताः सन्तो वर्तमानजन्मनि कदाचित्तस्यैवान्यस्य वा पुत्रादयो भवन्ति । अतो नायं नियम इति भावः ॥ २ ॥

यथा प्रयान्ति संयान्ति स्रोतोवेगेन वालुकाः ।

संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिनः ॥ ३ ॥

पदरत्नावली

ननु तर्हि इदं सर्वं मायाकल्पितमस्त्विति तत्राह– यथेति ॥ यथा वालुकाः सिकताः स्रोतोवेगेन नदीप्रवाहवेगेन प्रयान्ति संयान्ति संयुज्य राशीभवन्ति, तथा ‘कल ज्ञाने’ इति धातोः कालेन ज्ञानमूर्तिना देहिनः संयुज्यन्ते संबध्द्यन्ते । ‘कल द्रावणे’ इति धातोः कालेन संहार-मूर्तिना वियुज्यन्ते ॥ ३ ॥

सत्यधर्म

स्रोतोवेगेन प्रवाहवेगेन वालुकाः सिकताः प्रयान्ति संयान्ति संयुज्यन्ते वियुज्यन्ते च । अत्र कालः प्रसिद्धः । देहिपक्षे कालेन तच्छब्दवाच्येन हरिणा स्रोतोवेगेन कर्मप्रवाहेन । स्रोतोऽम्बु-वेगाङ्घ्रिपयोरिति विश्वः । प्रयान्ति मात्राद्युदरादितः संयान्ति मरणादितः संयुज्यन्ते प्रकृतत्वदादि-भिर्वियुज्यन्ते चातः कुत्र आर्तिरिति भावः ॥ ३ ॥

चट्टी

तमेवाभिप्रायं प्रकटयतः ॥ यथेति । स्रोतसः प्रवाहस्य वेगेन वालुका वियुज्यन्ते । संयान्ति संयुज्यन्ते । यथा कालेन कालवेगेन तत्प्रेरकेण श्रीहरिणा च निमित्तेन देहिनो जीवा अपीत्यर्थः ॥ ३ ॥

यथा धानासु वै धाना भवन्ति न भवन्ति च ।

एवं भूतेषु भूतानि चोदितानीशमायया ॥ ४ ॥

पदरत्नावली

ननु त्यक्तदेहाः पुनर्देहान्तरमाप्नुवन्ति, उत शून्यताम् आहोस्विदनिवृत्तिलक्षणा-मवस्थामिति तत्राह– यथेति ॥ धानासु बीजेषु अंकुरादिसमृद्ध्या परिपक्वेषु सत्सु ततो धानान्तराणि बीजान्तराणि क्वचिद् भवन्ति, क्वचित् प्रतिबन्धान्न भवन्ति यथा, तथा भूतेष्वपि ईशमायया नारायणेच्छया चोदितानि प्ररितानि पुत्रादिव्यवहारयोग्यतयोत्पद्यन्ते । क्वचिद् भर्जनादिलक्षणप्रतिबन्धानि बीजानि अंकुरादिकार्यं न जनयन्ति यथा, तथा ज्ञानाग्निभर्जितसंसारबीजानि भूतानि पुनरावृत्ति-शून्यावस्थां मुक्तिलक्षणामाप्तानि नोत्पद्यन्त इतीमं विशेषं वा इत्यनेन दर्शयति ॥ ४ ॥

सत्यधर्म

त्यक्तकायाः पुनराप्नुवन्ति शरीराण्युत लीना यत्र क्वापि भवन्ति कि वा मुक्ता एव भवन्तीत्यत आह ॥ यथेति । धानासु बीजभूतासूप्तास्विति शेषः । धानाः पुनरावापयोग्या भवन्ति । न भवन्ति ऊषरादा उप्ताः स्वोपादानमेव निविशन्ते । ईशमायया भगवदिच्छाचोदितानि प्रेरितानि भूतेषु प्राणिषु भूतानि पुनरुत्पादकानि भवन्ति । सत्तावन्ति उत्पत्तिमन्ति त्वद्वन्न भवन्ति त्वत्पुत्रवत् ॥ ४ ॥

चट्टी

तथाऽप्येतावन्तं कालं मम पुत्रो नाभूत् । वार्धिके च जातो मृत इति दुःखमिति चेत्तत्राहतुः ॥ यथेति । धानासु बीजेषु धाना बीजान्तराणि भवन्त्युत्पद्यन्ते । कासुचित्कदाचिन्न भवन्ति नोत्पद्यन्ते नश्यन्ति च । न तु भवन्त्येवेति वा नियमः । एवमेव भूतानि पुत्रादिरूपाणि भूतेषु पित्रादिषु । अतो धानानां जन्यजनकभावेऽपि यथा पितृपुत्रादिभावो नास्ति । एवमत्रापीत्यतो न शोकः कार्य इति भावः ॥ ४ ॥

वयं च त्वं च ये चेमे तुल्यकालाश्चराचराः ।

जन्ममृत्योर्यथा पश्चात् प्रागेवमधुना विभो ॥ ५ ॥

पदरत्नावली

इतोऽपि पुत्राद्यात्मना संबन्ध एवमित्याह– वयमिति ॥ अस्मिन् क्षण एव तुल्यकालत्वम् । अन्ययोः क्षणयोर् यथा नास्ति, देहनाशात् । तथा प्रकृतेऽपीति भावः । ननु देहनाशानाशाभ्यां सदा तुल्यकालत्वाभावश्चेत् तर्हि सर्वदा तुल्यकालत्वं कस्येति तत्राह– जन्म-मृत्योरिति ॥ जन्ममृत्योः पूर्वापरकालयोर्यथा सृष्ट्यादिकं करोति तथाऽधुनाप्येवमेवेति । अनेन हरेरेव देहेन सदातनत्वमुपवर्णितम् । अस्य चैतन्यसदातनत्वेऽपि देहस्य नास्तीति विशेष इत्यभिप्रायः । ‘देहस्य सर्वथा नाशादनाशाच्चेतनस्य तु’ इति स्मृतेः ॥ ५ ॥

सत्यधर्म

यावत्क्लृप्तिरैशी तावत्पर्यन्तं सदसन्मिश्राणां विश्रमश्रममिश्रफलमैहिकं भुक्त्वोपादेय-स्योपादानप्रवेशानन्तरमनन्तानुग्रहनिग्रहानुग्रहनिग्रहैः स्वस्वगतिरिति वक्तुमुत्तरो ग्रन्थः । वयं च त्वं चेमे उपोपविष्टा ये चराचरा ज्ञा अज्ञाश्च तुल्यकालवर्तमानकालिकास्तेषामस्माकं प्राग्जन्म पश्चान्मृत्युर्यथा तथाऽधुनाऽपि । एवमुत्तरत्रापि ॥ ५ ॥

चट्टी

पितृपुत्रादिभावाभावमेव स्पष्टयतः ॥ वयमिति । भो राजन् । तुल्यकाला वर्तमानकालीना अस्मदादयो जन्मनः प्राक् मृतेः पश्चाच्च यथा न पित्रादिभावापन्ना एवमधुनाऽपीति विद्धीत्यर्थः ॥ ५ ॥

भूतैर्भूतानि भूतेशः सृजत्यवति हन्त्यजः ।

आत्मसृष्टैरस्वतन्त्रैरनपेक्षोऽपि बालवत् ॥ ६ ॥

पदरत्नावली

केनोद्भूतैरिति तत्राह– आत्मेति ॥ भूतानि स्वयमेव सृजन्तीति किं न स्यादिति तत्राह– अस्वतन्त्रैरिति ॥ न चार्थार्थी सृजत्ययमित्याह– अनपेक्ष इति ॥ अथास्मात् सर्जनात् प्रयोजनापेक्षा न स्यात् कथं तर्हीदं सर्जनम् ? प्रयोजनमन्तरेण प्रवृत्त्यदर्शनादित्यत्राह– बालवदिति॥ यथा बालः क्रीडनकैः क्रीडति तथाऽयम् । ‘लोकावत्तु लीलाकैवल्यम्’ इति सूत्रम् ॥ ६ ॥

सत्यधर्म

भो भूप कस्य के पुत्राद्या मोह एव हि केवलमित्यादेरसत्त्वे तर्ह्यभिमानोऽस्य किं कृत इत्यत आहतुः ॥ भूतैरिति । भूतैः पञ्चभिर्भूतानि प्राणिदेहान् भूतेशो निमित्तभूतः सन्सृजति । अवति हन्ति । स्वयमनेवंविध इति बोधयतः ॥ अज इति । सोऽभिमानः प्रकृतिसम्बन्धकृतो ममाधीना इति मोहो न तु मिथ्यात्वं मानिकमोहपदार्थ इति भावः । तान्यपि भूतानि किं जातानीत्यत आहतुः ॥ आत्मसृष्टैरिति । व्यक्तैः सूक्ष्मैः सृष्टैः स्थूलतया । इदमस्वातन्त्र्ये हेतुः । प्रयोजनेच्छयेत्येतत्तुच्छी-कुरुतः ॥ (अनपेक्ष इति । भूतानि तानि । स्रष्टा कोऽपि तं नियम्यैतं नियामकोऽस्ति न किमित्यतोऽस्तीत्यप्याहतुः ॥) अनपेक्ष इति । अनपो मुख्यप्राणस्तत एव पितामहश्च तस्येक्षा दयापात्रतयेक्षणं यस्येति स तथा । ‘‘प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते’’ इत्यादेः कथं निरर्था प्रवृत्तिः पारमेश्वरीत्यत ईरयतः ॥ बालवदिति । यथा बालः प्रयोजनशून्योऽपि क्रीडादौ प्रवर्तते तथा भागवती प्रवृत्तिरिति ज्ञेयम् । यथोक्तं सूत्रकृता ‘‘लोकवत्तु लीलाकैवल्यम्’’ इति । अजः सृजत्यवति हन्ति । बालवत्पुत्रवदित्यप्यर्थो ज्ञातव्यः ॥ ६ ॥

चट्टी

यद्येवं तर्ह्यहमस्य जनकः पालक इत्यभिमानो भूतानां कथमुपपद्यत इत्याशङ्क्य भगवता निमित्तेन स्वीकृतत्वादित्याहतुः ॥ भूतैरिति । नन्वीश्वरस्य सृष्ट्यादिभिः साध्यमस्ति चेदपूर्णकामता प्राप्ता । नास्ति चेत्कुतस्तत्र प्रवृत्तिरित्यत्राहतुः ॥ अनपेक्षोऽपीति । निरपेक्षो बाल इव लीलाः करोतीत्यर्थः । एवं सर्वकारणाद्भगवत एव भजनीयो न शोकेन प्रयोजनमिति भावः ॥ तथा च श्रुतिः ॥ नाना ह्येनं व्यपदिशन्ति पितेति पुत्रेति भ्रातेति ॥ वाराहे च– ‘‘पुत्रभ्रातृसखत्वेन स्वामित्वेन यतो हरिः । बहुधा गीयते देवैर्जीवांशस्तस्य चैव तु’’ इति ॥ ६ ॥

देहेन देहिनो राजन् देहाद् देहोऽभिजायते ।

बीजादेव यथा बीजं देह्यर्थ इव शाश्वतः ॥ ७ ॥

पदरत्नावली

भूतैरुपकरणैरीश्वरः कथं सृजतीत्यतस्तं प्रकारं दर्शयति– देहेनेति ॥ पितुर्देहेन संयुक्तान्मातुर्देहाद् देहिन उत्पत्स्यमानस्यास्य पुत्रलक्षणजीवस्य देहोऽभिजायते । न तु चेतनः । तस्य नित्यत्वात् । ‘दिह उपचये’ इति धातोर् देहशब्दोपलक्षितपूर्वकर्मणा फलदानायेश्वरप्रेरितेन । देहिनः पितृमातृशब्दवाच्यस्य देहादुपादानभूताद् देहः, पुत्रस्येति शेषः, इति वा । अभीत्युपसर्गेणानेकमुख-परम्परासृष्टिमुपलक्षयति । अत्र दृष्टान्तमाह– बीजादिति ॥ बीजात् पनसादिलक्षणाज् जलतेजआदि-सामग्रीसंवृतादङ्कुराख्यं वृक्षजीवशरीरं तेन सह जायते । तस्माद् युक्तजलाद्याप्तसारात् पनसादि-बीजान्तरमुत्पद्यते तस्माच्चेति यथा कार्यपरम्परा । न चैवमनवस्था । मूलकार्यस्य प्रकृत्यात्मकत्वात् । तथा पितृमातृविकारशुक्रशोणितसंबन्धे कलिलादिलक्षणं कार्यमभिमानिजीवेन सह जायते । तस्मात् परिणतावयवात् स्त्रीपुरुषभूताद् रेतआदिक्रमेण कार्यान्तरं जायते इति । अनेन क्रमेण भगवान् भूतैः सृष्टिं करोति इति । स्थितिसंहारयोरेवमूह्यम् । तददृष्टेश्वरेच्छावशादिति ग्राह्यम् । ‘अथातो रेतसस्सृष्टिः’ इति श्रुतेः । तस्मात् सर्वाणि कार्याणि कानिचिदाहत्यात्मना नारायणायनानि, कानिचित् परम्परया तदधीनानि । तत्रापि विशेषस्तु प्रमाणादवगन्तव्यः । तदुक्तञ्च– ‘नारायणायना देवा ऋष्याद्या-स्तत्परायणाः । ब्रह्माद्याः केचनैवं स्युः सिद्धो योग्यं सुखं लभेत् ॥’ अत्रापि कियन्त इतीयमाशङ्का च । ‘नवकोट्यस्तु देवानामृषीणां शतकोटयः । नारायणायनाः सर्वे ये केचित् तत्परायणाः ॥’ इति एतद्वाक्यद्वयं सर्वस्य नारायणाश्रयत्वेन वक्तव्यत्वात् ‘मुक्तानामपि सिद्धानां नारायणपरायणः’ इत्यादौ नोदाहृतम् । उभयत्रापि इदमेव प्रमाणमिति सन्तोष्टव्यम् ।

ननु देहनाशवद् देहिनाशे पुरुषार्थानुपपत्तिः ? अत्राह– देहेति ॥ देहदेहिनोर्मध्ये देही शाश्वतो ऽभिमानमन्तरेण जन्मनाशरहिततया कालत्रयेऽपि एकप्रकारः । कथमिव ? अर्थ इव । मोक्षलक्षण-पुरुषार्थ इव । शब्दार्थ इव वा । तर्हि ब्रह्मसाम्यमायातमित्यस्याप्येतदेवोत्तरम् । देह्यर्थः जीवाख्यः पदार्थः शाश्वत इव नित्य इव । ‘द्रव्यं कर्म च कालश्च’ इत्यादेर् जीवनित्यत्वस्य श्रीनारायणाधीन-त्वेनोपचरितत्वाद्धरेरेव निरुपचरितनित्यत्वम् । अतस्तयोर्न साम्यमित्यर्थः । केचिदेवं व्याचक्षते । ‘अर्थः नरत्वजातिमात्रमिव । यथा जातेर्नित्यत्वं तथा जीवस्यापि’ इति । एतच्चिन्त्यम् । ‘कुतो भस्मत्वमाप्तस्य नरत्वं पुनरिष्यते’ इति वचनात् । तत्तन्नरत्वादेस्तत्तन्नाशेन नाशसंभवान्नित्यत्वानुपपत्तेः ॥ ७ ॥

सत्यधर्म

कथं परमात्मसृष्टैर्भूतैरस्वतन्त्रैः स्वतन्त्रः सृजतीत्यतस्तं प्रकारमाहतुः ॥ देहेनेति । देहेन पितृदेहेन संयुक्ताद्देहान्मातुर्देहित्वेनोत्पत्स्यमानस्यास्य देहोऽभिजायते । अभीत्यनेन नानाप्रकारतां जनेरसूचयत् । देहिनो नित्याप्राकृतप्रशस्तदेहवतो निमित्ताद्देहेन पितुर्देहान्मातुर्देहोऽभिजायत इति वा । देहेनदेहिन इति पदमेकम् । देहस्येनः सुखदुःखादिभोक्तृत्वेन पतिश्चासौ देही च तस्य देहान्मातुः पितुश्चेति मिलिताद्देहोऽभिजायत इति वा । दृष्टान्तं दर्शयतः ॥ बीजादिति । बीजात्पूर्वं सञ्चिताद्बीज-मङ्कुरप्ररोहोपयोगि यथा जायत्• तथेति । शरीरनाशे जीवस्यापि नाशश्चेद्भोक्ता क इत्यतो न तस्य नाश इति शंसतः ॥ देहीति । देही जीवोऽर्थ इव भगवत्पदार्थ इव शाश्वतः सदैकरूपो नित्य इति यावत् । अर्थो जीवः शाश्वत इव भगवदायत्तनित्यत्व इति वा । नित्यो नित्यानामिति तस्यापि नित्यता-निर्धारणात् ॥ ७ ॥

चट्टी

ननु भूतैर्भूतानि भूतेशः सृजतीत्याद्युक्तम् । चेतनानां नित्यत्वान्नित्यो ‘‘नित्यानां चेतनश्चे तनानाम्’’ इत्यादिश्रुतेरित्याशङ्क्यायं जन्मादिव्यवहारो देहानामेव न त्वात्मन इत्याहतुः ॥ देहेनेति । देहिनः पितुर्देहेनैव देहिनः पुत्रस्य देहो मातुर्देहादभिजायते । यथा बीजादेव बीजं जायते । देही तु शाश्वत एव । अर्थो भूम्यादिर्यथा तद्वदित्यर्थः ॥ ७ ॥

देहदेह्यविभागोऽयमविवेककृतः पुरा ।

जातिव्यक्तिविभागोऽयं यथा वस्तुनि कल्पितः ॥ ८ ॥

पदरत्नावली

कृशोऽहं स्थूलोऽहमित्यभेदानुभवाद् देहिनो नित्यत्वं देहस्यानित्यत्वमित्ययं विशेषः कथं घटत इति तत्राह– देहेति ॥ अविवेककृतोऽज्ञाननिर्मितः । न चायमाधुनिकः शुक्ति-रजतादिवदित्युक्तम्– पुरेति ॥ पुरा पुरातनो ऽनादिमानित्यर्थः । अनेन ज्ञानेनाज्ञाने नष्टे उक्तविशेषो घटत इत्युक्तं भवति । अत्र दृष्टान्तमाह– जातीति ॥ यथा गवादिवस्तुनि गोत्वगवादिपिण्डानां विभागो भेदः कणादादीनामज्ञानेन कल्पितः । न तु वास्तवः । अज्ञानकृतत्वमात्रे दृष्टान्तोऽयम् । तस्माद् भेदाभेदत्वे अप्रयोजके इति । कणादादीनां तमोयोग्यत्वप्रकटनाय तन्मतोदाहरणम् । वस्तुनि हरौ गोपालत्वादिजातिव्यक्तिविभागो यथा कल्पित आरोपितस्तथेति वा ॥ ८ ॥

सत्यधर्म

ननु देहस्य हानिर्देहिनो न हानिरिति कुत उभयोर्नाशः किन्न स्यादित्यतः शंसतः ॥ देहदेहीति । देहश्च देही चेत्यनयोरविभाग ऐक्यं पुराऽविवेककृतमनाद्यविद्याकार्यं ततो न ज्ञानिना मन्तव्यमेवेति भावः । यथा वस्तुनि । ‘‘वासनाद्वासयेद्वस्तु नित्याप्रतिहतत्वतः । वासेनेदं यतस्तुन्नं तस्मात्तद्ब्रह्म भण्यते । अवस्त्वशक्तमुद्दिष्टं शक्तं वस्त्विति भण्यते । तस्मादेकं परम्ब्रह्म वस्तुशब्दोदितं सदा’’ ॥ इति प्रथमैकादशतात्पर्याभ्यां भगवति जातिर्धर्म आनन्दादिव्यक्तिर्भगवानिति विभागो भेदो यथा कल्पितः शास्त्रशंसितो न तथेति । ‘‘विष्णोस्तदीयधर्माणां भेददर्श्यधरन्तमः । एवं धर्मान्पृथक् पश्यंस्तानेवानुविधावति’’ ॥ इत्यादिविरुद्धत्वादिति भावः । अथवा वैशेषिकमतमनेन दूषयति ॥ वस्तुनीति । वस्तुनि घटादौ जातिव्यक्तिविभागो घटत्वादिर्जातिर्घटादिर्व्यक्तिरिति विभागोऽविवेकोऽज्ञानं तेन कृतः । न चायं कथं कल्पितो जातिमङ्गीकृत्य तस्याः क्वचित्सम्भवमसम्भवं च वदन्तो महान्तो दृश्यन्ते गौतममतावलम्बिनो ‘‘व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः । रूपहानिरसम्बन्धो जातिबाधकसङ्ग्रहः’’ ॥ इत्यादेः समूलत्वादिति वाच्यम् । नैकया जात्याऽङ्गीकृतया सर्वत्र निर्वाहोऽत एव सामान्यादौ धर्मे स्वीकर्तव्ये धर्मिवदत एव सर्वत्र निर्वाहे गौरवात्किं तयेति । किञ्च नित्यता च तस्या आमरपामरं नौ मर्हा । मासेन शूद्रो भवति ब्राह्मणो नरत्वादिकमित्यादिव्याख्यानसमये सुधायां सपरिष्कारमीरणात् । अपि पामराः सुरापाय्यादिकस्य जातिभ्रंशोऽस्य जात इति न जातुचिन्नाच-कथन्निति का कथन्तेति । ‘‘भिन्नाश्च भिन्नधर्माश्च पदार्था निखिला अपि’’ इत्यादेरनुगतिरपि दुर्गतिमगमत् । सति घटे तत्र विशेषणतया प्रतीयमानं घटत्वमसति तस्मिन्क्व गतमिति कृतेऽनु-योगस्वलक्षणरिरक्षिषया विनामानं काल इत्युड्डीनं वा कर्तव्यं मूकता वा शरणीकरणीयेति जल्पनं कल्पनत एवाल्पमतीनामित्यलम् । देहदेह्यविभागो भगवति देहोऽयं देह्ययमिति अविभागो भागाभावो विभजनत्यजनमिति यावत् । अयमविवेककृतः । अयम इति असदृश इति यो विवेको ज्ञानमसदृशो यो विवेक इति वा तेन कृतः । अयं जीवसङ्घोऽपि पुरा शरीरेण सह जातिव्यक्तिविभागस्तद्वान् । कदेत्यतस्तदप्याह तुः ॥ पुरेति । लिङ्गभङ्गात्पूर्वम् । तत्रापीत्थमित्याहतुः ॥ यथा वस्त्विति । ‘‘खण्डिते भेद ऐक्यं च’’ इत्येवमाद्युक्तेस्तत्तद्वस्त्वनुसारेण मानिकोऽयं विभाग इति न कल्पनमिति वदतो विकल्पित इति न कल्पितो विकल्पित इति वा ॥ ८ ॥

चट्टी

ननु जन्मादिव्यवहारो देहानामेव न त्वात्मन इत्येतदयुक्तम् । देहव्यतिरिक्तस्यात्मनोऽ-भावात् । न च तं स्वशरीरात्प्रवृत्तिरिति श्रुतिविरोधः । स्थूलोऽहं कृशोऽहमिति देहात्मैक्यग्राहिप्रत्यक्ष-विरोधेन तस्या उपचारसम्भवादित्याशङ्क्यैक्यप्रतीतिर्भ्रान्तिरित्याहतुः ॥ देहीति । देहदेहिनोरविभागोऽ-भेदोऽविवेककृतोऽज्ञानकल्पितः । नायं शुक्तिरूप्यवदागन्तुक इत्याह ॥ पुरेति । पुरा पुरातनोऽनादि-रित्यर्थः । अविभागापरो विभागारोपं दृष्टान्तमाहतुः ॥ जातीति । अत्र जातिशब्दो गुणादेरप्युपलक्षकः । यथा वस्तुनि गवादिलक्षणे गोत्वादिजात्यादेर्गवादिव्यक्तिश्च विभागो भेदोऽसन्नपि कणादीनामज्ञानेन कल्पितस्तथेत्यर्थः ॥ तथा चोक्तम् ॥ ‘‘गुणक्रियाजातिपूर्वधर्माः सर्वेऽपि वस्तुनः । रूपमेव द्विधं तच्च यावद्वस्तुनि खण्डितम्’’ इति । ‘‘कुतो भस्मत्वप्राप्तस्य नरत्वं पुनरिष्यते’’ इति वचनाच्च ॥ ८ ॥

नानात्वं जन्मनाशश्च क्षयो वृद्धिः क्रियाफलम् ।

द्रष्टुश्च भान्त्यतद्धर्मा यथाऽग्नेर्दाह्यविक्रियाः ॥ ९ ॥

पदरत्नावली

देहदेह्यविभागप्रतीतेरनुभवात् कथं नानात्वादिभ्रान्तिप्रतीतिरित्यत आह– नानात्वमिति ॥ अतद्धर्मा यो जीवस्तस्मादन्यस्य देहस्य धर्माः सुरो नरोऽहमित्यादिनानात्वादयो द्रष्टुर्जीवस्य विद्यमाना इति भ्रान्तिः । क्रियाफलमिति हेतुगर्भविशेषणम् । कर्मफलत्वात् । अग्निना दाह्यस्येन्धनस्य विक्रिया वृद्धिक्षयादिविकारा अग्नेरिति भ्रान्तिः । भ्रान्त्येन्धनसमृद्धौ समृद्धोऽग्नि-स्तध्द्रासे क्षीण इत्यादयः । द्रष्टुर्ज्ञानिनो हरेरतद्धर्मा इत्येव भ्रान्तिः । ‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते’ इति श्रुतेर्नेदं दर्शनं भ्रान्तम् । अनेन देहिदेहभेदे प्रमाणमुक्तं भवतीति वा ॥ ९ ॥

सत्यधर्म

ननु गौरोऽहं कृशोऽहमित्याद्यनवद्यानुभवात्कथं कल्पितोऽयमिति वैय्यात्याद् गर्जत-स्तर्जतः ॥ नानात्वमिति । नानात्वं सुरोऽहं नरोऽहमिति जन्माहं जात इति नष्टो मृतः स इति क्षयः क्षीणोऽहमिति वृद्धिः पुष्ट इति सर्वं क्रियाफलं कर्मफलम् । तथात्वेऽपि द्रष्टुर्भाति व्यवहारतः । वस्तुतस्त्वयं कीदृश इत्याहतुः ॥ अतद्धर्मेति । स धर्मो यस्यासौ स तथा न तथेत्यतद्धर्मा शरीरधर्माणामत्र व्यवहरणमिति भावः । तत्र निदर्शनं दर्शयतः ॥ यथेति । अग्नेर्दाह्यस्य काष्ठस्य विक्रिया महत्त्वादिना महत्त्वमणीयस्त्वेनाणुत्वमिति व्यवहारौपयिको विकारस्तथा । यथोक्तं भक्तिपादीय क्व च प्रत्यक्षतः प्राप्तम्’’ इत्याद्यनुव्याख्याव्याख्यासुधायां ‘‘प्रत्यक्षतः प्राप्तम्’’ इति ‘‘साक्षात्कारसिद्ध-मित्यादीकृत्य क्वचित्प्रतीतेरेवाभावात्क्वचित्प्रतीतिसद्भावेऽपि प्रत्यक्षजत्वाभावात्क्वचित्प्रत्यक्षप्रतीतिभावेऽ-प्ययथार्थत्वात्क्वचिद्यथार्थत्वेऽपि प्रबलप्रत्यक्षेणैव बाधादित्यर्थः । अत एव क्वापीत्युक्तम् । अन्येनेत्य-नुपजीव्येन मानादिनेत्यर्थः । तदेवं स्वभावत इत्यन्तेन । अतद्धर्मा न तद्धर्मा अतद्धर्मा इति वा । क्रिया कर्म । फलम् ऐहिकम् । द्रष्टुर्नित्यैकप्रकारदर्शनवतः । अतद्धर्मा जीवधर्मा न भवन्तो भान्ति । न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते । द्रष्टुर्दर्शयतः । ‘‘अन्तवन्त इमे देहाः’’ इत्यादिशास्त्रादतद्धर्मा भान्ति । एतेन कृशोऽहमित्यादि देहविवक्षया न जीवविवक्षया तथाज्ञानं भ्रम इति वा ॥ ९ ॥

चट्टी

देहदेह्यविभागप्रतीतेरेव देहधर्मा नानात्वादय आत्मन्यारोपितव्या इत्याहतुः ॥ नानात्व-मिति । क्रियाफलं जीवगतपुण्यपापलक्षणं कर्मफलं नानात्वं सुरनरत्वादिलक्षणं जन्मादयश्चातद्धर्मा अपि अनात्मधर्मा अपि द्रष्टुर्देहाभिमानिन आत्मनो भान्ति । यथाऽग्निना दाह्यस्य तृणादेर्विक्रिया विकारा अग्नेर्भान्ति तद्वदित्यर्थः ॥ ९ ॥

त इमे देहसंयोगादात्मन्याभान्त्यसद्ग्रहात् ।

स्वप्ने यथा तथा नान्यद् ध्यायेत् सर्वं भयं च यत् ॥ १० ॥

पदरत्नावली

इदमेव विवृणोति– त इम इति ॥ ये ये प्रत्यक्षादिप्रमाणसिद्धा जन्मनाशादयस्त इमे जीवस्य दहसंयोगादात्मनि जीवे मनसि वा भान्तिः । कुतः ? असद्ग्रहाद् देहोऽहमित्यभिमानात् । अत्रोदाहरणमाह– स्वप्न इति ॥ जाग्रद्दृष्टसर्पव्याघ्रादिसंस्कारवशात् स्वप्नेऽपि यथा तद्दर्शनात् सर्वं भयमित्याद्यनर्थजातं भवति, तथाऽनादिकालीनमिथ्याभिमानादनर्थकरः संसारः स्यादिति यद् यस्मात् तस्मात् तन्निवृत्त्युपायमाह– नान्यदिति ॥ अन्यदनर्थकारणं न ध्यायेदित्यन्वयः । ननु शुक्तिकाधिष्ठाने रजतं यथा प्रतीयते तथा जन्मादिकं किमधिष्ठानमित्येतां मन्दाशङ्कां वा परिहरति– त इति ॥ आत्माधिष्ठानम् । शुक्तिरजतवज्जन्मादिकं मिथ्याभूतं भवेदित्यतः स्वप्नपदार्थानामर्थक्रियाकारित्वाद् यथा सत्यत्वमङ्गीकर्तव्यं तथा जन्मादीनामित्यभिप्रेत्याह– स्वप्न इति ॥ अन्यद् देहात्मत्वम् ॥ १० ॥

सत्यधर्म

शोककालत्वान्न विविशेत्तन्मनस्तत्रेति पुनर्वदतः ॥ इमे पूर्वोक्ता इति । आत्मनि जीवे भान्ति । तत्र निमित्तं देहसंयोगादिति । असद्ग्रहाद्दुरभिमानादात्मन्येवं दातरि भगवति सत्याभान्ति । इदं कुत इत्यत आहतुः । असद्ग्रहादिति । एतस्य सत्त्वप्यसामर्थ्येनासत्प्रायत्वज्ञानात् । तत्रानुरूपं दृष्टान्त-माह ॥ स्वप्न इति । यथा स्वप्ने तदवस्थायां सर्वं जाग्रत्कालिकसर्पाद्यनुभवसंस्कारवशाद्भयं यत् । इणोन्तर्हितणिचो रूपम् । एति प्रापयतीति यत् । यथोक्तम् । यतश्च यदिति व्याख्यावसरे गीताभाष्य-तात्पर्यप्रमेयदीपिकासु । यतश्च यद् यतो याति प्रवर्तत इति । यतो यस्य प्रेरणया । यदितीणो लडादेशे शत्रन्तस्य रूपम् इणो यातेश्चानतिभिन्नत्वादिति । भयमित्युपलक्षणम् । भयाभयहर्षाहर्षादिकम् । सत्यमेव तथा सांसारिक्यां दशायामिति । तरणकारणमीरयतः ॥ नान्यदिति । भगवदन्यन्न ध्यायेत् । तथा चेत्सरति संसार इति भावः । कर्ता स एव हर्ता च सन्ध्ये निर्माता चेति सन्ध्ये निर्मातारम् । न तत्र रथा न रथयोगा इत्यादिसूत्रश्रुतिसिद्धत्वान्नाविश्वसनीयमिति द्योतयितुं तं ध्यायेदित्यनुक्त्वा निषेधमुखोक्तिरिति मन्तव्यम् । असद्ग्रहात् सन्सर्वदा सर्वत्र तत्र तत्र चेति भगवाञ्जीवश्च तद्ग्रहस्तज्ज्ञानं तदभावादसद्ग्रहात्तथा देहसंयोगाच्च । तेऽतदीया अपीमे ममेति भ्रान्तिः क्वेत्यत आत्मनि मनसीति । स्वप्ने यथा तदेवेति तथेति । ननु कथङ्कारं ज्ञेयमित्यतस्तदप्याहतुः ॥ स्वप्नेति । यथातथा न किन्तु भातं सर्वं भयमभयं चेति यत्तदन्यत्तदाऽवलोकितं पूर्वावलोकिताद्भिन्नं भगवत्सृष्टं सत्यमिति तथा । त इमे देहस्यैव न मे । यच्छरीरं तदन्यदिति ध्यायेदिति दृष्टान्तदार्ष्टान्तिकतया वा योज्यम् ॥ १० ॥

चट्टी

उक्तमेव विशदयतः ॥ त इम इति । ते देहनिष्ठत्वेन प्रसिद्धा इमे जन्मादयो देहसंयोग-निमित्तात् । आत्मन्याभान्ति तन्निष्ठत्वेन प्रतीयन्ते । देहसंयोगसद्भावेऽपि ज्ञानिनां तथा प्रतीत्यभावात्तत्र मुख्यकारणमाह ॥ असद्ग्रहादिति । देहोऽहमिति दुराभिमानत्वादित्यर्थः । तत्र दृष्टान्तः ॥ स्वप्न इति । यथा स्वप्नावस्थायां जाग्रत्वमाभाति तथेत्यर्थः । मिथ्याज्ञानस्य फलं वदन्तौ तन्निषेधतः ॥ नेति । यदन्यद्वस्तु स्वरूपादन्यथाभूतं देहात्मैक्यादिकं तत्सर्वं न ध्यायेन्न जानीयात् । यतो भयं भयप्रद-मित्यर्थः ॥ तथा चोक्तम् ॥ ‘‘यत्किञ्चिदन्यथा संस्थ(सन्त)मन्यथा ध्यातमंजसा । अनर्थकारणं लोके किमु सर्वेश्वरो हरि’’ ॥ इति ॥ १० ॥

प्रसुप्तस्या१नहम्मानान्न घोरा भाति संसृतिः ।

जानतोऽपि२ यथा तद्वद् विमुक्तस्यानहम्मतेः ॥ ११ ॥

पदरत्नावली

अनन्यध्यानफलं सदृष्टान्तमुपपादयति– प्रसुप्तेति ॥ प्रकर्षेण सुप्तस्य । प्रकर्षेण सुप्तेर्मरणापरपर्यायत्वात् तन्निवृत्त्यर्थं– जीवतोऽपीति ॥ धृतप्राणस्यापि । ज्ञानपूर्वं बाह्यप्रवृत्तिशून्यस्या-नहम्मानाद् देहात्मत्वादिभ्रान्तिज्ञानराहित्याद् यथा घोरा संसृतिर्न भाति तद्वत् तथा विमुक्तस्य सा न भाति । कुतः ? विमुक्ताहम्भावबुद्धित्वात् । अनेनान्यध्यानेन कैवल्यप्राप्तिः सूचिता भवतीति ॥ ११ ॥

सत्यधर्म

अनन्यध्यानं विहितं तत्किं फलकमित्यतो लपति ॥ प्रसुप्तस्येति । अनहम्माना-न्निरभिमानाज्जानतश्चेतनस्य संसृतिस्तदानीं यथा घोरा न भवति । मन आदेर्बहिरर्थानुपयोगितयोपरतेः । तथा जानतो मम स्वर्गमीश्वरतन्त्रमिति ज्ञानवतः सांसारिक्यां दशायामपि संसृतिर्घोरा न भवति । स्वाप्नपदार्थदर्शनस्य कालान्तरे फलप्रापकता वर्तते तद्वद्विदुषोऽपि समयान्तरे संसारः पुनरुपसर्गदः किमित्यरुच्या दृष्टान्तान्तरमुच्यते ॥ यथेति । यथा विमुक्तस्य लिङ्गभङ्गप्राप्तस्य संसृतिर्न घोरा तद्वत् । अनहम्मतेर्जानतः सनकादेर्जनकादेरिव न घोरेति । स कीदृशः संसार इत्यतस्तत्स्वरूपं निरूपयति ॥ भातिसंसृतिरिति । भया भगवज्ज्ञानेनातिसंसृतिरतिक्रान्ता संसृतिर्येन जीवन्मुक्त इति यावत् । अतिक्रान्तः संसृतिमिति स तथा । अत्यादयः क्रान्ताद्यर्थे द्वितीययेत्युक्तेरिति वा ॥ ११ ॥

चट्टी

एवमभिमानस्यानर्थकारणत्वेन योऽवश्यं परिहरणीय इति बोधयितुं तत्परिहारफलं तावत्सदृष्टान्तमाहतुः ॥ सुषुप्तस्येति । यथा सुषुप्त्यवस्थापन्नस्य पुरुषस्याहमित्यभिमानाभावाद्विषयव्या-वृत्तिलक्षणा संसृतिर्नाभाति । तद्वदेव जीवस्य जीवतो देहावच्छिन्नस्य सतोऽप्यनहंमतेरहमभिमान-शून्यस्यात एव जीवन्मुक्तस्य घोरा संसृतिर्नाभातीत्यर्थः ॥ ११ ॥

तस्मादन्यन्मनोमात्रं जह्यहम्ममतातमः ।

वासुदेवे भगवति मनो धेह्यात्मनीश्वरे ॥ १२ ॥

पदरत्नावली

फलितमाह– तस्मादिति ॥ यतोऽनहम्मानिनो घोरसंसारहानिः, अन्यस्य तद्भावश्च तस्मादन्यत् पुत्रादिकं मनोमात्रं मनोगतरागद्वेषजनितपुण्यपापनिमित्तम् । एतदुक्तं भवति । अहम्मानेन मनसो रागद्वषौ स्याताम् । तयोः पुण्यपापे भवतः । ताभ्यां च पुत्रादिकमुत्पद्यते । ‘मनसो द्वेषरागाभ्यां पुण्यपापसमुद्भवः । पुत्रादि पुण्यपापाभ्यां तस्मात् सर्वं मनोभवम् ॥’ इति वचनात् । अनेन पुत्रादेर्दीर्घायुष्यादिकं पुण्यपापनिमित्तं भवतीति सूचितमिति । ननु तदस्तु, ततः किं प्रकृत इति तत्राह– जहीति ॥ तद्धननोपायमाह– वासुदेव इति ॥ आत्मनि बिम्बभूते । देहस्थितत्वेऽपि तद्देहगत-दुःखाद्यस्पर्शे समर्थ इति द्योतनाय ईश्वरेति । मनोधारणयोत्पन्नतत्प्रसादोद्भूतज्ञानासिना तमोऽहम्ममता-लक्षणं निर्मूलयेत्यर्थः ॥ १२ ॥

सत्यधर्म

यदर्थमियानायासस्तं निगमयति ॥ तस्मादिति । अन्यत् पुत्रादिकं सर्वमन्यत् । तत्किं भावि तव किं भावि, त्वं तस्य किं न किमपि । तर्हि क्लेशहेतुः क इत्यत आहतुः ॥ मनोमात्रमिति । मनःशब्देन तत्कारणकोऽभिमानो ग्राह्यः । मनोमात्रमभिमान एवेत्यर्थः । ‘‘मात्रं वाव धृतौ कात्स्न्ये’’ इति विश्वः । अहंममतातमस्तद्रूपमन्यथाज्ञानं जहि त्यज । तद्धातुर्निदानं किमित्यत आह ॥ वासुदेव इति । आत्मनीश्वरे ब्रह्मादिभ्यो वरे भगवति वासुदेवे स्वबिम्बे मनो धेहि निधेहि । निधानमेव तत्तम उत्तारकमिति भावः ॥ १२ ॥

चट्टी

एवमभिमानत्यागस्य संसारनिवृत्तिफलकत्वादभिमानं त्यक्त्वा श्रीहरिं भजस्वेति बोधयतः ॥ तस्मादिति । तस्मादभिमानत्यागस्य संसारनिवृत्तिफलकत्वादन्यत्पुत्रादिविषयम् । मनोमात्रं रागद्वेषदुष्ट-मनःकारणम् । अहंममताभिमानत्वलक्षणं तमो जहि परिहर । तत्परिहारे उपायमाहतुः ॥ वासुदेव इति । अत्र देहदेह्यविभागोऽयमविवेककृतः । पुरेत्यारभ्य तत्र तत्र देहात्मैक्यप्रतीतिरुक्ता स्फुटतर-विवेकाभावादित्यभिप्रायः । मम देह इति भेदस्यैव सर्वैरनुभूयमानत्वेनैक्यप्रतीतेः कस्याप्यभावादिति ज्ञातव्यम् ॥ तदुक्तमनुव्याख्याने ॥ ‘‘मम देह इति ह्येव न देहोऽहमिति भ्रमः । इत्यारभ्य व्याप्तत्वादात्मनो देहे व्यवहारेष्वपाटवात् । भेदज्ञानेऽपि चांगारवन्हिवत्स्वाविविक्तवत् । भवन्ति व्यवहाराश्च न हि प्रत्यक्षगानपि । अर्थान्यथाऽनुभवतः प्रतिपादयितुं क्षमा इति ॥ सुधायां च ॥ भेदे ज्ञातेऽप्यात्मनो देहे व्याप्तत्वादंगारवन्हिवल्लोकानां व्यवहारेष्वपाटवादत्यन्तविविक्तवेदनेष्व सामर्थ्या-त्पुरादिव्यवहारश्च स्वाविविक्तवद्भवन्ति । विषयविवेकाभावविवक्षयैव ते व्यवहारा इत्याशयः । अत एव विवेकार्थानामुपदेशानां च सार्थ्यक्यमुपपद्यते । विशदो हि विवेकः पुरुषार्थाय कल्प्यते । न त्वौत्पत्तिकः । आत्मनो देहे व्याप्तत्वादत्यन्तप्रेमास्पदत्वाद्रागादयोऽपि युज्यन्त एवेति ॥ १२ ॥

श्रीशुक उवाच—

एवमाश्वासितो राजा चित्रकेतुर्द्विजोक्तिभिः ।

विमृज्य पाणिना वक्त्रमाधिम्लानमभाषत ॥ १३ ॥

पदरत्नावली

आधिना म्लानम् ॥ १३ ॥

सत्यधर्म

इयताऽपि तापोपशमनं नाभूत्किं भूपस्येति परीक्षिन्मानससंशयं शुकोऽपाकरोतीतीर-यति ॥ शुक इति । द्विजयोरुक्तिभिर्द्विजाभ्यां कर्तृभ्यामुक्तिभिः करणैरिति वा द्विजोक्तिभिः । आधिम्लानमाधिना मनोव्यथया । पुंस्याधिर्मानसी व्यथेत्यमरः । तथाऽधिम्लानं क्षीणहर्षम् । आधिर्म्लानो यथा भवति तथाऽधिम्लानम् अभाषतेत्यन्वयो वा । विमृज्य पाणिनेति वाणीविलासाद् यद्यप्यङ्गिरा दृष्टचरस्तथाऽपि व्यथातिक्वथितमनसोऽङ्गस्मृत्यभावादित्थं प्रश्न इति मन्तव्यम् ॥ १३ ॥

चट्टी

आधिना म्लानं वक्त्रम् ॥ १३ ॥

राजोवाच—

कौ युवां ज्ञानसंपन्नौ महिष्ठौ च महीयसाम् ।

अवधूतेन वेषेण गूढाविह समागतौ ॥ १४ ॥

पदरत्नावली

अवधूतेन वेषेण धूलिरूषिताकारेण ॥ १४ ॥

सत्यधर्म

महीयसां महिष्ठौ बहुमहत्तमौ । अथवाऽवधूतेन वेषेणेति भाषणेन परिचितायां सत्यामपचितौ रचितायामपि तस्याङ्गिरसो परिस्फूर्तिसम्भवसम्भवत्वकः प्रश्न इति वा । समागतौ समं मिलित्वागतौ युवां कौ नौ जायापत्योर्ज्ञानसम्पत् तद्रूपौ सन्तौ काविति वा ॥ १४ ॥

चट्टी

अवधूतेन वेषेण धूलीरूषिताकारेण ॥ १४ ॥

चरन्ति ह्यवनौ कामं ब्राह्मणा भगवत्प्रियाः ।

मादृशां ग्राम्यबुद्धीनां बोधायोन्मत्तलिङ्गिनः ॥ १५ ॥

पदरत्नावली

उन्मत्तस्य लिङ्गमेषामस्तीति तथा ॥ १५ ॥

सत्यधर्म

ज्ञानवतां महतामयं स्वभाव इति कांश्चिद्विपश्चित इदं छलप्रायश्चित्तेन प्रायश्चित्त-शुद्धिरिति बुद्ध्वा नामनिर्देशपूर्वकं तेषु कौ युवामिति विकल्प्य भूपः पृच्छंस्तदवधूतवेष एवंविधोऽनु-भूतपूर्व इतीरयति ॥ चरन्ति ह्यवनाविति । ब्राह्मणा अपरोक्षप्रेक्षा भगवत्प्रिया भगवान्प्रियो येषां त इति वा भगवतः प्रिया इति ते तथा । कामं यथेच्छमवनौ चरन्ति गत्य हि ‘‘जठन्ति नात्मार्थं भास्करा इव भास्वराः’’ इत्यादेः प्रसिद्धिमिति सूचयति । स्वप्रयोजनाभावे चरणं चरणश्रमणेन कुतस्तेषामित्यतो भाषते । मादृशाम् । अस्मादृशामित्यनुक्त्वोक्त्वा च मादृशामिति मा न विद्यते दृक् येषामिति मादृशस्तेषां मादृशामित्यनन्तर्गर्भं स्फोरयामास । यद्वक्ष्यति ग्रामपशोर्मुग्धधियेति । मद्विधानां बोधाय ज्ञानोद्बोधनार्थमिति स्वस्वरूपं निरूपयति । ग्राम्यबुद्धीनां सुरतादिरतचेतसामश्लीलमनसां वा । ग्राम्यमश्लीलबन्धयोरिति विश्वः । तर्हि ज्ञातावेव किमर्थं काविति शङ्केत्यत आह ॥ उन्मत्तलिङ्गिन इति । उन्मत्तस्योन्मादवतो लिङ्गं येषां ते तथा । सामान्यतोऽवगमेऽपि नेत्थङ्कारं मतिरिति युक्ताऽनु-युक्तिरित्याशयः ॥ १५ ॥

चट्टी

अवनौ भूमौ । बोधनायैते उन्मत्ता इति ज्ञापनायोन्मत्तस्यैव लिङ्गं येषां ते तथा ॥ १५ ॥

कुमारो नारद ऋभुरङ्गिरा देवलोऽसितः ।

अपान्तरतमो व्यासो मार्कण्डेयोऽथ गौतमः ॥ १६ ॥

पदरत्नावली

मार्कण्डेयगौतमयोर्मध्येऽन्यो नास्तीति द्योतनायाथशब्दः ॥ १६ ॥

सत्यधर्म

ते च कुमारः सनत्कुमारो नारदोऽङ्गिरा देवलोऽसितोऽसितदेवल इत्येकस्य नाम इति केचित् । मोक्षधर्मे– ‘‘जैगीषव्यस्य संवादमसितस्य च भारत । जैगीषव्यं महाप्राज्ञं धर्माणामागतागतम् । अक्रुद्ध्यन्तमधृष्यन्तमसितो देवलोऽब्रवीत् । तथैव तत्रैवान्यत्र– ‘‘उवाचासितदेवलः’’ इत्युक्तेः । भागवते च सामानाधिकरण्येनान्वयेनोभयैककण्ठ््यसम्भवात् । विश्वामित्रोऽसितो गृत्समदोऽसितः । अपान्तरतमः कश्चिदिति कश्चित् । उत्तरत्रात्रेवापान्तरप्राग्यतमः पुरोगा इति सङ्ग्रहरामायणोक्तेः साक्षाद्भगवानेव । मेधातिथिर्देवल इत्यत्रैव वैशकलित्यनामनी श्रुते इति भिन्नौ मुनी इत्याहुः ॥ १६ ॥

वसिष्ठो भगवान् रामः कपिलो बादरायणिः ।

दूर्वासा याज्ञवल्क्यश्च जातूकर्ण्यस्तथाऽऽरुणिः ॥ १७ ॥

सत्यधर्म

भगवानिति व्यासादिसर्वभगवद्रूपविशेषणम् । रामः परशुरामः । कपिलः । सुखं पिबन् लीलयैव कपिलो व्यास एव च । विशिष्टत्वादिति विः, ‘‘विशिष्टः सर्वस्मादासमन्तात्स एवेति व्यास’’ इति गीतातात्पर्योक्तेस्तदर्थो ज्ञेयः । ‘‘कृष्णव्यासौ रामकृष्णौ रामकपिलौ यज्ञप्रमुखाः स्वयं सः’’ इति गीताभाष्योक्तेः । ‘‘कपिलव्यासकृष्णाद्यं प्रत्यक्षं वैभवं स्मृतम्’’ इति च गीताभाष्योक्तेः । तथा चाग्नेयशाखायां– ‘‘स व्यासो वीति तमं स वै वि सोऽधस्तात्स उत्तरतः स पश्चात्स पूर्वस्मात्स दक्षिणतः स उत्तरत इति’’ इति च । ‘‘कपिलो वासुदेवांशस्तन्त्रं साङ्ख्यं जगाद ह । ब्रह्मादिभ्यश्च देवेभ्यो भृग्वादिभ्यस्तथैव च । तथैवासुरये सर्वं वेदार्थपरिबृंहितम् । सर्ववेदविरुद्धं च कपिलोऽन्यो जगाद ह । साङ्ख्यमासुरयेऽन्यस्मै कुतर्कपरिबृंहितम्’’ ॥ इत्यादिप्रथमतात्पर्योक्तेः । कपिलो वासुदेवाख्य इत्यारभ्य सत्तत्त्व इत्यन्तेन सविस्तरमुक्तमिदं छान्दोग्यभाष्येऽनुसन्धेयम् । कपिलो नेतरः । बादरायणिः शुकः ॥ १७ ॥

रोमशश्च्यवनो दत्त आसुरिः सपतञ्जलिः ।

पराशरोऽथ मैत्रेयो भरद्वाजश्च आरुणः ।

ऋषिर्वेदशिरा बोध्यो मुनिः पञ्चशिखस्तथा ॥ १८ ॥

सत्यधर्म

आसुरिः सन् ॥ १८ ॥

हिरण्यनाभः कौशल्यः श्रुतदेवः क्रतुध्वजः ।

एते परे च सिद्धेशाश्चरन्ति ज्ञानहेतवः ॥ १९ ॥

पदरत्नावली

ज्ञानहेतवः, लोकानामिति शेषः ॥ १९ ॥

सत्यधर्म

ज्ञानहेतवो ज्ञानवदितरान्कुर्वन्तीति ते तथा ॥ १९ ॥

चट्टी

अज्ञानिनां ज्ञानहेतवः ॥ १९ ॥

तस्माद् युवां ग्राम्यपशोर्मम मुग्धधियः प्रभू ।

अन्धे तमसि मग्नस्य ज्ञानदीप उदीर्यताम् ॥ २० ॥

पदरत्नावली

युवां युवाभ्याम् ॥ २० ॥

सत्यधर्म

फलितमभिलपति ॥ तस्मादिति । अन्धयतीत्यन्धमज्ञानं तमस्तस्मिन्निमग्नस्य ज्ञानदीपः । प्रभू युवां प्रभुभ्यां युवाभ्यां ज्ञानदीपो ज्ञानरूपो दीप उदीर्यतामुच्यताम् ॥ २० ॥

चट्टी

मुग्धधियो मूढबुद्धेर्मम युवां प्रभू रक्षकावुभावपि समाविति वा । अतो युवाभ्यां ज्ञानदीपक उदीर्यतां प्रवर्त्यताम् ॥ २० ॥

अङ्गिरा उवाच—

अहं ते पुत्रकामस्य पुत्रदोऽस्म्यङ्गिरा नृप ।

एष ब्रह्मसुतस्साक्षान्नारदो भगवान् ऋषिः ॥ २१ ॥

सत्यधर्म

प्रत्ययार्थं प्राक् प्रत्यक्षतोऽनुभूतं स्मारयितुमेक एव वक्ति ॥ अहमिति । पुत्रद इति परिचायकोक्तिः । ब्रह्मसुत इत्युभयान्वयीति ज्ञेयम् । अस्माभिः स्वयमेव स्वायम्भुवोऽहमिति वक्तुं किञ्चित्सङ्कोचेन द्वितीयार्धे तत्रापि नारदमात्रविशेषणतया उक्तवानिति ज्ञेयम् ॥ २१ ॥

चट्टी

कौ तु युवामित्यस्योत्तरमाह ॥ अहमिति ॥ २१ ॥

इत्थं त्वां पुत्रशोकेन मग्नं तमसि दुस्तरे ।

अतदर्हमनुस्मृत्य महापुरुषगोचरम् ॥ २२ ॥

पदरत्नावली

महापुरुषगोचरं भक्तिस्मरणादिमत्त्वेन श्रीविष्णुविषयम् ॥ २२ ॥

सत्यधर्म

दुस्तरे आवाभ्यां विना दुष्पारे अस्माकं तमआवरणे भवतः किमित्यत आह ॥ अतदर्हं तत्तमोऽयोग्यमिति । तत्र हेतुर्महापुरुषगोचरं भगवत्प्रियम् । महापुरुषाणां त्वया कीर्तितानां तदितरेषां सत्पुरुषाणां विषयो बोधयितुमिति तं वा ॥ २२ ॥

चट्टी

अतदर्हत्वे हेतुर्महापुरुषगोचरं श्रीहरिभक्तमनुस्मृत्य विचिन्त्य ॥ २२ ॥

अनुग्रहाद्१ भगवतः प्राप्तावावामिह प्रभो ।

ब्रह्मण्यो भगवद्भक्तो नावसीदतुमर्हति ॥ २३ ॥

पदरत्नावली

नावासीदतुमर्हति पुत्रनिमित्तशोकेन नष्टो मा भूदिति ॥ २३ ॥

सत्यधर्म

भगवतो हरेरनुग्रहादुदिततया त्वयि सतः । मय्येवानुग्रहाद्गृहागमनमिति तव मतिर्मा भूद्भगवद्भक्तमात्रं पात्रमस्मदुपदेशस्येति सामान्येन शंसति ॥ ब्रह्मण्य इति । ब्रह्मणि भगवति अः साधुर्जनोऽभगवद्भक्त इवावसीदितुं दुःखमनुभवितुं नार्हतीतीह प्राप्तावावामित्यन्वयः । ब्रह्मण्यो ब्राह्मणप्रियो भगवद्भक्त इति वा ॥ २३ ॥

चट्टी

भगवद्भक्तिमतो न नाशः । न मे भक्तः प्रणश्यतीति भगवता प्रतिज्ञातत्वादिति भावेनाह ॥ ब्रह्मण्य इति ॥ २३ ॥

तदैव ते परं२ ज्ञानं ददामि गृहमागतः ।

ज्ञात्वाऽन्याभिनिवेशं ते पुत्रमेवाददामहम् ॥ २४ ॥

पदरत्नावली

तर्हि तदानीं पुत्रः किमिति दत्त इति तत्राह– तदेति ॥ तदा पूर्वागमनकाले ज्ञानमेव ददामीति गृहमागतोऽहम् । तवान्याभिनिवेशं पुत्रविषयाग्रहं ज्ञात्वा ते पुत्रं तुभ्यं पुत्रमेवाददाम् । इदानीं ज्ञानं ददामीति शेषः ॥ २४ ॥

सत्यधर्म

पुरा गृहमागतः किमिति नानुजग्राह भगवानित्यतः सोऽसमय इति तथैव समयाशिषमित्याह ॥ तदैवेति । ते परं संसारतारकं ज्ञानं ददामीत्युपदिशामीति गृहमागतः । तथाऽपि ते तवान्याभिनिवेशमन्यस्मिन्पुत्राद्यशाश्वतविषयेऽभिनिवेशमाग्रहं ज्ञात्वा पुत्रमेव ददामीत्यददामिति शेषेण वा । क्रियाप्रबन्धे लडित्युक्तेर्ददामीत्यस्यैवाददामित्यर्थतया वा ‘‘लट् स्म’’ इत्युक्ते स्मशब्दा-ध्याहारेणैवोपपत्तिर्ज्ञेया ॥ २४ ॥

चट्टी

यद्यहमनुग्राह्यस्तर्हि पूर्वमेव ज्ञानं कुतो नोपदिष्टमित्याशङ्क्य ज्ञानांगभूतवैराग्याभावादिति भावेनाह ॥ तदैवेति । यद्यपि तदैव पूर्वागमनसमय एव ज्ञानं न ददामि तथाऽपि तं पुत्रविषयकम् । अभिनिवेशमाग्रहं ज्ञात्वा पुत्रमेव ददामीत्यर्थः ॥ २४ ॥

अधुना पुत्रिणां तापो भवतैवानुभूयते ।

एवं दारा गृहा रायो विविधैश्वर्यसम्पदः ॥ २५ ॥

तात्पर्यम्

‘मनसो द्वेषरागाभ्यां पुण्यपापसमुद्भवः । पुत्रादिपुण्यपापाभ्यां तस्मात्सर्वं मनोभवम्’ इति नारदीये ॥ २५ ॥

पदरत्नावली

इदानीं दातुमवसर इत्याह– अधुनेति ॥ न केवलं पुत्रवतामेव तापः । किन्तु दारादिमतामप्यविनाभूतोऽयमित्याह– एवमिति ॥ २५ ॥

सत्यधर्म

अधुना पुत्रिणां ताप इत्यारभ्य मनोभवा इत्यन्तानि पद्यानि पुत्रादीनां मनोभवत्व-मेतादृशमिति प्रमाणेन प्रदर्शयन् व्याचष्टे ॥ मनस इति । मनसो जाताभ्यां द्वेषरागाभ्यां रागद्वेषाभ्यां पुण्यपापसमुद्भवः । रागात्पुण्यस्य पापस्य द्वेषात्समुद्भवः । रागद्वेषाभ्यामिति वक्तव्ये द्वेषपुरस्कृतिरे-तन्मात्रपर्यवसायिनः पुण्यस्यानिष्टतां स्फुटयितुमिति बोध्यम् । तस्मान्मनोजातरागद्वेषजातत्वेन पुत्रादिसर्वं मनोभवमित्युच्यत इति भावः ॥ ततश्चायं श्लोकार्थः ॥ पुत्रिणां भावी तापः (प्रशस्तपुत्रवता) भवतैवेदानीमनुभूयते । एवं पुत्रवदेव स्ववियोगाद्दारा भार्या गृहा आगाराणि रायो वित्तानि विविधैश्वर्य-सम्पदस्तापापादिकाः ॥ २५ ॥

चट्टी

इदानीं विषयदोषदर्शनेन विरक्तस्य तव ज्ञानाधिकार इत्याशयेनाह ॥ अधुनेति । दारादीनामनित्यत्वादिकमतिदिशति ॥ एवमिति । एवं पुत्रवद्रायोऽर्थाः ॥ २५ ॥

शब्दादयश्च विषयाश्चला राजन् विभूतयः ।

राज्यं मही बलं कोशो भृत्यामात्यसुहृज्जनाः ॥ २६ ॥

सर्वेऽपि शूरसेनेमे शोकमोहभयार्तिदाः ।

गन्धर्वनगरप्रख्याः स्वप्नमायामनोरथाः ॥ २७ ॥

**दृश्यमाना विनाऽर्थेन न दृश्यन्ते मनोभवाः **

कर्माभिध्यायतो नाना कर्माणि मनसोऽभवन् ॥ २८ ॥

पदरत्नावली

स्वप्नमायामनोरथवदनित्यत्वेन दृश्यमानाः प्रतीयमाना अर्थेन पुरुषार्थाख्यप्रयोजनेन विना दृश्यन्त इति यो नियमः स नास्तीत्यध्याहृत्यान्वेतव्यम् ।

तथाहि योग्यतानुसारेण कदाचित् पुरुषार्थहेतुत्वेन दृष्टत्वात् कदाचिन्नेति नियमाभावः । कुतः ? मनोभवा मनसो भव उत्पत्तिर्येषां ते तथा । तेन कल्पितत्वात् । एतदेव विवृणोति– कर्मेति ॥ निरन्तरं कर्म चिन्तयतः पुंसो मनसो मनःक्षोभान् नानाकर्माणि निरययोग्यानि कर्माण्यभवन् भवन्तीति यस्मात् तस्मात् तदनुसारेण दारादिसंभवात् सदा पुरुषार्थहेतुत्वनियमो नास्तीति भावः ॥ २७,२८ ॥

सत्यधर्म

रथाः पन्थाश्चेत्येतदादयः । शब्दादयश्च विषयाश्चला अस्थिरा राजी राज्ञि सति । कालबलतो राज्यं मही बलं सेना कोशो धनस्थानं भृत्या दासा अमात्या मन्त्रिणः सुहृज्जना बान्धवा इति सर्वेविभूतयो विभोः प्रभोर्भूतयोऽभिप्रेतार्थास्ते न । यैस्तादृशाः संशोकमोहभयार्तिदा इति चला गन्धर्वनगरप्रख्या यथा मेघमण्डले गन्धर्वनगरवद्दृश्यते पुनर्न दृश्यत इति तस्य प्रख्येव प्रख्या शोभा येषां ते तथा । यद्वा ‘‘गान्धारयन्वर्तते यद्गन्धर्वस्तेन केशवः’’ इति ऋग्भाष्यटीकायां ‘‘गोपदोपपदाभ्यां धृञ्’’ अवस्थाने ‘‘वृतु वर्तन’’ इत्याभ्यां ड उपपदस्य च गम्भावः । गां वाचमित्युक्तेर्गन्धर्वो हि भगवांस्तेनैव नगरममृतं तत्काले तत्प्रख्यास्तद्वद्भातास्त्रैगुण्याख्यविषं यापयन्ति त्रैगुण्यविषहारिण इति गीतातात्पर्योक्तेः । स्वप्नः स्वापि्नकः पदार्थो मायामनोरथा माययेशेच्छया मनसा स्वस्य रथाः । बहुवचनमाद्यर्थे । एतत्कर्मानुरोधेन विषविषमेऽपि विषये पीयूषशेमुषीमीदृशो ददातीति भावः । प्राचीनार्थक्षेपशून्यप्रायताप्रतीतानां निदर्शनान्तरप्रदर्शनेनादर्शनीयां तनोति स्वप्नमायामनोरथा इति । स्वप्नो मायया भगवदिच्छया मनोरथा मनोगताः पूर्वानुभूतसंस्कारद्वाराऽर्थेन तत्क्षणवीक्षणादिरूपप्रयोजनेन विना दृश्यन्ते पुनर्जागरणे न दृश्यन्त इति मनोभवा अतश्चला अस्थिरा न मिथ्याभूताः । सार्धश्लोक-त्रिकान्वयः । न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान्रथयोगान्पथः सृजत इत्यादेरिति वा ।

स्वप्नो हरिस्तेनैव कर्त्रा माययेच्छया करणेन । मनसः सकाशाद्रथा रथादयो मनोरथास्तत्सदृशा इति वा । स्वप्नो भूत्वा स्वापको भूत्वा । स्वापं नयतीति स्वप्न इति च व्युत्पत्तिरिति बृहद्भाष्योक्तेः । विशिष्टमाचष्टे ॥ कर्मेति । कर्म तत्फलमभिध्यायतश्चिन्तयतस्तत्कालेऽपि पुनः कर्माणि शुभाशुभ-फलदानि मनसः सकाशादभवन्भवन्ति । त इमे दारादयः सर्वे मानसाश्चला इति तेषु नात्यन्तमभिलाषः कार्य इति भावः ॥ २६–२८ ॥

चट्टी

श्चला अनित्याः । किञ्च हे शूरसेन । इमे राज्यादयः सर्वे शोकादिप्रदाः किञ्चागमा-पायित्वेन गन्धर्वनगरतुल्याः । गन्धर्वनगरं ह्यकस्मादेव क्वचिदायाति वाऽपैति चेति प्रसिद्धम् । नन्वयं पुत्रदारादिरूपो बन्धः किंमूल इत्यत आह ॥ मनोभवा इति । मनोजन्या इत्यर्थः । तर्हि किमयं बन्धः स्वप्नादिवन्मिथ्येत्यत आह ॥ स्वप्नेति । स्वप्नः स्वप्नजाग्रत्वं माया ऐन्द्रजालिकम् । मनोरथो मनोरथ-स्थायित्वम् । दृश्यमानाः प्रतीतमात्रशरीराः स्वप्नादय इवेमे पुत्रादयोऽर्थेन पारमार्थिकस्वरूपेण विना न दृश्यन्ते प्रत्यक्षादिप्रमाणैः सत्यत्वेनैव ज्ञायन्त इत्यर्थः । ननु पुत्रादयः पुण्यापुण्यकृता इति केचिदाहुः । तत्कुतो मनोभवत्वमित्यत आह ॥ कर्मेति । कर्मेप्सिततमम् । अभिध्यायतो रागाद्युपहतान्मनस एव निमित्तान्नानाकर्माणि पुण्यपापलक्षणान्यभवन् । कर्मणामपि रागद्वेषद्वारा मनोभवत्वात्तत्साध्या अर्था अपि मनोभवा एवेति भावः ॥ तथा चोक्तम् ॥ मनस इत्यादि नारदीये ॥ २६–२८ ॥

अयं हि देहिनो देहो द्रव्यज्ञानक्रियात्मकः ।

देहिनो विविधक्लेशसन्तापकृदुदाहृतः ॥ २९ ॥

तात्पर्यम्

‘द्रव्यात्मकः स्थूलदेहः क्रिया कर्मेन्द्रियाणि च । ज्ञानेन्द्रियाणि च मनो ज्ञानात्मकमुदाहृतम्’ इति ब्रह्मवैवर्ते ॥ ‘कार्यकारणयोरेकशब्दव्यवहृतिर्भवेत्’ इति शब्दनिर्णये

॥ २९ ॥

पदरत्नावली

देहादेरर्थक्रियाकारित्वान्न मिथ्यात्वं वक्तुमुचितं गन्धर्वनगरादिवत् । अतो नश्वरत्व एव दृष्टान्त इत्यभिप्रेत्याह– अयं हीति ॥ देहिनोऽयं देहो देहिनो जीवस्य विविधक्लेशसन्तापकृदुदाहृत इत्यन्वयः । हिशब्दो हेतौ । अभिमानाच्चेतनस्य सुखादिभोगो न तु देहस्येति द्योतनाय देहिन इति पुनर्वचनम् । अयमित्युक्त्या स्थूलदेहसिद्धावपि स्पष्टत्वायाह– द्रव्येति ॥ द्रव्यात्मकः पञ्चभूतात्मकः स्थूलदेहः । गण्डशैलादीनां स्थूलत्वेऽपि भोगायतनत्वाभावात् कथमेतदिति तत्राह– ज्ञानेति ॥ ज्ञानेत्यनेन श्रोत्रादिपञ्चकमेकं मनश्च गृह्यते । क्रियापदेनापि वागादिपञ्चकं कर्म च लक्ष्यते । ज्ञानेन्द्रिय-कर्मेन्द्रियमन आत्मकत्वेन वैलक्षण्याद् भोगायतनत्वमुपपद्यते । इन्द्रियकार्यज्ञानक्रियाशब्दाभ्याम् इन्द्रियोक्तिः ‘कार्यकारणयोरेकशब्दव्यवहृतिर्भवेत्’ इत्यतो युज्यते । ‘असन्नपि क्लेशद आस देहः’ इत्यादौ सिद्धत्वादुदाहृत इत्युक्तम् । अनेनासदुपासनं क्लेशकरं देहवदित्ययमर्थोऽपि ध्वनित इत्यपि ज्ञातव्यम् ॥ २९ ॥

सत्यधर्म

अयं हि देहिनो देह इति श्लोके देहस्य द्रव्यात्मकत्वमुच्यते तत्किंरूपमित्यतो निरूप-यितुं मानमाह ॥ द्रव्यात्मक इति । द्रव्याणि पञ्चभूतानि तदात्मकस्तदुपादानक इति द्रव्यमित्युच्यते । ज्ञानशब्देन ज्ञानेन्द्रियाणि मनश्च क्रियापदेन कर्मेन्द्रियाणि चोच्यन्ते । अत इदं ज्ञानक्रियात्मक-मुदाहृतमित्यन्वयः । ज्ञानक्रियापदाभ्यां कथं ज्ञानेन्द्रियकर्मेन्द्रियेति व्याख्यानमित्यतः प्रमाणमाख्याति ॥ कार्यकारणयोरिति । ज्ञानक्रिययोर्ज्ञानेन्द्रियकर्मेन्द्रियकार्यत्वात्कार्यवाचकपदेनैवं कारणवाचकेन च यथायथमेकशब्दव्यवहृतिर्भवेत् । अत एताभ्यां पदाभ्यां तद्ग्रहणं युक्तमिति भावः ॥ अथ मूलप्रथनम् ॥ नश्वरतयैव गन्धर्वनगरादिनिदर्शनप्रदर्शनं न मिथ्यात्वेनार्थक्रियोपलब्धेरित्याह ॥ अयं हीति । देहिनो नो देहि । अपेक्षितमिति वोपचितिमत इति वा । ‘‘दिह उपचये’’ इति स्मरणात् । देहाभिमानवतो जीवस्यायं देहो विविधक्लेशसन्तापकृद् विविधा एवमादिनानाविधाः क्लेशास्तैर्जनितो यः सन्तापोऽन्त-स्तापस्तत्कृत् । उदाहृतः क्लेशद आस देह इत्यादावुदाहृत इत्यर्थः । देहशब्देन स्थूलशरीरमेवात्र विवक्षितमित्यत्र विनिगमकमाह ॥ द्रव्यज्ञानेति । द्रव्याणि पञ्चमहाभूतानि ज्ञानं ज्ञानेन्द्रियाणि मनश्च क्रिया कर्मेन्द्रियाणि चेत्येतदात्मकः ॥ २९ ॥

चट्टी

तदेवं ममताऽऽस्पदानां पुत्रादीनां दुःखादिहेतुत्वमुक्तम् । तत्र च देहसम्बन्धो मूल-मित्याह ॥ अयं हीति । हिशब्दोऽवधारणे । अयं द्रव्यज्ञानक्रियात्मको द्रव्यं पञ्चभूतानि ज्ञानं ज्ञानजनकेन्द्रियाणि त्रीणि कर्मकारकेन्द्रियाणि । एतद्रूपो देह एव देहिनो देहोऽहमिति मन्यमानस्य देहिनो जीवस्य विविधान्क्लेशान्सन्तापांश्च करोतीति विविधसन्तापक्लेशकृत् । उदाहृत इत्यर्थः ॥ तथा चोक्तम् ॥ द्रव्यात्मक इत्यादि ब्रह्मवैवर्ते ॥ २९ ॥

तस्मात् स्वस्थेन मनसा विमृश्य गतिमात्मनः ।

द्वैते ध्रुवार्थविश्र(स्र)म्भं त्यजोपशममाविश ॥ ३० ॥

तात्पर्यम्

‘अनन्यापेक्षि(क्ष)तस्त्वेको हरिरन्यद्द्वयं स्मृतम् । अन्यापेक्षत्वतस्तेन प्राप्तत्वाद्द्वैतमुच्यते’ इति च ॥ ३० ॥

पदरत्नावली

यत एवं नानाक्लेशदो देहस्तर्हि कथङ्कारं स निवर्तत इति तत्राह– तस्मादिति ॥ तस्माद् देहस्य क्लेशकरत्वात् त्वं द्वैते देहे ध्रुवार्थविस्रम्भं त्यजेत्यन्वयः । अन्यापेक्षारहितत्वाद्धरिरद्वैतम् । अदृष्टाद्यन्यापेक्षाप्राप्तत्वाद्द्वैतं देहादि । तत्रैते पदार्था ध्रुवत्वान्नित्या इति विश्वासं त्यज । ‘अनन्या-पेक्षतस्त्वेको हरिरन्यद् द्वयं स्मृम् । अन्यापेक्षत्वतस्तेन प्राप्तत्वाद् द्वैतमुच्यते॥’ इति वचनात् । देहिनो यत्किञ्चित् साधने द्वितीयत्वेन प्राप्तत्वाद् द्वैतशब्दवाच्यो देह इत्यर्थः । नैतवता पूर्यत इत्याह– उपशमेति ॥ अहं कर्तेत्यभिमानोपशममाविशेत्यन्वयः । किञ्च हरौ निरन्तरनिष्ठालक्षणमुपशममुक्तार्थ-दार्ढ्यायाह– विमृश्येति ॥ आत्मनो हरेर्गतिं स्वातन्त्र्यादिलक्षणम्, आत्मनो जीवस्यास्वातन्त्र्यादि-लक्षणां चेति । केनेत्यत उक्तम्– मनसेति ॥ तस्य प्रागपि सद्भावात् कुत ईदृशविचाराभाव इति तत्राह– स्वस्थेन इति ॥ ३० ॥

सत्यधर्म

तस्मात्स्वस्थेन मनसेति श्लोके द्वैते जीवदेवभेदे विश्रम्भं त्यजेत्यन्यथाप्रतीतिं प्रमाणेन पराभावयति ॥ अनन्येति । अनन्यापेक्षिता अन्योऽपेक्षितो येन स न भवतीत्यनन्यापेक्षितः । अनन्या-पेक्षत इति पाठेऽनन्यापेक्षत्व इत्यर्थः । एकवचनस्य जात्यादिपरत्वं मत्वा बहुला एवमनन्याभिलाषा इति कोऽपि वदेदिति तन्मुखबन्धार्थमेक इति । एको न श्रीकान्तादन्य इति बोधयितुं हरिरिति । अन्यापेक्षत्वतो अन्यद्भगवद्भिन्नं द्वयमित्युच्यते । तदेवैकदेशविकृतन्यायेनद्वीत्युच्यते । द्विना द्वयेनेतं द्वितं तदेव स्वार्थिकेणि द्वैतमित्युच्यते । इति च शब्दनिर्णय इति शेषः ॥ ततश्चायं श्लोकार्थः ॥ पूर्वं सर्वेऽपि मानसाः साक्षाद्वा परम्परया वेत्युक्तं तन्नियमनेनैतच्छमनमनायासेन भवतीत्यत इदं कुर्विति तं वदति ॥ तस्मादिति । स्वस्थेन विषये द्वैतेऽन्यापेक्षे स्वतन्त्रे देहादौ तत्रैते ध्रुवार्था नित्यभूता विषया इति विश्रम्भं विश्वासं त्यज । उपशमं तत्स्पृहाभावं भगवन्निष्ठां वा । आविश । एवं तत्त्यागे स्वत एवावेशो भवतीति द्योतनार्थमाविशेत्युक्तिः । ध्रुवार्थविश्रम्भं ध्रुववद् ध्रुवराजवत् । अर्थे भगवति विश्रंभमाविश । अद्य वाऽब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुव इत्यादेः । उपशमं तात्कालिकम् । शमं त्यज । यद्वोपशमं समाधानमितरेषां त्यज । देहि गतम् ॥ ३० ॥

चट्टी

उपसंहरति ॥ तस्मादिति । तस्मात्पुत्रादेः सन्तापहेतुत्वात्स्वस्थेनाव्यग्रेण मनसाऽऽत्मनः परमात्मनो गतिं तत्त्वं विमृश्य नित्यत्वादिना निश्चित्य परापेक्षत्वात्तद्वयशब्दापरपर्यायद्विशब्दवाच्येन जीवेनेतं प्राप्तम् । शरीरादिकं द्वितं द्वितमेव द्वैतम् । अनन्यापेक्षतस्त्वेक इत्यादिवचनात् । तस्मिन्द्वैते ध्रुवोऽयमर्थ इति विस्रंभं विश्वासं प्रणयं वा त्यज विरक्तो भव । ततश्चोपशमं भगवन्निष्ठमाविशाश्रयेत्यर्थः ॥

भोजो नाम नृपः स्वप्ने शत्रुग्रस्तान्नभोजनः ।

दुःखं दुर्विषहं प्राप्तः शोकमोहभयार्दितः१ ॥ ३१ ॥

पदरत्नावली

शास्त्रश्रवणमननशाणलीढेन भक्त्यादिसाधनसामग्रीसंपादनेन गृहादिसंत्यागः प्रथम-साधनमित्यत्रेतिहासमाह– भोजो नामेति ॥ शत्रुणा ग्रस्तं कवलितं यदन्नं तदेव भोजनं यस्य स तथा । शत्रूच्छिष्टान्नभक्षण इत्यर्थः ॥ ३१ ॥

सत्यधर्म

विषयेच्छातुच्छीकरणेन सम्पत्स्यते सर्वा सम्पदितीतीहासतः शंसति ॥ भोज इति । शत्रुग्रस्तान्नभोजनः शत्रुणा ग्रस्तं तन्मुखकवलितं यदन्नं तदेव भोजनं यस्य स तदुच्छिष्टमिति यावत् । शोकमोहभयार्दितः सन् प्राप्तः दुर्विषहं दुःखम् । भयार्दितमिति पाठे तैः प्रापितमित्यर्थः । अर्द गतौ याचने चेति स्मृतेः ॥ ३१ ॥

चट्टी

ज्ञानार्थिनां वैराग्यमवश्यं संपादनीयमित्यभिप्रायेण तत्रेतिहासमाह ॥ भोज इति । शत्रुणा ग्रस्तं कवलितं यदन्नं तदेव भोजनं यस्य स तथा । शत्रूच्छिष्ठान्नभक्षण इत्यर्थः ॥ ३१ ॥

केचिद् विलुलुपुर्भोगानपरेऽवधिषुः श्रितान् ।

पूर्ववैरग्रहैर्जाया अन्य आत्मशिरोऽहरन् ॥ ३२ ॥

पदरत्नावली

पूर्वं पुरातनं वैरं गृह्णन्तीति पूर्ववैरग्रहास् तैः । कर्मभिः पूर्वैर् वैराख्यग्रहैः ॥ ३२ ॥

सत्यधर्म

विलुलुपुर् अलोपयन् । श्रितान्समीपवर्तिन अवधिषुर् हिंसितवन्तः । स्वतन्त्रस्य वधधातोर्वा हनो वध लिङि लुङि चेति स्मृतेरादेशस्य वा रूपम् । पूर्ववैरग्रहैः पुरातनवैरस्मरणादिभिः । अन्य इत्युत्तरान्वयि । आत्मशिरः स्वशिरः । अहरन्निति च पूर्वान्वयि । दृष्टस्य ‘‘उद्यतायुधदोर्दण्डाः पतितैः२ स्वशिरोऽक्षिभिः । पश्यन्तः पातयन्ति स्म कबन्धा अप्यरीन्युधि’’ ॥ इत्यादेः । श्रुतस्यापि च दर्शनं सम्भवतीत्यवलोकनं सम्भवति ॥ ३२ ॥

चट्टी

केचिच्छत्रवस्तस्य भोगान् भोगसाधनानि प्रासादोद्यानानि विलुलुपुर्विनाशितवन्तः । अपरे शत्रवो विधिषु स्थितान् राजनियोगेषु वर्तमानान्पुरुषान् । आहरन्केचिज्जायामहरन् । अन्ये शत्रव आत्मनो भोजस्य शिरोऽहरन् । सर्वत्रापि कारणमाह ॥ पूर्वेति । पूर्ववैरानुस्मरणैरित्यर्थः । पूर्वं वैरं गृण्हातीति तथा तैः । कर्मभिरिति वा ॥ ३२ ॥

इत्थं दुरन्तदुःखौघादुत्थितस्तदनुस्मरन्१ ।

तावद् भृशं सुनिर्विण्णो निर्जगाम ततो गृहात् ॥ ३३ ॥

पदरत्नावली

दुरन्तदुःखानामोघो यस्मिन् स तथा, तस्मात् स्वप्नात् । तत् स्वप्नानुभूतम् । तावत् तदनीमेव ॥ ३३ ॥

सत्यधर्म

तदित्यव्ययम् । तमोघं वा दुःखपरामर्शेन तदित्युपपत्तिर्वा । तदनुस्मरन्निति पदमेकम् । तमनुस्मरन्निति समासेन वा समाधिरिति केचित् । तन्मते गम्यादित्वात्समासोपपत्तिः ॥ ३३ ॥

चट्टी

दुरन्तदुःखानामोघो यस्मिन्स तथा । तस्मात्स्वप्नादुत्थितः सन् । तं स्वप्नानुभूतमनुस्मरन् । भृशं निर्विण्णोऽतिविरक्तः सन् । तावत्तदानीमेव ॥ ३३ ॥

दर्शयन्नात्मनाऽऽत्मानं निस्सङ्गः शान्त(न्ति)विग्रहः ।

प्रविष्टो ब्रह्म निर्वाणं कुलायं नाविदच्च तम् ॥ ३४ ॥

पदरत्नावली

आत्मानमुन्मत्तादिवद् दर्शयन् । आत्मना मनसा आत्मानं दर्शयन्नालोचयन्निति वा । निर्वाणम् अशरीरेणाजन्यानन्दपूर्णम् । ब्रह्म श्रीनारायणाख्यम् । प्रविष्टो, मनसेति शेषः । यस्मिन् कुलाये देहे स्थितस् तं कुलायं नाविदन् न बुबुधे चशब्दो हेत्वर्थः । असम्प्रज्ञातसमाधिस्थत्वाद्वा मुक्तत्वाद्वा ॥ ३४ ॥

सत्यधर्म

आत्मानं स्वशरीरं नात्मनाऽशरीरत्वेन निरभिमानेन दर्शयन् लोकानां निर्वाणं मोक्षमुद्दिश्य ब्रह्म प्रविष्टो ध्यानेन । न लोकानामेवानात्मत्वेन प्रदर्शनमपि तु स्वयमप्यसम्प्रज्ञातसमाधि-मधितिष्टन् कुलायं तं देहं नाविदच्च न बुबोध ॥ ३४ ॥

चट्टी

निःसङ्गो मुक्तदुःसङ्गः । शान्तिविग्रह उपशान्तवैर आत्मना स्वेच्छयाऽऽत्मानं स्वात्मानं दर्शयन् । जडोन्मत्तादिवदिति शेषः । ग्रहान्निर्जगाम प्रवव्राज । यदहरेव विरजेत्तदहरेव प्रव्रजेदित्युक्ते-रित्यर्थः । तत आत्मना मनसा । निर्वाणमप्राकृतशरीरं परब्रह्म प्रविष्टः सन् । स्वयं यस्मिन्कुलाये देहे स्थितस्तं कुलायं देहं नाविददसंप्रज्ञातसमाध्यवस्थापन्नः सन् । देहाभिमानादुन्मुक्तोऽभूदित्यर्थः ॥ ३४ ॥

नारद उवाच—

इमां मन्त्रोपनिषदं प्रतीच्छ प्रयतो मम ।

यां धारयन् सप्तरात्रद् द्रष्टा सङ्कर्षणं विभुम् ॥ ३५ ॥

पदरत्नावली

ममाप्येवंविधोपायावस्थाम् आप्तुं क उपाय इति तत्राह– इमामिति ॥ मन्त्राख्योपनिषच्चिरकालेन साध्यसाधिका चेत् किमनयेत्यश्रद्धां मा कार्षीरित्याह– यामिति ॥ ‘रुद्राद्याः शेषदेहस्थं विष्णुं सङ्कर्षणाभिधम् । शेषान्तर्यामिणं ज्ञात्वा स्वपदं प्रापुरञ्जसा ॥’ इति वचनान् न शेषः सङ्कर्षणोऽत्र गृह्यते । किन्तु तदन्तर्यामी द्वितीयमूर्तिः । अन्यस्य बन्धनिर्मूलनादिसामर्थ्याभावात् तदुच्यत इति ॥ ३५ ॥

सत्यधर्म

इयन्तं समयं गिरमङ्गिरसः श्रुत्वा ज्ञात्वा तं चोपदेशयोग्यं योगी कृपापरवशो नारद इति स्वाभिधामन्वर्थां विधातुं विधातृजो वसुधाधिपमाहेत्याह ॥ नारद इति । इमां मन्त्रोपनिषदं मम सकाशात्प्रयतो निगृहीतचित्तः प्रतीच्छ । मन्त्रमित्येवानुक्त्वोपनिषदमिमामित्युक्त्या दारादित्यागो खडिति कार्य इत्युक्तौ न तद्रुचेः रुचिः स्यादिति यदि ता न त्याज्यास्तर्हि इमां स्वीकुर्विति तं भूपं सान्त्वयामास नारद इति ज्ञेयम् । विरक्तिरमणीं संश्लिष्यत इत्यादिमहाकव्युक्तेः । उपनिषदमिति रहस्यस्याप्युपदेश्यत्वप्रतिज्ञानेन ज्ञानितामेतस्य ध्वनयामासेति च मन्तव्यम् । सङ्कर्षणं सङ्कर्षणाख्यरूपेण विवेशानन्तमेव च । तं ध्यायति सदानन्तस्तस्मान्मुक्तिपदेच्छया’’ ॥ इति तत्त्वनिर्णयगीतायामिति बृहद्भाष्योक्तेर् अनन्तं वासुदेवादीनादिमान्विहाय सङ्कर्षणे चित्तकर्षणोपदेशे किन्निमित्तमिति चेत् । पृच्छा तवाच्छा लक्षय सूक्ष्मेक्षिकयोत्तरं वदिष्यामः । प्राग्वृत्रासुरोऽहिशब्दवाच्यः । तस्यैव चित्रकेतुत्वादिति । ‘‘अहिर्वृत्रासुरे सर्पे’’ इति विश्वः । गरनिगरणेन मृतपुत्रदुःखोपशन्तिः शेषान्तर्गत सङ्कर्षणेन भवेदिति वान्तर्गतं भगवन्तं सप्तरात्रात् । चात्सङ्ख्याव्ययादेरितीरितत्वादच् । यां मन्त्रोपनिषदं धारयन् द्रष्टा फलं लघीयसि लवे लभ्यत इति सत्त्वाल्लक्षणीयेति भावः ॥ ३५ ॥

चट्टी

अङ्गिरसोपदिष्टं तत्त्वं परमेश्वरप्रसादं विना न प्राप्यत इति तत्प्रसादाय मन्त्रविद्यां नारद उपदिशति ॥ इमामिति । इमामुत्तराध्याये वक्ष्यमाणामुपनिषदं परं श्रेयो स्यामिति । उपनिषन्मन्त्र-मेवोपनिषत्तां प्रति इच्छाग्रहणाल्लिप्सामुत्पादयितुं विद्यायाः क्षिप्रफलत्वमाह ॥ यामिति । यां मन्त्रोप-निषदं सप्तरात्रं धारयन् । सङ्कर्षणं शेषान्तर्यामिणं सङ्कर्षणनामकं भगवन्तं द्रष्टा द्रक्ष्यसि भवानित्यर्थः

॥ ३५ ॥

यत्पादमूलमुपसृत्य नरेन्द्र पूर्वे

शर्वादयो भ्रममिमं द्वितयं विसृज्य ।

सद्यस्तदीयमतुलानधिकं महित्वं

प्रापुर्भवानपि परं न चिरादुपैति ॥ ३६ ॥

॥ इति श्रीमद्भागवते षष्ठस्कन्धे पञ्चदशोऽध्यायः ॥

तात्पर्यम्

‘रुद्राद्याः शेषदेहस्थं विष्णुं सङ्कर्षणाभिधम् । शेषान्तर्यामिणं ज्ञात्वा स्वपदं प्रापुरञ्जसा’’ इति तन्त्रभागवते । ‘द्वैतेन बन्धसंत्यागाद्द्वैतत्यागी भवत्युत’ इति शब्दनिर्णये । देहाद्येऽहं ममाभिमानो भ्रमः । ‘तेषां तेषां पदान्येव वैष्णवानि पदानि तु । तेषां महित्वं च तथा हरेस्तद्वशगं यतः । अतुल्यानधिकं चैव तस्य तस्यैव मुक्तिगम् । स्वस्यैव पूर्वमाहात्म्य-मपेक्ष्य न हरेः क्वचित् । माहात्म्यमन्यप्राप्यं स्यान्न ते विष्णविति श्रुतेः’ इति तन्त्रभागवते ॥ ‘ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते । तद्यत्स्वभावः कैवल्यं स भवान्केवलो हरिः’ इति स्कान्दे ॥ तत्प्रसादलभ्यत्वात्तदीयमपि तेनातुलमनधिकं चान्यमाहात्म्यम् ॥ ३६ ॥

पदरत्नावली

सङ्कर्षणं शेषान्तर्यामिणं संभावितैर्विशेषणैर्विशिनष्टि– यत्पादेति ॥ पूर्वे शर्वादयो यत्पादमूलमुपसृत्योपास्य महित्वं प्रापुरित्यन्वयः । महित्वं नाम कीदृशं येन हरिप्रसादप्राप्तं स्यादित्यत उक्तम्– अतुलेति ॥ अतुलं च तदनधिकं चेति तथोक्तं साम्याधिक्यवर्जितमित्यर्थः । ननु तर्हीदं भगवन्माहात्म्याविनाभूतं स्यादिति तत्राह– तदीयमिति ॥ तेषां रुद्रादीनां योग्यम् । ननु स्वकीयप्राप्तौ क्लेशसाध्यायाः किमन्योपासनायाः प्रयोजनं स्वतःसिद्धत्वात् तस्येत्यस्याप्येतदेवोत्तरम् । तत्प्रसाद-लभ्यत्वात् तदीयमिति । तदीयं तस्य हरेरधीनम् । तदुक्तम्– ‘तेषां तेषां पदान्येव वैष्णवानि पदानि तु । तेषां महित्वं च तथा हरेस्स्तद्वशगं यतः ॥’ इति । भगवन्महित्वादन्यमहित्वस्य साम्याधिक्यस्य वर्जनं कथं घटत इत्यस्यापीदमुत्तरम् । तस्मादिन्द्रादिपदाद् रुद्रादिप्राप्यशेषादिपदस्य साम्याधिक्यवर्जनं युक्तम् । किञ्च शेषादिप्राप्यशेषादिपदस्य मौक्तिकस्य संसारे शेषादिपदमपेक्ष्यातुल्यानाधिक्यं च युक्तिमत् । ‘अतुल्यानाधिकं चैव तस्य तस्यैव मुक्तिगम् । तस्यैव पूर्वमाहात्म्यमपेक्ष्य’ इति वचनात् ।

ननु ‘परमं साम्यमुपैति’ इति श्रुतेर् हरेरेवातुल्यानधिकमहित्वं प्रापुरित्यर्थः किं न स्यात् ? अत्रापीदमेव प्रतिवचनम् । तस्य विद्यमानं पदमापुः । न हरेर्विद्यमानं निजमहित्वम् । तदुक्तं च ‘न हरेः क्वचित् । माहात्म्यमन्यप्राप्यं स्यान्न ते विष्णाविति श्रुतेः’ इति । रुद्रादिप्राप्यं न चेद् ब्रह्मादिप्राप्यं किं न स्यादिति चेन्न । ‘ब्रह्मेशानादिभिर्देवैर्यत् प्राप्तुं नैव शक्यते । तद् यत्स्वभावः कैवल्यं स भवान् केवलो हरिः ॥’ इति प्रमाणविरोधात् । अत्रोपास्तावित्थंभावमाह– भ्रममिति ॥ इमं देहाद्यहंममाभिमानलक्षणं भ्रमं विहाय । आचार्यैरप्येतदुक्तम्– ‘देहादावहंममाभिमानो भ्रमः’ इति । बन्धस्य त्यागमन्तरेण तत्प्राप्तिः कथं युक्तिमतीति तत्राह– द्वितयमिति ॥ ‘कार्यकारणयोरेकशब्दव्यवहृतिर्भवेत्’ इति न्यायात् कारणेन कार्यं लक्ष्यते । द्वितीयेनान्यथाज्ञानेन निर्मितं बन्धं पुत्रादिस्नेहलक्षणं विसृज्य सम्यक् त्यक्त्वा । तदुक्तम्– ‘द्वैतेन बन्धसन्त्यागाद् द्वैतत्यागी भवत्युत’ इति । द्वैतेनोत्पन्नबन्धसन्त्यागादित्यर्थः । अनेन मुक्तावपि शेषादिप्राप्यं पदमिति ध्वनितमिति ज्ञातव्यम् । साधनसामग््रयां कालक्षेपो नास्तीत्याह– सद्य इति ॥ ‘तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्यते’ इति श्रुतेः । अनेन चित्रकेतोः किमागतम् ? अत्राह– भवानपीति ॥ भवानपि तमनन्तमुपास्य दृष्ट्वा तत्प्रसादेन न चिरात् स्वकर्मनिर्मितचरम-शरीरपातानन्तरं तत्प्रसादलभ्यत्वात् तदीयमपि तेन पूर्वमहिम्ना तुल्यमनधिकं च परमन्यद् रुद्रादि-महित्वाविलक्षणं निर्दुःखानन्दानुभवलक्षणं स्वयोग्यमाहात्म्यमुपैतीत्यन्वयः । ‘यद्येषोपरत देवी माया वैशारदी मतिः । संपन्न एवेति विदुर्महिमि्न स्वे महीयते ॥’ इति स्मृतिवचनात् ॥ ३६ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

षष्ठस्कन्धे पञ्चदशोऽध्यायः ॥

सत्यधर्म

यत्पादमूल इति श्लोकैतत्पूर्वश्लोकयोश्च पूर्वे सर्वे शर्वाद्या दर्वीकरोर्वीवरवरिवस्यया महत्त्वमापुरिति प्रतीयते तच्च ‘‘द्विजफणिपमृडा’’ इति वचनात्किञ्चित्सङ्कुचितमहत्त्वस्य महत्तानुप-योगिनः सत्त्वेऽपि समत्वात्कथमुपास्योपासकतेत्येतदतन्त्रयितुं तन्त्रभागवतवचनं पठति ॥ रुद्राद्या इति । मुक्तौ रुद्रस्य शेषत्वेनावस्थानान् मुखस्तग्रहः रुद्राद्या इति सोऽप्यादिपदेन ग्राह्यः । देहस्थमित्युक्तेऽ-धमोत्तम देहेऽपि सन्ति तद्वन्नेति वक्तुं शेषान्तर्यामिणमिति । अञ्जसा ज्ञात्वेत्यन्वयः । द्वितीयं भ्रममिमं विसृज्येत्यनेन देहादेर्मिथ्यात्वमुच्यत इति प्रतीयते । तद्वारयितुमादौ मानमुदाहृत्य स्वयं व्याकरोति ॥ द्वैतेनेति । अहंममतारूपबन्धसन्त्यागाद्द्वैतत्यागी भवति तथोच्यत इति भावः । भ्रमस्त्वयमित्याह ॥ देहाद्ये इति । तदीयमतुलानधिकं महत्त्वं प्रापुरिति तत्साम्येन वा तत्तादात्म्येन वेति भाति तद्भानहान्यै मानमाह । तेषांतेषामिति पदमेकम् । रुद्रादीनां पदान्येव वैष्णवानि विष्णुसम्बन्धीन्येव तेषां महित्वं च तत्सम्बन्ध्येव । तत्र निमित्तं तद्वशगं यत इति । सदा तथैवेत्यतुल्यानधिकम् । कर्मधारयः ।

इदानीं तथा चेत्तदानीं कथमित्यतः कथयति । स्वस्यैव पूर्वमाहात्म्यं योग्यतारूपमपेक्ष्य तस्य तस्यैव मुक्तिगमिति । कुत एतदिति मन्दसन्देहमन्दतायै श्रुतिमुदाहृत्य मानकृद्भति ॥ न ते विष्णवितीति । ‘‘न ते विष्णो जायमानो न जातो देवमहिम्नः परमन्तमाप’’ इति श्रुतिरनेनोपात्तेति ज्ञेयम् । बहुप्रमाणसंवादश्च दार्ढ्यहेतुरेवेत्युक्तेः । स्वोक्तस्थेम्ने विधिमप्यवधीकुर्वत्स्कान्दवचनमुदाहरति ॥ ब्रह्मेति । हे हरे यद्यस्माद्यत्प्राप्तुं नैव शक्यते तत्कैवल्यं तव स्वभावः स तादृशो भवान् केवलो भवतीति योजना । विशिष्टं स्ववचनेन पर्यवसाययति ॥ तत्प्रसादेति । अन्यमाहात्म्यमन्येषां ब्रह्मरुद्रादीनाम् ॥ अथ मूलार्थः ॥ यत्पादमूलं यस्य पादावेव मूलं शर्वाद्यैः पादसमीपमिति वा । ‘‘मूलमाद्यन्तिकेऽपि च’’ इति विश्वः । उपसृत्य सेवित्वा शर्वादयः पूर्वे प्राचीना महित्वं सद्यः प्रापुः । तदेव व्यनक्ति । अतुलानधिकं स्वसदृशव्यतिरेकेण । असदृशमनधिकं च । न चेतरसम्बन्धि तदित्याह ॥ तदीयमिति । तदीयं स्वकीयं तदधीनत्वाद्भगवदीयं च तदेवोच्यते । तत्प्राप्तावितिकर्तव्यमाह ॥ भ्रममित्यादिना । द्वितीयम-स्वातन्त्र्येऽपि स्वतन्त्रताद्यन्यथाज्ञानजमिमं प्रायोऽनुभवसिद्धं भ्रमं देहाद्यहंममाभिमानं विसृज्य त्यक्त्वा । ननु ते प्राप्नुवन्तु मम तु किमित्यतो वदति ॥ नरेन्द्र भवानिति । परं शेषान्तर्गतम् । न चिराच्छीघ्रम् । उपैति । अतस्तदुपसरणं नृप कुर्विति भावः ॥ ३६ ॥

॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मकृतायां षष्ठस्कन्धे पञ्चदशोऽध्यायः ॥ ६–१५ ॥

चट्टी

सङ्कर्षणस्य पुरुषान्तरसाधारणत्वे किं तद्दर्शनेनेत्याशङ्क्य तन्महिमानमाह ॥ यदिति । नरेन्द्र हे चित्रकेतो । पूर्वे पदप्राप्तेः पूर्वकालीनाः शर्वादयो रुद्रादिपदप्राप्तियोग्या यस्य सङ्कर्षणस्य पादमूलम् । उपसृत्योपास्य महिमत्वं शेषादिपदप्राप्तिलक्षणं मुक्तिगतस्वयोग्यानन्दप्राप्तिलक्षणं च माहात्म्यं प्रापुरित्यन्वयः ॥ तथा चोक्तम् ॥ रुद्राद्या इत्यादि । नन्वज्ञानादिलक्षणप्रतिबन्धकसद्भावेन कथं महिमत्वप्राप्तिरित्यत आह ॥ भ्रममिति । भ्रमं देहाद्यहंममाभिमानलक्षणमिमं तन्मूलं द्वितयं देहादिबन्धं च विसृज्य परित्यज्येत्यर्थः ॥ तदुक्तम् ॥ द्वैतेनेत्यादि शब्दनिर्णये । देहाद्यहंममाभिमानो भ्रम इति च । कीदृशं महत्वं प्रापुरित्यत आह ॥ तदीयमिति । सङ्कर्षणसम्बन्धीत्यर्थः ।

ननु तदीयमहत्वप्राप्तिः कथमुपपद्यते । न ते महित्वमन्वश्नुवन्ति । ब्रह्मेशानादिभिरित्यादि-श्रुतिस्मृतिविरोधादित्यत आह ॥ अतुलेति । तत्प्रसादलभ्यत्वेन तदधीनत्वात्तदीयमित्युच्यमानमपि तन्महिम्ना नातुल्यमनधिकं चेत्यर्थः । यद्वा रुद्रादेरेव मोक्षात्पूर्वतनमाहात्म्यापेक्षया मोक्षे विद्यमान-माहात्म्यमतुलानधिकमित्यर्थः ॥ रुद्रादेर्मोक्षात्प्राचीनमाहात्म्यस्य साधनोपचयेन प्रतिक्षणं वर्धमान-त्वादतुलस्य तदधिकस्य वा प्राप्तिरस्ति । मुक्तौ तु प्राप्तादधिकस्य समस्य वा प्राप्त्यभावान्मुक्तिगतं माहात्म्यमतुलानधिकमाहात्म्यमित्यर्थः ॥ तथा चोक्तम् ॥ तेषां तेषामित्यादिश्रुतेरिति । अस्त्वेवं सङ्कर्षणोपासकानां महित्वप्राप्तिः । प्रकृते किमायातमित्यत आह ॥ भवानिति । यत्पादमूलमुप-सृत्येत्यादेरनुकर्षणार्थोऽपिशब्दः । भवानपि परं महित्वं न चिरादविलम्बेनैवोपैत्युपैष्यसीत्यर्थः ॥ ३६ ॥

॥ इति श्रीभागवतटिप्पण्यां चट्टीव्याख्यायां षष्ठस्कन्धे पञ्चदशोऽध्यायः ॥ ६–१५ ॥