१४ चतुर्दशोऽध्यायः

रजस्तमस्स्वभावस्य ब्रह्मन् वृत्रस्य पाप्मनः

॥ अथ चतुर्दशोऽध्यायः ॥

परीक्षिदुवाच—

रजस्तमस्स्वभावस्य ब्रह्मन् वृत्रस्य पाप्मनः ।

नारायणे भगवति कथमासीद् दृढा रतिः ॥ १ ॥

पदरत्नावली

अत्र चित्रकेतुविषयेतिहासश्रवणादिना संसारविरक्तिभूयिष्ठतया श्रीनारायणचरणार-विन्दे भक्तिर्जायत इति तदर्थं परीक्षित्प्रश्नपूर्वकं पूर्वकथाशेषत्वेन निरूपयितुमाह– रज इति ॥ दृढा रतिर् निरतिशयभक्तिरित्यर्थः ॥ १ ॥

सत्यधर्म

अत्र श्रोत्रपुटीसम्भृतवृत्रचरित्रो गोत्रातो निस्सारसंसारहारिकंसारिचरणनलिनयुगल-भक्तियुक्तः कथमभूदयमभूतपूर्वेयं रीतिरिति स्वयमयं न तथाविध इति जानन्नपि स्वसमीपोपासीना-नुपासीनदीनजनमन्दारस्तत्सन्देहमुदह्योत्तरं वाचयितुं वाचं यमं पृच्छत्यतुच्छहृदय इति वदति ॥ परीक्षिदिति । पाप्मनः पापिष्ठस्य । अथवा पाप्मनः पापात्कारणाद्रजस्तमःस्वभावस्येति ज्ञानस्य । दृढा रतिर्निश्चला भक्तिः ॥ १ ॥

चट्टी

चित्रकेतुप्रसङ्गोक्तिरितोऽध्यायचतुष्टये । पुत्रादिममता चित्रकेतोरिव शुचां पदम् ॥ तस्माद्बुभूषुणा त्याज्येत्यध्यायेऽस्मिन्निरूप्यते । ननु ‘‘अहं हरे तव पादैकमूलदासानुदासो भवितास्मि भूयः’’ इत्यादिवृत्रवाक्यपर्यालोचनया तस्य भगवद्भक्तत्वं प्रतीयते । भक्तत्वं च द्विविधम् । नारायणायनत्वं नारायणपरायणत्वं चेति । वृत्रस्यासुरजातित्वेन नोभयमपि सम्भवतीति भावेन राजा पृच्छति ॥ रजस्तमःस्वभावस्येति सप्तभिः । तत्र तावन्नारायणपरायणत्वासम्भवं कैमुत्येनाह द्वाभ्याम् । शुद्धं सत्त्वं शरीरोपादानत्वेन येषामत एवामलात्मनामदुष्टमनसामेतादृशानामपि देवानामृषीणां च मुकुन्दचरणे भक्तिर्नारायणपरायणत्वं नोपजायते । ब्रह्मादीनां केषाञ्चिन्नारायणपरायणत्वात्तद्व्यावृत्त्यर्थम् प्रायेणेति । रजस्तमःस्वभावो यस्यासुरजातेरित्यर्थः । अत एव पाप्मनो दुष्टस्य वृत्रस्य नारायणे दृढा रतिरखण्डितभक्तिः । नारायणपरायणत्वं कथमभूत् । न युज्यत इत्यर्थः ॥ १ ॥

देवानां शुद्धसत्वानामृषीणां चामलात्मनाम् ।

भक्तिर्मुकुन्दचरणे न प्रायेणोपजायते ॥ २ ॥

पदरत्नावली

देवादीनामपि श्रीकान्ताङ्घ्रिभक्तिर्दुर्लभा किमुतासुरप्रकृतेरिति भावेन वक्ति– देवानामिति ॥ शुद्धसत्वगुणनिर्मितशरीरत्वेन शुद्धान्तःकरणानाम् । अमलात्मनां तपोभिर्निर्धूत-मनोमलानाम् । न प्रायेणोपजायते । तस्यायमर्थः– निरन्तरभक्तिकरणयोग्यैरसुरावेशात् क्रियमाणस्य द्वेषस्य कादाचित्कत्वेनाल्पत्वेऽपि महत्त्वोपचारः । अन्यथा शुद्धसत्वानामित्यादिविशेषणविशिष्टानां, ‘देवानां गुणलिङ्गानाम्’ इत्यादिनोच्यमानमात्यन्तिकभक्तिलक्षणं चासङ्गतं स्यात् । अतः प्रायशब्दस्य बाहुल्यार्थत्वेऽप्यत्राल्प एवार्थेऽङ्गीकर्तव्यः । प्रभूतप्रमाणानुरोधात् । भक्तिकरणं दुर्लभमित्यतो वा तथोक्तम् । न तु तेषां भक्तिबाहुल्यस्यादृष्टत्वात् । भक्तेस्तारतम्यप्रदर्शनाय वा ॥ २ ॥

सत्यधर्म

देवादीनामपि सा दुर्लभा किम्वस्येत्याह ॥ देवानामिति । वा इत्यनेनैतदादि-प्रसिद्धिमवगमयति । शुद्धसत्त्वानाममलात्मनामिति देवर्ष्यन्वयि । शुद्धप्रकृतीनां निर्दुष्टमनसां देवाना-मृषीणां मुकुन्दचरणे प्रायेण बाहुल्येन भूयसीति यावत् । रतिर्नोपजायते सैतस्य कथमभूत् । यद्वा देवादीनां भक्तिरुपजायते न तद्वत्कथं दृढा रतिरासीदित्यन्वयः । चक्रं न वृत्तमित्यत्रेव न इवार्थ इति तद्वदित्युपपद्यते । उत्तरत्रोच्यमानोत्तररुच्युत्पादनार्थं वाऽतिचित्रताप्रदर्शनार्थं वेति प्रायेणेत्युक्त्यभिप्रायो ज्ञेयः ॥ २ ॥

रजोभिस्समसङ्ख्याताः पार्थिवैरिह जन्तवः ।

तेषां ये केचनेहन्ते श्रेयो वै मनुजादयः ॥ ३ ॥

पदरत्नावली

एतदेवाह– रजोभिरिति ॥ इह कर्मभूमौ जन्तवः पार्थिवैः रजोभिरसमसंख्याता यावन्ति भूमेः रजांसि सन्ति तावन्तः शरीरिणो जीवाः सन्ति । अन्येऽपि निश्शरीरा अनन्ताः सन्ति । ‘परमाणुप्रदेशेऽपि ह्यनन्ता जीव(प्राणि)राशयः’ इति श्रुतेः । न तेषामिह मानं क्रियते । किन्तु गृहीतदेहानामेव । तेषां मध्ये ये केचन मनुजादयः श्रेयः स्वर्गादिलक्षणमुद्दिश्य प्रवर्तन्ते । वा इत्यनेन ‘मनुष्याणां सहस्रेषु’ इत्यादिवाक्यं सूचयति । ईहमानेष्वपि विशेषं वा ॥ ३ ॥

सत्यधर्म

पार्थिवै रजोभिरिह कर्मभूमौ जन्तवः प्राणिनः ख्याता यावन्ति भूमे रजांसि तावन्तो जन्तवः । अथवा रजःशब्देन परमाणवो गृह्यन्ते । पार्थिवशब्दोऽप्युपलक्षणयाऽऽप्यादिपरो व्याक्रियते । ततश्च सर्वपरमाणुभिर्गणितैर्या तदीया सङ्ख्या तदपेक्षया समत्यन्तमसङ्ख्याता जन्तवः सृष्टाः सृज्याश्चेह सृष्टेषु मनुजादयः श्रेयः क्षेमं स्वर्गादिकं वोद्दिश्येहन्ते चेष्टन्ते । तेषां मध्ये केचनाल्पीयांस एव । ‘‘परमाणुप्रदेशेऽपि ह्यनन्ताः प्राणिराशयः’’ इत्याम्नाताः सदेहाः । ‘‘अतीतानागताश्चैव यावन्तः परमाणवः । ततोऽप्यनन्तगुणिता जीवानां राशयः पृथक्’’ ॥ इतीरिताश्च निश्शरीरजीवराशय इति विवेकः । ‘‘निर्देहकान् स भगवान्’’ इति श्रीभगवत्पादोक्तेः ॥ ३ ॥

चट्टी

नारायणपरायणत्वाभावेऽपि नारायणायनत्वं भविष्यतीत्याशङ्क्य नारायणपरायणत्ववत्तदपि दुर्लभमित्याह ॥ रजोभिरिति त्रिभिः । पार्थिवै रजोभिः परमाणुभिः समा असङ्ख्याता अनन्ता इत्यर्थः । जन्तवो जीवास्तेषां मध्ये ये केचन कतिपया मनुजादय एव श्रेयो धर्ममीहन्ते कुर्वन्ति । असुरादीनां धर्मविमुखत्वादिति भावः ॥ ३ ॥

प्रायो मुमुक्षवस्तेषां केचनेह द्विजोत्तमाः ।

मुमुक्षूणां सहस्रेषु कश्चिन्मुच्येत सिद्ध्यति ॥ ४ ॥

पदरत्नावली

स्वर्गादीनां क्षणभङ्गुरसुखपरत्वं संदिश्य चेष्टमानानां मध्ये केचिदेव मुमुक्षवः मोक्षेच्छवः । तेषां मुमुक्षूणां मध्ये केचिदेव प्रयतन्ते । तेषु प्रयतमानेषु सहस्रेषु कश्चिद् अधिकारिराशिषु मुच्येत संसारान्मुक्तो भवति । तत्रापि संसारान्मुक्तेष्वपि संसाराद्यप्राप्तिज्ञानादिपूर्तिशून्यमुक्तराशौ कश्चिदेव पूर्णज्ञानी सिद्ध्यति आनन्दादिपूर्णो भवति ॥ ४ ॥

सत्यधर्म

तेषां मध्ये केचन केऽपि द्विजोत्तमा इह संसारे मुमुक्षवः । मुमुक्षूणां सहस्रेषु कश्चिदेव सिद्ध्यति ज्ञानी भवति । अथ च मुच्यते । यद्वा मुच्येत । लिङ्गशरीरानन्तरं सिद्ध्यति राद्धो भवति आविर्भूतस्वरूपानन्दो भवति । सिद्ध्यति सहस्रेष्वित्यनेन ‘‘मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये’’ इति स्मारयति ॥ ४ ॥

चट्टी

प्रायो मुमुक्षव इत्यत्र स आत्मा तत्त्वमसीत्यत्रेवाकारप्रश्लेषेणापि पदच्छेदोऽभिप्रेतः । मुमुक्षुशब्देन चापरोक्षज्ञानित्वलक्षणजीवन्मुक्तीच्छा विवक्षिता । ततश्चायमर्थः । तेषां मनुजादीनां मध्येऽ-मुमुक्षवः प्रायो बाहुल्येनामुमुक्षवस्तु केचनैव । मनुजानां प्रायः प्रवृत्तिधर्मरुचित्वादिति भावः । मुमुक्षूणां जीवन्मुक्तेच्छूनां सहस्रेषु केचिदेव प्रयतन्ते । प्रयतमानेष्वपीति वाक्यशेषः । कश्चिदेव मुच्यते जीवन्मुक्तो भवति ॥ ४ ॥

मुक्तानामपि सिद्धानां नारायणपरायणः ।

सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥ ५ ॥

वृत्रस्तु स कथं पापः सर्वलोकोपतापनः ।

इत्थं दृढमतिः कृष्ण आसीत् सङ्ग्राम उल्बणे ॥ ६ ॥

तात्पर्यम्

‘नवकोट्यस्तु देवानामृषयः शतकोटयः । नारायणायनाः सर्वे ये केचि-त्तत्परायणाः’ इति च । ‘नारायणायना देवा ऋष्याद्यास्तत्परायणाः । ब्रह्माद्याः केचनैव स्युः सिद्धो योग्यसुखं लभत्’ इति तन्त्रभागवते ॥ ५ ॥

पदरत्नावली

सिद्धानामानन्दादिपूर्णानां मुक्तानां मध्ये नारायणायनो दुर्लभः । नारायणायनानां कोटिष्वपि प्रशान्तात्मा प्रकृष्टभगवन्निष्ठायुक्तमनाः प्रकृष्टानन्दरूपो वा नारायणपरायणः सुदुर्लभ इत्यर्थः । अधिकारिणां तारतम्यविवक्षयैतद्वचनम् ॥ ततः किं प्रकृत इति तत्राह– वृत्रस्त्विति ॥ तुशब्देनात्यन्तानुपपत्तिं सूचयति ॥ ५,६ ॥

सत्यधर्म

मुक्तानामपि सिद्धानामिति पद्ये मुक्तानामप्युक्तनारायणपरायणत्वमिति भ्रमभ्रंशं प्रमाणेन करोति ॥ नवकोट्यस्त्विति । सर्व इत्येते नारायणायना नारायणोऽयनमाश्रयो येषां ते तथा । ये केचित्तत्परायणाः स परं मुख्यमयनं येषां ते तथा परशुक्लादिवाच्याः । प्रमाणान्तरेणाधिकारि-विशेषव्यवस्थापकेन श्लोकं प्रकारान्तरेण योजयति ॥ नारायणायना इति । देवऋष्याद्या नारायणायना ब्रह्माद्यास्तत्परायणाः सांसारिक्यां दशायामपि । अन्यस्तु योग्यं स्वरूपभूतं सुखं लभन् लभमानः सिद्ध इत्युच्यत इति तत्त्रैविध्यं ज्ञेयम् । एकवचनं च परममुख्यब्रह्मविवक्षया । ते सिद्धा अपि तरतमभावेन भूयांस इति ज्ञेयम् । ततश्चायं श्लोकार्थः । मुक्तानामपि सिद्धानां नारायणायनानां कोटिषु नारायण-परायणः । ब्रह्मादिवर्गः सुदुर्लभः । अथवा नारायणायनास्तत्परायणाः सिद्धा इति जीवत्रैविद्याभिप्रायेण मुक्तानां स्वस्वयोग्यसुखप्राप्तिलक्षणसिद्धमतामपि नारायणा देव ऋष्याद्याश्च सुदुर्लभाः । ब्रह्मादिवर्गस्तु नारायणपरायण इति सुदुर्लभ इति योजना । मुक्तानामिति भागवतवाक्ये मुक्तानां शरीराद्यभिमान-रहितानां सिद्धानां ज्ञानिनां कोटिष्वपि नारायण परायणः प्रशान्तात्मा सुदुर्लभः कश्चिदेव । नारायणायनाः शान्तात्मानस्तु सर्वेऽपीति स्फुटं साधनतारतम्यं प्रतीयत इति सुधावाक्यं तु नवकोट्य-स्त्विति तात्पर्यज्ञापित प्रथमयोजनाभिप्रायेणेति । नारायणायना देवा इत्युत्तरतात्पर्यज्ञापित योजना-न्तराभिप्रायेणेति ज्ञेयम् । प्रकृतमनुसरति । उल्बणे सङ्ग्रामे सकलविस्मारकरणक्षणे इत्थम् एवमुक्तप्रकारेण दृढमतिः । बहुव्रीहिः । कथमासीदिति ॥ ५,६ ॥

चट्टी

मुक्तानां जीवन्मुक्तानां सर्वेषामपि सिद्ध्यति । सिद्धिपदोदिता स्वयोग्यानन्दप्राप्तिलक्षणा मुक्तिर्भवति । सिद्धिं गताः सर्वेऽपि नारायणायनाः । शान्तात्मानश्चेति मध्ये ग्राह्यम् । प्रेत्युपसर्ग-स्वारस्यात् । नारायणविषयकमयनं ज्ञानं येषां ते तथोक्ताः । शान्तो भक्तिपूर्णः । आत्मा मनो येषां ते तथोक्ता इत्यर्थः । सिद्धानामुक्तविशेषणद्वयोपेतमुक्तानां कोटिष्वपि नारायणपरायणः प्रशान्तात्मा सुदुर्लभः । क्वचिदेव ब्रह्माद्याः केचिदेव नारायणपरायणाः प्राशान्तात्मानश्चेति यावत् ॥ तथा चोक्तं गीतायाम् ॥ मनुष्याणां सहस्रेषु कश्चिद्यततीत्यादि ॥ ब्राह्मे च ॥ ‘‘अनन्तानां तु जीवानां यतन्त केचिदेव तु । मुक्त्यै तेषु च मुच्यन्ते केचिन्मुक्तेषु च स्फुटम् । केचनैव हरिं सम्यग्ब्रह्मरुद्रादयो विदुः । अन्येषां यावता मुक्तिस्तावज्ज्ञानं हरौ परम्’’ इति ॥ सत्तत्त्वे च ॥ सर्वे मुक्ता हरौ भक्तास्तेषु ब्रह्मैव मुख्यतः । विष्णोः परमभक्तस्तु तस्माज्जीवघनो मतः’’ इति ॥ तात्पर्ये च ॥ नवकोट्यस्तु देवाना-मित्यादि । नारायणायना देवा इत्यादि । एतन्निर्धार्य मनसि निधायैव व्याख्यातं च गीतातात्पर्यटीकायां जयतीर्थचरणैः । जीवन्मुक्तानां सर्वेषामपि सिद्धिपदोदिता मुक्तिर्भवति । सिद्धिं गताः सर्वेऽपि नारायणायनास्तज्ज्ञानादिमत्त्वात् । नारायणपरायणस्तु सुदुर्लभ इत्यर्थः । अनुव्याख्याने मुक्तानां वैराग्यभक्त्यादिसाधनतारतम्यपरत्वेनोदाहृतोऽयं श्लोकः सुधायां प्रकारान्तरेण व्याख्यातः । मुक्तानां शरीराद्यभिमानरहितानां सिद्धानां ज्ञानिनां कोटिष्वपि नारायणपरायणः प्रशान्तात्मा सुदुर्लभः क्वचिदेव । नारायणायनाः शान्तात्मानस्तु सर्वेऽपीति स्फुटं तारतम्यं प्रतीयते । अत्र विशेषणद्वयेन वैराग्यभक्ती कथ्येते इति ॥ सन्न्यायरत्नावल्यां तु । मुक्तानां मध्ये ये उद्योगातिशयेन सम्यगाविर्भूत-स्वयोग्यानन्दसिद्धास्तेषां कोटिष्वपि नारायणैकायनत्वेन नारायणपरायणो यः सुदुर्लभः स च ब्रह्मादिरेव भवितुमर्हति । अन्ये तु नारायणायना एव । एषः श्लोको जीवन्मुक्तानामपि ज्ञानादीनां तारतम्य-प्रतिपादकत्वेन योजितव्य इति । अत्र ‘‘गतासूनगतासूंश्च नानुशोचन्ति पण्डिता’’ इतिवद्यथा सिद्धेषु नारायणपरायणो दुर्लभः । एवं चेतनेषु नारायणायनोऽपि दुर्लभ इति बुद्ध्या विविच्य दृष्टान्त-दार्ष्टान्तिकभावेन व्याख्येयम् । अन्यथा देवानामिति श्लोकेनैव नारायणपरायणदौर्लभ्यस्योक्तत्वेन पौनरुक्त्यापातात् । प्रकृतानुपयोगाच्च ॥ उपसंहरति ॥ वृत्र इति । तुशब्देनात्यन्तानुपपत्तिं सूचयति । तामेवाह ॥ पाप इत्यादिविशेषणद्वयेन । दृढमतित्वोपपादनार्थमुल्बणे सङ्ग्रामे इति । अल्पाधिकारिणो महापदि भगवद्विस्मरणसम्भवादिति भावः ॥ ५,६ ॥

अत्र नः संशयो भूयान् श्रोतुं कौतूहलं प्रभो ।

यः पौरुषेण समरे सहस्राक्षमतोषयत् ॥ ७ ॥

पदरत्नावली

पौरुषेण परमात्मविषयस्नेहेन । ‘अहो दानव सिद्धोऽसि’ इत्युक्तत्वात् ॥ ७ ॥

सत्यधर्म

नोऽस्मदादीनां भूयान्संशयस्ततः श्रोतुं कौतूहलं कौतुकम् । ‘‘कौतूहलं कौतुकं च कुतुकं च कुतूहलम्’’ इत्यमरः । तदेवाश्चर्यतः पुनरेव वदति ॥ य इति । यः पौरुषेण भगवत्स्तोत्रेण समरे युद्धे सहस्राक्षं सहस्रनेत्रं बहुज्ञमिति च कटाक्षयति । अतोषयत् तोषयामास । स च गतालीकमपूजयदित्यादि तद्भाषणेनैव ज्ञायते ॥ ७ ॥

चट्टी

न चेन्द्रभिया श्रीकृष्णं शरणं गत इत्याह । पौरुषेण पराक्रमेण । यद्वा । परमात्म-विषयकस्नेहेन । अहो दानव सिद्धोऽसीत्युक्तत्वात् । वृत्रस्य शापवशेनासुरदेहस्य सम्भवेऽपि स्वभावतो देवत्वेन नारायणायनत्वलक्षणं भक्तत्वं युज्यत एव ॥ ७ ॥

सूत उवाच—

परीक्षितोऽथ सम्प्रश्नं भगवान् बादरायणिः ।

निशम्य श्रद्धधानस्य प्रतिनन्द्य वचोऽब्रवीत् ॥ ८ ॥

सत्यधर्म

श्रद्धधानस्य परीक्षित इति सामानाधिकरण्यम् । प्रतिनन्द्य बहुसमीचीनमित्यनुमोद्य

॥ ८ ॥

श्रीशुक उवाच—

शृृणुष्वावहितो राजन्नितिहासं पुरातनम् ।

श्रुतं द्वैपायनमुखान्नारदाद्देवलादपि ॥ ९ ॥

सत्यधर्म

पुरातनं श्रवणमात्रेण दुर्गात्रगमकं द्वैपायनमुखान्नारदाद्देवलादपि । झडिति न विश्वासो भवेदतो गहनप्रमेय इति स्वबोधकत्रयोक्तिः ॥ ९ ॥

चट्टी

‘‘देवाः शापाभिभूतत्वात्प्रल्हादाद्या बभूविरे । अतस्तद्गतिरेतेषां नान्यथा व्यत्ययो भवेत्’’ ॥ इत्याशयवान् शुकस्तस्य पूर्वजन्मवृत्तान्तमाह ॥ शृृणुष्वेत्यादिना । यथा यथावत् श्रुतम्

॥ ९,१० ॥

आसीद् राजा सार्वभौमः शूरसेनेषु वै नृप ।

चित्रकेतुरिति ख्यातो यस्यासीत् कामधुङ् मही ॥ १० ॥

सत्यधर्म

शूरसेनेषु देशविशेषेषु । कामं दोग्धीति सा तथा ॥ १० ॥

तस्य भार्यासहस्राणां सहस्राणि दशाभवन् ।

सान्तानिकश्चापि नृपो न लेभे तासु सन्ततिम् ॥ ११ ॥

पदरत्नावली

सान्तानिकः सन्तानार्थी । कस्यामपीति शेषः ॥ ११ ॥

सत्यधर्म

भार्यासहस्राणां सहस्राणि दशकोटिसङ्ख्या अभवन् । सान्तानिकः सन्तानेच्छुश्चेदपि तास्वेतत्सङ्ख्यासु सन्ततिं न लेभे नाप ॥ ११ ॥

चट्टी

भार्यासहस्राणां दशसहस्राणि कोटिरित्यर्थः । सान्तानिकः स्वयं सन्तानार्होऽपि तासु सन्ततिं न लेभे । सर्वास्ता वंध्या एव । दैवयोगेन मिलिता इति भावः ॥ ११ ॥

रूपौदार्यवयोजन्मविद्यैश्वर्यश्रियादिभिः ।

सम्पन्नस्य गुणैस्सर्वैश्चिन्ता वन्ध्यापतेरभूत् ॥ १२ ॥

सत्यधर्म

चिन्ताऽभूत् । अनेनैतावद्गुणजातमकिञ्चित्करं नरवरस्येति भावः सूच्यते । श्रियादिभिर् यणागमः ॥ १२ ॥

चट्टी

तदेवाह ॥ वन्ध्यापतेरिति ॥ १२–१४ ॥

न तस्य सम्पदः सर्वा महिष्यो वामलोचनाः ।

सार्वभौमस्य भूश्चेयं नाभूवन्१ प्रीतिहेतवः ॥ १३ ॥

सत्यधर्म

ता भवन्प्रीतिहेतव इति पाठे नतस्य सर्वनमस्कृतस्येत्यर्थः । भूश्चेयमभवन्निति पाठे न व्याख्यापनम् ॥ १३ ॥

तस्यैकदा तु भवनमङ्गिरा भगवान् ऋषिः ।

लोकाननुचरन्नेतानुपागच्छद्यदृच्छया ॥ १४ ॥

सत्यधर्म

यदृच्छया ‘‘यदृच्छा तु तदिच्छा स्यात्’’ इत्युक्तेर्भागवतेच्छया ॥ १४ ॥

तं पूजयित्वा विधिवत्प्रत्युत्थानार्हणादिभिः ।

कृतातिथ्यमुपासीदत् सुखासीनं समाहितः ॥ १५ ॥

सत्यधर्म

समाहित एकाग्रचित्त उपासीदद् उपोपविष्टोऽभूत् । समं सर्वं पूर्वोदीरितमहितम-सन्तोषदं यस्येति वा ॥ १५ ॥

चट्टी

उपासीदत्तत्समीपे उपविवेश । समाहितःसंशयतः ॥ १५ ॥

महर्षिस्तमुपासीनं प्रश्रयावनतं क्षितौ ।

प्रतिपूज्य महाराज समाभाष्येदमब्रवीत् ॥ १६ ॥

पदरत्नावली

क्षितावुपासीनम् ॥ १६ ॥

सत्यधर्म

प्रतिपूज्य राज्ञोऽपि प्राज्ञागमने प्रवणतादिगुण इयानहो इति सम्मान्य ॥ १६ ॥

अङ्गीरा उवाच—

अपि तेऽनामयं स्वस्ति प्रकृतीनां तथाऽऽत्मनः ।

यथा प्रकृतिभिर्गुप्तः पुमान् राजा च सप्तभिः ॥ १७ ॥

आत्मानं प्रकृतिष्वद्धा निधाय श्रेय आप्नुयात् ।

राज्ञस्तथाप्रकृतयो नरदेवाहितादयः ॥ १८ ॥

पदरत्नावली

ते तवानामयमपि ? दुःखं नास्ति हि ? तथाऽऽत्मनस्तव प्रकृतीनां स्वस्ति किमित्यन्वयः । प्रकृतिविषयकुशलप्रश्नेन किं प्रयोजनम् ? अत्राह– यथेति ॥ यथा सप्तभिर् महदह-ङ्काराभ्यां पृथिव्यादिभिः पञ्चभिर् भूतैः । पुमान् जीवः ।

प्रकृतिषु देहहेतुषु आत्मनमद्धा निधाय श्रेयः प्राप्नोति । तथा राजा च प्रकृतिशब्दवाच्यै राजजनैः रक्षितस् तेषु राज्यभारं निधाय विहितं श्रेय आष्नुयादित्यन्वयः । तथा प्रकृत्यादयो यस्य राज्ञः वशवर्तिनः स्युर् आत्मा मनश्चानुवशश्चेत् तर्हि सर्वे लोकास्तस्य राज्ञो वशगास् तस्मै बलिं यच्छन्ती-त्यन्वयः । आत्मा स्वयं प्रकृत्यादेर्वशवर्ती चेत् प्रकृत्यादेरात्मवशत्वाभावेनानर्थस्य कारणभूता भवन्ती-त्याह– अहितादय इति ॥ अतो वशीकर्तव्या इत्यर्थः । आहितादय इति वा । आदिशब्देन हिताहितकर्तृत्वेन निहिताः । अनेन प्रकृत्यादीनां गुणो दर्शितः । ‘स्वाम्यमात्यो जनपदो दुर्गं द्रविणसञ्चयः । दण्डो मन्त्री च सप्तैतास्तस्य प्रकृतयः स्मृताः ॥’ इति । बुद्धिसहायो मन्त्री, कर्म-सहायोऽमात्यः । यथा प्रकृतिगुप्तो राजा सुखमश्नुते तथा राज्ञा सन्तोषिताः प्रकृतयो राज्ञःसन्तोषहेतवो भवन्ति । अन्यथाऽहितादयो ऽहितस्यासन्तोषस्य आदयः कारणभूता भवन्तीति योगविभागो वा

॥ १७,१८ ॥

सत्यधर्म

तपोबलेनावलोकितलोकवृत्तान्तोऽप्यङ्गिरा गिरं श्रोतुमना अनामयमादौ पृच्छति ॥ अपीति । अपिरयं कच्चिदर्थे । ‘‘अपिः सम्भावनाप्रश्नः’’ इति विश्वः । अनामयं नीरोगता स्वस्ति क्षेमो मङ्गलम् । स्वस्तीत्यावर्तिते सु अस्तीति छेदः । सम्यगस्ति किमित्यर्थः । आत्मनस्तथा प्रकृतीनां चानामयं स्वस्तिता चास्तीति किमिति प्रश्नः । ताश्च स्वाम्यमात्यो जनपदो दुर्गं द्रविणसञ्चयः । दण्डो मन्त्री च सप्तैतास्तस्य प्रकृतयो स्मृताः’’ इति स्मृता ग्राह्याः । त आत्मनस्तव मनसः प्रकृतीनां मनस इति वा । प्रस्तुतं मामेव स्तुत्यप्रकृतप्रकृतिविचारेण किमङ्गिरा इत्यत ईरयति ॥ यथेति । अनेनान्त-रङ्गतोऽङ्गिराः कार्यकारणशब्दानां ‘‘गोभिः श्रिणीतमत्सरम्’’ इत्यादौ सङ्कीर्णतया प्रकृतिपदेन भूत-पञ्चकं महानहङ्कारश्चेति द्वयमाहत्य सप्तभिः प्रकृतिभिर्गुप्तः पुमान् जीवः । तास्वेव प्रकृतिष्वात्मानमद्धा निधाय तत्तज्जातस्य तत्र प्रवेश इति चिन्तनपूर्वकं निधाय श्रेयस्तन्मोक्षानन्तरिकमोक्षरूपमङ्गलं प्राप्नोति यथा तथा राजा सप्तभिः प्रकृतिभिर्गुप्तस्तास्वद्धा विश्वासपूर्वकमात्मानं मनो निधाय श्रेय आप्नुयादिति दृष्टान्तदार्ष्टान्तिकभावमभिप्रैति ।

त एवावमानिता मानवाधीशाहिताय घटन्त इति सङ्ग्राह्या इत्याह ॥ राज्ञ इति । अप्रकृतय इति । न विद्यते प्रकृतिः स्वभावः प्राग्वदेषां ते, तथा मनोविषादादिमन्त इति यावत् । हे नरदेव राज्ञ अद्धा निधायालोचनसूचनादिभिर्द्वेषपदे स्वयमहितादयोऽहितस्यादयोऽकारणानि भवन्ति तथा प्रकृतयो यथा वर्तितव्यं तादृशस्वभावश्चेद्राज्ञोऽद्धा कदाऽपि न प्रवेशमेवं निधाय कारागारे नरदेव आहितादयस्तदा सम्यग्घितकारणानि भवन्ति । अतोऽग्रत एव जाग्रता राज्ञा भवितव्यमित्यन्वशाशदित्याशयः

॥ १७,१८ ॥

चट्टी

तथाशब्दः समुच्चये । ते तवात्मनो भवतः प्रकृतीनां चानामयमारोग्यं स्वस्ति शुभम् । अपि किं प्रकृतिविषयककुशलप्रश्नेन किं प्रयोजनमित्याशङ्क्य प्रकृत्यधीनमेव हि राज्यमिति सदृष्टान्तमाह ॥ यथेति । यथा महदहंकारपृथिव्यादिभिः सप्तभिः पुमान् जीवो नित्यं गुप्तो भवति । न तु तद्व्यतिरेकेण क्षणमपि तिष्ठति । एवं राजा च । सप्तभिः ‘‘स्वाम्यामात्यो जनपदो दुर्गं द्रविणसञ्चयः । दण्डो मित्रं च तस्यैता सप्तप्रकृतयो मता’’ ॥ इत्युक्तलक्षणाभिर्नित्यं गुप्तः सन् । आत्मानं प्रकृतिष्वद्धा साक्षान्निधाय तदन्तर्वर्तिनं कृत्वा श्रेयो राज्यसुखं प्राप्नुयादित्यर्थः । स्वामी गुरुः स्वयं वा मन्त्रसहायो मन्त्री कर्मसहाय अमात्य इति भेदः ॥ प्रकृतीनामपि राजानुवर्तनमेव श्रेयः साधनमित्याह ॥ राज्ञ इति । हे नरदेव प्रकृतयोऽपि राज्ञ आसमन्तात्प्रीतिहेतवो भवन्ति चेच्छ्रेयः। आप्नुयुरित्यस्यानुकर्षणार्थस्तथाशब्दः

॥ १७, १८ ॥

अपि दाराः सुतामात्या भृत्याः श्रेण्योऽथ मन्त्रिणः ।

पौरा जानपदा भूपा आत्मा च वशवर्तिनः ॥ १९ ॥

पदरत्नावली

हे राजन्, दाराः सुतायश्च तव वशवर्तिनोऽपि ? अनुकूलतया वर्तन्ते किम् ? आत्मा मनश्च वशवर्ती किम् ? ॥ १९ ॥

सत्यधर्म

दाराः पत्न््नयः सुता अपत्यानि अमात्या मन्त्रिण श्रेण्यश्चेति तद्विशेषा भूपाः समीप-वर्तिनो राजान आत्मा मनो देहश्च । अचाञ्चल्येन नीरोगतया चैते वशवर्तिनः किम् । अमात्मा भृत्या इत्यादिबहुवचन सहपाठानुगुणा सुतश्चामात्याश्चेति विग्रहमहीं रचयन् जागर्ति । अन्यथा सुता अमात्या इत्यवक्ष्यत् । सुत इति कथने एकस्य सुतस्य भविष्यत्त्वेऽपि बहवः सूनवो मम भूयासुर्ऋषेस्वृथा भाषित्वादिति मनुयान्मनुजेन्द्र इति सोऽङ्गिराः ॥ १९ ॥

चट्टी

दाराश्च सुताश्च अमात्याश्च श्रेण्यो राज्ञः समानवयसः श्रेणयस्त्वङ्गरक्षका इत्युक्तलक्षणाः पौराः पुरवासिनः । जनपदस्तत्तद्देशाधिकारिणः । आत्मा मनः ।

यस्यात्माऽनुवशश्चेत् स्यात् सर्वे तद्वशगा इमे ।

लोकाः सपाला यच्छन्ति सर्वे बलिमतन्द्रिताः ॥ २० ॥

आत्मनः प्रीतयेऽप्यात्मा परतः स्वत एव वा ।

लक्षयेऽलब्धकामं त्वां चिन्तया शबलं मुखम् ॥ २१ ॥

पदरत्नावली

मनसो वशवर्तित्वे किं फलम् ? अत्राह– यस्येति ॥ मनसः स्ववशवर्तित्वे भृत्यादयोऽपि स्ववशा भवन्ति । अन्यथा कोपलोभाद्यधीनस्य तव क्रोधादिना विमनसीकृता भृत्यादय उक्तकारिणो न भवन्ति । अतो मनसश्च वशवर्तित्वं क्रोधाद्यभावफलम् । क्रोधाद्यकरणे भृत्यादि-वशीकरणम् ।

किञ्च प्रपञ्चोऽपि भवदायत्त इत्याह– आत्मन इति ॥ आत्मा प्रपञ्चोऽपि आत्मनस्तव प्रीतये स्यादित्यन्वयः । अस्त्वेवमिदं सर्वम् । भवन्मनसि किं प्रतीयत इति तत्राह– परत इति ॥ अहं त्वां स्वतः परतो वाऽलब्धकाममप्राप्तकामं लक्षये पश्यामि । केन लिङ्गेनेत्यत उक्तम्– चिन्तयेति ॥ शबलमलक्षणम् ॥ २०,२१ ॥

सत्यधर्म

यस्येति सामान्यवचनेन सर्वे हिंसायां प्राप्तायां तद्वशगा नु निश्चयेन । सपालाः ससंरक्षकाः सर्वे समस्ता बलिं यच्छन्ति । अतन्द्रिता अनालस्याः ।

स्वतः प्रीतये वा परत इतरतो वाऽऽत्मनः स्वस्यात्मा मन एव वा कारणम् । नापणिका इव क्रय्यप्रसारकाज्ञानिनो ज्ञानमाच्छाद्य पृ(य)च्छन्तीति द्योतयितुमूहामुवाहेत्याह ॥ लक्षय इति । चिन्तया यतो मुखं शबलं स्वतो गौरमौपाधिकपाण्डुरतया श्यामतया वा मिश्रमिति शबलम् । कल्माषशबलता च कर्बुर इत्यमरः । इत्यलब्धकाममप्राप्तवाञ्छितं लक्षये ऊहयामि ॥ २०, २१ ॥

चट्टी

एते सर्वे वशवर्तिनोऽपि मनोजयप्रश्ने किं कारणमित्यत आह ॥ यस्येति । यस्यात्मा मनोऽनुवशोऽनुवर्ति अधीनं स्यात्तथा चेत् । इमे सर्वे तस्य वशगा भवन्ति । क्रोधलोभाद्यभिभूतत्वेन मनोजयशून्यस्य सर्वे भूत्यादयः प्रतिकूला भवन्तीति भावः । किञ्च सपालाः साधिपतयः । लोकाः प्रजा अतन्द्रिता अप्रमुक्ताः सन्तस्तस्य बलिं करं प्रयच्छन्ति । आत्मा भवान् आत्मनो न प्रीतये भवति न तुष्यति । तत्किं परतो वा स्वतो वा किञ्चालब्धकामं त्वां लक्षये । कुतः । येन चिन्तया शबलं विच्छावं मुखं लक्षये ॥ २१ ॥

श्रीशुक उवाच—

एवं विकल्पितो राजन् विदुषा मुनिनाऽपि सः ।

प्रश्रयावनतोऽभ्याह प्रजाकामस्ततो मुनिम् ॥ २२ ॥

पदरत्नावली

एवं विकल्पितः । सन्ततिनिमित्तं दुःखं विदुषा । प्रश्रयलक्षणगुणेनावनतः प्रह्वः

॥ २२ ॥

सत्यधर्म

किं मन्दाक्षतो नावादीत्किंवाऽवसरभणिता वाणीति वाण्या किञ्चिदुदञ्चितवा-न्वाञ्छितमिति परीक्षकपरीक्षितं पक्षं द्वितीयं कटाक्षयञ्छुको वदति ॥ एवमिति । अभ्याह तद्विकल्प-मभ्युत्तरत्वेनाह । मुनिं तावदुक्त्वा तूष्णीकम् । एवं च वक्ष्यमाणरीत्या ॥ २२ ॥

चट्टी

विदुषा सर्वज्ञेनापि त्वया विकल्पितः पृष्ठः ॥ २२ ॥

चित्रकेतुरुवाच–

भगवन् किं न विदितं तपोज्ञानसमाधिभिः ।

योगिनां ध्वस्तपापानां बहिरन्तः शरीरिषु ॥ २३ ॥

सत्यधर्म

शरीरिषु देहिषु तन्मध्य इति यावत् । ध्वस्तपापानामतीतानागतानामिति प्रतिबन्धक-रहितानां योगिनामुपाययुजां तपोज्ञानसमाधिभिः । तपः कृच्छ्रचान्द्रायणादिकमालोचनं वा समाधि-श्चित्तैकाग्य्रं ज्ञानं तत्साधनमेतैः करणैर्बहिरन्तः किं विदितं न सर्वं विदितमेव । भगवन्निति पूजाथैः । अथवा शरीरिषु मदादिषु बहिरन्तश्च विद्यमानं किन्न विदितमित्यन्वयः । हे तपोज्ञान तपसैव ज्ञानं यस्य । अनेनान्तः किन्न विदितं समाधिभिर्मन्मथोव्यथाभिर्बहिरूहितैः किन्न विदितमिति वा ॥ २३ ॥

चट्टी

अलब्धकामत्वं कथयन् पुत्रं याचते ॥ भगवन्निति चतुर्भिः ॥ २३ ॥

तथाऽपि पृच्छतो ब्रूयां ब्रह्मन्नात्मनि चिन्तितम् ।

भवतो विदुषश्चापि चोदितस्त्वदनुज्ञया ॥ २४ ॥

पदरत्नावली

आत्मनि मनसि ॥ २४ ॥

सत्यधर्म

भवतो विदुषः पृच्छत आत्मनि मनसि यच्चिन्तितम् । तथाऽपि विदितत्वेऽपि लोक-मनुकुर्वतस्तव त्वदनुज्ञया ब्रूयामित्यन्वयः । निष्पोतताया आतुरतया भवतो विदुषश्चेति पुनर्वचनम् । भवतः संसारात् पारमिति शेषः । अविदुषो ममात्मनि किमिति पृच्छतस्तव त्वया चिन्तितमेव ब्रूयामिति वा ॥ २४ ॥

चट्टी

आत्मनि मनसि ॥ २४ ॥

लोकपालैरपि प्रार्थ्याः साम्राज्यैश्वर्यसम्पदः ।

न नन्दयन्त्यप्रजं मां क्षुत्तृट्क्षाममिवापरे ॥ २५ ॥

पदरत्नावली

अपरे स्रक्चन्दनवनितादयः ॥ २५ ॥

सत्यधर्म

न नन्दयन्ति न सुखयन्ति । अप्रजं मानित्यनेन पुत्राच्छतगुणन्यान्येन न्यायेन च कन्योदिता बत कुलद्वयतारिणीति स्त्र्यपत्यमपि नास्तीति ध्वनयति । नित्यमसिच् प्रजामेधयोरिति तु समासान्तविधेरनित्यत्वान्न प्रवृत्तमिति ज्ञेयम् । प्रजा अस्यास्तीति प्रजः स नेत्यप्रजस्तं वा । नायं नञ् किन्तु निषेधार्थोऽकारः । अ न प्रजा यस्य तमिति वा । क्षुत् क्षुधा तृट् पिपासा ताभ्यामेव क्षामम् । अपरे स्रगादय इव ॥ २५ ॥

चट्टी

अप्रजमपुत्रम् । क्षुतृड्भ्यामन्नपानकामम् । अपरे स्रक्चन्दनादयो यथा न सुखयन्ति तथा तत्तस्मान्नः पाहि ॥ २५ ॥

तन्नः पाहि महाभाग पूर्वैः सह गतं तमः ।

यथा तरेम दुस्तारं प्रजया तद् विधेहि नः ॥ २६ ॥

पदरत्नावली

पालनप्रकारमाह– पूर्वैरिति ॥ पूर्वैः पूर्वजैः सह गतं प्राप्तम् । तमो नरकम् । यथा यया प्रजया तरेम तत् तादृशं प्रजालक्षणं वस्तु । यद् वा यथा येनोपायेन तरेम तन् नोऽस्माकं विधेहि । स क उपाय इति चिन्ता माभूदित्याह– प्रजयेति ॥ २६ ॥

सत्यधर्म

पूर्वैः पित्रादिभिस्तमो नरकं गतं तत्प्रायं निश्चित्यैवमुक्तिर्वा । आगच्छदित्यर्थः । मन्मुखत एव दशैतादृशी तेषां समेषामिति द्योतयितुं गतं न इत्याद्येकवचनबहुवचने ज्ञेये । नः पाहि । कथमवनमेवावनीनाथेत्यत आह ॥ यथेति । यथा प्रजया तरेम तथा नो विधेहि कुरु । नापुत्रस्य लोकोऽस्तीत्यादेः । रीत्यन्तरेण तरीतुं दुःशकमित्याह ॥ दुस्तारमिति । यद्यपि ऋदोरबित्यप्प्रत्यये तरेति भाव्यं तथाऽपि स्वार्थिके प्रज्ञाद्यणि कृते तर एव तारः । दुःसाधस्तारो यस्येति । साम्पराये तर्तव्याभावादिति भगवदुक्त्यनुरोधेन तृधातुरेकोऽस्तीत्यूहनेन तस्येदं रूपमिति घञः सम्भवात् । ‘‘तत्र ताराऽथ मूलत्वम्’’ इत्यनुव्याख्याव्याख्यायां तरन्त्यनेनानिष्टनिचयमिति ओङ्कारस्तार इति सुधापरिमले तथा तन्त्रदीपिकायां चोक्तेः । आख्यातद्वयान्वयविवक्षया नः न इति पदद्वयम् । तादृशशेमुषी-नामस्माकमित्याह ॥ अतद्विधेहिन इति । तद्विधा पुत्रोत्पत्तिप्रकारो यस्यां सेहा चेष्टा येषामस्ति ते तद्विधेहिनः । ते नेत्यतद्विधेहिनो न इति वाऽन्वयः । श्रपयित्वा पक्वप्रजया पाहि । महाभागश्च ते पूर्वे च तैः सहेति वा ॥ २६ ॥

चट्टी

तदेवाह ॥ पूर्वैरिति । पूर्वैः पित्रादिभिः सहागतं प्राप्तं तमो नरकं प्रजया यथा तरेम तत्तथा विधेहि ॥ २६ ॥

श्रीशुक उवाच—

इत्यर्थितः स भगवान् कृपालुर्ब्रह्मणः सुतः ।

श्रपयित्वा चरुं त्वाष्ट्रं त्वष्टारमयजद् विभुः ॥ २७ ॥

पदरत्नावली

त्वाष्ट्रं त्वष्टुदैवतम् ॥ २७ ॥

सत्यधर्म

कृपालुः कृपां लात्यादत्त इति । ला आदान इत्यस्मान्मितद्वादित्वाड् डुः । गर्गयालु-र्गलन्तिकेत्यमरात्कृपापूर्णकलशसदृशा इति वाऽर्थः । श्रपयित्वा पक्त्वा चरुं हव्यान्नम् । चरुर्भाण्डे च हव्यान्न इति विश्वः । स च किंदेवत इत्यत आह ॥ त्वष्टृदेवताकं त्वाष्ट्रमिति । तमेवायजन् । उत्तरत्र तत्पुत्रीभवनभावकमिदमिति मतिमानङ्गिरा इति मन्तव्यम् ॥ २७ ॥

चट्टी

त्वाष्ट्रं त्वष्टृदेवताकम् ॥ २७ ॥

ज्येष्ठा श्रेष्ठा च या राज्ञो महिषीणाञ्च भारत ।

नाम्ना कृतद्युतिस्तस्यै यज्ञोच्छिष्टमदाद् विभुः ॥ २८ ॥

सत्यधर्म

ज्येष्ठा वयस्तः श्रेष्ठा गुणैर्महिषी पट्टाभिषिक्ता च । महिषी नृपपत्न््नयां चेति विश्वः । कृताभिषेका महिषीत्यभिधानात् । राज्ञ इति वचनेन विशिष्टवाचकनीत्या पत्नीत्यर्थकता महिषीपदस्येति ज्ञेयम् । नाम्नैव कृतद्युतिर् अर्थतस्तु अकृताऽपर्याप्ता कान्तिर्यस्याः सेति कान्तिमतीत्यर्थः ॥ २८ ॥

चट्टी

ज्येष्ठा प्रथमोढा श्रेष्ठा गुणैः । यज्ञोच्छिष्ठं यज्ञशेषम् ॥ २८ ॥

अथाऽह नृपतिं राजन् भवितैकस्तवाऽत्मजः ।

हर्षशोकप्रदस्तुभ्यमिति ब्रह्मसुतो ययौ ॥ २९ ॥

सत्यधर्म

हर्षशोकप्रद इत्युक्त्युत्तरक्षणे तत्रापि गयनलुलुमीदेवी जयनलु गजेन्द्रेति वद्धर्षेत्येता-वन्मात्रं श्रोत्रयोः पतितं न पतितं च शोकेतीति चोह्यम् । अन्यथा किमर्थमेवमिति करं धृत्वा नरपतिः पृच्छेन्न त्यजेदिति ज्ञेयम् ॥ २९ ॥

चट्टी

जन्मना हर्षं मरणेन शोकं प्रददातीति तथा इति । एवमुक्त्वा ययौ ॥ २९ ॥

साऽपि तत्प्राशनादेव चित्रकेतोरधारयत् ।

गर्भं कृतद्युतिर्देवी कृत्तिकाऽग्नेरिवात्मजम् ॥ ३० ॥

पदरत्नावली

प्राशनात् स्वीकारात् ॥ ३० ॥

सत्यधर्म

प्राशनाद्भक्तिपूर्वं भोजनात् । कृत्तिकाऽग्नेरात्मजं षण्मुखम् । देवी कृताभिषेका ‘‘देवी कृताभिषेकायाम्’’ इत्यमरः । निदर्शनानन्तरं प्रदर्शनं विनाऽग्नेरिवात्मजमिति दर्शयता केतुरग्नेः शुनोऽपि वेत्युक्तेः शीघ्रं तस्यैव वा जातद्विजत्वाद्योग्य इवायमिति सूचितमिति ज्ञेयम् ॥ ३० ॥

तस्या अनुदिनं गर्भः शुक्लपक्ष इवोडुपः ।

ववृधे शूरसेनस्य तेजसा शनकैर्नृप ॥ ३१ ॥

पदरत्नावली

शूरसेनस्य चित्रकेतोः ॥ ३१ ॥

सत्यधर्म

शुक्लपक्ष इवोडुप इत्यपि नाननुरूपं कृष्णपक्षे क्षैण्यादिति मन्तव्यम् । शूरसेनस्य चित्रकेतोस्तेजसा रेतसा । प्रभावरेतसोस्तेज इति विश्वः ॥ ३१ ॥

चट्टी

शूरसेनस्य शूरसेनाधिपतेः । तेजसा वीर्येण यो गर्भः स ववृधे ॥ ३१ ॥

अथ काल उपावृत्ते कुमारः समजायत ।

जनयन् शूरसेनानां शृण्वतां परमां मुदम् ॥ ३२ ॥

पदरत्नावली

शूरसेनानां विषयाणाम् ॥ ३२ ॥

सत्यधर्म

शूरसेनानां तद्देशवासिनाम् ॥ ३२ ॥

चट्टी

शूरसेनानां शूरसेनविषयस्थानां प्रजानाम् ॥ ३२ ॥

स राजा सुकुमारस्य स्नातः शुचिरलङ्कृतः ।

वाचयित्वाऽऽशिषो विप्रैः कारयामास जातकम् ॥ ३३ ॥

सत्यधर्म

जातकं जातकर्म ॥ ३३ ॥

चट्टी

जातकं जातकर्म ॥ ३३ ॥

तेभ्यो हिरण्यं रजतं वासांस्याभरणानि च ।

ग्रामान् हयान् गजान् प्रादाद् धेनूनामर्बुदानि षट् ॥ ३४ ॥

सत्यधर्म

धेनूनां गवाम् ॥ ३४ ॥

ववर्ष कामानन्येषां पर्जन्य इव देहिनाम् ।

धन्यं यशस्यमायुष्यं कुमारस्य महात्मनः१ ॥ ३५ ॥

पदरत्नावली

कीदृशं कर्माकरोत् ? अत्राह– धन्यमिति ॥ धन्यं स्वधनादिसम्पत्करम् ॥३५॥

सत्यधर्म

महात्मन आयुष्यमिति तद्वर्षणस्वरूपकथनम् । नित्यायुर्मोक्षदमिति वा ॥ ३५ ॥

चट्टी

कीदृशं जातकर्म । धन्यं धनकरं यशस्यं यशस्करम् । आयुष्यम् आयुष्यकरम् ॥ ३५ ॥

कृच्छ्रलब्धेऽस्य राजर्षेस्तनयेऽनुदिनं पितुः ।

यथा निःस्वस्य कृच्छ्राप्ते धने स्नेहोऽन्ववर्धत ॥ ३६ ॥

पदरत्नावली

निःस्वस्य दरिद्रस्य ॥ ३६ ॥

सत्यधर्म

निःस्वस्य निर्धनस्य । स्वं ज्ञातावात्मधनयोरिति विश्वः ॥ ३६ ॥

चट्टी

निःस्वस्य दरिद्रस्य ॥ ३६ ॥

**मातुस्त्वतितरां पुत्रे स्नेहो मोहसमुद्भवः । **

कृतद्युतेः सपत्नीनां प्रजाकामज्वरोऽभवत् ॥ ३७ ॥

सत्यधर्म

मोहो ममेदमित्यज्ञानं तस्मात्समुद्भवतीति तथा । ‘‘मोहमिच्छन्ति मूर्छायामविद्यायां च सूरयः’’ इति विश्वः । सपत्नीनां समानपतिकानां नित्यं सपत्न््नयादिष्विति निपातनात्समानस्य सभावः । प्रजाकामज्वरः पुत्रेच्छोपतापः ॥ ३७ ॥

चट्टी

मोहस्य समुद्भवो यस्मिन्प्रजाकामरूपो ज्वरस्तापः ॥ ३७ ॥

चित्रकेतोरतिप्रीतिर् यथादारे प्रजावति ।

न तथाऽन्येषु सञ्जज्ञे बालं लालयतोऽन्वहम् ॥ ३८ ॥

पदरत्नावली

प्रजावति पुत्रवति ॥ ३८ ॥

सत्यधर्म

अथ पुम्भूमि्न दारा इत्यमराद् यथा समीचीना न भवन्तीतरे दारा यस्य इति यथादारास्तत्सम्बुद्धिर् गमकत्वान्नञन्वयः । हे यथादारे प्रजावतीति यथा प्रीतिर्न तथाऽन्येषु दारेषु प्रीतिः सञ्जज्ञ इति वा । दारेप्रजावतीति पदमेकं वा । दाराश्च ते इ प्रजाऽपेक्षितापत्यमस्यास्तीति इप्रजावती च । तत्सम्बुद्धिः । यथा दारे विधुरे प्रजावति पुंसि प्रजायामिति विशेषः । बालं लालयतोऽन्येषु विषयेषु न प्रीतिः सञ्जज्ञ इति वा । बहुत्वं प्रायिकम् । एका च सिकता तैलदाने समर्था । एकामप्सरामित्यादिमहाभाष्यप्रयोगादेकवचनं सुवचमिति दार इत्युदारोक्तिरिति ज्ञेयम् । श्रीहर्षोऽपि द्विरूपकोशे भवेद्दाराश्च दारोऽपि जलोकाश्च जलौकस इत्यूचे इत्येकवचनमार्षमिति वदन् श्रीधरः न श्रीहर्षहर्षद इत्युपेक्ष्यः ॥ ३८ ॥

चट्टी

प्रजावति पुत्रसंपन्ने । दार इत्येकवचनमार्षम् ॥ ३८ ॥

ताः पर्यतप्यन्नात्मानं गर्हयन्त्योऽभ्यसूयया ।

अनपत्येन दुःखेन राज्ञश्चानादरेण च ॥ ३९ ॥

सत्यधर्म

अनपत्येन दुःखेनापत्याभावोद्भूतेन । आनपत्येनेति क्वचित्पाठस्तत्रापुत्रत्व निमित्ते-नेत्यर्थः । ब्राह्मणादित्वादनपत्यशब्दाद्भावे षञ् ॥ ३९ ॥

चट्टी

अनपत्येनापुत्रत्वनिमित्तेन ॥ ३९ ॥

धिगप्रजां स्त्रियं पापां पत्युश्चागृहसम्मताम् ।

सप्रजाभिः सपत्नीभिर्दासीमिव तिरस्कृताम् ॥ ४० ॥

सत्यधर्म

अगृहसम्मतामगृहिणीत्वेनाभार्यात्वेनेति यावत् । ‘‘गृहिणी गृहमुच्यते’’ इत्यादेः । धिक् । तस्या निन्द्यतास्त्वित्यर्थः । धिग्भर्त्सनहिंसयोरित्यभिधानात्तर्जनीयतां प्राप्तामित्यर्थः । सपत्न््नया एकस्या एव सतोकत्वेन शोककारणत्वेऽपि सपत्नीभिरिति व्यथाबाहुविध्याद्बहुवचनमिति ज्ञेयम् ॥४०॥

चट्टी

गृहिण्येव गृहं दारेष्वपि गृह इत्यमरः । पतिसंमता न भवतीत्यागृहसंमता ताम् ॥ ४० ॥

दासीनां को नु सन्तापः स्वामिनः परिचर्यया ।

अभीक्ष्णं लब्धमानानां दास्या दासीव दुर्भगाः ॥ ४१ ॥

पदरत्नावली

स्वामिनः स्नेहाभावे दासीत्वमप्रयोजकमित्याह– दासीनामिति ॥ ४१ ॥

सत्यधर्म

दासीमिव तिरस्कृतामित्युत्प्रेक्षितं स्वयमालोच्य तिरस्कुर्वन्ति ॥ दासीनामिति । स्वामिनः साक्षात्परिचर्यया लब्धमानानां प्राप्तसत्काराणामतो राजस्नेहपात्रत्वात्तत्त्वेन नोत्प्रेक्षणं युक्तम् । तर्हि भवत्यः किं तुल इत्यतो लपन्ति । दुर्भगा दुर्दैवा दरिद्रा भूमीन्द्रवक्त्रानवलोकिनी दास्या दासीवेति

॥ ४१ ॥

चट्टी

स्वामिनः स्नेहाभावे दासित्वमप्रयोजकमित्याह ॥ दासीनामिति । दास्या दासी यथा तथा वयं दुर्भगाः ॥ ४१ ॥

एवं सन्दह्यमानानां सपत्न्नयाः पुत्रसम्पदा ।

राज्ञोऽसम्मतवृत्तीनां विद्वेषो बलवानभूत् ॥ ४२ ॥

सत्यधर्म

अनभिमतस्वाचाराणामसम्मतवृत्तीनाम् ॥ ४२ ॥

चट्टी

न संमता वृत्तिर्जीवनं यासां तास्तथोक्तास्तासां वंध्यत्वादिति भावः ॥ ४२ ॥

विद्वेषान्नष्टमतयः स्त्रियो दारुणचेतसः ।

गरं ददुः कुमाराय १विद्वेषान् नृपतिं प्रति ॥ ४३ ॥

कृतद्युतिरजानन्ती सपत्नीनामघं महत् ।

सुप्त एवेति सञ्चिन्त्य निरीक्ष्य व्यचरद् गृहे ॥ ४४ ॥

पदरत्नावली

गरं विषम् ॥ ४३ ॥

सत्यधर्म

नष्टमतयो दारुणचेतसः स्वतः किं कठिनं स्त्रीहृदयमित्यादेः । विद्वेषान् नृपतिं प्रतीत्यप्रतिमः पाठः । सञ्चिन्त्य मनसा निरीक्ष्यागत्य ॥ ४३,४४ ॥

चट्टी

विद्वेषेण नष्टा मतिर्यासां ताः । क्रूरचित्तत्वे हेतुः स्त्रिय इति । गरं विषम् । दुर्मर्षा असहमानाः ॥ ४३,४४ ॥

शयानं सुचिरं बालमुपधार्य मनीषिणी ।

पुत्रमानय मे भद्रे इति धात्रीमचोदयत् ॥ ४५ ॥

पदरत्नावली

धात्रीं स्तनदात्रीम् ॥ ४५ ॥

सत्यधर्म

धात्रीं ‘‘धात्री जनन्यामलका वसुमत्युपमातृषु’’ इत्यमरः । उपमातरं चोदयदचोदयत्

॥ ४५ ॥

चट्टी

धात्रीं स्तनपायिनीम् ॥ ४५ ॥

सा शयानमुपव्रज्य दृष्ट्वा चोत्तारलोचनम्१ ।

प्राणेन्द्रियात्मभिस्त्यक्तं हताऽस्मीत्यपतद् भुवि ॥ ४६ ॥

पदरत्नावली

उत्तारलोचनम् उन्नततारायुक्तनेत्रम् ॥ ४६ ॥

सत्यधर्म

प्राणाः पञ्च इन्द्रियाणि दश आत्मा मनश्च तैस्त्यक्तम् । उत्तारे ऊर्ध्वीकृता तारा नेत्रमध्यं ययोस्ते उत्तारे नेत्रे लोचने यस्य तम् । नक्षत्रे नेत्रमध्ये च तारा स्यात्तार इत्यपि’’ इति व्याडिः

॥ ४६ ॥

चट्टी

उद्गते तारे कनीनके ययोस्ते लोचने यस्य तम् ॥ ४६ ॥

तस्यास्तदाकर्ण्य भृशातुरस्वरं घ्नन्त्याः कराभ्यामुर उच्चकैरपि ।

प्रविश्य राज्ञी त्वरयाऽऽत्मजान्तिकं ददर्श बालं सहसा मृतं सुतम् ॥ ४७ ॥

सत्यधर्म

तस्या धात्र्याः । राज्ञ इयं राज्ञी । सहसाऽतर्किते तु सहसेत्यमराद्रोगाद्यभावेनाकस्मात्

॥ ४७ ॥

पपात भूमौ परिवृद्धया शुचा मुमोह विभ्रष्टशिरोरुहाम्बरा ।

ततो नृपान्तःपुरवर्तिनो जना नराश्च नार्यश्च निशम्य रोदनम् ।

आगत्य तुल्यव्यसनाः सुदुःखितास्ताश्च व्यलीकं रुरुदुः कृतागसः ॥ ४८ ॥

सत्यधर्म

तुल्यव्यसनाः समानाशुभाः । व्यसनं त्वशुभ इति विश्वः । सुदुःखिताः । कृतागस एकोनदशकोटिसङ्ख्यागरनिगरणादागस्कृतः । ताश्च व्यलीकमनृतं यथा भवति तथा रुरुदुः ॥ ४८ ॥

चट्टी

विभ्रष्टाः शिरोरुहा अंबरे च यस्याः सा तथा ॥ ताश्च सपत्न््नयोऽपि व्यलीकं मृषैव रुरुदुः

॥ ४८ ॥

श्रुत्वा मृतं पुत्रमलक्षितान्तकं विनष्टदृष्टिः प्रपतन् स्खलन् पथि ।

स्नेहानुबन्धैधितया शुचा भृशं विमूर्छितोऽनुप्रकृतिर्द्विजैर्वृतः ॥ ४९ ॥

पदरत्नावली

अनुप्रकृतिः सप्रकृतिजनः ॥ ४९ ॥

सत्यधर्म

अलक्षितान्तकमलक्षितो नीरोगतयाऽन्तको मृत्युर्यमस्तम् । अनुप्रकृतिः प्रकृतिजनमनु द्विजैर्वृतः ॥ ४९ ॥

चट्टी

न लक्षितोऽज्ञातोऽन्तको मृत्युहेतुर्यस्य तम् । अनुगताश्च ते प्रकृतय आमात्या द्विजाश्च तैर्वृतः ॥ ४९ ॥

पपात बालस्य स पादमूले मृतस्य विस्रस्तशिरोरुहाम्बरः ।

दीर्घं श्वसन् बाष्पकलोपरोधतो निरुद्धकण्ठो न शशाक भाषितुम् ॥ ५० ॥

सत्यधर्म

बालस्य पादमूले पपात । अनेन कर्तव्याकर्तव्यमतिरहितता द्योत्यते ॥ ५० ॥

चट्टी

बाष्पकलाभिरश्रुबिन्दुभिरुपरोधतः संवृतत्वेन निरुद्धो कण्ठो यस्य ॥ ५० ॥

पतिं निरीक्ष्योरुशुचाऽर्पितं तदा मृतं च बालं सुतमेकसन्ततिम् ।

जनस्य राज्ञी प्रकृतेश्च हृद्रुजं सती दधाना विललाप चित्रधा ॥ ५१ ॥

सत्यधर्म

एका च सा सन्ततिश्च तां सुतं तदात्मिकां तदात्मकं सुतं वा । हृद्रुजं हृदयामयम् । ‘‘स्त्री रुग्रुजा शोकतापे’’ इत्यमरः ॥ ५१ ॥

चट्टी

उरुशुचाऽर्पितं बहुशोकेन व्याप्तम् । एकसन्ततिमेकमेव सन्ततिरूपम् ॥ ५१ ॥

स्तनद्वयं कुंकुमपङ्कमण्डितं निषिञ्जती साञ्जनबाष्पबिन्दुभिः ।

विकीर्य केशान् विगलत्स्रजः सुतं शुशोच चित्रं कुररीव दुष्करम्१ ॥ ५२ ॥

पदरत्नावली

श्रोत्रृणां चित्रवाचा वदन्ती शुशोचेति ॥ ५२ ॥

सत्यधर्म

साञ्जनाः सकज्जलाः । ‘‘अञ्जनं कज्जलं प्रोक्तम्’’ इति विश्वः । विगलत्स्रजः केशानित्यन्वयः । विगलन्त्यः स्खलन्त्यः स्रजो माला येभ्यस्ते तान् । कुरर उत्क्रोशो वास्य स्त्री कुररी । पुंयोगादिति ङीष् । उत्क्रोशकुररौ समावित्यमरः ॥ ५२ ॥

चट्टी

विमलाः स्रजो येषु तान्केशान् ॥ ५२ ॥

अहो विधातस्त्वमतीव बालिशो यस्त्वात्मसृष्ट्यप्रतिरूपमीहसे ।

परे तु जीवत्यपरस्य या मृतिर् विपर्ययश्चेत् त्वमसि ध्रुवं परः ॥ ५३ ॥

तात्पर्यम्

‘सन्तापक्रोधरागादिष्वनर्थज्ञवचः क्वचित्’ इति शब्दनिर्णये ॥ ५३ ॥

पदरत्नावली

शोकलक्षणं वाक्यं दर्शयति– अहो इति ॥ अतीव बालिशः जडाज्जडः । कथं मम जाड्यमापाद्यत इति तत्राह– यस्त्विति ॥ यास्त्वात्मसृष्टेरप्रतिरूपं प्रतिकूलं विरुद्धमीहसे । तु एव । ‘तुः स्याद् भेदेऽवधारणे’ इत्यभिधानात् । कथमियं विरुद्धचेष्टाऽभूत् ? अत्राह– पर इति ॥ परे पूर्वतने पितरि मातरि वा जीवत्यपरस्य पश्चादुत्पन्नस्य पुत्रस्य या मृतिः सा त्वया आपाद्यते । यस्मात् तस्मादिति शेषः । यद्यपि संहारेऽयं क्रमः, तथापि स्थितावनुपपन्नोऽयमिति सूचयति तुनेति वा । कथं तर्हि जाड्यपरिहार इति तत्राह– विपर्यय इति ॥ उक्ताद् विपर्ययोऽन्यथा । पूर्वतनस्य पूर्वं मृतिः पश्चात्तनस्य पश्चान्मृतिर् यदि, तर्हि ध्रुवं निश्चितं त्वं परोऽसि जडादन्यः प्राज्ञोऽसि । स्वचेष्टानुसारि-चेष्टत्वादित्यर्थः ॥ ५३ ॥

सत्यधर्म

अहो विधातस्त्वमतीव बालिश इति श्लोके महाभगवद्भक्तस्य चित्रकेतोर्नियतकलत्रं कृतद्युतिरकृतधृतिः सती सा कथं चतुराननस्य चातुरीमातुरा बालिश इति स्थापितवतीति शङ्कितारं मूकयितुं मानमानन्दतीर्थमुनिराह ॥ सन्तापक्रोधेति । सन्तापक्रोधरागादिषु । अनर्थज्ञवचोऽनर्थस्याज्ञस्य वच इव वचः क्वचिद्भवेत् । कोपपारवश्येनोक्तस्य नानर्थप्रापकतेति भावः ॥ ततो विव्रियते पद्यम् ॥ हे विधातो ऽतीवात्यन्तं त्वं बालिशो मूर्खः । पञ्चमस्कन्धे च ‘‘का त्वं चिकीर्षसि वने मुनिवर्यशैल’’ इति श्लोकतात्पर्ये परिहासप्रलापादिष्वनर्था वागपीष्यत इत्युक्तेर्बाला बालिश इति ब्रह्माणं प्रत्युक्तवत्यपि न पापमाप प्रलापकालत्वादिति तात्पर्यं ज्ञेयम् । आत्मसृष्टे जगत्यप्रतिरूपमीहस इति बालिशः । ममापत्यं तु त्वदपत्यं दत्तवत् तद्गौरवमपि त्वया नावलोकीति बालिश इत्यालपति । आत्मसृष्टे त्वत्पुत्रेऽङ्गिरसि तेन सूनुदानं त्वया तु तद्धानिदानमित्यप्रतिरूपमीहस इति वा । चापल्यादुक्तमेव बालिशत्वं तवैतत्प्रणाड्येति सुदती विविच्य वदति ॥ परे त्विति । परे कालकृतपरत्ववति वृद्ध इति यावत् । जीवति धृतासौ सति । अपरस्याल्पकालिकस्य बालकस्यानन्तरमुत्पन्नस्य या मृतिः सा विपर्ययो व्युत्क्रम इति चेत्त्वं ध्रुवं निश्चयेन परः शत्रुरसि । अतो बालिश इति । विपर्ययश्चेत्तस्मिन्सति चास्मन्मृतिरितीदानीन्तनं न कार्यं विपर्ययश्च त्वं परो बालिशोऽविज्ञोसि ध्रुवमिति वा । परे तु त्वदपत्यात्सम्पादिते तद्वरे महति चित्रकेतौ सत्यपरस्य तनुतरतनोश्चेद् या मृतिस्तया त्वं ध्रुवं परः । न तत्स्वकीयः पिता नेति यावत् । विपर्ययोऽसि । कार्यत आर्यता ननुरूपोऽसीति बालिश इति वा । आत्मसृष्ट्यप्रतिरूपमिति पाठेऽयमेवार्थः ॥ ५३ ॥

चट्टी

शोकप्रकारमेवाह ॥ अहो इति । हे विधातः । जगत्कारण परमेश्वर । त्वमात्मन् । तव सृष्टेरप्रतिरूपमननुरूपमीहसे चेष्टसे । तदेवाह । अनु परे वृद्धे जीवति सति । अपरस्य बालस्य वा मृतिस्तथा हि । वृद्धस्य सृष्टिसामर्थ्याभावे बाले च मृते सति तव सृष्टिर्नष्टा स्यादित्यर्थः ॥ सांप्रतं स्वसृष्टेर्विपरीतोऽस्ति चेत्तत्राह ॥ विपर्यय इति । विपर्ययो विपरीतोऽस्ति चेत्तर्हि । त्वं प्राणिनामति-दुःखकारित्वात् । ध्रुवं परः शत्रुरसि । न तु कृपालुरित्यर्थः । यद्वा । अननुरूपमीहमानत्वादतिबालिशो जडादपि जड इत्युक्तम् । कथं तर्हि बालिशो न स्यामित्यत आह ॥ विपर्यय इति । विपर्ययश्चेदुक्ता-दन्यथा चेत् । पूर्वतनस्य पूर्वमृतिः पश्चात्तनस्य पश्चान्मृतिश्चेदिति यावत् । तर्हि तं ध्रुवं निश्चितम् । परो बालिशादन्यः प्राज्ञोऽसि । स्वसृष्टिप्रातिकूल्यानाचरणादित्यर्थः । अत्र परमविवेकिनो भवतः पुत्रशोक-वशादापद्यमानं बालिशत्वादिकं न वास्तवं मन्तव्यमिति विशेषं तुशब्देन सूचयति ॥ तथा चोक्तम् ॥ सन्तापक्रोधेत्यादि ॥ ५३ ॥

न हि क्रमश्चेदिह मृत्युजन्मनोः शरीरिणामस्तु तदात्मकर्मभिः ।

यः स्नेहपाशो निजसर्गवृद्धये स्वयं कृतस्ते तमिमं विवृश्चसि ॥ ५४ ॥

पदरत्नावली

‘सन्तापक्रोधरागादिष्वनर्थज्ञवचः क्वचित्’ इति वचनात् सन्तापादनन्वितमित्याह– न हीति ॥ शरीरिणां मृत्युजन्मनोः क्रमो नास्ति चेत् तदा तर्हि आत्मकर्मभिः स्वकर्मानुकूल्येनास्तु । ते त्वया स्वयं सर्गवृद्धये स्नेहपाशो मोहपाशो मम पुत्रोऽयमिति स्नेहानुबन्धः कृतः । तमिमं स्नेहपाशं विवृश्चसि भिनत्सीति न सम्यक् करोषि ॥ ५४ ॥

सत्यधर्म

क्रोधेनान्धैवं प्रलपसि यथाकर्म शर्माशर्म यच्छतो मम कानच्छतीति चेत्तद्वदसि तर्हीयान्नयो वा त्वयोन्नेयः सोऽपि त्वया नाचारीतिरीत्याऽनया बालिश इति लपति ॥ न हीति । न हि मृत्युजन्मनोः प्रकृतविवक्षयाऽभ्यर्हिताज्जन्मनो मृत्योः पुरत ईरणम् । क्रमो पूर्वस्यैव मृत्युर्न परस्येति क्रमः । जन्मन्यपि पूर्वापेक्षया चिरञ्जीविनैव सूनुनोत्पत्तव्यं नोत्पत्तव्यमल्पायुषेति क्रमो यदि न हि चेत्तर्हि तदात्मकर्मभिः शरीरिणामस्तु न तेन ते बालिशतेति भावः । तर्हि को ममानय इत्यतोऽयमित्याह ॥ य इति । निजसर्गवृद्धये पुत्राभिवृद्ध्यर्थं स्वयं ते त्वया कृतः कारितो यः स्नेहपाशस्तमिमं विवृश्चसि छिनत्सीति त्वं बालिशः । एवं लवलवेन मरिष्यति । तोके स्तोकमतिना त्वया स्नेहो नोत्पादनीयः । स चोत्पादित इति बालिश इति भावो भामिन्याः । इदमपि कर्मभिरिति वदता चतुरेण चतुराननेन प्रच्यावितमचतुरत्वं तथाऽपि प्रलापकालत्वाल्ललनायाः स्मरणरहितत्वादीरणामिति मन्तव्यम् । अस्मत्कर्म तिष्ठतु त्वत्पुत्रो वा कटाक्षयितव्य इति वदति ॥ य इति । यः स्वयं कृतः किमर्थं निजसर्गविवृद्धये पुत्रत्वे कृतस्तस्मिन्यः स्नेहपाशः स्वयं ते त्वया कृतः पुत्र इति तमिमं विवृश्चसि ततोऽपि बालिश इति । ग्रहिज्येति सम्प्रसारणम् ॥ ५४ ॥

चट्टी

ननु जीवकर्मानुसारेण जन्मादि कुर्वतो मम कोऽपराध इत्यत आह ॥ न हीति । पुत्रे जीवत्येव पिता म्रियते । पितरि जीवत्येव पुत्रो जायत इति क्रमो नास्ति । कर्माधीनत्वादिति चेत्तर्ह्यात्मकर्मभिरेव तज्जन्मादिकमस्तु । किं त्वया कृत्यम् । ननु मयेश्वरेण विना जीवैः कर्मभिः कथमिदं सिद्ध्येदिति चेत् । भवतु नाम । तथाऽपि निजसर्गवृद्धये ते त्वया यः स्नेहपाशः कृतस्तमिममेव स्वयं विवृश्चसि भिनत्सि । इत्याक्रोश इति । न ह्येवंविधदुःखं दृष्ट्वा कश्चिदपि पुत्रादिषु स्नेहं करिष्यतीति भावः ॥ ५४ ॥

त्वं तात नार्हसि च मां कृपणामनाथां

त्यक्तुं विचक्ष्व पितरं तव शोकतप्तम् ।

अञ्जस्तरेम भवताऽप्रजदुस्तरं यद्

ध्वान्तं न याह्यकरुणेन यमेन दूरम् ॥ ५५ ॥

पदरत्नावली

त्वमकरुणेन यमेन दूरं न याहीत्यन्वयः । इदं क्रोधं कटाक्षीकृत्योक्तमिति ज्ञातव्यम्

॥ ५५ ॥

सत्यधर्म

अङ्गस्मृतिभङ्गेनाङ्गनाङ्गजमनया भङ्ग्या माता तातेति सुतं सुप्तमिव प्रति प्रतिवक्ति ॥ त्वं तातेति । विचक्ष्व पश्य । अप्रजदुस्तरमनपत्यदुःसाध्यतरणं ध्वान्तं नरकादिकं संसारम् इवाज्ञान-भूयिष्ठत्वाद्ध्वान्तमित्युक्तिः । अकरुणेन निर्घृणेन यमेन नीत इति शेषः । दूरं पन्थानं न याहि न गच्छ

॥ ५५ ॥

चट्टी

अप्रजानां पुत्राणां दुस्तरमकरुणेन यमेन सह । यद्वा । दूरं न याहि । कुतोऽकरुणेन यमेन यस्य यमस्याकरुणत्वादित्यर्थः ॥ ५५ ॥

उत्तिष्ठ तात त इमे शिशवो वयस्या-

स्त्वामाह्वयन्ति नृपनन्दन संविहर्तुम् ।

सुप्तश्चिरं ह्यशनया च भवान् परीतो

भुंक्ष्व स्तनं पिब शुचो हर नः स्वकानाम् ॥ ५६ ॥

नाहं तनूज ददृशे हतमङ्गला ते

मुग्धस्मितं मुदितवीक्षणमाननाब्जम् ।

किं वा गतोऽस्यपुनरन्वयमन्यलोकं

नीतोऽघृणेन न शृृणोमि कला गिरस्ते ॥ ५७ ॥

पदरत्नावली

अशनया अशनेच्छया । भवानित्यनर्थज्ञवचः स्पष्टं प्रतीयते । इदमपि रागनिमित्त-मिति भावेनाह– नाहमिति ॥ मुदिते प्रसन्ने वीक्षणे यस्य तत् तथोक्तम् । क्रोधं ध्वनयन्ती शोचति– किं वेति ॥ अपुनरन्वयं पुनःसंबन्धशून्यम् । अघृणेन, यमेनेति शेषः ॥ ५६,५७ ॥

सत्यधर्म

ते वयस्याः सवयसः सखाय इति यावत् । अशनया अशनायया भोजनवाञ्छया । शुचः शोकान् । अशनं यस्या अस्ति कार्यतयाऽर्श आद्यचि भवत्यशनाशनेच्छा तयेति वा । अशनाया बुभुक्षा क्षुदित्यमरोऽपि नीरोगः । वयसा तुल्यः । नौवय इति यत् । ‘‘वयस्यः सवया’’ इत्यमरः । हतं मङ्गलं श्रेयः सर्वार्थलक्षणं वा । ‘‘मङ्गलं श्रेयसि सर्वार्थलक्षण’’ इति विश्वः । यस्याः सा । मुग्धं सुन्दरं स्मितं हासो यस्य तत् । ‘‘मुग्धं सुन्दरमूढयोः’’ इति विश्वः । अहं मुदितवीक्षणं मुदितं मोदयुक्तं विकस्वरमिति यावत् । वीक्षणं यस्य तत् । त आननाब्जं मुखकमलं न ददृशे । पारोक्ष्योक्तिस्तु सुप्तोऽहं किल विललापेतिवत्प्रलापकालत्वादुचिता । पुनरन्वयः पुनः प्रत्यावृत्तिस्तद्रहितमन्यलोकं लोकान्तरं गतो नीतोऽसि । केनोह स्येवं मोहितेत्यत आह ॥ कला अव्यक्तमधुरारावयुताः । ‘‘कलोऽव्यक्तमधु-रध्वनौ’’ इति विश्वः । ते तव गिरो वाचो न शृृणोमीति यावदिति ॥ ५६,५७ ॥

चट्टी

अशनया क्षुधात्तनूज हे पुत्र । नाहं प्रथमं त्वत्पार्श्वमागता सती तव मुग्धं सुन्दरं स्मितं यस्मिन् । मुग्धः सुन्दरमूढयोरिति विश्वः । मुदिते प्रसन्ने वीक्षणे यस्य तद्वक्त्रं ददृशे दृष्टवत्यस्मि ॥ इदानीमपि कला अव्यक्तमधुरा गिरो न ृणोमि । ध्वनौ तु मधुरास्फुट इत्यमरः । तर्हि किमपुनरन्वयं पुनरागमनं यथा न भवति तथाऽन्यलोकं गतोऽसि । कीदृशोऽघृणेन यमेन नीतः सन् ॥ ५६,५७ ॥

श्रीशुक उवाच–

विलपन्त्यां मृतं पुत्रमिति चित्रविलापनैः ।

चित्रकेतुर्भृशं तप्तो मुक्तकण्ठो रुरोद ह ॥ ५८ ॥

पदरत्नावली

इयमेकैव विलपन्त्यभून् नान्य इत्यतः पूर्वोक्तविलापं स्पष्टयति– बिलपन्त्यामिति

॥ ५८ ॥

सत्यधर्म

मृतं पुत्रमुद्दिश्य ॥ ५८ ॥

तयोर्विलपतोः सर्वे दम्पत्योस्तदनुव्रताः ।

रुरुदुः स्म नरा नार्यः सर्वमासीदचेतनम् ॥ ५९ ॥

पदरत्नावली

अचेतनं बुद्धिशून्यम् । अश्मवत् प्रवृत्तिशून्यं पुरं वा ॥ ५९ ॥

सत्यधर्म

तयोर्दम्पत्योः । जाया च पतिश्चेति दम्पती राजदन्तादिः । दम्भावो जम्भावश्च निपात्यत इति प्रौढवादः । दं कलत्रं च दाने चेति विश्वात् । दं कलत्रे नपुंसकमिति चामरमालायाः । पत्न््नयां जंदमलिङ्गत्व इति नामप्रपञ्चाच्च स्वातन्त्र्येण जंदंशब्दयोरेव भार्यावाचकतायाः । जं च पतिश्च दं च पतिश्च जम्पती दम्पती इति रूपनिरूपणसौलालित्यान्निपातपक्षपातस्यागतिकगतित्वादिति नैघण्टिकाः । जायापती । सर्वमिति समस्तं चेतनमचेतनं तत्प्रायमासीत् ॥ ५९ ॥

चट्टी

अचेतनं बुद्धिशून्यम् ॥ ५९ ॥

एवं कश्मलमापन्नं नष्टसंज्ञमनायकम् ।

ज्ञात्वाऽङ्गिरो नाम मुनिराजगाम सनारदः ॥ ६० ॥

॥ इति श्रीमद्भागवते षष्ठस्कन्धे चतुर्दशोऽध्यायः ।

पदरत्नावली

अनायकं बोधकरहितम् । अस्मिन्नवसरे सुहृदोऽङ्गिंरस आगतिं वक्ति– ज्ञात्वेति ॥ अनेन ऋषिस्त्रिकालदर्शीति स्पष्टितम् ॥ ६० ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

षष्ठस्कन्धे चतुर्दशोऽध्यायः ॥ ६–१४ ॥

सत्यधर्म

कश्मलं कुटिकशिकौंतिभ्यः प्रत्ययस्य मुट् चेति कलप्रत्ययः प्रत्ययस्य मुडागमश्च । अनायकं राजभिन्नमिव विद्यमानमितरदनायकं वक्तृश्रोतृरहितत्वात् । महर्षिरित्यनेन स्वयं ज्ञात्वैवाज-गामेति ध्वन्यते ॥ ६० ॥

॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मकृतायां षष्ठस्कन्धे चतुर्दशोऽध्यायः ॥ ६–१४ ॥

चट्टी

अनायकं बोधकरहितम् ॥ ६० ॥

॥ इति श्रीभागवतटिप्पण्यां चट्टीव्याख्यायां षष्ठस्कन्धे चतुर्दशोऽध्यायः ॥ ६–१४ ॥