वृत्रे हते त्रयो लोका विना शक्रेण भूरिद
॥ अथ त्रयोदशोऽध्यायः ॥
श्रीशुक उवाच—
वृत्रे हते त्रयो लोका विना शक्रेण भूरिद ।
सपाला ह्यभवन् सद्यो विज्वरा निर्वृतेन्द्रियाः ॥ १ ॥
पदरत्नावली
अश्वमेधादिकर्म ज्ञानप्रतिबन्धकदुष्कर्मपरिहारत्वेन तत्साधनमित्येतदस्मिन्नध्याये प्रतिपाद्यते । भूरिद बहुप्रद । स्वर्णप्रदेति वा । ‘भूरि स्वर्णं हिरण्यञ्च पुरटं निष्कहेमनि’ इत्यभि-धानाद्धिरण्यादिद्रव्यप्रद ॥ १ ॥
सत्यधर्म
सत्कर्मैवासत्कर्मभेदकमिति बोधयत्यस्मिन्नध्याये । तत्रादौ भूप्रभोर्बुभुत्सातिशय-सम्पत्तये किञ्चित्संशयसाधनमङ्कुरयति शुकः । हे भूरिद बहुप्रद ‘‘भूरि स्वर्णं हिरण्यं च पुरटं निष्कहेमनि’’ इत्यभिधानात् सुवर्णप्रदेति वा ॥ १ ॥
चट्टी
क्षपयेन्महदप्यंहो हरिभक्तैः कृता क्रिया । अश्वमेधो यथेन्द्रस्येत्यध्यायेऽस्मिन्निरूप्यते । हे भूरिदार्थिनां बहुप्रद । निर्वृतेन्द्रियाः स्वच्छचित्ताः ॥ १ ॥
देवर्षिपितृभूतानि दैत्यदेवानुगाश्च ये ।
प्रतिजग्मुः स्वधिष्ण्यानि ब्रह्मेशेन्द्रादयस्ततः ॥ २ ॥
पदरत्नावली
ततः समुद्रतीरात् ॥ १ ॥
सत्यधर्म
ब्रह्मेशावपि द्रष्टुमायातानित्यनुवादाज्ज्ञायते । ततः समुद्रतीरात् ॥ २ ॥
चट्टी
ततः समुद्रतीरात् ॥ २ ॥
राजोवाच—
इन्द्रस्यानिर्वृतेर्हेतुं श्रोतुमिच्छामि भो मुने ।
येनासन् सुखिनो देवा हरेर्दुःखं कुतोऽभवत् ॥ ३ ॥
पदरत्नावली
हरेरिन्द्रस्य ‘अर्कमर्कटमण्डूकविष्णुवासववायवः । तुरङ्गसिंहशीतांशुयमाश्च हरयो दश ॥’ इत्यभिधानात् ॥ ३ ॥
सत्यधर्म
यदर्थमियानत्यर्थमर्थनादिव्यापारो व्यापादितेऽस्मिन्कुतो विपत्तिराकस्मिकी वासवस्येति शङ्कते ॥ इन्द्रस्येति । अनिर्वृतेर्दुःखस्य । येन वृत्रवधेन । इन्द्रस्यानिर्वृतेर्हेतुमित्यनेन शङ्कापर्यवसानेऽपि यत्पुनर्हरेर्दुःखं कुतोऽभवदिति वचनं चित्रतापारवश्येन स्मरणाभावादिति ज्ञेयम् । अथवेन्द्रस्य दुःखं कुतोऽभवदिति श्रोतुमिच्छामीत्यन्वयः । अनिर्वृतेरेतच्छङ्काप्रयुक्तचित्तकातर्यस्य हेतुं बुद्धिमान्द्यं हरेरप-हरेरेव तच्छक्त इति न शङ्कनमिति भावः । अतो नेन्द्रहर्यन्यतरातिरेकः ॥ ३ ॥
चट्टी
येनेन्द्रेण तस्य हरेरिन्द्रस्य । ‘‘अर्कमर्कटमण्डूकविष्णुवासववायवः । तुरङ्गसिंहशीतांशुय-माश्च हरयो दश’’ ॥ इत्यभिधानम् ॥ ३ ॥
श्रीशुक उवाच—
वृत्रविक्रमसंविग्नाः सर्वे देवाः सहर्षिभिः ।
तद्वधायार्थयन्निन्द्रं नैच्छद् भीतो बृहद्वधात् ॥ ४ ॥
पदरत्नावली
अर्थयन्नित्युभयपदी । अर्थप्रातिपदिकात् कृदन्तात् ‘तत्करोति’ इति णिचि कृते रूपं साधु । ‘अर्थः स्याद् विषये मोक्षे शब्दवाच्ये प्रयोजने । व्यवहारे धने’ इति यादवः । बृहद्वधाद् ब्राह्मणवधात् ॥ ४ ॥
सत्यधर्म
तद्वधाय आर्थयन्निति छेदः । प्रार्थयामासुः । बृहद्वधाद् ब्रह्महत्याया एतदार्यविश्व-रूपाचार्यवधाद्भीत इति नैच्छदिति वा ॥ ४ ॥
चट्टी
दुःखहेतुं वक्तुं प्रस्तावकथामाह ॥ वृत्रविक्रमेत्यादिना । अर्थयन् प्रार्थयन् । ब्राह्मणवधाद् भीतः सन्नैच्छत् । हन्तुमिति शेषः ॥ ४ ॥
इन्द्र उवाच—
भूस्त्रीजलद्रुमैरेनो विश्वरूपवधोद्भवम् ।
विभक्तमनुगृह्णद्भिर्वृत्रहत्यां क्व मार्ज्म्यहम् ॥ ५ ॥
पदरत्नावली
एनो ब्रह्महत्यापापम् । मार्ज्मि संशोध्य परिहरामि ॥ ५ ॥
सत्यधर्म
स्पष्टमाचष्टे ॥ भूस्त्रीति । अनुगृह्णद्भिरेनः पापं भ्वादिभिर्विभक्तं विभज्य गृहीतम् । वृत्रहत्यां क्वाहं मार्ज्मि शोधयामि । पदपङ्केरुहं पङ्के प्रस्थाप्य पुनः प्रक्षालनापेक्षया दूरतो वरं परिसरणमिव वृत्रं हत्वा कृत्वेतरवरणं ब्रह्महत्याविभजनापेक्षया वरमुपेक्षणमितीन्द्रभावोऽवसेयः ॥ ५ ॥
चट्टी
ननु विश्वरूपं हतवतो तव वृत्रहनने का भीतिरित्यत आह ॥ भूरिति । अनुगृह्णद्भि-र्मय्यनुग्रहं कुर्वद्भिः स्त्र्यादिभिः । विश्वरूपवधोद्भवमेनः पापं विभक्तं विभज्य गृहीतं वृत्रहत्यां क्व मार्ज्मि शोधयामि । सोऽब्रवीदिति शेषः ॥ ५ ॥
श्रीशुक उवाच—
ऋषयस्तदुपाकर्ण्य महेन्द्रमिदमब्रुवन् ।
मार्जयिष्याम भद्रं ते हयमेधेन मा स्म भैः ॥ ६ ॥
पदरत्नावली
मा स्म भैर् मा कार्षीः स्म ॥ ६ ॥
सत्यधर्म
स्म निन्दनेन । स्म पादपूरणेऽतीते सामनिन्दार्थयोर्मतमिति विश्वः । मा भैर्भयं मा कार्षीः ॥ ६ ॥
चट्टी
मा स्म भैर्भयं मा कार्षीः स्म ॥ ६ ॥
हयमेधेन पुरुषं परमात्मानमीश्वरम् ।
इष्ट्वा नारायणं देवं मोक्ष्यसेऽपि जगद्वधात् ॥ ७ ॥
सत्यधर्म
जगद्वधादपि मोक्ष्यसे किमु तदन्तर्गतदुर्भगवृत्रमात्रहत्याया इति भावः ॥ ७ ॥
ब्रह्महा पितृहा गोघ्नो मातृहाऽऽचार्यहाऽघवान् ।
श्वादः पुल्कसको वाऽपि शुध्द्येरन् यस्य कीर्तनात् ॥ ८ ॥
पदरत्नावली
यन्नामसङ्कीर्तनादेते शुद्धा भवन्ति किं वक्तव्यं तद्यजनेनेति भावेनाह– ब्रह्मेति
॥ ८ ॥
सत्यधर्म
यन्नामस्मरणादेवैतादृशा अपि पापतः पूता भवन्ति किं वक्तव्यं तद्यजनेनेति भावेनाहुरित्याह ॥ ब्रह्महेति । अघवानुक्तेतरदुरितवानेतदादिसर्वाघवानेक इति वा । यस्य हरेः ॥ ८ ॥
चट्टी
यस्य हरेर्नामसङ्कीर्तनादेव ते शुध्यन्ति किं पुनस्तद्यजनेनेति भावेनाहुः ॥ ब्रह्महेति । श्वादः श्वपचः । यस्येत्यस्य तमित्यनेनान्वयः । दृष्ट्वेति शेषः ॥ ८ ॥
तमश्वमेधेन महामखेन श्रद्धान्वितोऽस्माभिरनुष्ठितेन ।
हत्वाऽपि सब्रह्म चराचरं त्वं न लिप्यसे किं खलनिग्रहेण ॥ ९ ॥
पदरत्नावली
सब्रह्मेति चराचरात् पृथग् ग्रहणं ब्रह्महननस्य दोषाधिक्यसूचनाय ॥ ९ ॥
सत्यधर्म
तर्हि लघीयसि श्लाघितोपाये सति गरीयसो मां प्रति स वादे बोधनं कुत इत्यतस्तव तत्राधिकारः शतमन्यो इति स्वोक्तकारिताव्यवस्थित्यै पुनरुक्तमेव व्यक्तं वदन्ति । तमिति । अनुष्ठिते-नानुष्ठापितेन सब्रह्म भूतानि विष्णुर्भुवनानि विष्णुः सर्वं व्याप्य नारायणः स्थित इत्यादेर्ब्रह्मसन्निधान-स्थानं सचराचरं चेतनाचेतनं जगद्धत्वाऽपि न लिप्यसे लिप्तो न भवसि । खलनिग्रहेण न लिप्यस इति किं लिप्यमिति भावः ॥ ९ ॥
चट्टी
अनुष्ठितेन कारितेन । सब्रह्मेति ब्राह्मणजातेश्चरात्पृथग्ग्रहणं तद्वधस्य दोषाधिक्यज्ञापनार्थम्
॥ ९ ॥
श्रीशुक उवाच—
एवं सञ्चोदितो विप्रैर्मरुत्वानहनद् रिपुम् ।
ब्रह्महत्या हते तस्मिन्नाससाद वृषाकपिम् ॥ १० ॥
तात्पर्यम्
‘प्रारब्धकर्मणैवैषां क्लृप्तदुःखस्य सूचकम् । इदानीन्तनकर्म स्याद् व्रणहेतुर्यथा रणः । देवादीनां स्थितप्रज्ञभावान्नैवान्यथा भवेत् । प्रारब्धमपि तु क्वापि किञ्चिद्विघटितं भवेत्’ इति च ॥ १० ॥
पदरत्नावली
वृषाकपिरिन्द्रः । ‘वृषाकपिर्हरे शक्रे हरीतक्यां जनार्दने’ इत्यभिधानम् ॥ १० ॥
सत्यधर्म
ब्रह्महत्या हते तस्मिन्निति श्लोके तेजीयसां नैव दोषः । ‘‘तदधिगम उत्तरपूर्वाघयोर-श्लेषविनाशौ तद्व्यपदेशात्’’ इत्यादेरपरोक्षज्ञानिनः कथं व्यथा कथ्यत इत्यतः प्रमाणेनैवोपपत्तिमाह ॥ प्रारब्धेति । प्रारब्धकर्मणा भोक्तुमारब्धकर्मणैव यत्क्लृप्तं दुःखं तस्येदानीन्तनं ज्ञानानन्तरमनुष्ठीयमानं कर्म सूचकं, न तु नूतनदुःखकारकम् । तत्र निदर्शनमाह ॥ व्रणहेतुरिति । यथा रणो युद्धं व्रणहेतुरश्वत्थाम्नो ‘‘यावज्जीवव्रणहेतुस्तथा नान्यस्य । दुर्गन्धयुक्तो व्रणसञ्चिताङ्गः’’ इति श्रीमदुक्तेः । सामान्यरणः सामान्यव्रण इति वदन्त्यपि । किं कृतो विशेष इत्यत आह ॥ देवादीनामिति । स्थितप्रज्ञभावात्तत्त्वात् स्थिता प्रज्ञा ज्ञानं यस्येति गीताभाष्योक्तेः । अन्यथा नूतनखेदोत्पादि नैव भवेत् । तर्ह्यहल्याभिहित-प्रायश्चित्तोक्तिरयुक्तेत्यत आह ॥ प्रारब्धमिति । किञ्चिद्विघटितं भवेदिति । विघटनं च फलह्रासेन न तु कर्मनाशेनेति । उपमर्दं च । ‘‘प्राप्तस्याप्यनिवृत्तस्य किञ्चिद्भुक्तस्य संविदा । उपमर्द इह प्रोक्तश्चतुर्थेऽलेप इष्यते’’ ॥ इत्यानुव्याख्यानिकसुधायाम् । क्लृप्तस्य हानिर्न ह्यनुवर्तत इत्यारभ्य तथा च ज्ञानाग्निः सर्वकर्माणीति सर्वशब्दोऽप्यपीडितः स्यादित्यन्तेनात्यन्तविस्तृत्योक्तमनुसन्धेयम् । अथ मूलार्थः ॥ अश्वमेधादिभिस्तदुपरोधो यदि तदा न व्यासेधामोऽनुज्ञया वर्तामह इति महेन्द्र इदं व्यतनोदित्याह ॥ एवमिति । मरुत्वान्मरुतोऽस्य सन्तीति मरुत्वान् । तसौ मत्वर्थ इति भत्वाज्जश्त्वाभावः । ज्ञ इति मतुपो वत्वम् । मघवानहनदहन् । ‘‘वृषाकपिमिन्द्रं वृषाकपिर्हरे शक्रे हरीतक्यां जनार्दने’’ इत्यभिधानात् । यथा वृषाकपिं रुद्रं ब्रह्महत्याऽऽससाद एवं वा । हरविष्णू वृषाकपीत्यमरः । ‘‘वृषाकपिः शिवे कृष्ण’’ इति विश्वः । ‘‘ब्रह्महत्यानिमित्तेन कपाल्यास्तेऽधुना हर’’ इत्यादेः ॥ १० ॥
चट्टी
रिपुं वृत्रम् । तस्मिन्वृत्रे । वृषाकपिमिन्द्रम् । ‘‘वृषाकपिर्हरौ शक्रे हरीतक्यां जनार्दने’’ इत्यभिधानात् ॥ १० ॥
तयेन्द्रं स्म ह सन्तप्तं निर्वृतिर्नामुमाविशत् ।
ह्रीमतां वाच्यतां प्राप्तं१ सुखयन्त्यपि नो गुणाः ॥ ११ ॥
पदरत्नावली
स्म हेत्येतौ ब्रह्मवधस्य लोके जुगुप्सितत्वेन स्मृतावपि नात्र तथेतीममर्थं सूचयतः । सर्वस्य सुखस्य हेतुत्वात् । तर्हि किमर्थमस्य निर्वृत्तिर्नाभूत् सुखहेतूनां शौर्यादिगुणानामुन्मीलितत्वा-च्छत्रुहननेनेति तत्राह– ह्रीमन्तमिति ॥ यद्यपि शत्रुवधसूचकशौर्यादिगुणाः सुखहेतवः । तथाऽपि ते ब्रह्महत्यया तप्तं नो सुखयन्ति । कुतः ? लज्जाकरत्वात् । किञ्च इन्द्रादिदेवानां तदानीन्तनं कर्म प्रारब्धकर्मणा प्राप्तदुःखस्य सूचकं न त्वन्येषाम् । स्थितप्रज्ञत्वेन क्वापि प्रारब्धमपि फलदातृ न भवेत् । ‘प्रारब्धकर्मणैवेषां क्लृप्तदुःखस्य सूचकम् । तदानीन्तनकर्म स्याद् व्रणहेतुर्यथा रणः । देवादीनां स्थितप्रज्ञभावान्नैवान्यथा भवेत् । प्रारब्धमपि तु क्वापि किञ्चिद् विघटितं भवेत् ॥’ इति ॥ ११ ॥
सत्यधर्म
तया वृत्रहत्यया । स्महेति रात्रिदृष्टगर्ते दिवावपात । नीतिवदेकदाऽनुभूतेऽपि पुनः प्रवृत्तिर्मम किं भगवन्महिमेत्याश्चर्यं सूचयति । अमुमिन्दं सर्वापकारि मारणे तदुपकारपुण्यं श्रूरता ख्यातिश्चेत्येवमादिगुणानामसङ्ख्यानां सत्त्वात्किं दौर्मनस्यं सुमनोनायकस्येत्यतो न कस्यारप्येकस्यैतादृशे कृते कर्मणि शर्मेति सामान्यमुखेनाङ्खयति ॥ ह्रीमतामिति । लज्जावतां वाच्यतां निन्द्यतां प्राप्तं जनं गुणाः शौर्यादयश्च नापि सुखयन्ति ॥ ११ ॥
चट्टी
तया ब्रह्महत्यया । नात्र तेजस्विन इन्द्रस्य हत्यालेपस्तस्याः श्रेष्ठापराधत्वाभावात् । किन्तु प्रारब्धसूचकत्वमेवेतीममर्थं प्रसिद्धिवाचकेन स्म हेति निपातसमुदायेन सूचयति ॥ तथा चोक्तम् । प्रारब्धकर्मणैवैषां क्लृप्तदुःखस्य सूचकमित्यादि । ननु धैर्यादिगुणयुक्तस्य कुतो न निवृत्तिरित्यत आह ॥ ह्रीमन्तमिति । लोकनिन्दयेति शेषः ॥ ११ ॥
तां ददर्शानुधावन्तीं चण्डालीमिव रूपिणीम् ।
जरया वेपमानाङ्गीं यक्ष्मग्रस्तामसृक्पटाम् ॥ १२ ॥
पदरत्नावली
असृक्पटां रक्तरञ्जितपटां रजस्वलामिव ॥ १२ ॥
सत्यधर्म
असृक्पटां मनःशिलादिरक्तिमवस्त्रां जरया वेपमानाङ्गीम् । यक्ष्मग्रस्तामित्युक्ति-रेतत्पात्रमेव कर्तुमिति रजस्वलामिव ज्ञेयम् ॥ १२ ॥
चट्टी
रूपिणीं मूर्तिमतीं यक्ष्मग्रस्ताम् । असृक्पटां रक्तरंजितवस्त्रां रजस्वलामिव ॥ १२ ॥
विकीर्य पलितान् केशांस्तिष्ठ तिष्ठेति भाषिणीम् ।
मीनगन्ध्यसुगन्धेन कुर्वतीं मार्गदूषणम् ॥ १३ ॥
पदरत्नावली
मीनगन्धिनः क्षीणमीनधारिणो चण्डाला दाशादयो वा, तेषां यो दुर्गन्ध-स्तादृशेनासुगन्धेनासुरभिणा ॥ १३ ॥
सत्यधर्म
मीनानां गन्धो गन्धनं हिंसा यत्र तत्स्थानं मीनगन्धि तद्वदसुगन्धेन दुर्गन्धेन मार्गदूषणम् । अध्वनीनामसह्यतया मीनस्येव गन्धो येषाम् । उपमानाच्चेतीत्वम् । ते मीनगन्धयस्ते च ते असवः श्वासवायवस्तेषां गन्धेन असुरभिणा इति वा ॥ १३ ॥
चट्टी
मीनस्य गन्धो यस्य स मीनगन्धी । स चासावसुश्च निःश्वासवायुस्तस्य गन्धेन ॥ १३ ॥
नभोगतो दिशः सर्वाः सहस्राक्षो विशाम्पते ।
प्रागुदीचीं दिशं दृष्ट्वा प्रविष्टो नृप मानसम् ॥ १४ ॥
पदरत्नावली
ततः सहस्राक्षस्तां परिहर्तुं सर्वा दिशो गत्वा विहायसा नभोगतः समर्थयेक्षया प्रागुदीचीं दिशं दृष्ट्वा तां प्रविष्टो मानसं नाम सरः प्रापेत्यन्वयः ॥ १४ ॥
सत्यधर्म
गत इति सर्वान्वयि । प्रागुदीचीमान्तरालिकीं दिशं दृष्ट्वा तां प्रविष्टो मानसं सरः प्रविष्टः । मानसशब्देन मानसं प्रविष्टः कुत्र गमने न त्रासो मम भवेदिति मनसाऽऽलोच्येत्यपि सूच्यते । मोक्षधर्मे नलिनीं प्रतिपेद इत्यारभ्यैवमिन्द्रो ब्रह्मतेजःप्रभावोपबृंहितं शत्रुवधं कृत्वा स्वं स्थानं प्राप्त इत्यन्तेन विस्तृत्योक्तमनुसन्धेयम् ॥ १४ ॥
चट्टी
प्रागुदीचीमैशानीं मानसं नाम सरः ॥ १४ ॥
स आवसत् पुष्करनालतन्तुमलब्धभो(भा)गो यदिहाग्निदूतः ।
वर्षाणि साहस्रमलक्षितोऽन्तः सञ्चिन्तयन् ब्रह्मवधाद् विमोक्षम् ॥ १५ ॥
पदरत्नावली
तन्तूनावसद् इति ‘उपान्वध्याङ्वसः’ इति सप्तप्यर्थे द्वितीया । अग्निर्दूतो यस्य सोऽग्निदूतः ॥ १५ ॥
सत्यधर्म
पुष्करनालतन्तुमावसत् । मातरपितरौ तदागाराविति तत्र वासो वासवस्याभिमतः । यत्र पद्मवनानि च तत्र सन्निहितो हरिः । लक्ष्मीः पद्मालया पद्मेत्यादेः । उपान्वध्याङ्वस इति कर्मसंज्ञायां तन्तुमिति द्वितीया । अलब्धभोगोऽप्राप्तस्वापादिसुखः । अग्निदूतमग्निर्दूतो भृत्यो यस्य स तथा । बृहस्पतिप्रार्थनानन्तरमिन्द्रं विचिन्वतोऽग्नेर्दूतत्वं ज्ञेयम् । यथोक्तमुद्योगपर्वणि– ‘‘हुत्वाग्निं सोऽब्रवीद्राजन्’’ इत्यारभ्य ‘‘अणुमात्रेण वपुषा पद्मतन्त्वाश्रितं प्रभुम् । तथैव त्वां महाभोगे’’ इत्यारभ्य ‘‘अथ मामस्पृशन्मूधर्ि्न पादेनेत्याद्यन्तरीकृत्य ‘‘ध्वंसपापपरिभ्रष्टः क्षीणपुण्यो महीतले । दशवर्षसहस्राणि सर्परूपधरो महान् । विचरिब्यसि पूर्णेषु पुनः सर्वमवाप्स्यसि’’ ॥ इत्यन्तेनागम्योक्त्यनुवादरूपेण । साहस्रं सहस्रमपि साहस्रमिति द्विरूपकोशः । सहस्रवर्षाण्यलक्षितोऽज्ञातोऽन्तर्मनसि ब्रह्मवधात्तदाया-तपातकतोऽप्राप्तहविरादिभोगः । भाग इति पाठेऽप्यसौ सौभगवहः ॥ १५ ॥
चट्टी
स इन्द्रः । सहस्रवर्षाणि पुष्करनालस्य पद्मनालस्य तन्तुष्ववसत् । उपान्वध्याङ्वस इति तन्तूनां कर्मत्वम् । कथम्भूतः । अलब्धो भागो येन सः । कुतः । यद्यस्मादिह जले वसन् । अग्निदूतश्च स्वयमग्निश्च स्वदत्तस्य हविर्भागनेतुर्जले प्रवेशाभावात् । न लब्धभोग इत्यर्थः । पाठान्तरे न लब्धो यज्ञभोगो येन सः । अद्भिर्देवैरलक्षितोऽज्ञातः । देवानामप्शब्दवाच्यत्वं च आप इत्येव देवानां सर्वेषां प्रददौ हरिः । स्वकीयमेवमन्यानि पृथक् पृथगदात्प्रभुरिति प्रमाणसिद्धम् । अद्भिरावृतत्वादलक्षित इति वा । ब्रह्मवधात्तज्जन्यात्पापाद्विमोक्षं विमोक्षोपायम् ॥ १५ ॥
तावत् त्रिणाकं१ नहुषः शशास विद्यातपोयोगबलानुभावः ।
स सम्पदैश्वर्यमदान्धबुद्धिर्नीतस्तिरश्चां गतिमिन्द्रपत्न््नया ॥ १६ ॥
पदरत्नावली
यावदिन्द्रः सरसि पुष्करनालतन्तुष्ववसत् तावन्नहुषस्त्रिणाकं स्वर्गं, भूम्यन्तरिक्ष-स्वर्गस्थानं वा, शशासेत्यन्वयः । अत एव त्रैलोक्यपालनलब्धसर्वैश्वर्यभोगरहितः ब्रह्मवधादुत्पन्नदोष-मोक्षम् । तावच्च नाकमिति केचित् पठन्ति । अत्र चशब्द एवार्थे, नहुष इत्यनेन सम्बध्द्यते । अन्ययोगव्यवच्छेदार्थः । तिरश्चां गतिम् अजागरीं स्थितिम् ॥ १६ ॥
सत्यधर्म
किममरराज्यमराजकं जातं किञ्च देवेष्वेवैकः कोऽपि जात उतान्यः कोऽप्यवन्यधीश इत्यत आह ॥ तावदिति । त्रिनाकं तृतीयो नाको न विद्यतेऽकं दुःखं यस्मिन्स पुण्यलोकः स्वर्ग इति यावत् । त्रिशब्दस्य तृतीयार्थता तु त्रिदशपदव्याख्यायां भानुदीक्षितेन तृतीया यौवनाख्या दशा सदा येषां ते त्रिदशाः । तृतीयार्थता त्रिशब्दस्येत्युक्तम् । तत्त्वसुबोधिन्यां त्रिभाग इतिवत्त्रिशब्दस्य तृतीयार्थकतेत्युक्तेः । तावच्च नाकमिति पाठोऽतिसरलः । आयुकायजो नहुषस् तावद्वासवागमनावधि । ननु मनुजतनुजस्य कथं नाकनायकतेत्यतस्तदनुगुणगुणवत्त्वादस्येत्याह ॥ विद्येति । विद्या च तपश्च योगबलं च तैरनुभावः सामर्थ्यं यस्य स तथा । सम्पत्सौभाग्यमैश्वर्यस्वामित्वमेताभ्यां जातो यो मदोऽहङ्कारस्तेनान्धा समीचीनासमीचीनरूपिणी बुद्धिर्यस्य स तथा । तत्फलं लपति ॥ नीत इति । तिरश्चां तिर्यग्जन्तूनां गतिं स्थितिमाजगरीमिन्द्रपत्न््नया शच्या तत्कामनयेति यावत् । नीतोऽगस्त्यमुखात्
॥ १६ ॥
चट्टी
त्रिनाकं न अकं दुःखं यस्मिन्निति नाकः पुण्यलोको भूलोकापेक्षया तृतीयं स्वर्गलोकम् । त्रिदिवशब्दवदयं शब्दो ज्ञातव्यः । यद्वा । त्रिशब्दवाच्यैर्देवैरधिष्ठितम् । नाकं स्वर्गम् ॥ तदुक्तम्– ‘‘आदित्या वसवो रुद्रास्त्रिविधा हि सुरा यतः । मरुतश्चैव विश्वे च साध्याश्चैव तु तद्गताः । अतस्त्रय इति प्रोक्ताश्चत्वारो मानुषाः स्मृताः’’ ॥ इति स्कान्दे । यद्वा । त्रिनाकं लोकत्रयम् । त्रिशब्दस्थाने चशब्दं केचित्पठन्ति । स चावधारणार्थस्तावदित्यनेन सम्बध्यते । तावदेवेन्द्रागमनपर्यन्तमेव शशास न सर्वकालमित्यर्थः । यद्वा । नहुष एव शशास न देवाः । तेषां तादृशव्रतसद्भावादित्यर्थः ॥ तथा चोक्तम् ॥ नान्यस्य पदमिच्छन्ति तद्देवानां व्रतम्परम् । तस्मात्तं नहुषं शक्रपदे निदधुरीश्वराः’’ इति । ननु मनुष्यस्य कुतः स्वर्गराज्यमित्यत आह ॥ विद्येति । विद्यादिभिरनुभावः स्वर्गपालनसामर्थ्यं यस्य सः । तर्हि तस्मिन्सति कथमिन्द्रस्य पुनः स्वर्गप्राप्तिरित्यत आह ॥ स इति । स नहुषः संपदैश्वर्याभ्यां यो मदस्तेनांधबुद्धिर्यस्य सः । इन्द्रपत्न््नया च शच्या तिरश्चां गतिं सर्पयोनिं नीत उपायेन प्रापितः । ‘‘अत्रेयमनुसन्धेया कथा पौराणिकी बुधैः । कदाचिन्नहुषः प्राह शचीमैश्वर्यगर्वितः ॥ इन्द्रं मां भज कल्याणीत्यथ शच्याऽतिभीतया । समावेदितवृत्तान्तो बृहस्पतिरुवाच तम् ॥ शिबिकां ब्राह्मणै-र्वाह्यामारुह्य त्वां समागतम् । भजिष्यामीति तं ब्रूहि ततोऽसौ कुपितैर्द्विजैः । शप्तः पतिष्यति क्षिप्रमित्युक्ता सा ययौ नृपम् । तयोक्तं नहुषः श्रुत्वा प्रतिजग्राह सादरम् । वाहयामास शिबिकामगस्त्यादीन्महामुनीन् । तदा क्षिप्रं सर्प सर्पेत्यगस्त्यं स्वपदाहनत् । सर्पो भवेति तं शप्तो मुनिना नहुषः क्षणात् । पापात्माऽजगरो भूत्वा जनानां पश्यतामिति’’ ॥ १६ ॥
ततो गतो ब्रह्मगिरोपहूत ऋतम्भरध्याननिवारितांहः ।
पापस्तु दिग्देवतया हतौजास्तं नाभ्यभूदवितं विष्णुपद्या ॥ १७ ॥
पदरत्नावली
‘उपहूत ऋतम्भर’ इति पाठः । ब्रह्मगिरा विरिञ्चिवाक्येनोपहूतः बृहस्पतिवाक्येन वा । अग्न्याख्यदूतमुखेनेत्यर्थः । ततः मानससरस ऋतम्भरस्य सत्यपालकस्य नृसिंहस्य ध्यानेन निवारित मंहो येन स तथा । सर्वगतः श्रीनारायण इति प्रह्लादोक्तवचनं सत्यं कर्तुं स्तम्भादाविरभूदिति यदतो हरिर् ऋतम्भर इति देवादिभिरुपहूतत्वाद्धरेस्तन्नाम । नन्विदानीमृतम्भरध्यानेन निरस्ताघश्चेत् पूर्वं तेनाभिभूत इन्द्रः किम् ? तत्राह– पापश्चेति ॥ पापो ब्रह्महत्यालक्षणो जीवश्च तमिन्द्रं नाभ्यभूदभिभूतं नाकारोदित्यन्वयः । अत्र हेतुगर्भविशेषणमाह– दिग्देवतयेति ॥ इन्द्रहितकारिण्या दिग्देवतया हतमोजो बलं यस्य इन्द्रमन्विष्य सर्वदिक्षु भ्रमतः स तथा । कस्मात् ? गङ्गाजलपरिप्लुतमानससरसि प्रविष्टत्वेन विष्णुपद्याऽवितं रक्षितं तस्माच्चेति ॥ १७ ॥
सत्यधर्म
ब्रह्मगिरा बृहस्पतिवचनेन । ‘‘ब्रह्माऽपि तन्न जानाति’’ इति व्याख्यावसरे ब्रह्मा बृहस्पतिरिति गीताभाष्योक्तेः । चतुर्मुखवचनेन वा । यथोक्तं मोक्षधर्मे । पितामहमुपागम्य शिरसा प्रत्यपूजयन् । मुच्यतां त्रिदशेन्द्रोऽसौ मत्प्रियं कुरु भा(मा)मिनीत्यादि । तदप्यग्निमुखेनेति ज्ञेयम् । ततो मानससरोवराद् ऋतम्भर ऋतं सत्यं ज्ञानं वा बिभर्तीति स तथा विश्वम्भर इतिवदृतम्भर इति भागवती संज्ञा । ततश्च संज्ञायां भतॄयुजीति खच् अरुर्द्विषेति मुम् । तस्य भगवतो ध्यानेन निवारितमंहो यस्य स तथा । उप हूत आकारितो गतः स्वर्गं प्राप्तः । पूर्वमपि ऋतम्भरध्याने रत एव तस्य तदभिभव तदा कुत इदानीं नाभूद् इत्यत आह ॥ पापस्तु दिग्देवतयेति । दिग्देवतया रमारूपिण्या । दिशां वत्सं वेदेति छान्दोग्यभाष्ये प्राचीदिक् संस्थितेत्यारभ्य दिङ्नामानश्चैते प्रोक्ता धर्मज्ञानातिदेशनादित्यन्तेनोक्तप्रकारेण दिक्शब्दवाच्यबाहुयुक्ता देवता विष्णुस्तेनेति वा । रूपान्तरात्पृथगुक्तिः । हतमोजो बिडौजसो बाधकं यस्य स पापो ब्रह्महत्या तदन्तर्गतश्च दुरात्मा विष्णुपद्या नाम मानससरोऽन्तर्निविष्टविष्णुपद्या गङ्गया च । अवितं रक्षितमिति तं नाभ्यभून् नाभ्यभवत् । ब्रह्मगिरा गतः । उपहूतऋतम्भर इत्यादिपदमेकम् । उपहूतो ऋतम्भर इत्युपहूतऋतम्भर ऋतंभर इत्याकारितो नृसिंह इत्यर्थः । ब्रह्मऋषिरितिवदृत्यक इति प्रकृतिभाव उपहूतऋतम्भर इति भवति । सत्यं विधातुं निजभृत्यभाषितमिति सप्तमोक्तेः । ऋतुम्भर इत्यपि प्रियङ्करपाठः । तृतीयोऽतिशय इत्युक्तेर्ऋत्वित्युक्तिः । अनन्याधीनत्वरूपमतिशयितमृतस्य द्योतयति । उग्र ऊर्ज ऋतुम्भरा इति तन्त्रसारोक्तेः । न च तत्र विनिगमकं किं तत्राप्येवं शक्यं पठितुमिति वाच्यम् । ऋतुम् ऋतुपलक्षितकालं बिभर्तीति ऋतुम्भर इति वेदव्यासश्रीमच्चरणविवरणादिति दीर्घायुर्भव ॥ १७ ॥
चट्टी
तत इन्द्रः स्वर्गं गतः प्राप्तः । कथंभूतः । ब्रह्मगिरा ब्राह्मणवाक्येनोपहूतः सन् । ऋतंभरध्याननिवारितांहः श्रीहरिः सर्वगत इति प्रल्हादोक्तवचनं सत्यं कर्तुं स्तंभादाविर्भूतत्वादृतम्भरः सत्यपालकः श्रीनृसिंहः । तस्य ध्यानेन निवारितमघं येन सः । उपमर्दितप्रारब्ध इत्यर्थः ॥ तथा चोक्तम् ॥ स्मरणात्तु नृसिंहस्य शक्रो मुक्तो बृहद्वधादिति । इन्द्रस्य प्रारब्धोपमर्द एव तदन्यस्याश्लेषात् । श्रेष्ठापराधान्नान्यदोषस्य लेपस्तेजीयसां निर्णयोऽयं हि शास्त्रमित्युक्तेरिति भावेनाह ॥ पापस्त्विति । पापो ब्रह्महत्याभिमानी पुरुषस्तमिन्द्रं नाभ्यभूत्तस्याभिभवं नाकरोत् । कुतः । दिग्देवतया प्रागुदीच्यां दिशि स्थितेन रुद्रेण तदन्तर्यामिणा श्रीनरसिंहेन च । विष्णुपद्या श्रीविष्णुपादावलंबिन्या महालक्ष्म्या मानससरे मिलितया गङ्गया चावितं रक्षितं सन्तमत एव पापपुरुषो हतौजा नष्टबलः ॥ १७ ॥
तं च ब्रह्मर्षयोऽभ्येत्य हयमेधेन भारत ।
यथावद् दीक्षयाञ्चक्रुः पुरुषाराधनेन हि ॥ १८ ॥
पदरत्नावली
ऋतम्भरध्यानादिनाऽभिभवाभावे तदभिभवः स्यात्, स्वरूपतो नाशाभावादिति तत्राह– तमिति ॥ भगवद्विषयेणाश्वमेधेन स्वरूपनाशश्च कथं स्यादित्यत उक्तम्– पुरुषेति ॥ अत्र पुरुषशब्देन विष्णुरुच्यते । ‘सहस्रशीर्षा पुरुषः’ इति श्रुतेः । हेत्यनेन श्रीहरिमाहात्म्यज्ञानपूर्वकं तत्करणाभावे न तत्फलं स्यादिति विपक्षे बाधकं सूचयति । ‘अहं हि सर्वयज्ञानां भोक्ता’ इति श्रुतेः
॥ १८ ॥
सत्यधर्म
हतौजा इत्येव व्याजहार । तेन न सामस्त्येनास्तः स इति पुनः कालान्तरेऽन्तरप्रेप्सुना सुनासीरमुपद्रुत्योपद्रवः क्रियत इत्यत आह ॥ तं चेति । ब्रह्मर्षयो मरीच्याद्याः पुरुषाराधनेन सह हयमेधेन दीक्षयांचक्रुः । दीक्षायां चक्रुरिति द्वे पदे । तथाऽपि तुङ्गभद्रेतिवत्संश्लिष्टे पठनीये । तं पातयां प्रथममासेत्यादयोऽपभ्रंशा इति नवीनवैय्याकरणाः । ‘‘मन्त्रतस्तन्त्रतश्छिद्रं देशकालार्हवस्तुतः । सर्वं करोति निश्छिद्रमनुसङ्कीर्तनं तव’’ ॥ इत्युक्तेः । पुरुषस्यैतस्य जगतो ह्यग्र आसीन्नारायणः पुरः । एक एव श्रिया सार्धं तमात्मा पुरुषेत्यपि । आहुस्तस्मात्’’ इति बृहद्भाष्योक्तेः । पुरुषो विष्णुस्तस्याराधनं तेन सह हेत्यने न ‘‘अ हि सर्वयज्ञानां भोक्ता’’ इत्यादिमानसिद्धत्वमर्थस्य द्योतयति ॥ १८ ॥
चट्टी
अधिकार्युत्तमस्य त्रिलोकरक्षणे भगवता नियुक्तस्येन्द्रस्य तत्कण्टकोद्धारेण पापलेपाभावेऽपि लोकसङ्ग्रहार्थं तत्प्रायश्चित्तत्वेनाश्वमेधानुष्ठानप्रकारमाह ॥ तमित्यादिना । ब्रह्मर्षयो ब्रह्मज्ञानसंपन्नाः । मुनयः । ब्रह्मपदस्य ऋषिपदेन संध्यभावो वा । तत्सद्भावेऽपि तत्सप्ताक्षरपादत्वं छान्दसम् । ‘‘न वा एकेनाक्षरेण छन्दांसि वियन्ति न द्वाभ्याम्’’ इति श्रुतेः । पुरुषस्य हरेराराधनं यस्मिन् ॥ १८ ॥
अथेज्यमाने पुरुषे सर्वदेवमयात्मनि१ ।
अश्वमेधे महेन्द्रेण वितते ब्रह्मवादिभिः ॥ १९ ॥
पदरत्नावली
यत एवं साङ्गो यज्ञोऽथ तस्मान्महानपि त्वाष्ट्रवधस्तेन यज्ञेन शून्याय नीत एव सर्वात्मना नष्टोऽभूत् । क्रियाया विशिष्टत्वादित्यन्वयः । कथं विशिष्टत्वम् इत्यतस्तात्पर्यादुक्तमेव विशिनष्टि– इज्यमानेति ॥ ब्रह्मवादिभिर्वितते विस्तृते अश्वमेधे यज्ञे इन्द्रेण सर्वभूतानां प्रधानश्चान्तर्यामी च सर्वभूतमयात्मा तस्मिन् यज्ञपुरुषे इज्यमाने ‘सर्वदेवमयात्मनि’ इति पाठे स एवार्थः ॥ १९ ॥
सत्यधर्म
सर्वदेवमयात्मनि सर्वदेवमयः सर्वदेवप्रधानश्चात्मान्तर्यामी चेति स तथा तस्मि-न्निज्यमाने ब्रह्मादिभिः कारयितृभिर्महेन्द्रेण विततेऽश्वमेधे ॥ १९ ॥
चट्टी
सर्वदेवानां प्रधानश्चान्तर्यामी च तस्मिन् । ‘‘मयं प्रधानमुद्दिष्टम्’’ इति वचनात् । सर्वभूतमयात्मनीति पाठेप्ययमेवार्थः । ब्रह्मवादिभिर्विततेऽनुष्ठितेऽश्वमेधे महेन्द्रेणेज्यमाने पुरुषे सति
॥ १९ ॥
स वै त्वाष्ट्रवधो भूयानपि पापः परन्तप ।
नीतस्तेनैव शून्याय नीहार इव भानुना ॥ २० ॥
पदरत्नावली
वा इत्यनेन ‘ज्ञानाग्निः सर्वकर्माणि’ इति वचनाद् भगवतो ज्ञानेन सर्वात्मना पापस्य नाशेऽश्वमेधेनेन्द्रस्य महत्वातिशयो भवतीति सूचयति ॥ २० ॥
सत्यधर्म
स वै त्वाष्ट्रवधो भूयान् पापस्तत्फललक्षणस्तेनैव मखेनैव पुरुषाराधनेनैव शून्याय नष्ट इति वाच्यत्वाय नीतः ॥ २० ॥
चट्टी
तेनैव पुरुषेणैव । शून्याय नीतो नाशित इत्यर्थः ॥ २० ॥
स वाजिमेधेन यथोदितेन वितायमानेन मरीचिमिश्रैः ।
दृष्ट्वाऽपि यज्ञं१ पुरुषं पुराणमिन्द्रो महानास विधूतपापः ॥ २१ ॥
पदरत्नावली
तत् कुतोऽवगम्य इत्यत्राह– स वाजीति ॥ मरीचिमिश्रैर्मरीचिमुख्यैः । ज्ञानविधूतपापोऽपि इष्ट्वा महानासेत्यर्थः ॥ २१ ॥
सत्यधर्म
अपरोक्षज्ञानिनां ‘‘ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन’’ इत्याद्युक्तेर्नावने सवनाद्युपयुक्तमित्यतः सत्यम् । तथाऽपि भाव्यानन्दोन्नाहादिव्यक्तित्वहेतुरिति तत्कर्तव्यताऽऽवश्यकीति वक्ति ॥ स इति । मरीचिमिश्रैस्तन्मिलितैरन्यैर्यज्ञं पुरुषं पुराणम् इष्ट्वेन्द्रो विधूतपापो महान् ज्ञानादिनाऽस । नैक एवेन्द्रः स्वार्थं ततान यज्ञादिकं किन्तु लोकोपकृत्यै इति मरीचिमिश्रैरित्युक्तम् । महान्तोऽनुष्ठितं तथैवानुष्ठापितवन्तश्चेति लोका इतरेऽध्वरे रता भवन्त्यतो लोकोपकारः सम्पादितो भवतीति भावः ॥ २१ ॥
चट्टी
मरीचिमिश्रैर्मरीचिमुख्यैः । अधियज्ञं सर्वयज्ञाभिमान्युत्कृष्टत्वप्रवर्तकत्वादेरधियज्ञशब्द-वाच्यम् । सर्वान्तर्यामिणम् । ‘‘प्राणिनां देहगो विष्णुरधियज्ञ इतीरितः’’ इति वचनात् । नात्राव्ययीभावः किंत्वधिगतो यज्ञमिति प्रादिसमासः । अधिष्ठितो यज्ञोऽनेनेति बहुव्रीहिर्वा । अतो न कश्चित्क्षुद्रोपद्रव इति बोध्यम् । इन्द्रो महानासेत्यनेन इन्द्रो वै वृत्रं हत्वा महानभवदित्यादि-श्रुतिरुक्तार्थसंवादिनीति सूचयति ॥ २१ ॥
इदं महाख्यानमशेषपाप्मनां प्रक्षालनं तीर्थपदानुकीर्तनम् ।
भक्त्युच्छ्रयं भक्तजनानुवर्णनं महेन्द्रमोक्षं विजयं मरुत्वतः ॥ २२ ॥
पदरत्नावली
नेदमिन्द्रेण स्वार्थतयाऽनुष्ठितम् । किन्तु लोकोपकारकत्वेन । यतोऽस्येन्द्रस्य पापमेकं नष्टम् । तच्चरितस्य श्रवणादिना (लोकस्य) सर्वाभीष्टानि सिध्द्यन्तीति तत् स्तौति– इदमिति ॥ तीर्थपदस्य हरेरनुकीर्तनं यस्मिंस्तत् तथा ॥ २२ ॥
सत्यधर्म
मखमुखाचरणाक्षमाणामप्येतन्मात्रेणालमिति विधत्ते ॥ इदमिति । अशेषपाप्मनां ब्रह्महत्यादिमहापापानां प्रक्षालनं मार्जकमिदं महाख्यानं तीर्थपदस्य भगवतोऽनुकीर्तनं स्मरणं यस्मिंस्तत् । भक्त्युच्छ्रयं भक्तेरुच्छ्रयो येन तत् । भक्तजनानामप्यनुवर्णनं यस्मिंस्तत् । महेन्द्रस्य मोक्षो ब्रह्महत्यातो यस्मिंस्तत् । तथा मरुत्वत इन्द्रस्य विजयं विशिष्टो जयो वृत्रजयो यस्मिंस्तन् महाख्यानं महद् आख्यानं ्रप्रसिद्धिर्यस्य तत् ॥ २२ ॥
चट्टी
पाठादि विधातुमाख्यानं स्तौति ॥ इदमिति । प्रक्षाल्यतेऽनेनेति प्रक्षालनम् । तीर्थपद-स्यानुकीर्तनं यस्मिन् । भक्तेरुच्छ्रयो यस्मिन् यस्माद्वा भक्तजनानामनुवर्णनं यस्मिन् । महेन्द्रस्य मोक्षः । मरुत्वत इन्द्रस्य विशेषेण जयः यस्मिन् ॥ २२ ॥
पठेयुराख्यानमिदं सदा बुधाः शृण्वन्त्यथो पर्वणि पर्वणीन्द्रियम् ।
धन्यं यशस्यं निखिलाघमोचनं रिपुञ्जयं स्वस्त्ययनं यथाऽऽयुषम् ॥ २३ ॥
॥ इति श्रीमद्भागवते षष्ठस्कन्धे त्रयोदशोऽध्यायः ॥
पदरत्नावली
इन्द्रियमिन्द्रियाणां शक्तिप्रदम् । इन्द्रसंबन्धि वा । किंविषयमाख्यानमित्यतो वेत्युक्तम् ॥ २३ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
षष्ठस्कन्धे त्रयोदशोऽध्यायः ॥ ६–१३ ॥
सत्यधर्म
इदमपेक्षितदम् इदमाख्यानं बुधाः सदा पठेयुश्च ये शृृण्वन्ति पर्वणि पर्वणि प्रतिपर्व । इन्द्रियं तत्पाटवदं धन्यं धनदं यशस्यं तत्प्रदं निखिलाघमोचनं समस्तपापमोचकं खिलं दुर्बलं न भवतीति निखिलं च तदघं तन्मोचकं वा । रिपुञ्जयं छान्दसः खश् । द्वितीयाया अलुग्वा । शत्रुजयदं स्वस्त्ययनं मङ्गलमोक्षाद्यायतनमायुषम् आ आयुषा नित्यायुर्मोक्षो यस्मात्तत् । आयुषं टाबन्तता हलन्तत्वात् ॥२३॥
॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मकृतायां षष्ठस्कन्धे त्रयोदशोऽध्यायः ॥ ६–१३ ॥
चट्टी
इन्द्रियं तत्पाटवकरम् । इन्द्रियसम्बन्धीति वा । आयुषमायुष्यम् । अनेनेन्द्रोपाख्यान-श्रोतॄणामपि सर्वानिष्टनिवृत्त्युक्तत्वान्महात्मन इन्द्रस्य न पापलेपोऽस्ति । किन्तु लोकसङ्ग्रहायैव प्रायश्चित्तानुष्ठानमित्येतद्दृढीकृतं वेदितव्यम् ॥ तथा चोक्तिः । ‘‘इन्द्रोऽप्यवाप स्वस्थानमिष्ट्वा विष्णुं विपापकः । धर्मवृध्यर्थमेवैतत्पापमासीच्छचीपतेः । न हि लोकावनं पापं त्रैलोकेशस्य वज्रिणः । वृत्रं हत्वा महानासेत्यादि वेदपदं च यत् । क्वचित्पापं च पुण्यानां वृद्धये भवति स्फुटम् । वृत्रं हत्वा यथेन्द्रस्य जना धर्माभिवृद्धये । देवानां वा मुनीनां वा भवेदेवं न वै नृणाम् । पापं यत्पुण्यमेतच्चासुराणां विलोमतः । एवं हि स्कान्दवचनं न पापं तच्छचीपतेः’’ ॥ इति ॥ २३ ॥
॥ इति श्रीभागवतटिप्पण्यां चट्टीव्याख्यायां षष्ठस्कन्धे त्रयोदशोऽध्यायः ॥ ६–१३ ॥