एवं जिहासुर्नृप देहमाजौ मृत्युं परं विजयं मन्यमानः
॥ अथ द्वादशोऽध्यायः ॥
ऋषिरुवाच—
एवं जिहासुर्नृप देहमाजौ मृत्युं परं विजयं मन्यमानः ।
शूलं प्रगृह्याऽभ्यपतत् सुरेन्द्रं यथा महापुरुषं कैटभोऽप्सु ॥ १ ॥
पदरत्नावली
वृत्रवासवसंवादच्छलेन हरेर् जीवेनाभेदज्ञानं तमस्साधनमित्येतन्निरूप्यतेऽस्मि-न्नध्याये । वृत्रवासवयोर्युद्धशेषं वक्ति– एवं जिहासुरिति ॥ विजयं विजयात्मकम् । परं मुख्यं मन्यमानः
॥ १ ॥
सत्यधर्म
वृत्रहावृत्रसंवादव्यपदेशेनेशस्य वासुदेवस्यानीशजीवाभेदबोधोऽन्धन्तमःसाधनमित्ये-तद्बोध्यतेऽस्मिन्नध्याये । तत्रादौ युद्धे सन्नद्धयोः किं सन्धिः किं वैकविजयः किं वोपरमः श्रमेणे-त्यतस्तच्छेषं भाषते ॥ ऋषिरिति । परं विजयं मन्यमानः पराभाव्यपरमव्यवस्थित्यपेक्षया मृत्युमेवात्युत्तमं विजयं जानन्परमरिं विजयं विशिष्टजभुयवन्तं वा । विना श्रीहरिणैव जयो यस्य स तं वा मन्यमान इति । भाविज्ञत्वान्निश्चयोक्तिः । अत एव महापुरुषं हरिमप्सु जले मरणकारणकर्मसु सत्स्विति कैटभोऽभ्यपतत्तथेति ग्रन्थकृन्निदर्शनमनुरूपं निरूपितवानिति ज्ञेयम् ॥ १ ॥
चट्टी
श्रीविजयादिकं मृत्युम् । वरं श्रेष्ठं महापुरुषं श्रीविष्णुम् । अप्सु प्रलयोदकेषु ॥ १ ॥
ततो युगान्ताग्निकठोरजिह्वमाविद्ध्य शूलं तरसाऽसुरेन्द्रः ।
क्षिप्त्वा महेन्द्राय विनद्य धीरो हतोऽसि पापेति रुषा जगाद ॥ २ ॥
सत्यधर्म
आविद्ध्य भ्रामयित्वा ॥ २ ॥
चट्टी
युगान्ताग्निवत्कठोरा जिह्वाः शिखा यस्य तत् । आविद्ध्य भ्रामयित्वा । विनद्य सिंहनादं कृत्वा ॥ २ ॥
ख आपतन्तं ज्वलितं महोल्कवन्निरीक्ष्य दुष्प्रेक्ष्यमजातविक्लवः ।
वज्रेण वज्री शतपर्वणाऽच्छिनद् भुजं च तस्योरगराजभोगम्१ ॥ ३ ॥
पदरत्नावली
भोगवद् भोगः पुष्टिर्यस्य स तथा तम् । ‘भोगः सुखे स्त्र्यादिभुक्तौ पीनसर्प-शरीरयोः’ इत्यभिधानात् । ‘भोगो विषयसेवायामहिवर्ष्मणि पालने । वर्तुले स्थूलतायाञ्च जन्म-न्यास्वादने तथा ॥’ इति वररुचिः ॥ ३ ॥
सत्यधर्म
खे आकाशे आपतन्तं शूलम् । शीलमूलेत्यारभ्य खलशूलाः पुंसि चेति लिङ्गानु-शासनोक्तेरापतन्तमित्युपपन्नम् । महोल्कवन् महत्य उल्का यस्य तत्तद्वह्निमिव । अतो ‘‘न उल्का स्यान्निर्गतज्वाले’’ इत्यमरे स्त्रीलिङ्गनिर्देशात्कथं महोल्कवदिति ज्ञेयम् । भुजं चाच्छिनत् । उरगराजस्य सरीसृपोत्तंसस्य भोगः शरीरं तद्वद्विद्यमानम् । यद्यपि भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययो-रित्यभिधानात्केवलं भोगपदमेव तदवगमकम् । तथाऽप्यत्र विशिष्टवाचकनयेन ‘‘स कीचकैर्मारुत-पूर्णरन्ध्रैः’’ इत्यादिवच्छरीरमात्रपरो ज्ञेयः । उरगराजस्य भोगः पीनतेव पीनता यस्य स तमिति वा । ‘‘भोगः पीनसर्पशरीरयोः । वर्तुलः स्थूलतायां च’’ इत्यादेः । उरगराजस्य शेषस्य भेव भा शुभ्रकान्ति-र्यस्य सः । यस्तेन वज्रेण । अगं, शैलवृक्षौ नगावगावित्यमरात्पर्वतमिवाच्छिनदिति वा । उरगराज-वद्भोगः पीन इति वा ॥ ३ ॥
चट्टी
वज्रीन्द्रः । खे आकाशे । आपंतन्तमागच्छन्तम् । ज्वलितमत एव महोल्कवद्दुष्प्रेक्ष्यम् । तच्छूलं निरीक्ष्य । अजातविप्लवोऽभ्रान्तः सन् । शतं पर्वाणि यस्य तेन । उरगराजो वासुकिस्तस्य भोगो देहस्तदाकारम् ॥ ३ ॥
छिन्नैकबाहुः परिघेण वृत्रः संरब्ध आसाद्य गृहीतवज्रम् ।
हनौ तताडेन्द्रमथाऽमरेशं वज्रश्च हस्तान्न्यपतन्मघोनः ॥ ४ ॥
पदरत्नावली
‘इन इन्द्रः परिवृढः पतिरध्यक्षवल्लभौ’ इत्यतः स्वामिमात्रेऽपीन्द्रशब्दप्रयोगात् ततो विशिष्योक्तम्– अमरेशमिति ॥ ४ ॥
सत्यधर्म
हनौ चुबुके । ‘‘हनुः प्रहरणे मृत्यौ कपोलावयव’’ इति विश्वः । मरणार्थमिति वा । परिघेण । इन्द्रं मथ्नातीतीन्द्रमत् तेनेन्द्रमथा तत्वेन मतेन परिघेण । परिघो योगभेदेऽस्त्रे मुद्गर इति विश्वान् मुद्गरेणामरेशमिन्द्रम् । आसाद्येत्यनेनैव ताडनस्यासादनोत्तर भावित्वस्योत्सर्गतो विनाऽथेत्यनेन स्फोरणाद् अथेत्यस्यात्यनावश्यकत्वशङ्काशूकपरासोऽप्येवमर्थापने भवतीति मन्तव्यम् । तथैवेन्द्र इति वाऽमरेश इति वाऽतिरिच्यत इत्यपि शङ्कनं तस्यापि प्रकारान्तरेणातङ्कनं कृतं चेति । यद्यप्यथ वज्रः हस्तान्न्यपतदित्यन्वयः सम्भवति तथाप्यतिरेकदृष्ट्यैवं व्याकृतमिति मन्तव्यम् । मघोन इन्द्रस्य मधोनः । मधेन यशसा… नः । तस्येन्द्रस्य हस्तान्न्यपतदिति वा ‘‘यशो वै मधम्’’ इति श्रुतेः ॥ ४ ॥
चट्टी
संरब्धःकुपितः हनौ कपोलप्रान्ते ॥ ४ ॥
वृत्रस्य कर्मातिमहाद्भुतं तत् सुरासुराश्चारणसिद्धसङ्घाः ।
अपूजयंस्तत् पुरुहूतसङ्कटं निरीक्ष्य हाहेति विचुक्रुशुर्भृशम् ॥ ५ ॥
सत्यधर्म
सुरैः सहिताश्च तेऽसुराश्च सुरासुराः । कदाचित्स्नेहस्यापि देवदानवादिषु दर्शनाद् येषां शाश्वतिको विरोध इत्यनुशिष्टशश्वद्द्विष्टताभावाद्वाऽसुरमध्ये प्रल्हादादिसदसुराणां भावात्तेषामेषा-मित्यनेन ग्रहणासम्भवाद्वा एकवद्भावाभाव इति ज्ञेयम् । हाहेति सुरपक्षे शोकसूचकमसुरपक्षेऽपहास-सूचकमिति विवेकः ॥ ५ ॥
इन्द्रो न वज्रं जगृहे विलज्जितश्च्युतं स्वहस्तादरिसन्निधौ पुनः ।
तमाह वृत्रो हर आत्तवज्रो जहि स्वशत्रुं न विषादकालः ॥ ६ ॥
पदरत्नावली
हर स्वशत्रुम्, मामिति शेषः ॥ ६ ॥
सत्यधर्म
पुनररिसन्निधावित्यतिलज्जोज्जृम्भकमिति मन्तव्यम् । विषादकालो न समसमरे विषादो नोचित इति भावः । हे हरे स्वशत्रुं स्वः स्वकीयस्त्वत्प्रतिपक्षत्वेन तावकश्चासौ शत्रुस्तं मद्रूपं रिपुमित्यर्थः । स्वो शत्रुः शातयिता यस्य तमिति वा । स्वस्य शत्रुमरिमात्रमिति वा भवांछत्रुर् जहि संहर ॥ ६ ॥
चट्टी
हे हरे इन्द्र । स्वशत्रुं माम् ॥ ६ ॥
युयुत्सतां कुत्रचिदाततायिनां जयः सदैकत्र न वै पराजयः ।
विनैकमुत्पत्तिलयस्थितीश्वरं सर्वज्ञमाद्यं पुरुषं सनातनम् ॥ ७ ॥
पदरत्नावली
ननु हनने तव पराजय इत्याशङ्क्य पराजयापराजयौ न नियतौ किन्तु दैवकृतावित्याह– युयुत्सतामिति ॥ युयुत्सतां युद्धशीलानां मध्ये कुत्रचिद् युद्धे देवप्रकृतेरेकस्य सदा जय इतरस्य सदा पराजय इति नियमो नैव इत्यन्वयः । तर्हि कस्य सदा जय इति तत्राह– विनेति ॥ तत्राभिभविनस्तव स्थितावपि देहवियोगलक्षणो लयः प्रतिक्षणमस्तीति दर्शयितुमुत्पत्त्यनन्तरं लयपदो-पादानम् ॥ ७ ॥
सत्यधर्म
नित्यं जिष्णुर्विष्णुरेक एव त्वदादयो मदादयश्च न तथाविधा इति नायुधत्यागे कारणमिति विपश्चित्कैश्चित्पद्यैर्गदति वृत्रः स्वशत्रुम् ॥ युयुत्सतामिति ॥ सदा एकत्रैकस्य जयो न पराजयोऽपि सदा नैकस्येति वै प्रसिद्धम् । निर्णीतजयः कः । को वर्णयेदित्यतो वर्णयति ॥ विनैक-मिति । उत्पत्तिश्च लयश्च स्थितिश्च तासामीश्वरं स्वामिनम् । उत्पत्तेरभ्यर्हिततया पुर उदीरणम् । घ्यन्तत्वेनप्राक् प्रयोज्यस्वस्थितिशब्दस्यान्ते स्थितिस्तस्या उत्पत्ताविव लयेऽपि सत्तारूपिण्या अपेक्षित-त्वादिति ज्ञेयम् । सनातनमेवंरूपेण वेदगम्यम् ॥ ७ ॥
चट्टी
कुत्रचित्कुत्रापि । आततायिनां शस्त्रपाणिनाम् । युयुत्सतां योद्धॄणां जयः सदा नियमेन न वै नैव स्यात् । किं त्वेकत्रैकदा । कदाचिदिति यावत् । पराजयोऽपि स्यात् । उक्तस्यापवादमाह ॥ विनेति । परमपुरुषस्य विष्णोरेकस्यैव सर्वदा जय इति भावः ॥ ७ ॥
लोकाः सपाला यस्येमे श्वसन्ति विवशा वशे ।
द्विजा इव सिचा बद्धाः स काल इह कारणम् ॥ ८ ॥
पदरत्नावली
हरेरेव सदा जय इत्ययं नियमः कुत इति तत्राह– लोका इति ॥ यस्य वशे स्थिताः श्वसन्ति । श्वस प्राणन इति धातुः । सत्ताऽपि तदधीनेति विज्ञायते । सिचा जाललक्षणतन्त्या । द्विजाः पक्षिणः । खगा इत्युक्तिं विना विदुषामपि वाक्तन्त्या नियतत्वमस्तीति द्योतनाय द्विजा इत्युक्तम् । इह जीवराशौ स्थितयोर्जयपराजययोः कारणम् ॥ ८ ॥
सत्यधर्म
यस्य वशे सन्तः श्वसन्ति सप्राणधारणा भवन्ति । सिचा तन्त्या बद्धा विवशाः परवशा द्विजाः पक्षिण इव । ‘‘द्विजो विप्रेऽण्डजे’’ इति विश्वः । स कालो हरिरिह जयापजययोः कारणं न यूयं नापि वयमिति न लज्जा युक्तेति भावः ॥ ८ ॥
चट्टी
स भगवत एव सार्वकालिको जयोऽन्येषां तु कदाचिदित्येतत्कुत इत्याशङ्क्य तस्य स्वतन्त्रत्वादन्येषां तदधीनत्वाच्चेत्याह ॥ लोका इति सप्तभिः । यस्य वशे स्थिता एव स्वयं विवशा भगवदधीनत्वमजानन्तः सन्तः श्वसन्ति चेष्टन्ते । द्विजाः पक्षिणः । सिचा जालेन । कालः कलयति । भगवानिह जयादौ कारणम् ॥ ८ ॥
ओजः सहो बलं प्राणममृतं मृत्युमेव च ।
तमज्ञाय जनो हेतुमात्मानं मन्यते जडः ॥ ९ ॥
पदरत्नावली
ओजआद्यधिक्यानाधिक्ये उभयोर्हेतुत्वेन सिद्धे । हरेरधीनत्वं कुतः सिद्धमिति तत्राह– ओज इति ॥ जडो जन ओजस्त्वादिगुणमूर्तिमन्तं भगवन्तमज्ञाय तयोर्हेतुमात्मानं स्वं मन्यत इत्यन्वयः । ‘स वै बलं बलिनाञ्चापरेषां’ इति स्वोक्तेर् ओजःसहादिषु स्थित्वोजस्त्वादिगुण-प्रवर्तकोऽयमित्यजानन् जनो जड इत्युच्यते । ओजस्त्वादिहेतुमिति वा ॥ ९ ॥
सत्यधर्म
ओजआदिकं तं तनोतेर्डः विस्तारयन्तं, ददतमिति यावत् । अज्ञायाधिकारिणे । विनेत्याकृष्यते । आत्मानं हेतुमोजसामादिकारणं मन्यते जानाति इत्यत आह ॥ जड इति । ‘‘जडो मूर्खः’’ इति विश्वः । अज्ञायेति ल्यबार्षः । अनञ् पूर्व इति प्रतिषेधात् ॥ ९ ॥
चट्टी
ननु भगवतो जयादिकारणत्वं न युज्यते । जितोऽहं पराजितोऽहमिति जीवस्यैव तद्धेतु-त्वोपलम्भादित्याशङ्क्य सा भ्रान्तिरित्याह ॥ ओज इति । प्राणं पूर्णानन्दम् । ओज आदि ददतं भगवन्तं जयादिहेतुमविज्ञाय जन आत्मानं स्वात्मानं हेतुं मन्यते । यतो जडोऽज्ञ इत्यर्थः ॥ ९ ॥
यथा दारुमयी नारी यथा यन्त्रमयो मृगः ।
एवं भूतानि मघवन् ईशतन्त्राणि विद्धि भोः ॥ १० ॥
सत्यधर्म
यथा दारुमयी नारीति सर्वावस्थासु ‘‘न स्त्री स्वातन्त्र्यमर्हति’’ इत्युक्तेरुक्तिः । एवं जानन् जनो जडप्राय इति सूचयितुम् । यथा यन्त्रमयो मृग इति । सूत्रात्मा दारुमृगपुत्तलिका । भूतानीति नपुंसकनिर्देशेन सर्वथा सामर्थ्यवैकल्यं सूचयति । भोर् हे मघवन् । भो भो इति पाठौ सुमङ्गलौ
॥ १० ॥
चट्टी
भूतानां भगवदधीनत्वं दृष्टान्ताभ्यामाह ॥ यथेति । ईशतन्त्राणि भगवदधीनानि ॥ १० ॥
१पुरुषः प्रकृतिर्व्यक्तमात्मभूतेन्द्रियाशयाः ।
शक्नुवन्त्यस्य सर्गादौ न विना यदनुग्रहम् ।
अविद्वानेवमात्मानं मन्यतेऽनीशमीश्वरम् ॥ ११ ॥
तात्पर्यम्
मन्यतेऽनीशमीश्वरम् । ‘अनीशं जीवरूपेण परमात्मानमीश्वरम् । ये मन्यन्ते तान्समीक्ष्य स्नेहान्निरयभाग्भवेत्’ इति च । ‘हिरण्यगर्भः पुरुष आत्मा वायुरुदाहृतः । शेषो व्यक्तस्तथैवेन्द्र आशयः समुदाहृतः’ इति च ॥ ११ ॥
पदरत्नावली
हिरण्यगर्भादीनाम् ओजआदिगुणसृष्टिहेतुत्वेन सत्वाज्जयपराजययोरपि तन्नियतत्वे किमपराद्धमिति तत्राह– पुरुष इति ॥ ‘हिरण्यगर्भः पुरुष आत्मा वायुरुदाहृतः । शेषोव्यक्तस्तथैवेन्द्र आशयस्समुदाहृतः ॥’ इत्यतः पुरुषादिशब्देन न संसार्यादिसामान्यवस्तूनि गृह्यन्ते । किन्तु विशिष्ट एव चेतन इत्येवं शास्त्रनिर्णये सति हिरण्यगर्भादयो यदनुग्रहं विनाऽस्य जगतः सर्गादौ न शक्नुवन्ति, तमात्मानमन्तःस्थित्वाऽऽदानादिकर्तारं श्रीहरिमनीशं जीवं मन्यते । व्याहतमिदमित्याह– ईश्वरमिति ॥ कोऽसाविति तत्राह– अविद्वानेवेति ॥ अज्ञानादेवं मन्वानस्य निरय एवावस्थानं नान्यत्रेत्यस्मिन्नर्थे एवशब्दः । ‘अनीशं जीवरूपेण परमात्मानमीश्वरम् । ये मन्यन्ते तान् समीक्ष्य स्नेहान्निरयरभाग् भवेत् ॥’ इति वचनात् ॥ ११ ॥
सत्यधर्म
पुरुषः प्रकृतिरिति पद्ये किञ्चिदनूद्य प्रमाणेनैव पुरुषादिपदार्थमाह ॥ मन्यतेऽनीश-मीश्वरमिति । अनीशोऽप्रेरकः सामर्थ्यहीनो यो जीवस्तद्रूपेण तदात्मकतया । ईश्वरमीशत्वेन मतेभ्योऽप्युत्तमं ये मन्यन्ते तान् । स्नेहात्समीक्ष्य स्नेहपूर्वकमवलोक्य स्थितो लोको निरयभाक् नरकदुःखभुग्भवेत् । न तत्स्नेहः सुखावह इति भागवतैस्ते दूरनिरसनीया इति साक्षात्तेषां नरक इति किं वक्तव्यमिति च भावः । हिरण्यगर्भो ब्रह्मा पुरुषो वायुरात्मा उदाहृत इति द्वाभ्यामत्रेवोत्तरत्राप्यन्वेति । शेषोऽव्यक्तस् तथैवेन्द्र आशय इति तन्त्रमालायामित्यन्वयः ॥ अथ श्लोकार्थः ॥ पुरुषो हिरण्यगर्भः प्रकृती रमा । मूले प्रकृतिं पुरुषोऽव्यक्तमिति सुपाठम् । अव्यक्तं शेषः मूले ‘‘प्रकृतिः पुरुषोऽव्यक्तम्’’ इति सुपटम् । आत्मा वायुर्भूतानि तदभिमानिन इन्द्रियाणि तद्देवता आशय इन्द्र एते यदनुग्रहं यस्येश्वरस्यानुग्रहं प्रसादं विनाऽस्य जगतः सर्गादौ न शक्नुवन्ति तमीश्वरमात्मानमादानादिकर्तार-मनीशमनीशजीवाभिन्नं मन्यते । स किं रूप इत्यत (कोऽसावित्यत) आह ॥ अविद्वानिति । नरकं गच्छति । एवं तत्स्नेहकृदपीति प्रामाणिकोऽप्यर्थोऽप्यनुसन्धेयः ॥ ११ ॥
चट्टी
ननु भूतानां प्रकृतिपुरुषादिपरतन्त्रजन्मादिमत्त्वात्कथमीशतन्त्राणीत्युच्यत इत्यत आह । पुरुष इति । पुरुषो हिरण्यगर्भः प्रकृतिश्चेतनो व्यक्तः शेष आत्मा वायुर्भूताभिमानिनश्चेन्द्रियाभिमानिन-श्चाशय इन्द्रश्च ॥ तदुक्तम् ॥ हिरण्यगर्भः पुरुष इत्यादि । एते हिरण्यगर्भादयो यस्य भगवतोऽनुग्रहं विनाऽस्य जगतः सर्गादौ न शक्नुवन्ति ॥ तदुक्तं ‘‘द्रव्यं कर्म च कालश्च’’ इत्यादि । ननु यदुक्तं हिरण्यगर्भादयो न शक्नुवन्तीति । तदयुक्तम् । तेषां भगवदभिन्नत्वादित्यत आह ॥ अविद्वानिति । एवमुक्तप्रकारेणात्मानं सर्वान्तर्यामिणमीश्वरमनीशं जीवाभिन्नं यो मन्यते सदाऽविद्वान्मिथ्याज्ञानीत्यर्थः । जीवेश्वराभेदे विरोधस्फुरणायानीशमीश्वरमिति चोक्तम् । तथा चोक्तम् । ‘‘अनीशं जीवरूपेण परमात्मानमीश्वरम् । ये मन्यन्ते तान्समीक्ष्य स्नेहान्निरयभाग्भवेत्’’ ॥ इति ॥ ११ ॥
भूतैः सृजति भूतानि ग्रसते तानि वै स्वयम् ॥ १२ ॥
पदरत्नावली
ननु तत्स्रष्टृत्वे ब्रह्मा स्रष्टेत्यादिरूढिः कथमिति तत्राह– भूतैरिति ॥ १२ ॥
सत्यधर्म
यदि तदितरो हरिः स्रष्टृहर्त्रादिस्तर्हि तत्स्रष्टृत्वादिवादस्य गतिः केत्यत आह ॥ भूतैरिति । भूतैरस्वतन्त्रभूतैश्चतुराननादिभिः सृजति तैरेव भूतानि तत्तत्काले स्वयमेव ग्रसते ग्रसति
॥ १२ ॥
चट्टी
ननु पित्रादयः स्रष्टारो दृश्यन्ते । व्याघ्रादयश्च हन्तारो दृश्यन्ते । अतः कथं भगवानेव सर्वकारणमित्यत आह ॥ भूतैरिति । स्वयमीश्वरः ॥ १२ ॥
आयुः श्रीः कीर्तिरैश्वर्यमाशिषः पुरुषस्य याः ।
भवन्त्येव हि ते काले यथाऽनिच्छोर्विपर्ययाः ॥ १३ ॥
पदरत्नावली
दैनन्दिनसृष्टिसंहारावपि तदधीनावित्याह– आयुरिति ॥ पुरुषस्योत्पन्नस्य या आयुराद्याशिषो भवन्ति ते भावाः काले कालात्मनो हरेराराधनोपयोगाय न भवन्ति हि यस्मात् तस्मादकीर्त्यादेः समः स्यादित्यन्वयः । यथा दुःखाद्यनुभवेच्छारहितस्यापि विपर्यया दुःखादिलक्षणा दृश्यन्ते तथेति शेषः । अनेन सर्वे भावा नारायणाधीना इति निरणायि ॥ १३ ॥
सत्यधर्म
श्रीः कीर्तिराशिषश्चेति पुरुषस्य याः, आयुरैश्वर्यं चेति ते काले तस्मिन्भगवति सत्येव याश्च भवन्ति । एवमन्वयलापनेन नपुंसकमनपुंसकेनेति स्मरणात्कथं या इत्येकशेष इति परास्तम् । पूर्ववल्लिङ्गत्वाद् या इति सम्भवतीति वा । यथाऽनिच्छोर्विदुरिच्छुरित्युप्रत्ययान्तस्य निपातनाद् अपेक्षारहितस्य । विपर्ययो मृत्यादिः सुखं चेन्मत्सामर्थ्येन दुःखं चेद्भगवानेवं कारयामासेति किं कृतं वैषम्यमिति भावः ॥ १३ ॥
चट्टी
ननु त्वया पराजितस्य मम जयादिशङ्कैव नास्ति । किन्तु बलाद्युद्धे प्रवर्तयसीत्यत आह ॥ आयुरिति । काले जयादिकाले यथा विपर्यया अकीर्त्यादयः ॥ १३ ॥
तस्मादकीर्तियशसोर्जयापजययोरपि ।
समः स्यात्सुखदुःखाभ्यां मृत्युजीवनयोस्तथा ॥ १४ ॥
सत्यधर्म
अकीर्तिः प्रत्यक्षस्तुतिर्यशो दिग्व्याप्ता स्तुतिः । ‘‘दिक्षु यानाद्यशो व्याप्तं कीर्तिः प्रत्यक्षतः स्तुतिः’’ इति छान्दोग्यभाष्योक्तेरर्थविशेषो ज्ञेयः । समः स्यात्तथो मृत्युजीवनयोरिति । स्वसर्वस्वं नैकमिन्द्रमात्रं लक्षीकृत्येति ज्ञेयम् ॥ १४ ॥
चट्टी
यस्मादेवं सर्वमीश्वराधीनं तस्मात्समः स्यात् हर्षविषादहीनो भवेत् ॥ १४ ॥
सत्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः ।
तत्र साक्षिणमात्मानं यो वेद न स बध्द्यते ॥ १५ ॥
पदरत्नावली
दुःखाद्यागमे प्रकृतिपुरुषविवेकाज्ञानं कारणमित्याह– सत्वमिति ॥ आत्मनः जीवस्य । आत्मानं परमात्मानम् ॥ १५ ॥
सत्यधर्म
अहंममाभिमान एव दुःखादिकारणमित्याह ॥ सत्वमिति । आत्मनो जीवस्य न गुणाः किन्तु प्रकृतेस्तत्रात्मानं परमात्मानं साक्षिणं साक्षाद्द्रष्टारम् एतदसम्बद्धं बन्धकं मोचकं च यो वेद सोऽहंममतातीतः । न बध्यते यस्तत्रात्मा गुणेष्वपि साक्षिणमात्मानं स्वं मन्यते स न बध्यत इति नेत्यप्यन्वयेऽन्वयव्यतिरेकाभ्यां चावश्यकतैव ज्ञानस्य सूक्ता भवतीति ज्ञेयम् ॥ १५ ॥
चट्टी
समदृष्टावुपायमाह ॥ सत्त्वमिति । सत्त्वादिगुणाः प्रकृतेः स्वरूपभूता नात्मनो जीवस्य । तस्य चिदानन्दमयत्वात् । तत्र गुणत्रयातीते जीवे साक्षित्वेन वर्तमानमात्मानं परमात्मानं यो वेद सः हर्षादिभिर्न बद्ध्यत इत्यर्थः ॥ १५ ॥
पश्य मां निर्जितं शक्र वृक्णायुधभुजं मृधे ।
घटमानं यथाशक्ति तव प्राणजिहीर्षया ॥ १६ ॥
पदरत्नावली
श्रीहर्यधीनत्वेन जयादिकं तवापि प्रत्यक्षमित्याह– पश्येति ॥ १६ ॥
सत्यधर्म
इयता तव किलेयती लज्जा मां पश्यतोऽपीति तं युद्धसन्नद्धं कर्तुं स्वयमेव निर्दिशति ॥ पश्येति । वृक्णौ छिन्नावायुधभुजौ यस्य स तम् ॥ १६ ॥
चट्टी
हर्षविषादनिवृत्तेन चाहमेव गुरुरित्याह ॥ पश्येति । वृक्णमायुधं शूलं भुजश्च यस्य तम्
॥ १६ ॥
प्राणग्लहोऽयं समर इष्वक्षो वाहनासनः ।
अत्र न ज्ञायतेऽमुष्य जयोऽमुष्य पराजयः ॥ १७ ॥
पदरत्नावली
प्राण एव ग्लहः पणो यस्य स तथा । इषवः शरा एव अक्षा यस्य स तथा । हस्त्यादिवाहनान्यासनं फलकलक्षणं यस्य स तथा । द्यूतकल्पः संग्रामः । अत्र द्यूतलक्षणे समरे ॥१७॥
सत्यधर्म
समरस्वरूपमन्यापदेशेनोपदिशति ॥ प्राणेति । प्राण एव ग्लह पणद्रव्यम् । ‘‘पणोऽक्षेषु ग्लाहोक्षास्तु देवनापाशकाश्च ते’’ इत्यमरः । यस्मिन्स । इष्वक्ष इषवो बाणा अक्षाः पाशा यस्मिन्सः । वाहनासनो वाहनान्यश्वादीन्यासनं षण्णवतिमण्डलविलसदासनं यस्मिन्सः । अत्र वाहनमाहितादिति निपातनाद्वाहनेति साधुः । तत्र समरेऽमुष्य जयोऽमुष्य पराजय इति न ज्ञायत इति पृथगन्वयः ॥ १७ ॥
चट्टी
जयपराजययोरनित्यत्वं द्यूतरूपणोपसंहरति ॥ प्राणग्लह इति । प्राणा एव ग्लहायनो यस्मिन् । इषव एवाक्षा यस्मिन् । वाहनान्येव ततश्चाल्पमानान्यासनानि पलका यस्मिन् ॥ १७ ॥
श्रीशुक उवाच—
इन्द्रो वृत्रवचः श्रुत्वा गतालीकमपूजयत् ।
गृहीतवज्रः प्रहसंस्तमाह गतविस्मयः ॥ १८ ॥
पदरत्नावली
गतालीकं निर्व्याजम् ॥ १८ ॥
सत्यधर्म
गतालीकं गताप्रियमनृतं वा । गतविस्मयो गताहङ्कारस्तं वृत्रम् ॥ १८ ॥
चट्टी
गतालीकं निष्कपटम् । गतविस्मयो गताहङ्कारः ॥ १८ ॥
इन्द्र उवाच—
अहो दानव सिद्धोऽसि यस्य ते मतिरीदृशी ।
भक्तः सर्वात्मनाऽऽत्मानं सुहृदं जगदीश्वरम् ॥ १९ ॥
भवानतार्षीन्मायां वै वैष्णवीं जनमोहिनीम् ।
यद् विहायासुरं भावं महापुरुषतां गतः ॥ २० ॥
पदरत्नावली
सिद्धः जीवन्मुक्तः । ‘जीवन्मुक्ते जातिभेदे सिद्धः स्यात् साधितेऽपि च’ इति । आत्मानं श्रीहरिम् । भक्तः भजमानः ॥ महापुरुषतां भक्तिज्ञानादिगुणसंपन्नत्वेन महत्वम् ॥ १९,२० ॥
सत्यधर्म
दानव दनुतनूज । सिद्धो जीवन्मुक्तः सर्वात्मना सर्वप्रकारेणात्मानं भगवन्तं यथा भजन् यस्य ते मतिरीदृशी अहो सिद्धोऽसीत्यन्वयः । अथवा श्लोकद्वयमखण्डान्वयि । भजञ्जन-मोहिनीमज्ञमोहिकां वैष्णवीं भागवतीं मायां भवानतार्षीत् । कथमेवं मघवन्नवगतं त्वयेत्यतोऽवगमयति ॥ यदिति । महापुरुषतामेकान्तिकताम् ॥ १९,२० ॥
चट्टी
सिद्धो जीवन्मुक्तः । ‘‘जीवन्मुक्ते जातिभेदे सिद्धः स्यात्साधितेऽपि च’’ इत्यभिधानात् । आत्मानं परमात्मानं भक्तः सेवितवानसि । भज सेवायामिति धातोः । वैष्णवीं विष्णुपत्नीं ज्ञानमोहिनीं भवत्प्रसादाभावे ज्ञानविलोपकरीं मायां प्रकृतिगुणप्रवर्तकत्वेन तच्छब्दवाच्यां श्रीभूदुर्गारूपिणीं चित्प्रकृतिं भगवानतार्षीद् भगवदनुग्रहं संपाद्याभिमुखीकृतवानसीत्यर्थः । वैशब्दस्तूक्तार्थस्य प्रमाणप्रसिद्धिद्योतकः ॥ तदुक्तम् ॥ ‘‘श्रीभूदुर्गेति या भिन्ना’’ इत्यादि । महापुरुषतामुत्तमभक्तत्वम् ॥ १९,२० ॥
खल्विदं महदाश्चर्यं यद् रजःप्रकृतेस्तव ।
वासुदेवे भगवति सर्वात्मनि दृढा मतिः ॥ २१ ॥
सत्यधर्म
रजःप्रकृतेस्तत्प्रचुरसत्त्वस्वभावस्य यद्दृढा सात्त्विक्येव मतिर्जातेति तदिदं महद्बहुल-माश्चर्यम् । महताम् अस्मदादीनामाश्चर्यमिति वा । खलु मामपि सान्त्वयसि चेत्यर्थः । ‘‘खलु सान्त्वने’’ इति विश्वः ॥ २१ ॥
चट्टी
रजःप्रकृतेरसुरजातेः । सर्वात्मनि सर्वान्तर्यामिणि ॥ २१ ॥
यस्य भक्तिर्भगवति हरौ निःश्रेयसेश्वरे ।
विक्रीडतोऽमृताम्भोधौ किं क्षुद्रैः खातकोदकैः ॥ २२ ॥
पदरत्नावली
खातकोदकैः कूपतटाकादिजलैस् तत्प्रायैः स्वर्गादिभिः ॥ २२ ॥
सत्यधर्म
अन्तर्निलीनेन लोचनेन छादितेन वाऽनाच्छादितेन वा किन्न्यायेन श्रीजगन्नाथभजकस्य तवेतरसुरपरिचरणापरिचरणाभ्यां किमायव्ययावित्यनुरूपेण निदर्शनेन निरूपयति । यस्येति ॥ अथवा निर्गलापवर्गमार्गे सति किं त्रैवर्गिकस्वर्गादिभिरिति शंसति ॥ यस्येति । निःश्रेयसेश्वरे मोक्षाध्यक्षे हरिरूपेऽमृतम्भोधावमृतसमुद्रे विक्रीडत क्षुद्रैर् आशु शुष्यद्भिः खातकोदकैस्तटाकाद्युदकैः प्राप्तैरितरैः सुरैः स्वर्गादिभिर्वां किं कृत्यमिति क्रमिकोऽर्थः ॥ २२ ॥
चट्टी
खातकोदकैर्गर्तादिजलोपमैः । स्वर्गादिभिः किम् ॥ २२ ॥
श्रीशुक उवाच—
इति ब्रुवाणावन्योन्यं धर्मजिज्ञासया नृप ।
युयुधाते महावीर्याविन्द्रवृत्रौ युधाम्पती ॥ २३ ॥
पदरत्नावली
धर्मजिज्ञासया धर्मविचारेण युक्तौ । युध्द्यन्तीति युधो योधास् तेषां पती । युध संप्रहार इति धातुः । अनपुंसकाद्युपपदे क्विप् प्रत्ययः पुंशब्दवत् ॥ २३ ॥
सत्यधर्म
धर्मजिज्ञासया भगवत्स्वरूपज्ञीप्सया ब्रुवाणौ । अन्योन्यमित्यत्रेवोत्तरत्र युयुधात इत्यनेनाप्यन्वयि । कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये समासवच्च बहुलमिति बहुलग्रहणादन्यपरयोर्न समासवद् इतरशब्दस्य तु नित्यम् । असमासवद्भावे पूर्वपदस्य सुपः स्थाने सुर्वक्तव्य इति कौमुद्या-द्युदीरणात्पूर्वान्यशब्दीय सुपः सोरुत्वे गुणे पूर्वरूपत्वेऽन्योन्यमिति ज्ञेयम् । एवं परस्परं कस्कादित्वाद्विसर्जनीयस्य सोऽधिक इत्यनुसन्धेयम् । युधां युध सम्प्रहार इत्यतः कर्तरि क्विप् । योद्धॄणां पती प्रभू ॥ २३ ॥
चट्टी
युधां सङ्ग्रामाणां पती मुख्यौ ॥ २३ ॥
आविद्ध्य परिघं वृत्रः कार्ष्णायसमरिन्दम ।
इन्द्राय प्राहिणोद् घोरं वामहस्तेन मारिष ॥ २४ ॥
सत्यधर्म
वामहस्तेन छिन्नभिन्नेन ॥ २४ ॥
चट्टी
आविद्ध्य भ्रामयित्वा । कार्ष्ण्यायसं लोहमयम् । हे मारिष श्रेष्ठराजन् ॥ २४ ॥
स तु वृत्रस्य परिघं करं च करभोपमम् ।
चिच्छेद युगपद् देवो वज्रेण शतपर्वणा ॥ २५ ॥
पदरत्नावली
‘कनिष्ठिकाधः करभः करिपोतेऽपि तत्करे’ इत्यभिधानादत्र करभशब्दस्य युक्तोऽर्थो ग्राह्यः ॥ २५ ॥
सत्यधर्म
युगपदेकदा । करभोपमं हस्तिहस्तसमं ‘‘करिकायः करभकः करिपोतेऽपि तत्करे’’ इत्यभिधानात् । वेदव्यासेन वज्रेण शतपर्वणेति वेदपादो निबद्धः ॥ २५ ॥
चट्टी
करभोपमं करिकरसदृशम् । ‘‘करिकाये तु करभः करिपोतेऽपि तत्करे’’ इत्यभिधानात्
॥ २५ ॥
दोर्भ्यामुत्कृत्तमूलाभ्यां बभौ रक्तस्रवोऽसुरः ।
छिन्नपक्षो यथा गोत्रः खाद् भ्रष्टो वज्रिणा हतः ॥ २६ ॥
पदरत्नावली
गोत्रः पर्वतः भ्रष्टो भ्रंशितः । भ्रंशु अधःपतने इति धातोः ॥ २६ ॥
सत्यधर्म
गोत्रः पर्वतः ‘‘गोत्रक्षोणीधरे स्मृतः’’ इति विश्वः । खादम्बराद् भ्रष्टोऽधः पतितः । वज्रिणा हत इत्यत्र हननं कर्तृत्वेनेन्द्रं करणत्वेन वज्रं विवक्षित्वा वाच्यमिति ज्ञेयम् ॥ २६ ॥
चट्टी
उत्कृन्तं छिन्नमूलं ययोस्ताभ्यां रक्तं स्रवतीति तथा । छिन्नपक्षश् छिन्नपत्रः । गोत्रः पर्वतः
॥ २६ ॥
कृत्वाऽधरां हनुं भूमौ दैत्यो दिव्युत्तरां हनुम् ।
नभो गम्भीरवक्त्रेण१ लिलेहोल्बणजिह्वया ॥ २७ ॥
पदरत्नावली
लिलेह, नभ इति शेषः ॥ २७ ॥
सत्यधर्म
दिव्यन्तरिक्षे । गम्भीरेण गभीरेण वक्त्रेण सहितो वृत्र उल्बणजिह्वया क्रूररसनया नभो लिलेह आस्वादितवानिवाभूदिति शेषः ॥ २७ ॥
चट्टी
अधरां हनुम् अधरोष्ठं भूमौ कृत्वा । उत्तरां हनुमूर्ध्वोष्टं दिवि कृत्वा नभोवद्गम्भीरेणागाधेन वक्त्रेण कालकल्पाभिर्मृत्युतुल्याभिर्दंष्ट्राभिश्च जगत्त्रयं ग्रसन्निव दृश्यमानो दैत्य उल्बणया जिह्वया हनुद्वयं लिलेहेत्यन्वयः ॥ २७ ॥
दंष्ट्राभिः कालकल्पाभिर्ग्रसन्निव जगत्त्रयम् ।
अतिमात्रं महाकाय१ आक्षिपंस्तरसा गिरीन् ॥ २८ ॥
पदरत्नावली
कालकल्पाभिर् यमसदृशीभिः ॥ २८ ॥
सत्यधर्म
कालकल्पाभिर् यमसमाभिर्दंष्ट्राभिरतिमात्रमत्यर्थं महाकायो विपुलकलेवरः । अतिमात्रमहाकाय इति क्वचित् पाठे अतिमात्राद् बहुप्रमाणात्पदार्थादपि महाकाय इति वा । भृशा-त्यर्थातिमात्रेत्यमरः । तरसा बलेन वेगेन वा । ‘‘तरो बले च वेगे च’’ इति विश्वः । गिरीन्क्षिप-न्निरस्यन् । महाकाय इति गिरिनिरासहेतुः ॥ २८ ॥
चट्टी
अतिमात्रोऽत्युच्छ्रितो महान्कायो यस्य स वृत्रः । तरसा वेगेनाक्षिपन् चालयन् निर्दरयन् विदारयन् ॥ २८ ॥
गिरिराट् पादचारीव पद्भ्यां निर्दरयन् महीम् ।
जग्रास तं समासाद्य वज्रिणं सहवाहनम् ।
महाप्राणो महावीर्यो महासर्प इव द्विपम् ॥ २९ ॥
वृत्रग्रस्तं तमालक्ष्य सप्रजापतयः सुराः ।
हा कष्टमिति निर्विण्णाश्चुक्रुशुः समहर्षयः ॥ ३० ॥
सत्यधर्म
सहवाहनं वज्रिणमिन्द्रम् । महासर्पोऽजगरः ॥ २९ ॥
चट्टी
जग्रास निजगार ॥ महाप्राणो महाबलो महावीर्यो महाप्रभावः । महासर्पोऽजगरः ॥२९॥
निगीर्णोऽप्यसुरेन्द्रेण न ममारोदरं गतः ।
महापुरुषसन्नद्धो योगमायाबलेन च ॥ ३१ ॥
भित्त्वा वज्रेण तत्कुक्षिं निष्क्रम्य बलभिद् विभुः ।
ऊच्चकर्त शिरः शत्रोर्गिरिशृङ्गमिवौजसा ॥ ३२ ॥
पदरत्नावली
महापुरुषेण भगवता सन्नद्धः सहितो रक्षित इति यावत् । नारायणकवचाख्य-विद्यया समुद्धतो वा । योगमायाबलेन अणिमादिमहिमाबलेन, उपायलक्षणमायाबलेन वा ॥ ३१ ॥
सत्यधर्म
उदरं गतो न ममार निगीर्णो न ममार । उदरं संशयं मम मरणं निःसरणं वा स इति न गतः । ‘‘उदरं संशयः प्रोक्तः’’ इति तात्पर्यान्तरोक्तेः । तत्र वित्रासे हेतुमाह ॥ महापुरुषसन्नद्ध इति । महापुरुषो भगवांस्तेनैव सन्नहनसहितो योगेन योगबलेन चाणिमादिप्राधानिकबलेन ॥३१,३२॥
चट्टी
महापुरुषेण कवचरूपेण श्रीनारायणेन सन्नद्धो दंशितः । योगमायाबलेनाणिमादि-योगमहिमाबलेन । बलभिदिन्द्रः । उच्चकर्त चिच्छेद ॥ ३१, ३२ ॥
वज्रस्तु तत्कन्धरमाशुवेगः कृन्तन् समन्तात् परिवर्तमानः ।
न्यपातयत् तावदहर्गणेन यो ज्योतिषामयने वार्त्रहत्ये ॥ ३३ ॥
तात्पर्यम्
सन्धितः समयेनेन्द्रो वृत्रेणाथो करग्रहः । समुद्रतीरे विचरन् फेनेन वधमस्य तु । नर्मणा जहि फेनेन वाचयित्वा सुरेश्वरः । पादस्पर्शविवादं च कृत्वा युद्धाय दंशितः । फेने वज्रं समावेश्य विष्णुयुक्तं व्यसर्जयत् । अपानुदच्छिरस्तस्य ध्यायतो वत्सरेण सः’ इत्याग्नेये
॥ ३३ ॥
पदरत्नावली
अकृत्रिमो वेगो यस्य स तथा । योऽयमहर्गण आदित्यादिज्योतिषामयने दक्षिणोत्तरायणसंज्ञे संवत्सरे संभवति तावताहऽर्गणेन षष्ट्युत्तरशतत्रयलक्षणेन । वार्त्रहत्ये वृत्रहनन-सम्बन्धिनि समरे काले वा । तावत् काले समन्तात् कृन्तन् परिवर्तमानो भ्रमन् वज्रस्तं न्यपात-यदित्यन्वयः । अत्रेतिहासं पठन्ति । प्रथमं युद्धं नर्मदातीरे । द्वितीयं तु समुद्रतीरे । तत्र वृत्रेण केनचित् सङ्केतेन संधित इन्द्रः सख्यं प्राप्तस्य तस्य स्निग्धतया करं प्रगृह्य फेनेनास्य वधं कर्तुं विचरन् फेनेन मां जहीति विनोदवचनं वृत्रेण वादयित्वा तेन पादस्पर्शलक्षणं ताडनं कृत्वा युद्धाय सन्नद्ध एकसंवत्सरकालं युद्धं कृत्वा विष्णुशक्तियुक्तं वज्रं फेने निवेश्य तस्मै विसृज्य श्रीनारायणं ध्यायतस्तस्य शिरः प्रजहार । ‘सन्धितः समयेनेन्द्रो वृत्रेणाथो करग्रहः । समुद्रतीरे विचरन् फेनेन वधमस्य तु । नर्मणा जहि फेनेन वाचयित्वा सुरेश्वरः । पादस्पर्शविवादं च कृत्वा युद्धाय दंशितः । फेने वज्रं समावेश्य विष्णुयुक्तं व्यसर्जयत् । अपानुदच्छिरस्तस्य ध्यायतो वत्सरेण सः ॥’ इति वाक्यमत्र मानम् । करं गृह्णातीति करग्रहः ॥ ३३ ॥
सत्यधर्म
वज्रस्तु तत्कन्धरमिति श्लोकस्य मानेनैव यथावस्थितमर्थमाह ॥ सन्धित इति । समयेन समयबन्धेन वृत्रेण सन्धिं प्राप्तोऽथोऽनन्तरं करग्रहो गृह्णातीति ग्रहः करस्य ग्रहः । अनेन वृत्रकरप्ररोहः सूच्यते । करेण गृह्णातीति करग्रहो वा । न शुष्केण नाप्यशुष्केणेति वरात्फेनस्यानुभयरूपत्वादनेनैनं हन्मीत्यालोच्य समुद्रतीरे विचरन्निति नर्मदातो भिन्नस्थानाभिधानम् । विचरन्सञ्चरन् विचारं कुर्वंश्च केन तव मरणं भवेदिति नर्मणा तन्मुखेन मां फेनेन जहीति वाचयित्वा सुरेश्वर इन्द्रः । रे ओ किं पादस्पर्शोऽकारि त्वया मयि तवेति विवादं कलहं कृत्वा दंशितः पूर्वोदीरितवर्मवान् फेने वज्रं समावेश्य । अनेन फेनभागो बहुल इति ज्ञायते । विष्णुयुक्तमन्तःसन्निहितभगवत्कं वज्रं व्यसर्जयद् विससर्ज । तेन ध्यायतो भगवद्ध्यानं कुर्वतस्तस्य वृत्रस्य शिरः संवत्सरेण कालेनापानुदत् । सन्धानानन्तरं गतः कालस्तद्धननपर्यन्तं संवत्सरात्मेति ज्ञेयमित्याग्नेयपुराणोक्तेरयं विशेषो ज्ञेय इति भावः ॥ अथ मूलार्थः ॥ आशुवेगो महावेगो यस्य स तत्कन्धरं कन्धराम् । ‘‘ग्रीवायामपि कन्धरा’’ इति विश्वात् । कं शिरः धारयतीति धरं गलमिति वाऽर्थः । समन्तात्परितः परिवर्तमानः संवत्सरपर्यन्तम् अर्यन्तर इव कार्यान्तरेऽप्यप्रेरणादियमुक्तिः। वार्त्रहत्ये वृत्रहत्या वृत्रहननं तदीये युद्धे वा समये ज्योतिषामयने दक्षिणोत्तरायणे तावान्योऽहर्गणः षष्ट्युत्तरशतत्रयदिनलक्षणस्तेन न्यपातयत् फेननिलीनः पातयामास पयसां निधेस्तीर इत्यर्थः ॥ ३३ ॥
चट्टी
आशुवेगोऽतिवेगवान् । वज्रस्तस्य वृत्रस्य कन्धरं समन्तात्परितः परिवर्तमानश्चक्रवद्भ्रमन् कृंतन् छिन्दन् सन् ज्योतिषां सूर्यादीनामयने दक्षिणोत्तरगतिरूपे संवत्सरे योऽहर्गणः षष्ठ्युत्तरशत-त्रयात्मकः । तावताऽहर्गणेन वार्त्रहत्ये वृत्रहत्यायोगे काले न्यपातयत् । यद्वा । स्वार्थे तद्धितः । वृत्रहत्यायां वृत्रहननार्थं परिवर्तमान इत्यर्थः ॥ तथा चोक्तम् ॥ सम्बन्धितः समयेनेन्द्र इत्यादि ॥३३॥
तदा च खे दुन्दुभयो विनेदुर्गन्धर्वविद्याध्रमहर्षिसिद्धाः ।
वार्त्रघ्नलिङ्गैस्तमभिष्टुवाना मन्त्रैर्मुदा कुसुमैरभ्यवर्षन् ॥ ३४ ॥
पदरत्नावली
वृत्रघ्नस्य इन्द्रस्य संबन्धीति लिङ्गानि लक्षणानि स्तम्भितजलनिर्गमनादीनि तानि येषु मन्त्रेषु उच्यन्ते ते वार्त्रघ्नलिङ्गास्तैर्मन्त्रैः । ‘दासपत्नीरहिगोपा अतिष्ठन्निरुद्धा आपः पाणिनेव गावः । अपां बिलमपिहितं यदासीद् वृत्रं जघन्वा अप तद् ववार ॥’ इत्यादिलक्षणैः ॥ ३४ ॥
सत्यधर्म
यदा न्यपतत्तदा दुन्दुभयो विनेदुः स्वयमेव । यथोक्तं हरिवंशे प्रस्तावान्तरे । ‘‘स्वयमेव प्रवाद्यन्ते तूर्याण्यनेकशः’’ इति । गन्धर्वाश्च विद्याध्राश्च विद्याधराश्च । यथोक्तमेतत्सजातीय-प्रकरणे ऋग्भाष्यटीकासु । आध्रस्य चिद् आसमन्ताद्धारकस्यापि महीध्र इति यथेति । धृ धारण इत्यस्मान्मूलविभुजादित्वात्कप्रत्यये कित्त्वाद्गुणाभावे ऋकारस्य यणादेशे च विद्यां धरन्तीति विद्याध्रा इति मन्तव्यम् । महर्षयश्च सिद्धाश्च ते । वार्त्रघ्नलिङ्गैरिन्द्रलिङ्गयुक्तैर्मन्त्रैः । ‘‘इन्द्रो वै वृत्रं हत्वा महानभवत्’’ इतीदं जातीयकैर्मुनिभिस् तमिन्द्रमभिष्टुवाना मुदा कुसुमैः पुष्पैरभ्यवर्षन् । कर्मणां कुसुमानां करणत्वमौपचारिकम् ॥ ३४ ॥
वृत्रस्य देहान्निष्क्रान्तमात्मज्योतिररिन्दम ।
पश्यतां सर्वलोकानां स्वलोकं समपद्यत ॥ ३५ ॥
॥ इति श्रीमद्भागवते षष्ठस्कन्धे द्वादशोऽध्यायः ॥
पदरत्नावली
आत्मज्योतिर्जीवाख्यतेजः । स्वलोकं स्वेनाधिकृतं विद्याधरलोकम् ॥ ३५ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
षष्ठस्कन्धे द्वादशोऽध्यायः ॥ ६–१२ ॥
सत्यधर्म
वृत्रस्य देहान्निष्क्रान्तमात्मज्योतिर्ज्योतीरूपो जीवः सन् सर्वलोकानां ज्ञानिनां पश्यतां सतां स्वलोकं स्वविद्याधरशरीरं स्वांशिनमिति यावत् । समपद्यत प्राप ॥ ३५ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मकृतायां षष्ठस्कन्धे द्वादशोऽध्यायः ॥ ६–१२ ॥
चट्टी
वार्त्रघ्नलिङ्गैर्वृत्रहन्तृवीर्यप्रकाशकैर्मन्त्रैः । ‘‘वारहत्याय श्रवसे पृतना सह्याय च’’ इत्याद्यैः । तमिन्द्रमभिष्टुवाना अभितः स्तुवन्तः । आत्मज्योतिर्जीवाख्यं तेजः स्वलोकं स्वेनाधिकृतं विद्याधरलोकम्
॥ ३५ ॥
॥ इति श्रीभागवतटिप्पण्यां चट्टीव्याख्यायां षष्ठस्कन्धे द्वादशोऽध्यायः ॥ ६–१२ ॥