११ एकादशोऽध्यायः

त एवं शंसतो धर्मं वचः पत्युरचेतसः

॥ अथैकादशोऽध्यायः ॥

श्रीशुक उवाच—

त एवं शंसतो धर्मं वचः पत्युरचेतसः ।

नैवागृह्णन् भयत्रस्ताः पलायनपरा नृप ॥ १ ॥

पदरत्नावली

अचेतसो बुद्धिमत्प्रवृत्तिस्मरणरहिता ॥ १ ॥

सत्यधर्म

अचेतसोऽनवस्थितमनसः । एवं धर्मं शंसतः पत्युर्वृत्रस्य वचस्ते पलायनपरायणा नैवागृह्णन् । भयेभ्यो घोरेभ्यो त्रस्ता भीताः । ‘‘भयं प्रतिभये घोरे प्रसूने’’ इति विश्वः ॥ १ ॥

चट्टी

शंसतः कथयतः पत्युर्वचः । धर्मादनपेतं धर्म्यम् । अचेतसोऽमनस्विनः ॥ १ ॥

विशीर्यमाणां पृतनामासुरीमसुरर्षभः ।

कालानुकूलैस्त्रिदशैः काल्यमानामनाथवत् ॥ २ ॥

पदरत्नावली

काल्यमानां विद्राव्यमाणाम् ॥ २ ॥

सत्यधर्म

कालानुकूलैः कालो हि भगवान्सोऽनुकूलो येषां, तैः । काल्यमानाहिंस्यमानाम् अनाथवदनाथमिव ॥ २ ॥

चट्टी

कालो भगवान् । ‘‘कालः कलितसंपूर्णसद्गुणत्वाज्जनार्दनः । संहारात्सर्ववित्वाद्वा सर्व-विद्रावणेन च’’ ॥ इति वचनात् । सोऽनुकूलो येषां तैः । काल्यमानां विद्राव्यमाणाम् । दृष्ट्वेति शेषः

॥ २ ॥

दृष्ट्वाऽतप्यत संक्रुद्ध इन्द्रशत्रुरमर्षितः ।

तां(तान्) निवार्यौजसा राजन् निर्भर्त्स्येदमुवाच ह ॥ ३ ॥

सत्यधर्म

अमर्षितोऽसहमानः सङ्क्रुद्धः स्वयमतप्यतह । अनन्तरमोजसा स्वावष्टम्भनशक्त्या तां पृतनां निवार्य नो द्रवेति तथाऽपि गन्तुमुद्यतान्निर्भर्त्स्य तान्द्रावयतो देवान्निर्भर्त्स्येति वा । इदं वक्ष्यमाणमुवाच ॥ ३ ॥

चट्टी

अमर्षितोऽसहमानः । ओजसा राजन्दीप्यन् वृत्रस्तां काल्यमानां स्वसेनां निवार्य देवान्निर्भर्त्स्येदं वक्ष्यमाणमुवाच ॥ ३ ॥

वृत्र उवाच—

किं व उच्चरिता मातुर्धावद्भिः पृष्ठतो हतैः ।

न हि भीतवधः श्लाघ्यो न स्वर्ग्यः शूरमानिनाम् ॥ ४ ॥

पदरत्नावली

हे देवा यूयं मातुरदितेरुच्चरिता अवमेहनवन्निर्गताः किम् ? उभयेषामपि देहान्निष्कान्तत्वाविशेषात् कुतोऽस्माकम् ? अत्राह– धावद्भिरिति ॥ पृष्ठतो हतौर्धावद्भिर् असुरनायकैर् वः युष्माकं किं प्रयोजनम् ? अधर्मत्वात् । अयमपि कुतः ? अत्राह– नहीति ॥ स्वर्ग्यः स्वर्गा-प्राप्तियोग्यः ॥ ४ ॥

सत्यधर्म

हे देवा यूयं मातुरदितेरुच्चरिताः पुरीषसदृशाः । तृतीयान्तपाठे दैत्यविशेषणम् । धावद्भिः पृष्टतो हतैः । तैर्दैत्यैः किं न किञ्चित्प्रयोजनम् । नैतावदेव किन्तु प्रकृतव्यापारो न श्लाघ्यस्तेषामिति भाषते । शूरमानिनां तथाऽभिमानवतां भीतवधो न श्लाघ्यो न प्रशस्य इति । भवत्वैहिकहिताभावः पारत्रिकं स्यादित्यतो न स्यादित्याह । न स्वर्ग्यः स्वर्गसाधनभूतोऽपि न ॥ ४ ॥

चट्टी

यदेवाह द्वाभ्याम् । मातुरुच्चरिताः पुरीषप्राया इति देवानां सम्बोधनम् । पृष्टतो हतैर्दैत्यैर्वः किं न किञ्चित् । न यशो नापि धर्मः । तदेवाह ॥ न हीति ॥ ४ ॥

यदि वः प्रधने श्रद्धा सारं वा क्षुल्लका हृदि ।

अग्रे तिष्ठत मात्रं मे न चेद् ग्राम्यसुखे स्पृहा ॥ ५ ॥

पदरत्नावली

हे क्षुल्लका अल्पा देवाः । युष्माकं हृदि सारं धैर्यं वाऽस्ति । मात्रं क्षणकालम् । ग्राम्यसुखे विषयभोगजनितानन्दे ॥ ५ ॥

सत्यधर्म

धने च सारमिति । प्रधने युद्धे । हे क्षुल्लकाः क्षुद्राः । यदि वः श्रद्धासारम् । न्याय्यं चेत् । ‘‘न्याय्ये क्लीबं, न्याये च नीरे च धने च सारम्’’ इत्यमरविश्वौ । धृतिर्वा तर्हि मात्रम् ‘‘अक्षरा-वयवे स्वल्पे क्लीबम्’’ इत्यमरः । हृदि कृत्वा मे ममाग्रे तिष्ठत । तत्रापीतिकर्तव्यतामाह ॥ न चेदिति । ग्राम्यसुखे वैषयिकसुखे स्पृहा वाञ्छा न चेत् । अनेन पुनर्न जीवतां भवतां गमनमिति द्योतयति ॥५॥

चट्टी

प्रधने सङ्ग्रामे । सारं धैर्यम् । हे क्षुल्लकाः क्षुद्रा मात्रं क्षणमात्रं मेऽग्रे तिष्ठत न चेदिह लोकभोगे स्पृहाऽस्ति ॥ ५ ॥

एवं सुरगणान् क्रुद्धो भीषयन् वपुषा रिपून् ।

व्यनदत् सुमहाप्राणो येन लोका विचेतसः ॥ ६ ॥

पदरत्नावली

विचेतसो मूर्च्छिताः ॥ ६ ॥

सत्यधर्म

सुमहाप्राणो महाबलो विचेतसः सहमोहाः ॥ ६ ॥

चट्टी

सुरगणान् रिपून् । महान्प्राणो बलं यस्य । येन नादेन विचेतसो बभूवुरिति शेषः ॥ ६ ॥

तेन देवगणाः सर्वे वृत्रविस्फोटनेन वै ।

निपेतुर्मूर्च्छिता भूमौ यथैवाशनिना हताः ॥ ७ ॥

पदरत्नावली

एतदेव स्पष्टयति– तेनेति ॥ विस्फोटनं प्रकाण्डताडनम् ॥ ७ ॥

सत्यधर्म

विस्फोटनेन कण्ठमुद्धृत्य निःसृताट्टहासेन । मूर्छिताः सञ्जातमूर्च्छाः । ‘‘मूर्च्छिताः पथिकाङ्गनाः’’ इत्यादेः ॥ ७ ॥

चट्टी

तदेव विवृणोति ॥ तेनेति । वृत्रस्य विस्फोटनेन नादेन ॥ ७ ॥

ममर्द पद्म्यां सुरसैन्यमातुरं निमीलिताक्षं रणरङ्गदुर्मदः ।

गां कम्पयन्नुद्यतशूल ओजसा नालं वनं यूथपतिर्यथोन्मदः ॥ ८ ॥

पदरत्नावली

नालं नलसमुदायलक्षणं वयम् । यूथपतिर्गजः ॥ ८ ॥

सत्यधर्म

निमीलिताक्षं वृत्रारभटीनिरीक्षणसामर्थ्येन नालं नलानां कमलानामिदं नालं तत्सम्बन्धि वनम् । समूहार्थत्वेऽचित्तहस्तीति ठक् स्यात् । अनुदात्तादित्वप्रयुक्तघञन्तं वा । ‘‘नलिनं तु नलं मतम’’ इति विश्वः । यूथपतिर्गजः ‘‘मद उन्मद उत्कृष्टाहङ्कार, उद्गतो मदो दानोदकं यस्य स वा । हषेर् भदानयोः’’ इति विश्वः ॥ ८ ॥

चट्टी

उद्यतं शूलं येन स तथा । नलानां तृणविशेषाणाम् । पद्मानां वा सम्बन्धि वनम् । उद्गतो मदो यस्य स यूथपतिर्गजो यथा मर्दयति तथेत्यर्थः ॥ ८ ॥

विलोक्य तं वज्रधरोऽत्यमर्षितः स्वशत्रवेऽभिद्रवते महागदाम् ।

चिक्षेप तामापततीं सुदुस्सहां जग्राह वामेन करेण लीलया ॥ ९ ॥

पदरत्नावली

अभिद्रवते अभ्यागच्छते ॥ ९ ॥

सत्यधर्म

अभिद्रवते स्वमवज्ञाय गच्छते । आपततीमापतन्तीं सुदुस्सहामितरैः । वामेन करेण । तत्रापि लीलयेति महाननादरो द्योत्यते । स्त्रीस्पर्शः स्त्रियैव कार्यो न तु परपुरुषेणेति धर्ममर्मविद्वन्नेमां धाटीमटीकत । ‘‘भार्याभागो वाम इति प्रसिद्ध इत्यादेः ॥ ९ ॥

चट्टी

अभिद्रवतेऽभ्यागच्छत इत्यर्थः ॥ ९ ॥

स इन्द्रशत्रुः कुपितो भृशं तया महेन्द्रवाहं गदयोरुविक्रमः ।

जघान कुम्भस्थल उन्नदन् मृधे तत्कर्म सर्वे समपूजयन् नृप ॥ १० ॥

पदरत्नावली

महेन्द्रवाहम् ऐरावतम् ॥ १० ॥

सत्यधर्म

महेन्द्रवाहमैरावतम् । सोऽन्यत्रावर्ततेन्द्रोऽन्यत्र नेति सूचयितुं महेन्द्रवाहमित्युक्तिः । अनेन चोपरि तस्येन्द्रे सत्यपि जघानेति तदलक्ष्यताऽपि ध्वन्यते । सर्वे सौवा असौवाश्चेति सर्वे ॥१०॥

चट्टी

महेन्द्रवाहमैरावतम् । कुंभस्थले जघान ॥ १० ॥

ऐरावतो वृत्रगदाभिमृष्टो विघूर्णितोऽद्रिः कुलिशाहतो यथा ।

अपासरद् भिन्नमुखः सहेन्द्रो मुञ्चन्नसृक् सप्तधनुर्भृशार्तः ॥ ११ ॥

पदरत्नावली

वृत्रागदाभिमृष्टो ऽभिहतः । अपासरत् तिर्यक् पृष्टतो वा गतः ॥ ११ ॥

सत्यधर्म

वृत्रगदा ऐन्द्री अपि वृत्रकरगृहीतत्वाद्वृत्रगदेति गदनमिति ज्ञेयम् । विघूर्णितो बलवत्कलेवरः। सप्तधनुस्तत्प्रमाणमपासरत्पृष्ठतोऽगच्छत् ॥ ११ ॥

चट्टी

अभिमृष्टोऽभिहतः सप्तधनुः प्रमाणं देशम् । अपासरदर्वाग्गतः ॥ ११ ॥

न सन्नवाहाय विषण्णचेतसे प्रायुङ्क्त भूयः स गदां महात्मा ।

इन्द्रोऽमृतस्यन्दिकराभिमर्षवीतव्यथः क्षतवाहोऽवतस्थे ॥ १२ ॥

पदरत्नावली

सन्नवाहाय विह्वलितवाहनाय पुनः गदां न प्रायुङ्क्त । अमृतस्त्राविणा करेण कृतेनाभिमर्शेन स्पर्शलक्षणेन वीतव्यथः वीता गता व्यथा यस्य सः । क्षतः वाहो यस्य स तथा ॥१२॥

सत्यधर्म

स वृत्रो गदां गजकुम्भभेदनं कृत्वा पतिताम् । अमृतस्यन्दिनौ यौ करौ ताभ्या-मभिस्पर्शस्तेन वीता गता व्यथा यस्य स चासौ । प्राक् क्षतो वाहो हस्ती यस्य स तथा । अभितस्थे अभि तष्टौ ॥ १२ ॥

चट्टी

स वृत्रः सन्नवाहाय सन्नोऽवसन्नो वाहो यस्य तस्मा इन्द्राय पुनः गदां न प्रायुंक्त । यतो महात्मा धर्मिष्ठः । अमृतस्यंद्यमृतस्रवीयः करस्तेनाभिमर्शस् तेन वीतव्यथो गतदुःखः । क्षतः वाहो यस्येन्द्रस्य स तथाभूतोऽभितस्थेऽभिमुखेन स्थितवान् ॥ १२ ॥

स तं नृपेन्द्राहवकाम्यया रिपुं वज्रायुधं भ्रातृहणं विलोक्य ।

स्मरंश्च तत्कर्म नृशंसमंहः शोकेन मोहेन हसञ्जगाद ॥ १३ ॥

पदरत्नावली

भ्रातृहणं विश्वरूपस्य हन्तारम् । अंहः पापरूपम् । मोहेन अज्ञानेन ॥ १३ ॥

सत्यधर्म

आहवकाम्यया युयुत्सया भ्रातृहणं विश्वरूपहन्तारं नृशंसं तत्कर्म तत्प्राप्तमंहश्च स्मरन् शोकेन क्लेशेन मोहेन वैचित्येन । हसन् बहिरुवाच सभायामिव रणधुरीणेन रणे शोकादि न प्रदर्शनीयमिति हास इति भावः ॥ १३–१८ ॥

चट्टी

स वृत्रः । हे नृपेन्द्र । आहवकाम्यया युद्धेच्छया । अवस्थितमिति शेषः । भ्रातृहणं भ्रातरं विश्वरूपं हतवन्तं नृशंसं क्रूरं तदेवांहः पापं तस्य कर्म स्मरन् ॥ १३ ॥

वृत्र उवाच—

दिष्ट्या भवान् मे समवस्थितो रिपुर्यो ब्रह्महा गुरुहा भ्रातृहा च ।

दिष्ट्याऽनृगोऽद्याहमसत्तम त्वया मच्छूलनिर्भिन्नदृषद्धृदाऽचिरात् ॥ १४ ॥

पदरत्नावली

ब्रह्महत्यादिकमेकं विश्वरूपमपेक्ष्योच्यते । अनृणो भ्रातृमरणप्राप्तर्णेन हीनः । दृषद्धृदा पाषाणवत्कठिनहृदयेन ॥ १४ ॥

सत्यधर्म

ब्रह्महा । तज्जातिजातत्वात् । गुरुहानवच मम व गुरुरूपविश्वरूपहन्त ॥ मम भ्राताग्रजः । अनृणः भ्रातृभ्राणाकृत्यमिदमात्ययिक कृतं च तदृणे परिहार इति व्याहरति । ह असतमा । दुर्जनार्जित । मम शूलेन निर्भिन्नं दृषद्धृद् उपलतुलं काटिन्येन हृदयं यस्य तेन त्या भवतेति । अस्मादित्येवदन्मूदिति वदन्नमग्रातीति मत् तच्च तत् शूलं चेति विग्रहेण शू कार्यद्दयानुरूप्येणादिष्टया द्वयमव्ययम् ॥ दिष्टया शमुपजोषं चेत्यानन्द इत्यमरः । सुखेनेत्यर्थः । अविरादिति ॥ अत्युत्कटैनयेन । अथवा भ्रातृसौभ्रात्र्येणाल्योपि कालः कल्यायकल्पन इति विरादिति ॥ १४ ॥

चट्टी

यो ब्रह्महा ब्राह्मणं हतवान् । विशेषतः स्वगुरुं मम च भ्रातरम् । भवान् अग्रतः समुपस्थितः । तद्दिष्ट्या भद्रं जातम् । दिष्ट्येत्यव्ययमानन्दार्थम् । दिष्ट्या समुपजोषन्तेत्यानन्देत्यमरः । हे असत्तम मम शूलेन निर्भिन्नं दृषत्तुल्यं हृत् हृदयं यस्य तेन त्वया निमित्तभूतेन । अद्याचिरादेव भ्रातुरनृणोऽहं स्याम् । एतच्च दिष्ट्या ॥ १४ ॥

यो नोऽग्रजस्यात्मविदो द्विजातेर्गुरोरपापस्य च दीक्षितस्य ।

विस्रभ्य खड्गेन शिरांस्यवृश्चः पशोरिवाकरुणः स्वर्गकामः ॥ १५ ॥

पदरत्नावली

स्वर्गकामो यजमानः । विस्त्रभ्य विश्वस्य ॥ १५ ॥

सत्यधर्म

उक्तैः सहोक्तप्रायत्वाभिप्रायेणानुक्तानपि हनना ननु गुणान् गुणान् भणति । य इति । आत्मविदो ब्रह्मज्ञानिनः । अपापस्य पापश्रून्यस्य । अथवा खडगेनेत्यत्तरत्रान्वयः । दाष्टन्तिको विज्रेणेति शेष इति वातस्य वज्रमादाय शीर्षाण्यछिनदिति श्रुतेः । इदं पापरोक्ष्यकमपि क्षयेति ज्ञेयम् । दीक्षितस्य । यज्ञदीक्षावतः । विश्रभ्य । विश्वस्य स्थितस्य वा । अन्तर्णीतण्यर्थ तया विश्वास्य । खड्गेनासिना । मोक्षधर्मे वज्रेणेत्युक्तिरत्र खण्डगेनेत्युक्तिश्च कल्पभेदेनेति ज्ञेयम् । विस्तृतं चेतत्प्राक् । अवृश्चः । छेदितवान् । स्वर्गकामो जनो यजमानः । निर्घृणो निरनुक्तोशः पशो पशूनां सितांसीव यथा तथा ॥ १५ ॥

चट्टी

विस्रभ्य पौरोहित्यवरणेन विश्वास्य स्वर्गकामो यो भवानवृश्चः । स्वर्गकामो याज्ञिक-पशोरिव ॥ १५ ॥

ह्रीश्रीदयाकीर्तिभिरुज्ज्ञितं त्वां स्वकर्मणा पुरुषादैश्च गर्ह्यम् ।

कृच्छ्रेण मच्छूलविभिन्नदेहमस्पृष्टवह्निं समदन्तु गृध्राः ॥ १६ ॥

पदरत्नावली

ह्रीश्रीदयाकीर्तिभिरुज्झितं रहितं समदन्तु भक्षयन्तु । अस्मृष्टवह्निमित्यनेन निःशेषनाशं सूचयति ॥ १६ ॥

सत्यधर्म

गुरोः रूप अपस्येति छेदो ऽपस्य मदादिपालकरहित श्रीरत्रमतिः । श्रीर्मतो वितिविश्वः । ह्रीर् एतादृशं कर्मत्वाकपिजानतां जनानामाननदर्शनेन । लज्जया । दयया । एकाकी ब्राह्मण इति वाकरुणया । कीर्त्या । चेसितम् । पुरुषादैरपि गर्ह्यम् । तेय्यनार्या नैवं कुर्युनिति भावः । कृत्स्रण । शूलस्यां नर्निलायनकालजेन कष्टे न पूर्वयुक्तमनन्तरम् । शूलविभिन्नदेहम् । मन् मत्तः पदमखण्डं वा । गृध्राः समदन्तु कथं भस्मीभविनोस्मच्छरीरस्य गृध्रादनगार्ध्यनवेत्यत ईरयति ॥ असृष्टवह्निमिति । एतेन कुटुम्बनिकरुम्बसम्बन्धि नामशेषाणां नाशाशांसूचयति । अथ वैतत्प्रात-काकरस्या संस्कार्यतां सूचयति ॥ १६ ॥

चट्टी

श्रीस् त्रिवर्गसम्पत्तिः । लक्ष्म्यां त्रिवर्गसंपत्तौ श्रीरिति विश्वः । ह्रीरकार्यकरणे लज्जा । ‘‘ह्रीरकार्यनिवर्तनम्’’ इति वचनात् । दया प्राणिनां सुखप्रार्थनम् । दया सर्वसुखैषित्वमिति वचनात् ॥ कीर्तिश्च ताभिरुज्ज्ञितम् । स्वकर्मणा गुरुवधलक्षणेन पुरुषादैरपि निन्द्यम् । त्वामस्पृष्टवन्हिम् अदग्ध-देहमित्यनेन वह्निप्रदाभावोक्त्या निःशेषसुरसंहारं करिष्यामीति सूचयति । समदन्तु भक्षयन्तु ॥ १६ ॥

अन्ये तु ये त्वाऽनु नृशंसमज्ञा यद्युद्यतास्त्राः प्रहरन्ति मह्यम् ।

तैर्भूतनाथं सगणं निशातत्रिशूलनिर्भिन्नगलैर्यजामि ॥ १७ ॥

पदरत्नावली

त्वाऽनु त्वामनु ॥ १७ ॥

सत्यधर्म

नृशंसंत्वामित्यन्वयः । मह्यम् मां क्रिययेति चतुर्थी वा कर्मत्वा विवक्षायाम् । माहन्तुमित्यर्थेक्रियार्थापपदस्येति चतुर्थी वा । सगणं मानिकाभैरवादि समूहसहितं भूतनाथं रुद्रम् । वैष्णयोयं तथापि दुर्यागभोगस्य तत्तद्दूरा एवयोग्या इति योग्येय मुक्तिरेतत्समय इति ज्ञेयम् । निशातं शाणीकृतं यस्त्रिशूलं नेन निर्भिन्नागलायैषान्ते तैः । करणैरिति ॥ १७ ॥

चट्टी

अन्येऽप्यज्ञास्त्वा त्वां नृशंसं घातकमनु अनुसृत्य मह्यमुद्यतास्त्राः सन्तो यदि प्रहरन्ति तैर्भूतनाथान् भैरवादीन् वक्ष्यामि । कथंभूतैः । निशातं तीक्ष्णीकृतं यन्मम त्रिशूलं तेन निर्भिन्नो गलो येषां तैः ॥ १७ ॥

अथो हरे मे कुलिशेन वीर हर्ता प्रमथ्येह शिरो यदीह ।

तत्रानृणो भूतबलिं विधाय मनस्विनां पादरजः प्रपत्स्ये ॥ १८ ॥

पदरत्नावली

हरे इन्द्रः । इह युद्धे । तत्र तर्हि । इह अस्मिन् जन्मन्येव । मनस्विनां पूर्वं वीरस्वर्गं गतानां पादरजः प्रपत्स्ये तेषां लोकं गमिष्यामीत्यर्थः ॥ १८ ॥

सत्यधर्म

जयापजयौ नैकस्यैवेति निश्चय इति पूर्वोदीरितादन्यथा कथयति ॥ अथो इति ॥ यर्हि हे हरे । इन्द्र वीर यदीह । यस्मिन्मछिरः प्रमथनै । ईहाचेष्टा । इच्छावा इच्छाकांक्षास्पृहेहातृडित्यमरः । यस्य तत्सम्बुद्धिः । इहयुद्ध । तत्र तर्हि एक मय्यनृणे । भ्रातृ ऋणमुक्तः भूतबलिं कलेवरं विधाय । मनः स्विनाम् । पूर्वरणेशरीरपरिहाराणेन स्वर्गं गतानाम् । पाप्तजः । चरण धूलीं प्रयत्स्ये । तल्लोकं गमिष्यामीति भावः ॥ १८ ॥

चट्टी

अथोऽथवा । हे हरे इन्द्र । यदि भवानेव । इह युद्धे प्रमथ्य मां निष्पीड्य मम शिरो हर्ता हरिष्यति । तत्र तथाऽपि । अनृणो विमुक्तकर्मबन्धः सन् । बलिं विधाय मनस्विनां पादरजः प्रपत्से । धीराणां पदं प्राप्स्यामि ॥ १८ ॥

सुरेश कस्मान्न हिनोषि वज्रं पुरःस्थिते वैरिणि मय्यमोघम् ।

मा संशयिष्ठा न गदेव१ वज्रं स्यान्निष्फलं कृपणार्थेव याञ्चा ॥ १९ ॥

पदरत्नावली

हिनोषि मुञ्चसि । मा संशयिष्ठाः संशयं मा कार्षीः । भगानां भाग्यानां संपदां देव नाथ दातर्वा । अहल्याजारेति निन्दां वा सूचयति । प्रयुक्तं वज्रं नितरां फलतीति निष्फलं प्रयोजनवत् स्यात् । किन्तु कृपणार्था दरिद्रविषया याञ्चा व्यर्था भवति यथा तथा न स्यादित्यर्थः ॥ १९ ॥

सत्यधर्म

जीवितादपि ममानुमता मृतिरिति स्वाशयं यमसंशयं शंसति ॥ सुरेशेति । न हिनोषि न मुञ्चसि । स्यादिदमपि गदेवेति न गदेति गदति ॥ अमोघमिति । मा त्वं संशयिष्ठाः संशयं मा च कार्षीः । गदेवेति पाङ्क्तः पाठः । गदपक्षे व्यतिरेकश्च गुणातिरेक इति सन्तोष्टव्यम् । गदेव प्राक्प्रमुक्ता यथा गदाऽकार्यकारिणी तथैवेदं स्यादिति न गदेत्यावर्त्यान्वयो वा । निष्फलम् । कृपणार्था दीनविषयिणी याञ्चाऽयाचनम् । यथा निष्फलेति । निष्फलमिति विपरिणतं सदन्वेति ॥ १९ ॥

चट्टी

जीवितादपि मृत्युरेव ममाभिमत इत्याशयवानाह ॥ सुरेन्द्र इति । भगदेव कीर्त्यादि-गुणशालिन् । भग ऐश्वर्यमाहात्म्यज्ञानवैराग्ययोनिषु । वीर्यप्रयत्नेषु श्रीधर्मरविमुक्तिष्वित्यभिधानात् । न हिनोषि न निक्षिपसि । कृपणादर्थः प्रयोजनं यस्याः सा याञ्चा यथा निष्फला तथा वज्रं निष्फलं स्यात् तदिति मा संशयिष्ठाः संशयं मा कार्षीरित्यर्थः ॥ १९ ॥

नन्वेष वज्रस्तव शक्र तेजसा हरेर्दधीचेस्तपसा च तेजितः ।

तेनैव शत्रुं जहि विष्णुयन्त्रितो यतो हरिर्विजयः श्रीर्गुणास्ततः ॥ २० ॥

पदरत्नावली

हे शुक य एष तव वज्रः हरेस्तेजसा दधीचेस्तपसा च तेजितो निशितस् तेनैव शत्रुं मां जहीत्यन्वयः । विष्णुयन्त्रितो विष्णुवशः । यतो यत्र हरिस्ततस्तत्र विजयादिगुणाः स्युः ॥ २० ॥

सत्यधर्म

तदमोघताहेतूक्तिपूर्वकं मघवन्तं प्रोत्साहयति ॥ नन्विति । हे शक्र तवैष वज्रो हरेस्तेजसा ओजसा दधीचेस्तपसा च तेजितो निशातः । हे वज्रस्तव वज्रेणायुधेन स्तवो यस्येति वज्रस्य स्तवो येनेति तत्सम्बुद्धिरिति वा । ते तवाजितोऽपराभूत इति वा । तेनैव शत्रुं मां जहि । सामान्यव्याप्तिं चाह ॥ यतो विष्णुयन्त्रित इति । विष्णुवशो यत्र ततस्तत्र हरिः स्वयमेव वर्तते । ततः किमित्यतो वक्ति । विजयः परपराकृतिः, श्रीः सम्पत्, गुणा एतदितरे स्युरिति शेषः । यत्र योगेश्वरः कृष्णस्तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्ममेति गीताप्रगीतेः ॥ २० ॥

चट्टी

अमोघत्वे हेतुं वदन्प्रोत्साहयति ॥ नन्विति । हे शक्र । एषः, तव वज्रो हरेस्तेजसा दधीचेस्तपसा च तेजितस्तीक्ष्णीकृतो ननु । शत्रुं मां जहि । हनने शक्तिर्न शङ्कनीयेत्याह ॥ विष्णुना यन्त्रितः प्रेरित इति । यतो यत्र ततस्तत्र ॥ २० ॥

अहं समाधाय मनो यथाऽऽह सङ्कर्षणस्तच्चरणारविन्दे ।

त्वद्वज्ररंहोलुलितग्राम्यपाशो गतिं मुनेर्याम्यपविद्धलोकः ॥ २१ ॥

पदरत्नावली

वृत्रे सात्विकचेतनांशस्वभावं दर्शयितुमाह– अहमिति ॥ सङ्कर्षणो भगवान् तन् मनस्समाधानं यथाऽऽह तथा मनस्तस्य सङ्कर्षणस्य चरणारविन्दे समाधाय । तव वज्रवेगेन लुलितश् छिन्नो ग्राम्यपाशो विषयभोगलक्षणः पाशो यस्य स तथा । अपविद्धः परित्यक्तो लोको देहो येन स तथा । ‘अस्माल्लोकात् प्रेत्य’ इति श्रुतेः । परिभ्रष्टैतल्लोकस्थितिरिति वा । अहं मुनेर्ज्ञानिनो गतिं लोकं वैकुण्ठादिलक्षणं यामीत्यन्वयः । सन्न्यासलक्षणं वा ॥ २१ ॥

सत्यधर्म

आजौ सज्जीभूतः सज्जीव एवायमिति ग्रन्थकृतः स्वभावमाविष्कर्तुं भाषते ॥ अहमिति । सङ्कर्षणः श्रीहरिर्यथाऽऽह जहि वज्रेणेति तच्चरणारविन्दे मनः समाधाय त्वद्वज्रस्य रंहो वेगस्तेन लुलितो ग्राम्यपाशो वैषयिको बन्धो यस्य स सन् । अपविद्धलोकस्त्यक्तैतद्भूलोको वैतच्छरीरो वा । अस्माल्लोकात्प्रेत्येति श्रुतेः । मुनेर्गतिं ज्ञानप्राप्यां वैकुण्ठादिस्थलीं यामि । मुनेर्विश्वरूपस्येति वा ॥ २१ ॥

चट्टी

हननेन मम पीडा स्यादित्यपि मा संशयिष्ठा इत्याह ॥ अहमिति । सङ्कर्षणो मत्पति-र्यथाऽऽहोपदिदेश तथा तस्य चरणारविन्दे मनः समाधाय तव वज्रस्य रंहसा वेगेन लुलितश्छिन्नो ग्राम्यपाशो विषयभोगलक्षणो यस्य । अपविद्धलोकस्त्यक्तदेहस् तिरस्कृतस्वर्गादिलोको वा मुनेर्योगिनो गतिमहं यास्यामि ॥ २१ ॥

पुंसां किलैकान्तधियां स्वकानां याः संपदो दिवि भूमौ रसायाम् ।

न राति यस्माद् भयमुद्वेग आधिर्मदः कलिर्व्यसनं सम्प्रयासः ॥ २२ ॥

पदरत्नावली

ननु परत्र सुत्वं वा दुःखं वा न निश्चितम्, तवात्र चाखण्डैश्वर्यं दरीदृश्यते । एतल्लोकत्यागे तदपि त्यक्तं स्यात् , तस्मात् तव शोको न स्यात् किमित्यशङ्क्य सर्वस्येश्वराधीनत्वेन तद्दत्तमेव स्थिरतरं नान्यत्, किञ्च स्वभक्तेभ्यः स्वर्गादिकमपि न ददाति किमुत ऐहिकम्, अतो न शोको ममेत्याशयेनाह– पुंसामिति ॥ स लोकनाथः स्वर्गादौ याः सम्पदः सन्ति ताः स्वकानां पुंसां न राति किल । तासां सकाशाद् भयादिकमुत्पद्यत इति यस्मात्, तस्मादिति शेषः ॥ २२ ॥

सत्यधर्म

भगवद्भागवतक्रियामवगमयति ॥ पुंसामिति । एकान्तधियामेकान्तमतीनामेकान्तिनां स्वकानां स्वकीयत्वेन वृत्तानामस्मत्पतिर्हरिरस्मत्स्वामी दिवि स्वर्गे भूमौ रसायां रसातले याः सम्पदः सन्ति ता न राति न वितरति किल सत्यम् । यस्मात्कारणाद्भयं परकृतं, उद्वेगः कृतभयप्रतिभय-माधिर्मनोव्यथा मदोऽहङ्कारः कलिः कलियुगं व्यसनं तिरस्क्रिया सम्प्रयासो वृथायास इत्येते स्युरिति हेतोः ॥ २२ ॥

चट्टी

ननु भगवता दीयमानस्वर्गादिसंपदोऽपरिहार्यत्वात्कथमपविद्धस्वर्गादिलोकत्वमित्यत आह ॥ पुंसामिति । स्वर्गे भूमौ च याः सम्पदस्ताः किल निश्चितम् । न राति न ददाति । तत्र हेतुः । यस्मात्संप्रदानाद्भयादयो भवन्ति ॥ २२ ॥

त्रैवर्गिकायासविघातमस्मत्पतिर्विधत्ते पुरुषस्य शक्र ।

तेनानुमेयो भगवत्प्रसादो यो दुर्लभोऽकिञ्चनगोचरोऽन्यैः ॥ २३ ॥

पदरत्नावली

इतोऽपि हरेर्भक्तानुकम्पित्वं पश्येत्याशयेनाह– त्रैवर्गिकेति ॥ अस्मत्पतिर्भगवान् । पुरुषस्य भक्तस्य । तेन धर्मार्थकामपरिश्रमनाशेन । ‘यस्यानुग्रहमिच्छामि हरिष्ये तद्धनं शनैः’ इत्यादेः

॥ २३ ॥

सत्यधर्म

अस्मत्पतिः पुरुषस्य स्वभक्तजनस्य त्रैवर्गिको धर्मार्थकामरूपविषयसम्बन्धी य आयासस्तत्सम्पादनश्रमस्तस्य घातं विनाशं विधत्ते करोति । तेन एतद्घातेन भगवत्प्रसादोऽनुमेयः । घातस्य तत्कार्यत्वात् स सुलभ एवेत्यत आह ॥ य इति । अकिञ्चनगोचरो । तद्व्यतिरेकेण न किञ्च-नास्ति येषां तथा अतेषामेव गोचरो विषयस् ते न्यैस्तदितरैर्दुर्लभः ॥ २३ ॥

चट्टी

ताः स्वभक्तस्य किं विधत्त इत्यतस्तदाह ॥ त्रैवर्गिकेति । त्रैवर्गिको धर्मार्थकामविषयो य आयासस्तस्य विघातं विधत्ते । तेनायासोपरमेणैव भगवत्प्रसादोऽनुमेयः । न त्वैश्वर्यादिना । यस्यानुग्रह-मिच्छामि तस्य वित्तं हराम्यहमित्यादेरित्यर्थः ॥ २३ ॥

अहं हरे तव पादैकमूलदासानुदासो भविताऽस्मि भूयः ।

मनः स्मरेतात्मपतेर्गुणान् नो गृणीत वाक् कर्म करोतु कायः ॥ २४ ॥

पदरत्नावली

‘अधुनाऽहं समाधाय मनः’ इत्यत्र कथितमनःसमाधानप्रकारं निरूपयति– अहमिति ॥ मन आत्मपतेर् आत्मपतिं स्मरेत । अधीगर्थदयेषां कर्मणीति षष्ठी । नो वाक् तद्गुणान् गृणीत । कायः कर्म प्रणामादि करोतु ॥ २४ ॥

सत्यधर्म

हरे । हर इत्यरिं सम्बोधयतो यतोऽयं स्वभावभगवद्भक्तिसिन्धुस्तमःपारवश्येनास्य हरिस्मरणलहरीपरिवाहेनेत्थं मतिरतितरामाविरभूदित्याह ॥ अहमिति । तव पादावेवैकं मुख्यं केवलं वा मूलं येषां ते च ते दासाश्च ताननु अनुसृत्य दासः । असङ्ख्यार्थत्वात्पूर्वकालैकेत्यस्यावकाशः । एकं मूलमिति मूलपदान्वये सङ्ख्यार्थकत्वेन पूर्वनिपातो ज्ञेय इति वा । मन आत्मपतेर्निजराजस्य स्मरेत स्मरेत् । अधीगर्थदयेशां कर्मणीति षष्ठी । वाक् वाणी गुणान्गृणीत स्तुवीत नः कायः कर्म तन्नामादिकं करोतु ॥ २४ ॥

चट्टी

एवमिन्द्राय स्वाभिप्रायं निवेद्य भगवन्तं प्रार्थयते ॥ अहमिति । तव पादावेवैकं मूलं मुख्याश्रयो येषां तेषां दासानामनुदासो भूयो भविताऽस्मि भविष्यामि । भवेयम् । असुपतेः प्राणनाथस्य ते तव गुणान् मम मनः स्मरेत स्मरतु । वागपि तानेव गृणीत कीर्तयतु । कायस्तवैव कर्म करोतु

॥ २४ ॥

न नाकपृष्ठं न च पारमेष्ठ्यं न सार्वभौमं न रसाधिपत्यम् ।

न योगसिद्धीरपुनर्भवं वा समञ्जसं त्वां विरहय्य कांक्षे ॥ २५ ॥

पदरत्नावली

मम वीरस्वर्गोऽपि वैकुण्ठादिरित्याशयेनाह– न नाकपृष्ठमिति ॥ सार्वभौम-मित्यनेन भूमौ चक्रवर्तिपदमाह । योगसिद्धीर् अणिमादिलक्षणाः । अपुनर्भवं पुनरुत्पत्तिमात्रशून्यत्वेन सुखपूर्त्यभावलक्षणं मोक्षम् । समञ्जसं वैषम्यनैर्घृण्यबुद्धिशून्यं विरहय्य विहाय ॥ २५ ॥

सत्यधर्म

अहं रसाधिपत्यं रसातलस्वाम्यं न काङ्क्षे न काङ्क्षामि । सार्वभौमं सर्वभूमि-पृथिवीभ्यामणञावित्यणि तस्या ईश्वरः सार्वभौमः । अनुशतिकादित्वादुभयपदवृद्धिः । चक्रवर्तित्वम् । योगसिद्धीरणिमादिका नाकपृष्ठं स्वर्गतलं पारमेष्ठ्यं सत्यलोकाधिपत्यमपुनर्भवं पुनरुत्पत्तिरहितं मोक्षमपि । यथायोग्यं तरतमभावो बोध्यः । समञ्जसं सर्वापेक्षया समीचीनं त्वां विरहय्य त्यक्त्वा । ‘‘एकान्तानां न कस्यचिदर्थे नारायणो देवः सर्वमन्यत्तदर्थकम्’’ इत्यादेः ॥ २५ ॥

चट्टी

ननु किं दास्येन किन्तु तुभ्यं महाफलानि दास्यामीति चेत्तत्राह ॥ नेति । नाकपृष्ठं स्वर्गं तदुपरितनमहरादिलोकं च पारमेष्ठ्यं च सत्यलोकं, सार्वभौमं भूमण्डलाधिपत्यं रसातलस्वामित्वम् । योगसिद्धीर्योगलभ्या अणिमादिसिद्धीः । अपुनर्भवं मोक्षं वा । हे हरे समंजसं निखिलसौभाग्यनिधिं त्वां विरहय्य विहाय न कांक्षे नेच्छामीति । नञः प्रत्येकं क्रिययाऽन्वयः । ननु मोक्षस्य प्रधानफलत्वात् सर्वसाधनं च तदर्थत्वात् तदनाकांक्षणं कथमिति चेत् । इत्थम् । मोक्षो हि द्विविधः ‘‘सम्यक् स्वरूपाभिव्यक्तिरभावो जननस्य च’’ इति वचनात् । तत्र सम्यगानन्दाभिव्यक्तिलक्षणमोक्षापेक्षया पुनरुत्पत्तिराहित्यमात्रलक्षणस्य नीचत्वात्तथोक्तिर्युज्यत इति ॥ २५ ॥

अजातपक्षा इव मातरं खगाः स्तन्यं यथा वत्सतराः क्षुधार्ताः ।

प्रियं प्रियेवाध्युषितं विषण्णा१ मनोऽरविन्दाक्ष दिदृक्षते त्वाम् ॥ २६ ॥

पदरत्नावली

स्तन्यं स्ननच्युतं पयः । वत्सतरा अतिशयेन बालाः स्तनन्धयाः । प्रिया नवोढा भार्या । अध्युषितं प्रोषितम्, अन्यतः स्थितमित्यर्थः ॥ २६ ॥

सत्यधर्म

वत्सतराः केवलतर्णकाः । ‘‘वत्सस्तर्णकपत्रादिवर्ष’’ इति विश्वः । स्तन्यं स्तनभवं क्षीरम् । प्रिया नवोढा भार्या । अध्युषितं प्रवासितम् । प्रियं स्वभर्तारं विषण्णा विषादयुता । इव तथा । हे अरविन्दाक्ष कमललोचन । नो मनस्त्वां दिदृक्षते विषयीकर्तुमुत्सुकं भवति ॥ २६ ॥

चट्टी

ननु पारमेष्ठ्यादिकं नेच्छसि चेत्तर्हि किमिच्छसीत्यत आह ॥ अजातपक्षा इति । अजातपक्षाः खगा यूकादिभिः पीडिता यथा मातरम् । यथा च दाम्ना बद्धा वत्साः स्तन्यम् । यथा चाध्युषितं दूरदेशं गतं प्रियं कामेन विषण्णाः प्रियास्तथा मे मनस्तापत्रयपीडितं कर्मभिर्बद्धं च कामादिभिर्विषण्णं च प्रियं परमप्रेमास्पदं त्वां दिदृक्षते द्रष्टुमिच्छतीत्यर्थः ॥ २६ ॥

ममोत्तमश्लोकजनेषु सख्यं संसारचक्रे भ्रमतः स्वकर्मभिः ।

त्वन्माययाऽऽत्मात्मजदारगेहेष्वासक्तचित्तस्य न नाथ भूयात् ॥ २७ ॥

॥ इति श्रीमद्भागवते षष्ठस्कन्धे एकादशोऽध्यायः ॥

पदरत्नावली

श्रीहरिदर्शनसाधनमाह– ममेति ॥ न भूयात्, सख्यमिति शेषः ॥ २७ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

षष्ठस्कन्धे एकादशोऽध्यायः ॥

सत्यधर्म

कर्म संसारचक्रे स्वकर्मभिर्भ्रमतो निमित्तमात्रम् । वस्तुतस्तु स्वकर्मभिस्तव रूपविशेषै-र्भ्रमतः । ‘‘कर्मनामा तु भगवान्फलकर्तृत्वतो हरिः’’ इति बृहद्भाष्योक्तेः । त्वन्मायया बन्धकशक्त्या । आत्मा देहश्चात्मजाः पुत्राश्च दाराश्च भार्या च गृहं च तेष्वासक्तं तद्ध्यानपरं चित्तमन्तःकरणं यस्य तस्य मम । हे नाथ सख्यं पुनर्न भूयात् । तर्हि क्व तत्स्यादित्यत आह । उत्तमश्लोकजनेषु सख्यं भूयादिति । त्वत्सेवकलोकेषु । उत्तमश्लोक, जन, इषु, सख्यमिति वा छेदः । उत्तमो जनः यंननाथ अयाचत । अनाशीरर्थत्वात् परस्मैपदम् । श्लोकस्य ‘‘श्लोके यशसि पद्ये च’’ इत्यमरः निरुपपदादपि जनेर्डः । ‘‘जो जेतरि समाख्यातः कलत्रे जननेऽपि जम्’’ इति विश्वः । यद्वा श्लोके कीर्त्यर्थं जायत इति सप्तम्यां जनेर्डस् तत्सम्बुद्धिः श्लोकज । पद्ये यशसि च श्लोकश्चेत्यमरः । तत इषुसख्यं शरवत्सख्यम् । शरवत्तन्मयो भवेदित्याद्युक्तं केवलं लग्नं भूयात् । आत्मादिषु च न भूयादिति ॥ २७ ॥

॥ इति सत्यधर्मकृतायां श्रीभागवतटिप्पण्यां षष्ठस्कन्धे एकादशोऽध्यायः ॥ ६–११ ॥

चट्टी

हे नाथ । उत्तमश्लोकस्य तव जनेषु भक्तेष्वेव सख्यं मम भूयात् । त्वन्मायया त्वच्छक्तया देहादिष्वासक्तं चित्तं येषां तेषु भगवद्विमुखेषु न भूयात् ॥ २७ ॥

॥ इति श्रीभागवतटिप्पण्यां चट्टीव्याख्यायां षष्ठस्कन्धे एकादशोऽध्यायः ॥ ६–११ ॥