१० दशमोऽध्यायः

इन्द्रमेवं समादिश्य भगवान् विश्वभावनः

॥ अथ दशमोऽध्यायः ॥

श्रीशुक उवाच—

इन्द्रमेवं समादिश्य भगवान् विश्वभावनः ।

पश्यतामनिमेषाणां तत्रैवान्तर्दधे हरिः ॥ १ ॥

पदरत्नावली

शत्रुनिग्रहोऽपि भगवत्प्रीतिजनकत्वेन मुक्तिसाधनं स्यादित्यभिप्रेत्य कतिपयैरध्यायै-र्वृत्रवासवयोर्युद्धं निरूप्यते । तत्रादौ सतामभीष्टमवश्यं कर्तव्यं पुरुषेणेति देवेभ्यो दधीचेः स्वाङ्गदानप्रकारं वक्तुमाह– इन्द्रमिति ॥ ‘सुरमत्स्यावनिमिषौ’ इत्यमरः ॥ १ ॥

सत्यधर्म

अत्र शत्रुसंहरणं हरिकरुणाकारणं भवत्परम्परया साम्परायसाधनमिति वृत्रगोत्रभिदो युद्धं हरिहयतस्तद्धननं च कतिपयैरध्यायैर्वदन्नादौ दधीचिः किं शचीशाय शरीरं व्यतारीदथवा तं प्रातारीदिति राज्ञः संशयं शमयञ्छुको वक्तीति वक्ति ॥ श्रीशुक इति । विश्वमेतदीप्सितं सर्वं भावयतीति विश्वभावनः । अनिमेषाणां निर्लोचनमीलनानाम् । ‘‘निमेषोऽक्षिनिमीलने’’ इति विश्व । देवेन्द्रादीनामिति शेषः ॥ १ ॥

चट्टी

संवादव्याजतो धर्मस्वरूपं च निरूप्यते ॥ १ ॥

तथाऽभियाचितो देवैर्ऋषिराथर्वणो महान् ।

मोदमान उवाचेदं प्रहसन्नेव१ भारत ॥ २ ॥

सत्यधर्म

तथेश्वरेरितरीत्या मोदमानो ऽहो हेयस्यापि पततो देहस्यास्य महदुपयोगयोगसमय आयात इति तुष्यन्प्रहसन्नेव । क्लृप्तकालप्राप्त्यैव तन्मुखतो धर्मश्रुत्यैव चरमे समये सत्सम्भाषणमुन्नत्यै कारणमिति वाऽऽह ॥ २ ॥

चट्टी

मोदमान एव ॥ २ ॥

अपि वृन्दारका यूयं न जानीथ शरीरिणाम् ।

संस्थायां यस्त्वभिद्रोहो दुःसहश्चेतनापहः ॥ ३ ॥

पदरत्नावली

संस्थायां चेतनापहः बुद्धिभ्रंशकरः यो द्रोहः दुःखलक्षण उपद्रवस् तं वृन्दारका देवा अपि यूयं न जानीथेत्यन्वयः । सर्वप्राणिनां बुद्धिवृत्तिसाक्षित्वाद् भवतामित्यर्थः । अभिद्रोहस्य सर्वविषयज्ञाननाशकत्वात् ॥ ३ ॥

सत्यधर्म

देहधारिणां दशेदृशीति वक्ति ॥ अपीति । हे वृन्दारका देवाः शरीरिणां संस्थायां नाशे तद्विषये शरीरस्य योऽभिद्रोहः परचरितोपद्रवश्चेतनापहः संविद्भ्रंशकरो दुःसहोऽपि यूयं किन्न जानीथ । तत्त्वेशानां ज्ञानमस्तीति भावः । संस्था स्थितौ चरे नाशे । चेतना संविदि प्रोक्ता । अपि सम्भावनाप्रश्नः’’ इति विश्वस्मिन्विश्वः। संस्थायां तदर्थं योऽभिद्रोहः परकृतपीडा चेतनापहो दुःसहश्चैते यूयं न जानीथापि । तथा सम्भाव्यते । अमर्त्यत्वादिति वा । ‘‘उत्क्रान्तिमार्गौ देवानां न प्रायेण भविष्यतः’’ इत्यादेः ॥ ३ ॥

चट्टी

तन्मुखाद्धर्मं श्रोतुकामः प्रत्याचक्षाणमुवाच । अपीति द्वाभ्याम् । हे वृन्दारकाः । अपि किं संस्थायां मत्यौ योऽभिद्रोहो दुःखं तन्न जानीथ चेतनापहो बुद्धिभ्रंशकरः ॥ ३ ॥

जिजीविषूणां जीवानामात्मा प्रेष्ठ इहेप्सितः ।

क उत्सहेत तं दातुं भिक्षमाणाय विष्णवे ॥ ४ ॥

पदरत्नावली

‘आत्मा देहे समीरे च संसारिणि हरौ तथा’ इत्यभिधानाद् इह प्रियेषु वस्तुषु देहः प्रेष्ठः प्रियतम ईप्सिततम इति यद् अतः कः पुमान् भिक्षमाणाय अतिथिरूपेण याचमानाय विष्णवेऽपि तं देहं दातुमुत्सहेत प्रयतेत ॥ ४ ॥

सत्यधर्म

स्वदार्ढ्यं प्रकटयितुं किञ्चिद्दुस्त्यजतोपपादनं नटयति ॥ जिजीविषूणामिति । जीवनेच्छावतां जीवानां मदादीनामात्मा देहो य इहैतैरीप्सितो युष्माकमपेक्षितः सः प्रेष्ठोऽतिप्रियः । इष्ठनि परतः प्रियः स्थिरेति प्रादेशः । तं को दातुमुत्सहेत उत्साहवान् भवेत् । यदि मधुसूदनो याचेत तदा कथमित्यत आह ॥ भिक्षमाणाय विष्णव इति । विष्णवेऽपि । ‘‘आत्मा यत्ने धृतौ देहे’’ इति विश्वः । तत्प्रेरणयैत आयाता इत्येनं निदर्शनमनुपदर्श्य यन्मम सुकृतदातेति वदन् विष्णव इति तं कटाक्षितवानिति ज्ञेयम् । सामान्यतो जीवानां जिजीविषूणामिति वदन्नन्तरङ्गतो नाहं तथेति ध्वनयति

॥ ४ ॥

चट्टी

आत्मा देहो न केवलमीप्सितः किंत्विह प्रियसमस्तवस्तुषु प्रेष्ठोऽतिशयेन प्रियः । वयं जानीम एव । किन्तु विष्णुरस्मन्मुखेन ब्रूत इति चेत्तत्राह विष्णवेऽपि दातुं क उत्सहेत ॥ ४ ॥

देवा ऊचुः—

किन्नु तद् दुस्त्यजं ब्रह्मन् पुंसां भूतानुकम्पिनाम् ।

भवद्विधानां महतां पुण्यश्लोकेड्यकर्मणाम् ॥ ५ ॥

पदरत्नावली

पुण्यश्लोकैः पुरुषैरीड्यानि स्तुत्यानि कर्माणि देहदानादीनि येषां ते तथा तेषाम्

॥ ५ ॥

सत्यधर्म

न नाभित इदमभिहितमिति जानन्तोऽप्यन्यापदेशेन स्वाभिलषितं तु दातुं तं प्रोत्साहयन्ति । पुंसां किन्नु तद्दुस्त्यजं दुःखसाध्यत्यागमिति । ते च कीदृशाः पुमांस इत्यतो भूतानु-कम्पिनां प्राणिभृन्मात्रदयायुजां शिखादिरनुकम्पीति । ते च लोके के वेत्यत आह ॥ भवद्विधाना-मिति । भवतो विधा प्रकार इव प्रकारा येषां ते तथा । एतदौपम्यस्यान्यात्रोक्त्या मुख्यत्वमेतस्यैव ध्वनयामासुः । पुण्यश्लोकेड्यकर्मणां पुण्यश्लोकैर्महायशस्विभिरीड्यानि स्तुत्यानि कर्माणि येषां तेषाम्

॥ ५ ॥

चट्टी

पुण्यश्लोकैरीड्यानि कर्माणि येषां ते तथा ॥ ५ ॥

नूनं स्वार्थपरो लोको न वेद परसङ्कटम् ।

यदि वेद न याचेत नेति नाह यदीश्वरः ॥ ६ ॥

तात्पर्यम्

‘आज्ञयैव महाविष्णोः कार्यार्थमपि च क्वचित् । नीचानपि च याचन्ते स्वात्मनो गुणवत्तराः । नीचवाक्यं वदेयुश्च सुरा नैतावता क्वचित् । तेजःक्षतिर्भवेदेषां जनकस्य यथार्भकात्’ इति तन्त्रमालायाम् ॥ ६ ॥

पदरत्नावली

नूनं प्रायः परसङ्कटं परदुःखं दातुमश्यक्यं दातव्यं चेति वा, परसङ्कटं यदि वेद तर्हि न याचेत । सामान्यमुक्त्वा विशेषमाहुः– नेतीति ॥ अशक्यमपि दातुं यदीश्वरः समर्थस्तर्हि याचितः सन् असौ दास्यामीति नेति नाह न वक्तव्यम् । ते जानन्तोऽपीदृशो याचनीय इति जानन्तो वयं दातुं समर्थं भवन्तं याचामह इत्यभिप्रायः । न चात्र देवानां स्वात्मनो नीचमाथर्वणं याचमानानामपि अभिमानलक्षणतेजःक्षतिः शङ्कनीया । कार्यगौरवविवक्षया तदभावस्य प्रामाणिकत्वाद्, हर्याज्ञा-कारित्वाच्च । ‘आज्ञयैव महाविष्णोः कार्यार्थमपि च क्वचित् । नीचानपि तु याचन्ते स्वात्मनो गुणवत्तराः । नीचवाक्यं वदेयुश्च सुरा नैतावता क्वचित् । तेजःक्षतिर्भवेदेषां जनकस्य यथार्भके ॥’ इति वचनात् ॥ ६ ॥

सत्यधर्म

ननु स्वभावत उत्तमानाममराणाम् अवराणां स्तवननमने नीचवद्वचनादि च न मम सुरुचिरमित्यत ऊचे ॥ आज्ञयैवेति । स्वात्मनः कार्यार्थमित्यन्वयः । स्वयं गुणवत्तरा अपि तेभ्यः किञ्चन नीचवाक्यमवाच्यं स्वनैच्यमपि सुरा वदेयुः । एतावतैतेषां तेजःक्षतिर्मानहानिः क्वचिदपि न भवेत् । अर्भके स्वगर्भजे बाले पितुः पितः स्वामिन्निति वचो यथा न नीचतावहं तथाऽमराणामवरान्प्रति वचनं न मानभङ्गावहमिति भावः ॥ ततश्चायं मूलार्थः ॥ युष्माकमस्माकं चैतदनुभवसिद्धं तथाऽपीश्वरेण त्वदादिना एवम्भाव्यमित्याहुः ॥ नूनमिति । परसङ्कटं त्वद्देहादानेऽमरमरणदं सङ्कटं स्वार्थपरो लोको न वेद । परसङ्कटं त्वच्छरीरवितरणक्षणे तव जायमानं सङ्कटं च परोऽस्मदादिर्न वेद नूनं निश्चितम् । केनैतन्निश्चय इत्यतोऽन्वयव्यतिरेकाभ्यामित्याहुः ॥ यदीति । यदि वेद तर्ह्येवं न याचेत । याचते चातो न वेदेत्यर्थः । यदीश्वरः सन्नपि नेत्याह यः स न वेद परसङ्कटम् । अथवा यो नेत्याह स ईश्वरोऽपि नेश्वर इत्यर्थः । अतस्त्वमीश्वरो वयं तु याचका एकमृतितोऽनेकमृतिर्गरीयसीति लघीय एव कर्तव्यमिति तात्पर्यमवसेयम् ॥ ६ ॥

चट्टी

याचको यदि न वेद तर्हि न याचेत । यदीश्वरो दानसमर्थो भवेत्तर्हि सोऽपि नेति नाह । अतो यथा तव सङ्कटं वयं स्वार्थपरा न जानीमः । एवं प्रत्याचक्षाणस्त्वमप्यस्मत्सङ्कटं वयं स्वार्थपरा न जानासीति भावः । उत्तमानामपि देवानां दैन्यवचनपूर्वकं नीचप्रार्थनेऽपि न तेजोभङ्गः । विष्ण्वाज्ञा-मूलत्वात् ॥ तथा चोक्तम् ॥ आज्ञयैव महेत्यादि ॥ ६ ॥

ऋषिरुवाच—

धर्मं वः श्रोतुकामेन यूयं वै प्रत्युदाहृताः ।

एष वः प्रियमात्मानं त्यजन्तं सन्त्यजाम्यहम् ॥ ७ ॥

पदरत्नावली

प्रत्युदाहृता निराकृता इवोक्ताः । त्यजन्तं त्यक्ष्यन्तम् ॥ ७ ॥

सत्यधर्म

श्रोतुकामेन तुं काममनसोरपीति तुमुनो लोपे श्रोतुं कामो यस्य स श्रोतुकामस्तेन । मया प्रत्युदाहृताः प्रत्याख्याता इवोक्ताः । एषोऽहं ‘‘अद्य वाऽब्दशतान्ते वा देहोऽयं क्षणभङ्गुरः’’ इत्यादेरात्मानं मां त्यजन्तं वर्तमानसामीप्येन तत्त्वेन व्यपदेशः । अथवा क्रियाप्रबन्धे लडित्युक्ते-र्लडादेशः । शता कालसामान्यार्थक इति त्यक्ष्यन्तं वः प्रियं कृत्वा सन्त्यजामि ॥ ७ ॥

चट्टी

वः सकाशात् । धर्मं श्रोतुकामेन मया प्रत्युदाहृता प्रत्युक्ताः । एषोऽहं त्यजन्तं मां त्यक्त्वाऽऽयातमात्मानं देहम् ॥ ७ ॥

योऽध्रुवेणात्मना नाथा न धर्मं न यशः पुमान् ।

ईहेत भूतदयया स शोच्यः स्थावरैरपि ॥ ८ ॥

पदरत्नावली

अध्रुवेणात्मना अनित्येन देहेन । हे नाथाः । स्थावरैः स्तब्धैर्विवेकशून्यैरित्यर्थः

॥ ८ ॥

सत्यधर्म

योऽध्रुवेणाशाश्वतेन । हे अनाथाः कदाऽप्ययाचमानाः । नञ्द्वयस्य धर्मयशो-द्वयेनान्वयः । नेहेत नेच्छेत् । स पुमान्स्थावरैस्तत्समैर्विवेकविकलैरपि शोच्यः । हे नाथा इति ॥ ८ ॥

चट्टी

अध्रुवेणानित्येनात्मना देहेन हे नाथा नेहेत न सम्पादयत ॥ ८ ॥

एतावानव्ययो धर्मः पुण्यश्लोकैरुपासितः ।

यो भूतशोकहर्षाभ्यामात्मा शोचति हृष्यति ॥ ९ ॥

सत्यधर्म

पुण्यश्लोकैः शिबिप्रभृतिभिः । आत्मा स्वयं तत्समसुखदुःख इत्येतावानव्ययो धर्म उपासितः ॥ ९ ॥

चट्टी

यो भूतानां शोचेनानुशोचति ॥ हर्षेण हृष्यति । तस्य यो धर्म एतावानेवाव्ययः ॥ ९ ॥

अहो दैन्यमहो कष्टं पारक्यैः क्षणभङ्गुरैः ।

यन्नोपकुर्यादस्वार्थैर्मर्त्यः स्वज्ञातिविग्रहैः ॥ १० ॥

पदरत्नावली

पारक्यैः परेषां श्वशृगालादीनां भक्ष्यभूतैः । अस्वार्थैः परप्रयोजनैः । स्वज्ञातिभिः स्वजनैः स्वविग्रहैः स्वदेहैश्च ॥ १० ॥

सत्यधर्म

पारक्यैः श्वशृगालभक्ष्यैः परसम्बन्धिभिः । अस्वार्थैः । एवमनियोजने त्वस्वप्रयोजनैः स्वज्ञातिविग्रहैः स्वज्ञातिभिःस्वजनैः स्वविग्रहैः स्वदेहैश्च यद्यो मर्त्यो नोपकुर्यात्तस्य दैन्यमहो कष्टं चाहो चित्रमित्यर्थः । यदि नोपकुर्यात्तर्ह्ययं मर्त्यो देहः । अस्वार्थैरेतत्कृतस्वप्रयोजनहीनैः स्वज्ञातिकलहै-र्निमित्तैः पारक्यै रिपुसम्बन्धिभिश्च क्षणभङ्गुरैः क्षणा उत्सवा भङ्गुरा यैस्तैर्नास्माकमुपकुर्यादिति यत्तस्मिन्दैन्यं तद्विषयो लोभः कष्टमहो इति वा । कालविशेषोत्सवयोः क्षणः । भञ्जभासमिदो धुरच् । चजोः कुघिण्यतोरिति कुत्वम् । भङ्गुरो हृदयार्तिकृदिति भागुरिः ॥ १० ॥

चट्टी

पारक्यैः सृगालादिभक्ष्यैः । अस्वार्थैरात्मोपयोगशून्यैः स्वज्ञातिविग्रहैः । ज्ञातयःपुत्रादयः । विग्रहो देहस्तेनोपकुर्यादिति यत् तत्कष्टम् ॥ १० ॥

श्रीशुक उवाच—

एवं कृतव्यवसितो दध्यङाथर्वणस्तनुम् ।

परे भगवति ब्रह्मण्यात्मानं संनयन् जहौ ॥ ११ ॥

पदरत्नावली

आत्मानं मनो ब्रह्मणि सम्यक् नयन् । आत्मानं देहम् ॥ ११ ॥

सत्यधर्म

कृतव्यवसितः कृतनिश्चयो दध्यङ् दधीचिस्तस्यैवैतानि नामानि । परे भगवति ब्रह्मणि आत्मानं मनो नयंस्तत्रैव योजयंस्तनुं जहौ । पूर्वं गात्रमङ्गानीत्येव प्रस्तुतत्वेऽपि तनुमिति स्त्रीलिङ्ग-निर्देशेन स्त्रीपरित्यागस्तु कियानित्यलक्ष्यतां ध्वनयामास व्यासः ॥ ११ ॥

चट्टी

कृतं व्यवसितं निश्चयो येन स तथा । आत्मानं मनो ब्रह्मणि संनयन्सम्यक् स्थापयन् । यद्वा आत्मानं स्वान्तर्यामिणं ब्रह्मणि व्याप्तरूपे संनयन् एकीकुर्वन् । हरौ हरेर्भवेन्नीतिस्तदेकत्वस्य चिन्तनादिति वचनात् । तनुं जहौ ॥ ११ ॥

यताक्षासुमनोबुद्धिस्तत्वदृग् ध्वस्तबन्धनः ।

आस्थितः परमं योगं न देहं बुबुधे गतम् ॥ १२ ॥

पदरत्नावली

यत्ता इन्द्रियप्राणमनोबुद्धयो येन स तथा । हरेस्तत्त्वं स्वरूपं पश्यन् । योगं मूलाधारमारभ्य द्वादशान्तपर्यन्तं प्राणोन्नयनलक्षणम् ॥ १२ ॥

सत्यधर्म

यताऽक्षासुमनोबुद्धिर्नियमिता इन्द्रिता यप्राणमनोबुद्धयो येन सः । तत्त्वं भगवन्तम् पश्यतीति स तथा । ध्वस्तबन्धो नष्टसंसार ममत्वः परमो योगो यत्र यत्र यस्य यस्य लयचिन्तनम् । प्राणादीनां सङ्ग्रहोपायस्तमास्थितो गतं देहं न बुबुधे न व्यज्ञासीत् । गतं स्वान्तःप्रतिबिम्बितं नदेहं नदे क्षीरनीरादावीहा चेष्टा यस्य तम् । क्षीरशरधिविहारं श्रीहरिं तन्मात्रं बुबुध इति चार्थः ॥ १२ ॥

चट्टी

यता नियता इन्द्रियमनोप्राणबुद्धयो येन स तथा । तत्त्वं शश्वदेकप्रकारं भगवन्तं पश्यतीति तथा । अतीतानागते काले यत्तादृशमुदीर्यते । कुतश्चिदन्यथा नेयात्तत्तत्त्वं न त्वनो विदुरिति वचनात् । ध्वस्तानि गतानि बन्धनानि पुत्रादिस्नेहलक्षणानि यस्य स तथा ॥ १२ ॥

अथेन्द्रो वज्रमुद्यम्य निर्मितं विश्वकर्मणा ।

मुनेस्त्वस्थिभिरुत्सिक्तो भगवत्तेजसाऽन्वितः ॥ १३ ॥

पदरत्नावली

उत्सिक्त उन्नद्धः ॥ १३ ॥

सत्यधर्म

मुनेरस्थिभिर्विश्वकर्मणा विश्वकर्मा विमनेत्यादेर्भगवतोक्त प्रकारेण विश्वकर्मणा तक्ष्णा निर्मितं ‘‘मत्तेज उपबृंहितः’’ इत्युक्तरीत्या भगवतो जसमन्वितस्तं वज्रमुद्यम्य उत्सिक्त उत्सुकं प्राप्तोऽशोभतेत्यन्वयः ॥ १३ ॥

चट्टी

अथेन्द्रोऽशोभतेत्युत्तरेणान्वयः । अस्थिभिर्निर्मितम् । उत्सिक्त ऊर्जितः ॥१३,१४॥

युतो देवगणैः सर्वैर्गजेन्द्रोपर्यशोभत ।

स्तूयमानो मुनिगणैस्त्रैलोक्यं हर्षयन्निव ॥ १४ ॥

सत्यधर्म

गजेन्द्रोपरि ऐरावतस्योपरि । पूरणगुणसुहितार्थसदव्ययतव्येत्यत्र पूर्वोत्तरसाहचर्या-त्कृदव्ययस्यैव समासनिषेधाद्गजेन्द्रोपरीति सम्भवति । तेन तदुपरीत्यादि सिद्धमिति रक्षित इत्युक्तेः । त्रैलोक्यं त्रिलोकीभवं जनम् ॥ १४ ॥

वृत्रमभ्यद्रवच्छत्रुमसुरानीकयूथपैः ।

पर्यस्तमोजसा राजन् क्रुद्धो रुद्र इवान्तकम् ॥ १५ ॥

पदरत्नावली

पर्यस्तं परिवृतम् ॥ १५ ॥

सत्यधर्म

पर्यस्तं परीतम् ओजसा भागवतेन तेजसा निरस्तप्रायमिति वा । असुरानीकयूथपैः सहेति वा । रुद्रोऽन्तकं मृत्युम् । अत एव मृत्युञ्जय इति नाम । उक्तं च स्कान्दे सनत्कुमारसंहितायां सह्याद्रिखण्डे । अपश्यमन्तिके कालं तं जिघृक्षतमोजसा । स पाशपरशुव्यग्रं खण्डशूलधनुर्धरम् । मदाज्ञोल्लङ्घनं पुत्र दृष्ट्वा क्रोधमुपेयिवान् । मम क्रोधाग्निना कालो भस्मशेषो बभूवह ॥ इति ॥ १५ ॥

चट्टी

असुरानीकानां यूथपैः पर्यस्तं परिवृतम् ॥ १५ ॥

ततः सुराणामसुरै रणः परमदारुणः ।

त्रेतामुखे नर्मदायामासीद् वै प्रथमेऽन्तरे ॥ १६ ॥

पदरत्नावली

ननु कस्मिन् काले कस्मिन् देशे वृत्रवासवयोर्युद्धमभूदिति तत्राह– त्रेतामुख इति ॥ अन्तरे अस्मिन् वर्तमाने वैवस्वताख्यमन्वन्तरे तत्रापि प्रथमे युगे प्रथमचतुर्युगे तत्रापि त्रेतामुखे त्रेतायुगस्यादौ नर्मदायां नर्मदातीरे । गङ्गयां घोष इतिवत् तत्र तत्र लक्षणोक्त्या प्रथमरणस्तु नर्मदातीरे, द्वितीयरणस्तु मृतिकाले समुद्रतीर इति विशेषो ग्रन्थान्तरेण ज्ञातव्यः ॥ १६ ॥

सत्यधर्म

कालादिकमालपति ॥ त्रेतामुख इति । अन्तरे वैवस्वतमन्वन्तरे तत्रापि प्रथमे प्रथमचतुर्युगे तत्रापि त्रेतामुखे त्रेतायुगारम्भे नर्मदायां तत्तीरे । रणस्त्वत्र मरणं समुद्रतीर इति विशेषः । यथोक्तेर्ज्ञेयः ॥ १६ ॥

चट्टी

अन्तरे वर्तमाने वैवस्वतमन्वन्तरे प्रथमे चतुर्युगे । त्रेतायुगस्य मुखे आरंभे । नर्मदायां नर्मदातीरे । रण आसीदिति शेषः ॥ १६ ॥

रुद्रैर्वसुभिरादित्यैरश्विभ्यां पितृवह्निभिः ।

मरुद्भिर्ऋभुभिः साध्यैर्विश्वेदेवैर्मरुत्पतिम् ॥ १७ ॥

दृष्ट्वा वज्रधरं शक्रं रोचमानं स्वया श्रिया ।

नामृष्यन्नसुरा राजन् मृधे वृत्रपुरःसराः ॥ १८ ॥

सत्यधर्म

रुद्रादयो गणाः । स्वया प्राक्तन्या श्रिया ततोऽधिकया भगवत्या चेत्यर्थः ॥१७,१८॥

चट्टी

मरुत्पतिं मरुतां देवानां पतिं नामृष्यन्नासहंत ॥ १७–२१ ॥

नमुचिः शम्बरोऽनर्वा द्विमूर्धा वृषभोऽम्बरः ।

हयग्रीवः शंकुशिरा विप्रचित्तिरयोमुखः ॥ १९ ॥

पुलोमा वृषपर्वा च प्रहेतिर्हेतिरुत्कचः ।

व्योमकेशो विरूपाक्षः कपिलोऽथ विभावसुः ॥ २० ॥

इल्वलो बल्वलश्चैव दन्दशूको वृषध्वजः ।

कालनाभो महानाभो भूतसन्तापनो वृकः ॥ २१ ॥

सत्यधर्म

अम्बरस्तन्नामा ॥ २१ ॥

दैतेया दानवा यक्षा रक्षांसि च सहस्रशः ।

सुमालिमालिप्रमुखाः कार्तस्वरपरिच्छदाः ॥ २२ ॥

प्रतिषिध्येन्द्रसेनाग्य्रं मृत्योरपि दुरासदम् ।

अभ्यद्रवन्नसम्भीताः सिंहनादेन दुर्मदाः ॥ २३ ॥

पदरत्नावली

कार्तस्वरपरिच्छदाः सुवर्णालङ्काराः ॥ २२ ॥

सत्यधर्म

कार्तस्वरपरिच्छदा हेममयरथादिमन्तः । कार्तस्वरादिकं सुवर्णसामान्यम् । विशेषस्य विशेषणीयत्वात् । यथोक्तं बृहदारण्यकभाष्ये– ‘‘मयं तु मानुषं स्वर्णं पीतं गान्धर्वमेव च । इन्द्रगोपनिभं नाम्ना जाम्बूनद इति स्मृतम् । दैवं चामीकरं नाम प्रोद्यदादित्यसन्निभम् । तेजोविशेषः स्वर्णानामेतेषां सर्वदैव च । नाग्न्यादिनाऽपि समतां यान्ति तानि कथञ्चन’’ ॥ इति ॥ २२,२३ ॥

चट्टी

कार्तस्वरपरिच्छदाः सुवर्णालङ्काराः ॥ २२,२३ ॥

गदासिपरिघैर्बाणैः पाशमुद्गरतोमरैः ।

शूलैः परश्वधैः खड्गैः शतघ्नीभिर्भुशुण्डिभिः ।

सर्वतोऽवाकिरन्नस्त्रैः शस्त्रैश्च विबुधर्षभान् ॥ २४ ॥

पदरत्नावली

अवाकिरन् अवर्षन् ॥ २४ ॥

चट्टी

‘‘शतघ्नी तु चतुर्हस्ताल्लोहकण्टकसञ्चिका । भुशुण्डी सर्वतो लोहकण्टकानुक्रमात्ततः’’ इतेत्यभिधानात् ॥ २४ ॥

न तेऽदृश्यन्त सञ्छन्नाः शरजालैः समन्ततः ।

पुङ्खानुपुङ्खैः पतितैः प्रावृषीव नभो घनैः ॥ २५ ॥

पदरत्नावली

प्रावृषि वर्षाकाले ॥ २५ ॥

सत्यधर्म

पुङ्खानुपुङ्खैः पुङ्खान् पूर्वमुक्तबाणपुच्छभागाननुसृत्य स्वपुङ्खाग्रभागा येषां ते तथा तैः । ‘‘पुङ्खः स्यान्मङ्गलाचारे शराग्राननयोः’’ इति विश्वः । त्वरया पश्चान्मुक्तानामपि तत्समगमनमिति ज्ञेयम् । प्रावृषि वर्षाकाले ॥ २५ ॥

चट्टी

पुंखो मूलदेशस्तस्य पुंखमनु तत्सल्लग्नोपरस्य पुंखा यथा भवति तथा । आसमन्ता-त्पतितैरित्यर्थः । प्रावृषि वर्षाकाले ॥ २५ ॥

न ते शस्त्रास्त्रबाणौघा व्या(ना)सेदुः सुरसैनिकान् ।

छिन्नाः सिद्धपथे देवैर्लघुहस्तैः सहस्रधा ॥ २६ ॥

पदरत्नावली

लघुहस्तैः शीघ्रवेधिभिर् देवैः । सिद्धपथे व्योमि्न । स्वप्राप्तेः पूर्वं मध्यमार्ग एव छिन्नाः ॥ २६ ॥

सत्यधर्म

व्यासेदुरासादितवन्तः । सिद्धपथे गगने लघुहस्तैः क्षिप्रहस्तैः ॥ २६ ॥

चट्टी

शस्त्राणामस्त्राणां च यानि वर्षाणि तेषामोघा लघुहस्तैः शीघ्रवेधिभिः सिद्धपथे आकाशे । स्वप्राप्तेः पूर्वं मध्यमार्ग एव च्छिन्नाः सन्तो नासेदुर्न प्रापुः ॥ २६ ॥

अथ क्षीणास्त्रशस्त्रौघा गिरिशृङ्गद्रुमोपलैः ।

अभ्यवर्षन् सुरबलं चिच्छिदुस्तांश्च पूर्ववत् ॥ २७ ॥

चट्टी

क्षीण अस्त्राणां शस्त्राणां चोघो येषां ते । गिरिशृृङ्गैर्द्रुमैरुपलैश्च ॥ २७ ॥

तानक्षतान् स्वस्तिमतो निशम्य शस्त्रास्त्रपूगैरथ वृत्रनाथाः ।

द्रुमैर्दृषद्भिर्विविधाद्रिशृृङ्गैरथाक्षिपंस्तत्र सुरेन्द्रसैनिकान् ॥ २८ ॥

पदरत्नावली

वृत्रो नाथो येषां ते तथा । दृषद्भिः पाषाणैः ॥ २८ ॥

सत्यधर्म

स्वस्तिमतः सुखिनोऽक्षतान् स्वायुधछेदात् । वृत्रो नाथो येषां ते तथा तान् ॥ २८ ॥

चट्टी

वृत्रो नाथो येषां ते दैत्यास्तान्सुरेन्द्रस्य सैनिकान् । शस्त्राणां पूगैः समूहैः । द्रुमैर्दृषद्भिः पाषाणैः । विविधाद्रिशृृङ्गैश्चाक्षतान् क्षतशून्यान् । स्वस्तिमतः सुखिनश्च निशम्य निरीक्ष्य । अथानन्तर-मपि तत्सुरेन्द्रसैनिकेष्वस्त्रशस्त्रादीनक्षिपन्नित्यन्वयः ॥ २८ ॥

सर्वे प्रयासा अभवन् विमोघाः कृताः कृता देवगणेषु दैत्यैः ।

कृष्णानुकूलेषु यथा महत्सु क्षुद्रैः प्रयुक्ता रुशती रूक्षवाचः ॥ २९ ॥

पदरत्नावली

प्रयासाः प्रहारलक्षणाः प्रयत्नाः । कृष्णोऽनुकूलोऽनुग्रहाभिमुखो येषां ते तथा तेषु । रुशतीर् हिंसनाः । रुष रिश हिंसायामिति धातुः । महत्सु दुर्वासःप्रभुतिषु यतिषु क्षुद्रैर् हंसडिभिकादिजनकल्पैः ॥ २९ ॥

सत्यधर्म

विमोघा व्यर्थाः । कृष्णानुकूलेषु कृष्णोऽनुकूलः सहायो येषां ते तथा तेषु । रुशती रुशत्यः हिंस्राः । रिषरुष हिंसायामिति स्मरणात् । रूक्षा उल्बणास्त्वङ्कारपूर्विकाः । महत्सु गुरुषु निस्पृहेष्विति वा ॥ २९ ॥

चट्टी

कृताः कृताः पुनः पुनः कृताः । कृष्णोऽनुकूलो येषां तेषु देवगणेषु । रुशती रुशत्यो हिंसत्यः । रु हिंसायामिति धातोः । रूक्षाः परुषा वाचो यथा महत्सु क्षोभकार्यो न भवति ॥ २९ ॥

ते स्वप्रयासं वितथं निरीक्ष्य हरावभक्ता हतयुद्धदर्पाः ।

पलायनायाजिमुखे विसृज्य पतिं मनस्ते दधुरस्तसाराः ॥ ३० ॥

पदरत्नावली

पतिं वृत्रम् । अस्तसारा निरस्तबलाः ॥ ३० ॥

सत्यधर्म

विष्णावित्यनुक्त्वोक्त्व चेत्थं हरे रुद्रेऽपि अवभक्ता अभक्ता इति सूचयामास इति ज्ञेयम् । पतिं सेनानाथं वृत्रम् । अस्तसारा निर्बला विसृज्य पलायनाय मतिं दधुः ॥ ३० ॥

चट्टी

हतो युद्धदर्पो येषाम् । अस्तसारा निर्धैर्यास्तेऽतिप्रसिद्धा अपि दैत्या आजिमुखे युद्धारम्भे पतिं विसृज्य पलायनाय मनो दधुर्यतो हरावभक्ता इत्यन्वयः ॥ ३० ॥

वृत्रोऽसुरांस्ताननुगान् मनस्वी प्रधावतः प्रेक्ष्य बभाष एतत् ।

पलायितं प्रेक्ष्य बलं च भग्नं भयेन तीव्रेण विहस्य वीरः ॥ ३१ ॥

पदरत्नावली

मनस्वी प्रशस्तमनाः ॥ ३१ ॥

चट्टी

प्रधावतः पलायमानान् प्रेक्ष्यादावेव तीव्रेण भयेन पलायितं भग्नं च यद्बलं सैन्यं च प्रेक्ष्यैतद्वक्ष्यमाणं बभाषे ॥ ३१ ॥

कालोपपन्नां रुचिरां १मनस्वी उवाच वाचं पुरुषप्रवीरः ।

हे विप्रचित्ते नमुचे पुलोमन् मयानर्वन् शम्बर मे शृणुध्वम् ॥ ३२ ॥

सत्यधर्म

मनस्वी प्रशस्तचित्तः । मनस्विनामिति पाठः सरलः । तेषां रुचिरां मनोहराम् । मय तक्षन् शृृणुध्वम् । वच इति शेषः ॥ ३२ ॥

चट्टी

तदेव विशिनष्टि ॥ कालेति । कालोपपन्नामवसरोचितां मनस्विनां रुचिराम् । हे मय । हे अनर्वन् मे वाचं शृणुध्वम् ॥ ३२ ॥

जातस्य मृत्युर्ध्रुव एष सर्वतः प्रतिक्रिया यस्य न चेह क्लृप्ता ।

लोको यशश्चाथ ततो यदि ह्यमुं को नाम मृत्युं न वृणीत युक्तम् ॥ ३३ ॥

सत्यधर्म

अन्यत्र पलायनेन निलीनानां किं कालमृत्यूत्थापनं घटेत नानेन कृत्यं प्रत्युत प्राप्यफललय एवातो न कुरुतैवमित्याह ॥ जातस्येति । सर्वतः प्रतिक्रिया परिहारो यस्य मृत्योर्न क्लृप्ता । यतो मृत्योः सकाशाल्लोको ‘‘हतो वा प्राप्स्यसि स्वर्गम्’’ इत्यादेः परत्र स्वर्गोऽत्र यशश्च स्यातां ततो हेतोरमुं तं युक्तं शास्त्रशंसितं को नाम न वृणीत न वरयेत् ॥ ३३ ॥

चट्टी

ततो मृत्योरिह यशो लोकः स्वर्गश्च यदि स्यादथ तर्ह्यमुं मृत्युं युक्तं समीचीनं वा प्राप्तं वा को नाम न वृणीत ॥ ३३ ॥

द्वौ सम्मताविह मृत्यू दुरापौ यद् ब्रह्मसंधारणया जितासुः ।

कलेवरं योगरतो विजह्याद् यदग्रणीर्वीरशयेऽनिवृत्तः ॥ ३४ ॥

॥ इति श्रीमद्भागवते षष्ठस्कन्धे दशमोऽध्यायः ॥ १० ॥

पदरत्नावली

इतोऽपि युद्धमरणं प्रशस्तमित्याह– द्वाविति ॥ योगरतो जितप्राणश्च यो ब्रह्मसन्धारणया ब्रह्मध्यानेन कलेवरं विजह्यादिति यद् युद्धादनिवृत्तोऽग्रणीर् यो वीराणामग्रतो गत्वा वीरशये युद्धाङ्गणे शरीरं जहातीति यच्च मरणं, तयोर्द्वावेतौ मृत्यू दुष्प्राप्तौ सम्मतौ शास्त्रविहिता-वित्यन्वयः ॥ ३४ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

षष्ठस्कन्धे दशमोऽध्यायः ॥ ६–१० ॥

सत्यधर्म

द्वौ मृत्यू इह लोके दुरापौ असुलभलाभौ सम्मतौ प्रार्थनीयतयाऽनुमतौ । तौ कावित्यतो विविच्योचे । यद् ब्रह्म संधारणया खण्डखण्डनाय संपदम् । अखण्डध्यानेन जितासु-र्निगृहीतप्राणो योगरतस्तदुपायचिन्तकः कलेवरं जह्यादिति । वीरशये रणाङ्गणेऽनिवृत्तोऽपराङ्मुखः कलेवरं जह्यादिति यद्धानमिति द्वौ मृत्यू शास्त्रसम्मताविति वा ॥ ३४ ॥

॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मकृतायां षष्ठे दशमोऽध्यायः ॥ ६–१० ॥

चट्टी

ब्रह्मसन्धारणया परब्रह्मध्यानेन कलेवरं जह्यादिति यत्स एको मृत्युर्वीरशये रणभूमाव-निवृत्तोऽपराङ्मुखो जह्यादिति यत्स चैकः । तौ द्वाविह शास्त्रसंमतौ । तथा च स्मृतिः । ‘‘द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । परिव्राज्यात्मयुक्तश्च रणे चाभिमुखे हतः’’ इति ॥ ३४ ॥

॥ इति श्रीभागवतटिप्पण्यां चट्टीव्याख्यायां षष्ठस्कन्धे दशमोऽध्यायः ॥ ६–१० ॥