तस्यासन् विश्वरूपस्य शिरांसि त्रीणि भारत
॥ अथ नवमोऽध्यायः ॥
श्रीशुक उवाच—
तस्यासन् विश्वरूपस्य शिरांसि त्रीणि भारत ।
सोमपीथं सुरापीथमन्नादमिति शुश्रुमः ॥ १ ॥
पदरत्नावली
ब्रह्माद्यन्यतमामरापरिहार्यापत्परिहर्तृत्वमहिमावर्णनेन हरावभिवृद्धनिशितभक्ति-कुठारस्य योग्याधिकारिकरगतस्य संसारतरुनिर्मूलनपटुताऽभिप्रेयतेऽस्मिन्नध्याये । तत्रादौ बीजदोष-स्वभावो दुःसह इति प्रकटयितुं विश्वरूपस्य विप्रत्वेऽपि रचनाजनितत्वेन दोषित्वेनासुरपक्षपातं तावदाह– तस्येति ॥ सोमं सुरां पिबतीति सोमपीथं सुरापीथम् ॥ १ ॥
सत्यधर्म
चतुर्मुखप्रमुखापरिहार्यापत्परिहारकमहामाहात्म्यानुसवनश्रवणसमेधमानासमान-भक्तियुक्तस्य संसृत्यपसृतिर्भवतीत्यस्मिन्नध्याये निरूप्यते । तत्रादौ यदि क्षमिष्यध्वमुतास्य कर्मेति विधिना बोधितोऽपि रचनोक्तविरचनविश्वासवता विश्वरूपेणाननुरूपं कृतं कर्मेत्यसहमानो ‘‘गुरोरप्य-वलिप्तस्य कार्याकार्यमजानतः । उत्पथे वर्तमानस्य कार्यं भवति शासनम्’’ इत्याद्यनुशासनात्पाकशासन आत्यन्तिकान्तेवासितानधिवसितमानस इदं शासनमतनोदिति शुको वक्तीति वक्ति ॥ श्रीशुक इति । ‘‘गुरवश्चैव, शिक्षणीयेषु भावेषु शिक्षणीयाः प्रयत्नतः । उन्मादे बन्धनाद्यैर्वा ताडनं न गुरोः क्वचित्’’ ॥ इति गीतातात्पर्याद्युक्तयश्चापातकिगुरुपराः । अत एवोत्तरत्र श्रुतौ च ‘‘ब्रह्महत्यासहस्राच्च गुरुहत्या विशिष्यते’’ इति सति शास्त्रे ब्रह्महत्यामञ्जलिनेत्येतावदेवाभिधास्यतीत्यभिधत्त इति ध्येयम् । सोमपीथम् । पातृतुदिवचिरिचिसिचिभ्यस्थगिति थक् । घुमास्थेतीत्वम् । सोमं पिबतीति सोमपीथम् । एवं सुरापीथ-मन्नादमिति त्रीणि शिरांसि तस्य विश्वरूपस्यासन् । इति शुश्रुम इति सम्बन्धः । शुश्रुम इत्यनेना-स्यार्थस्य श्रौतत्वं प्रत्यशृृणोत् । अविसर्गपाठस्तु सरलः । सार्धश्लोकदशकव्याख्येया श्रुतिश्च द्वितीयाष्टकपञ्चमप्रश्नस्था विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानामासीत्स्वस्रीयोऽसुराणां तस्य त्रीणि शीर्षाण्यासन्सोमपीथं सुरापानमन्नादनं स प्रत्यक्षं देवेभ्यो भागमवदत्परोक्षमसुरेभ्यः सर्वस्मै वै प्रत्यक्षं भागं वदन्ति यस्मा एव परोक्षं वदन्ति तस्य भाग उदित सोऽस्मादिन्द्रो बिभेदीदृङ् वै राष्ट्रं विपर्यावर्तयतीति तस्य वज्रमादाय शीर्षाण्यच्छिनद्यत्सोमपानमासीत्स कपिञ्जलोऽभवद्यत्सुरापानं स कलविंको यदन्नादनं स तित्तिरिरिति तस्याञ्जलिना ब्रह्महत्यामुपागृह्णात्तां संवत्सरमबिभस्तं भूतान्यभ्यक्रोशन्ब्रह्महन्निति स पृथिवीमुपासीददस्यै ब्रह्महत्यायै तृतीयं प्रगृहाणेति साऽब्रवीद्वरं वृणे खातात्पराभविष्यतीमन्ये ततो मा पराभूवमिति पुरात इत्यादिका ॥ १ ॥
चट्टी –विश्वरूपेन्द्रविमृतिर्वृत्रोत्पत्तिः सुरस्तुतिः ।
हरेरभयसंप्राप्तिश्चाध्यायेऽस्मिन्निरूप्यते ।
सोमस्य पीथः पानं यस्मिंस्तत्तथा । एवं सुरापीथम् । अन्नमत्तीत्यन्नादम् । अत्र विश्वरूपो वै त्वाष्ट्रः । पुरोहितो देवानामासीदित्यादिश्रुतिरनुसंधेया ॥ १ ॥
स वै बर्हिषि देवेभ्यो भागं प्रत्यक्षमुच्चकैः ।
अददाद् यस्य पितरो देवास्तं प्रश्नयन्नृप१ ॥ २ ॥
पदरत्नावली
भागं हविर्भागम् । यस्य विश्वरूपस्य ॥ २ ॥
सत्यधर्म
बर्हिषि यज्ञे उच्चकैरिन्द्रायेदम् । प्रत्यक्षमिन्द्रागच्छेति । भागं हवीरूपं श्रौतमवदद्व-दतीति छायया व्याकरोति ॥ अददाद्ददाविति । पितरो देवाश्च यस्य विश्वरूपस्य भागस्येति वा । तं प्रश्नयन् प्राश्नयन् ॥ २ ॥
चट्टी
तस्यासुरपक्षपातमाह ॥ स इति द्वाभ्याम् । स विश्वरूपः । बर्हिषि यज्ञे । प्रत्यक्षं प्रकटं यथा भवति तथा । सप्रश्रयं सविनयं देवेभ्यो भागं हविर्भागमिन्द्रायेदमग्नय इदमित्यादौ ह्युच्चैरवदत् । तत्र हेतुर्यस्य पितरो देवा इति ॥ २ ॥
स एव हि ददौ भागं परोक्षमसुरान् प्रति ।
यजमानोऽवहद् भागं मातृस्नेहवशानुगः ॥ ३ ॥
पदरत्नावली
परोक्षमज्ञातवत् । मातुः रचनायाः स्नेहस्य परः ॥ ३ ॥
सत्यधर्म
य एव प्रत्यक्षं देवादिभ्यो ददौ भागं स एव यजमानो विश्वरूप एव परोक्षमसुरान् प्रति भागमवहदित्यन्वयः । कुतोऽयमतिक्रमोऽस्येत्यत आह ॥ मातृस्नेहवशानुग इति । माता स्नेहवशा च तदनुगो मातृस्नेहवशा मातुला दानवास्तदनुग इति वा ॥ ३ ॥
चट्टी
असुरेभ्यस्तु परोक्षं गुप्तं भागं ददौ । तदेवाह । यजमानो देवान्भजमानोऽप्यसौ असुरान् प्रति भागमवहत् । केनाप्युपायेन प्रापयामास । यतो मातृस्नेहवशेनासुराननुगच्छतीत्यर्थः ॥ ३ ॥
तद् देवहेलनं तस्य धर्मालीकं सुरेश्वरः ।
आलक्ष्य तरसा भीतस्तच्छीर्षाण्यच्छिनद् रुषा ॥ ४ ॥
पदरत्नावली
धर्मालीकं धर्मदोषं धर्मे कपटं वा । अयमात्मानमपि हन्तीति भीतः ॥ ४ ॥
सत्यधर्म
श्रुतावीदृग्वै राष्ट्रं पर्यावर्तयतीत्युक्तं मूलीकृत्य भारत उद्योगपर्वणीन्द्रविजये धर्मशल्यसंवादे चोक्तः भीतिहेतू राजेन्द्रपदापहारकामोऽप्युपलक्षणीय इव तत्राप्ययं प्रकार उपलक्षणीय इति ज्ञेयम् । यथा हि तत्र शल्यः । ‘‘शृृणु राजन्पुरावृत्तमितिहासं पुरातनम् । सभार्येण यथा प्राप्तं दुःखमिन्द्रेण भारत ॥ त्वष्टा प्रजापतिहर्यासीद्देवश्रेष्ठो महातपाः । स पुत्रं वै अङ्गिरस(त्रिशिरस)-मिन्द्रद्रोहात्किलासृजत् ॥ ऐन्द्रं सम्प्रार्थयं ज्ञानं (स्थानं) विश्वरूपो महाद्युतिः । विषादमगमच्छक्र इन्द्रोऽयं मा भवेत्’’ इत्यादि । मोक्षधर्मे च । ते देवाः सेन्द्रा ब्रह्माणमभिजग्मुरित्यारभ्य ब्रह्मास्थि-सम्भूतेन विष्णुप्रविष्टेनेन्द्रो विश्वरूपं जघानेति दधीच्यस्थिभिर्वज्रकरणं तेन विश्वरूपहननोक्तिरत्र वृत्रहननकाल इति व्यत्यस्तिस्तु कल्पभेदकल्पनैकसमाधेया । मातृस्नेहेत्यादिना मोक्षधर्मोक्तः प्रकारोऽप्यत्रानुसन्धेय इत्यसूचि । तथा हि सः । अथ हिरण्यकशिपुं पुरस्कृत्य विश्वरूपमातरं स्वसारमासुरीवरमयाचत । हे स्वसो अयं ते पुत्रस्त्वाष्ट्रो विश्वरूपस्त्रिशिरो देवानां पुरोहितः । प्रत्यक्षं देवेभ्यो भागमहरत्परोक्षमस्माकं ततो देवा अवर्धन्त वयं क्षीयामस्तदेनं त्वं वारयितुमर्हसि तथा यथाऽस्माद्भजेदिति । अथ विश्वरूपं नन्दनं वनमुपगतं मातोवाच । पुत्र किं परपक्षवर्धनस्त्वं मातुलपक्षं नाशयसि नार्हस्येवं कर्तुमिति । स विश्वरूपो मातुर्वाक्यमनतिक्रमणीयमिति सम्पूज्य हिरण्यकशिपु-मगात् । अथ विश्वरूपो मातृपक्षवर्धनोऽभूदित्यादिः । धर्मालीकं धर्मे क्रतौ अलीकम् अप्रियं धर्मस्यालीकं तत्सम्बध्यप्रियम् । ततद्व्यत्यासमिति यावत् । अलीकं त्वप्रियेऽनृते । धर्मे न्याये क्रतावित्यमरविश्वौ । भीत एतदैधितदैतेयभाविबाधाभीतः ॥ ४ ॥
चट्टी
देवहेलनं देवानामश्रेयस्करं तत् । धर्मालीकं कपटधर्ममालक्ष्य ॥ ४ ॥
सोमपीथं तु यत् तस्य शिर आसीत् कपिञ्जलः ।
कलविङ्कः सुरापीथमन्नादं यत् स तित्तिरिः ॥ ५ ॥
सत्यधर्म
यत्सोमपीथं तच्छिरः कपिञ्जलः । तन्नामक परगगण आसीत् । यच्च सुरापीथं तत् शिरः कलनिङ्कश् चटककटकः यदन्नादं तच्छिरः स तित्तिरिस् तित्तीति शब्दं रातीति बाहुलाकत्किः । कलं वङ्कते । वकि गतौ इन् पृषोदरादिः । तित्तिरिः पक्षिणिमुनाविति हैमः । कलविङ्कः स्मृतो ग्रामचटकेऽपीति तित्तिरिः । ककुभ इत्युभयतश्चामरः । यत्सोमपीथं शिरः स कपिञ्जल इति कपिञ्जलादिलिङ्गालिङ्गनेन स इत्युक्तिः शैत्यं हि यत्सा प्रकृतिर्जलस्येत्युक्तिवत् ॥ ५ ॥
चट्टी
कपिञ्जलः कलविंकस्तित्तिरिश्च पक्षिविशेषः ॥ ५ ॥
ब्रह्महत्यामञ्जलिना जग्राह यदपीश्वरः ।
संवत्सरान्ते तदघं भूताशंसाविशुद्धये ।
भूम्यम्बुद्रुमयोषिद्भ्यश्चतुर्धा व्यभजद्धरिः ॥ ६ ॥
पदरत्नावली
यदपि यद्यपि इन्द्रो ब्रह्महत्यादोषनिवारणे ईश्वरः समर्थः, तथाप्यञ्जलिना ब्रह्महत्यां जग्राहेत्यन्वयः । भूताशंसाविशुद्धये लोकापवादपरिहाराय भूतहिंसापापशोधनायेति वा । हरिरिन्द्रस् तद्गतो विष्णुर्वा ॥ ६ ॥
सत्यधर्म
ईश्वरः सन्नपीत्यपि शब्दान्वयः । तत्क्षपणक्षमोऽपीत्यर्थः । संवत्सरपर्यन्तमवात्सीत् तथैव तदन्ते । भूताशंसाविशुद्धये भूतैर् लोकै कृता या अशंसा अप्रशंसा । अपवाद इति यावत् । तस्याः सकाशाद् विशुद्धये स्वस्य । भूतान्यभ्यक्रोशन् ब्रह्महन्नित्यंशार्थशंसकमिदम् । भूम्यम्बुद्रुम-योषिद्भ्य इति चतुर्धा व्यभजत् । अनेन यदपीश्वर इति सुस्मूर्षेति ज्ञेयम् । हरिरिन्द्रः ॥ ६ ॥
चट्टी
यदपि यद्यपीश्वरस्तां वारयितुं समर्थः । तथाऽपि जग्राह । संवत्सरं तथैव स्थित्वा संवत्सरान्ते भूताक्रोशभीतः सन् भूताशंसाविशुद्धये लोकापवादपरिहाराय हरिरिन्द्रो भूम्यादिभ्यस्तदघं चतुर्धा व्यभजद्विभज्य ददौ ॥ ६ ॥
भूमिस्तुरीयं जग्राह खातपूरवरेण वै ।
ईरणं ब्रह्महत्याया रूपं भूमौ प्रदृश्यते ॥ ७ ॥
पदरत्नावली
खातस्य स्वत एव पूर्तिः स्यादिति खातपूरवरस्तेन हरिदत्तेन ईरणम् उषरं लवणोपरक्तरस इत्यर्थः ॥ ७ ॥
सत्यधर्म
तद्धारयितृधरादीनाह ॥ भूमिरिति । खातपूरवरेण स्वत एव खातस्य पूरणरूपेण । तत्कलामाकलयन्ति जना इति जगादेरणमूषरमिति । ‘‘ईरणं शून्यमूषरम्’’ इत्यमरः । अर्तेः किदि-चेतीनत् । इदादिरपि । ईरणं शून्यभाग इत्यजय इति भानुः । तत्स्थानेन जयादिकं स्थाने इत्यभिप्रायः
॥ ७ ॥
चट्टी
तुरीयं चतुर्थं भागं खातस्य गर्तस्य पूरः पूरणं तेन वरेण । यदि खातपूरणं स्वत एव भविष्यति तर्हि गृहीष्यामीत्येवं भाषाबन्धेन जग्राहेत्यर्थः । ईरणमूषरं लवणोपरक्तरस इत्यर्थः । अत एवोषरेऽध्ययनादि निषिध्यते ॥ ७ ॥
तुरीयं छेदरोहेण वरेण जगृहुर्द्रुमाः ।
तेषां निर्यासरूपेण ब्रह्महत्या प्रदृश्यते ॥ ८ ॥
पदरत्नावली
छेदरोहः पुनर्वर्धनं, तेन वरेण ॥ ८ ॥
सत्यधर्म
तुरीयता तु ‘‘अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे’’ इत्यत्रेव निरूप्यमाण-तत्तदर्थस्यावशिष्टत्रिकापेक्षया ज्ञेयेति ज्ञेयम् । छेदरोहेण विदारितोत्कृतप्ररोहणेन निर्यासः । निर्यासोऽपि कषायोऽस्त्रीत्यमरः । निर्यासकषाययोः परस्परवाच्यवाचकभाव इति नैतदमरानुदाहरणीयता भानुनैवमेव बहुस्थले कलविङ्कचटकादिके व्याकरणात् । निःसरद्रसस्तस्याभक्ष्यता ज्ञेया ॥ ८ ॥
चट्टी
छेदेऽपि पुनारोहः प्ररोहो भवत्विति वरेण । तेषां तेष्वत एव निर्यासो न भयः ॥ ८ ॥
शश्वत्कामवरेणांहस्तुरीयं जगृहुः स्त्रियः ।
रजोरूपेण तास्वंहो मासि मासि प्रदृश्यते ॥ ९ ॥
पदरत्नावली
शश्वत्कामेन निरन्तरविषयसेवाभिलाषलक्षणेन वरेण । रजोरूपेण ॥ ९ ॥
सत्यधर्म
शश्वत्कामवरेण गर्भसन्दर्भानन्तरमपि सुरतरतिनिश्चितात्मना पूर्वं च चार्वङ्गीणा-मर्वादिवदेवेदानीं देवेन्द्रदत्तवरेणेत्थम्भावः । रजोरूपेण । ‘‘रजः स्यादार्तवगुण’’ इति विश्वः । अंहो ब्रह्महत्या तत्रापि दिनत्रिकं त्याज्यं मासि मासि प्रतिमासमित्यर्थः । तदानीं तथैवावर्तत इति भावः । अथवा मासि मासि च दृश्यते । पद्दन्निति मासित्यादेशः। इदं मुद्रणं तु न कार्यं कार्य वैचित्र्यस्यानुभव-सिद्धत्वात् ॥ ९ ॥
चट्टी
शश्वत्कामवरेण यावत्प्रसवं गर्भा उत्पद्यन्ते नैव सम्भोगवरेण । अत एव रजोदर्शने तत्सङ्गादि न कार्यम् ॥ ९ ॥
द्रव्यभूयोवरेणापस्तुरीयं जगृहुर्मलम् ।
तासु बुद्बुदफेनाभ्यां दृष्टं तद्धरिकिल्बिषम् ॥ १० ॥
पदरत्नावली
द्रव्याणां पञ्चानां भूतानां मध्ये स्वभूयस्त्वलक्षणेन वरेण । ‘तापापनोदो भूयस्त्वमम्भसो वृत्तयस्त्विमाः’ इत्युक्तेः ॥ १० ॥
सत्यधर्म
आपो द्रव्यभूयोवरेण द्रव्येषु पञ्चसु भूतेषु भूयो भूयस्त्वं तद्रूपवरेण । भूयस्त्वाच्चापां तापापनोदो भूयस्त्वमित्यादेः । बुद्बुदादिकं चास्पृश्यम् । हरिकिल्बिषमिन्द्रकृतविश्वरूपहत्यारूपम् । यद्यपि ‘‘भूम्यम्बुद्रुमयोषिद्भ्य इति प्रक्रमानुगुण्येनावनिनिरूपणानन्तरमापो निरूपणीयास्तथाऽपि सर्वाधारायाधरायाः सर्वोपजीविनां जीवनानामध्यासीनोपजीव्यतावित्यै प्रथममेकं भूतं भूतमेकमन्ते चेद्भूतसम्पुटिका स्फुटोक्ता भवतीति निर्दिदेशैवमिति मननीयम् । श्रुतौ पृथिवीमुपासीददस्यै ब्रह्महत्यायै तृतीयं प्रतिगृहाणेति । वनस्पतीनुपासीददस्यै तृतीयं प्रतिगृह्णीष्वेति । स स्त्रीमुपासीददस्यै तृतीयं प्रतिगृह्णीतेति भागत्रैविध्यस्यैवोक्तेरापः कुतः सङ्गृहीतास्तद्ग्राहकत्वेनात्रेति चेत् । सत्यम् । सत्यवती-सुतस्यानन्तशास्त्रद्रष्टृत्वेनैतदर्थकप्रत्यूहेन व्याख्यानतो विशेषप्रतिपत्तिरित्यादेश्चः श्रुतावुपलक्षणीयत्वाभि-प्रायेण ता गृहीताः । तथा च मोक्षधर्मे । ब्रह्मवध्यां च चतुर्षु स्थानेषु वनिताग्निवनस्पतिगोषु व्यभजदिति । तत्रात्र च किञ्चित्स्थानव्यत्यासः कल्पभेदसमाधेयः ॥ १० ॥
चट्टी
द्रव्याणां पञ्चानां भूतानां मध्ये स्वभूयस्त्वलक्षणेन वरेण । तापापनोदभूयस्त्वमंभसो वृत्तयस्त्विमाः’’ इत्युक्तेः । यद्वा । यस्मिन्द्रव्ये क्षीरादावापो मिश्रा भवेयुस्तस्य भूयस्त्वमाधिक्यं स्यादिति वरेण । यद्वा । स्वस्यैव निर्खरोद्गमनादिना भूयस्त्वं वरेण । हरिकिल्बिषमिन्द्रपापम् ॥ १० ॥
हतपुत्रस्ततस्त्वष्टा जुहावेन्द्राय शत्रवे ।
इन्द्रशत्रो विवर्धस्व मा चिरं जहि विद्विषम् ॥ ११ ॥
पदरत्नावली
इन्द्रशत्रव इत्यादिना ‘त्वष्टा हतपुत्रोऽपीन्द्रं सोममाहरत्’ इत्यादिवेदवाक्यं सूचयति । इन्द्रः शत्रुर्यस्य वृत्रस्य स इन्द्रशत्रुर् इन्द्र एव, तस्य सम्बुद्धिर् इन्द्रशत्रो इति । अनेन यजमानस्यानभिप्रेताथोऽपि सूच्यत इति ज्ञातव्यम् ॥ ११ ॥
सत्यधर्म
नष्टपुत्रस्त्वष्टा किं तूष्णीकोऽभवदथवैतद्व्यथात इन्द्रमथकं किञ्चित्सम्पादयितुं यतेतेत्यतः साम्नायसम्मतिद्वितीयमूरीकृत्याह ॥ हतपुत्र इति । इन्द्रायेन्द्रं घातयितुम् । शत्रवे शातयित्र्यर्थं जुहाव हुतवान् । इन्द्रायशत्रव इति पदमेकं वा । इन्द्रस्यायो व्ययो येन स चासौ शत्रुश्च तदर्थम् । इन्द्रशत्रो इदन्तु श्रौतार्थसङ्ग्राहकं श्रुतिश्च यदब्रवीत्स्वाहेन्द्रशत्रुर्वधस्वेति तस्मादस्येन्द्र एव शत्रुरभवदित्येतज्जा-तीयका । तत्र स्वरसतः स्वरादिव्यत्यासतत्फलादिचिन्ता । ‘‘पिपिष इन्द्रशत्रुः’’ इति ऋग्व्याख्यावसरे यस्य योद्धेत्यारभ्य बहुव्रीहिर्हीति सूत्रं पुराणमित्यन्तभाष्ये इन्द्रशत्रुशब्दस्येत्यारभ्यान्यथासमासान्तोदात्तत्वं स्यादितीत्यन्तटीकायामिव चोदाहरणदर्शनादित्याह ॥ स्वाहेति । इत्याद्यारभ्य सविलासम् अयं संसार आहिताग्न्यादित्वाद्वेत्येतदन्तसानुव्याख्यसुधायां निरूपितोऽनुसन्धेय इति नात्र पौरुषेये कृत्याभावा-त्साधितेति ज्ञेयम् । इन्द्रशत्रो इन्द्रः शत्रुर्यस्य तत्सम्बुद्धिः । वर्धस्वेत्यनेन मन्त्राणामयातयामत्वा-दुत्पत्तिस्तु भवत्येवेत्यस्य नियम इति द्योतयति । पुत्रहंतृत्वान् मम भ्रातृहन्तृत्वात्तव च विद्विषम् । तव त्वधुनाऽनुद्भूतेरनुभवाभावो मम तु न तथेत्यप्याह ॥ विद्विषमिति । विदः सुतमृतिं जानतो मम विषं तत्तुलम् । विविना द्विषमिति भाषणेन पूर्तौ यद्वीत्यवादीत्तेनावसरमेतदर्थस्य व्यतारीत्पाराशर्य इत्यार्यैर्विभावनीयम् । मा चिरम् । आलस्यादमृतं विषमित्युक्तेः ॥ ११ ॥
चट्टी
इन्द्रायेन्द्रं हन्तुं शत्रवे शत्रूत्पत्यै । तदेवाह ॥ इन्द्रशत्रो विवर्धस्वेति । अत्र चेन्द्र-शत्रुपदस्याद्युदात्तत्वाद्बहुव्रीहौ प्रकृत्या पूर्वपदमिति स्मृतेर् बहुव्रीहिलक्षणापत्त्या इन्द्र एव तस्य शत्रुरभूत् ॥ तदुक्तम् ॥ श्रुत्या यदब्रवीत्स्वाहेन्द्रशत्रुर्वर्धस्वेति । तस्मादस्येन्द्रः शत्रुरभवदिति । तथा च शिक्षायाम् । ‘‘मर्न्त्रैर्हीनाः स्वरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाह । स्ववाग्वज्रो यजमानं हिनस्ति तथेन्द्रशत्रुः स्वरतोऽपराधात् ॥’’ इति ॥ ११ ॥
अथान्वाहार्यपचनादुत्थितो घोरदर्शनः ।
कृतान्त इव लोकानां युगान्तसमये यथा ॥ १२ ॥
पदरत्नावली
अन्वाहार्यपचनाद् दक्षिणाग्नेः । लोकानां क्षयाय ॥ १२ ॥
सत्यधर्म
अथाह्वानादनन्तरमेव । अनेन तस्यावन्ध्यसन्धता चिरसमयसम्भवीति द्योतयति । अन्वाहार्यपचनात् तन्नामकाद् दक्षिणाग्नेर् युगान्तसमये प्रलयकाले । कृतान्तो यमः । लोकानां घोरदर्शन् उत्थित इत्यन्वयः । कृतान्त इति वचनेन त्वष्टुर्न हि जहीति वचनं जिह्वोपरितनं किन्तु तस्य सिद्धान्त एव तादृश इति मनःपूर्वकतां शचीरमणमारणप्रयत्नस्येति ध्वनयति । इव एव । कृतान्तो यमसिद्धान्तावित्यमरः ॥ १२ ॥
चट्टी
अन्वाहार्यपचनाद्दक्षिणाग्नेः ॥ १२ ॥
विष्वग्विवर्धमानं तमिषुमात्रं दिने दिने ।
दग्धशैलप्रतीकाशं सन्ध्याभ्रानीकवाससम् ।
तप्तताम्रशिखाश्मश्रुं मध्याह्नार्कोग्रलोचनम् ॥ १३ ॥
पदरत्नावली
सान्ध्याकालाभ्रमालावत् कपिशं वासो यस्य स तथा तम् । तप्तताम्रवत् शिखाश्मश्रूणि यस्य स तथा तम् ॥ १३ ॥
सत्यधर्म
इषुमात्रं बाणपातप्रमाणम् । प्रमाणे द्वयसजित्यादिनोक्तमात्रच्प्रत्ययान्तोऽयम् । इषुमात्रमिषुमात्रमिति श्रौतवीप्साविजिज्ञापयिषयाऽत्र दिने दिने इत्युक्तिः । श्लोकपञ्चकमखण्डान्वयि ॥ वासो वर्चोऽन्यतरपाठेऽप्यभ्रानीकशब्दः कलहवाची । सङ्घर्षेण कान्तिरुत्कृष्यत इति भावः । ‘‘अनीकं तु रणे सैन्ये’’ इति विश्वः । चक्रं चानीकमस्त्रियामित्यमरव्याख्यायां हस्त्यादिबलसमूहनामेत्युक्तेः समूह इति वा ॥ १३ ॥
चट्टी
तं वीक्ष्य वित्रस्ता लोकाः । दशदिशो दुद्रुवुरिति पञ्चमेनान्वयः । कथम्भूतं विष्वक्समन्ततः । इषुविक्षेपमात्रं प्रतिदिनं वर्धमानम् । दग्धशैलप्रतीकाशं कृष्णवर्णं सन्ध्याकालाभ्रमालावत् कपिशं वासो यस्य तम् । तप्तताम्रवच्छिखाश्मश्रूणि च यस्य तम् । मध्यान्हार्कवदुग्रलोचने यस्य तम् ॥ १३ ॥
देदीप्यमानत्रिशिखे शूल आरोप्य रोदसी ।
नृत्यन्तमुन्नदन्तं च चालयन्तं पदा महीम् ॥ १४ ॥
पदरत्नावली
तिस्त्रः शिखाः शिरांसि यस्य तत् तथा तस्मिन् ॥ १४ ॥
सत्यधर्म
त्रिशिखे तिस्रः शिखा यस्य तस्मिन् । रोदसी द्यावापृथिव्यौ दिवि भूमौ पृथक् पृथक् । सहप्रयोगेऽप्यनयो रोदस्यावपि रोदसीति विश्वः । महीं चालयन्तं ‘‘कम्पने चलिः’’ इति स्मरणादन्यथाकुर्वन्तमित्यर्थः ॥ १४ ॥
चट्टी
तिस्रः शिखाः शिरांसि यस्मिन् शूले ॥ १४ ॥
दरीगम्भीरवक्त्रेण पिबन्तं च नभस्तलम् ।
लिहन्तं जिह्वयर्क्षाणि ग्रसन्तं भुवनत्रयम् ॥ १५ ॥
पदरत्नावली
दरीगम्भीरवक्रेण गुहावदगाधमुखेन ॥ १५ ॥
सत्यधर्म
पिबन्तमित्यादाविवेति योज्यम् । नभस्थलमम्बराधोभागम् । ‘‘तलं स्वरूपाधरयोः’’ इति विश्वः । नभः पिबन्तमित्येव वाऽन्वयः । तन्नभः कीदृशमित्यतस्तलमिति । तलमिन्द्रनीलमिति सुधोक्तेस्तद्वद्विद्यमानम् । आकाशो नीलिमोदेतीति श्रुतेः । ऋक्षाणि नक्षत्राणि ‘‘नक्षत्रमृक्षम्’’ इत्यमरः
॥ १५ ॥
चट्टी
दरीगंभीरवक्त्रेण गुहावदगाधमुखेन ॥ १५ ॥
महता रौद्रदंष्ट्रेण जृम्भयन्तं मुहुर्मुहुः ।
वित्रस्ता दुद्रुवुर्लोका वीक्ष्य सर्वे दिशो दश ॥ १६ ॥
पदरत्नावली
रौद्ररूपे दंष्ट्रे यस्य तत् तथा, तेन मुखेन, जृम्भयन्तं व्याददानम् ॥ १६ ॥
सत्यधर्म
महता । रौद्रे क्रूरे दंष्ट्रे यस्य तत्तदेव रौद्रदंष्ट्रं तेन । अन्यथा रौद्री दंष्ट्रम् इति स्यात् । तेनैव वक्त्रेणेत्यन्वेति ॥ १६ ॥
चट्टी
रौद्ररूपे दंष्ट्रे यस्य तेन । महता विस्तीर्णेन मुखेन जृम्भयन्तं व्याददानम् ॥ १६ ॥
येनावृता इमे लोकास्तमसा त्वाष्ट्रमूर्तिना ।
स वै वृत्र इति प्रोक्तः पापः परमदारुणः ॥ १७ ॥
पदरत्नावली
निरुक्तिपूर्वकं नाम निर्दिशति– येनेति ॥ त्वाष्ट्रलक्षणा मूर्तिर्यस्य तत् तथा तेन तमसा आवृता इति येन ततः सोऽसुरो वृत्र इति ख्यातः । ‘वृत्रं जघन्वा अप तद् ववार’ इति श्रुतेः । ‘दैत्यभेदे चान्धकारे वृत्रशब्दः प्रयुज्यते’ इत्यभिधानाच्च । पातीति पः पालः परमात्मा धर्मो वा, तस्मादपगतः पापः । एतदेव सूचयति– परमदारुण इति ॥ १७ ॥
सत्यधर्म
स इमांल्लोकानावृणोद्यदिमांल्लोकानावृणोत्तद्वृत्रस्य वृत्रत्वमिति श्रुत्यनुमत्या नाम निर्वक्ति ॥ येनेति । तमसा त्वाष्ट्रमूर्तिना मूर्तिर्मूर्तं त्वाष्ट्रं च तन्मूर्तं च त्वाष्ट्रमूर्तं तदस्यास्तीति त्वाष्ट्रमूर्ती तेन त्वाष्ट्रमूर्तिना । त्वाष्ट्री मूर्तिर्यस्येति विग्रहे त्वाष्ट्रीमूर्तिनेति स्याद् वृद्धिनिमित्तेति पुंवद्भावनिषेधादिति ज्ञेयम् । त्वष्टैव त्वाष्ट्रः स्वार्थेऽण् तस्मान्मूर्तिस्तनूर्यस्य तेनेति वा तमसेवेत्यर्थः । असुरावेशेन पितुरभि-निवेशेनासदाचारत्वात्काश्यपस्तु तामसोऽसुरश्च श्रुतावावृणोदित्येवोक्तेस्तमसोऽनभिधानाच्च । यथोक्तं नीचा वया इत्यृग्भाष्यटीकयोः । ‘‘वृत्रो ह्यभूद्दनुजः कश्यपाच्च पापात्माऽसौ वैष्णवस्त्वष्टृजातः’’ । ननु दनुः कश्यपभार्या, न च वृत्रः कश्यपपुत्रः किन्तु त्वष्टुस्तत्कथं दनुर्वृत्रमातेत्यत आह ॥ वृत्रो हीति । द्वौ वृत्रौ तत्रैकः कश्यपाद्दनुजोऽभूद्दैत्यत्वं च तामसत्वादपरस्त्वष्टृजात इत्यविरोधः । कुतो द्वयोः कल्पना । असौ दनुजः पापात्मा श्रूयते । ‘‘दीर्घं तम अशयदिन्द्रशत्रुः’’ इति । त्वष्टृजातस्तु वैष्णवः पुण्यात्मा प्रसिद्धोऽतो द्वौ कल्प्याविति । वृणोतीति वृत्रः । वृत्रञ् औणादिकप्रत्ययः । अहन्वृत्र-मित्यृक्टीकायां वृणोते रूपमित्युक्तेः । ‘‘अहो धर्मिष्ठता तस्य वृत्रस्यामिततेजसः । यस्य विज्ञानमतुलं विष्णुभक्तिश्च तादृशि’’ ॥ इति मोक्षधर्मोक्तेस्त्वाष्ट्रो वैष्णवः । वृत्रं जघन्वा अपतद्ववारेत्यृग्भाष्य-टीकयोः । वृत्रं हत्वा तमहिं चाशु शुक्रस्तदा शक्रो वृत्तं जघन्वान् हत्वेति यावत् । अहिं च हत्वा तथोत्तरासुरधरः पुत्र आसीद्दानुः शये सह वत्सा न धेनुः । दानुर्वृत्रमाता दनुः सा तत्सुतोऽहिश्च तासाम् । वृत्रस्य सुतोऽहिर्यत्सुतः शीर्बभूवेति पितुः पातानन्तरमेव शेताऽभवदिति व्याख्यानादयं तदन्य इति स्पष्टं ज्ञायते । पापः स्वप्रविष्टपापिकत्वात् । परम् अदारुण इति छेदः । तद्वृत्रवदत्यन्तदारुण-स्तमःश्रमयोग्यः क्रूरो नेति स तथा । परमदो महामदः स चासावरुणश्च कोपेन देहारुणिम्नः प्रत्यक्षसिद्धेरिति वा अत्रैवोत्तरत्र परीक्षित्प्रश्नोत्तरप्रस्तावे तथा वृत्रेन्द्रसंवादे च तद्योग्यतायाः स्पष्टयिष्य-माणत्वाद्वैष्णवता ज्ञेया ॥ १७ ॥
चट्टी
निरुक्तिपूर्वकं निर्दिशति ॥ येनेति । येन कारणेन त्वाष्ट्रमूर्तिना त्वाष्ट्रा त्वष्ट्रोदिता मूर्तिः शरीरं यस्य तेन । तमसा तमोगुणमयेनासुरेणेमा लोका आवृताः । तेन कारणेन स वृत्र इति प्रोक्त इत्यनेन विवृणोति । आवृणोति व्याप्नोतीति वृत्रः । वृञ् आवरण इति धातोर् इत्युक्तं भवति । तथा च श्रुतिः । स इमांल्लोकानवृणोत्तद्वृत्रस्य वृत्रत्वमिति ॥ १७ ॥
तं निजघ्नुरभिद्रुत्य सगणा विबुधर्षभाः ।
स्वैः स्वैर्दिव्यास्त्रशस्त्रौघैः सोऽग्रसत् तानि कृत्स्नशः ॥ १८ ॥
सत्यधर्म
सगणः स्वस्वसन्घाः । ओघाः परंपराः । ओधः परंपरायां स्यादिति विश्वः । शस्त्रा-णामोधा येषां तानि शस्त्रौधानि । दिव्यास्त्रानि च तानि शस्त्रौघानि चेति विग्रहः । अनेनोत्तरत्र तानीति नपुंसकलिङ्गेनौघपरामर्शः कथमिति परास्तं वेदितव्यम् । स वृत्रस्तानि कृत्स्नशोऽग्रसज्जग्रास ॥ १८ ॥
चट्टी
अग्रसद्भक्षितवान् ॥ १८ ॥
ततस्ते विस्मिताः सर्वे विषण्णा ग्रस्ततेजसः ।
प्रत्यञ्चमादिपुरुषमुपतस्थुः समाहिताः ॥ १९ ॥
पदरत्नावली
श्रीनारायणानुग्रहमन्तरेण वृत्रजयो दुस्साधन इति कृत्वा देवानां हरिशरणप्रकारं वक्ति– तत इति ॥ प्रत्यञ्चं प्रत्यगात्मानम् । आदिपुरुषं सृष्टेरादौ भक्तानुग्रहाय गृहीतपुरुषरूपम् ॥१९॥
सत्यधर्म
विस्मिता छोराकारविरीक्षणादिना ग्रस्ततेजसो दीप्तिरहिता ग्रस्तपराक्रमा वा । ‘‘तेजो दीप्तौ पराक्रमे’’ इति विश्वः । प्रत्यञ्चं प्रतीचीस्थम् । प्रतिस्वमञ्चतीति प्रत्यञ्चम् । अन्तर्यामिणमिति यावदिति केचित् । निहितेक्षणाः ॥ १९ ॥
चट्टी
भ्रष्टचेतसः कर्तव्यविषयकज्ञानशून्याः । प्रत्यञ्चमन्तर्यामिणम् । उपतस्थुरुपासीदितवन्तः । त्रिभुवनस्य तेन व्याप्तत्वात् क्वापि गमनासम्भवात् । तत्रैव स्थित्वा तुष्टुवुरिति भावः ॥ १९ ॥
देवा ऊचुः—
वाय्वम्बराग्न्यप्क्षितयस्त्रिलोका ब्रह्मादयो ये वयमुद्विजन्तः ।
हराम यस्मै बलिमन्तकोऽसौ बिभेति यस्मादरणं ततो नः ॥ २० ॥
तात्पर्यम्
‘कालोऽन्तकः प्रधानं च मृत्युरव्यक्तमित्यपि । उच्यते प्रकृतिः सूक्ष्मा श्री-र्भूर्दुर्गेति नामभिः । सैव ब्रह्मादिभयदा विष्णोश्च वशवर्तिनी । अभयापि बिभेतीव तद्वशत्वादुदीर्यते’ इति तु माहात्म्ये ॥ २० ॥
पदरत्नावली
वाय्वाद्यभिमानिनो ब्रह्मादयो ये त्रिलोकास् ते वयं यस्मै बलिं हराम, त्रिलोकी-बहिष्ठं लक्ष्मीतत्त्वं तदनियतं स्वतन्त्रमस्तीति शङ्का मा भूदित्याह– अन्तक इति ॥ असावन्तकः मूलप्रकृतिर्दुर्गादिनामर्भिन्ना यस्मान्महान्तकाद्वरेर्बिभेति भीतेव तद्वशे वर्तते यतस्तत; स हरिर्नो ऽस्माकमरणं शरणमस्त्वित्यन्वयः । ननु ब्रह्मादयो वयं यस्मै बलिं हराम यस्माच्च असावन्तकोऽपि बिभेति ततस्तस्मात् परमेश्वरादरणं क्षेमो भवत्विति प्रतीतार्थः कस्मादपलप्यत इति चेन्न । ‘कालोऽन्तक पधानं च मृत्युरव्यक्तमित्यपि । उच्यते प्रकृतिः सूक्ष्मा श्रीर्भूर्दुर्गेति नामभिः । सैव ब्रह्मादिभयदा विष्णोस्तु वशवर्तिनी । अभयाऽपि बिभेतीव तद्वशत्वादुदीर्यते ॥’ इति स्मृतिविरोधात् । वायुश्च अम्बरं च अग्निश्च आपश्च क्षितिश्चेति वाय्वम्बराग्न्यप्क्षितयः ॥ २० ॥
सत्यधर्म
वाय्वम्बरेत्यादिपद्ये यमस्यैव ब्रह्मादिभयदत्वं शरणप्राप्यभगवद्भीतत्वमुच्यत इत्यन्यथा-प्रतीतिं प्रमाणेन प्रच्यावयन्व्याचष्टे ॥ कालोऽन्तक इति । सूक्ष्मा प्रकृतिः कालादिरित्युच्यते । श्रीभूदुर्गेति नामभिरपि श्रीरिति भूरिति दुर्गेति नामभिरुच्यत इति सम्बन्धः । यदर्थमन्तकादिनामकत्व-मुक्तं तदुक्तीकरोति ॥ सैव श्रीः प्रकृतिरेवेति । स्वयं विष्णोर्वशवर्तिनी यद्यप्यभया बिभेतीवोदीर्यते तत्रापि निमित्तमुदीर्यते ॥ तद्वशत्वादिति । अथवा तद्वशवर्तिनीति ब्रह्मादिभयदा भगवती कुत इत्यत आह ॥ तद्वशत्वादिति । ब्रह्मादिभयदेत्यत्र ब्रह्मपदार्थान्वयस् तेषां तद्वशत्वात् । ते वशे यस्याः सा तद्वशा । त्वे चेति ह्रस्वः । भागवांश्च तच्चाव्यक्तं चेति तौ ते वा । त्यदादितः शेषे पुंनपुंसकतालिङ्गवचनानीत्युक्तेः । त्यदादीनि सर्वैर्नित्यमित्युक्तेस्तयोर्वशत्वादतो वशवर्तिनीति वा तद्वशत्वादिति वाऽतिरिक्तमिति रिक्तोक्तिरिति ज्ञेयम् । तुशब्दो रमारमारमणोभयभययुतताविशेषसूचकः। माहात्म्यं नाम ग्रन्थः ॥ ततश्च श्लोको व्याक्रियते ॥ वाय्वम्बराग्न्यप्क्षितय एतदभिमानिनः समेषामविशेषेण रमास्वामिकत्वावगत्यै कोऽपि क्रमो नादृत इति मन्तव्यम् । त्रिलोका विशेषणसमासः ब्रह्मादयोभ्य ते वयमुद्विजन्तो भीताः सन्तो यस्मै बलिमर्चनोपचारं हरामः । लोटो लङ्वदिति लङ्वद्भावे नित्यं ङित इति समः सलोपः । असौ सोऽन्तकः श्रीर्यस्माद्बिभेति बिभेतीव । ततः सः । प्रथमान्तात्तसिः । नः शरणमरणमस्तु । ततोनस्तताद्व्याप्ताद्भगवत ऊनोऽव्याप्तोऽथवा सर्वतो न्यून इति । यस्मादन्तको बिभेति तस्माच्छ्री-रमणादरणं रक्षणमस्त्विति वा ॥ २० ॥
चट्टी
महाभयपरित्राणमन्यतो न भवेदिति । हरिमेव प्रपद्यन्ते सुराः शरणमातुराः । वाय्वादीनि पञ्चमहाभूतानि तैर्निमित्ताश्च त्रयो लोकाश्च तेषामधिपतयो ब्रह्मादयस्ततोऽर्वाचीना वयं सर्वे यस्मा अन्तकाय दुर्गारूपेण सर्वसंहर्तृत्वादन्तकशब्दवाच्याय श्रीतत्त्वाय । कालोऽन्तकः प्रधानं चेत्यादि वचनात् । उद्विजन्तः सन्तो बलिं वहामः । असावप्यन्तको यस्माद्बिभेति तदधीनत्वाद्बिभेति वा । ततः परमेश्वरादेव नोऽस्माकमरणं रक्षणमस्तु ॥ २० ॥
अविस्मितं तं परिपूर्णकामं स्वेनैव लाभेन समं प्रशान्तम् ।
विनोपसर्पत्यपरं हि बालिशः श्वलांगुलेनातितितर्ति१ सिन्धुम् ॥ २१ ॥
पदरत्नावली
एवं स्थिते शिवाद्यन्यतमस्य शरणमिच्छन् बालिश इत्याह– अविस्मितमिति ॥ यो ब्रह्माद्युपात्तपूजस्तम् । स्वेनैव लाभेन स्वरूपानन्दानुभवेनैव परिपूर्णकामम् । अत एवाविस्मितं कुतूहलबुद्धिरहितम् । समभेकप्रकारं प्रशान्तं समुद्रवत् स्तिमितं विना योऽपरं रुद्राद्यन्यतममुपसर्पति श्वलाङ्गूलैन तरीस्थानेन सिन्धुं समुद्रमतिपिपर्ति पारमतिक्रामति । तदुचितमित्याह– हीति ॥ बालिशो हि यस्मात् तस्मादुचितमित्यर्थः । २१ ॥
सत्यधर्म
अविस्मितं गर्ववर्जितं विश्वविस्मापकत्वं स्वस्यैवेत्येतत्कुतोऽकुतूहलं वा । प्रशान्तं रागादित्यागिनम् । स्वेनैव स्वरूपभूतेन लाभेनानन्दादिप्राप्त्या पूर्णकामं संपन्नाभिलषितम् । समं तत्तद्योग्यतामनुसृत्य निर्दोषं वा । विनाऽपरमन्यमावृतं वा तन्त्रं वाऽनुत्तमम् । तस्य दशेयमित्याख्याति ॥ उपसर्पतीति । स्वातन्त्र्येणायं तारक इति तारकमारकमाराधयति । श्वलाङ्गूलेन शुनः पुच्छेन करकलितेन सिन्धुं समुद्रमतितितर्ति तरितुमिच्छति । अपि माषं मषमिति नीत्या लाङ्गुलं ज्ञेयम् । अतिपिपर्तीति पाठे पारं गन्तुमिच्छतीत्यर्थः । हि स यथा बालिशो मूर्खस्तथाऽयं तदुपसर्पणेन संसृतिसिन्धुं तरितुमन्तरा हरिचरणपरिचरणतरीतारिकां काङ्क्षन्किल बालिश इति दृष्टान्तदार्ष्टान्तिकभावो ज्ञेयः ॥ २१ ॥
चट्टी
तत एवारणमित्यवधारणे हेतुमाहुः ॥ अविस्मितमिति । अविस्मितं निरहङ्कारम् । कुतूहलशून्यं वा । कुतः प्रशान्तं वागादिशून्यम् । तत्कुतः स्वेनैव लाभेन स्वरूपानन्दानुभवेनैव परिपूर्ण-कामम् । सममन्तर्याम्यादिसर्वरूपेष्वेकप्रकारम् । एवम्भूतं परमेश्वरं विनाऽपरं यः शरणार्थमुपसर्पति स हि बालिशोऽज्ञः । यतोऽसौ शुनोलाङ्गुलेन पुच्छेन दीर्घाभावस्त्वार्षः । समुद्रमतिपिपर्ति तर्तुमिच्छतीत्यर्थः यथाऽनेन समुद्रतरणं न सम्भवति तथाऽनीश्वराश्रयणेन व्यसनार्णवतरणं न भवतीति भावः ॥ २१ ॥
यस्योरुशृङ्गे जगतीं स्वनावं मनुर्यथाऽऽबध्य ततार दुर्गम् ।
स एव नस्त्वाष्ट्रभयाद् दुरन्तात् त्राता श्रितान् वारिचरोऽपि नूनम् ॥ २२ ॥
पदरत्नावली
ननु यस्य कस्यचिद्धरिशरणमुपगतस्यापदर्णवसन्तरणं दृष्टपूर्वं चेत् तमन्तरेणान्यं शरणं गच्छन् बालिशत्वेन श्वलांगूलेनापारमकूपारं तितीर्षतीति परिहास्यः स्यात्, तदेव कथमिति तत्राह– यस्येति ॥ मनुर्यस्य हरेरुरुणि शृङ्गे जगतीं महीमयीं स्वनावं स्वस्य मनोरथेन क्लृप्तां तरीं यथावद् दृढमाबध्य दुर्गमन्वोपायेन तर्तुमशक्यं प्रलयार्णवलक्षणं क्लेशं ततार । नूनमिदानीमपि स वारिचरो मत्स्यावतारो हरिरेवाश्रितान् नित्यसेवारतान् नो दुरन्ताद् त्वाष्ट्रभयात् त्राताऽस्त्वित्यन्वयः । यथा ततार तथा तरणायाश्रितानिति वा ॥ २२ ॥
सत्यधर्म
ननु कोऽपि देवदेवसेवनेन व्यसननिरसनं सम्पादितवान्वर्तेत चेदेव सत्यं व्रतमे-तद्भवेदित्यतः सत्यव्रतादिरेवमित्यावेदयन्सन्देहं मन्दीकरोति ॥ यस्येत्यादिना । यस्य मत्स्यस्योरुशृृङ्गे महति विषाणे । जगतीं भूमयीम् । जगती रत्नगर्भा भूरित्यमरः । स्वनावं स्वेनैव प्रकल्प्य प्रेषितां तरीम् । उपस्थास्यति नौः । काचिद्विशाला त्वां मयेरितेति वक्ष्यमाणत्वादष्टमे । बन्धोऽपि महाहिनेति वक्ष्य-माणत्वाच्च तत्रैव । अहिना ययाऽऽबद्ध्य मनुः सत्यव्रतो दुर्गम् अपरोपायेन तरितुमशक्यमवान्तरलयलक्षणं ततार । स एव वारिचरो नीरसञ्चारी दुरन्ताद्दुष्पाराद्दुःसाधनिर्णयाद्वा । त्वाष्ट्रभयान् नोऽपि अस्मांस्त्राताऽस्तु । न च यूयं मदेकशरणा इत्यत ईरयन्ति ॥ नूनं श्रितान् इति । निश्चयेनाश्रितान् । ननु सत्स्वितरेष्ववतारेषु वारिचरः किमर्थमत्यर्थमर्थित इति चेन्न । अग्निसमुद्भूतदुर्भूतघातस्योदकोदितदयोदय-साध्यता न्याय्येत्याचार्येतैरेतत्परिचर्येत्यवेहि । त्राता रक्षिष्यति । नीरचर इत्यनीरयन्नीरयन्नेव वारिचर इत्येतर्हि तदन्तर्हितस्तत्तेजउत्तेजकोऽप्ययमेव । वा अरिचर ओरन्तरपि चरतीति स तथेति समुच्चयार्थो वाशब्दः । ‘‘वा समुच्चय इति विश्वः । इति द्योतयामासेत्यवसेयम् ॥ २२ ॥
चट्टी
भयवता पुरुषेण एव रक्षक इति दृष्ट इत्याहुः ॥ यस्येति द्वाभ्याम् । यस्य मत्स्योरुशृङ्गे जगतीं पृथ्वीमेव स्वां नावमाबद्ध्वा सम्यक् बद्ध्वा मनुः सत्यव्रतो यथावद्दुर्गं सङ्कटं ततार । स एव वारिचरो मत्स्यावतारो नोऽस्मानप्याश्रितान्सतो नूनं त्राता रक्षिष्यति ॥ २२ ॥
पुरा स्वयम्भूरपि संयमाम्भस्युदीर्णवातोर्मिरवैः कराले ।
एकोऽरविन्दात् पतितस्ततार तस्माद् भयाद् येन स नोऽस्तु पारः ॥ २३ ॥
तात्पर्यम्
‘यत्र वायूदपद्मादिरूपेण प्रकृतिः स्थिता । एकस्तत्राबिभेद् ब्रह्मा विचार्य भयमत्यगात् । अन्तर्गतो हरिस्तस्य ध्यातो भयमपानुदत्’ इति च ॥ ‘जनिष्यतां जनानां तु स्वभावानां प्रसिद्धये । ज्ञानादिगुणपूर्णस्य ब्रह्मणोऽपि क्षणार्धगाः । भयादिका भवन्तीव कथं तस्मिन्स्थिरालयाः’ इति च ॥ ‘भगवत्प्रीतये नित्यं ब्रह्मणो ये भयादयः । न वृथा तस्य भावः स्यात्कश्चित्तेऽपि क्षणार्धगाः । अज्ञानं च चतुर्वारं द्विवारं भयमेव च । शोकोऽपि तावान्नान्यत्र कदाचिद् ब्रह्मणो भवेत् । तत्रापि भगवत्प्रीत्या उन्नत्यै वास्य तद्भवेत्’ इति ब्रह्मतर्के ॥ २३ ॥
पदरत्नावली
इतोऽपि हरिप्रसादादृते एतद्भयतरणं दुःसाधनमिति भावेन स्तुवन्तीत्याह– पुरेति ॥ पुरा आदिसृष्टौ संयमाम्भसि प्रलयोदके स्थितादरविन्दात् प्रकृत्यात्मनः पद्मात् पतितः स्वयम्भूर्भयं ततार स हरिर्नस्त्वाष्ट्रभयार्णवस्य पारः पारप्रदर्शकोऽस्त्वित्यन्वयः । तत्रत्यो वायुरपि प्रकृत्यात्मा । अन्यथा नेदृशं बलमन्यस्य स्यादित्यतस्तल्लयजलं विशिनष्टि– उदीर्णेति ॥ उदीर्णेन वातेन प्रकृत्यात्मना वायुनोन्नमितानामूर्मीणां रवैः कराले भयङ्करे । पद्मादीनां प्रकृत्यात्मत्वं कस्माद् विशिष्योच्यत इति शङ्का मा भूत् । ‘यत्र वायूदपद्मादिरूपेण प्रकृतिः स्थिता । एकस्तत्र बिभेद् ब्रह्मा विचार्य भयमत्यगात् ॥ अन्तर्गतो हरिस्तस्य ध्यातो भयमपानुदत् ॥’ इत्युक्तेः । भयनिमित्तमाह– एक इति ॥ एकाकित्वाद् द्वितीयवस्तुनोऽनुत्पन्नत्वात् । ‘सोऽबिभेत् स द्वितीयमैच्छत्’ इति श्रुतेः । ननु किमर्थं ब्रह्मणा भयमदर्शीत्यत उक्तम्– अपीति ॥ स्वसृज्यजनानां भयादिस्वभावसम्भावनार्थम् । ‘जनिष्यतां जनानां तु स्वभावानां प्रसिद्धये’ इत्युक्तेः । ‘अपि सम्भावने’ इति च । सम्भावनामन्तरेण स्वाभाविकं किं न स्यादित्यस्यापीदमुत्तरम्– अपीति ॥ अज्ञानाद्धि भयमुत्पद्यते ब्रह्मणस्तु तन्नास्ति । ज्ञानादिगुणपूर्णस्य ब्रह्मणोऽपि’ इत्युक्तेः । तर्हि कियन्तं कालमनुवर्तत इत्यस्यापीदमुत्तरम् । पूर्णज्ञानस्य चिरकालीनं भयादिकं गर्हितम् । ‘क्षणार्धगाः । भयादिका भवन्तीव कथं तस्मिन् स्थिरालयाः’ त्युक्तेः । स्वसृज्यजनभयस्वभावप्रदर्शनमन्तरेणान्यत् किं प्रयोजनमित्यस्यापीदमेवोत्तरम्– अपीति ॥ भयप्रदर्शनेन भगवत्प्रीतिलक्षणमन्यदपि विद्यत इत्यर्थः । भगवत्प्रीतये नित्यं ब्रह्मणो ये भयादयः । न वृथा तस्य भावः स्यात् कश्चित् तेऽपि क्षणार्धगाः’ इत्युक्तेः । भयादिकमपि किमेकवारं बहुवारमुतेत्यस्यापीद-मुत्तरम् । नैकवारं किन्तु बहुवारमस्तीत्यर्थः । ‘अज्ञानं तु चतुर्वारं द्विवारं भयमेव च । शोकोऽपि तावन्नान्यत्र कदाचिद् ब्रह्मणो भवेत् ॥’ इत्युक्तेः । इदमपि हरिप्रीतिजनकत्वेनोन्नतिकारणम् । ‘तत्रापि भगवत्प्रीत्या उन्नत्यै वाऽस्य तद् भवेत्’ इत्युक्तेः ॥ २३ ॥
सत्यधर्मा
पुरा स्वयम्भूरपि संयमाम्भसीति श्लोके जलानिलजलजादयो जडभूता एवेति मतमवमतीकर्तुमादौ मानतीर्थो मानमाह ॥ यत्रेति । यत्र लये । आदिपदेनोर्मिरवादिपरिग्रहः । वायुरुदमुदकम् । उदकवाच्ययमुदशब्दः स्वतन्त्रः । रोमकूपलयोदिनेत्यनुव्याख्यानव्याख्यानसुधायाम् उदमुदकमस्यास्तीत्युदीति एतद्वाक्यार्थचन्द्रिकायां च । उदकवाचिनोदन्तादुदशब्दादित्याद्युक्तेः । प्रकृती रमा । ब्रह्मा तत्रैक एव सन्बिभेद् लङ् भीतिमाप । विचार्य भयमत्यगात् । स्वसामर्थ्येन किमित्यतो नेत्याह ॥ अन्तर्गत इति । एतदन्तर्गतो हरिर्भयमेकाकितायातमपानुदत्परिहृतवान् । पद्मभवे भयं नास्मदादिवदिति वदति ॥ जनिष्यतामिति । जनानामजानमानानाम् । चोऽवधारणे क्षणार्धगा एवेति सम्बध्यते । लयेऽपीत्यपिरन्वेति । ज्ञानादिगुणपूर्णस्य योग्यतामनुसृत्य ज्ञानादिगुणः परमात्मा तेनैष पूर्णस्तस्य भयादिका भया ज्ञानशोकादयः क्षणार्धगास्तेऽपि तस्मिन् भवन्ति न स्थिराः । न केवलं लोकस्वभावप्रसिद्धिसिद्धिः फलं किन्तु श्रीप्रेष्ठप्रीतिरपीति प्रमाणत आह ॥ भगवत्प्रीतय इति । तस्य ब्रह्मणः कश्चिदपि भावो वृथा न । तेऽपि भयादय एतत्प्रदर्शनं भवतु भगवत्प्रीत्यै तदपि कियद्वारमिति शङ्कां प्रसक्तानुप्रसक्तसङ्गत्यैतत्प्रमाणैत्तच्छेषाभ्यां पराह ॥ अज्ञानं चेति । एवेत्यर्थः संश्चतुर्वारमेवे-त्यन्वेति । द्विवारमेव भयं शोकोऽपि तावान् । अव्यवहितद्विवारपरामर्शः । द्विवारं जात इत्यर्थः । अव्ययत्वादन्यत्रेत्यस्य पञ्चादिवारमन्यत्रेत्यर्थः । ब्रह्मणोऽन्यत्राधिकारिणि तावान्न भवेदिति वा । तत्रापि तदवस्थायामपि तद्भयादिकं भगवत्प्रीत्या जनिताया उन्नत्यै उत्कर्षाय भवेत् । एवमन्वये भगवत्प्रीतय इति प्रागुक्तेः पुनर्भगवत्प्रीत्या इति कुत उक्तिरिति परास्तम् ।
अज्ञानं तु भावरूपं ज्ञानाभावरूपस्य भगवद्विषये चतुर्वारमिति नियन्तुमयोग्यत्वात् । जगद्विषये सदाऽप्यालोचननियमाभावेनानालोचनदशायां बहुवारमज्ञानसम्भवेन पूर्वोक्तदोषानतिवृत्तेः । अज्ञानं भावरूपं दुःखस्पृष्टस्य ‘‘दुःखस्पृष्टं तदस्पृष्टमिति द्वेधैव चेतनं मतम् । नित्याऽदुःखा रमाऽन्ये तु स्पृष्टदुःखाः समस्तशः ॥’’ इति सहटीकतत्त्वसङ्ख्यानात् । ब्रह्मणोऽप्यल्पदुःखं स्यात्तदप्यनभिमानतः । नास्त्यात्मसम्बन्धितया भोगाभावात्कथञ्चन’’ ॥ इति बृहद्भाष्ये विशेष्यदुःखस्पृष्टत्वोक्तेश्च । तच्चाज्ञानं ज्ञानं प्रतिबघ्नाति । अन्ये त्वज्ञानसंयुक्ता मोहमीयुरित्यादेश्च । किञ्च तत्त्वोद्योते पुंगतमेव हि तम इति टीकणक्षणे तम इव तमो भावरूपमज्ञानं ज्ञानप्रतिबन्धकत्वादित्युक्तेः । अज्ञानं त्रिवारमेकवारं चेत्याहत्य चतुर्वारम् । उक्तं च भागवते तृतीये नवमेऽध्याये– ‘‘कञ्जमु लोकतन्त्रं नात्मानमद्धाऽविददादिदेवः । क एष योऽसावहमब्जपृष्ट एतत्कुतो वाऽब्जमनन्यदप्सु ॥’’ इति । स्वाज्ञानं पद्मामतिरात्मामतिरित्यज्ञानं त्रिवारम् । उक्तं च द्वितीयतात्पर्ये । स ब्रह्माऽचिन्तयत्कुतो नु पद्मं ब्रह्मणः स्यादितीति । यज्ञादि-ज्ञानाभावश्च संवत्सरनाम्नो विधेः । यथोक्तं बृहद्भाष्ये । ‘‘इच्छतो ब्रह्मयजनं ब्रह्मणः साधनास्मृतेः । श्रमात्तापाच्च तं देहं त्यक्तुमिच्छा बभूव ह’’ इत्यारभ्य महासंहितायाम्’’ इत्यन्तमेतत्संसरणम् ।
भयं च द्विवारं तदपि स भाणमकरोदिति व्याख्यावसरे बृहद्भाष्ये । संवत्सरो ब्रह्मणोऽभाणिति वचो निस्सृतं भयतो मुखात् । तस्याभिमानिनीत्यादिनोक्तम् । द्वितीयं प्रस्तुतमेव । नन्वशरीरो वायुरिति श्रुतेस्तदात्मकस्य कस्य तनुरेव नास्ति कथं तन्निमित्तकशोकादिरिति । ‘‘ब्रह्मा निरभिमानित्वा-च्छरीर्यप्यशरीरवान् । नित्यानन्दोपयोग्यन्ये कामस्योज्ज्ञितितस्तदा । बहिरर्थविनिर्मुक्तस्तथाऽपि तनुधारणात्’’ । अमूढो मूढ इतिवदुच्यते । ‘‘सर्वेषां ब्रह्मपदवीयोग्यानां पूर्वमेव तु । अभावस्त्वपरोक्षस्य मोहो ज्ञानस्य भण्यते’’ । ब्रह्मणस्त्वंशरूपेषु ब्रह्मगायत्रिभावे तु नांशावतरणं क्वचित् । ‘‘शतजन्मसु पूर्वं तु ज्ञानोदय इतीर्यते । आपरोक्ष्येण पारोक्ष्यात्पूर्णज्ञानं सदैव तु ॥’’ इत्येकादशसप्तमेऽध्याये । तथैव द्वितीयस्कन्धे नवमे कर्मणा विमोहित इत्यत्रेदं कार्यमित्यजानतीति ज्ञानाभावस्य । तथैवैकादश-सप्तमाध्याये च ‘‘ध्यायमानः प्रश्नबीजं नाभ्यपद्यत कर्मधीरिति प्रश्नोत्तराज्ञानप्रतीतिवारणाय प्रश्नो बीजमस्येति प्रश्नबीजं परिहारं गुणानां चेतसश्च कर्म कारणमिति मन्वानः कर्मधीः । ब्रह्मा पृष्टस्तु योगीन्द्रैः सनकाद्यैर्मनोगतैः । ब्रह्मा मनोजैः कारणं विषयेष्वद्धा कर्मेति प्रतिपद्यते । ‘‘हेतुरन्योऽपि तत्रास्तीत्येवं जानन्नपि प्रभुः । विशेषतो मनस्तत्र नाधाज्जानन्हरेः प्रियम् । स्वात्मना परिहारोक्तिस्तदा हयासीद्धरेः प्रिया । अतः स तत्प्रियं जानन्नाकरोत्तद्विचारणम् । तमेवाचिन्तयद्देवः प्रश्ननिर्णयकारणात् । भ्रमतीव मनः क्वापि ब्रह्मणो विष्णुमायया । सर्वज्ञस्यापि यत्रात्मा वक्तुमिच्छेज्जनार्दनः । तद्ज्ञात्वा चिन्तितं तस्य चिन्तयत्यमुमेव तु । न स्वयं चिन्तयत्यर्थं स हि तद्भाववित्सदा । अन्ये त्वज्ञानसंयुक्ता मोहमीयुर्यथाक्रमम् । तस्य मध्यन्दिने सूर्ये क्षोभवत्क्षोभमात्रकम् । नैवाज्ञानं यथा सूर्ये तमो नास्ति कदाचन’’ ॥ इति भावविवेक इति । तत्रैव स्थानान्तरे । बहुलमन्वेषणमियन्मनीषिणः किं कारणमित्याशङ्क्योक्तं तत्तात्पर्ये । ईश्वराभिप्रायविदा ब्रह्मणा तप तपेत्युपदेशलाभाय बहुकालमन्वेषणं कृतमित्याद्युक्त्या परिहरणीयम् ।
ननु भयद्वयहेत्वज्ञानद्वयमतिरिच्यतेऽतश्चतुर्वारमिति कथमिति चेन्न । ज्ञानकार्यं मुख्यतो भयम् । सर्पज्ञानाद्भयदर्शनात् । तदज्ञानिनो भयाभावस्यानुभवसिद्धत्वात् । ननु च यस्य पद्मजविरिञ्चस्य भयं जातं स महाप्रलयानन्तरकालीनः कुतो ब्रह्मदिनप्रलयानन्तरसृष्टिकालीन एव कुतो न स्यादिति चेन्न । ब्रह्मदिनप्रलयानन्तरकालीनः सृष्टिकालिकपद्मस्य । ‘‘उदकं वायुना शुष्कं भिन्नं पद्ममभूद्धरेः’’ इति । तस्यासनविधानार्थं ‘‘पृथिवी पद्ममुच्यते’’ इति प्रमाणेन भगवत्पादैरुदकाद्यात्मकत्वस्योक्तत्वात् । अस्य पद्मस्य तु यत्र वायूदपद्मादिरूपेण प्रकृतिः स्थितेति प्रमाणेनेतैरेव लक्ष्म्यात्मकत्वस्योक्तत्वात् । न ह्येकस्मिन्काल एकस्यैव पद्मस्य उभयात्मकत्वं सम्भवति । न च यत्र वायूदपद्मादीति वाक्यं लक्ष्म्यभिमानिपरमिति वाच्यम् । अस्य वाक्यस्य भागवततात्पर्यनिर्णायकत्वेनार्थान्तरेऽनवकाशात् । न चोक्तसृष्टिद्वयातिरिक्तसृष्टिकाले विरिञ्चस्य पद्मजत्वमस्ति । तत्र मानाभावात् । अतो महाप्रलयानन्तरं सृष्टिकालीनपद्मजविरिञ्चस्य भयमिति प्रबोधिन्युक्तेरज्ञानं चतुर्वारं दिनप्रलयकालिकपद्मभवस्य । भयं च महाप्रलयकालिकसृष्टिकालिकपद्मभवविरिञ्चेरेकवारम् । संवत्सराख्ये चैकदेति द्विवारमिति विवेको द्रष्टव्यः ।
अथवाऽज्ञानं च चतुर्वारमिति दिनप्रलयकालिकाज्ञानविषयकम् । लोकमपश्यमान इत्येकस्य । ‘‘तत्र संवत्सरं नाम ब्रह्माणमसृजत्प्रभुः । तमत्तुं व्याददादास्यं तदाऽसौ विरुरावह’’ ॥ इत्यपरस्य भयस्य हेतुभूतम् । तत्क्षणे भयजननेन नष्टमिति न निष्टङ्क्यमित्युक्तिः । भयेनान्यथासिद्धत्वान्न साक्षादधोक्षजप्रीत्याधायकततेरवदित्यनुक्तिर्वा । अज्ञानभयादीनां पद्मस्य ‘‘उदकं वायुना शुष्कं भिन्नं पद्ममभूद्धरेः । तस्यासनविधानार्थं पृथिवी पद्ममुच्यते’’ इत्युक्तस्यैवात्रोक्तलक्ष्म्यात्मकत्वस्यापि सम्भवा-त्तस्यैव वक्तुं शक्यत्वात् । न च मानाभावादिति वाच्यम् । एतद्वाक्यसांवलित्यस्यैव गमकत्वापत्तेः । ननु ऋजूनामेक एवास्ति परमोत्साहवर्जनमित्याद्यभिधानात्कथमज्ञानभयाद्युक्तिरिति चेन्न । दुःखप्रापकस्य तस्याभावभावकं तद्वचः । भगवत्प्रीत्याधायकस्य दग्धपटायमानकायस्यैवैवमादेरनिवारणात् ।
तत इयं मूलयोजना ॥ विधिरपि यद्विधित एवंविधां भीतिमतीयाय स नोऽपि वृत्रत्रासतस्तारयेदिति स्तुवन्ति तमित्याह ॥ पुरेति । पुराऽऽदिसृष्टौ संयमाम्भसि सर्वोपरमसमयसलिले । उदीर्णत्वं च वातोर्मिवारणविशेषणम् । अम्भःसहितानां रमात्मकत्वात्तैः । आदिपदेन मानस्थेनोर्मिस्वरादिकं स्वरस-सङ्ग्राह्यम् । वातोर्मिणा वातवेगेनेति वा । ऊर्मिः पीडा जवोत्कण्टालेखा प्रकाश्यवीचिषु वस्त्रसङ्कोच-लेखायामिति हैमः । ऊर्मिस्तरङ्गवेगगताविति विश्वः । तरङ्ग ऊर्मिर्वेत्यमरः । कराले भीषणे । करालं भीषणेऽन्यवदिति विश्वः । एक एकाकी । अरविन्दात्पद्मात्मकपद्मात्स्वयम्भूरपि पतित इतरेषां का कथेति सूचयितुमपिः । पतितोऽपीत्यन्वयः । तथा सम्भावित इत्यर्थः । अपिः पदार्थसम्भावने-त्याद्युक्तेः । येन तस्माद्भयात् तद्भयं ततार । स नः पारः पारगमकोऽस्तु । भयाद्येन आद्यं भयं भयाद्यं भययोरद्यं वा पतितस्तत्प्रायस्तस्मात्तं ततारेत्यान्तरङ्गिको मानिकोऽर्थो ज्ञेयः । स नः सर्वं लब्धा । सर्व-दातेति वा । ऋग्भाष्ये लब्धा दातेत्याद्युक्तेः । षणु सम्भक्तौ षणु दान इति टिप्पणे विवरणात् ॥२३॥
चट्टी
न केवलं मनुरपि तु स्वयंभूरपि पुराऽऽदिसृष्टावुदीर्णवातैः प्रपञ्चवायुभिरुद्धूता ये ऊर्मयस्तेषां रवैः कराले भयङ्करे संप्लवांभसि प्रलयोदके विद्यमानादरविंदात्पतित उद्भूत एक एकाकित्वेन भयोपेतः । तस्मादेकाकी बिभेतीति श्रुतिः । तस्माद्भयाद्येन ततार । स एव नः पारः पारकोऽस्त्वित्यर्थः । यद्वा संप्लवाम्भस्युदीर्णवातोर्मिरवैः कराले भयजनके सति ॥ अरविन्दान्निपतितः स्वयंभूस्तस्माद्भयाद्येन ततारेत्यर्थः ॥ भगवन्मुख्यानुग्रहपात्रत्वेन चतुर्मुखस्य वस्तुतो भयाद्यभावेऽपि स्वस्य भगवत्पारतन्त्र्य-ज्ञापनाय तत्प्रदर्शितमित्यविरोधः ॥ तदुक्तम् ॥ जनिष्यतां जनानां त्वित्यादि ॥ २३ ॥
य एक ईशो निजमायया नः ससर्ज येनानुसृजाम विश्वम् ।
वयं च यस्यापि पुरः समेताः पश्याम लिङ्गं पृथगीशमानिनः ॥ २४ ॥
तात्पर्यम्
लिङ्गमेव पश्यामः । ‘कदाचिदभिमानस्तु देवानामपि सन्निव । प्रायः कालेषु नास्त्येव तारतम्येन सोऽपि तु’ इति च ॥ २४ ॥
पदरत्नावली
किञ्चास्माकं स्रष्टृत्वेन संबन्धत्वादपि निजस्वरूपं न बुद्ध्यामहे किन्तु लक्षणमेव पश्यामः । अतो वयं तमेव शरणं याम इत्याहुः– य एक इति ॥ एकः केवल ईश ऐश्वर्यादिगुणपूर्णः यो निजमायया स्वाधीनया प्रकृत्या नः ससर्ज, येन वयं प्रेरिता विश्वमनुसृजाम, यस्य पुरोऽग्रतः स्थिताः समेताः सङ्गता अपि वयं लिङ्गं लक्षणमेव पश्याम न तु स्वरूपम् । तत्स्रष्टृत्वेन तदनुगृहीत-कर्तृत्वेन वाऽचिन्त्यवैभवमेव लक्षणं बुद्ध्यामहे, न सच्चिदानन्दादिस्वरूपम् । अदर्शने कारणमाह– पृथगिति ॥ पृथक् पृथगीशाभिमानित्वात् । अयं च कादाचित्क एव न तु सनातनः । तदुक्तम्–‘कदाचिदभिमानस्तु देवानामपि सन्निव । प्रायः कालेषु नास्त्येव तारतम्येन सोऽपि तु ॥’ इति । अनेन पृतगित्यनेनाभिमानस्थ तारतम्यं ध्वनयति । हे ईश अभिमानिनो वयं पृथक् तारतम्योपेता इति वाऽर्थः सम्पद्यते ॥ २४ ॥
सत्यधर्म
य एक ईश इति श्लोके पृथगीशमानिनो वयं हरेर्लिङ्गं न पश्याम इत्यन्वयमन्वितीकर्तुं वाञ्छिताध्याहारेण स्वयमन्वयमाह ॥ लिङ्गमेवेति । लिङ्गं सामान्यतः श्रीमान्यज्ञापकमेव पश्यामः । एवेत्युदाहरणेन स्वरूपमिति मूलेऽध्याहारं सूचयति । तस्य च मूलस्थनञा सम्बन्धः । ईशमानिन इत्यनेनास्मद्वद्देवानामभिमानो बहुकालवर्तीति प्राप्ते तं निवर्तयितुं प्रमाणमाह ॥ कदाचिदिति । देवानामपि योऽभिमानोऽभिनाऽभ्यधत्त तस्य मानस्यावज्ञेयतां, ना गर्हितोऽभिमान इत्यपि वा सूच्यते । अभिप्रेयस इति काठकोपनिषत्खण्डार्थेऽभिरवज्ञानार्थ इत्यर्थापनाच्छ्रीराघवेन्द्रतीर्थश्रीपादैः । स च कदाचिदेव । प्रायः कालेषु बहुकालेषु । कालेष्वित्येवोक्ते त्रिचतुःपञ्चषा कालावयवग्रहणं स्यात् । तन्न भाव्यमिति प्राय इत्युक्तम् । प्रायस्तुल्यबाहुल्ययोरपीति विश्वः । नास्त्येव बहुलववर्ती न । तर्हि कीदृशोऽभिमानः सदेत्यर्थकं सन्प्रायः कालेब्वित्यन्वेति । सन्निव सन्नेव । ‘‘इवौपम्येऽवधारणे’’ इति विश्वः । सोऽपि दुरभिमानः कदाचिद्भाव्यपिनैकप्रकारः किन्तु तारतम्येनैव सांसारिक्यां दशाया-मेवेत्याहुः । सोऽभिमानस्तारतम्येन स्वरूपतरतमभावेन प्रयोजक इत्यप्यर्थः । ‘‘मुक्तिर्हित्वाऽन्यथारूपं स्वरूपेण व्यवस्थितिः’’ इत्यादेः ॥
तथा चायं मूलार्थः ॥ एको य ईशः समर्थ ऐश्वर्यादिगुणको वा । निजमायया स्वेच्छया । बहुस्यां प्रजायेयेत्यादिश्रुतेः । ‘‘सृज्यसृष्टावीक्षा बभूव’’ इति श्रीमदाचार्योक्तेश्च । नः ससर्ज । येन प्रेरिता वयमपि विश्वं यथायोग्यं सृजामः । यस्य पुरोऽग्रे समेताः सङ्गता अपि ते वयं लिङ्गमेव पश्यामो न तु स्वरूपविशेषं पश्यामः । किन्निमित्तो युष्मत्तोऽनवगमस्तस्येत्यत आहुः ॥ पृथगीशमानिन इति । कादाचित्कः पृथक् तरतमभावेनेशा इति मानो दुरभिमानो येषामस्ति ते तथा ॥ २४ ॥
चट्टी
किञ्च वयं भगवतैव सृष्टाः पालिताश्च बहुशः । अतस्तमेव पितरं शरणं व्रजेम इत्याहुः ॥ य एक इति त्रिभिः । यच्छब्दानां तमेवेति तृतीयश्लोकस्थतच्छब्देनान्वयः । य ईशो निजमायया स्वेच्छया नोऽस्मान्ससर्ज । वयं येनानुग्रहीताः सन्तो विश्वं सृजामः । यस्य पुरोऽग्रतः स्थिताः समेता सङ्गता अपि वयं लिङ्गं पूर्णानन्दत्वादिज्ञापकं जगत्सृष्टत्वादिलक्षणमेव पश्यामः । न तु पूर्णानन्दादि स्वरूपम् । अदर्शने कारणमाहुः ॥ ईशमानिन इति । स्वस्वातन्त्र्याभिमानिनः । अभिमानोऽपि न सर्वेषामेकप्रकार इत्याहुः ॥ पृथगिति । तारतम्येनेत्यर्थः ॥ तदुक्तं– कदाचिदभिमानस्त्वित्यादि ॥२४॥
यो नः सपत्नैर्भृशमर्द्यमानाद् देवर्षितिर्यङ्नृषु नित्य एव ।
कृतावतारस्तनुभिः स्वमायया कृत्वाऽऽत्मसात् पाति युगे युगे च ॥ २५ ॥
पदरत्नावली
करचरणादिदेहवत्वेऽपि देवदत्तवदनित्यदेहो नास्ति । अतः स्वाभिमतसिद्ध्यै संप्रार्थनीय इति भावेनाहुः– यो न इति ॥ तनुभिर्देवर्ष्यादिषु कृतावतारोऽपि नित्य एव निर्विकार एव न तु योनिकृतदुःखादिमान् । न केवलमनुयुगं रक्षति हरिः किन्तु अन्यदापीत्यर्थे चशब्दः ॥ २५ ॥
सत्यधर्म
यदा यदाऽस्माकमापदापतति तदा तदा त्वन्वगृह्णाद्भगवानिति स्वानुभूतभूतियुततया तं स्मारं स्मारं वर्णयाम्बभूवुरिति वर्णयन्ति ॥ य इति । सपत्नैः शत्रुपर्यायः सपत्नशब्दोऽखण्डः । ‘‘रिपौवैरिसपत्नारिद्विषः’’ इत्यमरः । शत्रुभिर्भृशमत्यर्थमर्द्यमानानित्य एवोत्पत्त्यादिरहित एव सन्नपि देवर्षितिर्यङ्नृषु देव उपेन्द्रः, ऋषिः परशुरामः, तिर्यङ् मत्स्यादिर् ना रामकृष्णादिः, तिर्यङ्ना नृसिंहादिरित्यपि । एवमादिहीनाहीनजातिषु तनुभिः कृतावतारः । अनेनाप्राकृततामभिप्रैति तच्छरीरस्येति ज्ञेयम् । स्वमायया स्वाधीनप्रकृत्या सु अमायया याथातथ्येनेति वा । अथवा मुख्यतो विष्णुमाहात्म्यं मायाशब्देन भण्यते । ‘‘प्रधानत्वाच्च मातृत्वान्मेयत्वाच्चैव तस्य हि’’ इति द्वितीय-नवमाध्यायतात्पर्योक्तेः । स्वमाहात्म्येनेत्यादिरर्थः । न आत्मसात् तदधीनवचन इति सातिः स्वाधीना-न्कृत्वा युगे युगे प्रतियुगं पाति रक्षति । स पारोऽस्त्विति पूर्वपद्य इवात्रापि शेषः । युगे द्वन्द्वयुद्धेऽयुगे सैन्येन सह युद्ध इति केचित् । चश्च मध्ये मध्ये पातीति समुच्चये ॥ २५ ॥
चट्टी
यो नित्य एव कृतादियुगेषु स्वमायया स्वेच्छया देवर्ष्यादिषूपेन्द्रव्यासादितनुभिः कृतावतारः सन् सपत्नैः शत्रुभिरत्यन्तपीड्यमानान्नोऽस्मान् आत्मसात्कृत्वा पाति च ॥ २५ ॥
तमेव देवा वयमात्मदैवतं परं प्रधानं पुरुषं विश्वमाद्यम् ।
व्रजाम सर्वे शरणं शरण्यं स्वानां स नो धास्यति शं महात्मा ॥ २६ ॥
पदरत्नावली
यत्तच्छब्दैरेवोक्तावशिष्टगुणैर्विशेष्य तं शरणं प्रार्थयन्ते– तमेवेति ॥ अन्ययोग-व्यवच्छेदार्थ एवशब्दः । देवा इत्यनेन देवानां शरणं हरिरेव नान्य इत्येवशब्दार्थो विवृतः । वयमित्यनेन हरेः स्वेषां च मिथो भेदाभिमानं ध्वनयति । न केवलमिष्टदेवतात्वेन शरणं यामः । अपि तु सर्वोत्तमत्वादिगुणविशिष्टत्वाच्चेति भावेनाह– परं प्रधानमिति ॥ प्रकृतिः किम् ? नेत्याह– पुरुष-मिति ॥ जीवः किम् ? नेत्याह– विश्वमिति ॥ न प्रपञ्च इत्याह– आद्यमिति ॥ प्रपञ्चस्यादिभूतम् । ‘वासुदेवो वा इदमग्र आसीत्’ इति श्रुतेः । नृशंसस्वभावश्चेत् कथमयमिष्टः स्यात् ? अत्राह– शरण्यमिति ॥ शरणप्राप्यत्वान्नृशंसो न भवतीत्यर्थः । नास्मिन्नस्मासु विप्रतिपत्तिरित्याह– सर्व इति ॥ शरणं प्राप्तावपि उदासीनो न भवति किन्तु वदान्यवदभीष्टं ददातीत्याहु– स्वानामिति ॥ २६ ॥
सत्यधर्म
आत्मदैवतं स्वामिभूतं दैवतम् । तमेव रक्षकं देवा वयं सर्वे परं प्रधानमत्युत्तमं पुरुषं विश्वं व्याप्तमाद्यं सर्वादिभूतं शरणं व्रजाम । ‘‘सर्वोत्तमत्वविज्ञानपूर्वकं तन्मनः सदा । सर्वाधिकप्रेमयुक्तं सर्वस्यात्र समर्पणम् । अखण्डा त्रिविधा पूजा तद्रत्यैव स्वभावतः । रक्षतीत्येव विश्वासस्तदीयोऽहमिति स्मृतिः । शरणागतिरेषा स्याद्विष्णौ मोक्षफलप्रदा’’ ॥ इत्यादिविष्णुपुराण इति । भीतरक्षणा-च्छरणमिति च गीतातात्पर्योक्तेः । न तूदास्ते स इत्याहुः ॥ स न इति । केऽपि लोके न शरणमीयुर् इत्यत आहः– शरण्यमिति ॥ शमव्ययं वा शब्दो वा द्वितीयान्तः । महात्मा महाधीरो धास्यति विधास्यति ॥ २६ ॥
चट्टी
तमेव शरणं व्रजाम । स इह महात्मा भगवान् स्वानां स्वभक्तानां नोऽस्माकं शं सुखं दास्यतीत्यन्वयः ॥ २६ ॥
श्रीशुक उवाच—
इति तेषां महाराज सुराणामुपतिष्ठताम् ।
प्रतीच्यां दिश्यभूदाविः शङ्खचक्रगदाधरः ॥ २७ ॥
पदरत्नावली
स्तुतिफलमाह– इतीति ॥ २७ ॥
सत्यधर्म
उपतिष्ठतामुपतिष्ठमानानां स्तुवतामिति यावत् । आविरभूदिति सम्बन्धः । प्रादुरासीत् । प्रस्तुतस्तुताद्वस्तुनो नेतर इतीरयति ॥ शङ्खेति ॥ २७ ॥
चट्टी
प्रतीच्यां दिशि प्रत्यग्देशे । हृत्पद्ममध्य इति यावत् । प्रथममाविरभूत् ॥ २७ ॥
आत्मतुल्यैः षोडशभिर्विना श्रीवत्सकौस्तुभौ ।
पर्युपासितमुन्निद्रशरदम्बुरुहेक्षणम् ॥ २८ ॥
दृष्ट्वा तममराः सर्वे ईक्षणाह्लादविक्लवाः ।
दण्डवत् पतिता भूमौ शनैरुत्थाय तुष्टुवुः ॥ २९ ॥
तात्पर्यम्
‘श्रीवत्सः प्रकृतिर्ज्ञेया ब्रह्माख्यः कौस्तुभः पुमान् । तदतीतैः षोडशभिः स्वरूपैरप्युपास्यते’१ इति च । श्रीवत्सकौस्तुभौ विनाऽऽत्मतुल्यैः प्रकृतिपुरुषातीतत्वात्सप्तदश-रूपाण्यपि तुल्यानीत्यर्थः । आत्मभूतैश्च तुल्यैश्च आत्मतुल्यैः । ‘अपुंप्रकृत्यधीनत्वाद्वासु-देवादिका हरेः । तुल्याश्च केशवाद्याश्च न च भिन्नाः कथञ्चन’ इति तन्त्रसारे ॥ श्रीवत्स-कौस्तुभाभ्यां तु विनाभावं प्रदर्शयेत् । पुंप्रकृत्यात्मकाभ्यां स धत्ते नित्यं जनार्दनः । यदस्याभ्यामतीतत्वं यद्वशो नानयोर्हरिः । श्रीवत्सकौस्तुभाभ्यां तु विनाभावः स एव तु’ इति च ॥ ‘आत्मैव सप्तदशधा स्वयं भूत्वा जनार्दनः । मध्यस्थावृतिरूपेण क्रीडते पुरुषोत्तमः’ इति च ॥ २८ ॥
पदरत्नावली
प्रत्यक्षीभूतं तं भगवन्तं संदृश्य देवाः किं चक्रुरिति तत्राह– आत्मतुल्यैरिति ॥ अनेन दर्शनावस्थायां किंगुणविशिष्ट इति पर्यहारि । आत्मतुल्यैर् आत्मनो भूतैर् अत एव आत्मतुल्यैर् मूलभूतस्य हरेः सदृशैः सामर्थ्यादिगुणैरनूनैः षौडशाभिर्वासुदेवादिदामोदरान्तैः पर्युपासितं तेषां मध्यस्थावृतिरूपेण स्थितम् । मूलरूपस्याप्राकृतत्वात् प्रादुर्भावानां शुक्रशोणितसंपर्केण जातत्वात् कथमन्योन्यतुल्यत्वमिति तत्राह– विनेति ॥ श्रीवत्सकौस्तुभौ विना प्रकृतिपुरुषाभ्यां विना प्रकृतिपुरुषा-तीतत्वेन तदनिर्मितशरीरैरित्यर्थः । अनेन सप्तदशरूपाण्यपि गुणक्रियादिना विशेषरहितानीत्युक्तं भवति । श्रीवत्सकौस्तुभरहितैरात्मतुल्यैः षोडशभिः पार्षदमुख्यैरुपासितमित्यङ्गीकारस्तु ‘श्रीवत्सः प्रकृतिर्ज्ञेया ब्रह्माख्यः कौस्तुभः पुमान् । तदतीतैः षोडशभिः स्वरूपैरप्युपास्यते ॥’ इति प्रमाणविरोधादप्रामाणिकः । तेषां तद्वत्वादन्यलक्षणतुल्यं चाप्रामाणिकम् । अतः प्रकृतिपुरुषानधीनत्वेनान्योन्यतुल्यत्वं वासुदेवा-दीनामेव । तदुक्तम्– ‘अपुंप्रकृत्यधीनत्वाद् वासुदेवादिका हरेः । तुल्याश्च केशवाद्याश्च न च भिन्नाः कथञ्चन ॥’ इति । अनेन मूलरूपस्यावताराणां मिथो भेदराहित्यमुक्तमिति ज्ञातव्यम् । हरेः प्रकृति-पुरुषराहित्यं च तदतीतत्वं तदवशत्वं च न कादाचित्कं किन्तु सनातनम् । ‘श्रीवत्सकौस्तुभाभ्यां तु विनाभावं प्रदर्शयेत् । पुंप्रकृत्यात्मकाभ्यां स धत्ते नित्यं जनार्दनः ॥’ इति वाक्यात् । प्रकृतिपुरुषराहित्यं च तदतीतत्वं तदवशत्वं च । तदुक्तम्– ‘यदस्याभ्यामतीतत्वं यद् वशे नानयोर्हरिः’ इति । ‘श्रीवत्स-कौस्तुभाभ्यां तु विना भावः स एव च’ इति च । इयं चोपासिका भक्तानुकम्पित्वेन हरेः परं क्रीडैव । ‘‘आत्मैव सप्तदशधा स्वयं भूत्वा जनार्दनः । मध्यस्थावृतिरूपेण क्रीडते पुरुषोत्तमः ॥’’ इत्युक्तेः । ‘संवीतश्चतुरात्मभिः स्वसदृशैः श्रीकेशवाद्यैरतश्चक्राद्यैरितरैरधीश्वरमुखैर्वज्रादिभिस्तत्परम् । स्वं सेव्यं स्वयमन्तराम्बुजमहापीठे विराजन् हरिर्भूत्यै श्रीपुरुषोत्तमो भवतु वः श्रीवल्लभः सन्ततम्’ इति तन्त्रान्तरोक्तमत्रानुसन्धेयम् ॥ पूर्वं हरेः प्रत्यक्षायाधुना स्वाभिप्रेतार्थसिद्ध्यर्थं स्तुतिरिति विशेषः
॥ २८,२९ ॥
सत्यधर्म
आत्मतुल्यैः षोडशभिरिति श्लोके लोकेश्वरः सुनन्दनन्दादिभिः पार्षदैः परितः परीत-स्तेषामस्य च श्रीवत्सकौस्तुभभृत्वं कृत एव विशेष इति वा ताभ्यां रहित एवेति वा विपरीतप्रतीतिं प्रमाणेनैव प्रमथयति ॥ श्रीवत्स इति । श्रीवत्सः प्रकृती रमा ज्ञेया तदभिमन्यमाना चित्प्रकृतिश्च । ब्रह्माख्यः पुमान् कौस्तुभो ज्ञेय इति विपरिणतमन्वेति । तदतीतैस्तावतीत्यवर्तमानैः षोडशसङ्ख्यैः स्वरूपैरभिन्नैर्वासुदेवादिभिः केशवादिभिश्चावृतं हरिमुपासत इति पाठे ब्रह्मादय इति शेषः । उपास्यत इति पाठे ब्रह्मादिभिर्हरिरुपास्यत इत्यध्याहृत्य योजनीयम् । प्रमाणेन मूलं व्याकृत्याक्षरयोजनां सतात्पर्यां पर्यवसाययति ॥ श्रीवत्सकौस्तुभाविति । विनाऽऽत्मतुल्यैः प्रकृतिपुरुषातीतत्वात् । परिवाररूपषोडश-रूपाणि स्वयं चेति सप्तदशरूपाण्यपि तुल्यानि ज्ञानादिभिः समानि । आत्मतुल्यैरित्यत्रात्मना सदृशैस्तद्भिन्नैस्तद्गतभूयोधर्मवद्भिरित्यपार्थं व्यंसयितुं समासोऽयमुत्तरपदलोपीति दर्शयति ॥ आत्म-तुल्यैरात्मभूतैश्च तुल्यैरिति । ननु कथं भेदव्याप्ता तुल्यता साकल्येनाभिन्नभगवद्रूपेषु सम्भावितेति चेन्न । सयूथ्य भो आव इन्द्रमित्यृग्भाष्यटीकयोः कर्तारमीशमिति वा स्वदृष्टान्तो हरेर्भवेत् ।
नन्विन्द्रोऽपि यदा विष्णुस्तदा कथमित्यत आह ॥ स्वेति । हरेर्विवक्षायामयं स्वदृष्टान्तो भवेदित्युक्तेः । अपुंप्रकृत्यधीनत्वादित्याद्यत्रोक्तेरिव वरमभियाचितो यदमुष्यात्मजो मया सदृशो भूयादिति ममाहमेवाभिरूपः कैवल्यादथापि ब्रह्मवादो न मृषा भवितुमर्हति ममैव हि मुखं यद्विजदेकुलं तत आग्नीध्रीये क्षेत्रेऽहं कलया अवतरिष्याम्यात्मतुल्यमनुपलभमान इति पञ्चमस्कन्धाभिधानादिव नायं नियम इति विजानीहि । रे पर । किमेवं वदतस्तव भावो भावत्केमते कथमिदमिति प्रश्नो वा उतायुष्मन्कैरपि नाङ्गीकृतोऽयं दृष्टान्तदार्ष्टान्तिकभाव इति । नाद्यः । साधोरिव तावतैवासाधोस्तवापि समाधेः । न द्वितीयः । अनन्वयालङ्कारमात्रविलोपापत्तेः । तथा च तमुदाजह्रुरालङ्कारिकाः । ‘‘उपमानोपमेयत्वं यदेकस्यैव वस्तुनः । इन्दुरिन्दुरिव श्रीमानित्यादौ तदनन्वयः । रामरावणयोर्युद्धं रामरावणयोरिव । गगनं गगनाकारं सागरः सागरोपममितिवद्विजानीहि । विरुद्धं च न लोकविरुद्धधर्मवत्त्वादिना । पुंप्रकृत्यात्म-काभ्यां श्रीवत्सकौस्तुभाभ्यां विना भावम् अप्राकृतत्वमिति यावत् । प्रदर्शयेत् ।
ननु चिन्हापन्हवं कुत इत्यत आह ॥ धत्त इति ॥ नित्यमित्यनेन तद्वियोगायोगं सूचयति । तदतीतत्वमुक्तं मुक्तेष्वप्यस्तीत्यत उक्तं– यद्वशो नानयोरिति ॥ रमातामरससम्मता यत उक्तानां मुक्तानामप्यस्तीति नास्त्यतिप्रसक्तिः । निगमयति । ‘‘श्रीवत्सकौस्तुभाभ्यां तु विनाभावः स एव तु’’ इति । आत्मतुल्यैरित्यत्रात्मपदोत्तरं भूतपदं प्रस्थाप्य व्याख्यानं कृतं तदुपोद्बलयितुं प्रमाणं लपति ॥ आत्मैवेति । स्वयं स्वेनैव सप्तदशधा तावत्प्रकारेण । तृतीयाविभक्तिलोपः । मध्यस्थरूपेणावृत्तिरूपेण परिवाररूपेण चेत्यर्थः । सौभर्यादिवत्कर्मवर्मभेदनाय तद्वशत इति किन्नेत्याह ॥ पुरुषोत्तमः क्रीडत इति । क्रीडति सप्तदशधा पुरुषोत्तमः स्वयम्भूत्वा स्थितोऽप्यात्माभिन्नः । एवम्भवने निमित्तमाह ॥ जनार्दन इति । जनानामर्दनं याचनं यस्य स तथा । मध्यस्थावृत्तिरूपेण क्रीडते तस्मै नम इति वा । यद्यपि भूतपदमध्याहृत्यात्मभूततुल्यैरिति विवृत्यपेक्षयाऽऽत्मपदं मौलमावृत्त्याऽऽत्मात्मतुल्यैरिति लघुनोपायेन प्रस्तुतापाय प्रच्युतिर्भवति । तथाऽपि भूत्वेति मानपदमनुसन्दधान आत्मभूतैस्तुल्यैरिति विवरणमिति विशेषज्ञापनाय गुरुवरो गौरवं किञ्चित्सोढ्वा कृतवानित्यूढ्वा स्थेयं स्वास्थ्यम् ।
ततश्चायं मूलार्थः ॥ आत्मतुल्यैरात्मभूततुल्यैः श्रीवत्सकौस्तुभौ प्रकृतिपुरुषौ । ‘‘वक्षोनिवासम-करोत्परमं विभूतेः । तत्कण्ठगं कौस्तुभमास धाता’’ इति चान्यत्र श्रीमदुक्तेः । तौ विना तदती-तत्वेनात्मभूततुल्यैर्गुणक्रियादिभिः समैः षोडशभिर्वासुदेवादिचतूरूपैः केशवादिद्वादशरूपैरेवमाहत्य षोडशभिः पर्युपासितम् । मध्यस्थमेकमेवं सप्तदशधा स्थितम् । उन्निद्रे विकसिते शारदाम्बुरुहे शरदः शरत्कालस्याम्बुरुहे तत्कालिककमले इवेक्षणे नयने यस्य तम् । ‘‘ईक्षणं नयने दृष्टौ’’ इति विश्वः । ईक्षणाह्लादविक्लवा विह्वलाः । ‘‘विक्लवो विह्वलः स्यात्’’ इत्यमरः ॥ २८,२९ ॥
चट्टी
पुनश्च तं पुरतो दृष्ट्वेक्षणाह्लादेन विवशा अवनौ दण्डवत्पतिताः सन्तः शनैरुत्थाय तुष्टुवुरित्यन्वयः । कथम्भूतमात्मतुल्यैरात्मना मूलरूपेण तुल्यैरात्मभिः स्वरूपभूतैस्तुल्यैः परस्परं समानैश्च केशवादयो द्वादश वासुदेवश्चत्वार इति षोडशभी रूपविशेषैः पर्युपासितम् । परित आवर्णत्वेनोपासितम् । ननु मूलरूपस्यानादिनित्यत्वादवताराणां चौत्पत्त्यादिदोषत्वात्कथं तुल्यत्वमित्यत आह ॥ विनेति । श्रीवत्सकौस्तुभौ तदभिमानिनौ प्रकृतिपुरुषौ विना तदतीतत्वादित्यर्थः । प्रकृति-पुरुषातीतत्वेन तदनिर्मितशरीरत्वात्तुल्यत्वमुपपद्यत इति भावः ॥ तदुक्तम् ॥ श्रीवत्स इत्यादि । उन्निद्रशरदम्बुरुहवदीक्षणे यस्य तम् ॥ २८,२९ ॥
देवा ऊचुः—
नमस्ते यज्ञवीर्याय वयसे उत ते नमः ।
नमस्ते अस्तु चक्राय१ नमोऽस्तु पुरुहूतये ॥ ३० ॥
तात्पर्यम्
‘वयः सर्वस्य वयनाद्भगवान्पुरुषोत्तमः’ इति च । ‘मा तन्तुश्छेदि वयतो धियं मे’ इति श्रुतिः ॥ ३० ॥
पदरत्नावली
स्तुतेः प्रतीकं गृह्णाति– नमस्त इति ॥ यज्ञस्य वीर्यं रेतः, स्रष्टेत्यर्थः, तस्मै । यज्ञो वीर्यं यस्य स तथा, अभिव्यक्ताय इति शेषः, तस्मै । हे यज्ञ, वीरेषु स्थित्वा वीरत्वप्रदायेति वा । उत किन्तु वयसे बन्धकशक्त्या जीवानां संसारे बन्धकाय । वय बन्धन इति धातोः । ‘वयः सर्वस्य वयनाद् भगवान् पुरुषोत्तमः’ इति वचनाद् वयश्शब्दोऽत्र बन्धवचनः । ‘मा तन्तुश्छेदि वयसो धियं मे मात्रा शार्ययसः पुरा क्रतोः’ इति श्रुतेश्च । अतः ‘वयो विहङ्गो विहगो विहङ्गमः’ इत्यभिधानेऽपि प्रकृतानुपयुक्तत्वान्न पक्ष्यत्र ग्राह्यः । श्रुतेरयमर्थः– दैवे धियं वयतो बध्नतो मे तन्तुः सन्ततिर्मा छेदि उत्सन्नो मा भूत् । क्रतोः पुरा ज्ञानोत्पत्तेः पूर्वमयसः कर्मणः मात्रा मानं परिमाणं मा शारि । शॄ हिंसायाम् इति धातोः फदानेन नष्टं मा भूत् । ‘कर्मणा ज्ञानमातनोति’ इति श्रुतेर् ज्ञानमनुत्पाद्य न नश्यत्वित्यर्थः । स्वकृतं बन्धनं स्वयमेव हन्तुं शक्तो नान्य इति ज्ञापनाय सन्धिकार्याभावः । चक्राय पुनः सृष्ट्यादिकर्त्रे । करोतेर्यङ्लुगन्तं शब्दरूपम् । सर्वहन्त्रे चरतेर्भक्षणार्थं रूपं वा । विपत्परिहर्तृ-सुदर्शनाख्यावताराय वा । अत्राप्यनन्यसाध्यकरणशक्त्यादिमत्त्वप्रदर्शनाय सन्ध्यभावः । पुरवो बहवो हूतयो नामानि यस्य स तथा तस्मै । ‘नामानि सर्वाणि यमाविशन्ति’ इति श्रुतेः । ‘इन्द्रायाहि चित्रभानो’ इत्यादिबहुवेदैर्हूतिर्यस्य स तथा तस्मै वा । ‘शुचिः शुचिव्रतः शुद्धः पुरुहुः शुद्धिरुच्यते’ इत्यभिधानात् पुरुहुः शुद्धा ऊतिर्यस्य स तथा तस्मै वा ॥ ३० ॥
सत्यधर्म
नमस्ते यज्ञवीर्यायेति श्लोके वयस इत्यस्य कालात्मने ‘‘अस्य देवस्य मी•हुषो वया’’ इति श्रुतौ वया बन्धकत्वेनान्धकरिपव इति वा नीचावया इत्येतद्भाष्ये नीचस्थाने बन्धनं वा करोतीत्याद्युक्तेः कश्यपपत्न््नयै दनव इति कस्मैच न पक्षिणे वेति यः सन्दिग्धतमसन्दिग्धार्थेन मानेन विमानयति ॥ वय(स) इति । सर्वजगतो वयनाद्बन्धनाद्धेतोर्वय इत्युच्यत इति सम्बन्धः । सर्वस्ये-त्युक्त्या सामान्येनामान्यताकालकालगलदनुपक्षिपक्षाणां ज्ञेया । तत्रापि विश्वस्येत्यनुक्त्या सर्वस्येत्युक्त्या सर्वो ह्येष रुद्र इति श्रुतेः ‘‘सर्वः शर्वः कालञ्जलः शिव’’ इति नामनिधानोक्तेश्च । अर्व षर्व हिंसाया-मिति हिंसकत्वयोगाच्च किञ्चित्सादृश्येन विशेषतो नामनिर्देशपूर्वकं पुरहरपराकृतिं सूचयामासेति ज्ञेयम् । वय बन्धन इति धातोः । श्रुतिप्रयोगोऽप्यस्तीत्याह । मा तन्तुच्छेदि वयतो धियं म इति च श्रुतिरिति च । मा तन्तुच्छेदि वयतो धियं मे मा मात्राशार्यपसः पुरुरुतेरिति श्रुतेरयमर्थः । हे वरुण वरानन्दहरे । त्वयि धियं वयतो बन्धतो मे मम तन्तुः सन्ततिर्मा छेदि उत्सन्ना मा भूत् । नापुत्रस्य लोकोऽस्तीति श्रुतेः । ज्ञानं सर्वथाऽपेक्षितमित्याह ॥ मेति । अपसः कर्मणः । अप्शब्दस्य कर्मशर्मसु पाठात् । ‘‘तस्मिन्नपो मातरिश्वा दधाति’’ इत्यादौ तन्नामत्वेन स्वपरसाधारण्येन व्याकरणात् । गत्यर्थ-ज्ञानार्थनीत्या ऋतेर्ज्ञानाद् ऋतेः पुरा तदुत्पत्तेः प्राक् अपसः कर्मणो मात्रा परिकरोंऽशो वा । ‘‘मात्राऽल्पेऽपि परिच्छदः’’ इति विश्वः । मा शारि मा शीर्णं भवतु । अकार्यकारि न नश्येत् । कर्मणा ज्ञानमातनोतीति श्रुतेरिति ॥
अथ मूलार्थः ॥ नमनेन मनःप्रसाद इव नान्येनेति किञ्च लक्ष्म्यञ्चितचरणस्य किमस्य कृत्यमितरदिति नम इति प्रह्वत्वमेवार्हणमित्याह ॥ नमस्त इति । हे यज्ञ । वृत्रस्य त्वष्टुः पुत्रतया वीतिहोत्रे सत्रसम्बन्धिनि जातत्वादेतत्कालोचितालोचिताश्चतुरा अमरा इति सूच्यतेऽनया वाचोभङ्ग्येति तात्पर्यम् । उत्तरत्र तत्पराकरणकारणमाहुः ॥ वीर्यायेति । तदात्मने । यद्वा यज्ञस्य ज्योतिरादेर्वीर्यं स्वर्गस्वप्रसादादिप्रदानशक्तता येनेति । हे यज्ञ तन्नामक । यज्ञो विष्णुर्देवतेति हि श्रुतेः । वीर्यो विर्गरुड ईर्यः प्रेर्यो वाह इति येन स इति, विविधमीर्यं प्रेर्यमस्येति वा तस्मै ते । विः श्रेष्ठातीतनानार्थे विः स्यात्पक्षिष्विति विश्वः । तव वीर्याय नम इत्यादिरप्यन्वयो ‘‘नमस्ते रुद्र मन्यव उतोत इषव’’ इत्यादिवदवधेयः । वयसे सकलबन्धकाय । वयसे उतेति सन्ध्यकरणेन प्रथमापञ्चम्याद्यनवकाशदानमिव परिवयसे पशूनिवेति श्रुतिगीतागृहीतश्रुतिं स्मारयति । पशुप्रायानपि सर्वस्य देवानामभिप्रायव्याप्तेत्येवं वचनेन सूचयति । चक्राय चक्रं चङ्क्रमणादेष इत्यादेस्ते चक्रायेति वा ते चक्राय त्वदात्मकैतत् षोडशसङ्ख्यारूपसङ्घायेति वा । ‘‘चक्रो गणे चक्रं सैन्यरथाङ्गयोः’’ इति विश्वः ।
ननु कथमायुधत्वेन कथनमिति चेत् । समानव्यवहारसमानविभक्त्यादीनामेतदनावेदकत्वस्य यजमानप्रस्तर इत्यादौ दृष्टेर्नैतन्मात्रेण तन्मात्रता । यथोक्तं छान्दोग्यभाष्ये– ‘‘विष्णुरूपाणि गण्यन्ते पररूपेण वै सह । एवं भूतानि गण्यन्ते भिन्नान्यपि पदैः सह । मूर्तामूर्ते यथा रूपे ब्रह्मणस्तु तथैव च । भिन्नान्यपि तु भूतानि पदानि स्वपदैः सह’’ इति प्राथम्ये । सुदर्शनाख्यं स्वास्त्रं तु प्रायुङ्क्त तदपि (दयितं) त्रिपादित्यादि । सन्ध्यकरणेन महामन्त्रतामेतस्य सूचयति । तदरातिशरीरसन्धिरन्धनं वा सूचयति । मूलकृच्चात्र चक्रादिशब्दवाच्योऽच्युत इत्यत्र हेतुमाह ॥ पुरुहूतय इति । पुरवः सर्वा हूतयो हूतिराकारणाह्वान इत्यमरादिन्द्र आगच्छेत्याद्याह्वानानि यस्य नामानि वा यस्य स तस्मै । नामानि सर्वाणि, यो देवानां नामधा इत्यादिश्रुतेः । नचैवं गतिभ्रष्टास्त्वत्स्तुतिकृतः किन्तु बहव इदंवर्त्मरता इतीरयन्ति ॥ पुरुहूतय इति । पुरुभिर्महात्मभिर्बहुभिश्च शिष्टं स्पष्टमिति वा । पुरुहुः शुद्धा ऊतिरभिप्रायो यस्य स तस्मै । अनेन तारको न प्रतारक इत्युक्तं भवति । पुरुहुः शुद्धिरुच्यत इत्यभिधानात् ॥ ३० ॥
चट्टी
प्राचीना स्तुतिर्भगवदपरोक्षायेदानीं स्वाभीष्टसिद्ध्यै स्तुवन्ति ॥ नम इति । यज्ञवीर्याय यज्ञस्य विहितकर्मणो वीर्यं सामर्थ्यं यस्मात्ज्ञाता स तथा । तस्मै । ‘‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’’ इति श्रुतेः । यद्वा । यज्ञोत्पादकाय । स कारयेत्पुण्यमिति श्रुतेः । वयसे जगद्बन्धकाय । वय बन्धन इति धातोः ॥ तदुक्तं– ‘‘वयः सर्वस्य वयनाद्भगवान्पुरुषोत्तमः’’ इति । उतशब्दो विशेषण-समुच्चये । आत्तचक्राय दुष्टनिग्रहार्थं स्वीकृतचक्राद्यायुधाय । नमस्तेऽस्तु चक्रायेति पाठे । चक्रमस्यास्ती चक्रः । तस्मै । पुरुहूतये । अनन्तनाम्ने । नामानि सर्वाणि यमाविशन्तीति श्रुतेः ॥ ३० ॥
यत् ते गतीनां तिसृणामीशितुः परमं पदम् ।
नार्वाचीनो विसर्गस्य धातुर्वेदितुमर्हति ॥ ३१ ॥
तात्पर्यम्
‘देवलोकात्पितृलोकान्निरयाच्चापि यत्परम् । तिसृभ्यः परमं स्थानं वैष्णवं विदुषां गतिः’ इति माहात्म्ये ॥ ३१ ॥
पदरत्नावली
ईशितुस्ते तव यत् तिसृणां गतीनां देवलोकपितृलोक निरयसंज्ञानां सकाशात् परमम् उत्कृष्ठं वैष्णवं पदं वैकुण्ठादिख्यानं तद्धातुर्ब्रह्मणो विसर्गस्य विविधसृष्टेरर्वाचीनो अनन्तरकालीन इदानीन्तनो मनुष्यो वेदितुं लब्धुं प्राप्तुं नार्हति न योग्यो विद्वानेव योग्य इत्यन्वयः । ‘‘देवलोकान् पितृलोकान् निरयाच्चापि यत् परम् । तिसृभ्यः परमं स्थानं वैष्णवं विदुषां गतिः ॥’’ इति वचनात् । ‘‘विद्लृ लाभे’’ इति धातुः । पद्लृ गतौ इति च । अनेन वैष्णवपदप्राप्तौ ज्ञानमेव प्रयोजकं न कर्मादिकमिति सूचयति ॥ ३१ ॥
सत्यधर्म
यत्ते गतीनां तिसॄणामिति श्लोके सदसन्मोक्षनरकादिगतित्रिकभ्रममतिक्रामयितुं प्रमाण-माह ॥ देवलोकादिति । देवलोकान्महरादेः पितृलोकात्स्वर्गान्निरयाद्रौरवादेरिति तिसृभ्यो गतिभ्यो यत्परमं स्थानम् । अनेन मूले गतीनां तिसृणामित्यत्र सकाशादिति पूरणीयमिति सूचयति । तच्च नान्यदित्याह– वैष्णवमिति ॥ विदुषामपरोक्षज्ञानिनां गतिर्गम्यमित्यर्थः ॥ तथा चेयं मूलयोजना ॥ ईशितुस् तृना स्वभावतामीशनस्य सूचयन् लोकवत्तु लीलाकैवल्यमित्युक्तं स्मारयति । तिसृणां देवगति-पितृगतिनरकगतीनां सकाशात्परममुत्तमं पदम् । वैकुण्ठादिस्थानम् । धातुर्विधातुः । सर्गस्य नाना-कर्मायत्ततां वेदयितुं वीत्युक्तम् । विविधसृष्टेः । अर्वाचीनोऽन्तरार्जितजन्माऽधुनातनो मानवो वेदितुं ज्ञातुं नार्हति । यल्लोक एवैतादृशो यदा तदा तदोकाश्च न वेदयितुमर्हंतीति किं वक्तव्यमिति भावः ॥ ३१ ॥
चट्टी
ईशितुस्ते वयं तिसृणां गतीनां देवलोकपितृलोकनिरयसंज्ञानां सकाशात् । परममुत्कृष्टं वैकुण्ठादिस्थानं तद्धातुश्चतुर्मुखस्य विसर्गस्य विशिष्टसृष्टेर्देवादेः सकाशादार्वाचीनो नीचोऽज्ञ इति यावत् । वेदितुं लब्धुं प्राप्तुं नार्हति । विद्वानेव त्वत्पदप्राप्तियोग्य इति भावः ॥ ३१ ॥
ओं नमस्ते भगवन् नारायण वासुदेवादिपुरुष महापुरुष महानुभाव परममङ्गल परमकल्याण परमकारुणिक परमहंसपरिव्राजकैः परमेणात्मयोगसमाधिना परिभावितपरिस्फुटितपारमहंस्यधर्मेणोद्घाटिततमःकपाटद्वारेणापावृते आत्मलोके स्वयमुपलब्धो निजसुखानुभवो भवान् दुरवबोध इव तव विहारयोगो यदशरणोऽशरीर इदमनपेक्षितास्मत्समवायः स आत्मनैवाविक्रियमाणेन सगुणमगुणः सृजसि पासि हंसि ॥ ३२ ॥
पदरत्नावली
हरेः प्रसन्नतायां गुणोत्कर्षप्रकाशिका स्तुतिरेव प्रयोजिकेति पद्यैर्ग्रथिताः कतिपय-गुणा एव प्रकाशन्त इत्यतोऽपेक्षिताशेषगुणप्रकाशनार्थं गद्यैः स्तुवन्ति– नमस्त इति ॥ भगवदादि-शब्दैराविष्कृतगतये ते तुभ्यं नम इत्यन्वयः । परिव्राजकाश्चतुर्विधाः कुटीचकबहूदकहंसनिष्क्रिया इति । तेषां मध्ये परमहंसाख्यपरिव्राजकैः परमेणोत्तमेनात्मयोगेन पारमात्मध्यायेन यः समाधिश्चित्तैकाग्रता, तेन परिभावितः प्रवर्धितः परिस्फुटितश्च प्रकाशितो यः पारमहंस्यनामा धर्मः ज्ञानाख्यः, तेनोद्घाटितं तमः कपाटद्वारमज्ञानाख्यकपाटद्वारं येन सः । तथा तेनापावृते प्रकाशिते आत्मलोके वैकुण्ठादिनामि्न स्वयमुपलब्ध अप्रयत्नेन दृष्टो यो भवान् स्वरूपसुखानुभवस्तस्य तव विहारयोगः जगज्जन्मलयादि-हेतुभूतक्रीडोपायो दुरवबोध इव त्वदनुग्रहमन्तरेण दुर्बोध एवेत्यर्थः । कुतो दुर्ज्ञान इति तत्राह– यदशरण इति ॥ अशरणोऽधिष्ठानरहितः, अशरीरः ज्ञानसाधनशरीररहितोऽप्राकृतत्वाद् अनपेक्षितोऽ-स्मत्समवायः साहाय्यलक्षणो येन स तथा । अगुणो निर्गुणः स्वयं स त्वमविक्रियमाणेन स्वतः परतो वा विकाररहितेनात्मनैव स्वभावेनैव भोगादिप्रयोजनमन्तरेण इदं जगत् सृजसि रक्षसि संहरसीति यद् यस्मात् तस्मात् । कुलालादिसृष्ट्यादिविलक्षणत्वादिति भावः ॥ ३२ ॥
सत्यधर्म
प्राग्रणे शस्त्रास्त्रग्रासस्य रिपुणा कृततयोत्तरत्र त्वत्कृपामपहाय नेन्द्रवज्रादिछन्द-स्कृत्यमिति गुणगणनामगणितत्वेन न पद्यपद्यया च गणितगुणायालमिति निरालोच्य गद्येनाद्यमुप-श्लोकयाम्बभूव । तत्रादौ सर्जकोऽब्जजो मारको मारहरः पालयिता गोपाल इति व्यवस्थां कैश्चिदविपश्चिद्भिः कृतां दुरवस्थीकरोति ॥ ॐ नमस्त इत्यादिना ।
श्रीव्यासव्यासशेमुष्यामुष्या निष्कास्य संरसम् ।
सुवर्णस्याभ्यधान्मूर्तिं पूर्णवित् षोडशीवृताम् ॥ १ ॥
भगवन्निति प्रमुखीकृत्य कृष्णान्त्यसम्बुध्यन्तपदानि परित्यज्यागते व्यूहे सप्तदशसङ्ख्यानि व्यासेनोपसङ्गृहीतानि हंसायेत्यतः प्राक्तनेन ग्रन्थेन । इममभिप्रायं दुरवगमं प्राय इतरैः प्रायोमतीन्विनेति दीनदयापरो विदितैतदर्थ आनन्दतीर्थश्रीचरण इदं व्याजेन न्यभांत्सीत् । एकस्य भगवन्नित्यस्यैतन्मध्य-मध्यासीनश्रीनाथसम्बोधनता । उर्वरितभगवद्द्वयं वासुदेवादिव्यूहस्य केशवादिव्यूहस्य सम्बोधकं सत्सार्थकमिति मन्तव्यम् । अत एव विशेषणकृत्यान्वेषणमानसायासव्यसनमपि नेति मन्तव्यम् । हे भगवन् षड्गुण नारायण दोषरहित गुणगणसहित उदकाश्रय मुक्ताश्रय । सुधादिबोधितोऽर्थः सर्वोऽप्यनुसन्धेयः । वासनाद्वासुदेवोऽसीत्यादेरर्थविशेषो बोध्यः । वसुदेवसुतेति वा । अनेनैतद्युक्त-व्यूहस्फोरणमपि कृतं वेदितव्यम् । आदिपुरुष पुरातनपुरुष आदिपुरुषेत्युक्त्या वासुदेवाद्यादिपुरुषः केशवस्तत्सम्बुद्धिः । उपलक्षणया व्यूहसङ्ग्रहः । महापुरुषोत्तमपुरुष । महानुभाव महाप्रभाव । परममङ्गल स्वयं परमकल्याण । परमा रमादयस्तेषां कल्याणं मङ्गलं येन तत्सम्बुद्धिः । परमकारुणिक परमत्वं योग्यतया करुणायामन्वेति । परमहंसपरिव्राजकैः परमहंसाः परिशुद्धा गृहिणः । परिव्राजका ‘‘यत्याश्रमे तुरीये वै प्रीतिर्मम गरीयसी’’ इत्यादावुदीरिताः । ते च चत्वारः कुटीचको बहूदो हंसः परमहंसश्चेति । अन्त्यस्यैव निष्क्रिय इत्यपि संज्ञा । गृहस्थोऽयमयं यतिरिति सङ्कुच्य व्यवहारः । वस्तुतस्तु भक्तिरेव मुख्या । यथोक्तं गीतातात्पर्ये– ‘‘एतस्मान्न्यासिनां लोकं संयान्ति गृहिणोऽपि हि । ज्ञानमार्गः कर्ममार्ग इति भेदस्ततो न हि । तस्मादाश्रमभेदोऽयं कर्मसङ्कोचसम्भवः’’ ॥ इति व्यासस्मृताविति ।
आत्मयोगसमाधिना आत्मयोगः प्रसन्नभगवत्सम्बन्धस्तेन यः समाधिश्चेतसोऽचाञ्चल्यं तेन परिभावितः सुशीलितः पर्यालोचितः । ननु परौ भुवोऽवज्ञान इति परिपूर्वकभूधातोरवज्ञानार्थकत्वात्तस्य च प्रकृतेऽनुपपत्तेरर्थान्तरस्यैतदादावेवाननुशासनात्कथमिदमर्थतेति चेन्न । परीत्यस्य भावित इति णिजन्ता- द्योगात्केयं कथन्ता । यथोक्तं परिभाव्येति कौमुदीव्याख्यावसरे तत्त्वसुबोधिन्यां पर्यालोच्येत्यर्थः । न च परिपूर्वकस्य भवतेस्तिरस्कारार्थकत्वात्कथमत्र ज्ञानार्थतेति शङ्क्यम् । परीत्यस्य भावीति चुरादिणिजन्तेन योगात् । केचिदत्र भवतिना योगमभ्युपेत्याप्यर्थमाहुः । परौ भुवोऽवज्ञान इति सूत्रे परौ भुव इत्यस्यावज्ञान इति विशेषणान्न तिरस्कारार्थतानियमः । मनसा परिभाव्य किञ्चिदित्यादिश्रीहर्ष-प्रयोगाच्च । अत एवात्र तत्प्रयुक्तदोषशङ्काऽपि नास्तीति । अन्ये तु ‘‘अनादरः परिभवः परीभावस्तिर-स्क्रिया’’ इति कोशात्परिपूर्वकाद्भवतेर्घञन्तादेव तिरस्कारप्रसक्तिर्नान्यस्मादित्याहुस्तन्मन्दम् । परिभूय परिभवतीत्यतोऽपि तिरस्कारप्रतीतेरिति शेखरे च । मुनित्रयोक्तीर्विचार्येति वा । परीभावस्तिरस्क्रियेति कोशात्तिरस्कारार्थस्य धातोर्विचारार्थकत्वेऽपि न बाधकम् । धातूनामनेकार्थत्वात् । परौ भुवोऽवज्ञान इति सङ्गच्छते अत एव । अत्र त्वपरिभावितेत्यकारप्रश्लेषेणातिरस्कृतेत्यर्थयोग्यताऽस्तीति सुमङ्गलतया शङ्कातङ्क एव नास्तीति सन्तोष्टव्यम् ।
परिस्फुटोऽतिव्यक्तः । पारमहंस्यधर्मो ज्ञानं तेनोद्घाटितं तमःकपाटद्वारं येन स तथा । तेनापावृते प्रकाशिते आत्मलोके वैकुण्ठादिके । स्वयं स्वेनैवोपलब्धः प्राप्तो निजः स्वरूपभूतो व्यक्त इति यावत् सुखानुभवो यस्य सः । दुरवबोधः प्रसादमन्तरेण । तस्य तव विहारयोगो जन्मादिक्रीडासम्बन्ध उपायो वा । इव एव । तत्र निमित्तं यदशरण इति । स्वातिरिक्ताधाररहितः । तत्कुतो यद्यतोऽशरीरः प्राकृतशरीररहितः । अत एवानपेक्षितास्मत्समवायोऽनपेक्षितः कार्यनिष्पादनेऽस्माकं समवायः समूहो येन सः । असहाय एव कार्यपर्यवसायकः । ‘‘किं तस्य शत्रुहनने कपयः सहायः’’ इत्यादेः । वयं तत्प्राया दयया त्वमेव पुरस्करोषीति भावः । अविक्रियमाणेनात्मनैव स्वस्वभावेनैव अविक्रियमाणे-नात्मनेति निमित्तकारणभूतेनेति वा । अनेनोपादानतावादोऽपहस्तितो बोध्यः । सगुणं स्वोपादानी-भूतभूतगुणमिदं जगत् । स्वयमगुणः सत्त्वादिगुणविकलः प्रधानो वा सृजसि पासि हंसि तस्मै ते नम इत्यर्थः ॥ ३२ ॥
चट्टी
‘‘पद्यैर्मिताक्षरैः स्तोतुं न शक्यंते हरेर्गुणाः’’ इति पद्यैरतुष्यन्तो देवा गद्येन तुष्ठुवुः । भक्त्युद्रेकेण बहुधा सम्बोधयन्तो दुर्ज्ञेयत्वमाहुः ॥ भगवन्नित्यादिना । हे भगवन् षड्गुणपूर्ण । ‘‘ऐश्वर्यं च तथा वीर्यं तेजः शक्तिरनुत्तमा । ज्ञानं बलं यदेतेषां षण्णां भग इतीरितः । एभिर्गुणैः पूर्तिमान्यः स एव भगवान् हरिः’’ ॥ इति वचनात् । वासुदेव व्याप्त्यादिगुणक । छादयामि जगद्विश्वं भूत्वा सूर्य इवांशुभिः । सर्वभूताधिवासश्च वासुदेवस्ततोऽस्म्यहम्’’ ॥ इति वचनात् । आदिपुरुष आदिः सर्वजगतः पुराख्यशरीरेष्ववस्थानात्पुरुषः । ‘‘पुरुषः पूर्षु शयनात्’’ इति वचनात् । कुटीचकबहूदकहंसपरम-हंसभेदेन चतुर्विधेषु ये परमहंसाख्याः परिव्राजकास्तेः परमेणोत्तमेनात्मयोगेन यः परमात्मध्यानेन समाधिश्चित्तैकाग््य्रं तेन परिभावितः प्रवर्धितः परिस्फुटितः प्रकाशितश्च यः पारमहंस्यः परमहंससम्बधि-धर्मो ज्ञानाख्यस्तेन । कीदृशेनोद्धाटितं तमोऽज्ञानाख्यं कवाटं येन स चासौ द्वारं मोक्षसाधनं च तादृशेन परमहंस्यधर्मेणापावृते प्रकाशिते आत्मलोके वैकुण्ठादिधामि्न स्वयमुपलब्धोऽप्रयत्नेन दृष्टो यो भवान्स्वरूपसुखानुभवरूपस्तस्य तव विहारयोगो जगत्सृष्ट्यादिलक्षणक्रीडोपायो दुरवबोधो ज्ञातुमशक्यः । तदनुग्रहेण यथायोग्यं ज्ञायमानत्वादेवमुक्तिः । कुतो दुरवबोध इत्यत आह ॥ यदिति ॥ यद्यस्माद-शरणोऽधिष्ठानरहितोऽशरीरः प्राकृतदेहस्तद्देहरहितः । अगुणः सत्त्वादिगुणलेपरहितः । त्वं वाऽनपेक्षितोऽस्माकं समवायो मेलनं सहाय्यं येन तादृशःसन्नेव सगुणं सत्त्वादिगुणमयमिदं जगदविक्रियमाणेन विकारमनुपगच्छता । अनेन ब्रह्मण उपादानत्ववादो निराकृतो भवति । आत्मना स्वभावेनैव न तु स्वप्रयोजनमपेक्ष्य सृजसि पासि हंसि । तस्माल्लोकविलक्षणकर्तृत्वादुरवबोध इत्यर्थः । आत्मयोगसमाधिना परिभावित ध्यातेति सबोधनं च ॥ ३२ ॥
अथ तत्र भगवान् किं देवदत्तवदिह गुणविसर्गापतितः पारतन्त्र्येण स्वकृत-कुशलाकुशलफलमुपाददाति आहोस्विदात्माराम उपशमशीलः समञ्जसदर्शन उदास्त इति ह वाव न विदामः ।
न हि विरोध उभयं भगवत्यपरिगणितगुणगण ईश्वर अनवगाह्यमाहात्म्ये अर्वाचीनविकल्पवितर्कविचारप्रमाणाभासकुतर्कशास्त्रकलिलान्तःकरणदुरवग्रहवादिनां च विवादानवसरे उपरतसमस्तमायामये केवलस्वात्ममायामन्तर्धाय को नु दुर्घट इव भवति स्वरूपद्वयाभावात् । समविषममतीनां मतमनुसरसि यथा रज्जुखण्डः सर्पादिधियाम् । स एव नः सर्ववस्तुषु वस्तुस्वरूपः सर्वेश्वरः सकलजगत्कारण-कारणभूतः सर्वप्रत्यगात्मत्वात् सर्वगुणाभासोपलक्षित एक एव पर्यवशेषितः१ ॥
अथ ह वाव तव महिमामहामृतरससमुद्रविप्लुषाऽसकृल्लीढया स्वमनसि निष्यन्द-मानानवरत२सुखेन विस्मारितदृष्टश्रुतविषयसुखलेशाभासाः परमभागवता एकान्तिनो भगवति सर्वभूतप्रियसुहृदि सर्वात्मनि निरन्तरनिर्वृतमनसः कथमु ह वा एते मधुमथन पुनः स्वार्थकुशला ह्यात्मप्रियसुहृदः साधवस्त्वच्चरणाम्बुजानुसेवां विसृजन्ति न यत्र पुनरयं संसारपरिवर्तः ।
त्रिभुवनात्मभवन त्रिविक्रम त्रिनयन त्रिलोकमनोहरानुभाव तवैव विभूतयोऽभूवन् दितिजदनुजादयश्चापि तेषामनुपक्रमसमयोऽयमिति स्वात्ममायया सुरनरमृगमिश्रित-जलचराकृतिभिर् यथाऽपराधं दण्डं दधर्थावतीर्य ॥ ३३ ॥
तात्पर्यम्
**‘अथ तत्र भगवान् किं देवदत्तवदित्याक्षेपः । अचिन्त्यशक्तेरनन्तगुणस्य कुतः पारतन्त्र्यादिकमित्यभिप्रायः । **
उपरतसमस्तमायामये प्राकृतस्वभाववर्जिते । केवलं स्वात्ममायां निजसामर्थ्यम् । स्वरूपद्वयाभावादित्यादि समाधानम् । ‘स्वतन्त्रः परतन्त्रो वा ज्ञोऽज्ञो दुःखी सुखी नु किम् । इत्यादिसंशयः क्व स्याज्ज्ञानिनां पुरुषोत्तमे । तस्यानन्तगुणत्वाच्च पूर्णशक्तित्वतो हरेः । स्वातन्त्र्यादिकमेवास्य विदो जानन्ति निश्चयात् । घटकत्वाद्दुर्घटस्य दुर्ज्ञेयत्वाच्च सर्वशः । तच्छक्तेरविदो जीवं परतन्त्रं वदन्त्यमुम् । एवं दुर्घटया शक्त्या ज्ञोऽज्ञानां परमेश्वरः । यथा रज्जुः सर्पधिया रज्जुबुध्द्यावगम्यते । तथा यथार्थबुद्ध्या च मिथ्याबुद्ध्याऽवगम्यते स्वेच्छयैव महाविष्णुः फलदश्चानुसारतः’ इति तन्त्रभागवते ।
त्रिनयनो नृसिंहरूपी । ‘विष्णोर्नृसिंहनामानि त्रिनेत्रोग्रादिकानि तु’ इति शब्दनिर्णये । ‘विविधं भावपात्रत्वात् सर्वे विष्णोर्विभूतयः’ इति च ॥ ३३ ॥
पदरत्नावली
भगवत्स्वरूपनिर्धारणार्थं पूर्वपक्षयन्ति– अथेति ॥ सृष्ट्यादिकर्मणि प्रवर्तमानो भगवान् अथेह गुणविसर्गापतितः संसारान्तःपातिदेवदत्तवत् परवशतया स्वकृतपुण्यापुण्यफलमुपादत्ते किम् ? अथवोदास्ते नोपादत्ते किम् ? कुतः ? आत्मारामः स्वमहिमि्न स्थितः । उपशमशीलः पूर्णानन्दानुभवः । समञ्जसदर्शनः शुद्धज्ञानः । एते प्रत्येकं हेतवोऽनुपादाने भवन्ति । इति न विदामो ह वाव न बुद्ध्यामहे हि । वावेत्येताभ्यामज्ञानिन एवं वदन्तीति सूचयन्ति न ज्ञानिन इति ॥
कस्मिन् सति किं स्यादिति तत्राह– नहीति ॥ कुशलाकुशलस्योपादानमनुपादानं चेत्युभयमितरत्र विरुद्धम् । अत्र न हि विरोधः । कथम् ? तत्राह– भगवतीति ॥ भगवति को नु दुर्घट इति भवति ? सर्वः सुघट एवेत्यन्वयः । सौघट्यं बहुभिर्विशेषणैरुपपादयन्ति– अपरिगणितेति ॥ न परिगणिता गुणानां गणा यस्य स तथा तस्मिन् । कुत इत्यत्राह– ईश्वर इति ॥ अघटितघटकत्वशक्तिमत्त्वाद् युक्तमित्यर्थः । इतोऽपि गुणानामगणितत्वं युक्तमित्याह– अनवगाह्येति ॥ अपरिच्छेद्यमहिमत्वात् । अयमीशः स्वस्वेरवृत्तित्वानाक्रान्तपरिच्छिन्ननिष्ठाधिकरणं मेयत्वाद् घटवदित्यादिमहाऽविद्यालक्षण-कुतर्केण देवदत्तवदयं कुशलाकुशलभोक्ता न वेति विकल्पेन, अत्र कर्मणः पुरुषार्थहेतुत्वसमर्थनादस्ति शास्त्रादिसङ्गतिरित्यादिलक्षणमीमांसया, मयाऽस्मिन् गुल्मे व्याघ्रोऽदर्शीत्यादिविद्यमानेन प्रमारवदव-भासमानेन यदीशो दुर्भगशरीरे स्थितस्तर्हि देवदत्तवद् तद्गतदुःखभोगः प्रसज्येत इत्यादिकुतर्केण चावगाह्यमाहात्म्यचादिति तत्राह– अर्वाचीनेति ॥ अर्वाचीना व्याप्त्यादिरहिता विकल्पादिरहिता विकल्पादयो येषु तानि तथोक्तानि तैः । शास्त्रैर् वेशिषिकादिभिः कलिलेन व्याकुलितेनान्तःकरणेन मनसा दुरवग्रहो येषां ते तथा । ते च वादिनस्तेषां विवादानवसरे विप्रतिपत्यगोचरे । इतोऽपि विवादाविषय इत्याह– अपरतसमस्येति ॥ केवलस्वात्ममायाम् अद्वन्द्वरूपसामर्थ्यम् अन्तर्धायावष्टभ्यो-परतसमस्तमायामये प्राकृतस्वभाववर्तिते । एवंविधेऽपि पुण्यापुण्यभोक्तृत्वं वयं न विद्भहे, ये वदन्ति ते मूढा असुरप्रकृतय इत्यभिप्रेत्य स्वयमेव समाधत्ते– स्वरूपेति ॥ ‘एकमेवाद्वितीयम्, निरनिष्टो निरवद्यः’ इत्यादिश्रुतेः सुखी दुःखीत्यादिस्वरूपद्वयानुपपत्तेः । न चायं संशयः सुराणाम् । ‘स्वतन्त्रः परतन्त्रो वा ज्ञोऽज्ञो दुःखी सुखी नु किम् । इत्यादिसंशयः क्व स्याज्ज्ञनिनां पुरुषोत्तमे ॥’ इति विरोधात् । तर्हि ज्ञानिनः कथं वदन्ति चेदुच्यते । अनन्तगुणत्वात् पूर्णशक्तित्वाच्च स्वातन्त्र्यादिकमेव जानन्ति । तदुक्तम्– ‘तस्यानन्तगुणत्वाच्च पूर्णशक्तित्वतो हरेः । सत्वातन्त्र्यादिकमेवास्य विदो जानन्ति निश्चयात् ॥’ इति । निरवयवस्य जीवस्य पुण्यापुण्यभोक्तृत्वं युज्यते । ‘घटकत्वाद् दुर्घटस्य दुर्ज्ञेयत्वाच्च सर्वशः । तच्छक्तेरविदो जीवं परतन्त्रं वदन्त्यमुम् । एवं दुर्घटया शक्त्या ज्ञाज्ञानां परमेश्वरः ॥’ इति वचनात् । यद्वा पारतन्त्र्येण कुशलाकुशलादिकमनुभवति किम् उत स्वातन्त्र्येणोदास्त इति संशयं न विदामः । किन्त्वनन्तशक्तेरनन्तगुणस्य हरेः पारतन्त्र्यादिकं कुतो घटत इति निश्चिनुमः । अस्मिन्नर्थे च ‘स्वतन्त्रः परतन्त्रो वा ज्ञोऽज्ञो दुःखी सुखी नु किम्’ इत्यादिमानमनुसन्धेयम् । इतोऽपि न घटत इत्याह– न हीति ॥ विरोधो हि यस्मात् तस्मादुभयमेकस्य न युक्तमित्यर्थः । ननु निर्गुणस्य हरेर् गुणित्वमकिञ्चनस्येशित्वं स्वव्यतिरिक्तरहितस्य माहात्म्यमवाङ्मनसगोचरस्य विचारविषयत्वमकर्तुः कर्तृत्वमित्यादिसर्वं दुर्घटमिति तत्राह– भगवतीति ॥ तर्हि उपाधिभेदाद् दौर्घट्यपरिहारोऽस्त्विति तत्राह– स्वरूपेति ॥ ननु ‘मम निशितशरैर्विभिद्यमानत्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा’ इत्यादि कथं संगच्छत इति चेत् तत्राह– समेति ॥ सममतीनामनन्तं सच्चिदानन्दलक्षणं ब्रह्मेति यथार्थ-बुद्ध्याऽनुसरति तथात्वेन प्रकाशस इत्यर्थः । विषममतीनामसुरप्रकृतीनां मतमभूतिरित्यसुरा इति मिथ्याबुद्ध्या दुःखी छिन्नो विद्ध इत्याद्याकारेण दृश्यस इत्यर्थः । अत्र दृष्टान्तमाह– यथेति ॥
यथा रज्जुखण्डः(खण्डस्य ?) सर्पोऽयमिति मन्दान्धकारे मन्दितेन्द्रियस्य ज्ञानं, स एव पुनरालोकादिनाऽऽलोकिते स्थले निर्दुष्टेन्द्रियस्य रज्जुखण्ड एष इति (प्रतीयते) । तदुक्तम्– ‘यथा रज्जुः सर्पधिया रज्जुबुद्ध्यावगम्यते । तथा यथार्थबुद्ध्या वा मिथ्याबुद्ध्याऽवगम्यते । स्वेच्छयैव महाविष्णुः फलदश्चानुसारतः ॥’ इति ।
तथा स एव पुनर्भगवान् सर्ववस्तुषु वस्तुस्वरूपोऽप्रतिहतस्वरूपः । ‘वसनाद् वासयेद् वस्तु नित्याप्रतिहतत्वतः’ इत्यादेः । तादात्म्यं किं न स्यात् ? अत्राह– सर्वेश्वर इति ॥ प्रत्यगात्मत्वेन सर्वेश्वरत्वं हरेरेवेत्याह– सकलेति ॥ ननु कुलालादिवद् बाह्यकारणत्वमस्तु नान्तः, परिच्छिन्नत्वापत्तेः, तथा च सफलकारणकारणत्वमयुक्तम् । अत्राह– सर्वप्रत्यगिति ॥ सर्वेषामपि प्रत्यगात्म-त्वेनान्तर्यामित्वेन तत्तद्वस्तुतत्तच्चेष्टादिकारणत्वेनापरिच्छिन्नस्यापि आकाशवदुपपत्तेः । तदन्तस्थस्य तत्तददृष्टप्राप्यदौर्भाग्यप्राप्तिः स्यात् ? अत्राह– सर्वेति ॥ सर्वगुणानामाभासेन सम्यक् प्रकाशेनोपलक्षितो ज्ञानिभिः सम्यग्दृष्टः, इतरैरनुमीयत इत्यर्थः । न च स्थानभेदात् तस्य भेद इत्याह– एक इति ॥ ‘स वा एष आत्मा नेति नेति’ इत्यादिपरिशेषलक्षणप्रमाणाद् एक एवेति निश्चितेत्यर्थः ।
महतामनुभवापरपर्यायसाक्षिप्रत्यक्षं हरेरेकत्वे निर्दोषत्वे संसारनिवर्तकमहामहिमत्वे प्रमाणमाहुः– अथेति ॥ विप्लुषा बिन्दुनाऽसकृल्लीढया निरन्तरसेवितया नितरां स्यन्दमानेन अनवरतेन निरन्तरेण स्वरूपसुखेन । हे मधुमथन यस्मात् त्वं सर्वोत्तमः सर्वगुणपूर्णः सर्वात्मना निर्दोषः सर्वान्तर्यामी अथ तस्मादेकान्तिनो हरावर्पितशरीरेन्द्रियप्राणसर्वस्वा भागवता य एते कथं त्वच्चरणारम्बुजसेवां विसृजन्ति एवेत्यन्वयः । ह वा व इत्येतैर्निपातैः ‘परमः परार्ध्यः’ इति श्रुतेर्महिम्नः परमपरार्घ्यत्वं सूच्यते । सर्वभूतप्रियाः सन्यासिनोऽजातशत्रवस्तेषां सुहृत्, सर्वभूतानां परेणाभीष्टकर्तृत्वात् प्रियश्च सुहृच्च । ‘परेयं प्रियनामा’ इति वचनात् । निरन्तरं सन्तुष्टमनस अविसर्जने कारणमाहुः– स्वार्थेति ॥ यत्र त्वच्चरणाब्जसेवायाम् । परिवर्तः परिभ्रमणम् ॥
स्वाभिप्रायं विज्ञापयितुमुपोद्घातमाहुः– त्रिभुवनेति ॥ त्रिभुवनमेवात्मभवनं यस्य स तथा । त्रिभुवनस्य य उपद्रवः सोऽवश्यं परिहर्तव्य इति द्योतनायेदं विशेषणमिति ज्ञातव्यम् । एवमेवोत्तर-विशेषणानि अभिप्रायगर्भाणि । त्रीणि नयनानि यस्य स तथा, नृसिंह इत्यर्थः । ‘विष्णोर्नृसिंहनामानि त्रिनेत्रोग्रादिकानि तु’ इत्यादिवचनान् नृसिंहसुदर्शनादयस्त्रिनेत्रादिनामानः । त्रयो लोकास्त्रिलोकविषया ज्ञानलक्षणाः प्रकाशा यस्य स तथा, सर्वज्ञ इत्यर्थः । त्रिलोकस्य त्रिलोकनिवासिनो जनस्य मनोहरोऽनुभावो यस्य स तथेति वा । मायागुणव्यतिकराद्यदुरुर्विभासीति वचनाद् विभूतय इत्युच्यन्ते देवादयो न तु स्वरूपत्वात् । अपिशब्दान्मत्स्यादय एव साक्षाद्विभूतय एव गम्यन्ते । ‘विविधभावस्य पात्रत्वात् सर्वे विष्णोर्विभूतयः’ इति च । ये विभूतिशब्दवाच्या दितिजादयोऽभूवन् तेजामनुपक्रमसमयः क्षयप्रारम्भकालोऽयमिति मत्वा स्वात्ममायया स्वरूपभूतेच्छया, स्वमहिम्ना शुक्रशोणितसम्बन्धमन्तरेण वा, सुराद्याकृतिभिरवतीर्य यथापराधं दण्डं त्रैलोक्यापहरणादि लक्षणापराधमनुसृत्य बल्यादीनां धृतवानसीत्यन्वयः । मिश्रिताकृतिभिर्नरसिंहादिभिः । सुराद्याकृतिभिरित्यनेन विभूतित्वं विवृतमिति ज्ञातव्यम् ॥ ३३ ॥
सत्यधर्म
अथ तत्र भगवान् किं देवदत्तवदित्यादीत्येक एव पर्यवशेषित इत्यन्तगद्येषु भगवतः गुणसर्गपतितपारतन्त्र्यं कुशलाकुशलकर्मफलोपलब्धिर्नास्त्येतत्सर्वमिति न विदाम इति देवानामविज्ञानं, तथेतरत्र दुर्घटस्यैवमादेः सौघट््यघटिका मायेत्याद्यनुचितार्थप्रच्युत्यै स्वयमग्रतः स्ववचनेन व्याकृत्य तत्स्थिरतायै मानमपि तन्त्रसारस्थमुपन्यस्यति ॥ अथ तत्र भगवान्किं देवदत्तदवदित्याक्षेप इति । देवदत्तवत्किमिति दुराशयसंशयं स्वमुद्धाट््यात्र भगवन्नित्यारभ्य को नु दुर्घटश्च भवतीति पर्यन्तं सुराः शङ्कन्ते ॥ स्वरूपद्वयाभावादिति । सिद्धान्तग्रन्थ इत्याशयः । अचिन्त्यशक्तियुक्ततायां हेतुरनन्त-गुणस्येति परस्परं तद्भाव इति वा । परमफलमालपति ॥ कुतः पारतन्त्र्येत्यादिना । उपरतमायामय इत्यस्य स्वाधिष्ठानाध्यस्तसमस्तमायिकजगत्को भवतीति प्रतीतिं निवारयति ॥ प्राकृतेति । केवल-स्वात्ममायापदार्थमाह ॥ निजसामर्थ्यमिति । स्वरूपद्वयाभावादित्यप्याक्षेपार्थमिति प्रतिक्षिपति । इत्यादीति । समाधानं पूर्वपक्षस्येत्यर्थः । स्वतन्त्र इत्यादिसंशयाकारः ॥ ज्ञानिनां देवादीनां पुरुषोत्तमे तद्विषये । विदोऽस्येति वा ज्ञानिन इति वाऽर्थः । अनन्तगुणत्वादिरपरिगणितगुण इत्यर्थः । दुर्घट-स्येतरनिरीक्षया सर्वशः साकल्येनाविदो मिथ्याज्ञानिनोऽमुं हरिं परतन्त्रं जीवं वदन्ति । यथा रज्जु-भ्रान्तानां रज्जुबुद्ध्याऽवगम्यते विषयीकृता भवति तथा ज्ञैर्यथार्थबुद्ध्या स्वतन्त्रो विश्वविलक्षण इत्यव-गम्यते । अज्ञै रज्जुः सैव सर्पधिया सर्पोऽयमिति बुद्ध्या । इयं कीदृशीत्यत आह ॥ मिथ्याबुध्येति । मिथ्यासाधनजया । बुध्यतेऽनयेति गीताभाष्योक्तेः । अतो न धीरिति पुनरुक्तिः । तस्यैवं प्रेरणे किं फलमित्यत आह ॥ स्वेच्छयैवेति । अनुसारतः सारो गत्यर्थादिन्यायेन ज्ञानम् । तमनुसृत्य फलद इति ॥
ततश्चायं गद्यार्थः ॥ सत्सु सति पूर्वपक्षे न ज्ञानाङ्कुरोपजननं सुशकं स्यादिति तत्खण्डनं विना न तन्मण्डनं सम्भवतीति तं वितत्य दर्शयन्ति ॥ अथेति । अथ सृष्ट्युत्तरं तत्र सृष्टमध्ये देवदत्त-वद्भगवान्गुणविसर्गापतितः संसृत्यन्तःपाती । ततश्च किमित्यतस्तत्प्राप्यमनर्थं वदन्ति ॥ इह पारतन्त्र्ये-णेति । कुशलः स्वकृतं ‘‘कुशलः क्षेमपर्याप्तस्वकृतेषु’’ इति विश्वः । अकुशलं पापम् । तयोः फलं शुभमशुभं चोपाददाति भुङ्क्ते किम् । आहोस्विदित्यादिना प्रथमपक्षक्षेपकाणि विशेषणानि दर्शयति । आत्मारामः स्वस्मिन्नेव क्रीडन्स्वरमण उपशमशीलः शान्तमूर्तिः समञ्जसदर्शन नित्याप्रतिहतज्ञान इत्युदास्ते न भुङ्क्ते किमिति न विदामः । ह वावेत्यनूहागोचरता श्रौतीति द्योतयति । अनिर्धारणेन भुङ्क्ते । न भुङ्क्त इति पक्षधारणेऽपि न विरोध इतरत्रैवेत्याहुः ॥ न हीति । उभयमुभयस्मिन्पक्षे न हि विरोधः । शामकनियामकं भगवतीत्यादि । भगवति को नु दुर्घट इव भवति न कोऽपीत्यर्थः । अपरिगणितगुणत्वं कुत इत्यत आह ॥ ईश्वर इति । ऐश्वर्येऽपीन्द्रादिवत्स्यात्साधारण इत्यत आह ॥ अनवगाह्यमाहात्म्य इति । अबुद्ध्यारोहमाहात्म्ये ।
अर्वाचीनोऽसाधको विकल्पपूर्वको वितर्को विरुद्धानुमानं परमात्मा दुःखी चेतनत्वादहमिव जगदन्तःपातित्वादित्यादि । एतन्मूलको यो विचारो दुर्मीमांसा च प्रमाणाभासानि तत्त्वेनाभासमानानि । वस्तुतस्त्वनेवंविधानि कुतर्कशास्त्राणि पाशुपतादीनि तैः कलिलं व्याकुलमन्तःकरणं येषां ते तथा । ते च ते दुरवग्रहा दुःसाध्यप्रतिबन्धास्ते च ते वादिनः । निन्दार्थकेनिप्रत्ययार्थविवरणपरः प्राक्तनो ग्रन्थः । एतेन संशयो विपर्ययो वा येषां ते तरतमभावेनाज्ञानिन एव देवानां न स्वाशयमनुसृत्यायं प्रवृत्त इत्याक्षेपाशयः सूचितः । वादिनामित्युपहासो वा । विवादानवसरे तददत्तावकाशे केवला निस्सीमा स्वात्मा निजा स्वस्वरूपभूता सा च सा माया सामर्थ्यं च तामन्तर्धाय निगूह्य । निगूहनहेतो-रेवोपरमहेतुतेति समानकर्तृकता । उपरतसमस्तमायामये प्राकृतस्वभावरहिते एतादृशेशे दुर्जनजल्पित-कुशलाकुशलभोगं न वयं विद्मः । सगुणनिर्गुणरूपद्वैरूप्यप्रयोजकं भोक्तृत्वम् अभोक्तृत्वं चेति चेन्न । अनन्तरूपे विशेषबलतो रूपद्वयं क्षम्यते न क्षम्यते, च शबलाशबलकबलनेनेत्याह ॥ स्वरूपद्वया-भावादिति । स्वं स्वात्मकं स्वं स्वकीयं चेति तन्त्रेण रूपद्वयाभावादित्यर्थः । सर्वं स्वात्मकमेवेति भावो रूपद्वयाभावादित्येवावदतात्मात्मीयसाधारणस्वशब्दं प्रयुञ्जानेन सूचित इति ज्ञेयम् । ‘‘एकमेवाद्वितीयं’’ ‘‘निरनिष्टो निरवद्यः’’ ‘‘शुभं पिबत्यसौ’’ ‘‘अनश्नन्नन्यः’’ इत्यादेः । अग्निस्तम्भवतो दह्यमानगेहव-सत्सहवासोऽपि यथा न दाहस्तथेश्वरस्य न भोगादिरिति हृदयम् ।
समविषममतिमज्जनानुसारेणेत्थं दर्शनस्यात्मानमितिवत्प्रयोजकमर्थाद्दर्शयन्ति ॥ समेति । अधिकारिणां समविषममतिकत्वेन तत्प्रसञ्जितं यन्मतं तदनुसञ्चरसि । तत्तदुचितायाचितगतिवितरणेन सदसती तन्मती चेत्थमिति सदृष्टान्तमाचष्टे ॥ यथेति । रज्जुखण्डः सर्पादिधियां सर्पकुसुममालादिमतीनां यद्वा रज्जुखण्डस्तदादिः सर्पादिधियाम् । रज्जुबुद्धीनां रज्जौ सर्पधियां सर्पे रज्जौ सर्पधियां रज्जुरिति सर्प इति यथा यथा मती अदोषिदोषिभ्यो जायेते तथा रज्जुना सहितः खण्डः शकलं तेन शुक्तिशकलग्रहो वोत्तरादिपदानुगुण्यात् । स एव भगवान्सर्ववस्तुषु ब्रह्मादियवसावसानेषु वस्तुस्वरूपो व्याख्यातचर-मिदम् । वस्तुषु सु अत्यन्तमरूपोऽतद्रूप इत्यान्तरङ्गिको भावः । किं कारणं तत्रेत्यत आह ॥ सर्वेश्वर इति । एष सर्वेश्वर एष सर्वपाल इत्यादिश्रुतिमनुकरोति । ततश्च प्राचीनानुमानस्य श्रुतिसहकृतिरहित-त्वाच्छुष्कत्वमिति नाविष्करणीयतां द्योतयति । भगवान् वा जीनभिन्नः सर्वेश्वरत्वाद्विलक्षणचेतनत्वा-द्व्यतिरेकेण नरवदिति श्रुतिमूलमानमप्युक्तं भवति ।
‘‘धाता यथा पूर्वम्’’ इत्यादौ चतुराननादीनां कारणता श्रूयत इत्यत आह ॥ सकलेति । सकलकारणानां तत्त्वेनाभिमतानां सरसिजपुरहरादीनां कारणभूतः । तथा च ‘‘नामानि सर्वाणि’’ ‘‘यो देवानाम्’’ इत्यादिभिर्मानैर्हरिरेतदभिधेय इति स वादोऽनवधेय इति ज्ञेयम् । भगवान्किं बहिष्ठः करोति सर्वमुतान्तरस्थ इति चेत् । वैशकलित्येनैकैकं न क्षमामहे । उभयमपि सर्वदा भगवतश्चेच्चिरञ्जीव । ‘‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः’’ । परिच्छिन्नताशाऽपि तव छिन्ना । अर्भकौक-स्त्वादिना सूत्रकृतैवेति नो यतस्व । सर्वप्रत्यगात्मत्वात् सर्वान्तर्यामित्वात् । सर्वगुणाभासोपलक्षितः सर्वे गुणास्तेषामाभासो ज्ञानं येषां तैरुपलक्षितो दृष्टः । सर्वेभ्यो गुणा अप्रधाना अधमाधिकारिणस्तेषाम-भासोऽनवभासश्चोपलक्षितोऽनुमित इति वा । सर्वे च ते गुणाभासाश्च त्वद्गुणप्रतिबिम्बगुणकास्तैरुपलक्षित इति वा । न स्थानतोऽपीत्याद्युक्तेर्न तत्कृतं वैचित्र्यमित्याह ॥ एक एवेति । निर्भेद इत्यर्थः । एक एव न लयेऽन्य इति वा । तत्कुत इत्यत आह ॥ पर्यवशेषित इति । अनेन स वा एष आत्मा नेति निषेधशेषो जयतादशेष इत्यादिश्रुतिस्मृत्यादेरेक एव परिशिष्ट एवेति निर्णयमवर्णयत् ।
अथ ह वावेति गद्ये निगद्यते त्रिनयनेति तथा विभूतयो दितिदनुजादय इति वासुदेवेत्यादि-भगवन्नाम्नामेव स्तुतिप्रस्ताव आम्नातस्तथैव नान्यसङ्गानां लिङ्गानां पूर्वत्रेवात्राभिधीयमानत्वान्यथाऽनु-पपत्त्या न त्रिनयनोऽत्र सदाशिवो विभूतय इति तादात्म्याभिप्रायेण किन्तु नानाभवनाभिप्रायेणेति किञ्चित्स्ववचनप्रमाणादिद्वैरूप्येण नृमृगाद्यात्मद्विरूपी नृहरिरेवेतीरयति ॥ त्रिनयनो नृसिंहादिरूपीति । त्रीणि नयनानि यस्य स त्रिनयनः । विष्णोर् नृसिंहनामानीति मानेऽभिधीयमाननृसिंहेति नलोपः । नलोपः प्रातिपदिकान्तस्येत्यत्रेव लुप्तषष्ठीकम् । तथा च विष्णोर्नृसिंहस्येति सामानाधिकरण्येनान्वयः । शब्दनिर्णयो हि निबन्धः । तेन पुराणान्तरस्थं ‘‘सत्यज्ञानसुखस्वरूपममलं क्षीराब्धिमध्यस्थलं योगा-रूढमतिप्रसन्नवदनं भूषासहस्रोज्वलम् । त्र्यक्षं चक्रपिनाकसाभयवरान् बिभ्राणमर्कच्छविं छत्रीभूत-फणीन्द्रमिन्दुधवलं लक्ष्मीनृसिंहं भजे ॥’’ इत्यादिकं समुच्चिनोति । ‘‘उग्रो भस्मधरो नग्नः कपालीति शिवस्य च । विशेषनामानि ददौ स्वकीयान्यपि केशवः’’ इति विशेषनामत्वेन शिवस्योक्तस्योग्र-नाम्नोऽत्र ग्रहणं किमभिप्रायमिति चेन्न । तत्रापि भगवतः सर्वथा तदवाच्यत्वमभिप्रेतं स्वकीयेत्युक्तिस्वारस्यात् । किन्तूग्रत्वादितच्छब्दाभावादिति भाष्यसहितस्य मानस्य ‘‘गुणैरपि न तूपास्यो ये पूर्णत्वविरोधिनः’’ इत्युक्तेस्तदादित्वेनोपास्यत्वाभाव एव तात्पर्यमित्यवश्यं वक्तव्यत्वान्न तदुक्तिरयुक्तेति मन्तव्यम् ।
नृसिंहादीति भाष्योक्त्या मानस्थया च विष्णोरित्युक्त्या शृृङ्गिग्राहिकया नृसिंहेत्युक्तिः सर्वेषां भगवद्रूपाणामविशेषेणेति ज्ञेयम् । उग्र उग्राभिरित्यादौ उग्रो दुष्टानामिति टीकोक्त्यादयः समञ्जसा ज्ञेयाः । हिसि हिंसायामित्यस्य हिनस्तीति पृषोदरादित्वेन वर्णविपर्ययेण सिंह इति भवति । अथवा तत्त्वप्रकाशिकायामतिसहनवति पुंसि सिंहशब्दप्रयोग इत्युक्तेः षह मर्षण इत्यस्येदं रूपम् । सर्वः संसारः पृषोदरादिरेव । अतीति चार्थस्तृतीयेकारस्येति गुर्वर्थदीपिकोक्तेरयं विशेषस्ततो ‘‘नृसिं हन्ता नृसिंहोऽसौ’’ इति माननिरुक्तिरप्यनुसन्धेया । तत्र नृसिं मानवोपलक्षितयोग्यसर्वबन्धनम् । षिञ् बन्धन इति स्मरणात् । हन्तीति स तथेत्यर्थो बोध्यः । विविधमिति तादात्म्येन भवनविशेषणम् । विविधं यद्भवनं भावस्तत्पात्रत्वात्तद्योग्यत्वात् । सर्वे दनुजादयो न तु मस्त्यादिवदिति भावः ।
अथ गद्यार्थः ॥ पूर्वोक्तसर्वार्थेषु प्रमाणमुदाहरन्ति ॥ अथेति । महिमैव महामृतरससमुद्रः । आकारान्तस्त्रीलिङ्गो महिमाशब्दः । समुद्रस्य या विप्लुट् बिन्दुरसकृदनवरतं लीढया स्वादितया । असकृदित्यधिकारिविशेषविवक्षया वा महिमामहत्त्वलाभलोभेनेति वा ज्ञेयम् । निष्यन्दमानेति वदता सुखशब्दोत्तरं रसशब्दाव्याहार्यता वा । सुखस्यैव रसता भक्तिरस इत्यादाविव सूच्यते । सुखं वैषयिकं कुटुम्बनिकुरम्बादिसम्बन्धि । प्रियसुहृदि प्रियाप्रिये सुहृदि शोभनमनसि प्रिये चेति । भेदस्त्वनयोः पूर्वं समानाभिधानमुदीरितोऽस्माभिरनुसन्धेयः । निर्वृतमनसः सन्तुष्टचित्ताः । तदत्यागेऽयं योग इत्याहुः ॥ स्वार्थेति । यत्र यस्मिन्सविते त्रिभुवनात्मभवन त्रिभुवनमेव आत्म भवनं सन्निधानधाम यस्य स तत्सम्बुद्धिः । त्रिनयन नरहरे । इदानीं तदानीतभीतितो दितिजाद्युदीरणम् । विभूतयो विविधभवनपात्राणि । चापीत्यनेन वयमपि किं वक्तव्यं तथेति सूचयन्ति । अनुपक्रमसमयो अनुपक्रमसमयो ऽप्रारम्भसमय इति भ्रान्तिं वारयितंु मानेन तदर्थमाह– निरुपक्रम इति । अप्रयत्नो ऽनित्यप्रयत्नः पुमान् हि यस्मात् कदाचिदुपक्रमेत् हरिस्तु नित्यप्रयत्नवान् इति अनुपक्रम इत्युच्यते मूले च अनुपक्रमेति सम्बोधनमिति सूचितम् । समयः क्रमसमयो ऽतद्वनसमय इति मत्वेत्यर्थ सुरनरमृगमिश्रित जलचराकृतिभिः । अवतीर्य अव तॄ प्लवनतरणयोरित्यतस् त्क्वाप्रत्यये गतित्वात् समासे समासेन पूर्वेति ध्यपि ‘‘ऋत इत्’’ इति धातोरिति त्वे हरि चेति दीर्घः ।’’ इति लिखितपुस्तके अस्ति परन्तु अस्य योजना तु न ज्ञायते । यथापराधं प्रतीपकारि दराङ्कुरप्ररोहणानवसरोऽतदवनसमय इति मत्वा सुरनरमृगमिश्रितजलचराकृतिभिरवतीर्य दण्डं शिक्षां दधर्थ धृतवाननुगुणम् ॥ ३३ ॥
चट्टी
ननु सृजसीत्यादिनोक्तं सृष्ट्यादिकर्तृत्वमनुपपन्नम् । भगवतः कर्तृत्वे कर्तृदेवदत्तस्येव पारतन्त्र्येण शुभाशुभभोगापत्तेरित्याशङ्कां परिहर्तुमज्ञानिनां संशयरूपं पूर्वपक्षं तावदनुवदति ॥ अथ तत्र भगवानिति । अथ यथेह देवदत्तो गृहादि निर्माय तत्र स्वकृतशुभाशुभयोः फलमुपादत्ते । एवं भगवान् गुणविसर्गपतितः । गुणैः सत्त्वादिभिर्विसर्गो विविधसृष्ट्यादिस्तत्र पतितः प्रर्वतमानः पारतन्त्र्येण स्वकृतकुशलाकुशलफलम् । कुशलं सृष्ट्यादि लक्षणमकुशलं संहारादिलक्षणं च यत्कर्म तयोः फलं सुखदुःखलक्षणमुपादत्तेऽनुभवति किम् । अथवाऽऽत्मारामः स्वमहिमि्न स्थित उपशमशीलः पूर्णा-नन्दानुभवः समंजसदर्शनः शुद्धज्ञानश्च यतस्तस्मादुदास्ते नोपादत्ते इति ह वाव न विदामो न निश्चिनुमः । ननु कः संशयः स्वातन्त्र्यं पारतन्त्र्यं चेत्युभयमपि भगवति स्वीक्रियतामित्यत आह ॥ न हीति । विरोधे सहानवस्थानलक्षणे विद्यमाने सति उभयं न ह्यंगीकर्तुमुचितम् । न ह्येकैव कोटिर्निर्धारयितव्येति चेन्न । किमनन्तगुणपरिपूर्णत्वाद्भगवतस्तद्विरोधिपारतन्त्र्यासम्भवेन स्वातन्त्र्यमेक-मेवाङ्गीकार्यम् । उत दुर्घटघटनासमर्थत्वादुभयमपीति पुनः संशयानिस्तरादित्याहुः ॥ भगवतीति । अपरिगणिता अनन्ता ये गुणाः स्वातन्त्र्यादयस्तेषाम् । अत एवानवगाह्यमतर्क्यं माहात्म्यं यस्य तस्मिन् । तदेवाह ॥ अर्वाचीनेति । विकल्प एवं वा एवं वेति । किमत्र युक्तमिति विचार इत्थमेवेति । तत्र ये प्रमाणाभासास्तदनुग्रहाः कुतर्काश्चार्वाचीना वस्तुस्वरूपासंस्पर्शिनो ये विकल्पादयो येषु शास्त्रेषु तैर्दुरागमैः कलिलं व्याकुलं यदन्तःकरणम् । तदाश्रिता यो दुरवग्रहो दुराग्रहस्तेन वदन्ति प्रतिपादयन्ति अभिलषितार्थमिति तथोक्तास्तेषाम् । विवादानवसरे विरुद्धधर्मवादागोचरे केवलस्वात्ममायां केवलामद्वितीयां स्वात्ममायां स्वरूपसामर्थ्यमन्तर्धायावष्टभ्योपरतसमस्तमायामये उपरतं नित्यनिवृत्तं समस्तमायामयं प्रकृतिगुणकार्यं यस्मिन्नीश्वरेऽघटितघटनासमर्थ ईश इत्युक्तस्तत्परत्वात्त्वमीश्वर इति वचनात् । भगवति को नु धर्मः पारतन्त्र्यादिलक्षणो दुर्घटो भवतीत्यर्थः । अनवगाह्यमाहात्म्यादिति पारतन्त्र्यासम्भवाद्दुर्घटघटनाशक्तिमति तत्सम्भवाच्च संशय इति भावः । दुर्घटो भवतीत्यनन्तरम् इत्यज्ञानिनो वदन्ति । तदयुक्तमिति शेषः । कुत इत्यत आहुः ॥ स्वरूपेति । स्वातन्त्र्यपारतन्त्र्यभेदेन ब्रह्मणि द्वैविध्यस्याप्रमाणत्वादित्यर्थः ।
ननु तथा प्रतिपत्तॄणां प्रतीतिरेव द्वैविध्ये प्रमाणं भविष्यतीत्याशङ्क्य सा भ्रान्तिरित्याहुः ॥ समेति । सममतीनां ज्ञानिनां विषममतीनामज्ञानिनां च मतं मतिमनुसरसि । ज्ञानिनां यथार्थज्ञानविषयो भवसि । अज्ञानिनां तु मिथ्याज्ञानविषयो भवसीत्यर्थः । तत्र दृष्टान्तः ॥ यथेति । रज्जुखण्डः सर्प इति रज्जुखण्ड इति च धीर्येषां तेषां मतिं यथाऽनुसरति तथेत्यर्थः । भगवान् ज्ञानिनां सम्यग्ज्ञाने विषयो भवतीत्युक्तम् । किं प्रकारावच्छिन्नो विषयो भवतीत्यतस्तत्स्वरूपं निरूपयन्ति ॥ स एव हीति । स एव सृष्ट्यादिकर्ता भगवान् । सर्ववस्तुषु सृष्टेषु वर्तमानेषु वस्तुषु वस्तुस्वरूपोऽप्रतिहतस्वरूपस्तद्विकारेण विकाररहित इति यावत् । ‘‘वासनाद्वासयेद्वस्तु नित्याप्रतिहतत्वतः’’ इत्यादेः । विकारवस्तुनिष्ठस्य विकाराभावः कुत इत्यत आह ॥ सर्वेश्वर इति । पूर्णशक्तिरित्यर्थः । पूर्णशक्तित्वं च सर्वजगत्कारणत्वान्यथाऽनुपपत्त्या सिद्धमित्याह ॥ सकलेति ।
ननु ब्रह्मादीनां जगत्कारणत्वात्कथं सर्वकारणत्वं भगवत इत्यत आह ॥ सर्वेति । सर्वान्तर्यामि-त्वादित्यर्थः । न भगवतो जगत्कारणत्वं प्रयोजनापेक्षं पूर्णत्वादित्याह ॥ सर्वगुणेति । सर्वे पूर्णा गुणा आनन्दादयस्तेषामाभासोऽनुभवस्तेनोपलक्षितो युक्तः । जगत्कारणत्वोपयोगिपूर्वभावित्वमाह ॥ एक एव प्रलये पर्यवशेषित इति । यद्वा । नेति नेतीत्यादिश्रुतिभिः पर्यवशेषित इत्यर्थः । अतस्त्वद्भक्तिरेव परमपुरुषार्थ इत्याहुः ॥ अथेत्यादिना संसारपरिवर्त इत्यन्तेन । हे मधुमथन मधुसूदन । यस्मादेवं भूतस्त्वम् अथ हवाव अत एव परमभागवता एते त्वच्चरणांबुजानुसेवां कथं मुहुः पुनर्विसृजन्तीत्यन्वयः । हि यस्मात्स्वार्थे पुरुषार्थे कुशला निपुणा अत एवात्मा त्वमेव प्रियः सुहृच्च येषां ते । साधवो रागादिशून्याः । अत्र हेतुः । तव महिमैवामृतरसमयः समुद्रस्तस्य विप्लुषा बिन्दुमात्रेण सकृदपि लीढया स्वादितया स्वमनसि निस्यन्दमानमतिशयेन स्रवद्यदनवरतं सततं सुखं तेन विस्मारिता दृष्टश्रुता ये विषयजन्याः सुखलेशाभासा अत्यल्पसुखानि येषां ते । अत एव भगवति त्वय्यनवरतं सततं निवृत्तं सुखितं मनो येषां ते । यत्र यस्यामनुसेवायां कृतायां सत्यां परिवर्तः परिभ्रमणम् । प्रस्तुतं विज्ञापयन्ति ॥ त्रिभुवनेत्यादि, यावत्समाप्तिः । हे त्रिभुवनात्मभवन त्रिभुवनस्यात्मा स्वामी भवनं च । यद्वा । त्रिभुवनस्यात्मा मुख्यप्राणः स एव भवनम् मुख्याधिष्ठानं यस्य । परमं ब्रह्म धामेति श्रुतेः । त्रिभुवनमात्मनः स्वस्य भवनं यस्येति वा । अनेन त्रिभुवनोपद्रवोऽवश्यं परिहरणीय इति सूचितम् । इतरविशेषणान्येवमेवाभिप्रायगर्भाणीति ज्ञातव्यानि । त्रिषु वेदेषु प्रतिपाद्यो विक्रमो यस्य । ‘‘त्रिरित्येवं त्रयो वेदाः कीर्तिता मुनिसत्तमैः । क्रमन्नेतांस्तु सर्वांस्त्रिविक्रमोऽस्ति जनार्दनः’’ इति वचनात् । त्रयो विक्रमो यस्येति वा । ‘‘त्रेधा निदधे पदम्’’ इति श्रुतेः । त्रीणि नयनानि यस्य त्रिनयन । नृसिंह-रूपिन् । ‘‘विष्णोर्नृसिंहनामानि त्रिनेत्रोग्रादिकानि च’’ इति वचनात् । त्रयाणां लोकानां मनोहरोऽनुभावो यस्य । एवं चतुर्धा सम्बोध्याहुः ॥ तवैवेति । विविधं विविधगुणप्रयोजिका भूतिः सत्ता एषु ते विभूतयः । ‘‘विविधं भावपात्रत्वात्सर्वे विष्णोर्विभूतयः’’ इति वचनात् । अपिशब्देन स्वरूप-विभूतित्वं गर्हयति । उपक्रमो ‘‘विक्रमः । उपक्रमस्तु प्रारंभे चिकित्सायां च विक्रमे’’ इत्यभिधानात् । नोपक्रमोऽनुपक्रमः । पराजय इति यावत् । ततश्च हे भगवन् ये विभूतिशब्दवाच्या दितिजादयोऽभवन् तेषामनुपक्रमसमयः पराजयकालोऽयमिति मत्वा पूर्वं स्वात्ममायया । शुक्लशोणितसम्बन्धमन्तरेण स्वसामर्थ्येनैव ‘‘मुख्यतो विष्णुमाहात्म्यं मायाशब्दोदितं भवेत्’’ इत्युक्तेः । प्रकटिताभिः सुरनरमृग-मिश्रितजलचराकृतिभिः । उपेन्द्रकृष्णनृसिंहमत्स्याद्याकृतिभिः । यथाऽऽपराधं त्रैलोक्यहरणादिलक्षणा-पराधमनुसृत्य बल्यादीनां दण्डं दधर्थ धृतवानसि ॥ ३३ ॥
एवमेनमपि भगवन् जहि त्वाष्ट्रं वृत्रासुरं यदि मन्यसे । अस्माकं तावकानां तव चरणनलिनयुगलध्यानानुबद्धहृदयनिगडानां स्वलिङ्गविधारणेनात्मसात्कृतानामनु-कम्पानुरञ्जितविशदरुचिरशिशिरस्मितावलोकनेन विगलितमधुरमुखरितवचसाऽमृत-कलया चान्तस्तापमनघार्हसि शमयितुम् ।
अथ भगवंस्तवास्माभिरखिलजगदुत्पत्तिस्थितिलयनिमित्तायमानदिव्यमाया विनोदस्य सकलजीवनिकायानामन्तर्हृदयेषु बहिरपि च ब्रह्म प्रत्यगात्मस्वरूपेण प्रधानरूपेण यथादेशकालदेहावस्थानविशेषं तदुपादानोपलम्भकतयाऽनुभवतः सर्व-प्रत्ययसाक्षिण आकाशशरीरस्य साक्षात् परब्रह्मणः परमात्मनः कियानिह वा अर्थविशेषो विज्ञापनीयः स्याद् विस्फुलिङ्गादिभिरिव हिरण्यरेतसः । अत एव स्वयं तदुपकल्पयास्माकं भगवतः परमगुरोस्तव चरणशतपलाशच्छायां विविधवृजिनसंसार-परिश्रमोपशमनीमुपसन्नानां वयं यत्कामेनोपसादिताः ।
अथो ईश जहि त्वाष्ट्रं ग्रसन्तं भुवनत्रयम् ।
ग्रस्तानि येन नः कृष्ण तेजांस्यस्त्रायुधानि च ॥ ३४ ॥
पदरत्नावली
किं बहूक्तेनापेक्षितं वक्तव्यमिति तत्राह– एवमिति ॥ यदि मन्यसे, कर्तव्यं तर्हिति शेषः । किञ्चेदं कर्तव्यमिति प्रार्थयन्ते– अस्माकमिति ॥ हृदयनिगडानां हृदयाख्यशृङ्खलानाम् । चक्रशङ्खादिलञ्छनानां स्पष्टतया धारणेनात्मसात्कृतानां तद्वद्भूतानाम् । अनुकम्पया रञ्जितं स्निग्धं च विशदं निर्मलं च रुचिरं चारु च शिशिरं शीतलं च यत् स्मितं तेन युक्तेनावलोकनेन निरीक्षणेन निगलितं निर्गतं च मधुरं मधुरितं च मुखरितं मन्द्रं च यद् वचस्तेनामृतकलया, युक्तेनेति शेषः । वचोलक्षणायाऽमृतकलयेति वा ॥ बुभुक्षितबालवत् सर्वज्ञस्य तव हृदयभावातिरेकादुत्कथितमिव यद् विज्ञापनमस्मदीयं तदस्मदज्ञाननिमित्तमित्यभिप्रेत्याहु– अथेति ॥ दिव्यमायया स्वरूपेच्छया विनोदो लीला यस्य स तथा । निकायानां राशीनां ब्रह्मस्वरूपेण बहिः प्रत्यगात्मस्वरूपेणान्तः । यथादेशादि-क्रियाविशेषणम् । तेषां देशकालादीनाम् उपादानोपलम्भकतया कारणत्वप्रापकत्वेन उपादानत्वेनोप-लम्भकत्वेन वा, सर्वमनुभवतः । आकाशशरीरस्याकाशवत् सूक्ष्मरूपस्य । ‘आकाशशरीरं ब्रह्म’ इति श्रुतेः । लिङ्गशरीरस्य व्यावृत्त्यर्थं परब्रह्मण इति । मुक्तजीवस्य व्यावृत्त्यर्थं साक्षादिति । साक्षात् परब्रह्मत्वं चित्प्रकृतेरप्यस्तीत्यतः परमात्मन इति । हिरण्यरेतसोऽग्नेर् महाप्रकाशस्य विस्फुलिङ्गदिभि-रल्पप्रकाशैरग्निकणैः खद्योतैश्च । यतस्त्वमस्माकं सर्वापदं परहिर्तासि अतो वयं यत्कामेन त्वाष्ट्रहनन-लक्षणवाञ्छया तव पादकमलच्छायामुपगतास् तदुपसन्नानाम् ‘अधीहि भगवो ब्रह्म’ इति समित्पाणि-शिष्यवच्छरणं गतानामस्माकं तत्कार्यमुपकल्पय समर्थयस्वेत्यन्वयः । बहुप्रार्थनयैव स्वाभीष्टफलप्राप्तिः स्यादिति दर्शयितुमेव गद्येन विज्ञापितमेव पद्यप्रबन्धेन विज्ञापयन्ति– अथो इति ॥ तेजांसि सामर्थ्यलक्षणानि ॥ ३४ ॥
सत्यधर्म
एवं स्तुतं भगवन्तं प्रति प्रस्तुतं श्रावयन्तीत्याह ॥ एवमेनमपीति । यदि मन्यस इति सुकुमारोक्तिर्बहिः । हृदयं तु बालादपि कारयिष्यामः । तव भक्तवत्सलतामवलम्ब्येति । एतत्संसारमेव प्रसारयन्ति ॥ अस्माकमित्यादिना । हृदयरूपनिगडानां शृृङ्खलासहितानाम् । अनेन त्वमन्तर्बद्ध इति सूच्यते । स्वलिङ्गविधारणेन स्वरूपभूतं यल्लिङ्गं साधुत्वप्रयोजकं चिन्हं भक्तिमत्त्वादिकं, बहिः शङ्खचक्रादिकं तस्य विधारणेनात्मसात्स्वाधीनत्वेन कृतानाम् । अन्तस्तापं पापप्रयोजकम् । समर्थत्वे हेतुरनघेति । पापोत्थतापापनोदे हेतू आहुः । स्मितेन सहितं च तदवलोकनं च तेन । अनुकम्पेत्यादि-रुचिरेत्यन्तं द्वयोरपि शिशिरत्वं चावलोकन एव विशेषणमिति विशेषो ज्ञेयः । विगलितेत्यनेन निरायासेन निःसारितोऽपि सद्भिस्तु लीलया प्रोक्तं शिलालिखितमक्षरमित्युक्तेरस्मत्प्रयोजनजन-कताऽस्तीति मन्यत इति द्योत्यते । मधुरमुखरितं मनोहरस्वरस्तेन सहितं वचस्तेन तद्रूपयाऽमृतकलया । अस्माभिरित्यस्य कियानर्थविशेषो विज्ञापनीयः स्यादित्यनेनान्वयः । निमित्तमित्ययमाना ज्ञायमाना । अयतेः शानच् । कर्मणि यग्यकारलोपश्छान्दसः । निमित्तत्वम् अयमाना गच्छन्तीति कर्तरि वा सः । संज्ञानार्थः । दिव्या माया स्वेच्छा तया विनोदलीला यस्य तस्य । ‘‘कर्तुः क्यङ् सलोपश्च’’ इत्युपमानात् सुबन्तादाचार क्यङ्गि निमित्तभिन्नो निमित्तवदाचरतीत्यन्यथाप्रतीतिरनेन निवारितेति ज्ञेयम् । ‘‘निकायाः समूहानां समूहाः संहतानां समुच्चय’’ इति विश्वः ।
तेषां हृदयेषु तत्राप्य प्रत्यगात्मस्वरूपेण साक्षितया प्रतिजीवमवस्थितेन बहिर्ब्रह्मरूपेण । यथा देशे काले तदानुगुण्येन प्रधानरूपेण तदन्तर्गततदुत्तेजकरूपेण देहावस्थानविशेषम् । एतेन कर्मणैतादृशेन भाव्यमिति विशेषम् । अवस्थानमिति विशेषं च । तदुपादानोपलम्भकतया तदुपादानत्वप्रापकतयाऽनु-भवतो जानतः। सर्वप्रत्ययसाक्षिणः सर्वः प्रत्ययोऽपि साक्षी तदात्मक एव यस्य तस्य । आकाशशरीरस्य व्याप्तशरीरस्य वा सूक्ष्मशरीरस्येति वा । आकाशशरीरं ब्रह्मेत्यादेः । असङ्गाङ्गस्येति वा । साक्षादिति लक्ष्मीव्यावृत्त्यर्थम् । विष्फुलिङ्गादिभिर्हिरण्यरेता वन्हिः । त्रिषु स्फुलिङ्गोऽग्निकणः । हिरण्यरेता हुतभुगित्युभयतश्चामरः । सुषामादित्वम् । वयं त्वत्पुरतोऽग्निपुरतः स्फुलिङ्गनीतय इति कियन्त इति द्योतयन्ति । विज्ञापनाऽनुचिता सर्वज्ञं प्रत्यशक्तस्य न वक्तास्य न वक्ता वा इति त्वमेव तत्त्वतो गतिरत एवं त्वया दया विधेयेति विज्ञापयन्ति ॥ अत इति । शतपलाशस्य कमलस्य छायां वासवनीलेत्यादि-वदयं शब्दो बोध्यः । चरणशतपत्रयोश्छायेति करणेऽपि न छायाबाहुल्य इति विरुणद्धीति मन्तव्यम् । वयं यत्कामेनोपसादिता उपसत्तिं प्राप्तास्तदुपकल्पय । उपसादिता इत्यनेन सद्गुरुत्वं तच्छिष्याश्च वयं सदेति सूचयद्भिरौपसदवदिति सूत्रतदुपात्तनानाविधा जीवसङ्घा विमुक्तौ न चैतेषां ब्रह्मधियां विरोधः । दोषाभावाद्गुरुशिष्यादिभावाल्लोकेऽपि नासौ किमु तेषां विमुक्तिरिति चेति चतुर श्रुत्यर्थोऽप्यर्थात्सङ्गृहीत इति ज्ञेयम् ।
इत उत्तरमस्मत्सद्वृत्तोच्छित्तिर्नासीच्छन्दःसिद्धिरभूदेव देवेत्युत्तमश्लोकमुपश्लोकयति ॥ अथो इति । तस्य तदङ्गसन्धेश्च निपातो निश्चयेन भविष्यतीति देवाश्च सप्रकृतिका भवन्तीति च सूचयितुमयं निस्सन्धिको निपातो निबद्धः प्रथमत इति तात्पर्यम् । तेजांसि ग्रस्तानि भीत्युद्भावनद्वारा सामर्थ्यानि ग्रस्तप्रायाणीत्यभिप्रायः ॥ ३४ ॥
चट्टी
एवमेनं त्वाष्ट्रमपि जहि । यदि मन्यसे हन्तुं यदिच्छसि । हे अनघ । प्रथमं तावत् त्वदीयानामस्माकमन्तस्तापं शमयितुमर्हसि । तावकानामित्यत्र हेतुः । तव चरणनलिनयुगलध्यानेनैवानु-बद्धो हृदयो मनः सनिगडः शृङ्खलो येषाम् । स्वलिङ्गानां शङ्खचक्रादिलांछनानां धारणेनात्मसात्कृतानां स्वकीयत्वेन परिग्रहीतानाम् । केन तापोपशम इत्याहुः ॥ अनुकम्पया । कृपया । अनुरञ्जितं सानुरागं च तद्विशदं निर्मलं च रुचिरं मनोहरं च । शिशिरमतिशीतलं च यत्स्मितं मन्दहासस्तत्सहितेनाव-लोकनेन कटाक्षवीक्षणेनानुकंपयैव विगलितं निर्गलितं मधुरं मुखरितं मन्द्रं च यद्वचस्तल्लक्षणयाऽमृत-कलया च । किञ्चास्मदभिप्रायस्त्वया ज्ञायत एव किमत्रास्माभिर्विज्ञापनीयमित्याहुः ॥ अथेति । अथ हे भगवन् । तवास्माभिरिह कियान्वाऽर्थविशेषो विज्ञापनीयः स्यादित्यन्वयः । यथा हिरण्यरेतसोऽग्ने-स्तदंशभूतैर्विस्फुलिङ्गादिभिः प्रकाशो न क्रियते । तथा तवास्माभिः कार्यार्थः प्रकाशो न कार्य इत्यर्थः । तत्र हेतुगर्भाणि विशेषणानि । अखिलजगतामुत्पत्त्यादिषु निमित्तायमानो दिव्यमायया स्वरूपेच्छया विनोदो लीला यस्य तस्य । सर्वजीवराशीनामन्तर्हृदयेषु । प्रत्यगात्मस्वरूपेणान्तर्यामिरूपेण स्थित्वा सुरनरादिदेहविशेषं जाग्रदाद्यवस्थाविशेषं बहिरपि ब्रह्मस्वरूपेण । व्यक्तरूपेण देशविशेषं कालविशेषं च । तदुपादानोपलंभकतया तेषां देहादीनामुपादानं प्रकृतिस्तस्या उपलंभकतयोद्बोधकत्वेन तथा । यथावत् । साक्षादनुभवतः साक्षात्कुर्वत इति बुद्ध्या विवेकेनान्वयः । सर्वप्रत्ययसाक्षिणः सर्वेषां जीवानां ये प्रत्यया ज्ञानानि । तेषां साक्षादीक्षितुः । आकाशशरीरस्याकाशवद्व्याप्तं निर्लेपमतीन्द्रियं च शरीरं यस्य स तथा तस्य । अत एव सर्वज्ञत्वादेव वयं यत्कामेन यस्य कार्यस्य कामेनोपसादिताः प्रापितास्तदस्माकं कार्यं स्वयमेवोपकल्पय सम्पादय । कीदृशानामस्माकं विविधैर्वृजिनैर्दुष्कर्मभिर्यः संसारपरिश्रमस्तस्योपशमनी-मुपशमनकरीं तव चरणमेव शतपलाशं कमलं तस्य छायामुपसन्नानां प्राप्तानाम् । स्वकामं कथयन्ति ॥ अथो इति । अथोऽनन्तरमेव । अविलम्बेनेति यावत् ॥ ३४ ॥
हंसाय दभ्रनिलयाय निरीक्षकाय कृष्णाय मृष्टयशसे निरुपक्रमाय ।
सत्सङ्ग्रहाय भवपान्थनिजाश्रयाय शश्वद् वरिष्ठगतये हरये नमस्ते ॥ ३५ ॥
तात्पर्यम्
‘निरुपक्रमो हरिर्नित्यमप्रयत्नो ह्युपक्रमेत्’ इति च ॥ ३५ ॥
पदरत्नावली
हंसवत् सारग्राहिणे । दभ्रनिलयाय हृदयाकाशनिवासाय । ‘तस्यान्ते सुषिरं सूक्ष्मं तस्तिमन् सर्वं प्रतिष्ठितम्’ इति श्रुतेः । निरीक्षकाय चेतनकर्मसाक्षिणे । कृष्णाय ‘कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः’ इत्यतः सन्ततपूर्णानन्दाय । कृतौ पूर्णौ षणौ बलप्राणौ यस्य स तथा तस्मै (वा) । भवपान्थाः संसारमार्गो वर्तमानास् तेषां निजाश्रयाय । ‘निजमात्मीयनित्ययोः’ इत्यभिधानम् । शश्वदेकप्रकारा वरिष्ठा धर्मादेरत्युत्तमा गतिर्मुक्तिलक्षणा यस्मात् स तथा तस्मै । हरय आपत्परिहरण-शीलाय ॥ ३५ ॥
सत्यधर्म
हंसायेति श्लोके निरुपक्रमायेत्यनेन सर्जनादिव्यापृतिवर्जितायेति विपरीतप्रतीतिं वारयितुं मानेन तदर्थं निर्धारयति ॥ निरुपक्रम इति । अप्रयत्नः श्रमजनकप्रयत्नस्तस्याभावान्निरुपक्रमो हरिरुच्यते । अप्रयत्नः प्राक् सहितो य उपक्रमेदुपक्रमेत । नित्यमप्रयत्न इत्येकं पदम् । नित्य इति मा ज्ञानं यस्य स प्रयत्नो यस्य सः नित्यत्वेनाम्नायाद्यनुशिष्टप्रयत्नवान् अतोऽनुपक्रमः । इदं प्रथमताशून्ययत्नः । इतरो हि नित्यं यथा तथाऽप्रयत्नोऽत उपक्रमेदिति वा ॥ अथ मूलार्थलापनम् ॥ हंसाय तद्वत्क्षीरनीरसमसद-सदार्जनवर्जनकारिणे शुद्धाय वा । दभ्रनिलयाय अर्भकौकसे । निरीक्षकाय साक्षिणे साकल्येन स्वेक्षकर-हिताय वा । मृष्टयशसे शुद्धदिग्व्याप्तश्रवसे । ‘‘दिक्षुयानाद्यश’’ इति छान्दोग्यभाष्योक्तेः । निरुपक्रमाय सहजप्रयत्नवते श्रमसमवायकृतप्रयत्नरहिताय । सत्सङ्ग्रहाय सतां सङ्ग्रहो येन स तस्मै । भवपान्थाः संसारपथिकास्तेषां निजाश्रयस्तस्मै । शश्वद्वरिष्ठगतिरूपाय वरिष्ठास्तत्त्वेन सम्प्रतिपन्ना ब्रह्माद्यास्तेषां शश्वच्छाश्वतिकी गतिर्येन तस्मै वा हरये । ‘‘स्तोत्रान्तेऽपि मङ्गलं कृतम्’’ इति व्याजेनेति ज्ञेयम् ॥३५॥
चट्टी
शीघ्रं तद्वधाय पुनः प्रणमन्ति ॥ हंसायेति । हंसाय शत्रुहन्त्रे । ‘‘हन्तृत्वाद्धंसनामाऽसौ’’ इति वचनात् । दभ्रनिलयाय दभ्रं सूदनं हृदयाकाशं निलयो निवासस्थानं यस्य तस्मै । तस्यान्ते सुषिरं सूक्ष्मं तस्मिन्सर्वं प्रतिष्ठितमिति श्रुतेः । अत एव निरीक्षकाय सर्वबुद्धिसाक्षिणे । कृष्णाय सदाऽऽनन्द-रूपाय । ‘‘कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः । तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते’’ ॥ इति निरुक्तेः । मृष्टयशसे मृष्टं शुद्धं यशो यस्य तस्मै । निरुपक्रमाय श्रमजनकप्रयत्नमन्तरेण जगत्कर्त्रे । निरुपक्रमो हरिर्नित्यमप्रयत्नो ह्युपक्रमेदिति वचनात् । सद्भिः सङ्गृह्य इति सत्सङ्ग्रहस्तस्मै । भवपान्थ-निजाश्रयाय संसाररूपे पथि वर्तमानानां नित्याश्रयाय । निजमात्मीयनित्ययोरित्यभिधानात् । शश्वद्वरिष्टगतये शश्वत्पुनरावृत्तिशून्याऽत एव वरिष्टा स्वर्गाद्युत्तमा गतिर्मोक्षलक्षणा यस्मात्स तथा । तस्मै हरये आर्तिहराय तुभ्यं नम इत्यर्थः ॥ ३५ ॥
श्रीशुक उवाच—
अथैवमीडितो राजन् सादरं त्रिदशैर्हरिः ।
स्वमुपस्थानमाकर्ण्य प्राह तानभिनन्दितः ॥ ३६ ॥
पदरत्नावली
स्वमुपस्थानं स्वविषयां स्तुतिम् ॥ ३६ ॥
सत्यधर्म
स्वमुपस्थानं स्वोपास्तिगर्भितां स्तुतिम् ॥ ३६ ॥
चट्टी
स्वमुपस्थानं स्वविषयां स्तुतिम् । अभिनन्दितः सन्तोषितः ॥ ३६ ॥
श्रीभगवानुवाच—
प्रीतोऽहं वः सुरश्रेष्ठा मदुपस्थानविद्यया ।
आत्मैश्वर्यस्मृतिः पुंसां भक्तिश्चैव यया मयि ॥ ३७ ॥
पदरत्नावली
मदुपस्थानलक्षणया विद्यया पुंसामत्मैश्वर्यस्मृतिर् माहात्म्यस्मृतिः, मयि भक्तिश्च भवतीत्यन्वयः ॥ ३७ ॥
सत्यधर्म
मदुपस्थानविद्यया करणेन । हे सुरश्रेष्ठाः । व उपर्यहं प्रीतो यया विद्यया यया मत्प्रीत्येति वा । पुंसामधिकारिणाम् । आत्मैश्वर्यस्मृतिर् आत्मन ऐश्वर्ये सकलविस्मारके सत्यपि स्मृतिर्मत्स्मरणम् । आत्मनः परमात्मनः सकाशादैश्वर्यमस्माकमिति स्मृतिर्वा । मयि भक्तिश्च भवत इति शेषः । तया मदुपस्थानविद्ययाऽहं प्रीतस्तादृशप्रीतिमानिति वाऽर्थः ॥ ३७ ॥
चट्टी
मदीयमुपस्थानं स्तोत्रं तल्लक्षणया विद्यया यया विद्यया पुंसामात्मैश्वर्यस्मृतिः । आत्मनो ममैश्वर्यस्य माहात्म्यलक्षणस्य स्मृतिर्ज्ञानं भवति । मयि भक्तिश्च भवति ॥ ३७ ॥
किं दुरापं मयि प्राप्ते तथापि विबुधर्षभाः ।
मय्येकान्तमतिर्नान्यन्मत्तो वाञ्छति तत्ववित् ॥ ३८ ॥
पदरत्नावली
प्राप्ते प्रत्यक्षे । तथापि फलप्राप्त्यनायासेऽपि । भक्तिज्ञानप्रसादेभ्योऽन्यत् । अत्र हेतुः– तत्वविदिति ॥ अनेनायमधिकारिषु सुखाधिक्यप्राप्तियोग्य इति ज्ञायते ॥ ३८ ॥
सत्यधर्म
हे विबुधर्षभाः । मयि प्राप्ते फलोन्मुखे सति । अप्रतारके भीतितारकत्वे न प्रकृष्टाप्ते सतीति वा दुरापं दुर्लभं किं न किञ्चित् । एकान्ताऽव्यभिचारिणी मतिर्यस्य स पुमान्मत्तो मम सकाशादन्यन्न वाञ्छति । कुतो यतस्तत्त्वविद् ईश्वरादतिरिक्तं सर्वं नश्वरमिति जानन् । मयि प्रसन्नेऽन्यन्न वाञ्छतीति तर्हि सर्वेऽप्येवमेव किं नेत्यप्याह । मत्तोऽविद् अंशो न पुमान् तत् तु विशेषेण वाञ्छति योऽन्यद्वाञ्छति सोऽविन्मतश्चेति वा ॥ ३८ ॥
चट्टी
भक्तिमभिनन्दन्नेवैकान्तिनामस्माकं भगवद्भक्तिकामनां विहाय शत्रुहननलक्षणवरकामना कथं युज्यते । एकान्तानां न कस्यचित् । अर्थे नारायणो देवः सर्वमन्यत्तदर्थकम्’’ इत्युक्तेरिति देवानां लज्जां परिहरति ॥ किमिति । मयि प्राप्ते भक्त्या वशीकृते सति किं दुरापं किं दुर्लभम् । न किमपि । सर्वं सुलभमेव । तथाऽपि सौलभ्येऽपि । तत्त्ववित् । विष्णुनाऽर्थेष्वीरितानि मन आदीनि सर्वशो वर्तन्तेऽन्यो न स्वतन्त्र इति जानन् हि तत्त्वविदित्युक्तलक्षणस्तत्त्वज्ञानी । अत एवैकान्तमति-र्भगवदेकनिष्ठः । उत्तमाधिकारीति यावत् । अन्यत्तत्प्रीतिविषयादन्यत् । मत्तो न वाञ्छन्ति । किन्तु मत्प्रियमेव वांछन्ति । अतो युष्मत्कामो मत्प्रिय एव । अन्यथा न दद्यामिति भावः ॥ तदुक्तम् ॥ विष्णोः प्रियमित्यादि ॥ ३८ ॥
न वेद कृपणः श्रेय आत्मनो गुणवस्तुदृक् ।
तस्य तानिच्छतो यच्छे यदि सोऽपि तथाविधः ॥ ३९ ॥
स्वयं निःश्रेयसं विद्वान् न वक्त्यज्ञाय कर्मभिः ।
न राति रोगिणोऽपथ्यं वाञ्छतोऽपि भिषक्तमः ॥ ४० ॥
तात्पर्यम्
यदि सोऽपि तथाविधः । अत्युत्तमो न भवति चेत् । युष्मत्कामो मत्प्रिय एव । अन्यथा न दद्यामिति भावः । ‘विष्णोः प्रियं कामयन्ति देवा नैवाप्रियं क्वचित् । यद्यप्रियं कामयन्ति न रातीशो हितो हि स’ इति तन्त्रभागवते ॥ ३९,४० ॥
पदरत्नावली
तत्त्वविद् तथाऽस्तु, अभिलाषकस्य किं फलमिति तत्राह– नेति ॥ यः कृपणः कामानभिलषन् स्वस्य मोक्षलक्षणं श्रेयो न वेद । कुतः ? गुणवस्तुदृक् स्वर्गादेर्गुणानां शब्दादि-विषयाणां वस्तुदृक् अप्रतिहतत्वदर्शी नित्यत्वज्ञानीत्यर्थः । अहमिच्छतोऽभिलाषकस्य तस्य तान् कामान् यच्छे दद्याम् । त्वां भजमानस्य तथाविधफलदातृत्वं तव कथं युक्तमिति तत्राह– यदिति ॥ यदि स मां भजमानोऽपि तथाविधः नश्वरफलस्वीकारयोग्यः, उत्तमाधिकारी न स्यात् तर्हि तस्मै ऐहिकान् कामान् दद्यात् । यश्च त्रैविद्योऽत्युत्तमो न स्यात् तस्मै स्वर्गादिकामान् दद्यामिति विशेषमभिप्रेत्याचार्यैर् उत्तमो न भवति चेद् इति व्याख्यातम् । यच्छेदिति पाठेऽयमर्थः । त्वद्भक्तादन्यः कथमिति तत्राह– नेति ॥ गुणवस्तुदृक् त्रिगुणजन्यशरीरादेर्वस्तुत्वज्ञानी दीनो यो मुग्घः श्रेयो मोक्षाख्यं न वेद । तद् विनान्यद् वाञ्छेच्च तस्य सेवकस्य सेव्योऽपि तथाविधोऽत्युत्तमो न भवति चेत् तर्हि तादृशान् कामान् यच्छेद् दद्यात् , मत्प्रेरित इति शेषः ॥
कथमत्युत्तमो न भवतीति तत्राह– स्वयमिति ॥ विद्वांस्तत्तद्योग्यमुक्तिविशेषं जानन्नत्युत्तमः स्वयमज्ञाय अज्ञानिने पुंसे कर्मभिर्निःश्रेयसं न वक्ति नोपदिशति । किन्तु ‘तमेवं विद्वान्’ इति श्रुतेर् ज्ञानेनैव । यथा पथ्यमेव अभिषिञ्चति ददाति नापथ्यमित्यल्लोपेन भिषक्, भिनत्ति रोगं सिञ्चति आप्याययति प्राणमिति वा, वैद्यः, पानीयं वाञ्छतो ज्वरादिरोगार्तस्यापथ्यं पानीयादिद्रव्यं न राति न ददाति । तस्मादनीदृश उत्तमो न भवतीत्यर्थः । ननु कृपणः कर्मणा सिद्धिकामित्वाद्धिनात्युत्तम इत्यभिप्रेतं(इति)कथमुच्यते, ‘लोकसंग्रहमेवापि संपश्यन् कर्तुमर्हसि’, ‘यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः’ इत्यादौ भगवतैव कर्मविधानात् ? अत्राह– स्वयमिति ॥ मादृशो विद्वान् स्वयं केवलैः कर्मभिरज्ञाय अज्ञानिने निःश्रेयसं न वदति किन्तु ज्ञानद्वारा शुद्धान्तःकरणाय । यथा भिषगपि । केवलफलकामिन एव तादृशफलं दीयते । अतः साकल्यफलस्वीकारयोग्य इति नियम्यते । तर्हि किमर्थं तस्मै तादृशमपि दीयत इति चेन्न युष्मद्भक्तत्वेन फदानस्य युष्मदिष्टत्वात् तदेव मम प्रियम् । युष्मात्कामाभावे तत्फलं न दद्यात् । भवतां च मत्प्रियकामित्वात् । एतदाचार्यैरुक्तम्– ‘युष्मत्कामो मत्प्रिय एव, अन्यथा न दद्यामिति भावः । विष्णोः प्रियं कामयन्ति देवा नैवाप्रियं क्वचित् । यद्यप्रियं कामयन्ति न रातीशो हितो यतः ॥’ इति । ननु यदि पुरुषेण निष्कामेन भवितव्यं तर्ह्यस्मत्कामो निष्फलो भवतोऽनिष्टत्वादिति शङ्का मा भूत्, त्वाष्ट्रहननस्य ममेष्टत्वान्मदिष्टमेव युष्माभिः कामित-मित्यतो वाऽऽचार्यैर् युष्मत्काम इत्याद्युक्तम् ॥ ३९,४० ॥
सत्यधर्म
न वेद कृपण इति श्लोके प्राक् सप्रकाशं भक्तस्यैवोक्तेः स एवात्र तथाविध इत्यनेन परामृश्यत इति भायान्न भाव्यं तथेति स्वयमनूद्य तद्विवक्षितर्थमाह ॥ यदि सोऽपि तथाविध इति । अत्युत्तमो न भवतीति चेन्मदन्यद्वाञ्छति तर्हीयता समयेन बधिरस्य धुरि सङ्गीतवदस्माभिरनुष्ठितं सर्वं वृथैव जातमित्यतोऽयं कामो ममापि काम इति तान् सान्त्वयन्ति ॥ युष्मत्काम इति । अन्यथा प्रियेतरत्वेन दद्याम् । अभयमिति शेषः । देवा विष्णोः प्रियं कामयन्ति क्वचिदप्यप्रियं नैव कामयन्ति । कदाचित्कञ्चिदप्रियं यदि कामयन्ति तर्हि ईशो यतो यस्मात् हितमस्यास्तीति हितस्तद्धितवान् हितकर्तेत्यर्थः । अतस्तद्वाञ्छितं स्वाप्रियं नैव राति न ददातीत्यर्थः । यद्वा यदि मां भजन्नपि तथाविधो नश्वरफलयोग्यस्तर्हि तस्मै तदुचितानेव दद्यां स चानुत्तमो ज्ञेयः । युष्मान्भजतोऽपि तथाविधाय दद्यां तादृशं फलम् । कुतस्तेषां तदपीत्यतो येऽप्यन्यदेवताभक्तास्तेऽपि मामेवेत्यादेर्युष्मद्दाक्षिण्येन तद्वितरणं नान्यथेत्याह । युष्मत्कामो युष्मदपेक्षितो युष्मद्भक्त इति यावत् स मत्प्रिय एवेति । नो चेच्चेतःपूर्वं तदपि न दद्यामित्यपि योजयन्ति ।
अथ मूलविवृतिः ॥ पूर्वं सूचितं विशदयति ॥ नेति । यः कृपणो नश्वरकाम्यकामुकः श्रेयो नित्यमङ्गलमपवर्गं किञ्चिच्चिरप्राप्यम् । आत्मनः स्वस्येति वा मम परमात्मनः सकाशादिति वा न वेद न जानाति । गुणवस्तुदृगिति तत्र हेतुकथनम् । गुणाः शीघ्रलाभा अनन्तरं दुर्लभविषयाः स्वर्गादयस्तेष्वेव वस्तूनि चिरस्थायीनीति पश्यति स तथा । गुणेष्वप्रधानेषु युष्मदादिषु वस्तुदृक् शक्तत्वमतिमान्वा । तानेवेच्छतस्तस्य तानेव यच्छे तत्रापि न यूयं स्वतन्त्रा इति भावः । ते भवन्तु तथा तव निरपेक्षस्य दक्षस्यापयश इयादेवैवं वितरण इत्यत आह ॥ यदीति । स मां युष्मद्द्वारावपरिचरं तथाविधोऽत्युत्तमो मोक्षयोग्यो न भवति भवति चैतन्मात्रपात्रं चेत्तादृशं यच्छे तत्कर्मानुसारणे न शर्म दातुर्मम निर्ममस्य कान्वपकीर्तिरिति भावः । तथाविधमैकादिकमित्यपि तदधिकारिण इत्यपि केचिद्वर्णयन्ति । यो न कृपणो निपुणो गुणवस्तुदृक् । आत्मनो मम गुणैर्ज्ञानानन्दादिभिर्निमित्तैर्वस्तुत्वदृक् शक्तत्वज्ञानी । अगुणमनप्रधानं वस्तु शक्तम् । विश्वस्मिन्विश्वे वसदिति पश्यन् श्रेयो नित्यपुमर्थं वेद स्वत एव प्राप्यमिच्छतः पुंसो यथा तथैकान्तिकस्य तान् । अनेन मोक्षोऽप्यवान्तरवैचित्र्यवानिति सूचयति । इच्छतस्तान्प्रतीव तस्य श्रेयो यच्छे इति वाऽन्वयः । यदि स तादृश एकान्तिको अपि अहमपि तथाविधो न किञ्चन परिलषन्ति । तांस्तथैव भजाम्यहमित्यादेरिति वा योजना ।
उत्तमादुत्तमादिस्थितिमाह ॥ स्वयमिति । निःश्रेयसं न विद्यते श्रेयोऽन्यद्यस्मात्तन्मोक्षलक्षणं स्वयं स्वत एव भविष्यतीति विद्वान् । अनेन वेदनेन विद्वान् तद्विशेषणीभूतज्ञानेनैव निःश्रेयसं भवतीति धृतिमानिति तात्पर्यम् । यो न विद्वांस्तस्मा अज्ञाय कर्मभिर्निःश्रेयसमिति वक्ति । तर्हीशोऽन्यथोपदेशेन प्रत्यवेयादित्यतोऽज्ञायेत्युदितम् । ‘‘न बुद्धिभेदं जनयेदज्ञानाम्’’ इत्यादेः । यदि ह्यहमित्यादि कथमित्यतो वाऽऽह ॥ स्वयमिति । स्वयमपि न वक्ति विद्वानपि न वक्ति । तथैव स प्रवर्तनीयः । अन्यथा तद्गतिं को गच्छेदिति भावः । अज्ञाय अं भगवन्तं जानाति यस्तस्मै । कर्मभिस्तद्धेतुं स्वयं सु शोभनं प्राचीनापरोक्षरूपं यदयं ज्ञानं तं निमित्तीकृत्य निःश्रेयसं मोक्षमिति निःश्रेयसं तत्साधनमिति वा विद्वान्वक्ति । अचतुरनिपातः । ‘‘निःश्रेयसं तु कल्याणे चन्द्रचूडापवर्गयोः’’ इति विश्वः । स्वयं सु शोभनोऽ यो हि शुभावहविधिस्तमवधीकृत्य निःश्रेयसमिति पूर्वमपूर्वस्य साधनसम्पत्तिसम्पादन-साधनत्वेनाऽयाऽभिधेयताम् । ततोऽपि फलोपलम्भकत्वेन शुभतर ता सोरर्थ इति ज्ञेयम् । निदर्शन-मनुरूपं दर्शयति ॥ न रातीति । रोगिणो ज्वराद्यार्तस्य तदुत्तेजकमपथ्यं ‘‘दधित्रपुसं प्रत्यक्षो ज्वरः’’ इति सुधाभिधानाद्दधित्रपुसं वाञ्छतोऽपि तस्य न राति । ‘‘वेदनायाः परिज्ञानं पुनस्तस्य निरोधनम् । एतद्वैद्यस्य वैद्यत्वं न वैद्यः प्रभुरायुषाम्’’ इति मानाद्भिषक्तमः । भिषज्यतीति भिषगिति ऋक्क्षये । कण्ड्वादियक् । क्विप् । ‘‘भिषग्वैद्यश्चिकित्सकः’’ इत्यमरः । तद्गरिष्ठोऽन्यो भिषक्तमः धात्वाद्यज्ञानं निमित्तीकृत्येति । प्रथमा तृतीयार्थे वा । हे नरेति । अतिरोगिणोऽपथ्यं राति न तथा विद्वानिति व्यतिरेको वा । बहिरन्तर्ज्ञस्तस्मा अज्ञाय कर्मभिः । बहुवचनमाद्यर्थे । कर्मादिभिर्नेति वक्ति दीनदयालु-त्वान् । तत्काले तस्याज्ञस्य तदरुचितं चेदप्युचितमग्रतो भायादित्यत्रापीदं निदर्शनम् । अपथ्यं तत्त्वेन प्रतीयमानं न इव राति रोगिणो वाञ्छितः किञ्चिदुदञ्चितगुणस्य काङ्क्षतः स वैद्यो भिषक्तमस्तथेति वाऽर्थः ॥ ३९,४० ॥
चट्टी
उत्तमाधिकारिणां स्थितिमुक्त्वा प्रसङ्गादनुत्तमाधिकारिणामाह ॥ न वेदेति । गुणेषु शब्दादिविषयेषु वस्तुदृक् नित्यत्वज्ञानवान् । अत एव कृपणोऽवशीकृतेन्द्रियः । विषयेष्वदोषबुद्धिः सनिन्द्रियाणां वशे स्थितः । कृपणः स तु संप्रोक्त इति वचनात् । अत एवात्मनः स्वस्य श्रेयो मोक्षलक्षणं न वेद । अत एवेच्छतो मदप्रियकामानप्याकांक्षमाणस्य तस्य तान्कामान् । यच्छे प्रयच्छामि । सोऽभिलाषुकः । तथाविधो यदि । अनुत्तमाधिकारी चेत्यर्थः । सोऽपि तथाविध इत्यनेन यद्यपि केषाञ्चिदुत्तमाधिकारिणामपि प्रारब्धवशादश्वत्थाम्नो दुर्योधनक्षेत्रेऽपत्योत्पादनकामवदसत्कामः सम्भवति । तथाऽप्यहं न ददामि । हितकारित्वादित्युक्तं भवति । तथा चोक्तम् ॥ यद्यप्रियमित्यादि । उत्तमानां मदप्रियकामं न प्रयच्छामि । अनुत्तामानां तु प्रयच्छामीत्युक्तम् ॥
तत्र दृष्टान्तावाह ॥ स्वयमिति । विद्वानित्येतदावर्तनीयम् । ईहमानायेति शेषः । यथा विद्वान् ज्ञानी स्वयं निःश्रेयसं मोक्षसाधनं विद्वान् जानन्नपि कर्मभिरीहमानायाज्ञायाज्ञानिने न वक्ति नोपदिशति । प्रत्युत तमेवानुसरति । ‘‘न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् । जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन्’’ ॥ इति वचनात् । एवमहमप्यनुत्तमं मदप्रियकामान्न निवर्तयामि । यथा च भिषक् वाञ्छतोऽपि रोगिणोऽपथ्यं न राति न ददाति । एवमेवाहमप्युत्तमाधिकारिणं मदप्रियकामा-न्निवर्तयामीत्यर्थः ॥ ३९,४० ॥
मघवन् यात भद्रं वो दध्यञ्चमृषिसत्तमम् ।
विद्याव्रततपःसारं गात्रं याचत मा चिरम् ॥ ४१ ॥
तात्पर्यम्
‘समर्था अपि याचन्ते देवा मुन्यादिकान् क्वचित् । आज्ञयैव हरेस्तेषां यशोऽर्थमपि नान्यथा’ इति च ॥ ४१ ॥
पदरत्नावली
एतत् कुत इत्याशङ्क्य त्वाष्ट्रहननोपायमाह– मघवन्निति ॥ गानं ज्ञानं त्रायत इति गात्रम् । गतिसाधनत्वाद् वा ॥ ४१ ॥
सत्यधर्म
मघवन् यात भद्रं व इति श्लोके लोकेशो न न्याय्यं नान्यान्प्रति तत्प्रेषणं तत्रापि तत्परतन्त्रमृषिविशेषं प्रति तु तत्कथमित्याशङ्कां मानेनैव विमानितां करोति ॥ समर्था अपीति । देवाः समर्थास्तेभ्योऽपि शक्ता मुन्यादिकान् स्वतोऽप्यशक्तानपि याचन्ते । न सदेत्याह ॥ क्वचिदिति । कुत इत्यतोऽपि हेतुमाह ॥ तेषां क्वचिदिति । तेषां मुन्यादीनां चित् त्रिदशसदृशी दृक् क्व । न क्वापीत्यर्थः । या च याचना सा न स्वमनसा किन्तु हरेराज्ञयैव । सोऽप्येवम्भावो वासुदेवस्य कौतस्कुत इत्यत आह ॥ यशोर्थमिति । तेषामृषीणां यशोर्थं स्वदेहमपि तदीहानां महात्मनोऽर्पयामासुरिति यशोर्थम् । अन्यथो-पायान्तरमन्तरेणापायगमनासमर्थतया नेति तन्त्रभागवतोक्तेर्न देवानां न वासुदेवस्याचतुरतेति ज्ञेयम् ॥ ततश्चायं श्लोकार्थः ॥ हे मघवन् व्याख्यातचरम् । इन्द्रप्रधानत्वेतराप्रधानत्वस्फोरणायैकवचनेनैकमात्रं सम्बोध्य वो यातेत्युक्तिरिति ज्ञेयम् । दध्यञ्चं नाम्ना । न सोऽज्ञ इत्याज्ञापयति ॥ ऋषिसत्तममिति । गत्वा किं कार्यमित्यत आह ॥ गात्रं याचतेति । याचने तस्य निमित्तं विद्याव्रततपःसारमिति । विद्या च व्रतं च कृच्छ्रचान्द्रायणादिकं तप आलोचनं चैतेषां सारः स्थिरांशो बलं वा यस्य तत् ॥ ४१ ॥
चट्टी
वृत्रहननलक्षणकामस्य स्वप्रियत्वज्ञापनाय तदुपायं कथयति ॥ मघवन्नित्यादिना । विद्यया व्रतैस्तपसा च सारं दृढं गात्रं शरीरं याचध्वम् ॥ ४१ ॥
स वै ह्यधिगतो दध्यङ् अश्विभ्यां ब्रह्म निष्कृतम् ।
तद् वा अश्वशिरं नाम तयोरमरतां व्यधात् ॥ ४२ ॥
पदरत्नावली
जगतो धारकत्वाद् दधि ब्रह्म तदञ्चति गच्छतीति दध्यङ् । सोऽधिगतोऽधिक-ज्ञानवान् वै प्रख्यातः । ‘दध्यङ् ह यन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र यदीमुवाच’ इति श्रुतिः । एतदेवाह– अश्विभ्यामिति ॥ यस्माद् दधीचोऽश्विनीदेवताभ्यां ब्रह्मविद्यालक्षणं नितरां कृतमापादितं स्वीकृतमिति यावत्, स इति । यद्वा निष्कृतं प्रवर्ग्याख्यं कर्म ब्रह्म चाश्विभ्यामुक्तवानिति शेषः । यद्वा ब्रह्माश्विनीदेवताभ्यामुक्तवान् । किमिति ? निष्कृतं सत्यप्रतिपालननिमित्तम् । दधीचा ‘ब्रह्म दास्यामि’ इति प्रतिज्ञातत्वात् तदनुपदेशेऽनृतवादित्वं स्यात् । तन्नामाह– अश्वशिरमिति ॥ यद् दधीचाऽश्विभ्या-मुपदिष्टं यच्च तयोर्वैद्यावित्युक्त्वा देवैर्दुलभीकृतामृतयोरश्विनोरमरतां मरणराहित्यं व्यधात् तद् ब्रह्म अश्वशिरं नाम । अत्रेतिहासमाचक्षते– आथर्वणो दध्यङ् प्रवर्ग्यब्रह्मविद्ययोर्दक्ष इति तं विज्ञायाऽ-त्मनोरमरत्वं कामयमानावश्विनौ देवौ दधीचमुपागम्य त्वं प्रवर्ग्यब्रह्मविद्याविशारद इत्याकर्ण्यागताभ्यां तदर्थिभ्यामावाभ्यां ते वक्तव्ये इति विज्ञाशपयाञ्चक्रतुः । कर्मकाण्डोक्तकर्मणि प्रवृत्तेन मया तत्समाप्य कालान्तरे वक्ष्येते इति तेनोदितौ तौ निजगृहाण्याजग्मतुः । एतस्मिन्नन्तरे आत्मनोऽन्यस्य विद्याति-शयमसहमानः सुरपतिस्तमृषिमुपसृत्य त्वया प्रवर्ग्यब्रह्मविद्ये कस्मैचिन्न वक्तव्ये रागलोभादिना वदतस्तव-शिरश्छिन्द्यामिति तमनुशशास । एवं बहुतिथे कालेऽतिक्रान्ते नासत्याभ्यामागत्य पूर्वोक्तविद्ये वक्तव्ये इत्युक्तो मुनिरहमिन्द्रेण निषिद्धोऽस्मीत्यजीगदत् । तत्रोपायमाकलय्य निजशिरश्छेदात् प्रागेव तव शिरश्छित्वाऽन्यत्र निधाय कस्यचिदश्वस्य शिरश्छित्वा गले सन्धाय तेनैते विद्ये ब्रूहि यदीन्द्रस्तदश्व-शिरश्छिनत्ति तर्हि स्वकीयशिरः पूर्ववद् गले संयोज्य तुभ्यं दक्षिणां च दास्याव इति ताभ्यां देव-चिकित्सकाभ्यामुक्तो दध्यङ् अश्वशिरसा ते विद्ये तयोरुपदिदेश इत्यतोऽश्वशिरं नामेति प्रख्यातमभूदिति । ‘आथर्वणायाश्विनौ दधीचेऽश्व्यं शिरः प्रत्यैरयतम् । स वां मधु प्रवोचद् ऋतायंस्त्वाष्ट्रं यद् दस्रावपि कक्ष्यं वाम् ॥’ इति श्रुतिं चात्रोदाहरन्ति । हेऽश्विनावाथर्वणाय दधीचेऽश्वसंबन्धि शिरः प्रत्यैरयतं, प्रतिसंहितमकुरुतम् । स दध्यङ् वां मधु ब्रह्मविद्यालक्षणं प्रवोचत् प्रावोचत् । हे दस्रौ त्वष्ट्रा विश्वरूपाय प्रोक्त त्वाष्ट्रं कक्ष्यं नारायणकवचं च वामुवाच । कीदृशः ? ऋतायन् यथातथं विद्यां जानन्, विद्यां वक्ष्यामीति वचनं सत्यं संपादयन्निति वा ॥ ४२ ॥
सत्यधर्म
दध्यङ् ह यन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्रयदीमुवाच । अथर्वणायाश्विनौ दधीचेऽश्व्यं शिरः प्रत्यैरयतम् । स वां मधु प्रवोचदृतायन् । त्वाष्ट्रं यद्दस्रावपि कक्ष्यं वाम्’’ इति प्रमुख-श्रुत्यर्थगर्भोऽयं श्लोकः । स दध्यङ् अधिगतोऽधि अधिका गतं गतिर्यस्य सः । अधिगतोऽधीतैतद्विद्य इति वा । अश्विभ्यां गृहानागताभ्यां पुनः प्राप्त इति वा । निष्कृतं स्वेन गुरुमुखतः सम्पादितम् । आरब्धं परिसमाप्य वक्ष्यामीति प्रतिज्ञातमिति वा । ब्रह्मैव तन्मन्त्रविशेषं निष्कृतं प्रवर्ग्याख्यं कर्मोक्त-वान् । तच्छिर उत्कृत्यान्यत्र प्रस्थाप्याश्वशिरः संयोज्य तेन विद्याग्रहणात्तदश्वशिरं नामतोऽभूत् । तत्सामर्थ्यमाह । तयोरमरताम् अमृततां यद्व्यधात्तदश्वशिरनाम प्रसिद्धमिति वाऽर्थः ।
‘‘इदं वैतन्मधु दध्यङाथर्वणोऽश्विभ्यामुवाच तदेतदृषिः पश्यन्नवोचत्तद्वां नरासनयेदंस उग्र-माविष्कृणोमि तन्यतुर्वृष्टिम् । दध्यङ् हयन्मध्वाथर्वणो वामश्वास्य शीर्ष्णा प्रयदीमुवाच’’ इति । ‘‘इदं वैतन्मधु दध्यङाथर्वणोऽश्विभ्यामुवाच तदेतदृषिः पश्यन्नवोचत् । अथर्वणायाश्विनौ दधीचेऽश्व्यं शिरः प्रेरयतं स वां मधु प्रवोचदृतायन् त्वाष्ट्रं यद्दस्रावपि कक्ष्यं वाम्’’ इति बृहदारण्यकोपनिषच्चतुर्थाध्याय-खण्डद्वयभाष्ये । दध्यङाथर्वणोऽश्विभ्यामेतां विद्यामदात्पुरा । हयग्रीवब्रह्मविद्येत्येषा ब्रह्मादिभिर्धृतेति । प्रत्यैरयतं प्रतिसमाधत्तम् । ऋतायन् सत्यं कुर्वन् । कक्ष्यं नारायणकवचं त्वाष्ट्रं त्वष्टृपुत्रेण विश्वरूपेणेन्द्रा-योक्तम् । सनये लाभाय दंसः कर्म स्तनयित्नुर्वृष्टिमिव । तस्यां विद्यायां परस्योक्तायां तव शिरश्छेत्स्या-मीतीन्द्रेण दधीचं प्रत्युक्ते सोऽश्विभ्यामावां ब्रूहीत्युक्त इन्द्रेणोक्तमाह । तदाऽश्विभ्यामाव इत्युक्त्वा तच्छिरश्छित्वाऽन्यत्र निधायाश्वशिरः सन्धितम् । तेन विद्यायामुक्तायां तस्मिन्निन्द्रेण छिन्ने पूर्वशिरः सन्धितम् । पूर्वं जानन्नपीन्द्रः पश्चाद्विश्वरूपाच्छुश्रावेति पुनर्नवत्वायेति न विश्वरूपस्त्वाष्ट्रोऽश्विभ्या-मित्यनेन विरोध इत्युक्तेरर्थविशेषो बोध्यः ।
ततश्चायमुदाहृतखण्डद्वयभागार्थः । अत्रैवार्थे मन्त्रान्तरं वक्तुमाह ॥ इदमिति । किमवोचदित्यतो मन्त्रं पठति ॥ आथर्वणायेति । हे दस्रौ शत्रुभेदकौ । अश्विनौ युवाम् । आथर्वणाय तद्गोत्रोत्पन्नाय दधीचयेऽश्व्यमश्वसम्बन्धि शिरः । प्रत्यैरयतं सन्धितवन्तौ स्थः । स सन्धिताश्वशिरा ऋतायन् युवयोः समयान्तरे मधुविद्यां प्रवक्ष्यामीति प्राक् प्रतिज्ञातं सत्यं कुर्वन् । वा (वां) युवाभ्यां मधु मधुविद्याय त्वाष्ट्रं त्वष्टृपुत्रेण विश्वरूपेणेन्द्रायोक्तं कक्ष्यं नारायणकवचं तदपि प्रवोचत् । अडभावश्छान्दसः । इन्द्रो हि दधीचिं प्रतीमां विद्यां परस्मै ब्रूयाच्चेत्तव शिरश्छेत्स्यामीत्युक्तत्वादश्विभ्यां दधीचिं प्रतीमां विद्यामावाभ्यां ब्रूहीत्युक्ते दधीचिरिन्द्रोक्तमुक्त्वा तूष्णीमासीत् । तदाऽश्विनौ तर्हि त्वामावां रक्षयिष्याव इत्युक्त्वा तस्य शिरश्छित्वाऽन्यत्र प्रस्थाप्याश्वशिरः समादाय दधीचेः सन्धित्वाऽश्वशिरसा तेन विद्यायां प्रोक्तायामिन्द्रेण च तदश्वशिरसि छिन्ने पुनर्यथापूर्वं तदीयमेव शिरः सन्धितवन्ताविति । चतुराननशासनः पाकशासनो अनेन विश्वरूपेण स्वानधीतनिरूपितैतत्केनापि तु तन्मन्त्रस्य नूतनतासिद्धय एव विपश्चिदपि पश्चाच्छुश्राव । नो चेदन्यस्मै ब्रूयाच्चेदित्यादि न ब्रूयात् । अमुमेवाभिप्रायं द्वैपायनोऽपि प्राक् पृच्छत इत्येतावता पूर्तौ यदनुपृच्छत इत्युक्तवांस्तेनानु पश्चादपि पृच्छते । पश्चात्सादृश्ययोरन्विति विश्वादिति द्योतयामासेममन्वर्थमवेत्य भाष्यकृच्चरणोऽपि पूर्वं जानन्नपीन्द्रः पश्चाद्विश्वरूपाच्छुश्रावेत्युक्तवानिति नैतद्विरोधः प्राग्ग्रन्थस्येति सर्वं चतुरस्रम् ॥ ४२ ॥
चट्टी
तत्र तदीयं वीर्यातिशयमाह ॥ स वा इति द्वाभ्याम् । एवं ह्यत्र प्रसिद्धा कथा, ‘‘निशम्याथर्वणं दक्षं प्रवर्ग्य ब्रह्मविद्ययोः । दंध्यंचं समुपागम्य तमूचतुरथाश्विनौ ॥ भगवन् देहि नौ विद्यामिति श्रुत्वा स चाब्रवीत् । कर्मण्यवस्थितोऽद्याहं पश्चाद्वक्ष्यामि गच्छताम् ॥ तयोर्निगदतोरेव शक्र आगत्य तं मुनिम् । उवाच भिषजोर्विद्यामावादीरश्विनोर्मुने ॥ यदि मद्वाक्यमुल्लंघ्य ब्रवीषि सहसैव ते । शिरसंधानसंदेह इत्युक्त्वा स ययौ हरिः ॥ इन्द्रे गते तदाऽभ्येत्य नासत्यावूचतुर्द्विजम् । तन्मुखादिन्द्रगदितं श्रुत्वा तावूचतुः पुनः ॥ आवां तव शिरश्छित्वा पूर्वमश्वस्य मस्तकम् । सन्धास्याव-स्ततो ब्रूहि तेन विद्यां द्विजोत्तमः ॥ तस्मिन्निन्द्रेण च पुनः पुनः सन्धाय मस्तकम् । निजं ते दक्षिणां दत्वा गमिष्यावो यथागतम् ॥ एतच्छ्रुत्वा तथोवाच दध्यङाथर्वणस्तयोः । प्रवर्ग्यं ब्रह्मविद्यां च सत्कृतो गतशङ्कितः ॥’’ इति । ततश्चायमर्थः । स दध्यङ् ब्रह्मपरं नारायणकवचं निष्कृतं नितरां कृतं भवति । येन तं प्रवर्ग्यं चाधिगतो ज्ञातवान् । ततोऽश्विभ्यामुभयमुपदिदेशेति शेषः । कथंभूतं ब्रह्म यद्वै अश्वशिरसा प्रोक्तत्वादश्वशिरं नाम प्रसिद्धम् । तयोरमरतां मृतिराहित्यं व्यधात् । वेत्यनेन ‘‘अश्वस्य शीर्ष्णा प्रयदीमुवाच’’ इति श्रुतिप्रसिद्धिं सूचयति ॥ ४२ ॥
कृत्स्नं चाथर्वणं त्वाष्ट्रं वर्माभेद्यं मदात्मकम् ।
विश्वरूपाय यत् प्रादात् त्वाष्ट्राय त्वमधास्ततः ॥ ४३ ॥
पदरत्नावली
किञ्च नारायणकवचधारणाच्च दधीचोऽङ्गं वीर्यवदित्यभिप्रेत्याह– कृत्स्नं चेति ॥ मदात्मकं वर्म नारायणकवचं चाथर्वणम् आथर्वणेन दधीचाऽधीतत्वात्, कृत्स्नम् अङ्गोपाङ्गसाहित्येनानूनं त्वाष्ट्राय विश्वरूपाय प्रादात् । यच्च त्वं विश्वरूपादधाः । ततस्तस्मात् त्वाष्ट्रं त्वष्टुर्विद्यमानत्वात् तन्नामत्वात् तस्य विश्वरूपस्य विद्यमानत्वाच्च तथा ॥ ४३ ॥
सत्यधर्म
तं प्रत्येव तव चुचोदयिषा यातेति किं यारिति चेत्तव विद्यानुबन्धाद्यानुबन्धात् । किञ्च मन्मन्त्रस्य नान्यत्रैवमयातयामता इति अश्विभ्यां याचिते यथा स्वशिरादिघातं दत्तवान् तथेति ममाभिप्राय इत्याशयेन किञ्चित्प्राञ्चमुदञ्चयति ॥ कृत्स्नमिति । मदात्मकं नारायणकवचरूपमत एवाभेद्यमाथर्वणं दधीचाऽधीतवान्कृत्स्नं साङ्गम् । त्वाष्ट्रं दधीचात्तेन सम्पादितत्वात् । त्वाष्ट्राय विश्वरूपाय प्रादाच्च त्वं विश्वरूपात्ततो धृतवानसि । नन्वश्विभ्यां कथने बिभ्यद्दध्यङ् कथं त्वाष्ट्राय त्वचकथदिति चेत् । पाकशासनशासनात्पूर्वमेवावादीदिति वा पुनः स्वमनु नवताप्तिकामश्च क्षम इति पुनः परम्पराप्रसरेण नान्ते तस्याल्पायुष्ट्वादिति मत्वा वा वादयोग्यायान्यस्मै तकस्मै च नेति यस्मै वेति का कथन्ता ॥४३॥
चट्टी
किञ्चाथर्वणेन दधीच्या त्वष्ट्रे विश्वरूपपित्रे प्रोक्तत्वादाथर्वणं त्वाष्ट्रं चेति प्रसिद्धम् । मदात्मकं मत्परम् । अत एवाभेद्यं यन्नारायणकवचं कृत्स्नं सांगोपांगं त्वष्टा विश्वरूपस्स्वपुत्राय प्रादात् । उपदिदेश । यत्कवचं ततो विश्वरूपात् । त्वमधा धृतवानसि । तदेवं विद्यया सारं गात्रं याचध्वमित्यर्थः
॥ ४३ ॥
युष्मभ्यं याचितो दध्यङ् धर्मज्ञोऽङ्गानि दास्यति ।
ततस्तैरायुधश्रेष्ठो विश्वकर्मविनिर्मितः ।
येन वृत्रशिरोहर्ता मत्तेजउपबृंहितः ॥ ४४ ॥
पदरत्नावली
युष्माकं याञ्चाभङ्गभयं मा भूदित्याह– युष्मभ्यमिति ॥ अङ्गानीत्यवयव-साहित्यविवक्षया बहुवचनम् । किञ्चिदपि नावशेषयतीत्यर्थः । याचितोऽश्विभ्यामिति पाठेऽश्विभ्यां याचितो यथा ताभ्यां विद्यां प्रादात् तथा युष्मभ्यमप्यङ्गानि ददातीत्यर्थः । तैरङ्गैर्विश्वकर्मणा निर्मित आयुधश्रेष्ठो भवत्विति शेषः । येनायुधश्रेष्ठेन मत्तेजसोपबृंहितो भवान् ॥ ४४ ॥
सत्यधर्म
अदाने नो मानहानिरित्यतो नेत्याह ॥ युष्मभ्यमिति ॥ न याचितो युष्माभि-र्युष्मभ्यम् । अङ्गानि पत्न््नयपत्याद्यङ्गान्यपि किं स्वाङ्गानीति ध्वनयितुं यद्वक्ष्यति स्वज्ञातिविग्रहैरिति । नैकस्याङ्गुल्यादेरङ्गस्य स्वजीवनाविरोधिनो दानमपि तु सर्वशरीरस्येति द्योतयितुं वा बहुवचनम् । तन्मात्रेण किं भवतीत्यतोऽहमपि तदन्तःसन्निहितो भवानीत्यप्याह ॥ अङ्गानीति । अगिर्गत्यर्थः लोट् । अहमङ्गानीति सूचयितुं वा । मत्तेजउपबृंहितो भगवत्तेजसाऽन्वित इत्युत्तरस्वारस्यात् । को वा कायदाता भवेत्स्वामिन्किमस्मान्वञ्चयसीत्यत आह ॥ धर्मज्ञ इति । याञ्चाविच्छेदो न कर्तव्य इति वोत्तरत्रैतद्भाविमहापुण्यज्ञ इति वा । दास्यति । ततस्तैस्तदङ्गावस्थितैरस्थिभिः करणैर्विश्वकर्मणा कर्त्रा विनिर्मित आयुधश्रेष्ठः भवतु । स कीदृग्गुण इत्यत आह ॥ येनेति । परस्परमियदस्मद्यापनं कुतो भवत इत्यत आह ॥ मत्तेज उपबृंहित इति । आयुधश्रेष्ठे इन्द्रे चान्वेति ॥ ४४ ॥
तस्मिन् विनिहते यूयं तेजोऽस्त्रायुधसम्पदः ।
भूयः प्राप्स्यथ भद्रं वो न हिंसन्ति च मत्परान् ॥ ४५ ॥
॥ इति श्रीमद्भागवते षष्ठस्कन्धे नवमोऽध्यायः ॥
पदरत्नावली
तेजोऽस्त्रायुधसंपदः, तेन ग्रस्ता इति शेषः । मत्परान् न हिंसन्ति, केऽपीति शेषः । अत्र हर्याज्ञाकारित्वेन मुन्यादियाञ्चया न देवानां सामर्थ्यन्यूनतेति दोषः । ‘समर्था अपि याचन्ति देवा मुन्यादिकान् क्वचित् । आज्ञयैव हरेस्तेषां यशोर्थमपि नान्यथा ॥’ इति वचनात् ॥ ४५ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
षष्ठस्कन्धे नवमोऽध्यायः ॥ ६–९ ॥
सत्यधर्म
तद्ग्रस्तानामस्माकं समस्तानामस्त्रशस्त्राणां तेजसां च गतिः केत्यत आह ॥ तस्मिन्निति । भूयस्तेन ग्रस्ताः पुनः प्राप्स्यथ । मत्परान् मद्भक्तान्केऽपि न हिंसन्ति । वो भद्रमस्तु । न हिंसन्तीति बहुवचनेन नैकलेनानेन चिन्तातान्तिः सम्पादनीया कियानयमिति सूचयति । अनेकेषां भवद्द्विषां दशेदृशीति सूचयतीति मन्तव्यम् ॥ ४५ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मकृतायां षष्ठस्कन्धे नवमोऽध्यायः ॥ ६–९ ॥
चट्टी
तेजश्चास्त्राणि चायुधानि च सम्पदश्च भूयः प्राप्स्यथ । महाकायस्त्रिभुवनग्रासि स एवास्मान् हन्यादिति शङ्काकुलचित्तान् प्रत्याह ॥ नेति । मत्परांश्च न हिंसन्ति केऽपीति शेषः । अतो युष्माकं भद्रमेवेति । अत्र समर्थानामपि देवानां हर्याज्ञया नीचमुन्यादियाचनं न विरुद्धम् ॥ तदुक्तम् ॥ समर्था अपीत्यादि ॥ ४५ ॥
॥ इति श्रीभागवतटिप्पण्यां चट्टीव्याख्यायां षष्ठस्कन्धे नवमोऽध्यायः ॥ ६–९ ॥