०८ अष्टमोऽध्यायः

यया गुप्तः सहस्राक्षः सवाहान् रिपुसैनिकान्

॥ अथाष्टमोऽध्यायः ॥

राजोवाच—

यया गुप्तः सहस्राक्षः सवाहान् रिपुसैनिकान् ।

क्रीडन्निव विनिर्जित्य त्रैलोक्यां बुभुजे श्रियम् ॥ १ ॥

पदरत्नावली

‘अकामः सर्वकामो वा मोक्षकामो यजेद्धरिम्’ इत्युक्तं प्रपञ्चयत्यनेनाध्यायेन । तत्र राजा अतीताध्यये संक्षिप्य कथितं नारायणकवचनामस्तोत्रं लोकोपकाराय विस्तरतः श्रोतुमिच्छति– ययेति ॥ गुप्तो रक्षितः । रिपुसैनिकान् शत्रुसेनानायकान् ॥ १ ॥

सत्यधर्म

श्रुतैतन्मन्त्रतन्त्रस्वपितामहांशिमाहात्म्य एतेन वर्णितेन वर्मणा क्रियमाणकर्मणो बहिष्ठाहितहत्यादेरभावेऽपि स्वस्य मुमूर्षोरुद्दिधीर्षोरुपदेशापदेशेन निदेशवर्तिन इतरानयमनुयोगो युक्त इति युक्तिमान्परीक्षिच्छुकं पृच्छतीत्याह ॥ राजेति ॥ सहस्राक्षः सहस्रमक्षीणि यस्यासाविन्द्रः । बहुव्रीहौ सक्थ्यक्ष्णोरिति षच् । यया विद्यया गुप्तो रक्षितः सवाहान्वाहनसहितान्रिपुसैनिकान्रिपवो वैरिणश्च सैनिकाः सेनायां समवेताश्च तानर्थाद्रिपुसम्बन्धिता तेषामनुसन्धेया । अथवैकमत्येन रिपवश्च ते सैनिकाश्चेति तान् । ‘‘सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते’’ इत्यमरः । क्रीडन्निवेति लीलेव किञ्चिदायाससम्पाद्या ततोऽपि सुलभताऽसूचि । क्रीडन्निवेति वा । ‘‘इवौपम्ये धारण’’ इति विश्वः । युद्धेऽसुरान्विनिर्जित्य त्रिलोक्यां त्रयाणां लोकानां समाहारस्त्रिलोकी तत्सम्बन्धिनी त्रैलोक्या ताम् । तद्धिता इति बहुवचनज्ञाप्यो ण्यप्रत्ययः । श्रियं सम्पदं बुभुजे । असुरासुहरणे स्फुटं निमित्तं प्रकटयन्वा-वदीति ॥ सवाहानिति । सवाहान् । ‘‘यज्ञः सवोऽध्वरो यागः’’ इत्यमरात्सवान् स्वोेद्देशेन कृतानाहरति यज्ञान्हापयन्ति तेभ्य इति । हरतेर्जहातेर्वाङ्पूर्वाड्डुः । हरतेर्जहातेर्वा डः । द्वावप्याङ्-पूर्वाविति स्वाहाशब्दव्याकृत्यवसरे सुधाभिधानात् । स्वाहा यज्ञमिति ऋग्भाष्यटीकयोः स्वाहा स्वभाग-गतिमान्स्मृतेः स्वभागगतिमानित्यनेनेत्याद्युक्तेश्च । परेषामिव स्वेषां भवतामनाहवानां वाहां विनाऽपकारं मारणेऽमराणामकौशलमिति संशय एवमाशयवर्णनेनोत्तीर्ण इति प्रेक्षावत्समीक्षणीयम् ॥ १ ॥

चट्टी

मुमुक्षूणां कामिनां च समस्तपुरुषार्थदम् ।

नारायणाख्यकवचमध्यायेऽस्मिन्निरूप्यते ॥

सैनिकान् सेनानायकान् । त्रैलोक्यां त्रिलोकसम्बन्धिनीम् ॥ १ ॥

भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् ।

यथाऽऽततायिनः शत्रून् येन गुप्तोऽजयन्मृधे ॥ २ ॥

पदरत्नावली

तदित्युत्तरलिङ्गानुसारेण । यथाऽऽततायिन इतीत्थंभावेन श्रोतुं पुनर्वचनम् । यथा येनेत्थंभावेन, तमित्थंभावं त्वमाख्याहि इति शेषः ॥ २ ॥

सत्यधर्म

नारायणात्मकं नारायण आत्मा देवता यस्य तत् । तथौ प्राणात्मकाविति भाष्यतत्त्व-प्रकाशिकायां प्राणात्मकौ प्राणदैवत्याविति व्याख्यानात् । उपचारत आत्मा स्वरूपं यस्येति वा । वर्म ममाख्याहि । न केवलं वर्म किन्तु कर्माप्याख्याहीत्याह । यथा येन प्रकारेण येन वर्मणा गुप्त आततायिनः शत्रून्मृधे युद्धेऽजयत्तं प्रकारमप्याख्याहि । अथवा येन ज्ञानिना प्राचीनेन गुरुणा गुप्तो मृधे आततायिनः शत्रूनजयत्तथा विनिर्जित्य श्रियं बुभुज इत्यन्वयः । आत तायिन इति छेदः । जयन्सन् तायिनो व्याप्तान्सर्वशत्रून् आत आगच्छदिति वा । अततेर्लिट् । एतेन शत्रुपदेन वाऽऽततायिपदेन वाऽलमिति शङ्कितुरुत्कण्ठा कुण्ठितेति ज्ञेयम् । यथोक्तं सुधातट्टिप्पणीषु । प्रदीपस्येव निर्वाणं विमोक्षस्तस्य तायिनो विस्तारिणः । ताय् सन्तानपालनयोः । तायिनः सन्तन्यमानस्येति । किमार्द्रक-वणिजो वहित्रचिन्तयेति न मम संसारिणो मन एतद्विषय इति नेत्याह । हि तन्ममाख्येति । यतस्तव तन्ममाख्या तस्मिन्प्रवचने मम ममता यस्य स तन्ममः । स इत्याख्या ख्यातिरस्ति तस्मादाख्या-हीत्यावृत्त्याऽन्वयो वा ॥ २ ॥

चट्टी

वर्मशब्दापेक्षया तदिति नपुंसकलिङ्गप्रयोगः । वर्मस्वरूपं दृष्ट्वा जयप्रकारं पृच्छति ॥ यथेति । आततायिन उद्यतशस्त्रान्येन वर्मणा गुप्तो रक्षितः । यथा येन प्रकारेणाजयत् । तं प्रकारं चाख्याहि ॥ २ ॥

श्रीशुक उवाच—

वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते ।

नारायणाख्यं वर्माह तदिहैकमनाः शृणु ॥ ३ ॥

सत्यधर्म

पुरोहितो वृतस्तत्त्वेन वृतः । अनुपृच्छते ॥ ३ ॥

विश्वरूप उवाच—

धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्मुखः ।

कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ॥ ४ ॥

पदरत्नावली

धौतौ प्रक्षालितावङ्घ्री पाणी च यस्य स तथा । धौतेत्यारभ्य ओं विष्णवे नम इत्यन्तेन ग्रन्थेन तद्वर्मधारणे इत्थंभाव वक्ति । कृतः स्वाङ्गे करयोश्च न्यासो येन स तथा ॥ ४ ॥

सत्यधर्म

तज्जपानामङ्गं सपरिकरं धौतेत्यारभ्याष्टभिः श्लोकैः स्पष्टयति ॥ धौताङ्घ्रिपाणिरिति । धौतं प्रक्षालितमङ्घ्रि पाणि यस्य स तथा । सपवित्रः पवित्रं बिभ्रदुदङ्मुख उत्तरदिगभिमुखः । कृत-स्वाङ्गकरन्यासः कृतः स्वाङ्गे करयोर्न्यासो येन स तथाऽङ्गुल्यङ्गुष्ठपर्वस्विति वक्ष्यमाणप्रकारेण । मन्त्राभ्यामष्टाक्षरद्वादशाक्षररूपाभ्याम् । वाग्यतो वाक् यता नियमिता येन सोऽसम्भाष्यासम्भाषणमेव वाचोयमनं नामेति ज्ञेयम् ॥ ४ ॥

चट्टी

धौतेत्यारभ्य विष्णवे नम इत्यन्तेन ग्रन्थेनैतद्वर्मधारणे इत्थंभावमाह धौतेति ॥ मन्त्राभ्याम् । नारायणाष्टाक्षरवासुदेवद्वादशाक्षराभ्याम् । कृतः स्वाङ्गेषु करयोश्च न्यासो येन स तथा । वाग्यतो मौनी

॥ ४ ॥

नारायणमयं वर्म सन्नह्येद् भय आगते ।

दैवभूतात्मकर्मभ्यो नारायणमयः पुमान् ॥ ५ ॥

पदरत्नावली

सन्नह्येद् बध्नीयात् । दैवाद् भय अनावृष्टिलक्षणे । भूतेभ्यो भय उन्मादादिलक्षणे । आत्मकर्मणा भये कुष्ठभगन्दरादिलक्षण इत्यर्थः ॥ ५ ॥

सत्यधर्म

नारायणमयं नारायणसान्निध्यप्राचुर्यप्रापकम् । नारायणो मयः प्रधानो देवता यस्य तद्वा । ‘‘मनोमयो ज्ञानमयः प्रधानमय उच्यते’’ इति बृहद्भाष्योक्तेः । दैवभूतात्मकर्मभ्यो दैवं भयं मारिकादिजं भूतभयं धात्वादिविकारजं प्रस्तुतं वाऽऽत्मकर्मजं, प्राचीनकर्मायत्तमपस्मारादिभयम् । आ अगत इति च्छेदः । आ निश्चयेन अगते एष्यति । वर्तमानेऽगत इत्यनुव्याख्याव्याख्यावसरे सुधायामगतेऽनागते तट्टिप्पणेन च तत्र भविष्यतीत्येतस्य कथं लाभ इत्यत आह । अगतेऽनागत इतीत्युक्तेः । वर्तमानसामीप्याद्वर्तमानव्यपदेश इत्युक्तेर्वाऽऽगत इत्युक्तिः । सन्नह्येद्बध्नीयान्नारायणमयः

॥ ५ ॥

चट्टी

देवभूतात्मकर्मभ्यः । दैवेभ्योऽनावृष्ट्यादिलक्षणेभ्यो भये आगते सति । पुमान्नारायणमयं नारायणपरं वर्म संनह्येद् बध्नीयादित्यन्वयः । कीदृशः सन् । नारायणमयो भगवान् सर्वोत्तम इति ज्ञानवान् ॥ तदुक्तम्– मयं प्रधानमुद्दिष्टं प्राधान्यं यैर्हरेर्मतम् । भगवन्मयास्ते विज्ञेयास्ते मुच्यन्ते न चापरः’’ ॥ इति ॥ ५ ॥

पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि ।

मुखे शिरस्यानुपूर्व्यादोङ्कारादीनि विन्यसेत् ॥ ६ ॥

पदरत्नावली

आनुपूर्व्यात् संप्रदायक्रमात् ॥ ६ ॥

सत्यधर्म

आनुपूर्व्यान् मन्त्रशास्त्रोक्तक्रममनुसृत्य । आनुपूर्व्या ॐकारादीनीति पाठोऽपि सुगमः

॥ ६ ॥

चट्टी

तत्राष्टाक्षरस्वरूपं दर्शयन्पादाद्यङ्गेषु तदक्षरन्यासमाह ॥ पादयोरिति सार्धश्लोकेन । प्रणवसंपुटितमोङ्काराद्येकैकमक्षरं पादाद्यष्टाङ्गेष्वानुपूर्व्यात् । यथा यथाक्रमं विन्यसेत् । संहारन्यासं कुर्या-दित्यर्थः । विपर्ययं यथा भवत्येवं वा । शिरआदि पादान्तं वा विन्यसेत् । उत्पत्तिन्यासं वा कुर्यादित्यर्थः । अथाऽपीत्यनेन स्थितिन्यासमपि समुच्चिनोति । वाशब्दो न विकल्पार्थः । किन्तु समुच्चयार्थः । सर्वाश्रमिणामपि न्यासत्रयस्य कर्तव्यत्वात् ॥ तदुक्तं तन्त्रसारे– सृष्टिस्थितिलयन्यासाः पतिलोम्यानु-लोमतः । स्थित्यन्ता एव वर्णानां श्रेष्ठा एव चतुर्दश । संहृत्यन्ता मोक्षिणां च एकविंशतिरेव वा’’ इति

॥ ६ ॥

ओं नमो नारायणायेति विपर्ययमथापि वा ।

करन्यासं ततः कुर्याद् द्वादशाक्षरविद्यया ॥ ७ ॥

प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु ।

न्यसेद्धृदय ओङ्कारं विकारमनु मूर्धनि ॥ ८ ॥

पदरत्नावली

विपर्ययं शिरआदिर्वा । करन्यासं संक्षिप्योक्तं विस्तारार्थमाह– करन्यासमिति ॥ ओं नमो भगवते वासुदेवाय इतीयं द्वादशाक्षरविद्या ॥ न्यसेद्धृदय इत्यादिना षडङ्गान्याह– न्यसेदिति ॥ अनु ओङ्कारन्यासानन्तरम् । प्रत्येकमोङ्कारमनुगतं कृत्वेति वा । ललाटोपरि इति वा ॥ ७,८ ॥

सत्यधर्म

विपर्ययं शिरआद्यात्मकमिति विपर्ययं सृष्टिलयन्यासविशेषेणेत्यर्थः । प्राचि सङ्कुच्योक्तं विविच्य वक्ति ॥ करन्यासमिति । अङ्गुल्यङ्गुष्ठपर्वस्वङ्गुल्यश्चाङ्गुष्ठयोः पर्वाणि च तेषु । प्रणवसम्पुटीकरणेनैकैकमक्षरं दक्षिणतर्जनीमारभ्य वामतर्जनीपर्यन्तमङ्गुलीष्वष्टाक्षराणि न्यस्योर्वरितवर्णानां चतुर्णामङ्गुष्ठयोः पर्वसु न्यासः कार्यः । ॐ ॐ ॐ वं ॐ ॐ ॐ इति न्यासविन्यासः । द्वादशाक्षरविद्यया वासुदेवद्वादशाक्षरमन्त्रेण । द्वादशाक्षर इत्यत्र विशेषणसमासः । अक्षरैः सहिता विद्याऽक्षरविद्या द्वादशभिरक्षरविद्या द्वादशाक्षरविद्येति वा । कावषेया वदन्ति हि ‘‘नमस्कारसमायुक्तं जुहुमः प्राणमत्र हि । किमन्यैर्बहुभिः कार्यैरेतस्यैवाधिकत्वतः । एतदर्थानुसन्धानपूर्वं वेदानथाऽपि वा । अधीमहे यजामो वा नान्यथा तु कथञ्जन । एष एव हि सर्वेषां वेदानामर्थ ईरितः । विष्णुनामोदितो योऽर्थस्तद्व्याख्यान्यद्यतोऽखिलम्’’ ॥ इत्याद्यैतरेयभाष्योदाहृतप्रमाणप्रमितमाहात्म्यं किञ्चिन्नारायणवर्मेति शर्मसिद्धिवर्णाधिक्योपाधिभ्यां मन्त्रद्वयं निरूप्य विष्णुमन्त्रमिदानीमाह ॥ न्यसेदिति । अनु ॐकारं संयोज्य तदनु विकारं मूर्धनि न्यसेत् ॥ ७, ८ ॥

चट्टी

अङ्गन्यासमुक्त्वा करन्यासमाह ॥ करन्यासमिति । विद्यया मन्त्रेण द्वादशाक्षरमुच्चरन् । करन्यासमेवाह ॥ प्रणवादीति । अङ्गुल्यो दश । अङ्गुष्टयोः पर्वाणि द्वे । एवं द्वादशस्थानानि । तत्र प्रणवसंपुटितमेकैकमक्षरं दक्षिणांगुष्टमारभ्य वामांगुष्टपर्यन्तमङ्गुलिषु । अवशिष्टं वर्णद्वयमङ्गुष्टपर्वणोश्च क्रमेण न्यसेदित्यर्थः । केचित्तु एकैकमक्षरं दक्षिणतर्जनीमारभ्य वामतर्जनीपर्यन्तमङ्गुलिषु परिशिष्टमक्षरचतुष्टयम् अङ्गुष्टयोराद्यन्तपर्वसु संन्यसेदित्याहुः ॥ मन्त्रान्तरन्यासमाह ॥ न्यसेदिति । षकारणकारयोर्विश्लोषेण प्रणवादिषडक्षराणि हृदयादिषु न्यसेत् । अनु ओंकारमनुगतमिति वेकारमित्यादिद्वितीयान्तैः प्रत्येकमन्वयः ॥ ७,८ ॥

षकारं तु भ्रुवोर्मध्ये णकारं शिखया दिशेत् ।

वेकारं नेत्रयोर्युञ्ज्यान्नकारं सर्वसन्धिषु ॥ ९ ॥

पदरत्नावली

तुना वर्णदेवतास्मरणं सूचयति । शिखया शिखायां मुकुटप्रदेशे ॥ ९ ॥

सत्यधर्म

शिखया शिखायां प्रक्रमादिक्रमादस्त्रमुद्दिश्यास्त्रपरं चतुर्थ्यन्तं कृत्वा ‘‘सोद्देशो भगवानपि’’ इति तन्त्रसारोक्तेः । राक्षसक्षोभणार्थं दिग्बन्धनमुद्दिश्येति वा ॐ अस्त्राय फडिति दिग्बन्धनं कुर्यादिति यावत् ॥ ९ ॥

चट्टी

शिखया शिखायाम् ॥ ९ ॥

मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद् बुधः ।

सविसर्गं फडन्तं तु सर्वदिक्षु विनिर्दिशेत् ॥ १० ॥

पदरत्नावली

अस्त्रमसुरनिरासमुद्धिश्य । कुर्यादिति शेषः । मन्त्रमूर्तिर् मन्त्रदेवतासन्निधानयुक्तदेह इति । विसर्गेण सहितं फडित्यक्षरावसानं मन्त्रम् । अन्तं रक्षसां नाशकरं फडक्षरं वा । तं मकारं स्वाहाविसर्जनीयसहितं फडक्षरं चेति वा ॥ १० ॥

सत्यधर्म

मन्त्रमूर्तिस् तदभिमानिदेवतासन्निहितिमद्देहः । सविसर्गं विसर्जनीयसहितम् । मेति वर्णं म इत्यात्मकं फडित्यन्ते यस्य तत् । अस्त्रमित्यनेनान्वेति । सर्वासु दशसु ॥ १० ॥

चट्टी

मकारमस्त्रमुद्दिश्यास्त्रत्वेन ध्यात्वा मन्त्रमूर्तिर् मन्त्रदेवतासंनिहितशरीरो भवेदिति न्यासफलकथनम् । बुध इत्यनेन मन्त्रवर्णदेवताऽनुस्मरणं सूचयति । मकारमस्त्रमुद्दिश्येत्युक्तं विवृणोति ॥ सविसर्गेति । विसर्गेण सहितं सविसगम् । फट्कारो ऽन्ते यस्य तत् फडन्तं तन्मकारास्त्रं सर्वदिक्षु विनिर्दिशेन् मो ऽस्त्राय फडित्येवं दिग्बन्धे विनिर्दिशेदित्यर्थः ॥ १० ॥

ओं विष्णवे नमः’

इत्यात्मानं परं ध्यायेद् ध्येयं षट्शक्तिभिर्युतम् ।

विद्यातेजस्तपोमूर्तिरिमं मन्त्रमुदाहरेत् ॥ ११ ॥

पदरत्नावली

व्यत्यस्योक्त्या विषणवे नम इत्यन्यथाप्रतीतिनिरासाय प्रतीकं पठति– ओं विष्णवे नम इतीति ॥ अनन्तरं ध्येयदेवताप्रकारं निरूपयति–आत्मानमिति ॥ परमात्मानम् । विप्रतिपत्ति-निरासायोक्तं ध्येयमिति । ऐश्वर्यादिषट्शक्तिभिः । उत्साहप्रभुमन्त्रज्ञानक्रियेच्छाशक्तिभिर्वा । तपो नाम शत्रुसन्तापनशक्तिर्ज्ञानं वा । इमं मन्त्रमिति वक्ष्यमाणमोमिति ॥ ११ ॥

सत्यधर्म

‘‘षकारन्तु भ्रुवोर्मध्ये णकारं शिखया दिशेत्’’ इत्यंशेन पदात्मकं विष्णुमन्त्रं प्रदर्श्य संहितात्मकं तमाह ॥ विष्णवे नम इति । यथोक्तम् । यद्धि सन्धिं विवर्तयीतेत्याद्यैतरेयोपनिषद्भाष्ये ‘‘षणयोः सन्धिकरणात्संहिताध्ययनं भवेत् ।’’ विषणुं त्विति यो ब्रूयात्पदाध्यायी भवेत्सः । सन्ध्युक्तिश्च विभागश्च द्वयं व्याप्तं क्रमेण तु । तस्माद्विधाऽपि वचनात्क्रमाध्यायी भवेत्सः । भोगवृद्धिं च यो मोक्षे इच्छेद्वैष्णव इत्यसौ । मोक्षकामो विषणवे द्वयकामो द्वयं पठेत् (वदेत्) । विष्णुनामात्मकत्वाच्चाथ संहितपदक्रमाः । सर्वे वेदस्थिता मोक्षतद्भोगद्वयसाधकाः । तद्ज्ञानमेव सर्वेषामित्याद्याग्रन्थसमाप्ति । णकारं च षकारं च इत्यनुव्याख्या सुधायां च ‘‘णकारो बलं षकारः प्राण आत्मेति विष्णुनामगतौ णकारषकारौ परमेश्वरबलचेष्टाप्रतिपादकौ वदन्वेदोऽनन्तरं स यो हेतौ णकारषकारावनुसंहिता ऋचो वेदेत्यृचामनुसंहितसर्वसंहितासु णकारषकारौ यो वेद णकारवत्तत्संहिताभिः प्रतिपाद्यो योऽर्थः स एव सर्वत्र पूर्वोत्तरवर्णतत्संहिताभिः प्रतिपाद्यत इत्याद्युक्तेरयं मन्त्र आचार्योद्धृततान्त्रसारिकमन्त्रत इतर एतन्मन्त्रस्यैवोङ्कारेण सह सप्ताक्षरता तस्य तु षडक्षरतेति विवेकः । विष्णुशब्दश्चतुर्थ्यन्तो हृदयेतः षडक्षरः । तारवत्सर्वमस्यापि श्यामो ध्येयो हरिः स्वयम् । वर्णा एव षडङ्गानि षणयोर्भेदयोगतः ॥’’ इति टीकायाम् । अत्र षडक्षर इत्युक्त्या भगवता उक्तो विष्णुमन्त्र ॐकारसाहित्येन सप्ताक्षरः । न्यसेद्धृदय ॐकारमित्यादिना ॐकारादिसप्तवर्णानां न्यासोक्तेः । अष्टमहामन्त्रगणे पठितोऽयं विष्णु-मन्त्र ॐकाररहितस्तद्भिन्नः षडक्षर इत्युक्तं भवति । यथा विश्वामित्रब्रह्मगायत्रीमन्त्रयोर्व्याहृतिसाहित्या-साहित्याभ्यां भिन्नयोर्मध्येऽष्टमहामन्त्रमध्ये व्याहृतिरहितस्यैव ग्रहणं तथोङ्कारसाहित्यासाहित्याभ्यां भिन्नयोर्विष्णुमन्त्रयोर्मध्येऽष्टमहामन्त्रमध्ये ॐकाररहितस्यैव ग्रहणमिति भाव इति व्याख्यातत्वात् । इत्युच्चार्य ध्येयमात्मानं परमात्मानं ध्यायेत् । तत्र तन्त्रमाह ॥ षट्शक्तिभिरिति । षट्शक्तिरैश्वर्याद्या उत्साहप्रभुमन्त्रशासनक्रियेच्छाशक्तयो वामकररूपास्त्रेतरषड्वर्णवर्ण्यजाग्रदाद्यवस्थाव्यवस्थापकशक्तयो वा ताभिर्युतम् । आत्मनामित्येतद्यथास्थानं शुद्धविशेष्यपरं सन्न स्वरसम् । तद्यथा दीप्तानलार्कद्युतिम-प्रमेयमिति प्रमेयदीपिकायाम् अप्रमेयत्वस्य द्युतावन्वयकरणं तथाऽऽत्मपदं षट्शक्तिपदेनान्वेति । ततश्चात्मषट्शक्तिभिर्युतमिति योग्यतयाऽर्थो भवति । तेन च षण्णां शक्तीनामभिन्नतोक्ता भवतीति तृतीयाप्राप्तभेदो बाधित इति बोध्यत इति बोध्यम् । विद्या ज्ञानं वोक्तेतरतत्साधनं वा । यथोक्तं सुधायाम् । यथार्थज्ञानतत्साधनयोर्विद्याशब्दस्य योगरूढिभ्यां प्रवृत्तत्वादिति । भावकरणयोः क्यपि क्रमादर्थद्वयं बोध्यम् । तेजः प्रभावः प्रभा वा । तपोऽत्र शत्रुसन्तापनशक्तिः । तद्देवतासौमुख्य-सम्पादनकालशक्तिर्वा । तन्मूर्तिर्विशेषसन्निधानपात्रगात्र इमं वक्ष्यमाणं मन्त्रमुदाहरेत् ॥ ११ ॥

चट्टी

मन्त्रोद्धारणपूर्वकं मन्त्रदेवताध्यानमाह ॥ ॐ विष्णवे नम इति । एतन्मन्त्रप्रतिपाद्यं परमात्मानं ध्यायेत् । कीदृशं षट्शक्तिभिर्भगवच्छब्दवाच्याभिः । ऐश्वर्यादिभिर्युतम् । इमं वक्ष्यमाणं श्रीनारायणकवचाख्यं मन्त्रम् । तत्फलमाह ॥ विद्येति । विद्यातेजस्तपसो मूर्तिः पात्रं भवति । यद्वा । एतद्विद्यायामधिकारिणमाह ॥ विद्येति । ईश्वरस्यात्मनश्चापि ज्ञानं विद्येहोच्यत इत्युक्तलक्षणा विद्या । तेजो ब्रह्मवर्चसम् । श्रुतमध्ययनं शीलं तप इत्युच्यते बुधैरित्युक्तलक्षणं तपः । तेषां मूर्तिराश्रयः सन् । इमं मन्त्रमुदाहरेदित्यर्थः ॥ ११ ॥

ओम् ॥ हरिर्विदध्यान्मम सर्वरक्षां न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे ।

दरारिचर्मासिगदेषुचापपाशान् दधानोऽष्टगुणोऽष्टबाहुः ॥ १२ ॥

पदरत्नावली

हरिर्विदध्यादित्यादिना नारायणाख्यं कवचमुच्यते । अणिमाद्यष्टगुणः सृष्ट्याद्यष्ट-गुणो वा । व्याप्तगुणो वा, अशूङ् व्याप्तौ इति धातुः । शुभलक्षणं गुणमेव भुङ्क्ते न त्वशुभलक्षणं दुःखमिति वाऽष्टगुणः । अश भोजन इति धातुः । ‘शुभं पिबत्यसौ नित्यं नाशुभं स हरिः पिबेत्’ इत्यादेः ॥ १२ ॥

सत्यधर्म

तमेवाह ॥ हरिरिति । ‘‘इडोपहूतं गेहेषु हरे भागं क्रतुष्वहम् । वर्णो मे हरितः श्रेष्ठस्तस्माद्धरिरिति स्मृतः’’ इति मोक्षधर्म इति गीताभाष्योक्तेर्यज्ञभागहारित्वादिना हरिः । अमरादि-मात्रप्रमातृपामरविवक्षया वा वाय्वादिरिति प्राप्तावनन्यगं लिङ्गमवगमयति ॥ न्यस्ताङ्घ्रीति । न्यस्तं पतगेन्द्रपृष्ठे गरुडपृष्ठेऽङ्घ्रिपद्मं पादकमलं येन स न्यस्ताङ्घ्री च पद्मा पुरतो रमा च येन स इति वा । अनेन न पतगेन्द्रो हंसो न च न्यस्ताङ्घ्रिपद्मः पद्मासनः किन्तु कन्तुपिता नारायण एवेत्यवधारितमिति मन्तव्यम् । अष्टगुणः । जन्माद्यस्य यतः । ‘‘यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति । त्वं मुक्तिदो बन्धदोऽतो मतो नस्त्वं ज्ञानदोऽज्ञानदश्चासि विष्णो’’ इत्यादिभ्य उक्ता अष्टौ गुणा यस्य सः । आन्तरङ्गिको भावस्तु प्रामाणिकव्याप्तगुण इति । अशू व्याप्ताविति धातुव्याख्यानात् । मुखत एवमुक्तिस्तु सर्वगुणानामेतन्मूलत्वात्स्वत एव तल्लाभो भवतीति । सतोऽसतश्च महेश्वरेऽष्टावित्यादिदुर्निबन्धानुबन्धसाधनतया मोहयितुमिति मन्तव्यम् । अष्टबाहुः । तदायुधान्यभिधत्ते ॥ दरेति । दरः पाञ्चजन्योऽरिररवच्चक्रं चर्म फलकमसिर्नन्दको गदा कौमोदकी इषुर्वाय्वात्मा । ‘‘पञ्चात्मको मारुत एष बाणः’’ इत्याचार्योक्तेः । चापः शार्ङ्गनामा पाशो रिपुबन्धनरज्जुः ॥ १२ ॥

चट्टी

हरिर्विदध्यादित्यारभ्य स्वतेजसा ग्रस्तसमस्ततेजा इत्यन्तं कवचस्वरूपम् । हरिर्हर्याख्य-मूर्तिः सर्वरक्षां सर्वेषु देशेषु कालेषु सर्वापद्भ्यश्च रक्षामष्टगुणोऽणिमाद्यष्टैश्वर्ययुक्तः । सृष्ट्याद्यष्टगुणो वा । अष्टा व्याप्ताः पूर्णा गुणा यस्येति वा । अशू व्याप्ताविति धातोः ॥ १२ ॥

जलेषु मां रक्षतु मत्स्यमूर्तिर्यादोगणेभ्यो वरुणस्य पाशात् ।

स्थले च मायावटुवामनोऽव्यात् त्रिविक्रमः खेऽवतु विश्वरूपः ॥ १३ ॥

पदरत्नावली

यादांसि जलजन्तव इत्यतो वरुणपाशस्य यादोगणान्तर्भूतत्वेऽपि तद्ग्रहणस्य मरणाविनाभूतत्वेन तत्परिहारार्थं पृथग्ग्रहणम् । मथ्नाति हिंसतीति मद् असुरः । तं स्यति नाशयतीति मत्स्यः । मथि हिंसायाम् । शिरो ममन्थ तरसेति प्रयोगाच्च । इतरस्तु मथित्वा विलोड्य सरतीति मत्स्यः । मन्थ विलोडन इति धातुः । सृ गतौ इत्यस्माड् ड्यप्रत्ययः । माययेच्छया गृहीतवटु-वामननाममूर्तिः । विश्वरूपः स्थूलरूपः ॥ १३ ॥

सत्यधर्म

जलेषु जलशैवलादौ । जले त्वित्यपि पाठः शोभनः । मत्स्यमूर्तिर्मीनतनुः स्वयं माद्यतीतरान्मादयतीति वा । मदी हर्ष इत्यस्मात् ‘‘अतन्वङ्’ इत्युणादिसूत्रेण स्यः । यादोगणेभ्यो यादसां जलजन्तूनां गणाः सङ्घास्तेभ्यः झषो मत्स्यो मीनः । यादांसि जलजन्तवः’’ इत्युभयतश्चामरः । पाशो रज्जुविशेषः । ‘‘पाशः पक्ष्यादिबन्धने’’ इति विश्वः । यादसां गण एव वरुणस्य पाशस्तस्मादिति व्याख्यानं विना मानाख्यानं प्रवृत्तमिति चिन्त्यम् । अभिमानिदेवतां तु सर्वत्र मन्यामहे । एत-च्चेतनतावादो न । एतन्मात्रधार्यतया चानुपपन्नः । अत्र भगवत इव महोदरो गजमुखः पाशदन्ताङ्कुशेति गणेशस्यापि पाशभृतश्च तद्भटानित्यत्र यमदूतानां चेत्येवमाद्यनेकत्रानेकेषां तद्धरत्वप्रतीतेश्च । दशमे च पाशोद्यतकरः पायात् । तत्र काश्यपपुत्रस्य कण्ठे पाशं जलेश्वर इत्यादेश्चाचेतनत्वस्यैव सम्भवत्वात् । अमरव्याख्यायां भानुदीक्षितो या प्रापणे बाहुलकादसुन् पाशोऽस्यास्तीति दर्शयामासैव न शशंस तदेकतां चेत्यलम् । मायया स्वेच्छया बटुर्यो वामनः । स्थले भूतले । स एव विश्वरूपो व्याप्तकायस्त्रिविक्रमनामा खे आकाशेऽवतु । भुवमारभ्य व्याप्तो दिवमित्येवमुक्तिर्युक्तमिति ॥ १३ ॥

चट्टी

यादांसि जलजन्तव इत्यतो वरुणपाशस्य यादोगणान्तर्भूतत्वेऽपि तद्ग्रहणस्य मरणाविनाभूतत्वेन तत्परिहारार्थं पृथग्गृहणम् ॥ मायया स्वेच्छया वटुरूपो वामनः । विश्वरूपो व्याप्तरूपः ॥ १३ ॥

दुर्गेष्वटव्याजिमुखादिषु२ प्रभुः पायान्नृसिंहोऽसुरयूथपारिः ।

विमुञ्चतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भाः ॥ १४ ॥

पदरत्नावली

अटवी च आजिश्च मखश्चादिर्येषां तानि तथा तेषु । गर्भा असुरस्त्रीणामिति शेषः

॥ १४ ॥

सत्यधर्म

दुर्गेषु पर्वतादिष्वटव्यश्चारण्यानि चाजिमुखानि युद्धमुखानि चादयो येषां तेषु आजिश्च मुखं चादिनश्चेति वा । मुखं निःसरण इति विश्वाद्गमनविशेष इति यावत् । आदिनो राक्षसाः प्रोक्ता इति दशमतात्पर्योक्ते राक्षसाः । दुर्गेषु प्रभु राजराजेश्वरो वा पृथ्वाद्याविष्टरूपविशेषो वेति पृथग्रूपपरमिदमिति वा ज्ञेयम् । असुरयूथपो हि हिरण्यकशिपुस्तत्सङ्घस्वामी । यूथनाथस्तु यूथप इति करिपर्यायोक्तेर्नृसिंहस्य हिंसकत्वेन हिरण्यस्य स्वनत्वेनाप्युक्त्यानुरूप्यं ध्वन्यते । यथोक्तं सप्तमे ‘‘नृसिंहं प्रति दैत्यकुञ्जरः’’ इति । गर्भाः सुरारिनारीणां यस्याट्टहासं विमुञ्चतो दिशो विनेदुस्तेनाट्टहासेन न्यपतन्नित्यन्वयः । अर्थादाट्टहासस्य गर्भपतनहेतुत्वं ज्ञेयम् ॥ १४ ॥

चट्टी

अटवी आजिमुखं सङ्ग्रामोपक्रमश्चादिर्येषां तेषु दुर्गेषु सङ्कटस्थानेषु । असुरस्त्रीणां गर्भाः

॥ १४ ॥

रक्षत्वसौ माऽध्वनि यज्ञकल्पः स्वदंष्ट्रयोन्नीतधरो वराहः ।

रामोऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणोऽव्याद् भरताग्रजो माम् ॥ १५ ॥

पदरत्नावली

अध्वनि मा माम् । स्वदेहेन यज्ञं कल्पयतीति यज्ञकल्पः । यज्ञो विष्णुस् तत्समः स एवेत्यतो वा । रामः परशुरामः । विविधप्रवासे भरताग्रजः दाशरथी रामः ॥ १५ ॥

सत्यधर्म

यज्ञकल्पो यज्ञान्स्वाङ्गेम्यः कल्पयतीति स तथा । अध्वनि मार्गे मा माम् । मा अध्वनि विरुद्धमार्गे वा तदगमकतैवावनमिति ज्ञेयम् । संस्थानविशेष इति वा । ‘‘अध्वा वर्त्मनि संस्थानं’’ इति विश्वः । वराहावतारव्यापारमीरयति ॥ स्वदंष्ट्रयेति । उन्नीतोर्ध्वमानीता धराऽवनिर्येन सः । रामः परशुरामोऽद्रिकूटेषु माहेन्द्रसद्मत्वात्तस्य । आश्लेद्य महेन्द्राद्राविति नवमस्कन्धोक्तेः । विप्रवासे ब्राह्मणानां वासे यथा तदपराधो न घटेत्तथेति विप्रवाच्च तस्य । रामो दाशरथिरद्रिकूटेषु चित्रकूटवासात् । विप्रवासे प्रवासे बलरामः । सप्तमपञ्चिकब्राह्मणगतभार्गवेयरामव्यावृत्तये सलक्ष्मण इति । सोऽपि न यः कश्चित्सचिन्हो राम इत्याह ॥ भरताग्रज इति । न सोऽपि लक्ष्मण इत्याचष्टे ॥ सलक्ष्मण इति ॥ १५ ॥

चट्टी

असौ प्रसिद्धो वराहो मामध्वनि रक्षतु । यज्ञान्स्वावयवैः कल्पयतीति यज्ञकल्पः । उन्नीता उद्धृता धरा येन सः । अद्रिकूटेषु गिरिशिखरेषु । रामो जामदग्न्यः । विप्रवासे विविधप्रवासे भरताग्रजो दाशरथी रामः ॥ १५ ॥

मामुग्रधन्वा अखिलप्रमादान्नारायणः पातु नरश्च हासात् ।

दत्तस्त्वयोगादथ योगनाथः पायाद् गुणेशः कपिलः कर्मबन्धात् ॥ १६ ॥

पदरत्नावली

छन्दःसाम्यद्योतनाय उग्रधन्वा अखिलप्रमादादित्युक्तम् । नरनामा विष्णुः । हासादुन्मादकृतहासात् । अयोगान्नारायणस्मरणाद्युपायवैकल्पात् ॥ १६ ॥

सत्यधर्म

उग्रधन्वा निखिलादिति निखिलः पाठः । क्वाचित्को धन्वा अखिलादिति । तत्र विवक्षाभावात्सवर्णदीर्घाभावः । धन्वचापे स्थलेऽपि च’’ इति विश्वः । नरस्तन्नामा विष्णुर्हासादुन्माद-हेतुकाद्दत्तस्तन्नामाऽयोगादनुपायादनणिमादेर्वा । कर्मबन्धाद्गुणेशः कपिलः पायात्तपस्वित्वादित्याशयः

॥ १६ ॥

चट्टी

उग्रधन्वा अखिलादिति सन्ध्यभावश् छन्दःसाम्यद्योतनाय । नारायणः । प्रमादाद्भगव-द्विस्मृतिः सदा विष्णोरन्यथाज्ञानवर्जनम् । ‘‘शास्त्राभ्यासःसदोद्योगाच्छ्रवणाच्च विचारतः । निषिद्ध-कर्मणां त्यागः स्वधर्मस्य कृतिः सदा । अप्रमाद इति प्रोक्त’’ इति । नरो नरान्तःस्थो भगवान् ‘‘विष्णोर्वायोरनन्तस्य त्रिभिरंशैर्नरः स्मृतः’’ इति वचनात् । योगनाथोऽष्टाङ्गयोगप्रवर्तको दत्तो दत्तात्रेयोऽयोगाद्योगभ्रंशात् । गुणेशो गुणमयबन्धननिवर्तनसमर्थः ॥ १६ ॥

सनत्कुमारोऽवतु कामदेवाद्धयशीर्षो मां पथि देवहेलनात् ।

देवर्षिवर्यः पुरुषान्तरार्चनात् कूर्मो हरिर्मां निरयादशेषात् ॥ १७ ॥

तात्पर्यम्

सनत्कुमारोऽवतु कामदेवात् । ‘सनत्कुमारनामा तु ब्रह्मचर्यवपुर्हरिः । सनत्कुमारमपरं ब्रह्मपुत्रं विवेश यः । स मां योग्येतरात्कामात्पातु विश्वेश्वरः प्रभुः’ इति च । देवर्षिवर्यः पुरुषान्तरार्चनात् । विष्णोरपरिवारत्वदृष्ट्या देवान्तरार्चनात् । ‘महिदासो देवऋषिः पातु मां विष्णुरव्ययः । तदनर्पितकर्मभ्यस्तदस्मरणतस्तथा’ इति च ॥ १७ ॥

पदरत्नावली

सनत्कुमारो ब्रह्मचारिवधुर् ब्रह्मपुत्रसनत्कुमाराविष्टः । ‘सनत्कुमारनामा तु ब्रह्मचर्यवपुर्हरिः । सनत्कुमारमपरं ब्रह्मपुत्रं विवेश यः । स मां योग्येतरात् कामात् पातु विश्वेश्वरः प्रभुः ॥’ इति वाक्यमात्र मानम् । कामादयोग्यान्मद्यादिविषयाद् देवयति गमयति विषयानामत्मनीति कामदेवस् तस्माद् । देवर्षिवर्यः महिदासः पुरुषान्तरार्चनाद् विष्णोः परिवारत्वमन्तरेण प्राधान्येनान्य-देवतार्चनादोषात् । ‘महिदासस्तु देवर्षिः पातु मां विष्णुरव्ययः । तदनर्पितकर्मभ्यस्तदस्मरणतस्तथा ॥’ इत्यनेन हर्यनर्पितार्चनालक्षणकर्मणः, तथा तस्य स्मरणपूर्वकानर्चनाच्च । महिदासस्तु देवर्षिर् इति प्रमाणवाक्यद्योतनाय महिदासेति प्रसिद्धनाम मुक्त्वा देवषिवर्य इत्यबन्धि । अनेन वैष्णवानामेवा-त्राधिकारो नान्येषाम् । तेषामेव विशेषस्मरणज्ञानपूर्तेरति सूचितम् । केचित् पुरुषार्चनान्तरादित्य-नूद्यान्तरायवाचित्वमन्तरशब्दस्योचुः । तच्चिन्त्यम् । ‘अन्तरः परिधानीये बाह्ये स्वीयेऽन्तरात्मनि’ इत्यादौ एवं प्रयोगात् ॥ १७ ॥

सत्यधर्म

सनत्कुमारोऽवतु कामदेवादिति श्लोके सनकादिचतुष्टयनिष्ठपरमेष्ठिसुत इति कामदेवो रतिपतिरिति काम सत्त्वासन्वा इति भ्रमं सन्देहं च प्रथमपादं प्रथमतोऽनूद्य प्रमाणेन निराकुर्वन्व्याकरोति ॥ सनदिति । सनत्कुमार इति नाम यस्य स तथा ब्रह्मचर्यवपुर्लोकदृष्ट्याऽपरं स्वेतरं चतुराननतनुजं य आविवेश सः । योग्येतराद् योग्यः काम इतरो यस्मादिति विग्रहे ‘‘न बहुव्रीहाविति’’ निषेधान्न सर्वनामता । परतरुण्यादिसङ्गमरूपात् कामान् मानिकयोग्येतरादिति मौलदेवपदार्थ इति मन्तव्यम् । इति तन्त्रभागवत इत्यर्थः । देवर्षिवर्यः पुरुषान्तरार्चनादित्यत्र देवर्षिर्नारदः पुरुषान्तरार्चनं तदितरार्चन-मित्यन्यथाप्रतीतिं निवारयितुमनूद्य मानेन तदर्थमाह देवर्षिवर्यः पुरुषान्तरार्चनाद् विष्णोरपरिवारत्व-दृष्ट्येति । प्राधान्यबुद्ध्येत्यर्थः । देवान्तरार्चनाद् ब्रह्मादिपूजनात् । देवर्षिपदार्थमाह– महिदास इति । ‘‘तदनर्पितकर्मभ्यः स्वामी हि फलमश्नुते’’ इत्यादेर्हर्यसमर्पितस्वफलकर्मभ्यस्तस्यास्मरणतोऽपि पात्वित्यन्वयः ॥ ततश्चेयं मूलार्थपरिष्क्रिया ॥ सनत्कुमारश्चतुर्मुखसुताविष्टः कामदेवाद्देवयति मादयतीति देवः । विशेषणस्य परनिपातः । कामश्चासौ देवश्च कामदेवस्तस्मान्मदकारिकामाद्दुष्कामादिति यावत् । दिवेः स्तुतिमोदमदेति तदर्थकत्वात् । हयशीर्षो हयग्रीवः पथिदेवहेलनान्मार्गान्तर्वर्तिदेवादिवन्दनमविधाय धावनादिरूपासत्काराद्देवर्षिवर्यो महिदासः पुरुषान्तरार्चनात् । अर्चनशब्देन भगवदसमर्पणास्मरणे चोपलक्षणयागृह्येते । आ अर्चनादित्याङ्प्रश्लेषे आ सम्यगपरिवारदृष्ट्येति यावदिति लभ्यते । निरयान् नरकप्रापकात् । निरयाद् रयो वेगस्तदभावात् । आलस्यादिति यावत् । निर्निषेध इति विश्वः । अशेषान् निःशेषं विश्लेष्य निरयाद्दुर्दैवादिति वा ॥ १७ ॥

चट्टी

सनत्कुमारस्तन्नामा भगवान् कामदेवात्कामदेवकृतायोग्यकामनादवतु ॥ तदुक्तं ‘‘सनत्कुमारनामा तु ब्रह्मचर्यवपुर्हरिः । सनत्कुमारमपरं ब्रह्मपुत्रं विवेश यः । स मां योग्येतरा-त्कामात्पातु विश्वेश्वरः प्रभुः’’ इति । पथि यद्देवानां हेलनं नमस्कारमकृत्वा गमनं तस्मात् । देवर्षिवर्यो देवानां ब्रह्मादीनाम् ऋषीणां च वर्यः श्रेष्ठः । अनेन महिदास उक्तः । महितो महान्तो ब्रह्मादयो दासा यस्येत्यनेन समानार्थकत्वात् । पुरुषान्तरार्चनाद्भगवत्परिवारतां विना प्राधान्येन भगवदितरब्रह्मादि-पुरुषपूजनात् । इदमुपलक्षणम् । भगवदनर्पितकर्मभ्यस्तद्विस्मरणतश्चेत्यपि ग्राह्यम् ॥ तदुक्तं– विष्णोरपरिवारत्वदृष्ट्या देवान्तरार्चनात् । महिदासो देवऋषिः पातु मां विष्णुरव्ययः । तदनर्पित-कर्मभ्यस्तदस्मरणतस्तथेति ॥ १७ ॥

धन्वन्तरिर्भगवान् पात्वपथ्याद् द्वन्द्वाद् भयाद् ऋषभो निर्जितात्मा ।

यज्ञश्च लोकादुत तत्कृतान्नो बलो गणात् क्रोधवशादहीन्द्रः ॥ १८ ॥

पदरत्नावली

शरीररोगजनकादपथ्यद्रव्यात् । निर्जितात्मा वशीकृतेन्द्रियग्रामः । तत्कृताद् यज्ञकर्मापादितादनित्यफलात् स्वर्गादेः । यज्ञनामा यागप्रवर्तको विष्णुः । बलः बलभद्रः स एवाहीन्द्रः शेषनामा शेषदेवः सहस्राक्षः सहस्राङ्घ्रिशिरोभुजः’ इत्यादेः । ‘बलं शक्तौ बलो रामे बलिष्ठे च बलस्तथा’ इत्यभिधानाद् बलिष्ठोऽहीन्द्र इति वा ॥ १८ ॥

सत्यधर्म

धन्वन्तरिर्धन्वं पापं तरति, स्वयं तरणं नामात्र तदसंसर्गरूपं तारयतीतरानिति वा स तथा । धन्वमिति पापजो रोगो गृह्यते । तृधातोः स्व इरिति इः । धन्वमिति द्वितीयाया अलुगार्षः मुमागमो वा । अपथ्याद् ‘‘धर्मपथ्यर्थन्यायादनपेत’’ इति यन् न पथ्यमपथ्यं तस्मात् । ‘‘फले ग्रहिरात्मम्भरिश्चेति चकारात्कुक्षिम्भरिरितिवत् । मद्देहाहिताशनादेः । द्वन्द्वात् शीतोष्णादिजाताद् ऋषभो नाभिसुतः निर्जितात्मा यतचित्तः । प्रपञ्चितश्चैतत्प्रकारः पञ्चमे । द्वन्द्वादिसहनस्य मनोनियमन-निदानकत्वादित्याशयः । यज्ञ आकूतिसूनुर्लोकाद्दुर्जनाद्रक्ष आदेरुत तत्कृतादुपद्रवात् । प्रथमतस्तद-प्राप्तिप्रार्थनं कथञ्चिदागमने तत्राशासनमित्युक्तमिति वेदितव्यम् । ‘‘रक्षोभिरुग्रैः सम्प्राप्तः खादितुं मोचितस्तदा स्तोत्रं श्रुत्वैव यज्ञेन तान्हत्वाऽवध्यतां गतान्’’ इत्यादीशावास्यभाष्योक्तेः । तत्कृताच्चेति चोऽन्वेति । बलो बलरामः । स किमाकार इत्यत आह ॥ अहीन्द्र इति । शेषांशः क्रोधवशात्तदादि-सङ्घातात्तस्य च तदधिपत्वात् ॥ १८ ॥

चट्टी

ऋषभो ऋषभनामा भगवान् । द्वन्द्वात् शीतोष्णादेर्भयात् । यज्ञो यज्ञनामको भगवान् । लोकाज्जनापवादान्नोऽस्मान् । तत्कृताल्लोककृतोपघाताद् बलो बलभद्राविष्टो भगवान् ॥ तदुक्तं ‘‘शङ्खचक्रभृदीशेशः श्वेतवर्णो महाभुजः । आविष्टः श्वेतकेशात्मा शेषांशं रोहिणीसुतम् ॥’’ इति माहावाराहे । अहीन्द्रः शेषाविष्टो भगवान् । क्रोधवशाद्गणात्सर्पगणात् ॥ १८ ॥

द्वैपायनो भगवानप्रबोधाद्१ बुद्धस्तु पाषण्डगणात् प्रमादात् ।

कल्की कलेः कालमलात् प्रपातु धर्मावनायोरुकृतावतारः ॥ १९ ॥

पदरत्नावली

धर्मावनाय धर्मपरिपालनाय । उरु प्रपातु भूयो रक्षत्वित्यर्थः ॥ १९ ॥

सत्यधर्म

द्वैपायनो द्वीपोऽयनं यस्य स पराशरस्तस्यापत्यम् । ऋष्यन्धकेत्यण् । अनन्तरापत्येऽपि द्वैपायनवद्यञियोश्चेति फक् स्यात् । तदपि न । अनन्तरापत्ये फकोऽदर्शनात् । द्वीपमयनं यस्य स द्वीपायनस्तस्यापत्यं ष्यञि द्वैपायन इति भानुदीक्षितलेखनात् । अप्रबोधाच्छास्त्रविषयाज्ञानात् । सम्प्रमोहादिति पाठः स्फुटार्थः । तस्य वेदादिसच्छास्त्रप्रवक्ताचार्यत्वात् । पाषण्डगणाज्जिनादेः प्रमादात् । मानसानवधानादेर् यद्वा पाषण्डगणात्तद्धेतुकात्प्रमादात्तत्सहवाससम्भवादिति यावत् । प्रमादात्प्रमाया अद इति वा प्रमादस् तस्माद् इति पाषण्डगुणविशेषणं वाऽन्यथाज्ञानसाधकोपदेशकादिति यावत् । कल्किः कल्कीति गाध्यादिशब्दवदिकारान्तं नकारान्तं च । कलेः कालमलादिति पदमेकम् । तत्र षष्ठ्या आक्रोशेऽलुक् । कलिस्वामिको यः कालस्तत्प्रयोजकं यन्मलं पापं तस्मात्प्रपातु समवतु । यवनहन-नपूर्वकं धर्मावनायोरुकृतावतार उरुभिर्विरिञ्चादिसुरैः कृतं प्रार्थनादिकर्म तेनावतारो यस्य स उरूणां कृतेन कर्मणोक्तरूपेणेति वा । पात्वित्यनेन पूर्तावपि यत्प्राह प्रेति तेन मलपदानुकूल्यात्प्रक्षालनोपयोगि-प्रपारूपतां कल्किनो ध्वनयामास । प्रपापानीयशालिकेत्यमरः । कालमलं प्राप्य प्रपातु प्रपावदा-चरल्यब्लोपनिमित्ता पञ्चमीत्वित्यन्वयो वा ॥ १९ ॥

चट्टी

संप्रमोहो मिथ्याज्ञानम् । मोहश्चैव विपर्ययमिति भारतोक्तेः । अधर्मेच्छावासं प्रमोहो धर्मकामितेति वचनात् । पाषण्डगणात्प्रमादात् । पाशुपतादिदुःशास्त्रसमूहः पाषण्डगणस्तच्छ्रवणादि-प्राप्तात्प्रमादात् । ‘‘बौद्धपाशुपताद्यास्तु पाषण्डा इति कीर्तिताः’’ इति वचनात् । कालमलात् कालस्य मलात्कलेः कल्की धर्मावनाय धर्मरक्षणाय । उरुर्महान्कृतोऽवतारो येन स तथोक्तः ॥ १९ ॥

**मां केशवो गदया प्रातरव्याद् गोविन्द आसङ्गव आत्तवेणुः **

नारायणः पातु सदाऽऽत्तशक्ति१र्मध्यन्दिने विष्णुररीन्द्रपाणिः ॥ २० ॥

पदरत्नावली

प्रातरारभ्य पञ्चभिः पञ्चभिर्घटिकाभिर् अहोरात्रविभागं कृत्वा तेष्वेकैकां मूर्तिं सङ्कल्प्याह– मां केशव इति ॥ गोष्ठेभ्य निर्गत्य यदैकत्र गावः संयुज्यन्ते स काल आसङ्गवस्तस्मिन् काले ॥ २० ॥

सत्यधर्म

पञ्चपञ्चघटिकाभिरहोरात्रं विभज्य षष्टिघटिकात्मकं कालं द्वादशसङ्ख्यं कृत्वा तत्रैकैकस्मिन्काले देवमेकैकं सप्रयोजनं चाह ॥ मामिति । गदया कौमोदक्या सहितः प्रातः सूर्योदयानन्तरम् । प्रगे प्रातोऽतधातोरप्रत्ययः । गोविन्द आसङ्गवे सङ्गवं पक्ष्यादिपरिपतनं यस्मिंस्तत्कालम् आ अभिव्याप्यासङ्गवे । तृतीयासप्तम्योर्बहुलमम्भाव इत्युक्तेरनम्भावः । प्राह्णे सङ्गवमध्यान्हमध्येऽरीन्द्र-पाणिश्चक्रधरोऽरीन्द्रा महावैरिणः पाणौ यस्येति वा वशीकृतशत्रुश्रेष्ठ इत्यर्थः । ननु छान्दोग्य-द्वितीयाध्याये ‘‘यत्पुरोदयात्स हिङ्कार’’ इत्याद्युपनिषद्भाष्ये ‘‘उदयात्पूर्वमेवासौ भवेत्प्रद्युम्ननामकः पश्वाधारस्तदात्माऽसौ वासुदेवस्तथोदये । आश्रयश्च नृणां तत्र वराहः सङ्गवे तु सः । तत्र पक्ष्याश्रयो विष्णुस्तथा नारायणाभिधः । मध्यन्दिने स आधारो देवानां च ततः परम् । अनिरुद्धः स आधारो गर्भस्थानां सदैव हि । ततः परं नृसिंहाख्यः स आरण्याश्रयो मतः । अथास्तमितवेलायां स सङ्कर्षण ईरितः । आश्रयः स पितॄणां च सप्तात्मकमुपास्यकम् । प्राप्नोति परमं स्थानं मुक्तः संसारसागरात्’’ इति चेत्याद्युक्तेरत्र कालद्वादशोक्तिस्तथैव भगवद्रूपाणां स्थानभेदनिरूपणं च कुत इति चेन्न । प्रतिपत्तृभेदेन वा विनिर्जित्य मृधेऽसुरानिति मुक्तः संसारसागरादिति फलवैलक्षण्याद्वा भगवद्रूपेषु विशेषाभावाद्वा द्वैसरण्यम् । यथोक्तं तत्रैव । ‘‘न रूपाणां विशेषोऽस्ति गुणतो नामतोऽपि वा’’ इत्यादि । गोगणे दिग्बाण इति विश्वोक्तेः । संयुज्यन्ते पक्षिणो गवि तदभिमन्यमाने गगने दिशामप्याकाशविशेषत्वात्तत्रेति वा सङ्गवशब्दार्थो बोध्यः । तिष्ठद्गुप्रभृतित्वतोऽव्ययीभावे टजन्तः शब्दः । केचिदासङ्गवमात्तवेणुरिति पठन्ति । आत्तशक्तिर्लक्ष्मीसहित इति वा शक्तियुक्त इति वा शक्तिरूपायुधधर इति वाऽर्थः ॥ २० ॥

चट्टी

अत्रान्हो भागा मुनिमतभेदेन पञ्चधा विकल्प्यन्ते ॥ तदुक्तं कालमाधवीये ॥ द्विधा त्रेधा चतुर्धा पञ्चधा पञ्चदशधा वा । अहर्विभज्यत इति । पञ्च मतभेदा इति । तत्र द्वेधा विभागःस्कान्दे दर्शितः । ‘‘आवर्तनात्तु पूर्वाण्हो ह्यपराण्हस्ततः परः’’ इति च । आवर्तनं मध्यान्हस्त्रेधाविभागोऽपि तत्रैवोक्तः । ‘‘ऊर्ध्वं सूर्योदयात्प्रोक्तं मुहूर्तानां च पञ्चकम् । पूर्वाण्हः पञ्चकः प्रोक्तो मध्यान्हस्तु ततः परम् । अपराण्हस्ततः प्रोक्तो मुहूर्तानां च पञ्चकम्’’ इति । चतुर्धा विभागस्तु गालवेनोक्तः– ‘‘पूर्वाह्णः पञ्चकः प्रोक्तो मध्याह्नः प्रहरं तथा । आतृतीयादपराह्वः सायाह्नश्च ततः परम्’’ इति पञ्चधा विभागो व्यासेनोक्तः– ‘‘मूहूर्तात्त्रितयं प्रातस्तावानेव तु सङ्गवः । मध्यान्हस्त्रिमुहूर्तं स्यादपराण्हश्च तादृशः । सायान्हस्त्रिमुहूर्तस्तु सर्वकर्मसु गर्हितः ॥’’ इति ॥ पञ्चदशधा विभागश्च शङ्केनोक्तः– ‘‘शास्त्रश्चैत्रश्च मैत्रश्च तथा सालकटः स्मृतः । सावित्रश्च जयन्तश्च गान्धर्वः कुतपस्तथा । रोहिणश्च विरञ्चश्च विजित्यो नैर्बुदस्तथा । महेन्द्रो वरुणश्चैव भेदाः पञ्चदश स्मृताः’’ इति । एवं च द्वेधेत्यादिमुनिमतचतुष्टय-ग्रहणाभिप्रायेणान्हो भागेषु रात्रौ च प्रदोषादिसंज्ञकेषु भागेषु रक्षा प्रार्थना क्रियते । मां केशव इति त्रिभिः । गदया युक्तः केशवः प्रातः सूर्योदयमारभ्य मुहूर्तत्रयात्मके कालेऽव्यात् । आत्तशक्तिरात्ता गृहीता शक्तिरायुधं येन स नारायणः प्राह्णे मुनिमतभेदेन त्रिविधे पूर्वाण्हेऽव्यात् ॥ २० ॥

देवोऽपराण्हे मधुहोग्रधन्वा सायं त्रिधामाऽवतु माधवो माम् ।

दोषे हृषीकेश उतार्धरात्रे निशीथ एकोऽवतु पद्मनाभः ॥ २१ ॥

पदरत्नावली

दोषे रात्रिभोजनकाले । रात्रिसामान्यविवक्षायां दोषशब्दोऽव्ययवाची स्त्रीलिङ्गो वा । रात्रिविशेषकालविवक्षायां पुल्लिङ्गः । निशीथात् पूर्वयामोऽर्धरात्र उच्यते । तस्मिन् काले नीशीथे पञ्चदशघटीकातुलिते एकः पद्मनाभ एवावतु ॥ २१ ॥

सत्यधर्म

उग्रधन्वोग्रं धनुर्यस्य स उग्रधन्वा । धनुषश्चेति अनङ् । मधुहा मधुसूदनो देवः सायं सायंसमये । सायं सन्ध्या पितृप्रसूरित्यमरव्याख्यायां ‘‘सायः काण्डे दिनान्ते च’’ इत्यभिधानमभिधाया-व्ययवर्गे सायमित्युक्तत्वादिति भानुनोक्तेः । सायं साय इत्यव्ययामरः । प्राह्णापराह्णमध्याह्नास्त्रिसन्ध्यमथ शर्वरीत्यमरः । त्रिधामा वैकुण्ठश्वेतद्वीपानन्तासनात्मकधामत्रयवान् । दोषे दोषास्ति प्रारभ्यत्वेनात्रेति दोषः प्रदोषस्तस्मिन् । दोषेति भाषितुं शक्ये यद्दोष इत्यभाषत तेनेन्द्रियकृतदुर्विषयद्रवणदोषे सत्यपीति ध्वनयामासेति ज्ञेयम् । दोषा नक्तं च रजनीत्यमरः । अर्धरात्रेऽर्धं रात्र्या अर्धरात्रम् । अहःसर्वैकेत्यच् । अर्धं नपुंसकमिति तस्यैव समांशकतासमाशंसनात् । निशीथे पञ्चदशघटिकामारभ्यापररात्रपर्यन्तं निशे-रतेऽस्मिन् । शीङ् स्वप्ने । निशीथगोपीथावगथा इति थक् । ‘‘निशीथस्तु पुमानर्धरात्रे स्याद्रा-त्रिमात्रके’’ इति भानुदीक्षितः । अर्धरात्रिनिशीथयोरन्तरा बहुव्यवधायकविरहादैकस्वाम्यम् ॥ २१ ॥

चट्टी

अरीन्द्रश्चक्रश्रेष्ठः पाणौ यस्य स विष्णुर्मध्यन्दिने त्रिविधे मध्यान्हे पातु । मधुं हन्तीति मधुहा । हन्तेः क्विप् । ब्रह्मभ्रूणव्रत्रेषु क्विबिति नियमस्य प्रायिकत्वात् । यथा हन्या सकारः । प्रायिकश्चायं नियमः । क्वचिदन्यस्मिन्नप्युपपदे दृश्यते । मधुहेति प्रायिकत्वं च वक्ष्यमाणस्य बहुलग्रहणस्य पुरस्तादपकर्षाल्लभ्यत इति । मधुसूदनो देवोऽपराण्हे चतुर्विधेऽव्यात् । अनन्तासनवैकुण्ठश्वेतद्वीपाख्यानि त्रीणि धामानि यस्य स माधवः सायंकाले चरममुहूर्तत्रयात्मकेऽवतु । यत्तु श्रीधरेण व्याख्यातम् । दिनस्य बहुभागेषु क्रमेण प्रातरादिसंज्ञकेषु रक्षाप्रार्थनमिति । तन्न । तदुक्तप्रकारेण षोढा विभागस्य कुत्राप्यदर्शनादिति । दोषे हृषीकेशोऽवतु । अर्धरात्रपर्यन्ते काले निशीथे उत निशीथे च एक एव पद्मनाभोऽवतु ॥ २१ ॥

श्रीवत्सलक्ष्माऽपररात्र ईशः प्रत्यूष ईशोऽसिधरो जनार्दनः ।

दामोदरोऽव्यादनुसन्ध्यं प्रभाते विष्णुः श्रीमान् भगवान् कालमूर्तिः ॥ २२ ॥

पदरत्नावली

प्रत्यूषे अरुणोदयप्रारम्भे । अनुसन्ध्यं सन्ध्यानिकटे । प्रभाते सूर्योदयासन्नसमये

॥ २२ ॥

सत्यधर्म

श्रीवत्सलक्ष्मा श्रीवत्सो लक्ष्म चिह्नं यस्य स तथा । ‘‘चिह्नं लक्ष्म च लक्षणम्’’ इत्यमरः । अपररात्रे ईश ईया लक्ष्म्याः शं यस्मात्स लक्ष्मीसुखदः प्रत्यूषेऽहर्मुखे । ऊष रुजायाम् इगुपधः कः । ऊषति योषिद्विश्लेषात्पुरुषाननुत्थानमनस इति स तथा । प्रत्यूषोऽहर्मुखमित्यमरः । असिधरो नन्दकभृज्जनार्दनोऽव्यात् । दामोदरो, ‘‘दामात्सिद्धिं परीप्सन्तो मां जनाः कामयन्ति हि । दिवं चोर्वीं च मध्यं च तस्माद्दामोदरोऽहम्’’ ॥ इति मोक्षधर्मे । प्रसिद्धः कृष्णश्च दामोदरकत्वात् । अनुसन्ध्यं सन्धिषु भवा सन्ध्या सन्ध्ययोर्मध्येऽनुसन्ध्यम् । सन्ध्या पितृप्रसूः सन्ध्या इत्यमरशब्दार्णवौ । भगवान् श्रीमान्विष्णुः प्रभाते सवित्रुदय आसन्ने । पूर्वं विष्णवे नम इत्यारब्धत्वादन्ते तदेव देवनाम गृहीतं चेत्सम्पुटीभवतीति भवति विष्णुः श्रीमान् इति पाठः श्रीमान् न च पाङ्क्तःविश्वेश्वर इति पाठः । कालमूर्तिः प्रातरित्यारभ्य प्रभात इत्यन्तग्रन्थोक्तः कालाकारः । ज्ञानतनुरित्यादिर्वाऽर्थः । कालशब्दो जगद्बन्धनज्ञानादिसर्वभगवद्धर्मवाची । कल बन्धने कल ज्ञाने कल कामधेनुरिति पठतीति गीताभाष्योक्तेः । कामधेनुर्यथा सर्वार्थान्ददाति तथाऽयमपि धातुः सर्वार्थवाचीत्यर्थः । तथा चास्मादण् कर्तरि घञ् वा । जगदिति च योग्यतया सम्बध्यत इत्यादिप्रमेयदीपिकोक्तेः । कल कामधेनाविति पठित्वा व्याकुर्वन्तश्चैतदनवलोककालोका इत्येव न किन्तु कामधेनुवाचकत्वेऽस्य प्रकृतोपयोगायोगेना-संश्लिष्टवचस इति मन्तव्यम् ॥ २२ ॥

चट्टी

अपररात्रौ ईशः समर्थः श्रीवत्सलक्ष्मा श्रीवत्सो लक्ष्म्याभिमन्यमानो लक्ष्म चिन्हं यस्य स तथा । श्रीधर इत्यर्थः । प्रत्यूषे । ईशो जनार्दनोऽनुसंध्यं प्रतिसंध्यम् । कालमूर्तिः सर्वगुणात्मकदेहो विष्णुः । सर्वगुणोद्रेकात्काल इत्यभिधीयत इति वचनात् । विष्णुर्वासुदेवः । विष्णुर्योनिं कल्पयत्वित्यत्र योनिक्लृप्तिर्वासुदेवादिति विष्णुशब्दस्य वासुदेवपरत्वेन भगवत्पादैर्व्याख्यातत्वात् । मध्यंदिने विष्णुरिति विष्णुरूपस्य प्रागुक्तत्वाच्च । प्रभाते सूर्योदयकालेऽव्यात् । नारायणः पातु सदाऽऽत्तशक्तिरिति क्वचित्पाठः । तत्र मुनिमतभेदेन दिनविभागविवक्षायां क्लेशो नास्ति । नारायणो मध्यन्दिने विष्णुरपराण्ह इत्यादिरन्वयः । एकोऽवतु पद्मनाभ इत्यत्रैकः सर्वोत्तम इति व्याख्येयम् । अन्यत्समानम् ॥ २२ ॥

चक्रं युगान्तानलतिग्मनेमि भ्रमत् समान्ताद् भगवत्प्रयुक्तम् ।

दन्दग्धि दन्दग्ध्यरिसैन्यमाशु कक्षं यथा वातसखो हुताशः ॥ २३ ॥

पदरत्नावली

युगान्तेऽग्निवत् तिग्मा तीक्ष्णा नेमिर्यस्य तत् तथा । स्वरूपमुक्त्वा संबोधयति– दन्दग्धीति ॥ हे सुदर्शन अरिसैन्यमाशु दन्दन्धि अतिशयेन दह । अनेन ‘सुदर्शन महाज्वाल कोटि-सूर्यसमप्रभ । अज्ञानान्धस्य मे नित्यं विष्णोर्मार्गं प्रदर्शय ॥’ इति मन्त्रोऽर्थत उद्धृतः ॥ २३ ॥

सत्यधर्म

दरारिचर्मेति यदायुधधारणेन रूपं व्यशिनट् तानि प्रार्थनीयानि प्रकृतकृतेस्तदाय-त्तत्वादिति प्रातिस्विकतया साम्मुग्ध्येन चायुधानि सम्बोध्य तत्कार्यं प्रार्थ्यमित्याह । चक्रमिति । पूर्वं दरारीति दरपुरउदीरणादत्र कुतो व्युत्क्रमेणोक्तिरिति चेत् । अस्त्यत्र विशेषः । ‘‘पूर्वं हरेश्चक्रमभूद्धि दुर्गा तमः स्थिता श्रीरिति यां वदन्ति । सत्त्वात्मिका शङ्खवरं रमैव खड्गं दुर्गात्मिका सैव च चर्मनाम्नी’’ इत्याचार्यैर्निर्णयतृतीयाध्याय उक्तमिति द्वयोरप्यभिमानिकृतविशेषाभावबोधनाय पश्चादुक्त-स्यापि चक्रस्यात्र पुरस्करणं तत्र दरपुरस्कृतिश्च सम्भवतः । अत्रानन्तरोक्तिश्च शङ्खस्य चक्रस्य प्रागुक्तिश्च ‘‘वराद्रथाङ्गत्वमवाप कामः । तत्सूनुतामाप च सोऽनिरुद्धो ब्रह्मोद्भवः शङ्खतनुः पुमात्मा’’ इत्यादेर-निरुद्धाभिमानिकतया चोचित इति वा सर्वायुधानां स्वरूपभूतानां सद्भावज्ञापनायैवैवमनेवमुक्तिरिति मन्तव्यमिति । प्राची दिग्जहूः सहमाना दक्षिणा राज्ञी नाम प्रतीचीति छान्दोग्यभाष्ये ‘‘सहमानेति सम्प्रोक्तो मानं वेदात्मकं यतः । शङ्खो वेदात्मकः सङ्ख्यसहितो दक्षिणाधरः । जुहोति चक्रेण शत्रूनित्यथवा जुहूः । प्रतीची दिग्दयितस्तस्य वामबाहुस्तथोत्तरः । राज्ञीत्युक्तगदायुक्तेः’’ इत्याद्युक्ति-रप्यभिमानिविवक्षयेति बोध्यम् । तत्र दरपुरस्कृतिश्चक्रस्यानन्तरमुक्तिश्च ध्वनिश्रवणेन द्रवदुर्वरि-तप्राणापहाक्रमविवक्षयाऽत्र तु श्रेष्ठश्रेष्ठमारणकर्मणेति वा विशेषो ज्ञेयः । हे चक्रमिति सम्बुध्यन्तम् । तथैवोपक्रमो परममुक्तेः । न च तर्हि कथमं श्रवणमिति वाच्यम् । तदलोपे सम्बुध्यत्वस्यापि सम्भवात् । यथोक्तं सुधावाक्यार्थचन्द्रिकान्यायविवरणभावबोधेषु । कव रक्षण इत्यतः कवचं कव रक्षण इत्यस्य धातो रूपं कवचमित्येतदित्यर्थः । कवतेरच इत्येतावान्प्रत्ययः कवति रक्षतीति कवचम् । अरणमित्यपि सम्बोधनमिति । ननु कवतिरूपत्वे कवतेः पचाद्यचि सति कवेति भवितव्यं तत्कथं कवचमिति रूपनिष्पत्तिरित्यत उणादयो बहुलमिति बहुलग्रहणादच इत्येतावति प्रत्यये सति तत्सिद्धिरित्याशयेनाह ॥ कवतेरिति । अच इत्येतावानित्यच अम् इत्येतावानित्यर्थः । प्रयोजनाभावान्न मकारस्येत्संज्ञा । ततश्च मान्तत्वात्कृन्मेजन्त इत्यव्ययत्वमिति ध्येयम् । यद्वा अच इत्येतावानेव प्रत्ययः । तथा च कवच सु इति स्थिते लोपात्परत्वादतोमित्यमि कृते परत्वान्नित्यत्वाच्चामि पूर्वरूपत्वे च कृते तस्यान्तवद्भावे तद्ध्रस्ववत्परस्य सम्बुद्धेः सम्बन्धिनो मकारस्य हे ज्ञानेत्यादिवदेङ्ह्रस्वादिति प्राप्तस्य लोपस्य बाहुलिकान्निवृत्तौ कवचमिति सम्बुध्यन्तरूपसिद्धिरिति । युगान्तस्य प्रलयस्यानलो वह्नि-स्तद्वत्तिग्मास्तीक्ष्णा नेमयोऽन्तभागा यस्य तत् । ‘‘नेमिस्त्रिकायां चक्रान्त’’ इति विश्वः । समन्तात्सर्वत्र भगवत्प्रमुक्तं, प्रयुक्तमिति द्वयमप्यद्वयम् । यथा वातसखो वातो वायुस्तस्य सखा मित्रम् । राजाहः सखिभ्यष्टजिति टच् । हुताशो हुतमश्नातीति सोऽग्निः । कक्षं तृणादिकं, कक्षो वीरुत्तृणेषु चेति विश्वः । समन्तात्सर्वत्राशु शीघ्रमरिसैन्यं दन्दग्धि दन्दग्धि अतिशयेन दहति । रिप्वादिपदमनभिधाय निधायारिपदं चित्राङ्गदरीत्या तवापीदमावश्यकमिति ध्वनयति । दृष्टान्ते वा तव दार्ष्टान्तिक उत्तेजको भगवानिति ज्ञेयम् । युगान्तानलेत्यादिना सुदर्शनमहाज्वालेत्यादयः स्मृतयोऽत्र स्मर्तव्या इति सूचयति ॥ २३ ॥

चट्टी

युगान्तानलवत्तिग्मा तीक्ष्णा नेमिर्यस्य तच्चक्रं भगवता प्रयुक्तं सत् । अरिसैन्यं दंदग्धि अतिशयेन दहति । तस्यायं स्वभावः । एवं न तु तत्प्रार्थनीयमित्यर्थः । यद्वा । दन्दग्धीति लोण्मध्यमपुरुषः । तत्र त्वमेवम्भूतं चक्रमिति स्वरूपमुक्त्वा सम्बोध्य प्रार्थ्यते ॥ अतिशयेन दहदहेति । कक्षं शुष्कतृणम् ॥ २३ ॥

गदेऽशनिस्पर्शनविस्फुलिङ्गे निष्पिण्डि१ निष्पिण्ड्यजितप्रियाऽसि ।

कूष्माण्डवैनायकयक्षरक्षोभूतग्रहांश्चूर्णय चूर्णयारीन् ॥ २४ ॥

पदरत्नावली

स्पृश उपताप इति धातोः स्पर्शनं तपनम् । अशनिवन्निर्घातवत् स्पर्शनास्तापकरा विस्फुलिङ्गा अग्निकणा यस्याः सा तथा । अशन्योर्वज्रयोः स्पर्शनेन सङ्घट्टनेन जाता ये विस्फुलिङ्गास्तादृशा विस्फुलिङ्गा यस्याः सा तथेति वा । संबन्धेन अशनिशब्देन मेघवह्निर्लक्ष्यते । तस्य स्पर्शनवद् दुःसहा विस्फुलिङ्गा यस्याः सा इति वा । तस्याः सम्बुद्धिः । अशनिस्पर्शनविस्फुलिङ्गे हे गदे निष्पिण्ढि नितरां पिष्टं कुरु । निष्पिष्ठीति पाठे पिटि पेषण इत्यस्य रूपम् ॥ २४ ॥

सत्यधर्म

चक्रोक्त्यनन्तरप्राप्ते शङ्खे वक्तव्ये वातसख इत्युक्त्या गदा तु वायुर्बलसंविदात्मे-त्याद्युक्तेर्वाताभिमानिकत्वेन प्रसङ्गसङ्गत्या गदां गदति । गद इति अशनिस्पर्शनविस्फुलिङ्गेऽशन्यो-र्निर्धातयोर्वा वज्रयोर्वा स्पर्शनं स्पर्शः सङ्घर्ष इति यावत् तस्य तस्माज्जाता विस्फुलिङ्गा इव विस्फुलिङ्गा अग्निकणा यस्याः सा तत्सम्बोधनम् । ‘‘स्पर्शनो मारुते स्पर्शदानयोः स्पर्शनं मतम्’’ इति विश्वः । दम्भोलिरशनिर्द्वयोः । त्रिषु स्फुलिङ्गोऽग्निकण इत्युभयतश्चामरः । यतस्त्वमजितप्रियाऽसि । अनेन तव कदाऽपि पराजयो नास्तीति द्योत्यते । अजितस्य पराजितप्रियताऽनौचित्यात् । कूष्माण्डवैनायकयक्ष-रक्षोभूतग्रहान् । कूष्माण्डेत्यादौ यथासम्भवं गणसङ्ग्रहः । निष्पिण्डि निष्पिण्डि पेषय पेषय । अरींश्च चूर्णय चूर्णय राज्ञीयुक्तगदायुक्तो राज्ञी नामेति छान्दोग्योपनिषद्भाष्योक्तेः । कौमोदकी राज्ञीत्येकस्या एव नामनी इत्यवगमयितुं केवलं गदेत्यगददिति तात्पर्यं ज्ञेयम् ॥ २४ ॥

चट्टी

अशनिवत्स्पर्शो येषां ते विस्फुलिङ्गा यस्यास्तस्याः सम्बोधनम् । हे गदे । त्वमजितस्य विष्णोः प्रियाऽसि । अहं च तस्य दासोऽतः कूष्माण्डादीन्निष्पिण्डि निष्पिण्डि । चूर्णय चूर्णय । अरींश्चूर्णय । सर्वत्र वीप्सा अतिशीघ्रत्वया ॥ २४ ॥

त्वं यातुधानप्रमथप्रेतमातृपिशाचविप्रग्रहघोरदृष्टीन् ।

दरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनोऽरीन् हृदयानि कम्पयन् ॥ २५ ॥

पदरत्नावली

दरेन्द्र शङ्खश्रेष्ठ यातुधानादिदृष्टिवद् घोरदृष्टिर्येषां ते तथा तान् अरीन् विद्रावये-त्यन्वयः । अनेन ‘पाञ्चजन्य निजध्वानध्वस्तपातकसञ्चय । पाहि मां पापिनं घोरं संसारार्णव-पातिनम् ॥’ इत्ययं मन्त्रः सूचितः ॥ २५ ॥

सत्यधर्म

हे दरेन्द्र पाञ्चजन्य । यातुधाना राक्षसविशेषाः, प्रमथा हरपार्षदाः, प्रेता भूतविशेषा मातरो गणदेवताः, पिशाचाः, विप्रग्रहा ब्रह्मराक्षसाः, घोरा दृष्टिर्येषां ते तान् कराललोचनान् । विप्रग्रहविशेषणं वा वालिवद्दृष्टिमात्रपातेतरबलाकर्षणशक्तियुक्त उग्रग्रहविशेषो वा । पूर्वं हृदयानि कम्पयन्सन् अरीन्विद्रावय । पलायनस्य हृदयकम्पनकारणकत्वात् । घोरा दृष्टयो येषां सर्पाणां तानितरसर्पविलक्षणानिति वा । यथोक्तमादिपर्वणि सुपर्णामृतापहरणप्रस्तावे– चक्षुर्विषौ महावीर्यौ नित्यक्रुद्धौ तरस्विनौ । तयोरेकोऽपि यं पश्येत्स तूर्णं भस्मसाद्भवेत् ॥ इति । कर्कोटको नाम सर्पो योदृष्टी विष उच्यत इत्यादेः । कृष्णपूरित इति हेतूक्तिः । अतो भीमस्वनः स्वन इत्यनेन पाञ्चजन्य निजध्वानेति मन्त्रमर्थत उज्जहारेति ज्ञेयम् ॥ २५ ॥

चट्टी

हे दरेन्द्र पाञ्चजन्य त्वं यातुधानादीन् विद्रावय । विप्रग्रहा ब्रह्मराक्षसा येऽन्ये च घोरदृष्टयस् तान् ॥ २५ ॥

त्वं तिग्मधारासिवरारिसैन्यमीशप्रयुक्तो मम छिन्धि छिन्धि ।

चक्षूंषि चर्मंञ्छतचन्द्र छादय द्विषामघं नो हर पापचक्षुषाम् ॥ २६ ॥

पदरत्नावली

मम छिन्धीति तुगागमो विकल्पेनेति वक्तव्यम् । द्विषां चक्षूंषि छादय । नोऽस्माकमघं हरेत्यन्वयः । शतचन्द्रेति चर्मणो नाम ॥ २६ ॥

सत्यधर्म

हे असिवर नन्दक तिग्मा धाराऽन्तभागो यस्य तस्य सम्बुद्धिः । पट्टिशवदुभयत्र धाराभावाच्चर्मणोऽपि स्वावनरूपार्थकार्यकारित्वान्मिलित्वोक्तिंरनयोरर्धार्धत इति ग्रन्थकृच्चातुर्यनुसन्धेया । ममारिसैन्यं छिन्धि छिन्धि । छे चेति तुको आगमशासनस्यानित्यत्वादभावः । हे चर्मन् सम्बुद्धौ नपुंसकानां नलोपो वा वाच्य इति वार्तिकान् नलोपाभावः । फलक । शतं चन्द्रा यस्योपरि तदिति वा नाम वेति ज्ञेयम् । द्विषां चक्षूंषि छादयाच्छादय । तत्र निमित्तं पापचक्षुषामिति । नोऽघं च हर ॥२६॥

चट्टी

तिग्मा धारा यस्य हे तिग्मधार असिवर खड्गश्रेष्ठ ममारिसैन्यं छिन्धि छिन्धि । शतं चन्द्राकाराणि मण्डलानि यस्मिन् हे शतचन्द्र चर्मन् । द्विषतां चक्षूंषि छादय । नोऽस्माकमघं हरेत्यन्वयः । अत्र चक्राद्यायुधेषु स्थितश्चक्रादिनामको भगवानपि ग्राह्यः । तस्यैव तत्र तत्र स्थितत्वा-त्तत्तच्छक्त्युद्बोधकत्वेन मुख्यतः फलदातृत्वात् ॥ तदुक्तं– ‘‘चक्रं चङ्क्रमणाद्विष्णुर्वर्जनाद्वज्र उच्यते । खण्डनात्खड्ग इत्युक्तो हेति नामा स्वयं हरिः ॥ तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तीः प्रबोधयन् । एक एव महाशक्तिः कुरुते सर्वमञ्जसा’’ ॥ इति च ॥ २६ ॥

यं नो भयं ग्रहेभ्योऽभूत् केतुभ्यो नृभ्य एव च ।

सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योऽघेभ्य एव च ॥ २७ ॥

सर्वाण्येतानि भगवन्नामरूपास्त्रकीर्तनात् ।

प्रयान्तु सङ्क्षयं सद्यो येऽन्ये श्रेयःप्रतीपकाः ॥ २८ ॥

गरुडो भगवांस्तोत्रस्तो१मच्छन्दोमयः प्रभुः ।

रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ॥ २९ ॥

पदरत्नावली

केतुभ्य इत्यनेन उल्कापाता गृह्यन्ते । केतोर्ग्रहेभ्य इत्यनेन गतार्थत्वात् । अघेभ्यो व्यसनेभ्यः ॥ श्रेयःपतीपकाः श्रेयोविरोधिनस् ते चासुराः ॥ स्तोत्राणां स्तोमः समूहः स्तोत्रस्तोमस् तल्लक्षणं छन्दः सामवेदः । तन्मयस्तत्प्रधान इत्यर्थः । भगवान् पूज्यः विष्वक् सर्वत्र सेना यस्य स तथा । स्वस्य स्वामिनो नामभिः । विश्वक्सेनश्च हरेर्निवेदिताशनः ॥ २७-२९ ॥

सत्यधर्म

ग्रहेभ्यः पूतनादिभ्यः सूर्यादिभ्यो रणोद्योगेभ्य इति वा । ‘‘ग्रहो रणोद्यमे सूर्यपूतनादौ च’’ इति विश्वः । उत्पातेभ्यः केतुभ्यस्ते च ग्रहकृताः । ‘‘केतुर्ग्रहोत्पात’’ इति विश्वः । नृभ्यो दुर्वानृभ्योऽनृभ्यो राक्षसेभ्य इति वा । सभाराजामनुष्येति सूत्रवृत्तावमनुष्यशब्दो रक्षःपिशाचादीना-हेत्युक्तेः । सरीसृपेभ्यो सर्पेभ्यः द्रंष्ट्रिभ्यो वनवराहेभ्यः । वराहः सूकरो दंष्ट्री घोणीस्तब्धरोमेत्यमरः । शिखादिः । अधेभ्यः पापेभ्यः पापिभ्योर्वा ये चान्ये अस्मदनूहिताहितावहाः श्रेयो मङ्गलं प्रतीपका विरोधिन इति सर्वाण्येतानि क्षयं नाशं सद्यः प्रयान्तु । स्तोत्रस्तोभेति स्तोमेति च पाठौ शुशुभाते । स्तोत्राणि सामभागविशेषः स्तोभाणीति गीतिपूरकाक्षराणि स्तोमो हि सङ्घः । एतदात्मकं छन्दो वेदस्तन्मयस्तद्देवः । वाय्वनन्तरं शिवादय इति ऋग्भाष्यगीतातात्पर्याद्युक्तेः । छन्दोमयेन गरुडेनेत्यष्टमे चोक्तेः । सुपर्णोऽसि गरुत्मानित्यादेर्वेदवेद्य इति स्वनामभिः स्वस्वामिनामभिः स्वाख्यो भाव इति गीताभाष्यप्रमेयदीपिकायाम् । नन्वेवमपि स्वशब्दस्यात्मीयार्थत्वादीश्वरप्रसक्तिः । मैवम् । द्विष्ठो यद्यपि सम्बन्धः । षष्ठ्युत्पत्तिः प्रधानत इति वचनात्तस्यात्मीयत्वाभावात् षष्ठ्यन्तात्खल्वयं छ इत्युक्तेर्गरुडस्यैवं समासे प्राधान्यं प्रसक्तमिति चेन्न । मम स्वामीत्यादिवत्सम्बन्धसामान्यषष्ठ्याश्रयणे प्रतीतप्राधान्यस्य तद्वाहनत्वादिनोपहतेरस्यापि सम्भवात् । स्वनामभिः क्षितिपादिनामभिर्वा स्वशब्दवाच्यस्येति वा । विष्वक् सर्वत्र सेनः स्वामिसहितः । अशेषकृच्छ्रेभ्यः समस्तपापेभ्यस् तापेभ्यो वा । कृच्छ्रं कष्टसन्ता-पेत्यादिविश्वः । शेषादिकृतकृच्छ्राद्रक्षणं स्वतः विनाऽर्थनां पक्षिव्यापार एवात इतरकृच्छ्ररक्षणं प्रार्थनीय-मिति व्यास एवं विन्यासेन ध्वनयामासेत्यवधेयम् । ‘‘तत्पक्षवातस्पर्शाद्धि केवलं विनष्ट एषां स उरङ्गबन्धः’’ इति श्रीमदुक्तेः ॥ २७–२९ ॥

चट्टी

यद्येभ्यो भयं नोऽस्माकं माभूत् । एतानि सर्वाणि भगवन्नामरूपास्त्रकीर्तनात् । सद्यः संक्षयं प्रयांत्वित्यन्वयः । येभ्य इत्यस्यैव विवरणं ग्रहेभ्य इत्यादि । ग्रहेभ्यः केतुभ्य उत्पातेभ्यः । ‘‘केतुर्द्युतौ पताकायां ग्रहोत्पातलक्ष्मसु’’ इत्यभिधानात् । भूतेभ्य इतरप्राणिभ्यः । अघेभ्यः पापेभ्यः श्रेयःप्रतीपका इष्टविघातकाः । स्तोत्राणि बृहद्रथन्तरादीनि । स्तोमः सामाधारभूतो ऋक् स्तोमः । छन्दांसि वेदास्तन्मयस्तत्प्रतिपाद्यस्तदभिमानी च । विष्वक्सेनो नाम भगवत्पार्षदः स्वनामभिः स्वान्तर्यामिणो हरेर्नामभिरनुस्मृतैर्निमित्तेन सर्वापद्भ्यो रक्षतु ॥ २७–२९ ॥

सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः ।

बुद्धीन्द्रियमनःप्राणान् पान्तु पार्षदभूषणाः ॥ ३० ॥

पदरत्नावली

यानं रथः । पार्षदाश्च भूषणाश्च पार्षदभूषणाः । भूषणानामपि ज्ञानाश्रयत्वज्ञापनाय पुलिङ्गप्रयोगः । ‘तत्कण्ठगं कौस्तुभमास धाता’ इत्यादेः ॥ ३० ॥

सत्यधर्म

नामानि नारायणादीनि रूपाणि मत्स्यादीनि यानं गरुडः । यानं गतौ वाहनेऽपीति विश्वः । आयुधानि चक्रादीनि । पार्षदभूषणाः । भूष्यन्ते एभिरिति करणे ल्युटि कोऽसावनुमानो नामेति महाभाष्योक्तेस्त्रिलिङ्गो भूषणशब्द इति । भूषणा भूषयन्तीति ण्यासश्रन्थेति युचि बहवः कर्मकारणाः सन्तीति गीताभाष्याद्युक्तेः स्त्रीलिङ्गतया वा सम्भवात् । विस्तृतं चैतदयनशब्दोऽधिकरणे त्रिलिङ्ग इति पुंलिङ्गोपपत्तिः । नन्वत्र प्रमाणशब्दो भावसाधनः करणसाधनो वा । आद्येऽपि पिपीलिकालिपिः प्रमाणमिति सामानाधिकरण्यं न स्यात् । द्वितीयेतु प्रमाणीति भवितव्यमित्यादिप्रस्थानद्वये सुधायामनुसन्धेयम् । (यद्यपि धमण्डार्थेभ्यश्चेति पुंस्येव युज्विहितस्तथाऽपि धत्ते शक्तीरिति शक्तिपदमेवं व्याख्यातमित्यदोषः ।) पार्षदसहपाठाद्भूषणा इति निर्देशाच्च चेतनतेवाऽभिमानिस्त्रीपुंसकत्वं च ध्वन्यते । रमैव बहुरूपिणी । ‘‘तत्कण्ठगं कौस्तुभमास धाता’’ इत्यादेः ॥ ३० ॥

चट्टी

हरेर्नामानि रूपाणि च यानानि वाहनानि च पार्षदभूषणाः पार्षदमुख्याः । पार्षदाश्च भूषणाश्चेति वा । लिङ्गव्यत्ययश् छान्दसः । नो बुध्द्यादीन्पान्तु ॥ ३० ॥

यथा हि भगवानेव वस्तुतः सदसच्च यत् ।

सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥ ३१ ॥

तात्पर्यम्

**यथा हि भगवानेव– ‘‘सदसन्नियामकतया सदसद्रूप उच्यते । सत्येनानेन मां देवः पातु विष्णुश्चतुर्भुजः ॥’’ इति च । **

‘एक एव परो विष्णुर्भूषाहेतिध्वजेष्वजः । तत्तच्छक्तिप्रदत्वेन स्वयमेव व्यवस्थितः । सत्येनानेन मां देवः पातु सर्वेश्वरो हरिः’ इति च ॥ ३१ ॥

पदरत्नावली

‘सर्वं खल्विदं ब्रह्म’ इति श्रुतेर् भगवानेव यत् सदसद्वस्तु वस्तुतस्तन्नियामकतया तद्रूप उच्यत इति यथा सत्यं, ‘तत्सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सच्च त्यच्चाभवत्’ इति श्रुति-विहितत्वात् (अनेन)अव्यभिचरितेन सत्येन । ‘द्रव्यं कर्म च कालश्च स्वाभावो जीव एव च’ इत्यादि-वाक्यं चशब्दगृहीतम् । एवशब्देन ‘सत्येनानेन मां देवः पातुं विष्णुश्चतुर्भुजः’ इति स्मारयति ॥ ३१ ॥

सत्यधर्म

यथा हि भगवानेवेति श्लोके भगवान्यथा स्वयं स्वाभिन्नस्तथेदं सदसद्वस्तुतो न तद्भिन्नमस्तीत्यन्यथाप्रतीतिं श्लथयितुं स्वयमनूद्य किञ्चित्प्रमाणेन व्याकरोति ॥ यथा हि भगवानेवेति । सदसन्नियामकतया मूर्तामूर्तजगन्नियामकतया । ‘‘मूर्तं सदिति सम्प्रोक्तममूर्तमसदुच्यते’’ इत्युक्तेः । कार्यकारणात्मप्रपञ्चो वा सदसद्रूप उच्यतेऽच्युतो न तु तत्ताद्रूप्येण । अनेनैवंविधेन सत्येन वचनेन तुष्टश्चतुर्भुजो विष्णुः सत्येन भुजमुद्धृत्य शपथेनेति वा । ‘‘सत्यं तु शपथे तथ्ये’’ इति विश्वः । ‘‘सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते । वेदशास्त्रात्परं नास्ति न दैवं केशवात्परम्’’ इत्यादेः । शपथकरणे तव भुज भञ्जनं भवेदिति ध्वनिताक्षेपस्य यतश्चतुर्भुजोऽतो मम तथा न कुर्यादिति ध्वनितोत्तरं ज्ञेयम् । यथा स्ववच्चतुर्भुजो मुक्तः सन्साररूप्यभाग्भवेयं तथा मां पात्विति वा मूलयोजनाऽपि भावनीया । अथ मूलार्थः । वस्तुतो भावप्रधानो वस्तुत्वतः शक्तत्वात् । ‘‘अवस्त्वशक्तमुद्दिष्टं शक्तं वस्त्विति भण्यते । तस्मादेकं परं ब्रह्म वस्तुशब्दोदितं सदा ॥’’ इत्येकादशतात्पर्त्ये । ‘‘वस्त्वप्रतिहतं नित्यम् । स्कान्दे च । वासनाद्वसनाद्वस्तु नित्याप्रतिहतत्वतः । वासनेदं यतस्तुन्नमतस्तद्ब्रह्म शब्द्यते ॥’’ इति प्रथमतात्पर्ये चोक्तेः । तन्नियमनसमर्थत्वादिति यावत् । एतेन तन्नियामकतयेति मानीयव्याख्यामूलं वस्तुत इति मूलपदमिति ज्ञापितं भवति । अनेन सत्येन सर्वे उपद्रवा नाशं यान्तु भगवानेव यथा वस्तुतो वस्तु पारमार्थिकसत्यः । तथा सदसदपि वस्तु पारमार्थिकमिति मूलयोजनापि मननीया ।

‘‘भूषणायुधलिङ्गाख्या धत्ते शक्तिः’’ इति श्लोके भूषणादिपदाभिधेयत्वमात्रं भगवतोऽभिधीयत इति तच्चोपचारेणेत्यन्यथाप्रतीतिमन्यथयितुं मानाभिमानेनैवाभिधानेनैव तत्तात्पर्यमाह– एक एवेति । एको मुख्योऽद्वितीयो वाऽज उत्पत्तिरहितः परो भिन्न उत्तमश्च भूषा भूषणं हेतिरायुधं ध्वजाश्च पताका लिङ्गं चिन्हम् । ‘‘लिङ्गं चिन्हेऽनुमाने च’’ इति विश्वः । तेषु तत्तच्छक्तिरूपेण तास्ताश्च शक्तयो येन तत्तथा तच्च तत्स्वरूपं च तेन तत्तत्सत्तादिदातृतया तत्र स्वयमेव व्यवस्थितः । अतोऽयं भूषणायुधलिङ्गाख्या शक्तीर्धत्ते । प्रामाणिकध्वजपदव्याख्येयं लिङ्गपदं मूल इति ज्ञेयम् । अनेन सत्येन सर्वेश्वरो हरिः पात्वित्यन्वयः । अर्थस्तु पूर्व एव ॥ ३१ ॥

चट्टी

यथा सदसच्च मूर्त्तं चामूर्त्तं च यत्तत्सर्वं जगत् । वस्तुतः पारमार्थेन भगवानेव भगव-न्नियम्यमेव । तथैव ज्ञातेन सत्येन कारणेनोपद्रवा नाशं यांत्वित्यर्थः ॥ तदुक्तं ‘‘सदसन्नियामकतया सदसद्रूप उच्यते । सत्येनानेन मां देवः पातु विष्णुश्चतुर्भुजः’’ ॥ इति व्याख्यातश्चैतत्समानन्यायो ‘‘रथेश्वरश्च जीवश्च सत्यभेदौ परस्परम् । तेन सत्येन मां देवास्त्रायन्तु सह केशवाः’’ ॥ इति भाष्योदाहृतश्लोके जयतीर्थचरणैः । यथा सत्यभेदौ तथैव ज्ञातेन तेन सत्येन कारणेनेति ॥ ३१ ॥

यथैकात्म्यानुभावेन विकल्परहितः स्वयम् ।

भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया ॥ ३२ ॥

पदरत्नावली

भूषणादीनामचेतनत्वेन चेतनवत् प्रार्थितदातृत्वं कथमित्याशङ्क्य तेषु हरे-स्तत्तत्कार्यक्षमशक्तिस्वरूपेणावस्थानं यथा सत्यं तेन सत्येन हरिः पात्वित्याह– यथेति ॥ ऐकात्म्यानु-भावेन तत्तद्वस्तुस्थितरूपाणामेकत्वापरोक्षज्ञानेन । विकल्परहितः स्वगतभेदवर्जितोऽपि । स्वमायया स्वरूपसामर्थ्येन स्वयमेव भूषणादिसंज्ञाः स्वाधीनत्वाच्छक्तिशब्दवाच्या धत्त इति यथा यत् सत्यं तेन सत्यमानेन सत्याख्यप्रमाणेन यथार्थेन । सर्वज्ञत्वमपि सत्यत्वे प्रमाणमिति द्योतनाय विशेषणीकृतम्

॥ ३२ ॥

सत्यधर्म

तर्हि तत्तत्स्थानस्थितस्य भेदः स्यादित्यतो नेत्याह ॥ यथेति । ऐकात्म्यानुभावेन तत्तद्वस्तुस्थितरूपाणामेकत्वानुसन्धानेन स्वयं च विकल्परहितः स्वगतभेदवर्जितः स्वमायया स्वेच्छया स्वरूपशक्त्या । निजेत्याद्यनभिधानेनाभिधानेन च स्वमाययेति सु अत्यन्तं न विद्यते माया यस्यामित्यर्थमनायासेन सूचयति । न स्थानतोऽपीत्यादिसिद्धोऽयमर्थः । ऐकात्म्यानुभावेनैकस्वाम्यप्रभावेन वा निश्चयेन वा । ‘‘अनुभावः प्रभावे स्यान्निश्चय’’ इति विश्वः । ऐकात्म्यं तादात्म्यम् । तद्ज्ञानि-नामनिपुणताभिधानात् । तथा हि तत्त्वनिर्णयमूलटीकयोः । ऐकात्म्यं नाम यदिदं केचिद्ब्रूयुरनैपुणा इत्यारभ्य तेषां तमः शरीराणां तम एव परायणमित्यन्तेन ॥ ऐकात्म्यमिति । एकश्चासावात्मा च तस्य भाव ऐकात्म्यं सर्वात्मना ब्रह्मैक्यमिति यावत् । यदैकात्म्यं नामेदमनैपुणा अविद्यमाननैपुणाः केचिद्ब्रूयुरित्यादिना । ‘‘विकल्परहितो निर्भ्रमः । विकल्पो भ्रान्तिपक्षयोः’’ इति विश्वः । यथा सम्यगिति वा ॥ ३२ ॥

चट्टी

हरिः स्वयं विकल्परहितः स्वगतभेदशून्योऽप्यैकात्म्यानुभावेन एकश्चात्मा च एकात्मा मुख्यः स्वतन्त्रस्तस्य भाव ऐकात्म्यं तदेवानुभावः । तेन मुख्यतन्त्रत्वादिति यावत् । स्वमायया स्वेच्छयैव । भूषणायुधलिङ्गाख्या भूषणादिष्वभिव्यक्तत्वात्तच्छब्दवाच्याः शक्ती रूपाणि धत्ते ॥ ३२ ॥

तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः ।

पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥ ३३ ॥

पदरत्नावली

न केवलमायुधादिष्वेवसन्निहितत्वम्, किन्तु सर्वत्रापीति भावेनाह– सर्वैरिति ॥ ‘एक एव परो विष्णुर्भूषाहेतिध्वजेष्वजः । तत्तच्छक्तिस्वरूपेण स्वयमेव व्यवस्थितः । सत्येनानेन मां देवः पातु सर्वेश्वरो हरिः ॥’ इत्यतो भूषणादिषु विशेषतः सन्निहितत्वादुच्यत इति ज्ञातव्यम् ॥ ३३ ॥

सत्यधर्म

तेनैव सत्यमानेन तदाख्यप्रमाणेन सत्यमानेन मदीयशपथज्ञानेन । को वक्ता तस्येत्यतो वक्ति ॥ सर्वज्ञ इति ॥ सर्वगः सर्वैःस्वरुपैराविष्टानाविष्टरूपैर्नः सदा सर्वदा सर्वत्र देशसामान्ये पातु ॥ न केवलमत्रोक्तायुधादिमात्रमवस्थितः किन्तु सर्वग इति सर्वाख्या शक्तीश्च धत्ते । सर्वत्रसर्वग इति पदमेकं वा । सर्वांस्त्रायत इति स तथा स चासौ सर्वगश्चेति सः । ‘‘पद्मशङ्खाम्बरादि च’’ किरीट-कटकाद्या येऽप्यलङ्कारा मम श्रिय इत्याद्याः सत्त्वरूपाः स्युः । नित्यानादय एवते । चक्रादीन्यायुधानि च । रजो रागेण तेषु स्यात्काले काले प्रदीयते । स्वभावाद्विविधाकार’’ इत्यादिविष्णुरहस्योक्ते-रायुधादयश्चेतनाः शुद्धसात्त्विका वा । भूषणानि द्विधेत्याचार्यवचनतो सन्तीति ज्ञेयम् । केचि-त्साम्प्रदायिकाः स्वरूपभूतानीश्वरस्यायुधानीतराणि च सन्ति । अत्र सप्तमे निजेतरायुधप्रवेक-विद्रावितदैत्यदानवमित्याद्युक्तेरिति वदन्ति ॥ ३३ ॥

चट्टी

तेन तत्प्रकारविषयकेण सत्यमानेन यथार्थज्ञाननिमित्तेन सर्वगः सर्वज्ञश्च भगवान् सर्वस्वरूपैः सदा सर्वेषु कालेषु सर्वत्र देशेषु नः पात्वित्यन्वयः । अनेन भूषणादीनां जडत्वात्फलदाना-नुपपत्तेस्तत्प्रार्थनं व्यर्थमिति शङ्का परास्ता ॥ तदुक्तम्– ‘‘एक एव परो विष्णुर्भूषाहेतिध्वजेष्वजः । तत्तच्छक्तिप्रदत्त्वेन स्वयमेव व्यवस्थितः । सत्येनानेन मां देवः पातु सर्वेश्वरो हरिः’’ इति ॥ ३३ ॥

विदिक्षु दिक्षूर्ध्वमधः समन्तादन्तर्बहिर्भगवान् नारसिंहः ।

प्रहापयल्लोकभयं स्वनेन स्वतेजसा ग्रस्तसमस्ततेजाः ॥ ३४ ॥

पदरत्नावली

मूलरूपस्य सर्वगतत्वं नावतारस्येति शङ्कां परिहरन् सर्वगतत्वं यथा सत्यं तेन सत्येन तथा नारसिंहः पात्विति तात्पर्याद् विशिष्याह– विदिक्ष्विति ॥ प्रहापयन्निति स्वार्थे णिच् । परिहरन्नित्यर्थः । स्वतेजसा ग्रस्तानि अभिभूतानि समस्तानि तेजांसि सूर्यादीनि येन स तथा ॥ ३४ ॥

सत्यधर्म

हरेरपीतरजनवज्जननादिमत्त्वेन स्वाम्यं साम्यं भजते । किञ्च स्थानाख्यानरूपवैचित्र्ये तदवैचित्र्यं कथं सम्भावितमिति संशयं व्यंसयन् स्तम्भवन्नृसिंहादिकमन्यच्च दुरितादिनिवृत्तय इत्यादि-नाऽर्थनीयत्वेन विहितमेतदनुगुणगुणकं श्रीनारसिंहमर्हणीयत्वेनाह ॥ विदिक्ष्विति । यो भगवान्स्वतेजसा स्वप्रभया ग्रस्तसमस्ततेजा ग्रस्तान्यन्तर्गमितानि समस्तानां गभस्तिमदादीनां तेजांसि येन सः। लोकभयं भूतभीतिं स्वनेन करणेन प्रहापयन् । हेतुमण्णिच् । विदिक्ष्वादिग्रहणेन सर्वग इति विवृतम् । अनेन सत्येत्यादिकमादिवन्मां पात्वित्यन्वयः ॥ ३४ ॥

चट्टी

दुर्गेष्विति श्लोके प्रार्थितोऽपि श्रीनृसिंहोऽखिलदुरितपटुपाटनपटुत्वात् पुनरपि प्रार्थ्यते ॥ विदिक्ष्विति । पात्वित्यनुषङ्गः ॥ प्रहापयन्निति । स्वार्थिको णिच् । परिहरदित्यर्थः । स्वतेजसा ग्रस्तानि अभिभूतानि समस्तानि तेजांसि सूर्यादीनि यस्य स तथा ॥ ३४ ॥

मघवन्निदमाख्यातं वर्म नारायणात्मकम् ।

विजेष्यस्यञ्जसा येन दंशितोऽसुरयूथपान् ॥ ३५ ॥

पदरत्नावली

मघवन् धनवान् । दंशितः कवचितः ॥ ३५ ॥

सत्यधर्म

मघवन् धनवन् यज्ञादिमन्निति वा यशस्विन्निति वा । हे मघवन् यशस्विन् धनवान् मघपत इति वा । तं वा एतं मखवन्तं सन्तं मघवानित्याचक्षते । परोक्षेण परोक्षप्रिया इव हि वै देवाः प्रत्यक्षद्विषः । तेभिरिन्द्र चोदय दातवे मघम् । तन्न आयातु मघाय मघमनु प्रायत्सि आमामेतु मघम्’’ इत्यादिश्रुतिभ्यः । पत इति मतुबर्थस्य सम्बन्धस्य विवरणं तृतीयोऽतिशय इति खकारस्य घकार इति कर्मनिर्णयभाष्यटीकोक्तेः । येन यच्छब्देन यदा वर्मणः परामर्शस्तदा विशिष्टवाचकनीत्या दंशितशब्दः सम्बन्धार्थकः । यदि नारायणात्मकमित्युक्तैतन्मात्रपरामर्शकस्तदा दंशितो वर्मितेऽपि चेति विश्वा-न्नारायणात्मकेन दंशितस्तदभिन्नकवचावृत इत्यर्थक इति विवेकः ॥ ३५ ॥

चट्टी

दंशितः कवचितः ॥ ३५ ॥

एतद् धारयमाणस्तु यो यः पश्यति चक्षुषा ।

पदा वा संस्पृशेत् सद्यः साध्वसात् स विमुच्यते ॥ ३६ ॥

तात्पर्यम्

‘गुरुशिष्ययोरयोग्यत्वाद्गुरुवृत्तेरपूर्तितः । अप्रसादाद्गुरोर्विद्या न तथोक्तफलप्रदा’ इति च ॥ ‘विद्याः कर्माणि च सदा गुरोः प्राप्ताः फलप्रदाः । अन्यथा नैव फलदाः प्रसन्नोक्ताः फलप्रदाः’ इति च तन्त्रसारे ॥ ४३ ॥

पदरत्नावली

साध्वसाद् भयात् ॥ ३६ ॥

सत्यधर्म

एतद्धारयमाण इति श्लोकोक्त्यैतद्विद्याधारणफलस्य प्रायेणैतद्धारणेऽप्यनुप-लम्भा-द्विश्वसनीयं कथमिदमित्यतोऽन्वयव्यतिरेकाभ्यामुपाध्यन्तरायत्तकार्यकारणभावो व्यभिचारः क्वचिदिति प्रतिपादयता मानेनैव शङ्किनारङ्कीकरोति ॥ गुरुशिष्ययोरिति । गुरुशिष्ययोरयोग्यत्वाद्व्यभिचारा-द्यनाचाराद्गुरुवृत्तेर्गुरोर्वृत्तेः । गुरोर्वृत्तेः सेवाया इति वोभयोर्ग्रहणम् । गुरोरप्रसादादप्रसादनादित्यप्यर्थः । विद्या गुरूपदिष्टा तथोक्तफलप्रदा न भवति । विद्या कर्माणि इत्येते गुरोः प्राप्ताः प्रसादपूर्विकाप्तिः प्राप्तिपदार्थः । गुरोर्योग्यात् । अन्यथोभयत्रान्यतरस्मिंश्च योग्यताभावेनैव फलदाः । प्रसन्नोक्ताः प्रसन्नेन प्रसन्नं समाहितमानसं प्रत्युक्ता इत्यर्थः । ‘‘प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठति’’ इत्यादेः फलप्रदाः । उक्तं चारणब्राह्मणे ‘‘नैवं विदुषायान्तेवासिनावन्योन्यस्मै द्रुह्यानां यो द्रुह्यति भ्रश्यते स्वर्गाल्लोकात्’’ इति । ततश्चायं श्लोकार्थः ॥ एतत्कवचं यो यः स स इत्युत्तरत्र ज्ञेयम् । साध्वसाद्भयात् ॥ ३६ ॥

चट्टी

सोऽपि साध्वसाद्भयाद्विमुच्यते ॥ ३६ ॥

न कुतश्चिद् भयं तस्य विद्यां धारयतो भवेत् ।

राजदस्युग्रहादिभ्यो व्याध्यादिभ्यश्च कर्हिचित् ॥ ३७ ॥

सत्यधर्म

राजदस्य्वादिभ्य इत्यादिभ्यः कुतश्चिदित्यन्वयः । अथवा प्रेक्षोत्प्रेक्षितात्कुतश्चिदन्य-स्मादित्यर्थः ॥ ३७ ॥

चट्टी

तस्य तु भयं न भवेदेव ॥ ३७ ॥

इमां विद्यां पुरा कश्चित् कौशिको धारयन् द्विजः ।

योगधारणया स्वाङ्गं जहौ स मरुधन्वनि ॥ ३८ ॥

पदरत्नावली

कौशिकः कुशिकगोत्रे विद्यमानः । योगधारणया योगाभ्यासेन । मरुधन्वनि निर्जलप्रदेशे ॥ ३८ ॥

सत्यधर्म

इयं विद्या सर्वथा सम्पाद्येति धियमुपजनयितुमाख्यायिकामाख्याति ॥ इमामि-त्यादिना । कौशिकः कुशिकगोत्रभवः मरुधन्वनि । समानौ मरुधन्वानावित्यमरव्याख्यायां म्रियन्ते भूतानीति भृ मृ शीत्युः । धविर्गत्यर्थः । युवृषीति कनिन् । इति व्याख्याय मरुर्ना गिरिधन्वनोः । ‘‘धन्वा तु मरुदेशे ना क्लीबे चापि स्थलेऽपि च’’ इत्यभिधानान्निर्जलाचलप्रदेशो वा तादृशस्थलं वेति ज्ञेयम् । अनेनैतन्मन्त्रतनुत्रवतो न क्षेत्रापेक्षा तस्यैव स्वधारकजनद्वारा पवित्रीकरणस्वरससुन्दरतामभि-प्रैति । योगारूढस्य नीरनैरपेक्ष्यादिति भावः । यद्वा प्राक् स देशो मरुरनन्तरं मुनिवासतो जलकलित आसीदिति तात्पर्यं ज्ञेयम् । अन्यथाऽतथाभूतं भवेन्मनुमाहात्म्यवर्णनमिति ज्ञेयम् । न चास्थ्नां तथैवावस्थानस्य वक्ष्यमाणत्वान्नीरसामान्याभावो न्याय्य इति वाच्यम् । एतस्यैकान्तिकत्वेन प्रक्षेप्तुः प्रेक्षकस्याभावेन वा महानदीतीरत्वाभावेन वा तस्यान्यथयितुं शक्यत्वात् । मरुधन्वनीमां विद्यां धारयन् द्विजो योगधारणया स्वाङ्गं जहावित्यन्वयः ॥ ३८ ॥

चट्टी

एतद्विद्याप्रभावमितिहासेनाह ॥ इमामिति सार्धैस्त्रिभिः । कौशिकः कुशिकगोत्रे उत्पन्नः । योगधारणया योगाभ्यासेन । मरुधन्वनि निरुदके देशे । अनेन विद्यायाः क्षेत्रतीर्थानपेक्षत्वं दर्शितम्

॥ ३८ ॥

तस्योपरि विमानेन गन्धर्वपतिरेकदा ।

ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः ॥ ३९ ॥

पदरत्नावली

द्विजक्षयः द्विजमरणम् ॥ ३९ ॥

सत्यधर्म –यत्र द्विजक्षयस्तस्य स्थलस्योपरि ॥ ३९ ॥

चट्टी

यत्र द्विजस्य क्षयो देहत्यागस् तस्योपरि ॥ ३९ ॥

साङ्गनो न्यपतत् सद्यः सविमानो ह्यवाक्शिराः ।

विद्यामिमां धारयतो मृतस्यास्थिविलङ्घनात्१ ॥ ४० ॥

सत्यधर्म

साङ्गनः सयोषित्कोऽवाक्शिरा विना नमनं गमनादेवंपातो न्यायायात इति भावः । विद्यामिमां धारयतो मृतस्यास्थिविलङ्घनादिति प्रक्षिप्तमिति प्रेक्षावन्तः । यत्र द्विजक्षयस्तस्योपरी-तीरणादुपर्येवमवक्तव्यत्वाच्चेति न व्याख्यातम् ॥ ४० ॥

चट्टी

सद्यस्तत्क्षणमेव साङ्गनोऽङ्गनाभिः सहितः सन् । गगनान्न्यपतत् ॥ ४० ॥

स वालखिल्यवचनादस्थीन्यादाय विस्मितः ।

प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् ॥ ४१ ॥

पदरत्नावली

प्रास्य निरस्य ॥ ४१ ॥

सत्यधर्म

वालखिल्यवचनादित्यनेन चित्ररथकृतप्रश्नो वालखिल्यैरेतेनेदृशी दशा जाताऽतोऽ-स्थीनि सुस्थाने क्षिपतस्तव दुरवस्था दूरीभवतीति तदुत्तरं चोद्यमिति सूचयति । विस्मितोऽहो एतन्माहात्म्यं यदस्थ्नामपि शक्तिरियमिति विस्मयः । प्राचीसरस्वत्यां प्रास्य क्षिप्त्वा स्वं धाम स्वगृहं नष्टमेतदेनसा तेजो वा । तेजः स्वरूपं च गृहं प्राज्ञैर्धामेति गीयत इत्युक्तेः । स्नानं च नास्थि-संस्पर्शनायाताशुचितया किन्तु तदस्थ्नां मन्त्रपूतानां पातेन प्राचीसरस्वत्या पावित्र्यमधिकमायातमिति स्वाङ्गशौद्ध्यसम्पादनार्थमिति बोध्यम् । तीर्थीकुर्वन्ति तीर्थानीत्यादेः ॥ ४१ ॥

चट्टी

वालखिल्योपदेशात्तस्यास्थीनि प्रास्य प्रक्षिप्य विस्मितः सन् । स्वं धाम गन्धर्वलोकं जगाम ॥ ४१ ॥

य इदं शृणुयात् काले यो धारयति चादृतः ।

तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ॥ ४२ ॥

सत्यधर्म

काले विहिते यो यः शृृणुयाद्धारयति तं यः शृृणुयाद्यो धारयति तं नमस्यन्ति स सर्वतो भयान्मुच्यते सर्वतो भयात्संसृतेरिति वा ॥ ४२ ॥

चट्टी

सद्यस्तत्क्षणमेव साङ्गनोऽङ्गनाभिः सहितः सन् । गगनान्न्यपतत् । वालिखिल्योप-देशात्तस्यास्थीनि प्रास्य प्रक्षिप्य विस्मितः सन् । स्वं धाम गन्धर्वलोकं जगाम ॥ ४०–४२ ॥

एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः ।

त्रैलोक्यलक्ष्मीं बुभजे विनिर्जित्य मृधेऽसुरान् ॥ ४३ ॥

॥ इति श्रीमद्भागवते षष्ठस्कन्धेऽष्टमोऽध्यायः ॥

पदरत्नावली

एतद् धारयमाण इत्यादिना यत् फलमुच्यते तस्य कस्माद् वैलक्षण्यदर्शनमिति चेद् उच्यते । गुरुशिष्ययोर्मिथो योग्यतावैकल्याद्, योग्यत्वेऽपि नासंवत्सरवासिने प्रबूयादिति विधेर्गुरुकुल-वासापूर्त्या, गुरुप्रसादाभावेन वा, लोकोपकारादिना वा गुरोः प्राप्ता विद्या शिष्यस्य यथोक्तफलदा न स्यात् । ‘गुरुशिष्ययोरयोग्यत्वाद् गुरुवृत्तेरपूर्तितः । अप्रसादाद् गुरोर्विद्या न यथोक्तफलप्रदा ॥’ इत्युक्तेः । तर्हि गुरूपदेशमन्तरेण यथालिखितपाठादिना प्राप्ता फलदा स्यादिति चेन्न । गुरोः प्राप्तायाः फलप्रदत्वात् । ‘विद्याः कर्माणि च सदा गुरोः प्राप्ताः फलप्रदाः । अन्यथा नैव फलदाः’ इत्युक्तेः । तस्मात् प्रसन्नगुरुदत्ता यथोक्तफलदा इति मन्तव्यम् । ‘प्रसन्नोक्ताः फलप्रदाः’ इति वचनात् । अत उक्तफलसाकल्यादृष्ट्या नाश्रद्धेयमिति भावः ॥ ४३ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

षष्ठस्कन्धे अष्टमोऽध्यायः ॥

सत्यधर्म

असुरान्विनिर्जित्य त्रैलोक्यलक्ष्मीं बुभुजे भुक्तवान् ॥ ४३ ॥

॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मकृतायामष्टमोऽध्यायः ॥ ६–८ ॥

चट्टी

अधिगतः प्राप्तः सन् मृधे युद्धेऽसुरान्निर्जित्य त्रैलोक्यलक्ष्मीं बुभुजे । एतद्विद्यानुष्ठानेऽपि क्वचित्फलादर्शनमङ्गवैकल्यात् । न तु विद्याया दुर्बलत्वात् । ‘‘गुरुशिष्ययोरयोग्यत्वाद्गुरुवृत्तेरपूर्तितः । अप्रसादाद्गुरोर्विद्या न यथोक्तफलप्रदा । विद्याः कर्माणि च सदा गुरोः प्राप्ताः फलप्रदाः । अन्यथा नैव फलदाः प्रसन्नोक्ताः फलप्रदाः’’ इति ॥ ४३ ॥

॥ इति श्रीभागवतटिप्पण्यां चट्टीव्याख्यायां षष्ठस्कन्धे अष्टमोऽध्यायः ॥ ६–८ ॥