यस्य हेतोः परित्यक्ता आचार्येणात्मनः सुराः
॥ अथ सप्तमोऽध्यायः ॥
राजोवाच—
यस्य हेतोः परित्यक्ता आचार्येणात्मनः सुराः ।
एतदाचक्ष्व भगवन् शिष्याणामक्रमं गुरौ ॥ १ ॥
पदरत्नावली
‘गुरुद्वारा प्रसादकृदहं तु’ इति वचनाद् गुरुप्रसाद एव बलीयान् भक्तिज्ञानादि-समुद्रेकसिद्धये । तदभावः सद्योऽनर्थपरम्पराहेतुर् अतो ज्ञानाद्यर्थिना पुरुषेण स्वप्नेऽपि गुरुर्नावमन्तव्यः । किन्तु निरन्तरं सबहुमानं प्रसादसमृद्धये निषेवणीय इति एतस्मिन्नध्याये निरूप्यते । तत्र राजा पृच्छति– यस्येति ॥ यस्य कस्य । आत्मन आचार्येण । शिष्याणां पुत्राणाम् । अक्रममपराधम् ॥ १ ॥
सत्यधर्म
‘‘गुरुप्रसादो बलवान्’’ ‘‘गुरुद्वारा प्रसादकृत्’’ ‘‘आचार्याद्ध्येव विद्या विदिता साधिष्ठा हरौ रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन’’ इत्यादेरनादरेण देवाः, किं विना कविना तथैव तस्थुः किं वा तदनादरेण कञ्चनान्यं मान्यं वव्रिरे किं वा सान्त्वयित्वा त्वय्येव निर्भृतनैर्भर्या इति भूर्यर्थयित्वा तमेव तारां रन्तारं गृहान्ग्राहयामासुस्तदेव भक्षयामि द्वारं विदारय रमणीति रीत्या दुरूहं सन्देहं सभ्यसन्दोहस्य मन्दीकारयितुमादौ नेदं गुरुपरित्यजनं दृष्टचरं विना निदानं सञ्जाघटीतीति राजा तद्वदेति वदति ॥ राजेति । यस्य हेतोः कस्य हेतोः । द्वितीयस्कन्धीय यया सन्धायर्येदित्यादि श्लोक-व्याकृत्यवसरे श्रीमत्तात्पर्ये यच्छब्दः प्रश्ने यतश्चोदेति सूर्य इत्यादिवत् । ‘‘यच्छब्दस्तु परामर्शे प्रश्नार्थे चापि भण्यते’’ इत्यभिधानात् । ‘‘यतस्तदुदितम्’’ इत्यनुव्याख्यावसरे यतो यत्कारणम् । अन्यत्रापि तत्कस्य हेतोर्निमित्तकारणहेतुषु सर्वासां प्रायदर्शनमित्यादिसुधातद्व्याख्यानाद्यस्य हेतोरिति सम्भवति । आत्मनः स्वेषाम् । आत्मेत्येकवचनान्तात्मा सन्नपि शब्दो बहुवचनविशेषणीभूतो भवति । यत्र वर्तेत बहुवचनमात्मनामित्याद्यात्मा सोऽपि गुणाय तेन यतेत जात्येकवचनत्वादिरूपेण विवेचयितुमहङ्कारात्मने गरुडशेषरुद्रेभ्य इत्यादिप्रयोगात् । आत्मनो मनसो मनःपूर्वकमिति यावदिति वा । शिष्याणाम-क्रममित्यति मात्रं वदतश्छात्रैर्देशिकनिदेशे स्थातव्यमेव । अत इदं देवमौढ्यमेवेति प्रौढमतेः क्षितिपतेर्निगूढ आशय इत्याशयः ॥ १ ॥
चट्टी
गुर्ववज्ञाऽनर्थकरी महतामपि यतः । गुरुः संपूज्य इत्येतदध्यायेऽस्मिन्निरूप्यते । यस्य हेतोः । आचार्येणात्मनः शिष्याः सुराः परित्यक्ताः । आत्मन आचार्येणेति वा । एतदाचक्ष्व । तस्यैव विवरणमक्रममाचक्ष्वेति । अक्रममपराधम् ॥ १ ॥
श्रीशुक उवाच—
इन्द्रस्त्रिभुवनैश्वर्यमदोल्लङ्घितसत्पथः ।
मरुद्भिर्वसुभी रुद्रैरादित्यैर्ऋभुभिर्नृप ॥ २ ॥
विश्वेदेवैश्च साध्यैश्च नासत्याभ्यां परिश्रितः ।
सिद्धचारणगन्धर्वैर्मुनिभिर्ब्रह्मवादिभिः ॥ ३ ॥
विद्याधराप्सरोभिश्च किन्नरैः पतगोरगैः ।
निषेव्यमाणो भगवांस्तूयमानश्च भारत ॥ ४ ॥
पदरत्नावली
राजप्रश्नं परिहर्तुमुपक्रमते– इन्द्र इति ॥ २ ॥
सत्यधर्म
मदोल्लङ्घितेति पदमेकम् । मदो लङ्घितसत्पथ इति पाठे मदस्य सत्पथव्युदसन-हेतुताऽऽर्थिक्यनुसन्धेया । श्लोकाष्टकस्यैकान्वयः । रुद्राद्यपेक्षया मरुत्पुरस्करणं पुरतस्तत्सौमनस्य सम्पादनोपपादनानुसरणेन वैरिणोऽपि वज्री स्वाधीनानकरोदित्याद्भुत्येनैवेति ज्ञेयम् ॥ २–४ ॥
चट्टी
इन्द्रो यदा संप्राप्तं वाचस्पतिं नाभ्यनन्दितवान् । तदाऽङ्गिरसः कविः सर्वज्ञोऽङ्गिरसो बृहस्पतिस्ततो निर्गत्य तूष्णीं स्वगृहमाययावित्यष्टमेनान्वयः । अनादरे हेतुं मन्दं दर्शयितुं तं विशिनष्टि ॥ त्रिभुवनेत्यादिना । त्रिभुवनैश्वर्यमदोल्लङ्घितः सतां पन्था येन स तथा ॥ २-४ ॥
उपगीयमानो ललितमास्थानाध्यासनाश्रितः ।
पाण्डुरेणातपत्रेण चन्द्रमण्डलचारुणा ॥ ५ ॥
पदरत्नावली
आस्थानं सभा । तत्राध्यासनं सिंहासनमाश्रितः ॥ ५ ॥
सत्यधर्म
आस्थाने सुधर्मायां तत्राप्यध्यासनं सिंहासनमाश्रितः । चन्द्रमण्डलवदिति वा चन्द्रमण्डलादिति वा विग्रहः । तत्र द्वितीय एव ज्यायान् तत्कलङ्किताशङ्कातङ्कनात् ॥ ५ ॥
चट्टी
परिश्रितो ललितमिति क्रियाविशेषणम् । आस्थानं सभा तस्मिन्नध्यासनं सिंहासनं तदास्थितः ॥ ५ ॥
युक्तश्चान्यैः पारमेष्ठ्यैश्चामरव्यजनादिभिः ।
विराजमानः पौलोम्या सहार्धासनया भृशम् ॥ ६ ॥
स यदा परमाचार्यं देवानामात्मनश्च ह ।
नाभ्यनन्दत सम्प्राप्तं प्रत्युत्थानासनादिभिः ॥ ७ ॥
पदरत्नावली
पारमेष्ठ्यैः श्रेष्ठैः ॥ न अभ्यनन्दत सन्तुष्ट्या नापूजयत् ॥ ६,७ ॥
सत्यधर्म
पारमेष्ट्यैर् महाराजसम्बधिभिः । चिह्नैः सहार्धासनया सह स्वेनार्धमासनं यस्याः सा तथा वोपसर्जनस्येत्युक्ते सहेत्युक्तिर्युक्ता । नाभ्यनन्दत नान्वमोदत प्रत्युत्थानादिभिर्नार्चयामासेति यावत्
॥ ६,७ ॥
चट्टी
पारमेष्ठ्यैर्महाराजचिन्हैः । आसनार्धे स्थितया पौलोम्या सह विराजमानः । प्रत्युत्थानादिभिः । नाभ्यनन्दत न चोच्चचाल । आसन एव स्थितोऽपि किञ्चिन्न चलितवान् ॥ ६,७ ॥
वाचस्पतिं मुनिवरं सुरासुरनमस्कृतम् ।
नोच्चचालासनादिन्द्रः पश्यन्नपि समागतम् ॥ ८ ॥
पदरत्नावली
प्रत्येकशः पूजाहेतव इति द्योतनाय वाचस्पत्यादिविशेषणबाहुल्यम् ॥ ८ ॥
सत्यधर्म
पूर्वं देवानामात्मनः परमाचार्यमित्युक्तिरत्र वाचस्पतिमित्याद्युक्तिश्चैतस्मिन्नेकै-कस्मिन्सति भजनं विहितं न विहितं त्यजनं किम्वेतेषां समवायेऽतो महामोहो देवानां सर्वाभिभावकोऽहो इति द्योतनार्थेति मन्तव्यम् । पश्यन्नपीत्यपिनाऽमरेशस्यापि दशेदृशीति गर्हणार्हणं चकारेति ज्ञेयम् । यदप्यसुरनमस्कृतमिति तेन समयोचितसमबुद्धित्वं द्योत्यते । षष्ठ्याः पतिपुत्रेति सत्त्वविधानात् षष्ठ्या अलुक् । ‘‘जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः’’ इत्यमरः ॥ ८ ॥
चट्टी
एकैकमपि पूज्यत्वे हेतुरिति ज्ञापनाय वाचस्पतिमित्यादिविशेषणबाहुल्यम् ॥ ८ ॥
ततो निर्गत्य सहसा कविराङ्गिरसः प्रभुः ।
आययौ स्वगृहं तूष्णीं विद्वांच्छ्रीमदविक्रियाम् ॥ ९ ॥
पदरत्नावली
श्रीनिमित्तमदस्य विक्रियां विकारम् ॥ ९ ॥
सत्यधर्म
आङ्गिरसोऽङ्गिरसः पुत्रो निरन्नः खिन्नः स्वयमेवोपेयादिति नेत्याह ॥ प्रभुरिति । विद्वान् श्रीमदविक्रियामित्यनेन नेयं क्रिया स्वाभाविकी समयान्तरे समयादपनीयत इति हृदये दधाविति तद्धृदयं ध्वन्यते । श्रीमदविक्रियां श्रीमतोऽप्यविक्रियां भाविनीं विद्वानित्यप्यावर्तितस्यार्थो बोध्यः ॥९॥
चट्टी
श्रीमदेन या विक्रिया विकारस्तां विद्वान् जानन् ॥ ९ ॥
तर्ह्येव प्रतिबुध्येन्द्रो गुरुहेलनमात्मनः ।
गर्हयामास सदसि स्वयमात्मानमात्मना ॥ १० ॥
पदरत्नावली
तर्ह्येव तदानीमेव गुरोर्हेलनम् अवज्ञानम् ॥ १० ॥
सत्यधर्म
यर्हि गुरुर्गतस्तर्ह्येव तत्क्षण एवात्मनो गुरुहेलनं तदवज्ञानं प्रतिबुद्ध्यानुसृत्य । आत्मना स्वेन मनसा वा । सदसि यत्रावमानितो गुरुस्तत्रैव स्वावमाननेनापणवीथ्यां पादेन पोथयि-त्वैकान्ते चरणधारणदुर्नीतिर्नानुनीतेन्द्रेणेति परोक्षतः श्रुत्वा दयां तनुयादिति पाकशासनमानसमिति ध्यनयति ॥ १० ॥
चट्टी
हेलनमवज्ञाम् । प्रतिबुध्यानुस्मृत्य ॥ १० ॥
अहो बत मयाऽसाधु कृतं वै दभ्रबुद्धिना ।
यन्मयैश्वर्यमत्तेन गुरुः सदसि कात्कृतः ॥ ११ ॥
पदरत्नावली
सदसीत्यनेनावज्ञानस्य उद्रेकतामाह । दभ्रबुद्धिना अल्पबुद्धिना । कात्कृतः धिक्कृतः ॥ ११ ॥
सत्यधर्म
दभ्रबुद्धिना तनुमनीषेण । ‘‘दभ्रं कृशं तनु’’ इत्यमरः । मयैश्वर्यमत्तेन गुरुः कात्कृतो यत्ततो मयाऽसाधु कृतमतो न मयाऽतिरेकः । यद्वा यन्मयैश्वर्यमत्तेनेति पदमेकम् । यो मयः प्रधानो यस्य तच्च तदैश्वर्यं च तेन मत्तेन यत्स्वामिकैश्वर्ये मत्स्वामिकमिति मदवगतेत्यर्थः । वै इति यदर्थे वा यदिति शेषो वै तत्पक्ष इति ज्ञेयम् । कात्कृतः कादिति तिरस्कारवाचकं, तिरस्कृतः ॥ ११ ॥
चट्टी
आत्मानं गर्हयामासेत्युक्तमेव विवृणोति ॥ अहो इति । मया कृतं कर्म अहो असाधु यद्यस्माद्दभ्रबुद्धिनाऽल्पबुद्धिना मया कात्कृतस् तिरस्कृतः ॥ ११ ॥
को गृध्द्येत् पण्डितो लक्ष्मीं त्रिविष्टपपतेरपि ।
ययाऽहमासुरं भावं नीतोऽद्य विबुधेश्वरः ॥ १२ ॥
पदरत्नावली
को गृध्द्येदिति । गृधु अभिकाङ्क्षायाम् ॥ १२ ॥
सत्यधर्म
ययाहं विबुधेश्वरोऽप्यासुरभावमद्य नीतस्तां त्रिविष्टपपतेर्लक्ष्मीं कः पण्डितः । तारकादिः । यद्वा पण्डतेर्गत्यर्थेति क्तः । इट् । ‘‘सङ्ख्यावान्पण्डितः कविः’’ इत्यमरः । गृद्ध्येदोङ्कुर्यान्न कोऽपीत्यर्थः ॥ १२ ॥
चट्टी
त्रिविष्टपपतेरपि लक्ष्मीं कःपण्डितो गृध्द्येद् अभिकांक्ष्यते । गृध अभिकांक्षायामिति धातोः । विबुधानां सात्विकानां देवानामीश्वरोऽप्यहम् ॥ १२ ॥
ये पारमेष्ठ्यधिषणमधितिष्ठन् न कञ्चन ।
प्रत्युत्तिष्ठेदिति ब्रूयुर्धर्मं ते न परं विदुः ॥ १३ ॥
पदरत्नावली
राजयोग्यसिंहासनमधिष्ठितो न प्रत्युत्तिष्ठेदिति शास्त्रकारवचनात् कथमासुरं भावं नीत इति चेत् तत्राह– य इति ॥ पारमेष्ट्यधिषणं सिंहासनस्थानमधितिष्ठन् राजा कञ्चन नोत्तिष्ठेदिति प्रत्युत्थानं न कुर्यादिति ये पण्डितम्मन्या ब्रूयुस् ते परमं धर्मं न विदुरित्यन्वयः ॥ १३ ॥
सत्यधर्म
नन्वनधिरूढाध्यासनानां यादृशां तादृशामनुत्थानादि ज्ञानिभिरुक्तं त्वं तु मूर्धाभिषिक्तमूर्धन्य इति का चिन्ता तवेत्यतस्तेऽसम्यज्ज्ञानिन इति द्वाभ्यामाह ॥ य इति । येधिष्ठ्यशब्दपर्यायो धिषणशब्दः । निर्भज्यमानधिषणध्वजेति नवमे च प्रयोगाद्धिषणं सिंहासनं धिषणं बृहस्पतिं तदादिकं कञ्चन न प्रत्युत्तिष्ठेदित्यन्वयो वा । इति ब्रूयुस्ते परं धर्मं न विदुः । ‘‘ऊर्ध्वं प्राणा ह्युत्क्रमन्ति यूनः स्थविर आगते’’ इत्यादेः । विदुरिति बहुवचनेन शतमप्यन्धानां न पश्यतीत्यादि कटाक्षयति ॥ १३ ॥
चट्टी
ननु सिंहासनस्थितो राजा प्रत्युत्थानं न कुर्यादिति वृद्धा वदन्तीति चेत्तत्राह ॥ य इति द्वाभ्याम् । पारमेष्ठ्यधिषणं राजसिंहासनम् ॥ १३ ॥
तेषां कुपथद्रष्टॄणां पततां तमसि ह्यधः ।
ये श्रद्धधुर्वचस्ते वै मज्जन्त्यश्मप्लवा इव ॥ १४ ॥
पदरत्नावली
तादृशानां वाक्ये विश्वासेन प्रवर्तमानस्यानर्थफलहेतुत्वाद् बुद्धिमता न कर्तव्यमित्यभिप्रेत्याह– तेषामिति ॥ अश्मना कृताः प्लवा नावोऽश्मप्लवाः ॥ १४ ॥
सत्यधर्म
कुपथं कापथम् । अपि माषमित्यादिरीत्या द्रो लघुः पठनीयः । अश्मप्लवाः पाषाणमयनौकाः ॥ १४ ॥
चट्टी
कुपथं दिशंत्यपदिशंतीति कुपथद्रष्टारस्तेषां वचोऽश्ममयः पाषाणमयः प्लवो येषां ते यथा मज्जन्तं प्लवमनुमज्जन्ति तद्वत् ॥ १४ ॥
अथाहममराचार्यमगाधधिषणं द्विजम् ।
प्रसादयिष्येति १विशठः शीर्ष्णा तच्चरणं स्पृशन् ॥ १५ ॥
पदरत्नावली
यत एवमनर्थोऽथ तस्माद् अगाधधिषणं गम्भीरबुद्धिम् ॥ १५ ॥
सत्यधर्म
यत एवमनर्थस्तस्मादगाधधिषणं विततमतिम् । अपिशठोऽपि प्राक् प्रकटिताति-शठत्वोऽपि । निशठ इति पाठे न शठो निशठः शठभिन्नोऽशठ इति यावदित्यर्थः । अतिशठः शठानतिक्रान्त इति वा तदर्थश्च ज्ञेयौ ॥ १५ ॥
चट्टी
यत एवमनर्थोऽथ तस्मात् । अगाधा गम्भीरा धिषणा बुद्धिर्यस्य तम् । विशठः शाठ्यरहितः सन् ॥ १५ ॥
एवं चिन्तयतस्तस्य मघोनो भगवान् गृहात् ।
बृहस्पतिर्गतोऽदृष्टां गतिमध्यात्ममायया ॥ १६ ॥
पदरत्नावली
अध्यात्ममायया योगसामर्थ्येन । अदृष्टां गतिमदृश्यलक्षणां स्थितिम् ॥ १६ ॥
सत्यधर्म
मघोन एवं चिन्तयतः सतो भगवानेतदाद्यनागतज्ञानादिमान्गृहात्स्वसद्मतोऽदृष्टां गतिं कैरप्यदृश्यत्वलक्षणां गतिमध्यात्ममायया योगसामर्थ्येन गतः । अध्यात्ममाययेति पदस्वारस्यात् । गृहाद्गृहेऽततीति गृहात् । अततेः क्विप् । गृहे स्थितोऽपीत्यर्थ इति वा । कामाच्च राजा पौत्रायणः शोकाच्छूद्रेत्यादिवदयं शब्दः । तत्राप्यनेवार्थतायामनुमा कामचारिणीत्यनुव्याख्यानस्य तदाद्रवणादित्यत्र मानत्वेनोदाहृतवाक्ये द्रवणश्रवणादुन्मूलताविसंवादाद्यापत्तेः । गृहाद्बहिर्गमनेन तददृश्यत्वस्य नाध्यात्म-मायासापेक्ष्यतेति तस्या अवक्तव्यत्वाच्च । गृहाद् ल्यब्लोपनिमित्ता चेयं पञ्चमी । गृहमधिष्ठाय चिन्तयत इति वाऽन्वयः ॥ १६ ॥
चट्टी
अध्यात्ममायया योगगसामर्थ्येन । अदृष्टां गतिमदृश्यलक्षणां स्थितिम् ॥ १६ ॥
गुरोर्नाधिगतः संज्ञां परीक्षन् भगवान् स्वराट् ।
ध्यायन् धिया सुरैर्युक्तः शर्म नालभतात्मनः ॥ १७ ॥
पदरत्नावली
संज्ञां स्वरूपविषयं ज्ञानम् । स्वराट् इन्द्रः ॥ १७ ॥
सत्यधर्म
स्वराट् स्वेन राजत इति स्वराट् । अन्यथा स्वाराडिति स्यात्स्याच्च छन्दोभङ्गः । अत एवामरे स्वाराण्नमुचिसूदन इति पाठः । परीक्षन् परीक्षमाणः संज्ञां तत्स्वरूपज्ञानं नाधिगतो न प्राप्तवान् शर्म सुखम् ॥ १७ ॥
चट्टी
गुरोःसंज्ञां ज्ञानोपायं परीक्षमाणोऽपि नाधिगतोऽप्राप्तः सन् ॥ १७ ॥
तत् श्रुत्वैवासुराः सर्वे आश्रित्यौशनसं मतम् ।
देवान् प्रत्युद्यमं चक्रुर्दुर्मदा आततायिनः ॥ १८ ॥
सत्यधर्म
उशनसो भार्गवस्येदमौशनसं मतम् । देवान्प्रति । आततायिनः । ‘‘अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहा । क्षेत्रदारापहर्ता च षडेते ह्याततायिनः’’ इति स्मृतेराततायिन एत इति ज्ञेयम् ॥१८॥
चट्टी
आततायिन उद्यतास्त्राः ॥ १८ ॥
तैर्विसृष्टेषुभिस्तीक्ष्णैर्निर्भिन्नाङ्गोरुबाहवः ।
ब्रह्माणं शरणं जग्मुः सहेन्द्रा नतकन्धराः ॥ १९ ॥
पदरत्नावली
निर्भिन्नान्यङ्गानि शरीराणि ऊरवश्च बाहवश्च येषां ते तथा ॥ १९ ॥
सत्यधर्म
निर्भिन्नमङ्गोरुबाहु येषामिति विग्रहः । नतकन्धरा नता कन्धरा ग्रीवा येषामिति विग्रहः । ग्रीवायामपि कन्धरेति विश्वः ॥ १९ ॥
चट्टी
निर्भिन्नान्यङ्गान्युत्तमाङ्गानि शिरांस्युरवो बाहवश्च येषां ते तथोक्ताः ॥ १९ ॥
तांस्तथाऽभ्यर्दितान् वीक्ष्य भगवानात्मभूरजः ।
कृपया परया देव उवाच परिसान्त्वयन् ॥ २० ॥
पदरत्नावली
आत्मनः परमात्मनो भवतीति आत्मभूः ॥ २० ॥
सत्यधर्म
आत्मभूरज एको रूढ एको यौगिक आत्मभूरात्मनो भूः स्थानं यस्य स सत्यलोकस्थितः सन्नित्यर्थः । विश्वरूपसंवरणमात्रनिवारणीयाया आपदो वासुदेवनिवासगमनाद्यनपेक्षाया निमित्तत्वेनात्मभूरित्युक्तिः । भूःस्थानमात्र इति विश्वः । अजः क्षिपन्निति वा । अजेर्व्यादेशाभाव आर्षः । विस्तृतं चैतदाजा नष्टं यथेत्यृग्भाष्यटीकाटिप्पणादावनुसन्धेयम् ॥ २० ॥
ब्रह्मोवाच—
अहो बत सुरश्रेष्ठा ह्यभद्रं वः कृतं महत् ।
ब्रह्मिष्ठं ब्राह्मणं दान्तमैश्वर्यान्नाभ्यनन्दत ॥ २१ ॥
पदरत्नावली
व इति षष्ठी तृतीयार्थे युष्माभिरित्यर्थः ॥ २१ ॥
सत्यधर्म
ब्रह्मिष्ठं तपोनिष्ठम् । ब्राह्मणं जात्या । ‘‘ब्रह्माणतीति ब्राह्मणः’’ इति गीताभाष्योक्तेरपरोक्षज्ञानीति वा । निर्वचनत्वात्स्वरव्यत्यासः । यथोक्तं तत्त्वप्रकाशिकायाम् । स्वर-व्यत्ययस्याधिक्यार्थत्वादण गताविति धातोरिति । दान्तं निगृहीतेन्द्रियम् । अशापप्रदानेनापया-नाद्युष्मदनुभूतमिदमिति मर्मोक्तिरियम् । ऐश्वर्यान्नाभ्यनन्दतेति यन्महत्कृतं कर्म वोऽभद्रममङ्गलप्रदमित्यर्थः
॥ २१ ॥
चट्टी
वो कृतं कर्म महदभद्रम् ॥ तदेवाह ॥ ब्रह्मिष्ठमिति । नाभ्यनन्दत नाभिनन्दितवन्तः
॥ २१ ॥
तस्यायमनयस्यासीत् परेभ्यो वः पराभवः ।
प्रक्षीणेभ्यः स्ववैरिभ्यः समृद्धानां च यत् सुराः ॥ २२ ॥
सत्यधर्म
परेभ्य इदानीमुच्चेभ्यः प्राक् प्रक्षीणत्वात् । सु अवैरिभ्यो वैररहितेभ्यः । परेभ्यो वैरिभ्य इति वा । अनयस्यान्यायस्य । ‘‘नयो न्यायः’’ इति विश्वः । अयमनयस्यासदृशन्यायस्य सकाशात्समृद्धानां प्रागिति । आयमनयस्य नित्यकर्मत्वेन कृतनयस्य सकाशादिति वाऽऽवर्त्य समृद्धिप्रयोजकताऽनुसन्धेया । यमः शरीरसाधनापेक्षे नित्यकर्मणीति विश्वः । समृद्धानां वः पराभव आसीदित्यन्वयः ॥ २२ ॥
चट्टी
परेभ्यः शत्रुभ्यः समृद्धानामपि वः पराभव इति । यदयं तस्यानयस्य सम्बन्धिफलरूप आसीदित्यन्वयः । कीदृशेभ्यः । स्वयमेव देवा एव वैरिणो हन्तारो येषां तेभ्यः ॥ २२ ॥
मघवन् द्विषतः पश्य प्रक्षीणान् गुर्वतिक्रमात् ।
सम्प्रत्युपचितान् भूयः काव्यमाराध्य भक्तितः ॥
आददीरन् निलयनं ममापि भृगुदेवताः ॥ २३ ॥
पदरत्नावली
निलयनं युष्मदधिकृतं, स्वर्गमिति शेषः । भृगुरेव देवता येषां ते भुगुदेवता जनाः, ममापि अभेद्यं निलयनम् आददीरन् दारयन्तीति वा ॥ २३ ॥
सत्यधर्म
प्रक्षीणांस्तत्र कारणं गुर्वतिक्रमादिति । शुक्रातिक्रमणात् । ममापि निलयनं सत्य-लोकम् । ईर्यमाणकार्यप्रोत्साहनार्थमवेमाहेति भावः । एवमर्थ एवोत्तरत्र त्रिविष्टपं किं गणयन्तीति वक्ष्यमाणं कैमुत्यमत्यन्तश्लिष्टं भवतीति सुन्दरतरोऽयमर्थः ॥ २३ ॥
चट्टी
गुरुतिरस्कारसत्कारावेवापचयोपचयकारणमित्यसुरदृष्टान्तेनाह ॥ मघवन्निति । द्विषतः शत्रून् काव्यं शुक्रं गुरुमेवाराध्योपचितान् । उपचितत्वमेवाह ॥ आददीरन्निति । भृगुः शुक्रो देवता येषां ते । मम निलयनं सत्यलोकमप्याददीरन् गृह्णीयुः ॥ २३ ॥
त्रिविष्टपं किं गणयन्त्यभेद्यमन्त्रा१ भृगूणामनुशिक्षितार्थाः ।
न विप्रगोविन्दगवीश्वराणां भवन्त्यभद्राणि नरेश्वराणाम् ॥ २४ ॥
पदरत्नावली
अनुशिक्षितः सम्यक् साधितोऽर्थो यैस्ते तथा । भृगूणां मन्त्रास् त्रिविष्टपमभेद्यं गणयन्ति किम् ? नव । ब्राह्मणशक्तिरचिन्त्यविभवेत्याह– न विप्रेति ॥ विप्राश्च गोविन्दश्च गावश्च ईश्वरा येषां ते तथा तेषाम् । विप्रभक्तिर्गोविन्दगोभक्त्यविनाभूतेति दर्शनाय सहैवोक्तम् । साऽपि तारतम्योपेता शुभदेत्यतो गवीति ॥ २४ ॥
सत्यधर्म
भृगूणां शुक्राचार्याणामनुशिक्षितार्था अनुशिक्षिता अर्था येषां ते तथा शिष्या इति । अभेद्यमन्त्रा अभेद्यो मन्त्र आथर्वणिको येषां ते तथा मन्त्रो गुप्तवादो वा । ‘‘मन्त्रो वेदप्रभेदे स्याद्देवादीनां प्रसादने गुप्तवादे च’’ इति विश्वः । अमोघमन्त्रा इति पाठोऽप्यमोघार्थः । अभेद्यं मन्त्रा इति क्वाचित्कः सरलः पाठस्तत्र त्रिविष्टपविशेषणम् । त्रिविष्टपमभेद्यं गणयन्तीति किमिति । मन्त्राः कर्तारो वा । अर्शआद्यचि तद्वन्तोऽसुरा वेत्यर्थो लेशक्लेशसाध्य इति बोध्यम् । सामान्यन्याय-मुखेनोक्तमर्थं व्यक्तीकरोति ॥ न विप्रेति । विप्रा ब्राह्मणाश्च गोविन्दो गरुडध्वजश्च । गावो धेनवश्चेश्वरा येषां तेषां नरेश्वराणां राज्ञामभद्राणि न भवन्ति । भवतां गुर्ववगुरणादीदृशी दशेदानीं तेषां तु तद्भजनेन विजय इत्यन्वय व्यतिरेकौ सूचितौ भवतः । गोविन्द उभयाभयद इति मध्ये निवेशितः । आन्महतः समानाधिकरणजातीययोः समुद्राभ्रादिति निर्देशादनित्य इत्युक्तेर्वा बहुष्वनियम इत्युक्तेर्वा गोनिर्देशोऽन्ते युक्त इति ज्ञेयम् । गा वेदादिशब्दान् गा धेनूर्वा विन्दतीति गोविन्दः । गवादिषु विदेः संज्ञायामिति शः । विप्रेति प्रस्तुतेः प्रथमतः प्रोक्तम् ॥ २४ ॥
चट्टी
मन्त्रा इति मत्वर्थीयाच्प्रत्ययान्तः शब्दः । मन्त्रा भृगूपदेशमन्त्रवंतो भृगूणामनु-शिक्षितार्थाः शिष्याः । अन्येषामभेद्यमपि स्वर्गं गणयन्ति किं न गणयन्त्येवेत्यर्थः । यतो विप्रा गोविन्दो गावश्चेश्वरा अनुग्राहका येषां तेषामेवाभद्राणि न भवन्ति । अन्येषां तु भवन्ति ॥ २४ ॥
तद् विश्वरूपं भजताशु विप्रं तपस्विनं त्वाष्ट्रमथात्मवन्तम् ।
सभाजिता(तोऽ)र्थान् स विधास्यते वो यदि क्षमिष्यध्वमुतास्य कर्म ॥ २५ ॥
पदरत्नावली
तत्् तस्मात् । तपस्वित्वादिगुणाधिको गुणोऽप्यस्तीत्याह– अथेति ॥ आत्म-वत्त्वादपरः कल्याणगुणो नास्तीत्यतोऽथेति । नैक एवार्थोऽनेन । किन्त्वपेक्षिताशेषार्थोऽप्यस्ती-त्यतोऽर्थानिति । नेदानीमुत्तरत्राप्ययमेवालमित्यतो विधास्यत इति । तत्रेतिकर्तव्यतामाह– यदीति ॥ उतोऽप्यर्थः ॥ २५ ॥
सत्यधर्म
इयतायासेनायातानामनयस्येत्यादिना कृतः सत्कारः । पुरतोऽपि गतिः केत्यत आह ॥ तदिति । अर्थान्न बृहस्पतिप्रसादनसमयोऽयमिति सूचयति । विश्वरूपमिति त्वाष्ट्रं त्वष्टृपुत्रम् । न सन्निवेशनामके द्वितीये त्वष्टृसुते त्वाष्टे्र मम मनःसन्निवेश इत्यादिशति । विश्वरूपमिति । स च वरणकारणगुण इति भणति ॥ तपस्विनमात्मवन्तं मनस्विनमिति । आशु विलम्बमनवलम्बमानाः । आलस्यादमृतं विषमित्यादेः । स विश्वरूपो यदि यर्ह्यस्य कर्म असुरपक्षपाताद्यान्तरङ्गिकं क्षमिष्यध्वं क्षमिष्यध्वे उतानन्तरं वः सभाजितार्थान् जनसंमानितानर्थान् विधास्यत इत्यन्वयः । बहुवचन-सभाजितपदाभ्यां सर्वेऽप्यर्था अनेन सिध्यन्ति ते च सज्जनसम्मता इति स्फोरयति उताप्यर्थे वा ॥२५॥
चट्टी
तत्तस्मादनन्तरमेव विश्वरूपं भजतां कीदृशमात्मवन्तं वशीकृतमानसं त्वाष्ट्रं त्वष्टुः पुत्रम् । अस्य विश्वरूपस्य यदसुरपक्षपातिरूपं कर्म तत्क्षमध्वम् । यदि क्षमिष्यथ तर्हि स विश्वरूपः सभाजितः प्रीत्या सेवितः सन् । सभाजनप्रीतिसेवनयोरिति धातोः । अर्थानभीष्टानि विधास्यते । करिष्यतीत्यन्वयः
॥ २५ ॥
श्रीशुक उवाच—
त एवमुदिता राजन् ब्रह्मणा विगतज्वराः ।
ऋषिं त्वाष्ट्रमुपव्रज्य परिष्वज्येदमब्रुवन् ॥ २६ ॥
पदरत्नावली
ते देवाः ॥ २६ ॥
सत्यधर्म
परिष्वज्याधुनाऽऽचार्यत्वेन वरणाभावात्परिष्वङ्गः सङ्गतः ॥ २६ ॥
चट्टी
ते देवा उदिता उक्ता विगतज्वरा गतसन्तापाः ॥ २६ ॥
देवा ऊचुः—
वयं तेऽतिथयः प्राप्ता आश्रमं भद्रमस्तु ते ।
कामः सम्पाद्यतां तात पितॄणां समयोचितः ॥ २७ ॥
पदरत्नावली
पितॄणां नः समयोचित एतत्कालयोग्यः । कम्यत इति कामोऽर्थः ॥ २७ ॥
सत्यधर्म
त तव आश्रमं प्राप्ता इत्यतिथयस्ते भद्रमस्तु । पितॄणामित्याद्यपि दत्तोत्तरम् । समयोचितः कामः काम्यत इति काम इच्छाविषयोऽर्थः सम्पाद्यतां त्वया ॥ २७ ॥
चट्टी
पितॄणामस्माकं विश्वरूपपितुस्त्वष्टुर्देवत्वात् । समयोचित एतत्कालयोग्यः ॥ २७ ॥
पुत्राणां हि परो धर्मः पितृशुश्रूषणं सताम् ।
अपि पुत्रवतां ब्रह्मन् किमुत ब्रह्मचारिणाम् ॥ २८ ॥
पदरत्नावली
सतां पुत्राणाम् । ब्रह्मचारिणाम् अपुत्रवताम् । पुत्रा उभयेषामपि शुश्रूषणं कुर्वन्तीत्यर्थः ॥ २८ ॥
सत्यधर्म
कंसादिवन्नेति सतामिति पुत्रविशेषणम् । पुत्रवतां संसारिणामपि पितृशुश्रूषणं मतं तव तु न तथेत्यन्यापदेशेनोपदिशन्ति ॥ किमुत ब्रह्मचारिणामिति ॥ २८ ॥
चट्टी
सतां पुत्राणां पितृशुश्रूषणं परो धर्मः पुत्रोत्पादनेन पितृऋणनिवृत्तावपि पितृशुश्रूषणं न हातव्यमित्याह ॥ पुत्रवतामिति । पुत्रविशेषणमेतत् । ब्रह्मचारिणां पितृशुश्रूषणं परमो धर्म इति किमु वक्तव्यम् । पुत्रोत्पादनाभावेन ऋणविमोचनस्यैवाभावादिति भावः ॥ २८ ॥
आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः ।
भ्राता मरुत्पतेर्मूर्तिर्माता साक्षात् क्षितेस्तनुः ॥ २९ ॥
पदरत्नावली
पित्रादिशुश्रूषणेन रुद्रादिदेवताशुश्रूषणमपि कृतं स्यात्, तेषां तेषु विशेष-सन्निधानादित्याह– आचार्य इति ॥ ब्रह्मणश्चतुर्मुखत्य मूर्तिः सन्निधानस्थानम् । प्रजापतेः रुद्रस्य । ‘प्रजापतिः शिवः स्थाणुरुमेशो वृषवाहनः’ इत्यभिधानात् । मरुत्पतेरिन्द्रस्य ॥ २९ ॥
सत्यधर्म
स्वातिरस्कारे तन्मनीषां परिष्कारयति ॥ आचार्य इति । चरेराङि चागुराविति क्यपो निषेधादृहलोरिति ण्यत् । ब्रह्मणश्चतुर्मुखस्य । गुरुर्ब्रह्माऽखिलस्य हीत्यादेः । मूर्तिर्मुख्याधिष्ठानम् । एवं सर्वत्रापि । प्रजापते रुद्रस्य । प्रजापतिः शिवः स्थाणुरुमेशो वृषवाहन इत्यभिधानम् । मरुत्पतेर्वायोरिन्द्रस्य वा । क्षितेः क्षमायाः । साक्षादिति मातेत्यनेनान्वेति । तेन पोषयित्र्यादिव्युदासः । सर्वंसहा क्षितिरियमपि पादाघातादिसर्वदुर्वृत्तसहा नाल्प इति साक्षात् । तत्तुल्यतनूरिति वा । साक्षात्प्रत्यक्षतुल्ययोरिति विश्वः ॥ २९ ॥
चट्टी
अतिथीनां पितॄणां च प्रशंसनार्थमाह ॥ आचार्य इति । आचार्य उपनीय वेदाध्यापकः ॥ तदुक्तम् ॥ शिष्यमध्यापयति यः कृत्वोपनयनादिकम् । सहकल्परहस्याभ्यामाचार्यः स निगद्यत इति ॥ ब्रह्मणश्चतुर्मुखस्य मूर्तिरधिष्ठानम् । प्रजापतेः रुद्रस्य । प्रजापतिः शिवः स्थाणुरुमेशो वृषवाहन इत्यभिधानात् । मरुत्पतेरिन्द्रस्य ॥ २९ ॥
दयाया भगिनी मूर्तिर्धर्मस्यात्माऽतिथिः स्वयम् ।
अग्नेरभ्यागतो मूर्तिः सर्वभूतानि चात्मनः ॥ ३० ॥
पदरत्नावली
अतिथिः स्वयं धर्मस्यात्मा मूर्तिः । अभ्यागतः प्राहुणिकः । आत्मनः सर्वभूतानि मूर्तिः । ‘एको देवः सर्वभूतेषु गूढः’ इति श्रुतेः ॥ ३० ॥
सत्यधर्म
प्रस्तुतं स्तुवन्ति । धर्मस्य यमस्यात्माऽतिथिः स्वयमिति । अभ्यागतो बान्धवजन आत्मनः परमात्मनः । एको देवः सर्वभूतेषु गूढः सर्वव्यापी । त्रीन् लोकान्व्याप्य भूतात्मेत्यादि-श्रुतिस्मृतयोऽत्र भवन्ति ॥ ३० ॥
चट्टी
दयाया दयाभिमानिदेवतायाः । धर्मस्य धर्मराजस्याज्ञातकुलगोत्रस्तत्क्षणमेव समागतोऽतिथिः स्वयं साक्षान्मूर्तिर्मुख्याधिष्ठानं ज्ञातकुलगोत्रो ग्रामान्तरादागतोऽभ्यागतः । आत्मनः परमात्मनः सर्वभूतानि मूर्तिरधिष्ठानम् । एकोदेवः सर्वभूतेषु गूढ इति श्रुतेः । आचार्यादीनां पूजनेन तत्सन्निहिता ब्रह्मादयो देवाः प्रीणन्तीति भावः ॥ ३० ॥
तस्मात् पितॄणामार्तानामार्तिं परपराभवाम् ।
तपसाऽपनयन् तात सन्देशं कर्तुमर्हसि ॥ ३१ ॥
पदरत्नावली
स्वोक्तवाक्यस्य कर्तव्यत्वे हेतुमुक्त्वा निगमयति– तस्मादिति ॥ परेभ्यः शत्रुभ्यः प्राप्तपराभवलक्षणामार्तिमपनयन् ॥ ३१ ॥
सत्यधर्म
परपराभवां तज्जन्यामपनयन् ॥ ३१ ॥
चट्टी
परेभ्यः पराभव एवेति ॥ ३१ ॥
वृणीमहे त्वोपाध्यायं ब्रह्मिष्ठं ब्राह्मणं गुरुम् ।
यथाञ्जसा विजेष्यामः सपत्नांस्तव तेजसा ॥ ३२ ॥
पदरत्नावली
त्वा त्वाम् ॥ ३२ ॥
सत्यधर्म
त्वा त्वाम् ॥ ३२ ॥
चट्टी
तां सन्देशमेवाहुः ॥ वृणीमह इति । त्वा त्वाम् ॥ ३२ ॥
नो(न) गर्हयन्ति ह्यर्थेषु यविष्ठाङ्घ्र्यभिवादनम् ।
छन्दोभ्योऽन्यत्र न ब्रह्मन् वयो ज्यैष्ठ्यस्य कारणम् ॥ ३३ ॥
पदरत्नावली
नन्वहं युष्मदुपाध्यायश्चेत् कनिष्ठस्य मम पादाभिवन्दनं निन्दितं भवतामिति तत्राह– नेति ॥ अर्थेषु प्रयोजनेषु यविष्ठस्य कनिष्ठस्य ‘आचार्यादेव विद्या विदिता सधिष्ठं प्रापयति’, ‘सर्वा देवता वेदविदि ब्राह्मणे निवसन्ति’ इत्यादिश्रुतेः, वेदाभिज्ञानमेव ज्यैष्ठ्यस्य कारणं न वय इत्याह– च्छन्दोभ्य इति ॥ अत्र छन्दोभ्य इत्यनेन तदभिज्ञानं लक्ष्यते । वेदाभिज्ञानमन्तरेण ज्यैष्ठ्य-कारणं वयो न भवति । तज्ज्ञानमेतत् तवास्ति । तस्मात् त्वदङ्घ्रिवन्दनं न निन्दितम्, धौम्यादौ पाण्डवादीनां दृष्टत्वादित्यर्थः ॥ ३३ ॥
सत्यधर्म
महिष्ठैर्भवद्भिर्यविष्ठस्य मम नमनमनुचितमित्यतो न वयं तत्र कारणमितीरयन्ति ॥ नेति । अर्थेषु भविष्यत्सु छन्दोभ्यस्तज्ज्ञानेनान्यत्र विना ज्यैष्ठ्यस्य कारणं वयो नेत्यर्थः । यद्वा छन्दोभ्यो लक्षणया वेदाधिकारित्रैवर्णिकेभ्योऽन्यत्र शूद्रादौ ज्यैष्ठ्यस्य कारणं नो न गर्हयन्तीति वा नः सम्मतमिति वाऽर्थः । सर्वा देवता वेदविदि ब्राह्मणे वसन्तीत्यादेः । गुणादिमतः कनीयसोऽपि महीयसां प्रणतिर्युक्ता । दृष्टा च सा शन्तन्वादौ गुणज्येष्ठश्च शन्तनुरिति श्रीमदुक्तेः ॥ ३३,३४ ॥
चट्टी
ननूपाध्यायत्वे कनिष्ठस्य ममाभिवन्दनं करिष्यथ । तच्च गर्हितमिति चेत्तत्राहुः ॥ नेति । अर्थेषु प्रयोजनं निमित्तम् । यविष्ठाङ्घ्र्यभिवादनं न निन्दन्ति । किं च छन्दोभ्योऽन्यत्र मन्त्रेभ्योऽन्यत्र वयो ज्येष्ठस्य कारणं न भवति । किन्तु वेदा एव मुख्यं कारणं तत्साम्ये तु वयः । अतो वेदज्ञत्वात्त्वमेव ज्येष्ठ इत्यर्थः ॥ ३३ ॥
ऋषिरुवाच—
अभ्यर्थितः सुरगणैः पौरोहित्ये महातपाः ।
स विश्वरूपस्तानाह प्रसन्नः श्लक्ष्णया गिरा ॥ ३४ ॥
चट्टी
पौरोहित्यार्थम् । श्लक्ष्णया मधुरया ॥ ३४ ॥
विश्वरूप उवाच—
विगर्हितं धर्मशीलैर्ब्रह्मवर्चउपव्ययम् ।
कथं नु मद्विधो नाथा लोकेशैरभियाचितः ॥
प्रत्याख्यास्यति यः शिष्यः१ स एव स्वार्थ उच्यते ॥ ३५ ॥
पदरत्नावली
धर्मशीलैर्विगर्हितम्, पौरोहित्यमिति शेषः । कस्मादिति तत्राह– ब्रह्मेति ॥ ब्रह्मवर्चस उपव्ययो नाशो यस्मात् तत् तथा । पौरोहित्ये ब्रह्मवर्च उपगतव्ययं प्राप्तनाशं स्यात् तस्माद् धर्मशीलैर्विगर्हितमिति वा योजना । तर्हि तन्न शक्यमित्युच्यतामिति चेत् तत्राह– कथं न्विति ॥ हे नाथा लोकेशैर् अभियाचितो मद्विधो विप्रः कथं नु प्रत्याख्यास्यति । कथमपि न निराकरोतीत्यर्थः । गुर्वाज्ञालङ्घने दोषापत्तेरित्यभिप्रेत्याह– तच्छिष्य इति ॥ परकार्यत्वेन निराकार्यमिति तत्राह– स एवेति
॥ ३५ ॥
सत्यधर्म
विगर्हितं कुत इत्यतो वक्ति । ब्रह्मवर्चउपव्ययमिति । समासान्तविधेरनित्यत्वान्नाच् । ब्रह्मवर्चस उपव्ययो नाशो यस्मात्तद्दुष्प्रतिग्रहस्यावर्जनीयत्वात्तेन च वर्चो विनश्यतीति भावः । ब्रह्म च तपश्च दीप्तिश्च तयोरुपव्ययो यस्मादिति वा । यद्वा वर्चसो रूपस्योपव्ययो वर्चउपव्ययो ब्रह्मणो वर्च उपव्ययो यस्मात्तद् गतम् । ‘‘वर्चो दीप्तौ वर्चो रूपेऽपि च क्वचित्’’ इति विश्वः । हे नाथा इदानीं मां विना नेतरो रक्षक इत्यनाथा इति वा । यः शिष्यः शासनानुकूलानुबन्धः स मद्विधः कथं नेति प्रत्याख्यास्यति । तव किं प्रत्याख्यानं कुर्वित्यत आह ॥ स एव स्वार्थे मदर्थ इत्युच्यत इति ॥ ३५ ॥
चट्टी
निन्दितमपीदं युष्मद्याच्नाभङ्गभयेन करिष्यामीत्याह ॥ विगर्हितमिति सार्धश्लोकेन । विगर्हितं पौरोहित्यम् । धर्मशीलैरधर्महेतुत्वात्किञ्च ब्रह्मवर्चउपव्ययं ब्रह्मवर्चसव्ययकरम् । प्रत्याख्यातुं च मादृशो नार्हतीत्याह ॥ कथं न्विति । हे नाथाः । तच्छिष्यस्तेषां लोकेशानां शिष्यः शिक्षणार्हः । परकार्यत्वेन निराकार्यमिति तत्राह ॥ स एवेति । स एव प्रत्याख्यानाभाव एव हि शिष्यस्य स्वार्थ उच्यते ॥ ३५ ॥
अकिञ्चनानां हि धनं शिलोञ्छनं स तेन निर्वर्तितसाधुसत्क्रियः ।
कथं विगर्ह्यं तु करोम्यधीश्वराः पौरोधसं हृष्यति येन दुर्मतिः ॥ ३६ ॥
पदरत्नावली
एतदेव स्पष्टमाह– अकिञ्चनानामिति ॥ लूनसस्ये केदारे स्वामिना च परित्यक्ते एकैकावशिष्टमञ्जरीग्रहणं शिलम् । तादृशे क्षेत्रे एकैकव्रीहिग्रहणम् उञ्छनम् । शिलं चोच्छनं यत् तेनैव, न प्रतिग्रहादिना, निर्वर्तिताः साधूनां सत्यः क्रिया अग्निहोत्रलक्षणा यस्य स तथा । एवंविधो विगर्हितं पौरोधसं कथं करोमि । दुर्मतिर् दुःखितमतिर् विषयाकृष्टचित इत्यर्थः, येन पौरोहित्येन प्राप्तेन हृष्टो भवति तदिति शेषः ॥ ३६ ॥
सत्यधर्म
एवमुपचारः कुतः कुतस्तव जीविकेत्यत एतावत्पर्यन्तमित्थं जीवितमित्याह ॥ अकिञ्चनानामिति । हि यतोऽकिञ्चनानां न विद्यते किञ्चनेश्वरव्यतिरिक्तं येषां ते तथा । ‘‘अर्थे नारायणो देवः सर्वमन्यत्तदर्थकम्’’ इत्यनुसन्धानवतां शिलोञ्छनं च शिलोञ्छनं सर्वो द्वन्द्व इति समाहारेण वोत्तरपदलोपसमासेन वैकवचनमुपपद्यते । उञ्छः कणश आदानं कणिशाद्यार्जनं शिलमित्यादेस्तदर्थो अवधेयः । सोऽहं तेन शिलोञ्छनेन । निर्वर्तितसत्क्रियो निर्वर्तिता निष्पादिताः साधूनामकिञ्चनानां सत्यः क्रिया येन सः साधु सम्यगिति वा । येन पौरोहित्येन । दुर्मतिरशोभनबुद्धिः संसारानिर्वाहदुःखितमतिरिति वा दुरशोभनदुःखयोरित्यभिधानाद्दुर्दुःखमिति तात्पर्यात् । हृष्यति तत्पौरोधसम् । हायनान्तयुवादिभ्योऽणित्यण् । पौरोहित्यं हे अधीश्वराः कथं करोमीति सम्बन्धः ॥३६॥
चट्टी
ननु पौरोहित्येन धनलाभो तेन च धर्मः सिध्द्येत् । अन्यथा निर्धनस्य कुतो धर्मः । अत एव तेन लोको हृष्यतीति चेत्तत्राह ॥ अकिञ्चनानामिति । अकिञ्चनानां शिलोञ्छनं हि धनम् । क्षेत्र-स्वाम्युपेक्षितकणिशोपादानं शिलाहस्तादापतितव्रीह्याद्युपादानम् उञ्छनं तेनैव निर्वर्तिता निष्पादिताः । साधूनां सत्क्रिया येन स तथोक्तः ॥ ३६ ॥
तथाऽपि न प्रतिब्रूयां गुरुभिः प्रार्थितं कियत् ।
भवतां प्रार्थितं सर्वं प्राणैरर्थैश्च साधये ॥ ३७ ॥
पदरत्नावली
गुरुभिः प्रार्थितं कियदिति धिक्कृत्य न करोमीति न वच्मीति । कथं तर्हि निर्णय इति तत्राह– भवतामिति ॥ ३७ ॥
सत्यधर्म
इयताऽऽयासेन यातानामाशाविनाश एव प्रायो भवेदिति तन्मानसीं शङ्कां परिहरन् प्रोत्साहयति विप्रः ॥ तथाऽपीति । कियदित्यनेन स्वसामर्थ्यस्य सर्वस्य विना विनियोगं शक्यतां सूचयति । प्रार्थितमर्थितम् । भावे क्तः । प्रगतमर्थितं यत्र तदसङ्कल्पितं च साधये, साधये आधिसहिताय महेन्द्राय चेत्यर्थः । अतो न प्रार्थितमिति पुनरुक्तिः । वक्ष्यमाणप्रकारेण मरणकारणमिति सूचयितुं प्राणैरिति तत्पुरस्करणम् । अर्थैर्भवदौपयिकार्थैः ॥ ३७ ॥
चट्टी
कियदेतत्प्रार्थनम् । अल्पमेवात्यधिकमपि करिष्यामीत्याह ॥ भवतामिति ॥ ३७ ॥
श्रीशुक उवाच—
तेभ्य एवं प्रतिश्रुत्य विश्वरूपो महातपाः ।
पौरोहित्यं ततश्चक्रे परमेण समाधिना ॥ ३८ ॥
चट्टी
परमेण समाधिना । परमोद्यमेन ॥ ३८ ॥
सुरद्विषां श्रियं गुप्तामौशनस्याऽपि विद्यया ।
आच्छिद्यादान्महेन्द्राय वैष्णव्या विद्यया विभुः ॥ ३९ ॥
पदरत्नावली
औशनस्या उशनसः शुक्रस्य विद्यमाना औशनसी तया । आच्छिद्य स्वीकृत्य । विष्णुर् देवता अस्या इति वैष्णवी तया ॥ ३९ ॥
सत्यधर्म
औशनस्या शुक्रसम्बन्धिन्या गुप्तां रक्षितामाच्छिद्य बलाद्गृहीत्वा । तद्बलं लपति ॥ वैष्णव्येति । विद्ययेत्यनुवर्त्यान्वयसम्भवे पुनर्विद्ययेति वचनेन यया स्वयं विज्ज्ञानी विभुस्तया वैष्णव्या विद्ययेत्यप्यन्वयमसूचयदिति ज्ञेयम् ॥ ३९ ॥
चट्टी
औशनस्या शुक्रसम्बन्धिन्या विद्यया गुप्तामप्याच्छिद्याहृत्य वैष्णव्या विष्णुदेवताकया नारायणकवचाख्यया विद्यया मायया ॥ ३९ ॥
यया गुप्तः सहस्राक्षो जिग्येऽसुरचमूर्विभुः ।
तां प्राह स महेन्द्राय विश्वरूप उदारधीः ॥ ४० ॥
सत्यधर्म
चमूः सेनाः ॥ ४० ॥
चट्टी
असुरचमूर्दैत्यसेनाः ॥ ४० ॥
यां प्रविश्यासुराञ्छश्वत् कक्ष्यां नारायणात्मिकाम् ।
अजैषीद् वृषभस्तात सिंहः क्षुद्रमृगानिव ॥ ४१ ॥
॥ इति श्रीमद्भागवते षष्ठस्कन्धे सप्तमोऽध्यायः ॥
पदरत्नावली
कक्ष्यां कवचलक्षणां रक्षाम् ॥ ४१ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
षष्ठस्कन्धे सप्तमोऽध्यायः ॥
सत्यधर्म
कक्ष्यां कवचं वृषभः श्रेष्ठ इन्द्रो, वृषभः श्रेष्ठमात्रेऽपीति विश्वः ॥ ४१ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मकृतायां षष्ठस्कन्धे सप्तमोऽध्यायः ॥ ६–७ ॥
चट्टी
कक्ष्यां कवचलक्षणां रक्षाम् ॥ ४१ ॥
॥ इति श्रीभागवतटिप्पण्यां चट्टीव्याख्यायां षष्ठस्कन्धे सप्तमोऽध्यायः ॥ ६–७ ॥