ततः प्राचेतसोऽसिक्न्यामनुनीतः स्वयम्भुवा
॥ अथ षष्ठोऽध्यायः ॥
श्रीशुक उवाच—
ततः प्राचेतसोऽसिक्न्यामनुनीतः स्वयम्भुवा ।
षष्टिं सञ्जनयामास दुहितॄः पितृवत्सलाः ॥ १ ॥
पदरत्नावली
सदसज्जनतारतम्यज्ञानं च भगवन्माहात्म्यज्ञानोपयोगीत्यभिप्रेत्य दक्षपत्न््नयसिकि्न-प्रसूतिप्रसरं प्रपञ्चयत्यस्मिन्नध्याये– ततः प्राचेतस इत्यादिना ॥ १ ॥
सत्यधर्म
नारदेन द्विरेवं कृतम् । तस्मात्पुनर्बिभ्यद्दक्षो वीक्ष्यैवं मनसा तदविरोधेन साधनीयं कार्यमिति ततानैवमिति बोधयति ॥ तत इति । स्वयं भूर्ब्रहा तेनानुनीतः समाहितः । दुहितॄः स्त्र्यपत्यानि । षष्टिं सृष्ट्युपयुक्ताः सतीव्यतिरिक्तास् तत्सङ्ख्याः । ता अपि वेदवत्यादिवदनिदंकार्य-कारिण्यः किं नेत्याह ॥ पितृवत्सला इति ॥ १ ॥
चट्टी
प्राचेतसो दक्षः । अनुनीतः सांत्वितः । नारदात्पुत्राणां नाशमाशङ्कमानो दुहितॄ-र्जनयामासेति भावः ॥ १ ॥
ददौ स दश धर्माय कश्यपाय त्रयोदश ।
कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे ।
भूताङ्गिरःकृशाश्वेभ्यो द्वे द्वे तार्क्ष्यस्य चापराः ॥ २ ॥
पदरत्नावली
कालस्य नयने ज्ञापने युक्ता योग्याः सप्तविंशतिम्, ददाविति शेषः । अपराः षट्पञ्चाशत्संख्याभ्यः शिष्टाश्चतस्त्रः कन्यास्तार्क्ष्याय ददाविति शेषः ॥ २ ॥
सत्यधर्म
‘‘स्त्रीणां प्रदानकर्मैव यथोपनयनं तथा । पुत्राच्छतगुणं पुत्री यदि पात्रे प्रदीयते’’ ॥ इत्याद्युक्तेः को ‘‘कः प्रजापतिरुद्दिष्टः’’ इति एकाक्षरकविश्वः । न्यायेन कन्यां ददाविति वदति ॥ ददाविति । धर्माय दश । कालस्य नयने यापने ज्ञापने वा विनियुक्ता युक्ताः । धर्मायेत्यादौ परस्वत्वोत्पादरूपेणैकेन दलेनैवोपपत्तिश्चतुर्थ्या ज्ञेया । न ममेत्यस्यानाशंस्यस्य निबन्धादावुक्तेः । एवं सप्तविंशतिमिन्दवे कुमुदबान्धवाय । भूताङ्गिरःकृशाश्वेभ्यस्तन्नामकेभ्यो द्वे द्वे एकस्मा इति षट् । अपरा उर्वरिता द्वे द्वे इत्यत्राप्यन्वेति । एवं चतस्रस्तार्क्ष्याय कश्यपाय तार्क्ष्यः पिता पुत्रश्च । अथ तार्क्ष्यसुतो ज्ञात्वेत्यष्टमे । तार्क्ष्यपुत्रा इवोरगानिति सप्तमे । तार्क्ष्यपुत्रः सुधामिवेत्यन्यत्र । गरुत्मान्गरुडस्तार्क्ष्य इत्यमरोक्तेः कश्यपस्य विप्रस्य च संज्ञेयमिति ज्ञेयम् । कश्यपाय त्रयोदश तार्क्ष्याय चापरा इति विभज्योक्तिस्तु विवाहक्रमविवक्षयेति नैकधारया सप्तदशेत्युक्तिरिति ज्ञेयम् । परे तु दश धर्माय कायेन्दोर्द्विषट्त्रिणव दत्तवानिति पठित्वा द्विषट्द्विगुणाः षट् द्वादश यासु तास्त्रयोदशेत्यर्थापयाञ्चक्रुः । परन्तु स क्लेशिष्टोऽर्थ इति श्लिष्टोऽर्थोऽस्मत्पाठ इति तदेतद्विदितार एव वदेयुः ॥ २ ॥
चट्टी
कालस्य नयने ज्ञापने । तार्क्ष्यायारिष्टनेमिसंज्ञायापरा अवशिष्टाश्चतस्रः । ददाविति सर्वत्रानुषङ्गः ॥ २ ॥
नामधेयान्यमूषां त्वं सापत्यानां च मे शृणु ।
यासां प्रसूतिप्रभवैर्लोका आपूरितास्त्रयः ॥ ३ ॥
पदरत्नावली
सापत्यानाम् अपत्यतदपत्यादिभिः सहितानां प्रसूतिप्रभवैः पुत्रपौत्रादिभिर् भान्वादीनां सपुत्राणां नामधेयं मे मम, सकाशादिति शेषः ॥ ३ ॥
सत्यधर्म
सापत्यानामित्यत्रत्यापत्यशब्दो यासां प्रसूतिप्रभवैरित्येतदनुसारेण पुत्रपौत्रादिपरो व्याकर्तव्यः । सापत्यानाममूषां नामधेयानि मे मत्तः शृृणु । अनेन स्वस्य विवक्षाऽस्तीति ध्वनयामासेति ज्ञायते ॥ ३ ॥
चट्टी
सापत्यानामपत्यसहितानाम् । मे मत्तः । प्रसूतिप्रभवैः पुत्रपौत्रादिभिः ॥ ३ ॥
भानुर्लम्बा ककुब् जामिर्विश्वा साध्या मरुत्वती ।
वसुर्मुहूर्ता सङ्कल्पा धर्मपत्न््नयः सुताञ्छृणु ॥ ४ ॥
सत्यधर्म
इति भान्वादिनाम््नयो धर्मपत्न््नयो निरूपितास्तत्सुताञ्छृणु ॥ ४ ॥
भानोस्तु वेदऋषभ इन्द्रसेनस्ततो नृप ।
विद्योत आसील्लम्बायास्ततश्च स्तनयित्नवः ॥ ५ ॥
पदरत्नावली
ततो वेदर्षभात् । तत इन्द्रसेनात् ॥ ५ ॥
सत्यधर्म
ततो वेदर्षभात् ॥ ५ ॥
चट्टी
ततो विद्योतात् स्तनयित्नवः ॥ ५ ॥
ककुभः सङ्कटश्चासीत् कीकटस्तनयो यतः ।
भुवो दुर्गाणि जामेयाः स्वर्गो नन्दिस्ततोऽभवत् ॥ ६ ॥
पदरत्नावली
यतः सङ्कटात् । जामीपुत्रः जामेयाः । दुर्गाण्यगम्यस्थानाभिमानिनः ॥ ६ ॥
सत्यधर्म
यतः सङ्कटाज्जामेया ढगन्तः । भुवो दुर्गाणि तदभिमानिनः ॥ ६ ॥
चट्टी
यतः सङ्कटात् । कीकटस्तनयो जातः । भुवो भूमेर्दुर्गाण्यगम्यस्थानानि तदभिमानिनो देवा जामेयास्ताभ्यः पुत्राः स्वर्गः स्वर्गाभिमानी देवोऽपि जामिपुत्रस्ततः स्वर्गान्नन्दिः ॥ ६ ॥
विश्वेदेवास्तु विश्वायामप्रजांस्तान् प्रचक्षते ।
साध्योगणस्तु साध्यायामर्थसिद्धिस्तु तत्सुतः ॥ ७ ॥
पदरत्नावली
अप्रजान् पुत्ररहितान् । तत्सुतः साध्यगणसुतः ॥ ७ ॥
सत्यधर्म
विश्वेदेवा रूढशब्दः । तानप्रजानप्रजाकानिति गतेऽनपत्यान् । साध्योगणः । तत्सुतः साध्यगणसुतः ॥ ७ ॥
चट्टी
अप्रजान् पुत्ररहितान् । तत्सुतः साध्यानां सुतः ॥ ७ ॥
मरुत्वांश्च जयन्तश्च मरुत्वत्यां बभूवतुः ।
जयन्तो वासुदेवांश उपेन्द्र इति यं विदुः ॥ ८ ॥
सत्यधर्म
यमुपेन्द्र इति विदुर्विद्वांसः स वासुदेवांशो जयन्त आदितेयादयमुपेन्द्रोऽन्यः । मरुत्त्वान्मरुत्वतीति चाखण्डौ । यद्वा यमुपेन्द्रमिति विदुस्तस्य वासुदेवस्यांशो जयन्त इति योजना ॥८॥
मौहूर्तिका देवगणा मुहूर्तायाश्च जज्ञिरे ।
यथाफलं प्रयच्छन्ति भूतानां स्वस्वकालजम् ॥ ९ ॥
पदरत्नावली
मौहूर्तिका मुहूर्ताभिमानिनः । यथाफलं यथोचितं फलं स्वस्वमुहूर्तजम् ॥ ९ ॥
सत्यधर्म
मौहूर्तिकाः । स्युर्मौहूर्तिकमौहूर्तेत्यमरः । मुहूर्तं विदन्तीति ते तथा । तद्वेदेत्यर्थे उक्थादित्वाट्ठक् । मुहूर्ताद्यभिमानिनः स्वस्वकालाज्जातं काले जातं वा फलं यथा सम्यक् प्रयच्छन्ति ॥९॥
चट्टी
मौहूर्तिका दिनावयवभूतमुहूर्ताभिमानिनो देवाः । स्वस्वकालजं स्वस्वमुहूर्तानुष्ठितकर्मजन्यं फलम् । यथा स्वनामानुसारेण प्रयच्छन्ति ॥ ९ ॥
सङ्कल्पायाश्च सङ्कल्पः कामः सङ्कल्पजः स्मृतः ।
वसवोऽष्टौ वसोः पुत्रास्तेषां नामानि मे शृणु ॥ १० ॥
सत्यधर्म
वसोस्तत्संज्ञाया अष्टौ मनवस्तेषां मनूनाम् । ननु वसुरष्टमी किमित्यन्ते निरूपिता यदिदानीं निबन्धस्य कश्चिदस्त्यनुबन्धो हन्त तर्हि निर्देशसमय एव किं तथा निर्देशो न कृत इति चेन्न । अर्थद्वन्द्वयुक्तताप्रयुक्तडोलायमानमानसो व्यास एवं शशंस । तथा हि । उत्पत्तिक्रमं क्रमं च कन्या-वितरणस्य चालोच्य प्राच्चूचे । सूचीकटाहनयेन वसुवंशः सुविस्तृत इति पश्चात्तमूच इति समाध्युपपत्तेरिति
॥ १० ॥
चट्टी
वसोर्वंशस्य भूयस्त्वादन्ते निर्देशः । मे मत्तः ॥ १० ॥
द्रोणः प्राणो ध्रुवोऽर्कोऽग्निर्दोषो वस्तुर्विभावसुः ।
द्रोणस्याभिमतेः पत्न््नया हर्षशोकभयादयः ॥ ११ ॥
पदरत्नावली
अभिमतिर् अभिमानिदेवता । हर्षादयः हर्षाद्यन्तःकरणदेवताः ॥ ११ ॥
सत्यधर्म
अभिमतेस्तन्नाम््नया अभिमानाभिमानिन्या हर्षशोकभयादयोऽन्तःकरणप्रभेदास्तद्देवाश्च । सर्वत्राप्येवमनुसन्धेयम् ॥ ११ ॥
चट्टी
विभावसुरिति तेषां नामानीति शेषः । द्रोणस्याभिमान्यभिमानित्वादभिमतिनाम्नी पत्नी आसीत् । हर्षादयो हर्षाद्यन्तःकरणधर्मदेवताः । तस्याः पुत्रा इति शेषः ॥ ११ ॥
प्राणस्योर्जस्वती भार्या सह आयुः परोजवः ।
ध्रुवस्य भार्या धरणी त्वसूत विविधाः पुरः ॥ १२ ॥
पदरत्नावली
सह आयुःप्रभृतयः पुत्राः । पुरः पुराभिमानिदेवताः ॥ १२ ॥
सत्यधर्म
सह आयुर्नाम्ना । पुरः पत्तनानि ॥ १२ ॥
चट्टी
पुरः पुराणि । तदभिमानिनो देवान् । सह आदयस्त्रय ऊर्जस्वत्याः पुत्राः ॥ १२ ॥
अर्कस्य वासना भार्या पुत्रास्तर्षादयः स्मृताः ।
अग्नेर्भार्या वसोर्धारा पुत्रा द्रविणकादयः ॥ १३ ॥
सत्यधर्म
वसोः सूनोरग्नेर्धारा नामान्तरमेतत्स्वाहायाः । पुत्रा धारोदरजाः ॥ १३ ॥
चट्टी
अग्नेर्भार्या वसोर्धारा नाम्नी ॥ १३ ॥
स्कन्दश्च कृत्तिकापुत्रो ये विशाखादयस्ततः ।
दोषस्य शर्वरी पुत्रः शिंशुमारो हरेः कला ॥ १४ ॥
पदरत्नावली
स्कन्दश्चाग्निपुत्रः । धात्रीत्वेन कृत्तिकापुत्रः । उपचारमात्रमेतत् । मुख्यतस्तु सदाशिवपुत्रः । ये विशाखादयस् ते ततः स्कन्दाज्जाताः । दोषभार्या शर्वरी । तत्पुत्रः शिंशुमारः । कोऽसाविति तत्राह– हरेरिति ॥ १४ ॥
सत्यधर्म
स्कन्दः कृत्तिकापुत्रश्चेत्यन्वयः । तं कार्तिकेयं गाङ्गेयमाग्नेयं च प्रचक्षत इत्यादेः । ततः स्कन्दाद्दोषस्य पूर्वं दोषेत्यव्ययेनोक्तस्यैवात्रैवमुक्तिः । तस्य सम्बन्धिनी या शर्वरी तत्पुत्रः शिंशुमारो हरेः कला साक्षादभिन्नांशः ॥ १४ ॥
चट्टी
स्कन्दश्च कृत्तिकासु जातोऽग्नेः पुत्रः षाण्मातुर इति । अग्निभूरिति प्रसिद्धेः । ततः स्कन्दात् । शर्वरी नाम भार्या ॥ १४ ॥
वस्तोराङ्गिरसी पुत्रो विश्वकर्मा कृतीपतिः ।
ततो मनुश्चाक्षुषोऽभूद् विश्वेशाद्या मनोः सुताः ॥ १५ ॥
पदरत्नावली
वस्तोर्भार्या आङ्गीरसी । तत्पुत्रः विश्वकर्मा कृतीपतिः कृतीनां शिल्पानाम् इः इच्छा तस्य पति; । शिल्पिनां कुलाचार्य इत्यर्थः । कृत्या देव्याः पतिरिति वा । ततो विश्वकर्मणः
॥ १५ ॥
सत्यधर्म
कृतीति तत्सती । कृतीनां क्रियाणाम् इः काम इच्छा तस्याः पतिः प्रभुः । यथोक्तं प्रवो भ्रियन्त इन्दव इत्यृग्भाष्यटीकयोः । इष्टदानात्तथेन्दवः । इन्दुशब्दं सोमेषु मनोवृत्तिषु च व्याख्याति ॥ इष्टेति । इकारः कामवाची इं कामं ददतीतीन्दव इति ॥ १५ ॥
चट्टी
आङ्गिरसी नाम । भार्या कृती कर्मसु निपुणः ॥ पतिः शिल्पाचार्यः । कृत्या देव्याः पतिरित्येकं पदं वा । ततः विश्वकर्मणः ॥ १५ ॥
विभावसोरसूतोषा व्युष्टं रोचिषमातपम् ।
पञ्चयामोऽथ भूतानि येन जाग्रति कर्मसु ॥ १६ ॥
पदरत्नावली
अथ पञ्चयामो दिवसाभिमानी आतपाज्जात इति शेषः । येन पञ्चयामेन ॥ १६ ॥
सत्यधर्म
विभावसोः सकाशात्पञ्चयामोऽन्हो यामचतुष्टयं पश्चिमापश्चिमार्धयामद्वयं चेत्याहत्य सैको यामश्चेति पञ्चयामोऽत एव रात्र्यास्त्रियामेति नाम । दिवसदेवताऽथातपाज्जात इति शेषः ॥ १६ ॥
चट्टी
उषा भार्या । अथातपात् । पञ्चयामो दिवसो जातः । अत एव रात्रिस्त्रियामप्रदोष-प्रत्यूषयोर्दिवसावयवत्त्वात् । अत्र सर्वत्र तपआदिशब्दैरभिमानिनस्तदभिमन्यमानाश्च ग्राह्याः । येन दिवसेन भूतानि प्राणिनः कर्मसु विषयेषु जाग्रति जागरं प्राप्नुवन्ति ॥ १६ ॥
भूतस्य भार्या भूताया रुद्रा एकादश स्मृताः ।
सुरूपाऽसूत भूतस्य भार्या रुद्रांश्च कोटिशः ॥ १७ ॥
रैवतोऽजो भवो भीमो वाम उग्रो वृषाकपिः ।
अजैकपादहिर्बुध््नयो बहुरूपो महानिति ।
रुद्रांश्च पार्षदांश्चान्यान् घोरान् प्रेतविनायकान् ॥ १८ ॥
पदरत्नावली
भूतस्य सन्ततिमाह– भूतस्येति ॥ भूतस्य भार्या नाम्ना भूता (भार्या) एकादश-रुद्रानसूत । तस्यान्या सुरूपा भार्या रुद्रानसूत । तथा रुद्राणां पार्षदानसूत, तथा प्रेतविनायकांश्च । प्रधानरुद्ररूपाणां नामन्याह– रैवत इति ॥ १७–१८ ॥
सत्यधर्म
भूतस्याभूद्भूतैकाऽपरा च सुरूपेति भार्याद्वयम् । भूता एकादशरुद्रानसूत सुरूपा तु कोटिशः । एकादशरुद्राणां प्रधानत्वादल्पनिरूपणसूपपादकत्वाद्वा नामान्याह ॥ रैवत इत्यादिना । प्रेतविनायकांश्चासूत ॥ १७,१८ ॥
चट्टी
भूतस्य द्वे भार्ये तयोर्वंशमाह ॥ सुरूपेति । सुरूपा नाम्नी भार्या कोटिशो रुद्रानसूत । तत्र प्रधानानां नामान्याह ॥ रैवत इति । महानित्येकादशरुद्राः । प्रधाना इति शेषः । रुद्रपार्षदान्घोरा-न्प्रेतादींश्च । अन्यान् अन्यस्यां भार्यायां जातान् । विद्धीति शेषः ॥ १७,१८ ॥
प्रजापतेराङ्गिरसः स्वधा पत्नी पितॄनथ ।
अथर्वाङ्गिरसं वेदं पुत्रत्वे चाकरोत् सती ॥ १९ ॥
पदरत्नावली
आङ्गिरसः प्रजापतेर् नाम्ना स्वधा पत्नी पितृनसूत । अथ तस्यैवान्या भार्या (सतीनाम्नी)अथर्वाङ्गिरसं वेदं पुत्रत्वेऽकरोत् ॥ १९ ॥
सत्यधर्म
आङ्गिरसः प्रजापतेरिति सामानाधिकरण्यम् । सती स्वधा चेति द्वे भार्ये । तत्र स्वधा पितॄनसूत । सती चाथर्वाङ्गिरसं वेदं तदभिमानिनं पुत्रत्वेऽकरोत्कृतवती ॥ १९ ॥
चट्टी
आङ्गिरसः स्वधा सती चेति द्वे भार्ये । तयोर्वंशमाह ॥ प्रजापतेरिति । स्वधा नाम पत्नी पितॄन्पुत्रत्वेऽकरोत् । अथ सती अथर्वाङ्गिरसं नाम वेदं पुत्रत्वेऽकरोदित्यन्वयः ॥ १९ ॥
कृशाश्वोऽर्चिषि भार्यायां धूमकेतुमजीजनत् ।
धिषणायां वेदशिरा देवलं च सुतं मनुम् ॥ २० ॥
पदरत्नावली
वेदशिरा इति कृशाश्वस्य नामान्तरम् ॥ २० ॥
सत्यधर्म
कृशाश्वो नाम्नाऽर्चिर्धिषणेति द्वे भार्ये । वेदशिरा इति कृशाश्वस्यैव नामान्तरम् ॥२०॥
चट्टी
कृशाश्वस्यार्चिर्धिषणेति द्वे भार्ये । तयोर्वंशमाह ॥ कृशाश्व इति । वेदशिरा इति कृशाश्वस्य नामान्तरम् ॥ २० ॥
तार्क्ष्यस्य विनता कद्रूः पतङ्गी यामिनी इति ।
पतङ्ग्यसूत पतगान् यामिनी शलभानथ ॥ २१ ॥
पदरत्नावली
पुत्राणां जातिभेदसूचनाय ‘यामिनी इति’ इति सन्धिकार्याभावः ॥ २१ ॥
सत्यधर्म
यामिनी इति विना सन्धिं निर्देश उत्तरत्र व्यत्यस्य सन्तत्युक्तिर्नैकसरण्येति सूचक इति ज्ञेयम् । यामिनी नाम्ना ॥ २१ ॥
चट्टी
यामिनीति चतस्रो भार्या इति शेषः । विवक्षाधीनत्वात्संधेस्तदभावादभावः । तासां वंशमाह ॥ पतङ्गीति ॥ २१ ॥
विनताऽसूत गरुडं साक्षाद् यज्ञेशवाहनम् ।
सूर्यसूतमनूरुं च कद्रूर्नागाननेकशः ॥ २२ ॥
पदरत्नावली
अनूरुम् ऊरुरहितमरुणमित्यर्थः ॥ २२ ॥
सत्यधर्म
साक्षाद्यज्ञेशो हि नारायणः । अनूरुमिति वा सूर्यसूतमिति पदे व्यवस्थया संज्ञा-स्वरूपनिरूपणपरे ज्ञेये । सूर्यसूतोऽरुणोऽनूरुरित्यमरात् । कद्रुकमण्डल्वोरित्यूङ् ॥ २२ ॥
चट्टी
अनूरुम् अरुणं च विनताऽसूतेत्यन्वयः ॥ २२ ॥
कृत्तिकादीनि नक्षत्राणीन्दोः पत्न््नयस्तु भारत ।
दक्षशापात् सोऽनपत्यस्तासु यक्ष्मग्रहार्दितः ।
पुनः प्रसाद्य तं सोमः कला लेभे क्षयेधिताः ॥ २३ ॥
पदरत्नावली
यक्ष्मग्रहार्दितः क्षयरोगार्तः । कीदृश्यः कलाः ? । कृष्णपक्षे क्षयाः क्षीणाः शुक्लपक्ष एधिता वर्धिताः । वृद्ध्यभावश्छान्दसः । एध वृद्धौ इति धातोः । अथवा इधि दीप्तौ इति धातोः, निष्ठायां नुमो लोपे इधिता इति रूपं सिद्ध्यति, तस्य गुणः ॥ २३ ॥
सत्यधर्म
कृत्तिकादीनि नक्षत्राणि । इन्दोः पत्न््नयो दक्षशापाद्रोहिणीमात्रासक्तिप्रसक्तकोप-जाद्यक्ष्मग्रहार्दितो यक्ष्मणा राजरोगेण ग्रहो ग्रहणं तेनार्दितस्तद्रूपपिशाचेनेति वा । तं क्षयेधिता अपचयोपचयसहिताः । क्षयैधिता इति सुपठे यत्क्षयेधिता इति पपाठ तेन न सदातनी वृद्धिरैन्दवीति वा पूर्वानर्थातिशयापेक्षयाऽयमेको गुणः पररूपमिति वा सूचयामासेत्यवसेयम् । कृष्णपक्षे कलापचय उपचयश्च शुक्लपक्ष इति क्षयेधिताः । ‘‘क्षयो रोगान्तरे वेश्मकल्पान्तापचयेषु’’ इति विश्वः । रोगराजः क्षये वेश्मेति रभसः । क्षये दिता इति क्वाचित्कः पाठः स न सरलश्च तथाऽपि क्षये कृष्णपक्षे दिता अवखण्डिता दोऽवखण्डन इति धातुव्याकृतेः । अक्षये शुक्लपक्षे च कला लेभ इति व्याख्येयः । सोमो रोहिण्यामधिकं प्रीतिमानभूदित्यादीकृत्य दक्षश्चैनमब्रवीत्समं वर्तयसीत्यन्तेन मोक्षधर्मे कथितः शापस्तत्रैव तन्मोक्षश्च व्यवस्थया तत्र । ऋषयः सोममब्रुवन्क्षीयसे यक्ष्मणा पश्चिमस्यां दिश्यस्ति समुद्रे हिरण्य-सरस्तीर्थं तत्र गत्वाऽऽत्मानमभिषेचयस्वेत्यादीकृत्य तदस्य शशलक्ष्म विमलमभवदित्यन्तोक्तोऽनुसन्धेयः । दक्षस्तु तदनुमेन इति पुनः प्रसाद्येत्याद्युक्तिरिति न तदेतद्विसंवादः ॥ २३ ॥
चट्टी
रोहिण्यामेव प्रेमातिशयेनान्यासामुपेक्षणात् कुपितस्य दक्षस्य शापाद्यक्ष्मग्रहार्दितः क्षयरोगपीडितः सन् तास्वनपत्योऽभूत् । तं दक्षं प्रसाद्य केवलं कला एव लेभे न त्वपत्यानि । कथंभूताः क्षयेधिताः कृष्णपक्षे क्षये सति शुक्लपक्षे पुनरेधितास्तेनैव विवर्धिताः सतीः। वृद्ध्यभाव आर्षः ॥ २३ ॥
शृणु नामानि लोकानां मातॄणां शङ्कराणि च ।
अथ कश्यपपत्नीनां यत्प्रसूतमिदं जगत् ॥ २४ ॥
पदरत्नावली
शङ्कराणि सुखाकराणि ॥ २४ ॥
सत्यधर्म
शङ्कराणि शमिति सुखवाच्यव्ययम् । शं कुर्वन्तीति तानि । शमिधातोः संज्ञाया-मित्यच् । ञ्निति न असंज्ञत्वात् । शं सुखस्य कुर्वन्तीति कराणि । पचादिरच् । भिन्नं वा पदम् ॥२४॥
चट्टी
शङ्कराणि सुखकराणि ॥ २४ ॥
अदितिर्दितिर्दनुः काष्ठा अरिष्टा सुरसा इला ।
मुनिः क्रोधवशा ताम्रा सुरभिः सरमा तिमिः ॥ २५ ॥
पदरत्नावली
अत्रापि मिथो वैलक्षण्यद्योतनाय सन्धिकार्याभावः ॥ २५ ॥
सत्यधर्म
सुरसा इलेत्यसन्धिर्विवक्षाभावात् । सुरसाशब्दपर्यायोऽयं सुरसा इति सान्तः शब्द इति वा ॥ २५ ॥
तिमेर्यादोगणा आसन् श्वापदाः सरमासुताः ।
सुरभेर्महिषा गावो ये चान्ये द्विशफा नृप ।
ताम्रायाः श्येनगृध्राद्या मुनेरप्सरसां गणाः ॥ २६ ॥
पदरत्नावली
सूचीकटाहन्यायेन प्रातिलोम्येन सन्ततिमाह– तिमेरिति ॥ २६ ॥
सत्यधर्म
तिमिरित्यंतिमायास्तिमेरिति प्रथमत उक्तिः कासाञ्चित्त्यागश्च स्वातन्त्र्यतयेति ज्ञेयम्
॥ २६ ॥
चट्टी
अल्पत्वेन सुगमत्वाद्यथायथं व्युत्क्रमेण तासां वंशमाह ॥ तिमेरित्यादिना ॥ २६ ॥
दन्दशूकादयः सर्पा राजन् क्रोधवशात्मजाः ।
इलाया भूरुहाः सर्वे यातुधानाश्च सौरसाः ॥ २७ ॥
पदरत्नावली
भूरुहा वृक्षाः । सुरसायाः पुत्राः सौरसाः ॥ २७ ॥
सत्यधर्म
सौरसाः सुरसासम्बन्धिनः ॥ २७ ॥
चट्टी
भूरुहा वृक्षाः । सौरसाः सुरसायाः पुत्राः ॥ २७ ॥
अरिष्टायाश्च गन्धर्वाः काष्ठाया द्विशफेतराः ।
सुता दनोरेकषष्टिस्तेषां प्राधानिकान्१ श्रुणु ॥ २८ ॥
पदरत्नावली
द्विशफेतरा एकशफाः । प्राधानिकं प्रधानविषयसंख्यानम् ॥ २८ ॥
सत्यधर्म
द्विशफेतरा द्विशफा इतरे येभ्यस्त इति बहुव्रीहिरतो न सर्वनामता । एकशफजातयः । प्राधानिकान् मुख्यान् ॥ २८ ॥
चट्टी
द्विशफेतरा एकशफास्तेषां मध्ये प्राधानिकं प्रधानविषयसङ्ख्यानं शृृणु ॥ २८ ॥
द्विमूर्धा शम्बरोऽरिष्टो हयग्रीवो विभावसुः ।
अयोमुखः शंकुशिराः स्वर्भानुः कपिलोऽरुणः ॥ २९ ॥
सत्यधर्म
द्विमूर्धा संज्ञात्वान्न षः ॥ २९–३३ ॥
पुलोमा वृषपर्वा च एकचक्रोऽनुतापनः ।
धूम्रकेशो विरूपाक्षो विप्रचित्तिस्तु दुर्जयः ॥ ३० ॥
चट्टी
दुर्जय इत्येतेऽष्टादशप्रधाना इति शेषः ॥ ३० ॥
स्वर्भानोः सुप्रभां कन्यामुवाह नमुचिः किल ।
वृषपर्वणस्तु शर्मिष्ठां ययातिर्नाहुषो बली ॥ ३१ ॥
वैश्वानरसुता याश्च चतस्रश्चारुदर्शनाः ।
उपदानवी हयशिराः पुलोमा कालिका तथा ॥ ३२ ॥
उपदानवीं हिरण्याक्षः क्रतुर्हयशिरां नृप ।
पुलोमां कालिकां च द्वे वैश्वानरसुते नृप ॥ ३३ ॥
चट्टी
वैश्वानरो दनोः पुत्रस्तस्य सुता या उपदानवीत्यादयश्चतस्रस्तासां मध्ये उपदानवी हिरण्याक्षमुपयेमे । इत्यादिरन्वयः ॥ ३१–३३ ॥
उपयेमे च भगवान् कश्यपो ब्रह्मचोदितः ।
पौलोमाः कालिकेयाश्च दानवा युद्धशालिनः ॥ ३४ ॥
सत्यधर्म
कः प्रजापतिः । कश्यपः ॥ ३४ ॥
चट्टी
दानवीपरिण्यायने हेतुर्ब्रह्मणा चोदित इति ॥ ३४ ॥
तयोः षष्ठिसहस्राणि यज्ञघ्नांस्ते पितुः पिता ।
जघान स्वर्गतो राजन् एक इन्द्रप्रियङ्करः ॥ ३५ ॥
पदरत्नावली
ते तव पितुरभिमन्योः पिताऽर्जुनः ॥ ३५ ॥
सत्यधर्म
स्वरव्ययं स्वर्गेत्यमरात्स्वः स्वर्गं गतः । ते तव पितुरभिमन्योः पिता जनकोऽर्जुनः । पितामह इत्यमहता निर्देशेनार्थनिर्वाहे यत्पितुः पितेत्यगदत्तेन मम जनको विरोचनादिवद्यः कश्चिद्वर्तेतेति दुश्चित्ततया मन्मुखनिरीक्षकः परीक्षिद्भवेन्न तथा भवत्विति तं सान्त्वयामास व्याससूनुरिति मन्तव्यम् । इन्द्रप्रियङ्करः । ‘‘क्षेमप्रियमद्रेऽण्च’’ इति खश् स्वांशित्वात् ॥ ३५ ॥
चट्टी
तयोः षष्ठिसहस्राणि पौलोमकालेयानां मानः । निवातकवचाः पुत्रा जाताः । ते च स्वर्गं गताः सन्तस्ते पितुरभिमन्योः पिताऽर्जुनो जघान ॥ ३५ ॥
विप्रचित्तिः सिंहिकायां शतं चैकमजीजनत् ।
राहुज्येष्ठं केतुशतं ग्रहत्वं य उपागतः ॥ ३६ ॥
सत्यधर्म
शतं चैकं चेत्येकोत्तरशतम् । तत्र ज्येष्ठो राहुः । केतुशतं केत्वादिशतं शरीर-विवक्षयैवमुक्तिः । तत्प्रकारश्चाष्टमे स्पष्टयिष्यते ॥ ३६ ॥
चट्टी
शतमेकं चाजीजनत् । तदेव विवृणोति ॥ राहुज्येष्ठमिति । राहुर्ज्येष्ठो यस्य तत्केतुशतमजीजनत् । इत्युरुक्रम इत्येते द्वादश अदितेः पुत्रा इति शेषः ॥ ३६ ॥
अथातः श्रूयतां वंशो योऽदितेरनुपूर्वशः ।
यत्र नारायणो देवः स्वांशेनावतरद् विभुः ॥ ३७ ॥
विवस्वानर्यमा पूषा त्वष्टाऽथ सविता भगः ।
धाता विधाता वरुणो मित्रश्शक्र उरुक्रमः ॥ ३८ ॥
सत्यधर्म
स्वांशेन स्वरूपांशेनावतरदवातरद्वामनतया ॥ ३७, ३८ ॥
विवस्वतः श्राद्धदेवं संज्ञाऽसूयत वै मनुम् ।
मिथुनं च महाभाग यमं देवं यमीं तथा ॥ ३९ ॥
सत्यधर्म
संज्ञा संज्ञयाऽसूयत असूत । यमं देवं यमीं चेति मिथुनं द्वन्द्वम् ॥ ३९ ॥
चट्टी
संज्ञानाम्नी भार्या श्राद्धदेवं वैवस्वतं मनुम् ॥ ३९ ॥
सैव भूत्वाऽथ वडवा नासत्यौ सुषुवे भुवि ।
छाया शनैश्चरं लेभे सावर्णिं च मनुं ततः ।
कन्यां च तपतीं या वै वव्रे संवरणं पतिम् ॥ ४० ॥
पदरत्नावली
भुवि, वर्तमानेति शेषः । नाम्ना वडवा ॥ ४० ॥
सत्यधर्म
भुवि वर्तमाना । अथवा भुवि नीरोगतया सत्ताविषये नासत्यौ सुषुवे भिषक्त्वात्तयोर्भुवि पुनरपत्यजनने प्रस्तुत इति वा सावर्णिं नाम्ना । या संवरणं नाम्ना पतिं वव्रे तां तपतीमित्यन्वयः ॥४०॥
चट्टी
भुवि वर्तमाना । छाया विवस्वतो ऽपरा भार्या । संवरणं नाम राजानम् ॥ ४० ॥
अर्यम्णो मातृका पत्नी तयोश्चर्षणयः सुताः ।
यत्र वै मानुषी जातिर्ब्रह्मणा चोपकल्पिता ॥ ४१ ॥
सत्यधर्म
तयोर्मातृकार्यम्णोश्चर्षणयः । ओमासश्चर्षणीधृत इत्यृग्भाष्यटीकाटिप्पणीषु प्रजा-श्चर्षणयः प्रोक्ता नैघण्टुकैः । मनुष्या नरो धवो जन्तवो विशः क्षितयः कृष्टयश्चर्षणय इत्यादि-पञ्चविंशतिसङ्ख्याकेषु मनुष्यनामसु चर्षणिशब्दः पठित इत्युक्तेः । यत्र प्रजासामान्ये मानुषी ज्ञानवती पौरुषी जातिश्चर्षणयः कृताकृतज्ञानवन्तः पश्यति कर्मत्वेन निघण्ट्वाद्युक्तेः । यत्र येष्वनुसन्धानविशेषेण मानुषी जातिश्चोपकल्पिता । तथा च श्रुतिः । पुरुषत्वे वा विस्तरामात्मेतीति । केचित्स्वयमेव निघण्टुमार्गेण सङ्कटं त्रोटयामासुरिति तोषः ॥ ४१ ॥
चट्टी
मातृका नाम पत्नी ॥ ४१ ॥
पूषाऽनपत्यः पिष्टादो भग्नदन्तोऽभवत् पुरा ।
योऽसौ दक्षाय कुपितं जहास विवृतद्विजः ॥ ४२ ॥
पदरत्नावली
विवृतद्विजः प्रकाशितदन्तः । दक्षाय कुपितम्, हरमिति शेषः ॥ ४२ ॥
सत्यधर्म
कुपितं भवम् । विवृतद्विजो दर्शितदन्तः । अयमुदन्तश्चतुर्थेऽभिहितोऽनुसन्धेयः ॥४२॥
चट्टी
कुपितम् । हरमिति शेषः । विवृतद्विजः प्रकटितदन्तः सन् ॥ ४२ ॥
त्वष्टुर्दैत्यानुजा भार्या रचना नाम कन्यका ।
सन्निवेशस्तयो(स्तया)र्जज्ञे विश्वरूपश्च वीर्यवान् ॥ ४३ ॥
पदरत्नावली
तया रचनया त्वष्टुः सन्निवेशो नाम सुतो जज्ञे विश्वरूपश्च, अभूदिति शेषः
॥ ४३ ॥
सत्यधर्म
तयोस्त्वष्टृरचनयोः सन्निवेशस्तच्छर्मा सुतो जज्ञे, विश्वरूपश्च जज्ञ इति पृथक् पृथगन्वयः । वीर्यवानितीर्यमाणकथोपोद्बलनार्थम् ॥ ४३ ॥
चट्टी
तया रचनया ॥ ४३ ॥
तं वव्रिरे सुरगणा स्वस्रीयं१ द्विषतामपि ।
विमतेन परित्यक्ता गुरुणाऽऽङ्गिरसेन यत् ॥ ४४ ॥
॥ इति श्रीमद्भागवते षष्ठस्कन्धे षष्ठोऽध्यायः ॥ ६ ॥
पदरत्नावली
तं विश्वरूपम् । रचना देवानामपि स्वसा । उभयेषां कश्यपपुत्रत्वेन मिथो भ्रातृत्वात् । देवानां स्वस्त्रीयं स्वसुः पुत्रम्, द्विषतामसुराणामपि स्वस्त्रीयमित्यर्थः । देवैः सहेन्द्रेण विमतेनावज्ञातेनऽऽङ्गिरसेन गुरुणा बृहस्पतिना परित्यक्ता अभूवन्निति यदतोऽसुरजयार्थं विश्वरूपं वव्रिर इत्यर्थः ॥ ४४ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
षष्ठस्कन्धे षष्ठोऽध्यायः ॥
सत्यधर्म
स्वस्रीयं स्वसुरपत्यं स्वस्रीयस्तम् । स्वसुश्छ इति छः । दौहित्रमिति पाठोऽप्ये-तदर्थकः । द्विषतां दैत्यानामपि कश्यपपुत्रत्वादुभयेषाम् । स्वस्रियमिति लेखकापराधत इति बोध्यम् । उत्तरत्राभिधीयमाननिमित्तेन विमनस्केनाङ्गिरसेन ‘‘जीव आङ्गिरसः’’ इत्यमराज्जीवेन गुरुणा यत्परि-त्यक्तास्तस्मात्ते वव्रिरे । गुरुणा मुक्तोपसृप्यवन्नेह नानाऽस्तीतिवद्भावप्रधानो निर्देशः । गुरुत्वेन वव्रिरे । परपराकरणरूपकर्मभारेण निमित्तेनेति वा । परित्यक्ताः सुराः शिष्याणामक्रममित्युत्तरपद्यपद्यां प्रतिपद्य परित्यक्त इति पाठस्तु परित्यक्तः ॥ ४४ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मकृतायां षष्ठस्कन्धे षष्ठोऽध्यायः ॥ ६–६ ॥
चट्टी
यद् यदा विमतेनावज्ञातेन गुरुणा बृहस्पतिना परित्यक्ताः । तदा द्विषतां शत्रूणां स्वस्रीयं भागिनेयमपि तं विश्वरूपं वव्रिरे । पौरोहित्ये व्रतवन्त इत्यन्वयः ॥ ४४ ॥
॥ इति श्रीभागवतटिप्पण्यां चट्टीव्याख्यायां षष्ठस्कन्धे षष्टोऽध्यायः ॥ ६–६ ॥