तस्यां स पाञ्चजन्यां वै विष्णुमायोपबृंहितः
॥ अथ पञ्चमोऽध्यायः ॥
बादरायणिरुवाच—
तस्यां स पाञ्चजन्यां वै विष्णुमायोपबृंहितः ।
हर्यश्वसंज्ञानयुतं पुत्रानजनयद् विभुः ॥ १ ॥
पदरत्नावली
ज्ञानमन्तरेण केवलकर्मणा परमश्रेयःसाधनत्वं निषिध्यतेऽस्मिन्नध्याये । तत्रोपोद्घातं रचयति– तस्यामिति ॥ पाञ्चजन्यां पञ्चजननाम्नः प्रजापतेः पुत्र्याम् । विष्णुमायया विष्णुमहिम्ना ॥ १ ॥
सत्यधर्म
कर्मैव परमशर्मप्रदं विना ज्ञानमित्येतत्प्रतिषिध्यतेऽस्मिन्नध्याये । तत्रादौ तदुपयुक्तं वदन् सम्पादितहर्यनुकम्पः किं चकार दक्ष इति परीक्षिन्मानसं संशयं वैय्यासकिः परिहरतीतीरयति । बादरायणिरिति । पाञ्चजन्यां पञ्चजनतनयायां मायेच्छा हर्यश्वसंज्ञान्सामस्त्येनायुतं दशसहस्रसङ्ख्याकान्
॥ १ ॥
चट्टी
संसारासारतां ज्ञात्वा हरिः सेव्यो बभूषुभिः । हर्यश्वादिवदित्येतदध्यायेऽस्मिन्निरूप्यते ॥ माया– सामर्थ्यम् ॥ १ ॥
अपृथग्धर्मशीलास्ते सर्वे दाक्षायणा नृप ।
पित्रा प्रोक्ताः प्रजासर्गे प्रतीचीं प्रययुर्दिशम् ॥ २ ॥
सत्यधर्म
अपृथग्धर्मशीलाः समानधर्मस्वभावाः । ‘‘शीलं स्वभावे सद्वृत्ते’’ इति विश्वः । दाक्षायणास्तद्धिता इति बहुवचनज्ञापितो दक्षस्यापत्यानीत्यर्थे फञ्प्रत्ययः । दक्षस्यार्थे दक्षशब्दस्य वा नामधेयस्येति वृद्धसंज्ञायामुदीचां वृद्धादगोत्रादिति फिञि गौरादित्वात् ङीष् दाक्षायणी साऽस्त्येषां भगिनीयत्वेनेति दाक्षयणा इति वा ॥ २ ॥
चट्टी
अपृथग्धर्मशीला एकाचारस्वभावाः । प्रजासर्गे प्रजासृष्ट्यर्थम् ॥ २ ॥
तत्र नारायणसरस्तीर्थं सिन्धुसमुद्रयोः ।
सङ्गमो यत्र सुमहन्मुनिसिद्धनिषेवितम्१ ॥ ३ ॥
पदरत्नावली
तत्र प्रतीच्यां सिन्धुसमुद्रयोः सङ्गमोऽस्ति, यत्र सङ्गमे नारायणसरो नाम तीर्थं चास्ति । सुमहान्तो मुनयश्च सिद्धाश्च सुमहन्मुनिसिद्धाः । तैर्निषेवितम् ॥ ३ ॥
सत्यधर्म
सिन्धुर्नदी । ‘‘सिन्धुः समुद्रे नद्यां च’’ इति विश्वः । गङ्गा सिन्धुसरस्वतीत्यादेः स्वतन्त्रसरित्तन्नाम्नी वा समुद्रश्च तयोः सङ्गमो यत्र सुमहन्नारायणसरस्तन्नामकं तीर्थं तत्र तां प्रतीचीदिशं ययुः । सुमहामुनिसिद्धनिषेवितमिति पाठे महान्तश्च ते मुनयः सन्न्यासिनः सिद्धास्तदितरे योगिनश्च तैर्निषेवितम् । यथोक्तं गीताभाष्ये– ‘‘मुनिः सन्न्यासी, तच्चोक्तं स हि लोके मुनिर्नाम यः कामक्रोधवर्जित इति’’ इति ॥ ३ ॥
चट्टी
तत्र प्रतीच्यां दिशि । सिन्धोर्नद्याः समुद्रस्य च यत्र सङ्गमः । तत्रस्थं नारायणसरोनाम तीर्थं प्रययुरित्यन्वयः । सुमहान् अतिपूज्यः ॥ ३ ॥
तदुपस्पर्शनादेव विनिर्धूतमलाशयाः ।
धर्मे पारमहंस्ये च प्रोत्पन्नमतयोऽप्युत ॥ ४ ॥
तेपुस्ते तप एवोग्रं पित्रादेशेन यन्त्रिताः ।
प्रजाविवृद्धये यत्तान् देवर्षिस्तान् ददर्श ह ॥ ५ ॥
पदरत्नावली
तस्य तीर्थजलस्य स्नानाचमनादिना विनिर्धूतमल आशयो येषां ते तथोक्ताः । यत्तान् सन्नद्धान् ॥ ४,५ ॥
सत्यधर्म
तदुपस्पर्शनात्तत्स्नानपानादेर्विनिर्धूतः मलाशयो येषां ते तथा । पारमहंस्ये परमहंस-सम्बन्धिनियन्त्रितपदस्वारस्येन । यद्यपि तेषां मनः पारमहंस्ये प्रभृतं तथाऽपि पुनराज्ञाया अनुल्लङ्घ-नीयत्वात्प्रजासृष्टावुद्योगमात्रमिति न विरोधः । यत्तान्सन्नद्धान् ॥ ४,५ ॥
चट्टी
विनिर्धूतो मलो रागादिर्यस्मात्स आशयो येषां ते । ऊर्ध्वरेतस्कत्वादिलक्षणधर्मे कृतनिश्चया अपि पित्राज्ञावशवर्तिनः सन्तः प्रजावृद्ध्यर्थं तप एव तेपिर इत्यर्थः । प्रजावृद्धये यत्तानुद्युक्तान्नारदो ददर्श ॥ ४,५ ॥
उवाच चाथ हर्यश्वाः कथं स्रक्ष्यथ वै प्रजाः ।
अदृष्ट्वाऽन्तं भुवो यूयं बालिशा बत पालकाः१ ॥ ६ ॥
पदरत्नावली
हे हर्यश्वाः सर्जनलक्षणकर्मप्रयोजनेन भवितव्यम् ? तत् कथं सेत्स्यति ? न कथमपि । ज्ञानाभावात् । तथात्मनात्मविवेकलक्षणं वा इत्यनेन सूचयति । ‘परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः’ इति श्रुतेः । इतरेषां दुर्बोधाय हर्यश्वानामौत्सर्गिकज्ञानसद्भावप्रकटनाय च परोक्षवचनेन ज्ञानाभावं दर्शयति– अदृष्ट्वेति ॥ यस्माद् बालका अत एव च बालिशा इत्युपचारमात्रवचनम् ॥ ६ ॥
सत्यधर्म
हे हर्यश्वाः पालकाः सन्तोऽपि बालिशाः प्रजापतिप्रजातत्वात्पालका इत्युक्तिः । बालका इति पाठे न वामनवदिति वदति ॥ बालिशा इति । बालिशा मूर्खा इत्यर्थः । ‘‘बालिशः किंशुके मूर्ख’’ इति विश्वः ॥ ६ ॥
चट्टी
अहो मोक्षमार्गाधिकारिणः सन्त एते प्रवृत्तिनिष्ठैः कर्मभिर्भ्रंस्येरन्निति कृपया तान्निगूढार्थै-र्वाक्यैर्नारद उपदिशतीत्याह ॥ उवाचेत्यादिचतुर्भिः । हे हर्यश्वा बालका अत एव बालिशा अज्ञानिनो यूयं कथं प्रजाः स्रक्ष्यथ । बत खेदे ॥ ६ ॥
तथैकपुरुषं राज्यं बिलं चादृष्टनिर्गमम् ।
बहुरूपां स्त्रियं चापि पुमांसं पुंश्चलीपतिम् ॥ ७ ॥
सत्यधर्म
‘‘परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः’’ इत्यादेः प्रौढानपि स्वान्मूढान्दर्शयतो निगूढस्वाशयो नारद ईरयति ॥ तथैकेति ॥ ७ ॥
चट्टी
एक एव पुरुषो यस्मिंस्तद्राज्यमदृष्ट्वेत्यनुषङ्गः । बिलं चेत्यादिद्वितीयान्तानामविज्ञाय कथं सर्गं करिष्यथेति तृतीयेणान्वयः ॥ ७ ॥
नदीमुभयतोवाहां पञ्चपञ्चाद्भुतं गृहम् ।
क्वचिद्धंसं चित्रकथं क्षुरान्तं च स्वयं भ्रमिम् ॥ ८ ॥
चट्टी
पञ्चपञ्चानां पञ्चविंशतेरद्भुतं गृहं क्षुरस्यान्तर्भाग इव वर्तमानम् । अतितीक्ष्णमित्यर्थः । स्वयं स्वतन्त्रं भ्रमिं भ्रमणस्वभावम् ॥ ८ ॥
कथं स्वपितुरादेशमविद्वांसो विपश्चितः ।
अनुरूपमविज्ञाय अहो सर्गं करिष्यथ ॥ ९ ॥
पदरत्नावली
अनुरूपमात्मानात्मविवेकलक्षणम् ॥ ९ ॥
सत्यधर्म
विपश्चितः पितुरिति वाऽन्वयः । आदेशमनुरूपमविद्वांसोऽजानन्तोऽविज्ञाय । भुवो यूयमित्यादिमिति केचित् । सर्गं करिष्यथाहो इति बहिष्ठोऽर्थः ॥ ९ ॥
चट्टी
विपश्चितः सर्वज्ञस्य पितुरादेशमात्मनोऽनुरूपम् । अविद्वांसोऽजानन्तः पूर्वोक्तं चैकपुरुषं राज्यमित्याद्यविज्ञायाहो सर्गं करिष्यथेत्यन्वयः ॥ ९ ॥
श्रीशुक उवाच—
तन्निशम्याथ हर्यश्वा औत्पत्तिकमनीषया ।
वाचः कूटं च देवर्षेः स्वयं विममृशुर्धिया ॥ १० ॥
पदरत्नावली
औपत्तिकमनीषया स्वाभाविकज्ञानसंपन्नया धिया विचारविशुद्ध्या बुद्ध्या वाचः कूटं वचनसमूहं, गुह्यभाषात्मकत्वेन कूटमिव प्रतीयमानं वा, अल्पबुद्धिभिर्दुबोधं वा, स्वयं परोपदेशं विना विममृशुर् विचार्यालोच्य निश्चितवन्त इत्यर्थः । ‘मननेच्छा मनीषा स्याज्ज्ञानं बुद्धिर्मतिस्तथा’ इत्यभिधानम् । ‘कूटं तु कैतवं ज्ञेयं समूहो मेलनं तथा’ इति च । औत्पत्तिकमनीषया निरूप्योक्तं धिया विममृशुरिति वा ॥ १० ॥
सत्यधर्म
औत्पत्तिकमनीषया सहजबुद्ध्या देवर्षेर्नारदस्य वाचो वाक्सम्बन्धि कूटं कैतवम् । ‘‘कूटं तु कैतवं ज्ञेयं समूहो मेलनं तथा’’ इत्यभिधानात् । निशम्य स्वयं धिया विममृशुः । अनेन पूर्वं बालिशा इत्युक्तिर्नाज्ञतया किन्तु बुभुत्सातिशयजननाय वा स्ववचनश्रवणसमनन्तरमेव मननादरोन्नयनार्थं वेति ज्ञेयम् ॥ १० ॥
चट्टी
वाचः कूटं परोक्षवादेनार्थान्तरप्रतीयमानम् औत्पत्तिकी सहजा मनीषा विचारशक्तिर्यस्यास्तया धिया स्वयमेव विममृशुर्विचारितवन्तः ॥ १० ॥
भूः क्षेत्रं बीजसंज्ञस्य यदनादिनिबन्धनम् ।
अदृष्ट्वा तस्य निर्वाणं किमसत्कर्मभिर्भवेत् ॥ ११ ॥
पदरत्नावली
कथं निश्चिक्युरिति तत्राह– भूः क्षेत्रमिति ॥ भुवोऽन्तमित्यत्र भूशब्देन क्षेत्रं सूक्ष्मशरीरं लिङ्गशब्दवाच्यमुच्यते । कस्य विद्यमानम् ? अत्राह– बीजेति ॥ बीजसंज्ञस्य जीवस्य यच्छरीरमनादिकालमारभ्य जीवं नितरां बध्नातीति अनादिनिबन्धनम् । अस्मिन् काले प्रारब्धमित्य-नियमादनादि । अनेन लिङ्गशरीरस्य भूशब्दवाच्यत्वं युक्तम् । भू सत्तायाम् इति धातोः । सत्ताया-स्तथात्वात् । तस्य शरीरस्यान्तं निर्वाणं सर्वात्मना नाशमदृष्ट्वाऽनेन उपायेन नाशो भवतीत्यज्ञात्वा, असत्कर्मभिरात्मानात्मविवेकाजनकैः सर्जनलक्षणैः कर्मभिः किं फलम् ? न किमपीत्यर्थः ॥ ११ ॥
सत्यधर्म
ऋषिभाषिते स्वयं धियमाधाय निर्धार्यार्थं प्रतिवदतीति वदति ॥ भूः क्षेत्रमिति । भुवोऽन्तमदृष्ट्वेत्यस्येदमुत्तरम् । सूक्ष्मं लिङ्गशरीरं क्षेत्रमुच्यते । कस्याधिष्ठानमित्यत आचक्षते ॥ बीजसंज्ञस्येति । बीजमिति संज्ञा नाम यस्य तस्य बीजं तदहमर्जुनेत्यादेर्बीजेन हरिणा संज्ञा सुखदुःखानुभवो यस्य तस्येति वा । इदं गच्छदिवागच्छत्किं न प्रागभावादिवदित्याह ॥ अनादि-निबन्धनमिति । समस्तं व्यस्तं च निबध्नातीति निबन्धनम् । अन्तमविज्ञायेत्यस्यार्थोऽदृष्ट्वा तस्य निर्वाणमिति । निर्वाणं निवृत्तिम् । निर्वाणमस्तगमने निवृत्ताविति विश्वः । असत्कर्मभिः सतामप्य-फलोपलम्भकत्वात्तत्तुलैः सर्जनादिभिः किं न किमपि भवेत् । तर्ह्येतद्रतिः किमिवेत्यत इदमेवोत्तरं निर्वाणमिति । लुप्तोपमम् । गजमज्जनमिव तद्यथा वृथा तथेदमित्यर्थः । ‘‘निर्वाणं गजमज्जनम्’’ इति विश्वः ॥ ११ ॥
चट्टी
नारदोक्तदशवाक्यानां तैर्विमृश्य निर्णीतार्थानाह दशभिः । तत्र दृष्टान्तं भुव इत्यत्र भूशब्दार्थमाह ॥ भूरिति । क्षेत्रं लिङ्गशरीरं भूशब्देनोच्यते । यल्लिङ्गशरीरं बीजसंज्ञस्य जीवस्यानादि-निबन्धनमनादिकालतोऽपि नितरां बन्धकारणम् । जीवस्य तुषारावच्छिन्नस्यैवांकुरोत्पादकत्ववज्जीव-स्यापि लिङ्गशरीरावच्छिन्नस्यैवानेकशरीरारम्भककर्मकर्तृत्वेन तन्नाशार्थः । अवश्यं प्रयत्नः कर्तव्य इति ज्ञापनाय बीजसंज्ञस्येत्युक्तम् । अन्तशब्दार्थमाह ॥ निर्वाणमिति ॥ नाशमित्यर्थः । असद्भि-र्मोक्षानुपयोगिभिः कर्मभिः किं भवेन्न किञ्चित् ॥ ११ ॥
एक एवेश्वरस्तुर्यो भगवान् स्वाश्रयः परः ।
तमदृष्ट्वाऽभवं पुंसः किमसत्कर्मभिर्भवेत् ॥ १२ ॥
पदरत्नावली
तथैकपुरुषं राज्यमित्यस्य विमृष्टार्थमाह– एक एवेति ॥ तुर्योऽवस्थात्रयातीतः । अभवं न भवः संसार उत्पत्तिर्वा यस्य स तथा तम्, नित्यमुक्तमित्यर्थः । अदृष्ट्वा अविज्ञाय पुरुषस्य पशुहिंसालक्षणैर् भगवदर्पणबुद्धिशून्यैर् यागादिकर्मभिः किं नित्यं फलं भवेत् ? न स्यादित्यर्थः । पुंसोऽभवं मुक्तिप्रदं वा ॥ १२ ॥
सत्यधर्म
तथैकपुरुषं राज्यमित्यस्य प्राज्यमिति विमृष्टमर्थं स्पष्टयन्तीत्याचष्टे ॥ एक एवेति । तुर्यश्चतुर्थोऽवस्थात्रयातीतत्वात् । ‘‘विष्णुस्तुरीयरूपेण द्वादशान्ते व्यवस्थितः’’ इत्यारभ्य ‘‘मुक्तस्य सर्वव्यापारहेतुरेव तुरीयकः’’ इत्यन्तेन माण्डूकभाष्य उक्तेर्विशेषोऽवसेयः । स चानन्याश्रय इति न जीव इत्यावेदयन्तीत्यावेदयति ॥ स्वाश्रयो भगवान्परः सर्वोत्तम इति । स्वे महिम्नीत्यादेः । सोऽपि यद्यनादि-निबन्धनस्तर्हि गर्हितमेतज्ज्ञानमर्हितैः कर्मवदित्यतोऽवदन्निति वदति ॥ अभवमिति ॥ संसारो हि भवः लिङ्गमिति यावत्स न विद्यते यस्य तं पुंस एतदनुष्ठातुरसद्भिर्भगवज्ज्ञानपूर्वकं तदसमर्पितैरित्य-सद्भिर्यज्ञादिभिः ॥ १२ ॥
चट्टी
एकपुरुष इत्यस्यार्थमाह ॥ एक एवेति । सर्वस्यापि जगतो भगवानेक एवेश्वरः स्वामी । एष सर्वेश्वर इत्यादिश्रुतेः । तुर्यो जाग्रदाद्यवस्थात्रयातीतः । अभवं नित्यमुक्तम् । असद्भिरीश्वरेऽसमर्पितैः कर्मभिः ॥ १२ ॥
पुमान् नापैति यद् गत्वा बिलं स्वर्गगतो यथा ।
प्रत्यगात्माऽविद इह किमसत्कर्मभिर्भवेत् ॥ १३ ॥
पदरत्नावली
बिलं चादृष्टनिर्गममित्यस्यालोचितार्थमाह– पुमानिति ॥ पुमान् यत्प्रत्यगात्मना सर्वात्मना अनुगतं ब्रह्मस्वरूपं गत्वा नापैति, तदतिशयितबलात्मकत्वाद् बिलशब्दवाच्यं ब्रह्म अविदोऽजानतः पुंस इह जीवलोके नित्यनैमित्तकाद्यसत्कर्मभिर् इतरविषयैः । बिलं स्वर्गेति व्यतिरेक-दृष्टान्तः । अनेन अदृष्टनिर्गममित्यस्य पुनरावृत्तिशून्योऽर्थ इतरत्रानिष्क्रमणार्थ इति सूचितम् ॥ १३ ॥
सत्यधर्म
बिलञ्चादृष्टनिर्गममिति प्रत्युत्तरयन्तीतीरयति ॥ पुमान् नापैतीति । पुमानधिकारी यद्बिलम् । तृतीयोऽतिशय इत्याकारस्येकारे भवत्यतिबलमेव बिलम् । भगवन्तं गत्वा नापैति न च पुनरावर्तते । तदविदः किमसत्कर्मभिर्भवेदित्यन्वयः । तत्र व्यतिरेकं निदर्शनं दर्शयन्ति । प्रत्यगात्मा जीवः स्वर्गमसत्कर्मभिर्यज्ञादिभिः प्राप्तं स्वर्गम् । ‘‘यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम् ॥’’ इत्युक्तेरेतत्सुखं गतः पुण्यविशेषेण यथेह भवेदागतस्तथा नेति । कृतात्ययेऽनुशयवान् शेषवानेवायाति । ‘‘क्षीणे पुण्ये मर्त्यलोकं विशन्ति’’ इत्यादेः । स्वर्गं गतः प्राप्तपद इन्द्रादिर्वा यथा पुनरवन्याद्यनागत्येत्यन्वयो वा । दृष्टान्तः स्वर्गं विष्णुलोकम् । यथोक्तं छान्दोग्योपनिषद्भाष्यटिप्पणीषु– ‘‘स्वर्गस्य लोकस्य विष्णुलोकं स्वरूपभूतरमणसुखज्ञानात्मकत्वा-त्स्वर्गशब्दो विष्णुलोकपरः’’ इति । ‘‘स्वर्गः सुषुप्तिरित्याख्या मुक्तेरपि निगद्यते’’ इति बृहद्भाष्योक्तेः । बिलं यत्किञ्चिद्गत्वा पुमानपैति न तथेति व्यतिरेको वा । बिलं नित्यनरकं तमो वेत्यन्वयोऽपि वा दृष्टान्तः ॥ १३ ॥
चट्टी
बिलं चादृष्टनिर्गममित्यस्यार्थमाह ॥ पुमानिति । पुमान् यद्ब्रह्म गत्वा प्राप्य बिलं स्वर्गं पातालं गत इव नापैति नावर्तते तत् । प्रत्यक्सर्वान्तर्यामी । अतिशयितबलात्मकत्वाद्बिलशब्दवाच्यम् । धाम तेजोमयम् । ब्रह्मरूपमविदोऽविदुषोऽसद्भिर्नश्वरैश्वर्यस्वर्गादिसाधनैः कर्मभिः ॥ १३ ॥
नानारूपाऽऽत्मनो बुद्धिः स्वैरिणीव गुणान्विता ।
तन्निष्ठामगतस्येह किमसत्कर्मभिर्भवेत् ॥ १४ ॥
पदरत्नावली
बहुरूपामित्यस्य युक्तार्थमाह– नानारूपेति ॥ आत्मनो जीवस्य या बुद्धिश् चिदचिदात्मिका सत्त्वादिगुणैरन्वितो परक्ता विकृता वा । अत एव नानारूपा । ‘अजामेकां लोहितशुक्लकृष्णाम्’ इति श्रुतेः । नानाविधसंस्काराधिवासितत्वात् । स्वैरिणी स्वच्छन्दवर्तिनी स्त्रीव । तन्निष्ठां तस्या बुद्धेश्चतनाया निष्ठां भगवत्परतामचिदात्मिकाया नाशम्, अगतस्य भगवद्भक्त्यादि-साधनसामग्रीमकुर्वतः पुरुषस्य बुद्धिदोषनाशासमर्थैर् दानादिलक्षणैः कर्मभिः ॥ १४ ॥
सत्यधर्म
बहुरूपां स्त्रियमित्यस्यैतद्रूपा सेति निरूपयन्तीति निरूपयति ॥ नानारूपेति । आत्मनो जीवस्य गुणान्विता सत्त्वादिसम्बद्धाऽत एव नानारूपा प्रकृतेः ‘‘अजामेकां लोहितशुक्ल-कृष्णाम्’’ इति नानावर्णत्वादनेकवृत्तिमतीति वा । बुद्धिश्चिदचिन्मिश्रं मनः । स्वैरिणीति पुंश्चलीत्ये-तद्विवरणम् । स्वादीरेरिणोरिति वृद्धिः । यथा स्वैरिणी तथा व्यभिचारिणी बुद्धिरियं नानारूपेत्यर्थः । तन्निष्ठां तत्स्थितिम् । निष्ठां स्थितिमिति गीताभाष्यात् । एकत्र भगवत्यगतस्याप्राप्तस्य स्वैरिणी पिङ्गला किमसत्कर्मभिरसद्द्वारदेशे यो जारस्तत्कर्मभिस्तदा तदागतिसूचनालोचनादिभिः किं भवेदिति । गुणान्विता गुणानु गुणाश्रयो भगवांस्तमितास्तथा नेति व्यतिरेको वा । ‘‘अनु आश्रय’’ इति विश्वः । एकादशस्कन्धेऽष्टमाध्याये सा स्वैरिण्येकदा कान्तं सङ्केतमुपनेष्यती । अभूत्काले बहिर्द्वारीत्या-रभ्याध्यायावसितीयं कथा कथितानुसन्धेयेति स्वैरिणीशब्दं बन्धानोऽसूचयद्ग्रन्थकृदिति मन्तव्यम् । नानारूपात्मनो नानारूपं सुवर्णं तदात्मनस्तदासक्तचित्तात्स्वैरिणीवेत्यप्यन्वयः । सुवर्णादिवरण-व्यग्रचेतसो हेतोः । यथोक्तं काठकभाष्ये– ‘‘शृङ्कां चेमामनेकरूपाम्’’ इति वृत्तिपरे ‘‘बहुरूपं पुरटं कार्तस्वरमितीर्यते’’ इत्यभिधानादिति ॥ १४ ॥
चट्टी
बहुरूपामित्यस्यार्थमाह । नानारूपेति ॥ या आत्मनो जीवस्य बुद्धिः स्वैरिणी पुंश्चलीव विमोहकै रजआदिगुणैरन्विता अत एव नानारूपा । तन्निष्ठां तस्या बुद्धेर्निष्ठामवसानं विवेकमगतस्या-प्राप्तस्यासद्भिरशाश्वतैः कर्मभिः ॥ १४ ॥
तत्सङ्गभ्रंशितैश्वर्यं संसरन्तं कुभार्यवत् ।
तद्गतीरबुधस्येह किमसत्कर्मभिर्भवेत् ॥ १५ ॥
पदरत्नावली
‘पुमांसं पुंश्चलीपतिम्’ इत्यस्य विवक्षितार्थमाह– तत्सङ्गेति ॥ तस्या रजस्तमः-प्रकृतेर्बुद्धेः सङ्गेन वशवर्तित्वलक्षणेन भ्रंशितं विस्रस्तं नष्टमैश्वर्यं भगवज्ज्ञानलक्षणं शमदमादिलक्षणं वा यस्य स तथा तम् । अत एव संसरन्तं सुखदुःखे भुञ्जानं जीवं तद्गतीस् तस्य जीवस्य गतीः स्वर्गनरकादिलक्षणाश्चाबुधस्याजानतः पुंस असद्भिर् भगवदनुद्देशेन प्रसक्तैः कर्मभिस् तीर्थस्नानादिलक्षणैर् दुःखनिवृत्तिः फलं भवेत् किम् ? कुत्सिता शास्त्रलोकनिन्दिता भार्या पुंश्चली यस्य स तथा तस्य या नरकादिगतिस् तद्वत् । अनेन पुंश्चलीपतिशब्दार्थ उक्तः ॥ १५ ॥
सत्यधर्म
पुमांसं पुंश्चलीपतिमित्यर्थतोऽनुकूलयन्तीत्यालपति ॥ तत्सङ्गेति । तस्या बुद्धेः सङ्गः सम्बन्धस्तेन भ्रष्टं भ्रंशितमैश्वर्यं भगवदवगमसाम्राज्य यस्य तम् अत एव संसरन्तं कमिव कुभार्यवत् । तत्र तस्येवेत्यस्य प्रायिकत्वाद्द्वितीयाद्यन्तादपि वतिः । अस्मदनस्मत्संमतः । तथोक्तं सुधायाम्– ‘‘अतो विरुद्धवद्भातमिति विवरणावसरे ‘‘विरुद्धवदुक्तोभयविरुद्धार्थप्रतिपादकमिव भातम्’’ इति । परेऽपि प्रनाड्याऽनया घटवदित्यादि निर्वक्ष्यन्ति । यद्वा कुभार्यस्येव तद्गतीस्तद्बुद्धिसङ्गस्य गतीरबुधस्येत्यन्वयः । तं संसरन्तं तद्गतीश्चाबुधस्य यथापूर्वमुर्वरितम् ॥ १५ ॥
चट्टी
पुमांसं पुंश्चलीपतिमित्यस्यार्थमाह ॥ तत्सङ्गेति । तस्या गुणत्रयोपरक्तबुद्धेः सङ्गेन वशवर्तित्वलक्षणेन भ्रंशितं विगलितमैश्वर्यं भगवत्ज्ञानलक्षणं यस्य तम् । अत एव कुभार्यावत्संसरंतं सुखदुःखभुजं जीवं तद्गतीस्तस्य जीवस्य गतीः स्वर्गनरकादिलक्षणाश्चाबुधस्याजानतः पुंसोऽसद्भि-र्बुध्यविवेकप्राप्तैः राजसादिकर्मभिः । कुत्सिता पुंश्चली भार्या यस्य स तथा । तद्वदित्यनेन पुंश्चली-पतिमित्यस्यार्थ उक्तः । सात्त्विकादिभेदेन बुद्धित्रैविध्यं ज्ञात्वाऽनर्थसाधनत्वाद्राजसबुद्धिं विहाय केवलसात्त्विकबुद्ध्या भगवन्तं प्रतिपद्येतेति भावः ॥ १५ ॥
सृष्ट्यप्ययकरीं मायां वेलाकूलान्तवेगिनी(ता)म् ।
मत्तस्य तदविज्ञानात् किमसत्कर्मभिर्भवेत् ॥ १६ ॥
पदरत्नावली
‘नदीमुभयतो वाहाम्’ इत्यस्याभिमतार्थमाह– सृष्टीति ॥ वेलाकूलशब्दाभ्यां सृष्टि-संहारौ लक्ष्यते । तयोरन्तयोर्वाहशब्दोपलक्षितवेगयुक्तां स्थितौ शनैः प्रवर्तमानां तथोक्ताम् । क्रमव्युत्क्रमत उभयतोवाहत्वम् । एवंविधामीश्वरमायां (प्रति)मत्तस्य विषयरागेण विस्मृतस्य । अत एव तदविज्ञानात् तद्विषयज्ञानाभावात् । असद्भिः कर्मभिर् अश्रद्धया कृततपआदिलक्षणैर् मायाविनिवर्तकं फलम् (भवेत् किम् ?) । प्रसिद्धनद्याश्च वृद्धिह्रासाभ्याम् उभयतो वाहत्वं सिन्धुसङ्गमे दृष्टम् । नदीमातृके देशे सस्यादिसंहारौ च ॥ १६ ॥
सत्यधर्म
नदीमुभयतो वाहामित्यर्थमाहुरित्याह ॥ सृष्टीति । सृष्टिसंहारकारणीभूतां मायाम् । ते एव मायानद्या वेलाकूले पूर्वतीरोत्तरतीरे तयोरन्ते मध्ये वेगोऽस्या अस्तीति ताम् । यथा सरित्तीर-योरन्तरा सरति तथा माया भगवद्बन्धकशक्तिनदी सृष्टिसंहारयोरन्तराऽऽस्ते । पुनः पुनर्जननहेतुवेग-वतीवेति भावः । उभयतो वाहामित्यनुलोमविलोमतः सृष्टिप्रलयवाहाम् । यदीयेयं माया तस्य भगवतोऽ-विज्ञानात्तस्या मायायाश्चाविज्ञानात् । प्रसिद्धसिन्धुसालक्षण्यं वेगिनीमित्यनेनोक्त्वा तद्वैलक्षण्यमुभयतो वेलाकूलान्तेति व्याख्येयव्याख्यानाभ्यां ‘‘शैला इवोन्नताः सन्तः किन्तु प्रकृतिकोमलाः’’ इत्यादाविव प्राहेति वाऽभूतोपमैतदंशे वा सङ्गमस्थले तथा दर्शनादिति वा नदीमुभयतो वाहां वेलाकूलान्त-वेगिनीमित्युक्तिरिति ज्ञेयम् । वातव्राततीव्रनीरपूर्वप्रसरणोभयतो वाहत्वादेर्दृष्टेरिति वा । ‘‘वेगो जवे प्रवाहे च’’ इति विश्वः । यद्यपि बहुव्रीहिणैवार्थपूर्तिस्तथाऽपि वेगिनीमितीनिना वेगस्यासह्यत्वं निन्दार्थकेन द्योतयामासेति तात्पर्यमवधेयम् ॥ १६ ॥
चट्टी
नदीमुभयतो वाहामित्यस्यार्थमाह ॥ सृष्टीति । सृष्ट्यप्ययौ सृष्टिसंहारौ करोतीति तथा । तामित्यनेनोभयतः प्रवाहो दर्शितः । यथा समुद्रसमीपे नदी वृद्धिह्रासाभ्यां कदाचिदुत्तराभिमुखी कदाचिद्दक्षिणाभिमुखी च प्रवहति । एवमेव भगवदिच्छाऽपि कदाचित्सृष्ट्युन्मुखी कदाचित्प्रलयोन्मुखी चेति । वेलाकूलान्तवेगितां वेलाकूलं संसारप्रवाहपतितानां निर्गमस्थानं तपोविद्यादि । तस्यान्ते समीपे वेगिता निर्गमप्रतिबन्धाय कामक्रोधादिजननलक्षणो वेगो यस्यास्तां मायाम् । भगवदिच्छालक्षणसामर्थ्यं प्रति मत्तस्य तद्विषयश्रवणादिशून्यपुंसः । तदविज्ञानाज् जननमरणलक्षणसंसारापादकभगवदिच्छाभि-मुखीकरणोपायज्ञानाभावात् । असद्भिः कामक्रोधादिकलुषितैस्तप आदिभिः कर्मभिः ॥ १६ ॥
पञ्चविंशतितत्वानां पुरुषोऽद्भुतदर्शनः ।
अध्यात्ममबुधस्येह किमसत्कर्मभिर्भवेत् ॥ १७ ॥
पदरत्नावली
पञ्चपञ्चेत्यस्य विमर्शप्रकारमाह– पञ्चेति ॥ पञ्चविंशतितत्त्वानामद्भुतत्वेन दृश्यत इति अद्भुतदर्शनः गृहस्थानीयः यः पुरुषस् तम् अध्यात्ममात्मानमधिकृत्य वर्तमानमिन्द्रियं चाबुधस्या-जानतः पुरुषस्य । असत्कर्मभिः ‘ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुसरन्’ इति स्मृतिविहिताविषयैर् योगाभ्यासादिलक्षणैर् वायुप्रसादादिफलम् (भवेत् किम् ?) । अनेन पञ्चपञ्चेत्यत्र पञ्चकत्रयं ग्राह्यमिति सूचितम् ॥ १७ ॥
सत्यधर्म
पञ्चपञ्चाद्भुतं गृहमित्यस्योपहितमर्थमभिहितीकुर्वन्तीत्याह ॥ पञ्चविंशतीति । पञ्च-विंशतितत्त्वानां पञ्चभिर्महाभूतैः पुनः पञ्चभिस्तन्मात्राभिश्चतुर्भिर्महदहङ्कारमनोबुद्ध्यादिभिर्दशभिरिन्द्रियैः पञ्चभिः पञ्चभिर्ब्रह्मेत्यनुव्याख्योदाहृतभागवतविवृतिसुधोदितैः सह जीवश्चैक इति पञ्चविंशतितत्त्वानाम् । अनेन पञ्चपञ्चाद्भुतं गृहमिति मूले प्रथमः पञ्चशब्दो नान्तः द्वितीयस्तु ‘‘पञ्चद्दशतौ वर्गे वा’’ इति वर्गार्थेऽन्यथाऽनुपपत्तिबललब्धडप्रत्ययान्तः । तेनाद्भुतपदस्य पञ्च च ते पञ्चाश्च पञ्चपञ्चास्तैरद्भुतमिति समासः । पञ्चपञ्चकैराश्चर्यावहं गृहं तत्स्थानीयम् । विस्तृतं चैतत्सजातीयस्थले पञ्चानां वर्ग इत्यादिना । तथैव न सङ्ख्योपसङ्ग्रहादिति सूत्रभाष्यानुभाष्यव्याख्यासुधातत्त्वप्रकाशिकाचन्द्रिकावाक्यार्थचन्द्रिकादि-भ्योऽनुसन्धेयम् । अद्भुतं दर्शयतीति स तथा । पुरुषो यस्तम् । अध्यात्ममात्मानमेतदात्मकं शरीरमधिकृत्य पञ्चविंशतितत्त्वमध्ये विद्यमानं परमात्मानं पञ्चतां पञ्चविंशेति सप्तमोक्तेरिति वाऽध्यात्मं जीवमन्तर्निवेश्य पञ्चविंशतितत्त्वानामित्युक्तिः । ‘‘अध्यात्मं जीव उच्यते’’ इति गीताभाष्योक्तेः । षड्विंशतिपक्षेऽध्यात्मं पुरुष इति विवेकः । एतदाद्यबुधस्य किमसत्कर्मभिर्भवेन्न किमपीत्यर्थः ॥ १७ ॥
चट्टी
पञ्चपञ्चेत्यस्यार्थमाह ॥ पञ्चविंशतीति । एकादशेन्द्रियाणि पञ्च भूतानि पञ्च तन्मात्राः प्रकृतिमहदहंकारा जीवश्चेति पञ्चविंशतिसङ्ख्यानां तत्त्वानाम् । पुरुषः पूर्णषड्गुणत्वात्पुरुषनामा भगवान् । आश्रय इति शेषः । कीदृशोऽद्भुतदर्शनोऽद्भुतमाश्चर्यं दर्शनं ज्ञानं यस्मात्सः । पञ्चविंशति-तत्त्वाश्रयत्वेन जीवदेहे स्थित्वा ज्ञानप्रद इत्यर्थः ॥ तदुक्तम् अन्तस्थः पुरुषो नाम ज्ञानदः सर्वदेहिनाम् । बहिस्थ ईश्वरो नाम ज्ञानादिफलदो हरिः’’ इति मात्स्ये । अध्यात्मं नियामकत्वेन देहेन्द्रियाद्यधिष्ठातारं
तम् । अबुधस्याविदुषः । असद्भिर्मिथ्यास्वातन्त्र्यकृतैः कर्मभिः । अयं श्लोको जीवपरत्वेनाप्यूहनीयः ॥१७॥
ऐश्वरं शास्त्रमुत्सृज्य बन्धमोक्षानुदर्शनम् ।
विविक्तपदमज्ञात्वा किमसत्कर्मभिर्भवेत् ॥ १८ ॥
पदरत्नावली
क्वचिद्धं सं चित्रकथमित्यस्यार्थं दर्शयति– ऐश्वरमिति ॥ ईश्वरप्रतिपादकम् । समाध्यादिभाषात्रयेण चित्राः कथा यस्मिंस्तत् । बन्धमोक्षावनुदर्शयतीति बन्धमोक्षानुदर्शनम् । अत एव हंसम् । विविक्तपदं विविक्तं सर्वतः सारभूतं पद्यते प्राप्नोति अनेन पुरुष इति । हंसो यथा सारं क्षीरमेव गृह्णाति तथेदमिति लुप्तोपमम् । एवंविधं भारतादिशास्त्रमुत्सृज्याज्ञात्वा असत्कर्मभिर्बौद्धादिशास्त्रश्रवण-लक्षणैः । ज्ञानलक्षणं फलम् (भवेत् किम् ?) ॥ १८ ॥
सत्यधर्म
क्वचिद्धंसं चित्रकथमित्येतत्प्रति शंसतीति शंसति ॥ ऐश्वरमिति । ईश्वरस्येदमैश्वरं तत्प्रतिपादकं शास्त्रं भारतादि । बन्धमोक्षानुदर्शनं बन्धमोक्षावनुदर्शयतीति तथा । विविक्तपदं विविक्तानि समाध्यादिभाषात्रितयोपपन्नत्वेन विलक्षणलक्षणानि पदानि यस्मिंस्तत् । यद्वा विविक्तं सर्वविलक्षणं पद्यतेऽनेनेति पदं साधनं तत्पदम् । यथोक्तं बृहद्भाष्ये– ‘‘पद्यतेऽनेनेति पदं साधनम्’’ इति । अथवा विविक्तं पदं नारायणाख्यं विषयत्वेन यस्मिन्नित्यैश्वरं शास्त्रमज्ञात्वा वर्तमानस्यासत्कर्मभिः काम्यकर्मभिः किं भवेत् । हंसमिति पीठिकायां टीकायां च विविक्तपदमित्याद्युक्त्या यथा नीरक्षीर-मिश्रणे हंसः संशोध्य क्षीरमात्रं गृह्णाति तथा भाषात्रयवद्वेद्यं विविक्तपदं भगवन्तमज्ञात्वेत्यर्थातिरेको निदर्शनेन ध्वनितोऽवसेयः ॥ १८ ॥
चट्टी
क्वचिद्धंसमित्यस्यार्थमाह ॥ ऐश्वरमिति ॥ ऐश्वरमीश्वरप्रतिपादकम् । विविक्तं विविच्य ज्ञापितं पदं परापरतत्त्वाख्यं वस्तु येन तत्तथा । पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुष्वित्यभिधानात् । अनेन हंसपदं व्याख्यातम् । हंसस्यापि क्षीरनीरविवेचकत्वात् । बन्धमोक्षावनुदर्शयतीति तथा । अनेन चित्राः कथा यस्येति व्याख्यातम् । तच्छास्त्रमुत्सृज्यानभ्यस्य । अत एवाज्ञात्वाऽसद्भिर्बहिर्मुखैः कर्मभिः
॥ १८ ॥
कालचक्रं भ्रमिं तीक्ष्णं सर्वं निष्कर्षयेज्जगत् ।
स्वतन्त्रमबुधस्येह किमसत्कर्मभिर्भवेत् ॥ १९ ॥
पदरत्नावली
‘क्षुरान्तं च स्वयं भ्रमिम्’ इत्यस्यानुरूपमर्थमाह– कालचक्रमिति ॥ भ्रमिमित्यनूद्य सर्वं जगन्निष्कर्षयदिति व्याख्याति । ‘भ्रामयन् सर्वभूतानि’ इति स्मृतेः । क्षुरान्तमित्यस्यार्थ-स्तीक्ष्णमिति । क्षुरान्तः क्षुरधारा तद्वत् तीक्ष्णमित्यर्थः । स्वयमित्यस्यार्थः स्वतन्त्रमिति । एतदर्थैः किं लक्ष्यत इति तदाह– कालचक्रमिति ॥ द्वादशमासादिदलाद्यन्वितत्वाच्चक्रव्यपदेशः । तत्स्वरूप-मप्यजानतः पुंसस् तत्तत्कालविहिताविषयैः । कालजयलक्षणं फलम् (भवेत् किम् ?) ॥ १९ ॥
सत्यधर्म
क्षुरान्तं च स्वयं भ्रमिमित्युत्तरयन्तीतीरयति ॥ कालचक्रमिति । कालश्चासौ चक्रं च कालचक्रं भगवन्तम् । ‘‘कालोऽस्मि’’ । ‘‘चक्रं चङ्क्रमणादेष’’ इत्यादेः । भ्रमिमिति बिन्द्वन्तमशनायां हि मृत्युरिति व्याख्यावसरे सर्वाशनेत्यर्थे बिन्दुराधिक्येऽधिकमिति सूत्रादिति बृहद्भाष्योक्ताशनायां पदवत् । ततश्च तृतीयोऽतिशय इत्यकारे, इकारोऽस्त्यतिशयेन भ्रमद्भ्रमिमन्यत्कालचक्रम् । भ्रमिं भ्रमि भ्रामकम् । भ्रामयन्सर्वभूतानीत्याद्युक्तेः । सोम्यानां भ्रमिरसीति ऋग्भाष्ये त्वं भ्रामको मानुषाणामृषीणामित्युक्तेः । नभोवलयस्य कालचक्रगतो द्वादशमासान्भुङ्क्त इति पञ्चमोक्तेः । क्षुरान्तेति व्याख्याति ॥ तीक्ष्णमिति । चक्रकार्यमिदं चक्रमित्याहुः सर्वं जगत्कर्षयेदिति । सङ्कोचासङ्कोचाभ्यां स्वतन्त्रं स्वः ‘‘परः स्वो हरिरुद्दाम’’ इति हरिस्तत्तन्त्रं तदधीनं स्वतन्त्रमपरतन्त्रमित्यन्यत्र । यद्वा चक्रवज्रान्धकारसारपारक्षीरे-त्याद्युक्त्वा नपुंसकं चेति लिङ्गानुशासनोक्तेश्चक्रशब्दस्य पुल्लिङ्गतायां भ्रमिमिति द्वितीयोपपत्तिर्ज्ञेया । यः सर्वं जगत्कर्षयेत्तं कालचक्रमित्यादिकमबुधस्येत्यन्वयः ॥ १९ ॥
चट्टी
क्षुरान्तं च स्वयं भ्रमिमित्यस्यार्थमाह ॥ कालचक्रमिति । भ्रमिमित्येतद्भ्रमिमित्यनेनानूद्य सर्वं जगन्निष्कर्षयेद्भ्रमयेदिति व्याख्यातम् । क्षुरान्तमित्यस्यार्थस् तीक्ष्णमिति । क्षुरस्यान्तो धारा तद्वत्तीक्ष्णमित्यर्थः । स्वयमित्यस्यार्थः स्वतन्त्रमिति । भगवदितरेणाप्रवर्त्यमित्यर्थः । एतादृशं कालचक्र-मरस्थानीयद्वादशमासोपेतत्वाच्चक्रत्वव्यपदेशः । तत्स्वरूपमजानतः पुंसोऽसत्कर्मभिः स्वर्गादिफलेषु नित्यताबुध्द्याऽनुष्ठितैः काम्यकर्मभिः । कर्मोचितकालज्ञानाभावादकाले कृतकर्मभिरिति वा ॥ १९ ॥
शास्त्रस्य पितुरादेशं यो न वेद निवर्तकम् ।
कथं तदनुरूपाय गुणविश्रम्भ्युपक्रमेत् ॥ २० ॥
पदरत्नावली
‘कथं स्वपितुरादेशम्’ इत्यस्यानुगुणार्थमाह– शास्त्रस्येति ॥ ‘मातेव रक्षति पितेव हिते नियुङ्क्ते’ इति वचनात् पितेव हितोपदेष्टृत्वात् पितृशब्देन शास्त्रमुपलक्ष्यते । ‘प्रातरुत्थायाथ-सन्ध्यामुपासीत’ इत्यादेर् अनुरूपं संसारनिवर्तकं शास्त्रलक्षणं पितुरादेशं यो न वेद स गुणविश्रम्भां गुणविश्वासो पुरुषस् तदनुरूपाय शास्त्रविधानानुगुणाय कथं सत्कर्म उपक्रमेत् ? अज्ञानादिति शेषः ॥२० ॥
सत्यधर्म
कथं स्वपितुरादेशमित्यस्य सदृशमान्तरङ्गिकमर्थमाहुरित्याह ॥ शास्त्रस्येति । पितुः शास्त्रस्येति सामानाधिकरण्यम् । ‘‘मातेव रक्षति पितेव हिते नियुङ्क्ते’’ इत्यादेर्विद्याया मातृत्वादिकं ज्ञेयम् । हिताभिहितृ हि शास्त्रं पिता । तदादेशं तद्विजिज्ञासस्व तद्ब्रह्मेत्याद्युपासनाशासनरूपं यो न वेद स गुणत्रयविश्रम्भी गुणविश्वासवांस्तदनुरूपाय तदानुगुण्याय निवर्तकं संसृतिनिस्सृतिसाधनं सत्कर्मेति यावदुपक्रमेत्प्रारभेत । उपपराभ्यामिति वा प्रोपाभ्यां समर्थाभ्यामिति वाऽऽत्मनेपदविधानात् ॥ २० ॥
चट्टी
स्वपितुरादेशमित्यस्यार्थमाह ॥ शास्त्रस्येति । स्वपितुर्द्वितीयजन्महेतोस्तदनुरूपाय निवृत्ति-मार्गार्हाय निवर्तकमादेशं यो न वेद स केवलं गुणविश्रम्भी गुणमयप्रवृत्तिमार्गविश्वासवान् कथं निवृत्तिमार्गमुपक्रमेत् । अनुतिष्ठेतेत्यर्थः । निवृत्तिमार्गार्हेण पुरुषेण निवर्तकशास्त्रतात्पर्यं ज्ञात्वा भगवानेव भजनीयो न तु सृष्ट्यादिरूपे प्रवृत्तिकृर्मणि प्रवर्तितव्यमिति भावः ॥ २० ॥
इति व्यवसिता राजन् हर्यश्वा एकमेधसः१ ।
प्रययुस्तं परिक्रम्य पन्थानमनिवर्तकम् ॥ २१ ॥
पदरत्नावली
इति ऋषेरभिप्रायं व्यवसिता निश्चितवन्त एकमेधस एकबुद्धय अनिवर्तकं पन्थानं संन्यासलक्षणं मार्गम् । सन्न्यासानन्तरं पुनराश्रमान्तराभावादनिवर्तकं वा । न निवर्तकं यस्य स तथा तम् ॥ २१ ॥
सत्यधर्म
इति व्यवसिता इति व्यवसितं निश्चयो येषां ते तथा । पदमेकम् । एकमेधस एकमतिकाः । मेधापर्यायोऽयं मेधस्शब्दः । नञो दुःसुभ्य इत्येवेत्युक्तेः । एकचेतस इति पाठश्चेतोहरः । तं नारदं परिक्रम्य तत्त्वोपदेशकत्वात् । अनिवर्तकं सन्न्यासलक्षणमनिवर्तकमप्रत्यावर्तकं वा पन्थानं मार्गम् । स्वेषामेकशेमुषिकत्वादागमस्यैतद्गतिकत्वादितरस्य नरस्य निषेद्धुरभावान्निवर्तकनिवृत्तिमन्मार्ग-मिति वा ॥ २१ ॥
चट्टी
इति व्यवसिता एवं नारदोक्तं निश्चितवन्तः । एकमेधस एकमत्या युक्तास्तं नारदं परिक्रम्य प्रदक्षणीकृत्यानिवर्तकमपुनरावृत्तिमार्गं प्रययुः ॥ २१ ॥
स्वरब्रह्मणि निर्भाते१ हृषीकेशपदाम्बुजे ।
अखण्डं चित्तमावेश्य लोकानन्वचरन्मुहुः२ ॥ २२ ॥
पदरत्नावली
स्वरब्रह्मणि षड्जादिस्वरलक्षणब्रह्मणि गान्धर्वे नितरां भाते प्रकाशिते । यथा अखण्डं निरन्तरं भवति तथा । निर्भातमिति पाठे चित्तविशेषणम् । निष्णातमित्यर्थः ॥ २२ ॥
सत्यधर्म
प्राचेतसान्प्रचेतसो विधाय किं कृतवाननन्तरं नारद इत्यत ईरयति ॥ स्वरब्रह्मणीति । स्वरब्रह्मणि महतीजनितषड्जादिशब्दब्रह्मणि निर्भाते प्रकाशिते । हृषीकेशपदाम्बुजे । हृष्यः केशा अंशवो यस्य हृषीकेशः । उक्तं चैकादशाध्यायगीताभाष्यप्रमेयदीपिकादिषु । अग्नीषोमाद्यनन्तर्यामितया जगद्धर्षणात् हृषीकेशः । केशत्वं त्वंशूनां तन्नियतत्वादेः । प्रमाणं तु शशिसूर्यनेत्रमित्यत्रोक्तम् । ‘‘सूर्याचन्द्रमसौ शश्वत्केशैर्मेंऽशुसंज्ञितैः । बोधयन्स्थापयंश्चैव जगदुत्पद्यते पृथक् । बोधनात्स्थापनाच्चैव जगतो हर्षसम्भवात् । अग्नीषोमकृतैरेभिः कर्मभिः पाण्डुनन्दन । हृषीकेशोऽहमीशानो वरदो लोक-भावनः’’ इति । हृषीकाणामिन्द्रियाणामीश्वरत्वाच्च । ‘‘न मे हृषीकाणि पतन्त्यसत्पथे’’ इत्यादि-प्रयोगादिति । हृष्यतेः कीप्रत्ययः । हृष्यो हर्षहेतवः केशा अस्येति हृषीकेशः । नानेन प्रसिद्धोऽर्थ-स्त्याज्य इति भावेन तमप्यर्थमाह । हृषीकाणामिति ॥ हृषी चासौ कश्चासौ ईशश्च हृषीकेशः । निरुक्तं चोद्योगपर्वणि । हर्षात्सुखात्सुखैश्वर्याद्धृषीकेश इत्यादिना । अखण्डं यथा भवति तथा चित्तं मन आवेश्य लोकान्भूरादीन्ज्ञानिजनान्वोद्दिश्य मुहुरन्वचरच्चचार । मुनिरिति पाठो ललितः ॥ २२ ॥
चट्टी
स्वरब्रह्मणि । षड्जादिस्वरलक्षणि ब्रह्मणि गान्धर्वे निर्भाते प्रकाशिते । अखण्डमिति क्रियाविशेषणम् । मुनिर्नारदः ॥ २२ ॥
नाशं निशम्य पुत्राणां नारदाच्छीलशालिनाम् ।
अन्वतप्यत कः शोचन् सुप्रजास्त्वं शुचां पदम् ॥ २३ ॥
पदरत्नावली
को दक्षः सुप्रजास्त्वं शोभनसन्ततिमत्त्वं शुचां शोकानां स्थानमिति सञ्चिन्त्य । सुप्रजास्त्वमङ्गिरसो वो अस्त्विति च्छन्दोऽनुकारिप्रयोगः ॥ २३ ॥
सत्यधर्म
नाशमदर्शनं पदमित्यत्राप्यन्वेति । न विद्यते आशा पुनरागमनविषयिणी यस्य तत्पदं गमनं निशम्य श्रुत्वा । शीलशालिनां शीलेन सत्स्वभावेन शालन्ते शोभन्त इति तेषाम् । को दक्षः सुप्रजास्त्वं सुप्रजास्त्वमुद्दिश्य शुचां शोकानां पदं विषय इति शोचन्नन्वतप्यत सन्तप्तोऽभूत् । सुप्रजा-स्त्वाय सुप्रजास्त्वमङ्गिरसो वोऽस्तु इत्यादिश्रौतपदानुकरणम् ॥ २३ ॥
चट्टी
नाशमर्दनम् । नश अदर्शन इति धातोः । प्रजावृद्धिलक्षणस्वधर्मभ्रंशं वा । शीलेन सत्स्वभावेन सद्वृत्तेन वा शीलन्ते शोभन्त इति तथोक्तास्तेषाम् । ‘‘शीलं स्वभावे सद्वृत्ते’’ इत्यमरः । को दक्षः सुप्रजास्त्वं सुपुत्रवत्त्वं शुचां शोकानां पदं स्थानं हीति शुकोक्तिः ॥ २३ ॥
स भूयः पञ्चजन्यायामजेन परिसान्त्वितः ।
पुत्रानजनयद् दक्षः शबलाश्वान् सहस्रिणः ॥ २४ ॥
तेऽपि पित्रा समादिष्टाः प्रजासर्गे धृतव्रताः ।
नारायणसरो जग्मुर्यत्र सिद्धास्तु पूर्वजाः ॥ २५ ॥
पदरत्नावली
सहस्रं सङ्ख्यैषामस्तीति सहस्त्रिणः ॥ २४ ॥
सत्यधर्म
अजेन ब्रह्मणा । पाञ्चजनीशब्दपर्यायोऽयं पञ्चजन्याशब्दः । सहस्रिणः सहस्रं सङ्ख्याविशेषो एषामस्ति ते तथा । शबलाश्वांस्तन्नामकान्पुत्रानजनयज्जनयामास ॥ २४ ॥
चट्टी
अजेन चतुर्मुखेन । सहस्रं सङ्ख्या एषामस्तीति सहस्रिणः ॥ २४ ॥
तदुपस्पर्शनादेव विनिर्धूतमलाशयाः ।
जपन्तो ब्रह्म परमं तेपुस्तत्र महत् तपः ॥ २६ ॥
चट्टी
परमं ब्रह्म परब्रह्मप्रतिपादकं प्रणवं वक्ष्यमाणमन्त्रं वा । तेपुश्चक्रुः ॥ २६ ॥
अब्भक्षाः कतिचिन्मासान् कतिचिद् वायुभोजनाः ।
आराधयन् मन्त्रमिममभ्यसन्त इडस्पतिम् ॥ २७ ॥
पदरत्नावली
अभ्यसन्तो ऽभ्यस्यन्तः । इडस्पतिम् इलापतिम् ॥ २७ ॥
सत्यधर्म
अभ्यसन्तोऽभ्यस्यन्तः । इडस्पतिम् । इडाशब्दपर्यायोऽयमिडस्शब्दः । वाक्पतिम् । ‘‘इडा वाचि’’ इति विश्वः । इला सरस्वतीत्येतद्व्याख्यावसरे इलेड्यत्वादिति ऋग्भाष्योक्तेरीड स्तुता-वित्यस्मात्कर्मणि डसि, आदेश्च ह्रस्वे इडसामीड््यानां पतिमिति वा । पारस्करादिरियम् ॥ २७ ॥
चट्टी
अभ्यसन्त इडस्पतिम् । इडां वाचां मन्त्राणां पतिम् । श्रीविष्णुमाराधयन् आराधयामासुः
॥ २७ ॥
ओं नमो नारायणाय पुरुषाय महात्मने ।
विशुद्धसत्त्वधिष्ण्याय महाहंसाय धीमहि ॥ २८ ॥
पदरत्नावली
विशुद्धसत्त्वधिष्ण्याय विशुद्धसत्त्वगुणाश्रयाय निर्दोषबलज्ञानस्वरूपाय वा । महाहंसाय सारग्राहिश्रेष्ठाय ॥ २८ ॥
सत्यधर्म
तमेव मन्त्रमाह ॥ ओमिति । विशुद्धसत्त्वधिष्ण्याय विशुद्धसत्त्वानाममलीम-समानसानां ब्रह्मादीनामोकसे महाहंसाय बहुनिर्मलाय धीमहीति श्रौतपदानुवादः ॥ २८ ॥
चट्टी
ॐनामकं भगवन्तं धीमहि ध्यायेम इत्यन्वयः ॥ चतुर्थ्यन्तानां नमःशब्देनान्वयः । एत-दुपासनं न जीवब्रह्माभेदेन कर्तव्यम् । किन्तु स्वामिभृत्यन्यायेनेति ज्ञापनाय नम इत्युक्तिः ॥ तदुक्तं ‘‘मम स्वामी हरिर्नित्यं सर्वस्य पतिरेव च । इति ध्येयःसर्वदैव भगवान्विष्णुरव्ययः’’ ॥ इति । ॐ सकलगुणपरिपूर्णम् । ‘‘ओतस्मिन्जगत्सर्वमत्युच्चश्चाखिलैर्गुणैः । इत्योमिति सदोपास्योऽक्षरः पुरुषोत्तमः’’ ॥ इति वचनात् । इतरत्सर्वमोङ्कारव्याख्यानरूपम् । ‘‘देहोऽयं मे सदानन्दो नायं प्रकृतिनिर्मितः । परिपूर्णश्च सर्वत्र तेन नारायणः स्मृतः ॥’’ इति वचनान्नारायणशब्दार्थो ज्ञातव्यः । पुरुषु सर्वशरीरेषु नियामकत्वेन शेते वर्तत इति शेषः । तस्मै । स वाऽयं पुरुषः सर्वासु पूर्षु पुरिशयो ‘‘नैनेन किञ्चनासंवृतम्’’ इति श्रुतेः । महान् सर्वोत्तमत्वादिगुणकः । तस्मै । ‘‘यच्चाप्नोति यदादत्ते यच्चात्ति विषयान्’’ इति । ‘‘यच्चास्य सन्ततो भावस्तस्मादात्मेति भण्यते’’ इति भारतोक्तेः । विशुद्धं निर्दोषं सत्त्वं बलज्ञानादिगुणराशिस्तस्य धिष्ण्याय । आश्रयाय । ‘‘बलज्ञानसमाहारः सत्त्वमित्युच्यते बुधैः’’ इति वचनात् । महाहंसाय । ‘‘प्राप्यं प्राप्तं यतो नित्यं पूर्णं सर्वोत्तमं मया । अतः परमहंसोऽहम्’’ इति भगवद्वचनात् । ओमादिशब्दवाच्याय भगवते । नमो धीमहि । नमस्कुर्म इति वा । इति मन्त्रमभ्यसन्त इति पूर्वेणान्वयः ॥ २८ ॥
इति तानपि राजेन्द्र प्रजासर्गधियो मुनिः ।
उपेत्य नारदः प्राह वचःकूटानि१ पूर्ववत् ॥ २९ ॥
सत्यधर्म
पूर्ववदिति पूर्ववद्वतिः ॥ कूटानि च तानि वचांसि वचः कूटानि । कडारा इति विशेषणस्य परनिपातः । वाचः कूटानीति पाठे लिङ्गसर्वनामनपुंसकतेति नपुंसकलिङ्गम् । चक्षु-दपहन्तुमितिवत्कूटानीत्यस्यान्वयः । वाचः कूटाः प्राहेत्यन्वयः । बालिशा इति तिरस्कृत्य क्षेपार्थे नि स्मृतमिति विश्वः । क्रतुविप्रनिनरमितिवत् ॥ २९ ॥
चट्टी
प्रजासर्गे धीर्येषां तान् । वाचःकूटानि अदृष्ट्वांऽतं भुव इत्यादीनि पूर्वोक्तानि प्राह ॥२९॥
दाक्षायणाः संश्रुणुत गदतो निगमं मम ।
अन्विच्छतानुपदवीं भ्रातॄणां भ्रातृवत्सलाः ॥ ३० ॥
सत्यधर्म
निगमं वेदसदृशम् ॥ ३० ॥
चट्टी
पुनरन्यदपि प्राह ॥ दाक्षायणा इति । हे दाक्षायणा निगममुपदेशं पदवीमन्विच्छत अवलोक्यत ॥ ३० ॥
भ्रातॄणां प्रायणं भ्राता योऽनुतिष्ठति धर्मवित् ।
स पुण्यबन्धुः पुरुषो मरुद्भिः सह मोदते ॥ ३१ ॥
पदरत्नावली
प्रायणं प्रयाणम् आश्रमप्राप्तिलक्षणम् । पुण्यमेव बन्धुर् यस्य स तथा । मरुद्भिर्देवैः
॥ ३१ ॥
सत्यधर्म
प्रायणं मोक्षमुद्दिश्यानुष्ठितं धर्मम् । ‘‘प्रायणान्तमोङ्कारमभिध्यायीत’’ इति षट्प्रश्नोपनिषदुक्तेः । पुण्यास्तद्वन्तो बन्धवो यस्य पुण्यमेव बन्धुर्यस्य स वा । मरुद्भिरेकोनपञ्चाश-त्सङ्ख्यैः सह मोदते । हरिहयहननार्थप्रार्थनाजातानां मरुतां तेन सख्यं विख्यातमभूदित्यनुरूपनिदर्शनं निरूपितमिति मन्तव्यम् ॥ ३१ ॥
चट्टी
प्रायणं प्रकृष्टं गमनम् । पुण्यमेव बन्धुर्यस्य स तथा । मरुद्भिर्दैवैः । ‘‘वृन्दारका निर्जराश्च मरुतो बन्धवोऽमराः’’ इत्यभिधानात् ॥ ३१ ॥
एतावदुक्त्वा प्रययौ नारदोऽमोघदर्शनः ।
तेऽपि चान्वगमन्मार्गं भ्रातॄणामेव मारिष ॥ ३२ ॥
सत्यधर्म
अमोघदर्शनोऽमोघमव्यर्थं महाफलोपलम्भकमिति यावत् । दर्शनं यस्य तम् । अमोघं दर्शयतीति वा । मारिष आर्य बुद्ध्या समुद्र वा । ‘‘मारिषश्चार्ये मारिषं कनकेऽम्बुधौ’’ इति विश्वः
॥ ३२ ॥
चट्टी
अमोघो देवदर्शनं यस्य स तथा । हे मारिष आर्य । ‘‘आर्यस्तु मारिष’’ इत्यभिधानात्
॥ ३२ ॥
सध्रीचीनं प्रतीचीनं परस्यानुपथं गताः ।
नाद्यापि ते निवर्तन्ते पश्चिमा यामिनीरिव ॥ ३३ ॥
पदरत्नावली
सध्रीचीनं शोभनम् । प्रतीचीनमाभिमुख्येन वर्तमानम् । परस्य परमात्मनो ऽनुपथमनुगुणं पन्थानम् । पश्चिमा यामीनीर् यामिन्यो ऽतीतरात्रय इव ॥ ३३ ॥
सत्यधर्म
परस्य परमात्मनः । पश्चिमा अतीता यामिनी यामिन्यो रजन्यः । ‘‘रजनी यामिनी तमी’’ इत्यमरः । ता यथा नायान्ति तथेत्यर्थः । यद्यप्यनागमनं रजनीनामिवाह्नामपि समं तथाऽप्यकर्म-समयाता यास्तासामेषां ततो निवृत्तेर्निदर्शनीयतादर्शनीयतेत्येवमाहेति ज्ञेयम् । सध्रीचीनमित्यादि तु व्याख्यातचरम् ॥ ३३ ॥
चट्टी
सध्रीचीनं समीचीनं प्रत्यग्दृष्टिभिर्गम्यम् । परस्य परमात्मनः । अनुपथमनुगुणं पंथानं स्वानुगुणम् भगवन्मार्गमिति यावत् । पश्चिमा यामिनीरिवातीतरात्रय इव ॥ ३३ ॥
एतस्मिन् काल उत्पातान् बहून् पश्यन् प्रजापतिः ।
पूर्ववन्नारदकृतं पुत्रनाशमुपाशृृणोत् ॥ ३४ ॥
पदरत्नावली
प्रजापतिर्दक्षः ॥ ३४ ॥
सत्यधर्म
उपाशृृणोज्जनाननतः ॥ ३४ ॥
चट्टी
प्रजापतिर्दक्षः पुत्राणां पारमहंस्यनिष्ठामुपश्रुत्य दक्षोऽपि प्रायशो निरुक्तः स्यादिति । तदनुग्रहार्थं नारदस्तत्पार्श्वं गतः ॥ ३४ ॥
चुक्रोध नारदायासौ पुत्रशोकविमूर्छितः ।
देवर्षिमुपलक्ष्याह रुषा प्रस्फुरिताधरः ॥ ३५ ॥
सत्यधर्म
नारदाय क्रुधद्रुहेत्यादिना चतुर्थी ॥ ३५ ॥
दक्ष उवाच—
अहो असाधो साधूनां साधुलिङ्गेन नस्त्वया ।
असाध्वकार्यर्भकाणां भिक्षोर्मार्गः प्रदर्शितः ॥ ३६ ॥
पदरत्नावली
साधोरिव लिङ्गं जटायज्ञोपवीतशमदमादिलक्षणं यस्य स तथा । तेन त्वया नः साधूनामर्भकाणां भिक्षोः संन्यासिनः मार्गः प्रदर्शित इति यदतोऽसाध्वमङ्गलमकारीत्यन्वयः ॥ ३६ ॥
सत्यधर्म
साधुलिङ्गेन त्वयेति सामानाधिकरण्यवत्साधूनां न इत्यपि सामानाधिकरण्यम् । साधूनां लिङ्गमिव लिङ्गं यस्येति तेन । ‘‘लिङ्गं चिन्ह’’ इति विश्वः । अहो असाधो इत्यत्र ओदिति प्रगृह्य-संज्ञायां ‘‘प्लुतप्रगृह्या अचि नित्यम्’’ इति प्रकृतिभावः । असाध्वमङ्गलमकारि । किं तदित्यत आह । अर्भकाणां बालानां भिक्षोः परिव्राजः । कोपेनाङ्गस्मरणाभावेन वा भावेन वा सर्वेषामैकमत्यस्य कृत्याभावाद्बहुवचनेनेति वा समयत्वाद्धिक्करणार्थं वा भिक्षोरिति दक्षो जगादेति ज्ञेयम् । मार्गः प्रदर्शित इति यत्तदिति साधूनां वेलां स्थलीं वाऽवलोक्येति शेषः । साधुभिरूना तद्रहिता ताम् । सन्तः केऽपि तत्र वसन्तश्चेदेवं न भवेदेवेत्याशयः ॥ ३६ ॥
चट्टी
तदा तमुपलभ्य दक्ष आह ॥ अहो असाधो इति । साधोरिव लिङ्गं वेषो यस्य तेन त्वया नोऽस्मदीयानामर्भकाणामसाध्वकारि कृतं तदेवाह । साधूनां स्वधर्मे प्रवृत्तानां भिक्षोर्यो मार्गः स प्रदर्शितः ॥ ३६ ॥
ऋणैस्त्रिभिरमुक्तानाममीमांसितकर्मणाम् ।
विघातः श्रेयसः पाप लोकयोरुभयोः कृतः ॥ ३७ ॥
पदरत्नावली
ननु भिक्षुमार्गस्य ‘संन्यासेन तनुं त्यजेत्’ इत्यादिना विहितत्वात् कथममङ्गलं कृतमित्युच्यत इति तत्राह– ऋणैरिति ॥ ‘ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः’ इति श्रुतेस् त्रिभिर् ऋणैरमुक्तानाम्, अननुष्ठानादिति शेषः । अमीमांसितानि अविचारितानि कर्माणि यैस्तथा तेषां पुत्राणामुभयोर्लोकयोर् अवाप्तिहेतोः श्रेयसः विघातो विघ्नः कृत इत्यन्वयः । रोषनिमित्तं हे पापेति सम्बोधनं, न तु तदर्थयुक्तत्वात् ॥ ३७ ॥
सत्यधर्म
‘‘यत्याश्रमे तुरीये वै प्रीतिर्मम गरीयसी’’ इति गीताभाष्यादौ सन्न्यासस्यावश्यक-तोक्तेः कथमयं पन्था अकथनीय इति कथ्यत इत्यत आह ॥ ऋणैरिति त्रिभिः । देवर्षिपितृसम्बन्धिभिः ‘‘ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः’’ इति श्रुतेः । मनुरपि ‘‘ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः ॥’’ इति । अमीमांसितान्यविचारितानि कर्माणि क्रत्वादीनि यैस्तेषामुभयोर्लोकयोस्तत्सम्बन्धिन ऐहलौकिकपारलौकिकस्य श्रेयसः सम्पदो विघातः कृतः । असाधो पाप विघातः कृत इत्येवमादिकं कोपपारवश्येनेति मन्तव्यम् । दक्षस्यापि मतिमद्दक्षत्वात् ॥ ३७ ॥
चट्टी
ननु संन्यासिनां मार्गः साधुरेव । मोक्षहेतुत्वादिति चेत् । सत्यम् । ऋणत्रयापकरणं विना तु महानर्थ एवेत्याह ॥ ऋणैरिति । जायमानो वै ब्राह्मणस्त्रिभिर्ऋणी वा जायते । ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः । एष वाऽनृणो यः । पुत्री यज्वा ब्रह्मचारीति श्रुत्युक्तप्रकारेण त्रिऋणैरमुक्तानाम् । तत्र हेतुः । न मीमांसितानि विचारितानि कर्माणि यैस्तेषामिति । अमीमांसित-कर्मणां तावदृष्येण यो विमोक्षो नास्ति । ततश्च तदुत्तरकालभाविनोः पुत्रोत्पादनयज्ञानुष्ठानयोरप्यभावेन पितृदेवऋणमुक्तिश्च नास्ति । अतः पापविषयभोगत्यागादिह लोके श्रेयसो विघातः कृतः । मोक्षानधिकारित्वाच्च परलोकेऽपि श्रेयसो विघातः कृत इत्यर्थः ॥ तथा च मनुः– ‘‘ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य मोक्षं तु सवेमानः पतत्यधः’’ इति ॥ ३७ ॥
एवं त्वं निरनुक्रोशो बालानां मतिभिद्धरेः ।
पार्षदमध्ये चरसि यशोहानिरपत्रपः ॥ ३८ ॥
पदरत्नावली
एवं विचार्यमाणे सति बालानां कुत्याकृत्यविवेकज्ञानशून्यानां मतिभिद् बुद्धिभेद-कृत् । यशसो हानिर्यस्मात् स तथा यशोनाशं कृतवान् वा । निरनुक्रोशः निर्गता अनुकम्पा यस्मात् स तथेति ॥ ३८ ॥
सत्यधर्म
निरनुक्रोशो निर्दयः । ‘‘दयानुकम्पा स्यादनुक्रोश’’ इत्यमरः । पार्षदमध्ये चरसीति काकुः । अतद्योग इत्यर्थः । अचरस्यभटवदाचरसीति वा । यशोहा । अन्येभ्योऽपि दृश्यत इति क्विप् । निरपत्रपो निर्लज्जो यशोहानिर्यशसो हानिर्यस्य सः । अथवा पुत्रद्वारा सम्पाद्यस्य मद्यशसो हानिर्यस्मात्सोऽपत्रपो गतलज्जः । मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा साऽपत्रपाऽन्यत इत्यमरः ॥ ३८ ॥
चट्टी
बालादीनां मतिं पित्रादिविषयां भिनत्तीति तथा । एवं निरनुक्रोशो निर्घृणः श्रीहरेर्यशोनाशकः सन् तत्पार्षदानां मध्ये चरसि । अतो निरपत्रपः निर्लज्जः ॥ ३८ ॥
ननु भागवता नित्यं भूतानुग्रहकातराः ।
ऋते त्वां सौहृदघ्नं वै १वैरकारमवैरिणाम् ॥ ३९ ॥
पदरत्नावली
एतदेवाह– नन्विति ॥ सौहृदघ्नमित्यस्य विवरणं वैरङ्करमिति । स्वश्प्रत्ययेन दक्षस्य कोपोद्रेकं दर्शयति । एतदेव विस्फुरिताधर इत्यनेनाप्यसूचि ॥ ३९ ॥
सत्यधर्म
त्वामृते त्वां विना । ज्ञानसूर्यमृत इत्याद्यनुव्याख्याव्याख्यासुधायां विना वातं विना वर्षमित्यादिप्रयोगदर्शनाद्विनायोग इवर्तेयोगेऽपि द्वितीया भवत्येवेत्युक्तेः । द्वितीयाविधिः परस्यापि सम्मतः । अत एवोक्तं पृथग्विनानानाभिरिति योगविभागः कार्यो द्वितीयार्थ इति । उक्तं च हरदत्तेनापि । अत्रासत्यपि मुनित्रयवचने प्रयोगबाहुल्यादेवं व्याख्यातमिति । तथर्तेयोगे द्वितीया-विधिरवश्यमभ्युपगमनीयः । निमित्तस्य ऋतेऽपि त्वां न भविष्यन्ति सर्व इति ऋतेयोगे द्वितीयाप्रयोगस्य सद्भावादित्याशयेनाह ॥ विना वातमित्यादीतीति । व्याकर्तृवचनात्त्वामृत इति सम्भवतीति मन्तव्यम् । उभसर्वतसोरिति श्लोकवार्तिकेऽन्यत्रापि दृश्यत इति इत्युक्ते ऋतेयोगे द्वितीया । ऋते द्वितीयेति चन्द्रसूत्रादिति मनोरमाद्युक्तेः । अवैरिणां वैररहितानां मध्ये वैरकारं वैरं करोति कारयतीति वा स तथा तम् । वैरङ्करमिति खशन्तोऽपि पाठोऽकुण्ठार्थः । परन्तु बाहुलकः खश् । सौहृदघ्नं संज्ञापूर्वक-विधेरनित्यत्वाद्धृद्भगेत्युभयपदवृद्धेरप्रवृत्तेस्तद्धितेष्वचामादेरित्यादिवृद्धिरेवेति । अर्थवतो ग्रहणे नानर्थक-स्येति परिभाषायाः स्वं रूपं शब्दस्याशब्दसंज्ञेत्यत्र रूपग्रहणेन ज्ञापितत्वात् । हृद्भगसूत्रेऽर्थवत एव तच्छब्दस्योपादानात् । सुहृद्दुर्हृदौ मित्रामित्रयोरिति निपातिते सुहृच्छब्दसमुदायस्यैवार्थवत्त्वेन तदवयवहृच्छब्दस्यानर्थवत्त्वात्तस्योभयपदवृद्धिर्न भवति किन्त्वादिवृद्धिरेवेति दुर्घटवृत्तिकारोक्तेः । चान्द्रास्तु हृद्भगेत्यत्र प्रतिपदोक्तहृच्छब्दस्यैव हृदयपर्यायस्य ग्रहणं न तु ‘‘हृदयस्य हृल्लेखयदणलासेषु’’ इत्युक्तहृदादेशस्य । सौहृदमित्यादौ तु हृदादेश एवेति मन्यते । अत एव क्षणभङ्गसौहृद इति कुमारसम्भवे प्रयोग इति सौहृदमिति सम्भवति । स्वयमितरविषये तदकर्तृत्वेन तद्धन्तीति स तथा तमिति वैरङ्करवैलक्षण्यं ज्ञेयम् । नारदः कलहप्रिय इत्यादेः ॥ ३९ ॥
चट्टी
निर्लज्जत्वमुपपादयति ॥ नन्विति । ननु त्वामृते भागवताः सर्वेऽपि भूतानुग्रहपरवशाः । त्वं तु भूतविप्रियं कुर्वन् कथं न लज्जस इति भावः ॥ ३९ ॥
नेत्थं पुंसो विरागः स्यात् त्वया केवलिना विना ।
मन्यसे यद्युपशमं स्नेहपाशनिवर्तनम् ॥ ४० ॥
पदरत्नावली
विषयप्रसक्त्या रागोद्रेकसम्भवेन संसारानिवृत्तिः स्यादतो वैराग्याय मया हित-मुपादेशीति तत्राह– नेत्थमिति ॥ केवलिना सन्ध्योपसनादिकर्मशून्येन भागवताभिमानिना त्वया विना इत्थं बोधनेन पुंसो विरागो न स्यादित्यन्वयः । ननु विषयस्नेहाद् राग उपशमात् स्नेहनिवृत्त्या राग-निवृत्तिरिति चेत् तत्राह– मन्यस इति ॥ यद्युपशमं स्नेहनिवर्तकं मन्यसे, तथापि स व्यर्थ इति मन्य इति शेषः ॥ ४० ॥
सत्यधर्म
ननु ‘‘यदहरेव विरजेत्तदहरेव प्रव्रजेत् । यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत्’’ इत्यादिश्रुतेर् ऋणत्रयमोचनस्यानत्यावश्यकतया मया हितमेवाभिहितं त्वया त्वन्यथा ज्ञातमित्यत आह ॥ नेत्थमिति ॥ केवलिना विलक्षणप्रेक्षेण । ‘‘केवली ज्ञानभेदे स्यात्’’ इति विश्वः । पृथग्विनेति तृतीया । कोपपरीतात्मना विपरीतमुदीर्यते विरक्त्या कर्तनं स्नेहमोहस्य भविष्यति भविष्यति च मङ्गलमित्यतो नैवं बलात्कदलीपक्वीकरणवदिदमत्यावश्यकमेवं चेदित्याह– मन्यस इत्यादिना ॥ ४० ॥
चट्टी
ननु वैराग्ये उपशम उपशमे च स्नेहपाशच्छेदनं भवति । न च विरक्तस्य ऋणत्रयापकरण-मावश्यकम् । ‘‘यदहरेव विरजेत्तदहरेव प्रव्रजेत् । यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत्’’ इति श्रुतेः । अतो वैराग्योपदेशेन तेषां मयाऽनुग्रह एव कृत इति चेत्तत्राह ॥ नेत्थमिति ॥ विनेत्यनन्तरं विषयानुभवमिति शेषः । यद्यपि त्वमेव मन्यसे तथाऽपि केवलिना ज्ञानाभावेऽपि केवलं वेषमात्रधारिणा त्वया इत्थं मतिचालने कृते विषयानुभवं विना पुंसो विरागो नैव स्यात् । न च विरागं विनोपशमः । न च तेन विना स्नेहपाशनिकृन्तनमित्यर्थः ॥ ४० ॥
नानुभूय न जानाति पुमान् विषयतीक्ष्णताम् ।
निर्विद्यते स्वयं तस्मान्न तथा भिन्नधीः परैः ॥ ४१ ॥
पदरत्नावली
कुतो व्यर्थ इति तत्राह– नेति ॥ नानुभूयाननुभूय विषयसेवामकृत्वेत्यर्थः । विषयतीक्ष्णतां संसारापादानपटुताम् । तज्ज्ञानाद् वैराग्यं स्यात् किमिति तत्राह– निर्विद्यते इति ॥ यथा विषयभोगेन तत्तैक्ष्ण्यं ज्ञात्वा स्वयं परोपदेशमन्तरेण तस्माद् विषयग्रामान्निर्विद्यते विरक्तो भवति तथा परैर्भिन्नधीः प्रबोधितबुद्धिर् न विरक्तो भवति, अज्ञातविषयतीक्ष्णत्वादिति शेषः ॥ ४१ ॥
सत्यधर्म
विषयतीक्ष्णतां स्वभोगेन विषयाकर्षणसामर्थ्यम् । पुमान्प्रस्तुतत्वादेवमुक्तिः । अधिकारी नानुभूय न जानात्यतस्तद्भोगेनाग्रे भवितव्यं स्वयं परोपदेशनैरपेक्ष्येण तस्माद्विषयसमुदाया-न्निर्विद्येत विरज्येत यथा परैर्भिन्नधीर्विभिन्नमतिर्न निर्विद्यत इत्यन्वयः । परैरित्यनेनानेकैरपि लोकै-र्मिलितैर्न भवेत्त्वं त्वेकलस्तत्रापि केवलीति न तथा भवेदित्यभिप्रैति ॥ ४१ ॥
चट्टी
विषयानुभवं विना पुंसो विरागो न जायत इत्येतद्विवृणोति ॥ नानुभूयेति । नानुभूय विषयाणां तीक्ष्णताम् । दुःखहेतुत्वं न जानाति । तस्माद्विषयानुभवेन तीक्ष्णत्वज्ञानात् । पुमान्स्वयमेव यथा निर्विद्येत विरक्तो भवति । तथेतरैर्भिन्नधीश्चालितबुद्धिः । न निर्विद्यतेत्यन्वयः ॥ ४१ ॥
यन्नस्त्वं कर्मबन्धानां साधूनां गृहमेधिनाम् ।
कृतवानसि दुर्मर्षं विप्रियं तव मर्षितम् ॥ ४२ ॥
पदरत्नावली
गालीवचनमन्तरेण क्रोधफलमाह– यदिति ॥ त्वं दुर्मर्षं दुस्सहं विरोधं कृतवानसीति यत् तन्मर्षितं सोढमेवेत्यन्वयः ॥ ४२ ॥
सत्यधर्म
अग्रत एव जाग्रता भवितव्यं त्वयेत्यतो झडिति नैवं कर्तव्यं क्षन्तव्यमिति तूष्णीक आसमिति शंसति ॥ यदिति । नो ऽस्मदीयानां कर्तुं किमप्यन्धानां तेषामिव विद्यमानानाम-जानानामिति यावत् साधूनां बालानां यद्विप्रियमसम्मतं गृहमेधिनां नो दुर्मर्षमसह्यं कृतवानसि प्राक् तत्तव कर्म मर्षितम् ॥ ४२ ॥
चट्टी
अतस्त्वयाऽस्माकमप्रियमेव कृतं यत्तथाऽप्यस्माभिः क्षान्तमित्याह ॥ यदिति । कर्मणि प्रजावृद्धिलक्षणे बद्धानां नियुक्तानां नो दुर्मर्षं दुःसहं यद्विप्रियमहितं कृतवानसि तन्मर्षितं सोढव्यम्
॥ ४२ ॥
तन्तुकृत्तनयानां त्वमभद्रमचरः पुनः ।
तस्माल्लोकेषु ते मूढ न भवेद् भ्रमतः पदम् ॥ ४३ ॥
पदरत्नावली
तर्हि किं न मर्षितमिति तत्राह– तन्त्विति ॥ हे मूढ अस्मदभिमतविरुद्धबोधक । तन्तुकृतां सन्ततिकराणां नस् तनयानाम् अभद्रम् ऐहिकसुखानुभवविरोधिरूपमचरः पुनः । यस्मात् तस्माल्लोकेषु भ्रमतस्ते पदमेकत्र निवासलक्षणं स्थानं न भवेदित्यन्वयः ॥ ४३ ॥
सत्यधर्म
न पुनरेवं चेत्कोऽपि प्रजातर्षो मर्षयेदिति कोपफलमालपति ॥ तन्तुकृदिति । तन्तुर्वंशस्तत्कृतश्च ते तनयाश्च तेषाम् । तनयानां तन्तुकृद् यज्ञोपवीतछेतेति वा अभद्रं तदन्तरायरूपं भ्रमतश्चरतः पदमेकत्र निवासस्थानं न भवेत् । चरत इति प्रयोगमचरतो ग्रन्थकृतो भ्रमतः पदं क्वापि न भवेत्किन्तु प्रमादत एवेति तत्स्वभावावेदननैर्भर्यमान्तरङ्गिकमन्तरङ्ग आनेयम् ॥ ४३ ॥
चट्टी
तथाऽपि द्वितीयापराधादभद्रं भविष्यत्येवेत्याह ॥ तन्तुकृदिति । हे तन्तुकृत् । सन्तान-छेदककृती छेदनेति धातोः । यद्वा । तन्तुकृत्तनयानामित्येकं पदं वा । तन्तुकृतां सन्तानवृद्धिकराणां तनयानामभद्रं स्थानभ्रंशं पुनर्द्वितीयवारं यद्यस्मादचरस्तस्माद्धे मूढ लोकेषु भ्रमतस्ते पदं स्थानं न भवेदिति । मृदुछलेन शापः ॥ ४३ ॥
श्रीशुक उवाच—
प्रतिजग्राह तद् बाढं नारदः साधुसम्मतः ।
एतावान् साधुवादो हि तितिक्षेतेश्वरः स्वयम् ॥ ४४ ॥
॥ इति श्रीमद्भागवते षष्ठस्कन्धे पञ्चमोऽध्यायः ॥ ६–५ ॥
पदरत्नावली
स्वयं शोभनदैवो नारद ईश्वरः प्रतिशप्तुं समर्थोऽपि न शशाप । दक्षशापं तितिक्षेत सहेत हि । यद् एतावत् साधूनां वादः स्वभावलक्षणः ॥ ४४ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
षष्ठस्कन्धे पञ्चमोऽध्यायः ॥ ६–५ ॥
सत्यधर्म
एवं तप्तेन शप्तः प्रतिशप्तवान्किमित्यतो नारदमधिकारिविशेषं द्वारीकृत्य भागवता-नामयमेव स्वभाव इति ‘‘हनुमानब्धिमतरद्दुष्करं किं महात्मनाम्’’ इत्यालङ्कारिकोक्तसामान्यार्थान्तर-न्यासमुखेन शंसति ॥ प्रतीति । बाढमोमिति प्रतिजग्राह । स्वयमीश्वरः समर्थः सन्नपि तितिक्षेते-त्येतावान् यः स साधुवाद इत्यन्वयः ॥ ४४ ॥
॥ इति श्री भागवतटिप्पण्यां सत्यधर्मकृतायां षष्ठस्कन्धे पञ्चमोऽध्यायः ॥ ६–५ ॥
चट्टी
बाढं तथेति । प्रतिजग्राह स्वीकृतवान् । ननु नारदः समर्थोऽपि किमर्थं न प्रतिशप्तवानित्यतः साधूनां स्वभावस्तादृश इत्याह ॥ एतावानिति । ईश्वरोऽपि स्वयं प्रतिशप्तुं समर्थोऽपि तितिक्षेतेति यदेतावान्साधूनां वादः । हीत्यनेन ‘‘साधूनां भूषणं क्षमा’’ इति स्मृतिप्रसिद्धिं दर्शयति
॥ ४४ ॥
॥ इति श्रीभागवतटिप्पण्यां चट्टीव्याख्यायां षष्ठस्कन्धे पञ्चमोऽध्यायः ॥ ६–५ ॥