देवासुरनृणां सर्गो नागानां मृगपक्षिणाम्
॥ अथ चतुर्थोऽध्यायः ॥
राजोवाच—
देवासुरनृणां सर्गो नागानां मृगपक्षिणाम् ।
सामासिकस्त्वया प्रोक्तो यस्तु स्वायम्भुवेऽन्तरे ॥ १ ॥
पदरत्नावली
‘मुह्यन्ति यं सूरयः’ इत्यत्र यदुक्तं ब्रह्माज्ञेयमाहात्म्यं हरेस् तत्, ‘जन्माद्यस्य यतः’ इत्यत्र च यः सर्गविशेषः प्रतिज्ञातः सोऽपि भगवदेकनिष्ठ इति प्रतिपाद्यतेऽस्मिन्नध्याये । तत्र तृतीयादौ कथितस्तर्गो भगवदेकनिष्ठः, उतान्यनिष्ठः, आहोस्विदन्यनिष्ठोऽपि भगवत्प्रसादायत्त इत्यभिप्रेत्य राजा उक्तार्थमनूद्य तद्विस्तरं ब्रूहीत्याह– देवेति ॥ सामासिकः संक्षिप्तः ॥ १ ॥
सत्यधर्म
राजा तृतीयादौ सङ्कुच्योक्तं किञ्चित्सर्गादिकं विविच्यार्थापयेति प्रार्थयते ॥ राजेति । देवासुरनृणां नागानामित्यादि पृथग्ग्रहणं विलक्षणताया जन्मन आम्नानार्थम् । स्वायम्भुवान्तरे सामासिकः समासः सङ्कोचः ॥ १ ॥
चट्टी
स्रष्ट्रत्वं प्राक् प्रतिज्ञातं जन्माद्यस्येति श्रीहरेः प्रपञ्चतेऽस्मिन्नध्याये । तद्राजा तत्र पृच्छति ॥ देवासुरेति द्वाभ्याम् ॥ सामासिकः संक्षिप्तः । प्रोक्तस्तृतीयस्कन्धे ॥ १ ॥
तस्यैव व्यासमिच्छामि श्रोतुं ते भगवन् यथा ।
अनुसर्गं यथा शक्त्या ससर्ज भगवान् परः ॥ २ ॥
पदरत्नावली
व्यासं प्रपञ्चम् । ते तव सकाशाद् अनुसर्गम् अवान्तरसर्गम् ॥ २ ॥
सत्यधर्म
व्यासो हि विस्तारः । भगवान्परः । यथा शक्त्येति द्वे पदे । शक्त्या स्वसामर्थ्येन रमया सहित इति वा । ‘‘शक्यत्वाच्छक्तयो भार्या’’ इत्यादेः । यथा ससर्ज तथाऽनुसर्गमवान्तरसृष्टिं च ते सकाशात्कथं ससर्जेति श्रोतुमिच्छामि यथा सम्यगिति वा ॥ २ ॥
चट्टी
व्यासं विस्तारं त्वत्तो यथा यथावत्ज्ञातुं शक्त्या स्वसामर्थ्येन अनुसर्गमण्डान्तरा-वान्तरसृष्टिम् । ‘‘महदाद्यण्डपर्यन्तः सर्गोऽण्डे ब्रह्मणस्तु यः । अनुसर्ग इति प्रोक्तः पौरुषश्चेति कथ्यते’’ इति वचनात् ॥ २ ॥
सूत उवाच—
इति सम्प्रश्नमाकर्ण्य राजर्षेर्बादरायणिः ।
प्रतिनन्द्य महायोगी जगाद मुनिसत्तमाः ॥ ३ ॥
पदरत्नावली
शुकेन राजप्रश्नमादृत्य परिहार उक्तः, उतानादृत्यान्यकथान्तरमवादि, (यद्वा) श्रुत्वा स्मित्वा तूष्णीं स्थितं किमिति शौनकादीनां हार्दं प्रश्नं परिहरति सूत इत्याह– सूत इति ॥ अनेन सूतशौनकसंवादो न समाप्तः । किञ्च शौनकादिप्रश्नोऽप्ययमेव । अयमेव परिहारोऽपीति ध्वनितम् ॥३॥
सत्यधर्म
सूत इत्येतत्प्राग्राज्ञोक्तमुत्तरितं किं वा कथान्तरं कथितं शुकेनेति शौनकप्रश्न-वाक्यमध्याहर्तव्यम् । ‘‘व्यतिहारो विशिंषन्ति हीतरवत्’’ इति सूत्रीय एष तु वाऽतिवदतीति विशिंषन्ति हि यथेतरेषु विशेषणम् । ‘‘उत्तमत्वं हि देवानां मुक्तावपि हि मानवात् । तेभ्यः प्राणस्य तस्मान् नित्यमुक्तस्य वै हरेः’’ ॥ इति भाष्यटीकायां प्रश्नाद्यभावात्प्राणविशेषणमेवेदमिति न वाच्यम् । प्रश्नाद्य-ध्याहारस्य कर्तुं शक्यत्वादित्यादिना प्रश्नोत्तराध्याहारोक्तेः । न चाध्याहारनैरङ्कुश्याद्राजोवाचेत्येतदनु शौनक उवाचेत्यादित एवाध्याहरणं न्याय्यं लघुवचनं च भवतीति वाच्यम् । मुनिसत्तमा इत्यतः प्राक्तनग्रन्थं पीडा न सम्पाद्येति जोषमास्व । अन्यथा मुनिसत्तमा इति विशेष्यसम्बोधनं दुर्मनस्कं स्यादिति मन्तव्यम् । एवं सति नापृष्टः कस्यचिदिति वचश्च सम्मानितं भवतीति भावनीयम् । प्रश्नस्य सामीचीन्यं नाम भगवद्भक्तिपूर्वकत्वम् । वक्तृश्रोत्रोः सद्गतिगमकत्वं वा । सामर्थ्यं न नास्ति वक्तुरिति वक्तुं बादरायणिरिति, प्रष्टुरविवक्षयोपेक्षणं प्रतिक्षेप्तुं राजर्षेरिति । एतदुभयानुयायि च प्रतिनन्द्येति प्रतिनन्दनम् । सांसारिकविविधव्यसनव्यग्रो नाग्रे जगाद जगाम चेति नेत्याह ॥ महायोगीति । हे मुनिसत्तमाः शौनकादयः ॥ ३ ॥
ऋषिरुवाच—
यदा प्रचेतसः पुत्रा दश प्राचीनबर्हिषः ।
अन्तस्समुद्रादुन्मग्ना ददृशुर्गां द्रुमैर्वृताम् ॥ ४ ॥
पदरत्नावली
भगवत्प्रसादायत्तत्वान् मन्ददृष्ट्याऽन्यनिष्ठवत् प्रतीयमानोऽपि तदेकनिष्ठ इति लक्षणस्य नातिव्याप्तिरिति दर्शयितुं प्रकृतार्थानुवादपूर्वकमुपक्रमते– यदेति ॥ प्रचेतस इति तुल्यनामानः प्राचीनबर्हिषः दश पुत्रा यदाऽन्तस्समुद्रादुत्थिता द्रुमैवृतां गां भूमिं ददृशुः ॥ ४ ॥
सत्यधर्म
जन्माद्यस्य यत इत्यादिनोदितं नातिव्याप्नोत् । यतो दक्षादयो न दक्षाः स्वतः सर्जन इति तत्सर्जनं च वक्तुं पीठमारचयति ॥ यदेति । प्राचीनबर्हिषो नाम्ना दशपुत्राः प्रचेतनामान उन्मग्नास्तपोर्थं निमग्नाः समुद्रात् । ल्यब्लोपनिमित्ता पञ्चमीयम् । समुद्रमुत्तार्यान्तः प्रान्ते । ‘‘अन्तर्मध्ये तथा प्रान्ते’’ इति विश्वः । तत्तीरप्रान्तमारभ्येत्यर्थः । गां भूमिं वृक्षैर्वृतां स्वेषामनीषत्कालं जल-निमज्जनात्प्राचीनबर्हिषो निवृत्तत्वादराजकतया कृषीवलादिविकलतया तरुप्ररोहणमित्यूहनीयम् ॥ ४ ॥
चट्टी
यथा ससर्ज दक्षादिरूपेण ससर्जेति वक्तुं दक्षजन्मप्रस्तावनयाऽऽह ॥ यदेत्यादिना । प्राचीनबर्हिषः पुत्राः प्रचेतसो प्रचेतोनामका यदाऽन्तःसमुद्रात् समुद्रमध्यादुन्मग्ना निर्गतास्तदा गां पृथिवीं द्रुमैर्वृतां ददृशुः । नारदोपदेशतः प्राचीनबर्हिषो निवृत्त्याऽराजके सति कृष्याद्यभावादिति भावः ॥ ४ ॥
द्रुमेभ्यः क्रुध्द्यमानास्ते तपोदीपितमन्यवः ।
मुखतो वायुमग्निं च ससृजुस्तद्दिधक्षया ॥ ५ ॥
पदरत्नावली
तदा मुखतो वायुमग्निं च ससृजुरित्यन्वयः । तेषां वृक्षाणां दिधक्षया दहनेच्छया
॥ ५ ॥
सत्यधर्म
द्रुमेभ्यः क्रुधद्रुहेति चतुर्थी । तपोदीपितमन्यवस्तपसा दीपित उज्ज्वलितो मन्युः कोपो येषां ते तथा । अनेन कोपवैफल्यं नास्तीति ‘‘दुर्बलकोपो दंष्ट्रामूल’’ इत्याभाणकातिक्रमणं सूचयति । तद्दिधक्षया वृक्षदाहेच्छया मुखतो वायुमग्निं च ससृजुः । भाविफलानुकूल्यात्परस्परमैत्र्यादुभयसर्जनं ज्ञेयम्
॥ ५ ॥
चट्टी
तपसा दीपितो मन्युर्येषां ते तथा । तद्दिधक्षया तेषां द्रुमाणां दग्धुमिच्छया ॥ ५ ॥
ताभ्यां निर्दह्यमानांस्तानुपलभ्य कुरूद्वह ।
राजोवाच महान् सोमो मन्युं प्रशमयन्निव ॥ ६ ॥
पदरत्नावली
तत्र चन्द्रेण तत्कोपशान्तिप्रकारं कथयति– ताभ्यामिति ॥ ताभ्यामग्निवायुभ्याम्
॥ ६ ॥
सत्यधर्म
ताभ्यामनिलानलाभ्याम् । कुरूद्वहेत्यनेन त्वमपि राजेति जागृहि प्रजापालन इति द्योतयति । सतीसु सर्वासु देवतासु किं सोमस्यैवेयानुदरानल इत्यत आह ॥ राजेति । सोमो वै वनस्पतीनां राजेत्यादेः । कथितं तेन कुतस्ते कुर्युरित्यत उक्तं– महानिति । सोऽपि कोपी चेद्व्याघ्रेणोरणेनय इति चेन्नेत्यप्याह ॥ सोम इति । उमाः प्रजास्ताभिः सहित इति सोमः । विरहपालनं न तत्साहित्यं सम्भवति । यथोक्तं– ‘‘सोमो हिनोति मर्त्यम्’’ इत्यृग्भाष्यटीकयोः । ऊमैर्युक्तत्वतोऽपि वा ऊमैर्भूतैः । भूतानि वै ऊमा इति श्रुतेः । सह ऊमैर्वतत इति सोम इति । श्रुतौ भाष्ये च ऊमा इति पाठ इति व्याकर्तारः केचित् । भवन्त्यूमा इत्यष्टमाष्टकसप्तमाध्यायप्रथमवर्गे श्रवणं बलम् । एवं तत्रैव मदन्त्यूमा इति ऋगन्तरोक्तिश्चेति ज्ञेयम् । ऊरीकृताश्च मा उमास्ताभिः सहितः सोमो भगवान्मुख्योऽ-मुख्याश्चेतरे । यथोक्तम्– ‘‘ओमा स’’ इत्यृग्व्याख्याभाष्यटीकयोः । आ समन्तात्स्वीकृता मा ओमा इति च शब्दिताः । ‘‘ओन्नामा भगवान्विष्णुस्तेन वा निर्मिताः सुराः । ओता मानेषु मा वैषु प्रोता ओमा इतीरिताः । आ इत्यनुवाद इत्यारभ्य नैघण्टुकैः’’ इत्यन्तेन ऋग्भाष्यटीकोक्तेः । ‘‘राजा परिवृढे चन्द्र’’ इति धनञ्जयोक्तेरेकेनैव तन्त्रेणैवार्थद्वयग्रहणसम्भवात्सोम इत्यतिरेक इति व्यतिरेकः सम्पादितोऽ-नेन वेदितव्यः । शमयन्निव स्वल्पं शमयन्नित्यर्थः । ‘‘उपमार्थे तथाऽल्पत्वे चेवशब्दः प्रयुज्यत’’ इति शब्दनिर्णय इति बृहद्भाष्योक्तेः । सादृश्यार्थकत्वे तु भावी अशम इति प्रतीतेरुत्तरानानुगुण्यं सोमस्य श्रमवैय्यर्थ्यं भायाच्चेति युक्तोऽयमुक्तोऽर्थः । अगाधक्रोधस्य च शनैः शमनस्यौचित्यात् ॥ ६ ॥
मा द्रुमेभ्यो महाभागा दीनेभ्यो द्रोग्धुमर्हथ ।
विवर्धयिषवो यूयं प्रजानां पतयः स्मृताः ॥ ७ ॥
पदरत्नावली
किमाहेति तत्राह– मा द्रुमेभ्य इति ॥ क्रुधद्रुहेत्यादेश्चतुर्थी । तत्र हेतुमाह– विवर्धयिषव इति ॥ विवर्धयिषवः प्रजावृद्धिं करिष्णवो यूयं पतयः पातारः स्मृता इति यदतो द्रुमेभ्यो द्रोग्धुं नार्हथेत्यन्वयः ॥ ७ ॥
सत्यधर्म
तत्प्रकारमाह । हे महाभागा इति सुमुखीकर्तुं हे भाग्यशालिनः । द्रुमेभ्यो द्रोग्धुं माऽर्हथ मऽयं न योग्या भवत । प्रजानां पतयो विवर्धयिषवो वर्धयितुकामा उभयथाऽपि न भयदानं युक्तमिति भावः । नो हिता इति वक्ति ॥ स्मृता इति । प्रागेव पातृरहिता इति क्षीणा वृक्षा इत्याह । दीनेभ्यस्तप्तेभ्यः कृपास्पदेभ्यो वा । दीङुपताप इति धातुव्याख्यानात् ॥ ७ ॥
चट्टी
ताभ्यां वाय्वग्निभ्यां दह्यमानास्तांन्द्रुमानुपलभ्य निरीक्ष्य वनस्पतीनां राजा सोम उवाच– मा द्रुमेभ्य इति नवभिः ॥ हे महाभागा द्रुमेभ्यो द्रोग्धुं द्रोहं कर्तुम् । क्रुधद्रुहेर्षेत्यादीनां सम्प्रदान-त्वाच्चतुर्थी । यतो विवर्धयिषवो विशेषेण वर्धयितुमिच्छवः । प्रजानां पतयः पालकाश्च ॥ ७ ॥
आदौ प्रजापतिपतिर्भगवान् हरिरव्ययः ।
वनस्पतीनोषधीश्च ससर्जोर्जमिषं विभुः ॥ ८ ॥
पदरत्नावली
दाहे नारायणानुग्रहदूरत्वं भवतां स्यादित्यभिप्रेत्याह– आदाविति ॥ ऊर्जं देवान्नम् इषं पित्रन्नम् (पित्र्यन्नम्)१ ॥ ८ ॥
सत्यधर्म
प्रजापतीनां प्रजापतेर् ब्रह्मादीनां ब्रह्मणो वा पतिः स्वामी । वनस्पतयः वृक्षाः । ‘‘वनस्पतिर्वृक्षमात्रे विना पुष्पफले द्रुम’’ इति विश्वः । अफलाः सुकुसुमा वनस्पतयस्तान् । ओषधी-र्धान्यान्यूर्जं देवान्नम् । यथोक्तं बृहद्भाष्ये– ‘‘ऊर्जं देवान्नमुद्दिष्टमूर्जितास्तु गुणास्तथा’’ इति । इषं पित्र्यादि । ऊर्जं नो धेहि द्विपदे चतुष्पदे । ईषमूर्जमस्मासु धेह्यूर्जं तदाथा ऊर्जं मे दत्त सरस्वतीमिषमित्यादिश्रुतेः । नेयमवान्तरसृष्टिरित्यवादीदादाविति । प्रजापतिर्न विधातेति भगवानिति । सोऽपि भगवान्हरिवातार्केति विश्वान्न मातरिश्वादय इति वक्तुमव्यय इत्येकानुपूर्व्या विशेषणानि ज्ञेयानि । स तु न दूरेऽस्तीति वाऽऽह ॥ अव्यय इति । अविं सूर्यमयते गच्छतीति । ध्येयः सदा सवित्रित्यादेः स तथा । अविः शैले रवाविति विश्वः । अवयः शैलमेषार्का इत्यभिधानात् ॥ ८ ॥
चट्टी
प्रजापालकानां भवतां प्रजाभोग्यदाहोऽनुचित इत्याह ॥ आदाविति त्रिभिः ॥ ऊर्जं देवान्नम् इषं पित्र्यन्नम् । वनस्पत्यादीनूर्जादित्वेन ससर्जेत्यर्थः ॥ ८ ॥
अन्नं चराणामचरा ह्यपादः पादचारिणाम् ।
अहस्ता हस्तयुक्तानां द्विपदां च चतुष्पदः ॥ ९ ॥
पदरत्नावली
वनस्पत्योषधीनामूर्जाख्यान्नत्वं कथम् ? अत्राह– अन्नमिति ॥ अचरा-श्चराणामन्नमित्याद्यन्वेतव्यम् ॥ ९ ॥
सत्यधर्म
साधारणं प्राणधारणान्नमाह ॥ अन्नमिति । चराणां चेतनानामचरा व्रीह्यादयोऽपादः पादशून्यः। पाच्छब्दो वा । ततश्च न बहुवचनक्रमव्यतिक्रमः । पादचारिणामहस्ताश्चतुष्पदो विहिताः पञ्चनखादयः । अन्नमिति सर्वत्रान्वेतव्यम् । विना द्रोहं महीरुहाणां दाहे हर्यनुग्रहस्तत्सृष्टनष्टेर्न युष्मासु भवेदिति भावः । तोषितो हरिरित्युत्तरस्वारस्यात् ॥ ९ ॥
चट्टी
तदेवाह ॥ अन्नमिति ॥ ९ ॥
यूयं च पित्राऽन्वादिष्टा देवदेवेन चानघाः ।
प्रजासर्गाय हि कथं वृक्षान् निर्दग्धुमर्हथ ॥ १० ॥
सत्यधर्म
प्रतिपन्नप्रतिपत्तिभावानां न कार्यव्यापृतिरित्यतो व्याहरति ॥ यूयमित्यादिना । आदिष्टास्तत्प्रायः । देवदेवेन विष्णुना च किमर्थमित्यत आह ॥ प्रजासर्गायेति । यदर्थं सृष्टास्तद्दाहो हेय इत्याह ॥ कथमिति । न तद्दैवं देवास्माकमित्यतो वाऽऽह ॥ आदिष्टा इति । आ समीचीनं सर्जनार्जकं दैवं दिष्टं येषां ते तथा । पित्रेत्यनेनाज्ञाया अवज्ञानं न युक्तमित्याह । तन्मात्राज्ञा चेन्मन्मात्रेण कदाचिदनुसरणीया कदाचिदननुसरणेऽपि स्नेहविशेषात्स सहेतेत्यत आह ॥ देवदेवेन चेति । सकलसुरपूज्येनेश्वरेण चेति ॥ १० ॥
चट्टी
पित्रा प्राचीनबर्हिषा । देवदेवेन चतुर्मुखेन ॥ १० ॥
आतिष्ठत सतां मार्गं कोपं यच्छत दीपितम् ।
पित्रा पितामहेनापि जुष्टं वः प्रपितामहैः ॥ ११ ॥
पदरत्नावली
मार्गं विशिनष्टि– पित्रेति ॥ ११ ॥
सत्यधर्म
दीपितं तप उद्दीपितं यच्छत स्वाधीनं कुरुत । सतां मार्गं दीनत्राणरूपमध्वा-नमातिष्टताश्रयत । यद्यपि शंससि न वंशेऽस्माकमयमाचार इत्यत आह ॥ पित्रेति । वः पित्रा प्राचीन-बर्हिषा पितामहप्रपितामहमुखैर्जुष्टं सेवितम् । ‘‘पितामहाद्यास्तु पितरो नाम कीर्तिता’’ इत्यैतरेय-भाष्योक्तदिशा पितृभिरित्यनेन सर्वलाभेऽपि तन्मार्गं कुलपरम्परागतो मध्ये न सञ्चुकोचेति सूचयति विविच्य वचनेनेति ज्ञेयम् ॥ ११ ॥
चट्टी
तस्मादातिष्ठत आश्रयत । सतां मार्गमुपशमं पित्रादिर्भिर्जुष्टम् ॥ ११ ॥
तोकानां पितरौ बन्धू दृशः पक्ष्म स्त्रियः पतिः ।
नृपः प्रजानां भिक्षूणां गृह्यज्ञानां बुधः सुहृत् ॥ १२ ॥
पदरत्नावली
अनन्यशरणानां वृक्षाणां दाहे शरणागतवधदोषोऽपि युष्माकं स्यादित्याशय-वानाह– तोकानामिति ॥ तोकानां बालानां पितरौ मातापितरौ । बन्धू इत्येतत् सर्वत्रान्वेतव्यम् । गृही गृहस्थः भिक्षूणाम् । अज्ञानां ज्ञानदानाख्यजीवनेन ॥ १२ ॥
सत्यधर्म
भूतानामपि भगवदधिष्ठानत्वादेतत्कर्मानुष्ठानेनेष्टं घटेत युष्माकमिति सोपयुक्तं युक्तं वक्ति ॥ तोकानामिति । पितरौ मातापितरौ बन्धू इति यथायथं विकृतमन्वेति । आवृत्तस्य सुहृदित्यस्य पक्ष्मेत्याद्यन्वयो वा । दृशो नेत्रस्य पक्ष्म लोचनलोम । ‘‘पक्ष्म नेत्रलोमनि दृग्दृष्टिः’’ इति विश्वामरौ । स्त्रियः स्त्रियाः । क्वचित्स्त्रिया इति सा सरणिः सरला । भार्यायाः पतिर्भर्ता । मध्ये तान्कटाक्षयति ॥ नृप इति । भिक्षूणां सन्न्यासिनां गृहे गृहस्थोऽज्ञानां बुधः सुहृद् बुधः किञ्चिदज्ञस्य सुहृत्सुमनस्क इति वा । एतत्पक्षे बन्ध्वन्वयः सर्वत्रेति ज्ञेयम् ॥ १२ ॥
चट्टी
प्रजानां प्रजापतिरेव बन्धुरतस्तज्जीविकानाशो न कर्तव्य इति दृष्टान्तपञ्चकेनाह ॥ तोकानामिति । तोकानां बालानां पितरौ मातापितरौ बन्धुपदं सर्वत्रान्वेतव्यम् । अज्ञानां ज्ञानदो बुध एव सुहृत् ॥ १२ ॥
अन्तर्देहेषु भूतानामात्माऽऽस्ते हरिरीश्वरः ।
सर्वं तद्धिष्ण्यमीक्षध्वमेवं वस्तोषितो ह्यसौ ॥ १३ ॥
पदरत्नावली
किञ्चानेनेश्वरद्रोहोऽपि स्यादित्याशयवानाह– अन्तरिति ॥ भूतानामिति विशेषणाद् वृक्षदाहेनेश्वरदाहः कथं स्याद् भूतदाहाकरणादिति तत्राह– सर्वमिति ॥ तस्य हरेर्धिष्ण्यं निवासस्थानम् । अनेन दर्शनेन किं फलं स्यात् ? अत्राह– एवमिति ॥ असौ हरिः ॥ १३ ॥
सत्यधर्म
भूतानां प्राणिनां देहेषु शरीरेषु हरिरीश्वर ईशेभ्यो ब्रह्मरुद्रादिभ्यो वरः । आत्मा चिदानन्दादयो यस्य । ‘‘गुणा आप्ताः सदैव तु । स आत्मेति प्रविज्ञेयो गुणानामाप्तितो हरिः’’ । ‘‘आत्मा भवति व्यापको भवति’’ इति च बृहदारण्यकोपनिषद्भाष्योक्तेर्गुणपूर्णत्वेन व्याप्तत्वेन वाऽऽत्मा । आस्ते यतः सर्वं तद्धिष्ण्यं तत्स्थानमीक्षध्वं पश्यत । तेन किमित्यतः फलमालपति ॥ एवमिति । वो युष्माभिर्युष्मदुपरि वा यद्धिष्ण्यं कोपपावकोऽन्तो नाशको ऽन्तशब्दपर्यायोऽयमन्तःशब्दो ऽतो न गुण इति सर्वं मदुक्तमीक्षध्वम् । आलोचयतेति वा । तत्राप्यन्तरिति वा । ‘‘धिष्ण्यं स्थाने च पावक’’ इति विश्वः । असौ हरिस्तोषितो भवतीति शेषः । न हि तत्तोषः सुखदुःखायव्ययान्यतर इत्यतो हिस्तुष्टे तु तत्र किमलभ्यमनन्त ईश इत्यादिमानसिद्धसर्वफलसौलभ्यमालपति ॥ १३ ॥
चट्टी
ईश्वराधिष्ठानत्वाच्च भूतद्रोहो न युक्त इत्याह ॥ अन्तर्देहेष्विति । एवं चेद् वो युष्माभिस्तोषितो भवति ॥ १३ ॥
यः समुत्पतितं देह आकाशान्मन्युमुल्बणम् ।
आत्मजिज्ञासया यच्छेत् सगुणानतिवर्तते ॥ १४ ॥
पदरत्नावली
इतोऽपि कोपो न कार्य इत्याह– यः समुत्पतितमिति ॥ देहे आकाशात् हृदयाकाशादुत्पतितमुज्ज्वलितं मन्युं यो यच्छेत् । कथम् ? आत्मनः परमात्मनः । जिज्ञासया विचारेण । ‘अन्तर्बहिश्च तत् सर्वं व्याप्य नारायणः स्थितः’ इति श्रुत्यर्थपर्यालोचनया । भूतद्रोहेण श्रीनारायणद्रोह एव स्यादिति चिन्तया, स पुमान् गुणान् संसारहेतुभूतांस्तरतीत्यन्वयः ॥ १४ ॥
सत्यधर्म
आकाशाद्धृदयाकाशाद्भगवतो वा । आकाशस्तल्लिङ्गादित्यादेः । सकलवाङ्मनस-देवताया आकाशाद्रमाया इति वा ‘‘आकाशनामिका श्रीश्च’’ इति बृहद्भाष्योक्तेः । विनायकाद्वा ‘‘आकाशो विघ्न उद्दिष्टः काशते हि पृथूदर’’ इति च । आकाशाभिमानयुक्त्या चादिसृष्ट्यादिविघ-्नदत्वात् । एतदादिनिमित्तेन देहे समुत्पतितमुल्बणं वक्ष्यमाणकारणमन्तरेणापरिहरणीयं मन्युमात्म-जिज्ञासया परमात्मविचारेण । ज्ञानेच्छान्तरित्यारभ्य जिज्ञासितं सुसम्पन्नमित्याद्यन्तेन सुधायां तत्त्व-प्रकाशिकायां च रूढ्या लक्षणया विचारपरत्वोक्तेः । यो यच्छेत्सगुणान्संसारापादकानति अतिक्रम्य वर्तते । समुत् पतितमिति वा छेदः । समुच्च ससन्तोषश्च भवतीति शेषः । वर्तते वर्तिष्यत इति पूर्वोक्तरीत्या वाऽर्थो ज्ञेयः । कोपस्यापादकोऽनापादकश्च हरिरेव मुख्यत इति तज्जिज्ञासावश्यम्भा-विनीति सा कार्येति भावः । आकाशाद्देहे समुत्पतितमाकस्मिकमिति व्याख्यानं तदेतत्कर्मवाददाशु-रित्याद्युक्तं निमित्तं वेदितृभिर्न केवलं न क्षमनीयं किन्तु श्रमणीयं चैददादिदूषणैः ॥ १४ ॥
चट्टी
आकाशाद्देहे समुत्पतिते । आकस्मिकमित्यर्थः । आत्मजिज्ञासया भगवत एव स्वतन्त्रत्वादन्यः कोऽपि विषयो नास्तीति परमात्मविचारेण यो नियच्छेत् । सः गुणान्सत्त्वादीन् । अतिवर्तते अतिक्रान्तो भवति । मुक्तो भवतीति यावत् ॥ १४ ॥
अलं दग्धैद्रुमैर्दीनैः शेषाणां१ शिवमस्तु वः ।
वार्क्षी ह्येषा वरा कन्या पत्नीत्वे प्रतिगृह्यताम् ॥ १५ ॥
पदरत्नावली
वार्क्षी वृक्षदुहिता । वरा वरणीया ॥ १५ ॥
सत्यधर्म
अलं पर्याप्तं बहुलं जातमितस्त्यजतेति भावः । शिष्यन्त इति शेषास्तेषां वो भवद्भ्यः शिवं मङ्गलं क्षेम इति यावत् । अस्तु दृषद्धृदया अपि द्रवद्धृदया भवन्ति । नन्वग्निः प्रमदा नाम घृत-कुम्भसमः पुमानित्यादेरत एतदुपायमिदमुपायनं विधुर्बोधयति ॥ वार्क्षीति । एषा वरा उत्तमा । वरयति वरानिति वा वरा । एतेनानूढेति प्रौढमतिस्सूचितवानिति वा मन्तव्यम् । कन्या दीप्तिमती । अनेन कौरूप्यं पराकरणकारणं नास्तीत्यसूचीति ज्ञेयम् । पञ्च कन्याः स्मरेन्नित्यमिति कन्यात्वं व्यभिचारीति तदप्रयोजकीकृत्य विना व्यभिचारं वरयितृत्वप्रयुक्तवरत्वमविवाहितत्वे प्रयोजकमुक्तमिति प्रयोजकैर्वि-भावनीयम् । परीक्षाऽपि न क्षणपरिक्षयेण तत्रापि न परलपनालापनत इति सूचयत्येषा प्रत्यक्षसिद्धे-त्यनेन । वार्क्षीति तद्विधक्षणमोक्षणं लक्षीकृत्योक्तमाप्सरस्यापीति ज्ञेयम् । पत्नीत्वे भार्यात्वे । भार्यात्व इत्याद्यनुदाहार्योदाहृत्य च पत्नीत्व इति न यागाद्यनुपयोगिजात्यन्तरजातेयमिति ध्वनयाञ्चक्र इति ज्ञेयम् । अत एव पत्युर्न इति सूत्रव्याख्यावसरे कथं तर्हि वृषलस्य पत्नीति शङ्का पत्नीव पत्नीत्युपचार इत्युत्तरं च सङ्गच्छत इति विभावनीयम् ॥ १५ ॥
चट्टी
शेषाणां द्रुमाणां वो युष्माकं च शिवमस्तु । वः सकाशादिति वा । वृक्षरक्षणार्थं तदीयां कन्यां ददाति वार्क्षीति वृक्षैः पालिता ॥ १५ ॥
इत्यामन्त्र्य वरारोहां कन्यामाप्सरसीं नृप ।
सोमो राजा ययौ दत्वा ते धर्मेणोपयेमिरे ॥ १६ ॥
पदरत्नावली
वरः श्रेष्ठ आरोहो नितम्बप्रदेशः यस्याः सा तथा ताम् । आप्सरसीम् अप्सरोजातिमतीम् ॥ १६ ॥
सत्यधर्म
आमन्त्र्य प्रचेतसः सहालोच्य कन्यां वरारोहाम् । उत्तमो हि वर आरोहो नितम्ब-प्रदेशो यस्याः सा ताम् । ‘‘आरोह आरोहणे नितम्बे च’’ इति विश्वः । आप्सरसीमप्सरसः प्रम्लोचायाः सुतां कुण्डुजातां सोमो दत्वा ययौ । आज्ञाया अनुल्लङ्घनीयतामाह ॥ राजेति । तेऽपि न दण्डभीताम् एतां जगृहुरित्याह ॥ धर्मेणोपयेमिर इति । एकैवैकस्य पाणिगृहीती विहिता कथमेते सर्वे एका प्रिया इत्यतोऽनुरूपं निदर्शनमपि वा दर्शयति । धर्मेण । लुप्तोपमेयम् । धर्मराजेनेवोपयेमिरे स यथा चतुसृभिः सह पाञ्चालीमेकलां तथोपयेमिर इति । न निबन्धानो विद्यादिपदं पदं च धर्मेणेति निबबन्ध तेनायमान्तरङ्गिको भावो ममेति सूचयामासेति सुचेतस्कैः सन्तोष्टव्यम् । अत्र यल्लेख्यं तत्पूर्वार्धेऽ-क्रूरोऽध्यगात्पुरेत्यत्र लिखितमनुसन्धेयम् ॥ १६ ॥
चट्टी
आमन्त्र्य सांत्वयित्वा वर आरोहो नितंबप्रदेशो यस्यास्ताम् । आप्सरसीम् अप्सरसः प्रम्लोचायाः सुताम् ॥ १६ ॥
तेभ्यस्तस्यामभूद् राजन् दक्षः प्राचेतसः किल ।
यस्य प्रजाविसर्गेण लोका आपूरितास्त्रयः ॥ १७ ॥
पदरत्नावली
यस्य दक्षस्य ॥ १७ ॥
सत्यधर्म
यस्य दक्षस्य प्रजाविसर्गेण तत्सृष्ट्या त्रयो लोका आपूरिताः सम्यक् पूर्णाः । स तेभ्यः प्रचेतोभ्यो दक्षो नाम्ना प्राचेतसस्तदपत्यतायाः । तदेवाह ॥ तस्यामिति । दक्षः सृष्ट्यादिकर्मणि समर्थ इति वा किल सत्यमित्यर्थः । किलशब्दः सत्यनृत्ययोरिति विश्वः ॥ १७ ॥
यथा ससर्ज भूतानि दक्षो दुहितृवत्सलः ।
रेतसा मनसा चैव तन्ममावहितः शृणु ॥ १८ ॥
सत्यधर्म
अवहितः सावधानमानसो दुहितृवत्सल इत्युत्तरदृष्ट्या ॥ १८ ॥
चट्टी
दुहितृवत्सल इत्यनेन तस्य कन्यावंश एवेति सूचयति । मम सकाशात् ॥ १८ ॥
मनसैवासृजत् पूर्वं प्रजापतिरिमाः प्रजाः ।
देवासुरमनुष्यादीन् नभःस्थलजलौकसः ॥ १९ ॥
पदरत्नावली
पूर्वमादिसृष्टौ । इमाः प्रजा मनसैवासृजत् । प्रजापतिर् ब्रह्मा ॥ १९ ॥
सत्यधर्म
एष्यत्कथोपयोगिनीं काञ्चन कथां कथयति ॥ प्रजापतिरिति । दक्षः पूर्वं प्रथमतः सृष्टौ देवासुरमनुष्यादीन्नभस्थलजलौकस इत्यत्रौकःशब्दः सर्वान्वयी । रेतःपुरस्करणं पूर्वश्लोके तेनैवोत्तरत्र भाविनी भूयसी सृष्टिरिति मनसैवेत्यत्र तत्पुरस्करणं तु तत्पूर्वभावित्वान्मानसिक्याः सृष्टेरिति भावेनेति भावः ॥ १९ ॥
चट्टी
मनसा ससर्जेत्युक्तं विवृणोति ॥ मनसेति । प्रजापतिर्दक्षः ॥ १९ ॥
तमबृंहितमालोक्य प्रजासर्गं प्रजापतिः ।
विन्ध्यपादानुपव्रज्य सोऽचरद् दुश्चरं तपः ॥ २० ॥
पदरत्नावली
यो ब्रह्मणा कृतः प्रजासर्गस् तमबृंहितम् अपूर्वं दृष्ट्वा ब्रह्मानुज्ञया विन्ध्यगिरेः पादान् प्रत्यन्तपर्वतान् उपगम्य तपोऽचरत् । स प्राचेतसो दक्षः । यो मनसाऽसृजत् स तपोऽचरद् इति एकवाक्यं वा ॥ २० ॥
सत्यधर्म
तं मानसिकमबृंहितं स्वपरकार्याननुकूलत्वेनापूर्णम् । विन्ध्यपादान्विन्ध्यस्य गिरेः पादाः प्रत्यन्तपर्वतास्तान् दुश्चरमितरैस्तपोऽचरच्चचार ॥ २० ॥
चट्टी
अबृंहितम् असंवृद्धम् । विंध्यस्य पादान्सन्निहितपर्वतान् ॥ २० ॥
तत्राघमर्षणं नाम तीर्थं पापहरं परम् ।
उपस्पृश्यानुसवनं तपसाऽतोषयद्धरिम् ॥ २१ ॥
सत्यधर्म
तत्र विन्ध्यपादेष्वघमर्षणं नाम नाम्ना तीर्थमृषिनिषेवितं जलम् । तीर्थमवतारर्षिजुष्टाम्भ इति विश्वः । उपस्पृश्य स्नानादिकं कृत्वेत्यर्थः । अनुसवनं निरन्तरम् ॥ २१ ॥
चट्टी
तत्र तीर्थमस्ति । तत्र तीर्थेऽनुसवनं प्रतिसंध्यमुपस्पृश्य स्नात्वा ॥ २१ ॥
अस्तौषीद् हंसगुह्येन भगवन्तमधोक्षजम् ।
तुभ्यं तदभिधास्यामि कस्यातुष्यद्यतो हरिः ॥ २२ ॥
पदरत्नावली
नाम्ना हंसगुह्येन स्तोत्रेण । कस्य दक्षस्य । यतो येन ॥ २२ ॥
सत्यधर्म
हंसगुह्येन तन्नामकेन मन्त्रेणास्तौषीत्स्तुतवान् । अधोक्षजमक्षेभ्योऽक्षादीन्द्रियेभ्यो जातं यज्ज्ञानं तदधः कृतं येन स तथा । नेन्द्रियाणि नानुमानमित्यादेः । तं भगवन्तम् । यतो येन कस्य दक्षस्य हरिरतुष्यत्तद्धंसगुह्यं तुभ्यमभिधास्यामि । क्रियया यमभिप्रैति सोऽपि सम्प्रदानम् । पत्ये शेत इत्याद्युक्तेस्तुभ्यमिति चतुर्थी भवति । तुभ्यं तदभिधास्यामीति प्रतिश्रुते विदितैतदभिधानो राजाऽ-पृच्छद्यतो येन कस्याधिकारिणो हरिरतुष्यदिति तदुत्तरयति मतिमाञ्छुकः । काशीतलवाहिनी गङ्गा कं बलवन्तं न बाधते शीतमित्यादिवत्कस्य दक्षस्येति प्रश्नोत्तरतया योज्यमिति पदचमत्कृत्या ध्वन्यते
॥ २२ ॥
चट्टी
हंसगुह्याख्येन स्तोत्रेण । कस्य दक्षस्य । यतो येन स्तोत्रेण ॥ २२ ॥
प्रजापतिरुवाच—
नमः परायावितथानुभूतये गुणत्रयाभासनिमित्तबन्धवे ।
अदृष्टधाम्ने गुणतत्त्वबुद्धिभिर्निवृत्तमानावधये स्वयम्भुवे ॥ २३ ॥
पदरत्नावली
सर्वनामसंज्ञाभावाल्लोकवैलक्षण्यप्रदर्शनाय । पराय नम इत्यन्वयः । परत्वमुप-पादयति– अवितथेत्यादिना ॥ अवितथा यथार्था क्वाप्यप्रतिहता अनुभूतिर्यस्य स तथा तस्मै, सत्यज्ञानाय । ‘सत्यं ज्ञानम्’ इति श्रुतेः । गुणत्रयेणाभासः सृष्टिस् तन्निमित्तयोः प्रकृतिपुरुषयोर्बन्धु-भूताय, तत्र स्थित्वा ताभ्यां सृष्टौ प्रवर्तमानाय, गुणत्रयप्रतीतिनिमित्ताव्यक्ताश्रयाय वा । ‘सतो बन्धुमसति निरविन्दन्’ इति श्रुतेः । गुणेषु शब्दादिविषयेषु यथार्थबुद्धिर्येषां ते तथा तैर्बहिर्मुखैरदृष्ट-धाम्नेऽज्ञातस्वरूपाय । ‘न चक्षुषा पश्यति कश्चिदेनम्’ इति श्रुतेः । जन्मादिमतः कथमनन्तत्वमिति तत्राह– स्वयम्भुव इति ॥ स्वयं भुवे स्वतः सिद्धाय । ‘स भगवान् कस्मिन् प्रतिष्ठित इति स्वे महिम्नीति’ इति श्रुतेः ॥ २३ ॥
सत्यधर्म
पराय नमः परोऽरिपरमात्मनोरित्यभिधानादेतदभिधानं हरेरिति संज्ञोपसर्जनीभूता-स्त्वित्यादेर्न स्मै । स्तुतिपदानां वस्तुस्तुतिमात्रतात्पर्यकत्वान्नार्थिकी पुनरुक्तिर्दोषस्तथैव सुधादौ कथितत्वात् । ननु संज्ञात्वेऽपि शब्दः ‘‘कस्मै यदा भवेत्’’ इत्यृग्भाष्यव्याख्यावसरे ‘‘प्रवेशनाद्विशां वानात्’’ इति पक्षद्वयेऽपि विश्व इति रूपं न सिध्यति । सर्वशब्दपर्यायस्यैव विश्वशब्दस्य सर्वनाम-संज्ञास्मरणात्सर्वनाम्नः परस्य जसः शीभावविधानादिति तत्राह ॥ शब्द इति । यथा खलु कस्मै देवाय हविषा विधेमेत्यत्र प्रजापतिपर्यायस्य कशब्दस्य सर्वनामसंज्ञाभावेऽपि ‘‘सर्वे विधयश्छन्दसि बहुला भवन्ति’’ इति सर्वनाम्नः स्मा इति सर्वनामकार्यं दृश्यत इति टीकायां कथयित्वात् कथनाच्च नमः परस्मै पुरुषायेत्यत्रैव । विष्णुसहस्रनामि्न च कः किमिति नामद्वयेऽकयेति रूढेरेकत्रैकत्र च रूढित्वेऽपि सर्वनामसंज्ञाया विना राज्ञामाज्ञां स्वीकार्यत्वात् । अन्यथा नामवैचित्र्यासम्पत्तेरनुच्चार्यत्वापत्तेश्चेत्येवं बहुस्थले कथमिदं समाधानमिति चेत् । सत्यम् । वचः संवलितमिति मन्त्रतया गोपनीयत्वान् मोनयदासाप्रपक्षिव्यत्यस्तपक्षितारौ चेत्यादिवद्धरेरितरवैलक्षण्यतां बोधयन्विचक्षण एवमवोचदिति किञ्चित्सान्त्वनोपपत्तेः । अयं परोऽपि परवज्जननादिमांश्चेद्दोषवान्स्यात्ततः स्याच्चाप्रार्थ्य इत्यत आह ॥ स्वयम्भुव इति । स्वयं भवतीति स्वयम्भूः ।
ननु तथाऽप्यशितेऽपि लशुने न शान्तो व्याधिरिति विधिं ये मन्वते तथा तन्मते विधौ स्वयम्भू-श्चतुरानन इति कोशाद्व्यावृत्तिर्नेति पुनरार्तिः स्यादित्यत आह ॥ अवितथानुभूतय इति । अवितथा अप्रतिहता अमोघाऽनुभूतिर्ज्ञानं यस्य स तथा । तथा चाज्ञानं च चतुर्वारमित्यादेर्विंधिरधिक्षिप्तः । स्वाभिलषितसिद्धये तथाऽस्तवीति ॥ गुणत्रयेति । गुणानां त्रयं मुनित्रयमित्यादाविवाभेदेऽप्यवयवा-वयविभावेन घटकतालोकितेत्युपपन्नं गुणत्रयमिति मन्तव्यम् । तस्याभासः प्रतीतिः कार्यतः सर्जनस्य तत्र निमित्तं दैवकालादिकं साधारणकारणं तद्बन्धुरुत्तेजकत्वात् । गुणत्रयशब्देन तदुत्तेजकोपादाने चिद-चित्प्रकृती आभासस्तु प्रतिबिम्बो जीवः । आभासकाभास आभास एव चेत्यादेः । निमित्तं कालादिकं तद्बन्धवे वा । गुणत्रयस्याभासोऽप्रतिभानं तन्निमित्तबन्धवे मोक्षदायेति यावदिति वा । गुणत्रयाभासः निमित्तं यस्य स बन्धो येन स तस्य सम्बुद्धिर् हे गुणत्रयाभासनिमित्तबन्ध हे वे पक्षिन् हंस गुणतत्त्व-बुद्धिभिर्गुणेषु भूतमात्रासु शब्दादिषु तत्त्वबुद्धिभिर्मे मम एव सुखजनका इति रहस्यमतिभिर्गुणेष्वप्रधानेषु तत्त्वबुद्धिः परमात्मत्वबुद्धिर्येषां तैरिति वा । ‘‘तत्त्वं स्वरूपे परमात्मनि’’ इति विश्वः । अदृष्टधाम्नेऽ-ज्ञातस्वस्वरूपायादर्शितवैकुण्ठादिगृहाय वाऽदृष्टस्वतेजसे वा गुणतत्त्वबुद्धिभिर्गुणेषु भागवतज्ञाना-नन्दादिषु तत्त्वस्य भगवत्स्वरूपत्वस्य बुद्धिर्येषां तैः । नेह नानास्ति किञ्चन । एवं धर्मान्पृथक्पश्य-न्नित्यादेर्भेदज्ञानस्यानर्थताश्रवणात् । ‘‘ब्रह्मणस्तद्गुणानां च भेददर्श्यधरं तमः । भेदाभेदप्रदर्शी च मध्यमं तु तमो विशेत् । ईषद्भेदप्रदर्शी च तम एवोत्तरं विशेत् ॥’’ इति बृहद्भाष्योक्तेः । अदृष्टमीषदृष्टं साकल्येनानाकलितमिति यावद् धाम स्वरूपं यस्येति तस्मै । निवृत्तमानावधये मानस्य परिमाणस्यावधिः सीमा स निवृत्तो यस्मात्परिमाणातीताय ‘‘अतो नाणुत्वविश्रान्तिर् न महत्वस्य च क्वचित्’’ इत्युक्तेर् व्याप्तायेति यावन् मानानां वेदानामवधिः । प्रतिपादनावसानं निवृत्तं यस्मिन्निति तस्मै वेदा अपि नावेदयितुं साकल्येन शक्ता इति भावः । निवृत्तो नितरां वृत्तो हि मानानामवधिः साक्षी तद्रूपायेति वा । निवृत्तौ नितरां वृत्तं प्रवर्तनं लोकानां याभ्यां तौ मा च रमा चानश्च वायुश्च तौ अवधी दुःखस्पृष्टतदस्पृष्टयोर्येन स तस्मै । नित्याऽदुःखा रमा । इयदामननात् । श्रीर्वायुश्च । नियतौ हरिणैव त्वित्यादिबृहदारण्यकभाष्यादित्यादेः । लोकमाता मा । अवधिस्त्ववसाने स्यात्सीम्नीत्यमरविश्वौ । निवृत्तमानावधये निरहङ्कारशिरोमणये निवृत्तास्सदाचारास्तेषु मानरसत्कारश्चित्तसमुन्नतिर्वा तस्यावधये तद्दाननिदानायेति वा निवृत्तं गतं मानं लयो यस्य सः स चावधिनिषेधशेषः स चेति वा । ‘‘मानं ज्ञानं लयश्चैव’’ इति बृहद्भाष्यादेः । नम इत्यन्वयः ॥ २३ ॥
चट्टी
तदेवाह ॥ नम इति द्वादशभिः ॥ अत्र सर्वत्र गुणिनिष्ठगुणाभिधानलक्षणायाः स्तुतेर्देवतातोषत्वेन मन्त्रावृत्तिवन्न पौनरुक्त्यं न वाऽत्यन्तसङ्गत्यपेक्षेति ज्ञातव्यम् । पराय परमात्मने नमः । तस्य लक्षणमाह । पराय निर्दोषगुणपूर्णाय ॥ ‘‘निर्दोषगुणपूर्णत्वात्परमाहुर्जनार्दनम्’’ इत्युक्तेः । परत्वमुपपादयति ॥ अवितथेत्यादिना । अवितथा यथार्था क्वाप्यप्रतिहताऽनुभूतिर्यस्य तस्मै सत्यज्ञानाय । सत्यं ज्ञानमिति श्रुतेः । गुणत्रयेणाभासः सृष्टिस्तत्र निमित्तयोः प्रकृतिपुरुषयोर्बन्धुभूताय । तत्र स्थित्वा ताभ्यां सृष्टौ प्रवर्तमानाय गुणत्रयप्रवृत्तिनिमित्ताव्यक्ताश्रयाय वा । स नो बन्धुमसति निरविन्दन्निति श्रुतेः । निवृत्तमाने परिमाणे ज्ञाने वाऽवधिर्मर्यादा यस्मात्तथा । सत्यं ज्ञानमनन्तमिति श्रुतेः । ‘‘मानं ज्ञानं लयश्चेति मर्यादा चेति कथ्यत’’ इत्यभिधानम् ॥ यद्वा ॥ निवृत्तं मानं प्रमाणं यस्मात्स तथा । यतो वाचो निवर्तन्त इति श्रुतेः । व्याप्तश्चेत्कुतो नोपलभ्यत इत्यत आह ॥ अदृष्टेति । गुणेषु शब्दादिविषयेषु तत्त्वबुद्धिः पुरुषार्थबुद्धिर्येषां तैः । विषयलंपटैरिति यावत् ॥ अदृष्टधाम्ने । अज्ञातस्वरूपाय । न चक्षुषा पश्यति कश्चिदेनमिति श्रुतिः । स्वयंभुवे स्वतःसिद्धाय । स भगवान् कस्मिंश्चित्प्रतिष्ठित इति । स्वे महीम्नीति श्रुतेरित्यर्थः ॥ २३ ॥
न यस्य सख्यं पुरुषो वेत्ति१ सख्युः सखा वसन् संवसतः पुरेऽस्मिन् ।
गुणो यथा गुणिनोऽव्यक्तदृष्टि२स्तस्मै महेशाय नमस्करोमि ॥ २४ ॥
तात्पर्यम्
गुणो यथा गुणिनः । कश्चित्पुरस्थितो गुणभूतः प्रधानभूतस्य राज्ञः ममासौ सखेति राज्ञा चिन्तितमपि न जानाति । ‘यथा राज्ञः प्रियत्वं तु भृत्यो वेद न चाऽत्मनः । तथा जीवो न यत्सख्यं वेत्ति तस्मै नमोऽस्तु ते’ इति स्कान्दे ॥ २४ ॥
पदरत्नावली
गुणतत्त्वबुद्धिभिरदृष्टधाम्न इत्येतदुपपादयति– न यस्येति ॥ अयं पुरुषो यस्य सख्यं न वेत्ति तस्मै महेशाय शिवादुत्तमाय नमस्करोमीत्यन्वयः । कीदृशस्य ? अस्मिन् पुरे शरीरे संवसतः । स्वयं च सहैव वसन् । ‘तद् दूरे तद्वन्तिके’ इति श्रुतेः । सख्युः सखेत्येतदेकस्मिन् पुरे वर्तमानत्वा-दुभयोः समम् । ‘द्वा सुपर्णा सयुजा सखाया समानं वृक्षम्’ इति श्रुतेः । अत्र दृष्टान्तमाह– गुण इति ॥ यथा कश्चित् पुरतः स्थितोऽपि गुणभूतो भृत्यः गुणिनः प्रधानभूतस्य राज्ञो ममाऽसौ सखेति गम्भीरेण राज्ञा चिन्तितं सख्यं न वेत्ति । कुतः ? अत्राह– अव्यक्तेति ॥ अस्पष्टदृष्टिः । भृत्यस्य स्थूलज्ञानत्वाद् राज्ञः सूक्ष्मदृष्टित्वादित्यर्थः । ‘गुणो रूपादिर्गुणिनो द्रव्यस्य संबन्धं यथा न वेत्ति कुतः ? अव्यक्तदृष्टिः । दृष्टिरहितत्वाज् जडत्वात्’ इत्येतदपव्याख्यानं ‘यथा राज्ञः प्रियत्वं तु भृत्यो वेद न चात्मनः । तथा जीवो न यत्सख्यं वेत्ति तस्मै नामोऽस्तु ते ॥’ इत्यनेनापहस्तितमिति ज्ञातव्यम् ॥२४॥
सत्यधर्म
गुणो विषयो गुणिनो विषयिण इन्द्रियादेः सख्यं प्रकाशकत्वं यथा न वेत्ति तद्वदिति परविवरणे प्रतिपत्तिप्रसक्तिरहितस्य शब्दादेर्विषयस्य वेदनाधिकारिविज्ञाता निदर्शनीयता न प्राज्ञसम्मतेति स्वयं विवृत्य तत्र प्रमाणं स्कान्दवचनं चोदाहरति ॥ गुण इति । कश्चित्पुरस्थः पुरत एव स्थितोऽपि । गुण इति मौलं पदं तस्यार्थो गुणभूत इति । अप्रधानो नूतनमन्त्र्यादिरभिधानमभिहितं प्राक् तदनुसन्धेयम् । गुणिन इत्यनूद्य प्रधानभूतस्य राज्ञ इति व्याख्यानम् । ममासौ सखेति राज्ञा चिन्तितमपि न जानाति नानुसन्धत्ते दुरूहत्वात्तच्चिन्तनस्य । यथा राज्ञ आत्मनः स्वस्य प्रियत्वमन्तर्गर्भं भृत्यः स्थूलदृश्वा न वेद न जानाति राज्ञ आत्मनो मनसस्तत्सम्बन्धिप्रियत्वमिति तन्त्रेणावृत्त्याऽन्वयो वा । स्ववचनभाष्यस्थ-चिन्तितपदस्वारस्यात् । तथा जीव एकस्मिन्सन्नपि शरीरे यत्सख्यं स्वस्थित्यन्वयगम्यं येन भगवता सख्यं न वेद महामोहोऽनेन सूचितः । तुरेतस्मात्तं भगवन्तं विशेषयत्येतादृशैतन्मोहयितृत्वेन ते तस्मै नमः । तस्मै ते तस्मा इव द्वितीयस्य नम्यस्याभावान्नम इति वा ॥ ततोऽयं मूलार्थः ॥ सखा पुरुषो जीवो मूलकृत्स्वयमेव तस्मै तच्छब्दप्रवत्तिनिमित्तमालपति । अस्मिन्प्रात्यक्षिके पुरे शरीरे वसन्वासं कुर्वन्निति । संवसतः सख्युः सह ख्यायमानस्य । सोऽपि न दूर इतीरयति । पुरे वसत इति ॥ पुरुषः पुरुषु स्थितेः पुराख्येष्वपि देहेषु हृत्युर्यपि वसत्यसाविति बृहद्भाष्योक्तेः । अत एव पूर्वं वसत इत्येवोक्तिः। समानस्थितिनिमित्तककर्मलेपलोपं ज्ञापयति । गुणोऽप्रधानोऽपरिचिततच्चितः कश्चिदव्यक्तदृष्टिर्मन्दमति-र्यस्य भगवतो ज्ञानात्मकस्येति वा । येति ज्ञानं समुद्दिष्टमिति तात्पर्यान्तरात् । महेशायोत्सवस्वामिने ईशत्वेन शब्दितशिवादिर्महान्येन तस्मै वा । अवैति वेत्तीति पाठौ द्वावप्यद्वितीयौ । ‘‘द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति’’ इति श्रुतिमनुकरोत्यनेनेति ज्ञेयम् ॥ २४ ॥
चट्टी
अदृष्टधामत्वमुपपादयति ॥ न यस्येति द्वाभ्याम् । सखा पुरुषो जीवोऽस्मिन्पुरे देहे वसन्नप्यत्रैव संवसतः सख्युर्यस्य सख्यम् । शरीरेन्द्रियादिप्रवर्तकत्वं लक्षणं न वेत्ति । परस्परसखित्वं त्वेकशरीराश्रयत्वेन । द्वा सुपर्णेति श्रुतेः । तत्र दृष्टान्तमाह ॥ गुण इति । यथा कश्चिद्गुणोऽप्रधानः । भृत्य इति यावत् । गुणिनो भृत्यस्वामिनः प्रधानभूतस्य राज्ञः पुरःस्थितोऽपि ममासौ सखेति गंभीरेण राज्ञा चिन्तितमपि न जानाति । यतो व्यक्तदृष्टिः । स्थूलदृष्टिः । अनेङ्गितज्ञस्तथेत्यर्थः ॥ तदुक्तं यथा राज्ञः प्रियत्वं तु भृत्यो वेद न चात्मनः । तथा जीवो न यत्सख्यं वेत्ति तस्मै नमोऽस्तु त इति स्कान्दे ॥ महेशाय । प्रतिसमर्थाय । ‘‘समर्थ ईश’’ इत्युक्त इति वचनात् ॥ २४ ॥
देहोऽसवोऽक्षा मनवो१ भूतमात्रा नात्मानमन्यं च विदुः परं यत् ।
सर्वं पुमान् वेद गुणांश्च तज्ज्ञो न वेद सर्वज्ञमनन्तमीडे ॥ २५ ॥
तात्पर्यम्
‘देहमानी वैश्रवणो मरुतः प्राणमानिनः । इन्द्राद्या इन्द्रियात्मानो रुद्रोऽन्तः करणात्मकः । नैते विन्दन्ति स्वात्मानं परं वापि विमोहिताः । जीवाभिमानी ब्रह्मा तु सर्वं वेद प्रजापतिः । सोऽपि वेद हरिं नैव सम्यक्सैव हि सर्ववित्’ इति च ॥ २५ ॥
पदरत्नावली
‘मृह्यन्ति यं सूरयः’ इति यदुक्तं तदधुना स्पष्टयति– देह इति ॥ ‘ता आप ऐक्षन्त’ इत्यादिवद् देहादीनां जडानां ज्ञातृत्वादिधर्मानुपपत्त्या तद्व्यतिरिक्तः कश्चिज् ज्ञानाश्रयोऽङ्गी-कर्तव्यः । जीवस्य ज्ञानाश्रयत्वेऽपि सम्यक् स्वपरवेदनासामर्थ्यस्य प्रत्यक्षत्वेन परस्य हरेस्तज्ज्ञाना-विषयत्ववर्णनेन माहात्म्यभाविर्भूतं न स्यादिति कश्चिद् विशिष्टः सर्वज्ञोऽपेक्षितस् तस्य सर्वज्ञत्व-विशिष्टान्यसद्भावे घटते । तेनान्यैश्च सम्भूयाप्यवेद्यमहिमा हरिरित्यनेन हरेर्निरतिशयमाहात्म्यं विज्ञातं स्यादिति तदर्थं देहादिशब्देन तदभिमानित्वेन ते लक्ष्यन्ते, सम्बन्धात् । तथाहि प्रधानाभिमानित्वाद् वैश्रवणादयो देहादय इति सामानाधिकरण्येनोच्यन्ते न तु तादात्म्यात् । असवः प्राणाभिमानिनो मरुतः । अक्षा इन्द्रियाणि तदभिमानिन इन्द्राग्निवरुणादयः । मनव इति मनसोऽन्तःकरणस्य वृत्ति-बाहुल्याद् बहुवचनम् । तस्याभिमानी रुद्रः । भूतानामभिमानिनः पृथिव्याद्याः सुपर्णाद्या वा । मात्राः शब्दादयस् तद्देवता रुद्रसूनवः सौपर्ण्याद्या वा इत्येते देवा वैश्रवणाद्या आत्मानं स्वस्वरूपमन्यं स्वव्यतिरिक्तं प्रपञ्चं च न विदुः । यद् उभयस्मात् परमुत्तमं ब्रह्म तन्न विदुरिति किमुत ? तत्प्रसादमन्तरेणेति शेषः । पुमान् जीवाभिमानी ब्रह्मा स्वात्मानं प्रपञ्चं चेति सर्वं वेद । न केवलं तावदेव किन्तु तत्तद्वस्तुसमवेतगुणांश्च शब्दांस्तद्विशेषांश्च क्रियादींश्च वेद । तर्हि परमात्मानं वेद किम् ? नेत्याह– तज्ज्ञ इति ॥ तानि सर्वाणि जानातीति तज्ज्ञोऽपि ब्रह्मा तं सर्वज्ञं हरिं न वेद । यथाऽसौ हरिः स्वात्मानं स्वव्यतिरिक्तं सर्वं वेत्ति, तथेेति शेषः । तर्ह्यसौ स्वपरिच्छेद्यत्वेन परिमितः किम् ? नेत्याह– अनन्तमिति ॥ अनन्तमात्मानमपरिच्छेद्यत्वेन ज्ञातारम् । तस्य ज्ञानस्य यथार्थत्वात् । अतः स एव सर्वमुख्यः सर्वज्ञो न ब्रह्मेति । ‘तद् ब्रह्मावेद् अहं ब्रह्मास्मि’ इति श्रुतिः । ‘विष्णोर्नु कं वीर्याणि’ इति श्रुतिश्च । एवंविधं परमात्मानम् ईड इत्यन्वयः । एतत् सर्वं ‘देहमानी वैश्रवणो मरुतः प्राणमानिनः । इन्द्राद्या इन्द्रियात्मानो रुद्रोऽन्तःकरणात्मकः । नैते विदन्ति स्वात्मानं परं चापि विमोहिताः । जीवाभिमानी ब्रह्मा तु सर्वं वेद प्रजापतिः । सोऽपि वेद हरिं नैव सम्यक् सैव हि सर्ववित् ॥’ इत्यनेन सिद्धम् ॥ २५ ॥
सत्यधर्म
ननु देहोऽसवोऽक्षा मनव इति श्लोके केषाञ्चिज्ज्ञानसामान्यहीनानां तत्प्रसक्तेरेवा-युक्तेस्तत एव न विदुरिति तन्निषेधोऽयुक्त इत्यतो मानेनैव तदभिमानिनो ज्ञानप्रसक्तिमतो नाम-निर्देशपूर्वकं तथैव पुमानिति नामनुष्यादिजीववाचीति च यथाविवक्षं विवक्षुरर्थं समग्रं श्लोकं व्याकरोति ॥ देहमानीत्यादिना ॥ देहमानी तदभिमानवान्वैश्रवणः कुबेरो विश्रवसोऽपत्यम् । विश्रवसो विश्रवणाविति विश्रवशब्दस्य विश्रवणादेशः । विश्रवणशब्दश्च शिवादिगणे निपातितः स्थानिवत्सूत्रस्य कौस्तुभरीत्या शब्दान्तराणि प्रत्ययविषयाणीति वा बोध्यम् । असव इति विवृणोति ॥ मरुत इति । इन्द्राद्याः । मूलेऽक्षपदोदितेन्द्रियस्वामिनः । मनव इत्यर्थापयति ॥ रुद्र इति । अन्तःकरणात्मकस्तद्वृत्तिविशेष-विवक्षया मूले बहुवचनम् । ‘‘मनु अवबोधन’’ इति मनुर्हि बुद्धिस्तदुपादानत्वादन्तःकरणं तत्स्वामित्वात् ‘‘मनो रुद्र उदाहृतः’’ इत्यादे रुद्रो गृहीतः ।
ननु ‘‘ब्रह्माद्या मनुसंज्ञा ये’’ इति छान्दोग्यभाष्ये ‘‘मनवो बोधवैशेष्याद्देवा ब्रह्मादयः स्मृताः’’ इति गीतातात्पर्ये चेत्येवमादिषु मनुशब्दस्य ब्रह्मादिवाचकत्वावगमात्तत्त्यागेन त्रिनेत्रग्रहणं यदि मनोभिमाननिमित्तकं भवेत्तदपि भवेन्मनसोऽपि ब्रह्मा सरस्वती वायुर्मन आद्यभिमानिन इति बृहद्भाष्ये सर्वे सर्वाभिमानिन इति मानाच्च तथा पूर्वोदीरितमानेनोमाचन्द्रादेर्ग्रहणमप्रयोजकमिति किं पुरहर-पुरस्करणमिति चेत् । न । जीवाभिमानी ब्रह्मा त्विति किञ्चिज्ज्ञत्वेनोक्तेभ्य एतेभ्य उत्कृष्यवचनात्तेनैव व्याख्यातो ब्रह्मणा मरुदित्यादेर्वायोः कैमुत्येनैव तद्भार्यादीनामप्यवचनीयत्वादत्र तद्ग्रहानौचितीव भवग्रहणेनैव भवानीचन्द्रादीनां कैमुत्येनैवाविज्ञत्वं प्राप्नोतीति तद्ग्रहानुचितता चेति रुद्रोऽन्तःकरणात्मक इत्येवोक्तमिति मन्तव्यम् । एते कुबेरादयः स्वात्मानं स्वस्वरूपं परमितरस्वरूपं च विमोहिताः स्वस्वकर्मानुरोधेन प्रकृत्या हरीच्छया च हरिं न विदन्ति न जानते । जीवाभिमानी जीवान्तर्यामी सन् तत्प्रेरको ब्रह्मा सर्वं स्वरूपं परं चालोचने वेद । सोऽपि ज्ञानित्वेन सम्प्रतिपन्नोऽपि हरिं सम्यक् साकल्येन नैव वेद । तर्हि न कोऽपि तत्राधिकारिण इति निरधिकारिकं तदित्यत आह– सैव हीति ॥ लोपे चेत्पादपूरणमिति सुलोपे सति वृद्धौ च सैष दाशरथी राम इत्यादिवत्सन्धिरवधेयः । स हरिरेव सर्ववित्स्वपरगताखिलविशेषज्ञो हीति सर्वविदित्यादिप्रसिद्धिं द्योतयति । स एव हि सर्वविदिति वक्तव्ये सैवेति वदन्स्कन्दो लोकजननी चेज्जानीयादिति कश्चिदपि विपश्चिच्छङ्केत सोऽपि सम्यक् न वेदेति तदपाकृतिमपि सूचितवानिति मतिमद्भिर्मननीयम् । सा लक्ष्मीः समुदाहृतेत्येकाक्षरघण्टुः । यद्वा प्रजापति- रित्यनेन पूर्तावतिरिक्तं ब्रह्मपदं मम योनिर्महद्ब्रह्मेति पुंवच्छक्तिमती यत इत्याद्युक्तेश्च कूटस्थोऽक्षर उच्यत इत्यादिवत्पुल्लिङ्गं भगवतीवाचकं भवतीति ब्रह्मा रमेति ज्ञेयम् । अथवा ब्रह्म अ तु इति छेदः । ब्रह्म लक्ष्मीर्वेदश्च । ‘‘ब्रह्म तत्त्वं तपो वेद’’ इति विश्वः । अने न वेदेत्यन्वयोऽक्लेशिष्ट इत्यतिश्लिष्ट इति ॥
तथा चेदं मूलविवरणम् ॥ जीवः सख्युर्न जातु जानीयात्स्वरूपं स्वस्वरूपमन्यच्च भगवद्व्यतिरिक्त-सखित्वाकारज्ञानहीनत्वेऽपि सामान्यज्ञानं हरेः स्यात्स्वत इत्यतो ‘‘मुह्यन्ति यं सूरयः’’ इत्यादिनोक्त-माविष्कार्षीरित्याह ॥ देह इति । देहो हि कुबेरोऽसवो मरुतोऽक्षा इन्द्रियाभिमानिनः । अक्षमिन्द्रिय-मित्यक्षशब्द इन्द्रियवाची न पुल्लिङ्ग इति विश्वस्मिन्नपि विश्वादौ कोशे शंसितस्तमक्षा इति पुल्लिङ्गत्वेनो-दाहरन्मूलकारो नात्रैते देहादयः शब्दा अचेतनवाचकाः किन्त्वन्तःसन्निहिततत्प्रेरणशक्तियुक्तचिन्मात्र-परा इति ध्वनयामासेति तात्पर्यमवधेयम् । मनवः शिवो भूतानि तदभिमानिविनायकादयो मात्राः शब्दादयः शम्भुसम्भवाः सुपर्णाद्या वेत्येते देवा आत्मानं स्वस्वरूपमन्यं स्वविलक्षणप्रपञ्चं परमत्यन्तं न विदुः । पुमाञ्जीवाभिमानी ब्रह्मा स्वात्मानमन्यं प्रपञ्चगुणांस्तद्धर्मांश्चेति सर्वमीश्वरानुग्रहेण वेद । तर्हि जानीयाद्वाणीरमण इति तज्ज्ञानी तमपि भगवन्तमित्यत आह– तज्ज्ञ इति ॥ अप्यर्थे चः । स स्वात्मानमन्यं चेति यत्तज्जानातीति स तथा भगवन्तं न वेद परमत्यन्तं सम्यक् । सोऽप्येनं न जानाति चेत्समः समाधिरित्येतद्धिक्करोति ॥ सर्वज्ञमिति । एतत्स्थेम्ने हेतुमाह– अनन्तमिति ॥ अपरिच्छिन्नम-बद्धम् अमृत्युं वैतदसिद्धिप्रतिषेधाय सर्वज्ञमिति । परस्परोपकार्योपकारकत्वं वा बोध्यम् । एतत्पक्षे सर्वज्ञमिति प्रतीकप्रतिनिधित्वेनानन्तमिति तत्प्रतिनिधित्वेन सर्वज्ञमिति ज्ञेयम् । मौलपरपदस्य व्याख्यानरूपं प्रमाणभाष्यस्थसम्यक्पदं परं सम्यङ्न वेदेति मूले योजना द्रष्टव्या । तद्ब्रह्मा वेदाहं ब्रह्मास्मीति विष्णोर्नु कं वीर्याणि प्रवोचम् । न तदीदृगिति ज्ञेयमित्यादिमानसिद्धोऽयमर्थ इति नानादरणीयः । ईड इत्यत्र ई ईड इति पदे । ई रमाऽपि स्वात्मानं स्वस्वरूपमन्यत्तद्गुणानन्यधर्मान्वा या वेद साऽपि परं सम्यङ्न वेदेत्यान्तरङ्गिको भावो विभावनीयः । ईशकोटिनिवेशादनधिकारिकेति मूले तात्पर्ये चेदं पर्यायेणोदितम् । अन्यथा मङ्गलदेवता चेद्भगवन्तं जानीयादिति शङ्काऽनुत्तारिता स्यात् । वेदा ह्येवैनं वेदयन्तीत्यादेर्वेदस्य तज्ज्ञत्वं वर्तत इत्यतोऽह ॥ न वेद सर्वज्ञमिति । वेदाः सर्वज्ञा ज्ञापका वा न यस्य स तथा तम् । यतो वाचो निवर्तन्त इत्यादेः । न वेदेत्येकत्रोक्तेन सर्वनिर्वाहे कर्तुं शक्ये यत्पुनर्न वेद सर्वज्ञमित्युक्तिस्तत्राप्येतदानुपूर्व्योक्तिश्चार्थविशेषं प्रयच्छत इत्यतुच्छहृदयैरालोचनीयम् ॥२५॥
चट्टी
ननु साधारणानां भगवज्ज्ञानाभावेऽपि देवानां तत्स्यादित्यत आह ॥ देह इति । देहो तदभिमानी कुबेरः ॥ असवः प्राणाभिमानिनो मरुतः । अक्षमिन्द्रियमेषामस्तीति नियम्यत्वेनेत्यक्षा इन्द्रियाद्या इत्यनेन सर्वत्राभिमानिनो मरुतः । एतेन सर्वत्राभिमानिनो ग्राह्या इति सूचितम् । अन्यथा लिङ्गव्यत्ययापत्तेः ॥ मनसः मनोभिमानी रुद्रः । मनसो वृत्तिबाहुल्यात् । बहुवचनाद्भूताभिमानिनो गणपत्यादयः ॥ मात्राः शब्दाद्यभिमानिनो बृहस्पत्त्यादयः । एते सर्वेऽप्यात्मानं स्वस्वरूपमन्यं स्वव्यतिरिक्तं प्रपञ्चं यत्परं ब्रह्म तच्च सर्वथा न विदुः । प्रपञ्चविषयकज्ञानमपि नास्ति किमुत ब्रह्मज्ञानमिति कैमुत्यप्रदर्शनार्थमात्मानमन्यं चेत्युक्तम् ॥ पुमान् । जीवाभिमानी ब्रह्मा तु स्वात्मानमन्यं चेति सर्वं वेद । न केवलं तावदेव किन्तु गुणान् तद्वस्तुसमवेतान् । चशब्दस्तत्तद्विशेषक्रियादींश्च वेद । सोऽपि भगवन्तं न वेदेत्याह ॥ तदिति । तानि सर्वाणि जानातीति तत्ज्ञोऽपि ब्रह्माणं न वेद । तमीड इत्यन्वयः । सर्वतस्तत्ज्ञानाभावेऽधिकार्युत्तमत्वं न स्यादित्यत आह ॥ अनन्तमिति । अनन्तगुणत्वा-त्साकल्येन न वेद । स्वयोग्यतानुसारेण जानात्येवेति भावः । कस्यापि साकल्येन ज्ञानाभावे गुणा-नन्त्यस्यासत्वमेव स्यादित्यत आह ॥ सर्वज्ञमिति । भगवत्ज्ञानमेव तत्र प्रमाणमिति भावः ॥ तदुक्तं देहमानी वैश्रवणो मरुतः प्राणमानिनः । इन्द्राद्या इन्द्रियात्मानो रुद्रोऽन्तःकरणात्मकः । नैते विदन्ति स्वात्मानं परं वापि विमोहिताः । जीवाभिमानी ब्रह्मा तु सर्वं वेद प्रजापतिः । सोऽपि वेद हरिं नैव सम्यक्सैव हि सर्ववित्’’ इति च ॥ २५ ॥
यदोपरामो मनसो नामरूपरूपस्य दृष्टिस्मृतिसंप्रमोषात् ।
य ईयते केवलया स्वसंस्थया हंसाय तस्मै शुचिसद्मने नमः ॥ २६ ॥
तात्पर्यम्
केवलया स्वसंस्थया । स्वप्नसुषुप्त्यादौ मनस उपरमाज्जीवस्यास्वातन्त्र्यदर्शनेऽपि स्वप्नप्रबोधादिदर्शनादन्य ईश्वरस्तन्नियामकोऽस्तीति ज्ञायते । जीवेच्छाभावात्केवलत्वम् । ‘यदोपरामो मनसः स्वप्नसुप्तिलयादिषु । तदावस्थाप्रबोधादिकारणत्वेन केशवः । अस्वातन्त्र्यात्तु जीवस्य विद्यतेऽन्यो नियामकः । जीवप्रवृत्त्यानुकूल्याज्ज्ञायतेऽसौ तदा विभुः’ इति हरिवंशेषु
॥ २६ ॥
पदरत्नावली
अनुमानतोऽपि तज्ज्ञानं सुकरमित्याह– यदेति ॥ यदा स्वप्नसुषुप्त्यादौ नामरूप-रूपस्य नामरूपात्मकप्रपञ्चापादकस्य मनसो दृष्टिस्मृतिसंप्रमोषाच् चाक्षुषस्मरणलक्षणज्ञाने प्रमुष्याप-हृत्योपरामः निर्व्यापारावस्था तदा यः केवलया स्वसंस्थया ईयते, जीवस्यास्वातन्त्र्यात् स्वप्नावबोधादि-दर्शनाच्च, जीवेच्छाराहित्येन शुद्धया स्वरूपसत्तया स्वप्नादिनियामकत्वेन जीवादन्य ईश्वरोऽस्तीति ज्ञायत इत्यन्वयः। तस्मै हंसाय नित्यशुद्धाय श्वासरूपाय वा नमः । उपस्तिर्विशिष्टाधिष्ठानेन च भाव्येति अतस्तद्भावमाह– शुचिसद्मन इति ॥ शुचिर्वायुरेव सद्म निवासस्थानं यस्य स तथा तस्मै । नाम-रूपात्मकप्रपञ्चविषये जीवस्य चाक्षुषमानसज्ञानापहाराद्वा । ‘यदोपरामो मनसः स्वप्नसुप्तिलयादिषु । तदाऽवस्थाप्रबोधादिकारणत्वेन केशवः । अस्वातन्त्र्यात् तु जीवस्य विद्यतेऽन्यो नियामकः । जीवप्रवृत्त्यानुकूल्याज्ज्ञायतेऽसौ सदा विदुः ॥’ इत्येतत्प्रमाणानुगृहीतव्याप्तिकत्वाल्लिङ्गमव्यभिचारीति भावः ॥ २६ ॥
सत्यधर्म
यदोपरामो मनस इति श्लोके मनस उपरमो यदा भवति तदा यः केवलया स्वसंस्थये-यते ज्ञायत इत्यन्वयभ्रमभ्रंशाय तथा नामरूपरूपस्य दृष्टिस्मृतिसम्प्रमोषादित्यस्य विवक्षितार्थप्रतिपत्तये च किञ्चिद्वाञ्छितमध्याहृत्यान्वयार्थौ दर्शयति ॥ केवलयेति । दृष्टिस्मृतिसम्प्रमोषाद्दृष्टिरुभयविधप्रपञ्चानुभवः स्मृतिरपि तादृशी तयोः प्रमोषोऽपहरस्तस्मात् । एतत्पदं छायया व्याकरोति ॥ स्वप्नसुप्त्यादाविति । आदिपदेन लयमूर्छाप्रबोधग्रहणम् । स्वप्नादिषु मनसस्तदुपलक्षितानां सर्वेषामक्षाणामुपरमान्नामरूप-रूपविश्वविषयीकरणव्यापारराहित्याज्जीवानां च तद्द्वारेणैव विषयज्ञानित्वात्तदभावेऽस्वातन्त्र्यदर्शने स्वातन्त्र्याभावे मानतः सिद्धे स्वसंस्थया स्वस्वरूपभूतया विशेषेण स्वसंस्थत्वादिव्याहरणं स्वेच्छया, साऽपि न जाग्रद्दशायामिव जीवव्यापारव्यामिश्रेति केवलयेति मूलपदमनूद्य व्याकरोति ॥ जीवेच्छा-भावात्केवलत्वमिति । अत्र जीवेच्छेति वदन्नानन्दतीर्थमुनिः स्वसंस्थयेति पदमिच्छावाचकमिति छायया सूचितवानिति ज्ञेयम् ।
ननु तत्कार्यस्यादर्शनात्कथं कथितं स्वसंस्थयेतीति दुरवस्थीकरोति ॥ स्वप्नप्रबोधादिदर्शनादिति । स्वप्नसुप्त्यादावित्यादावुदीरणादुत्तरत्रापि तथैव वक्तव्ये यत्स्वप्नप्रबोधादीति निबबन्ध तेन तस्यादिपदेन प्राचीनवाक्ये ग्राह्यतां ग्राहयामास । स प्रबोधोऽपि न जाग्रत्कालिक इति बोधयामासानुपूर्व्याऽनयेति च ज्ञेयम् । मनआदीनामव्यापारे व्यापारयितुरस्वातन्त्र्यात्कार्यस्य सर्वानुभवसिद्धस्यापलपितुमशक्यत्वादा-कस्मिकत्वेन सदानुभवस्य भाव्यत्वाच्च कश्चित्सर्वविपश्चिदीश्वरोऽन्यो नियामकोऽस्तीति ज्ञायते । जीवेच्छाभावाज्जीवस्य ममाक्षमत्वात्केनचित्क्षमेण भाव्यमितीच्छाभावात्स्वसंस्था केवलेति भावः । स्वप्न-प्रबोधादिदर्शनादित्यावृत्य तस्य स्वप्नप्रबोधादिदर्शनमातयति सततं गमयतीति । क्विप्यततेः प्रथमैक-वचनतायां स्वप्नप्रबोधादिदर्शनादिति भवतीश्वरविशेषणम् । तथा च नायासेन समीरनीरदरीत्या गमकता-गमकते ईश्वरायत्ते इति ज्ञातं भवति ।
यदा यस्मादेवं तदेत्यपि । ‘‘यदा तदेति हेत्वर्थे कालार्थे चापि भण्यते’’ इति तृतीयतात्पर्यात् । स्वप्नसुप्तिलयादिष्विति कालस्यार्थात्पृथगुक्तेः स्वप्नसुप्तिलयादिषु मनस उपरमस्तदा तदवस्था-प्रबोधादिकारणत्वेन केशवः कश्चेशश्चेति केशौ विधिविधुशेखरौ तौ वर्तयति प्रवर्तयति यः सृष्ट्यादिना स केशवः । यथोक्तं गीताभाष्ये– ‘‘कं ब्रह्माणमीशं रुद्रं च वर्तयतीति केशवः । तथा हि निरुक्तिः– कृता हरिवंशेषु रुद्रेण कैलासयात्रायाम् । हिरण्यगर्भः कः प्रोक्त ईशः शङ्कर एव च । सृष्ट्यादिना वर्तयति तौ यतः केशवो भवान्’’ इति वचनाच्चेति । प्रेमयदीपिकायां च– ‘‘को ब्रह्मेति समाख्यात ईशोऽहं सर्वदेहिषु । आवां त्वद(तवा)ङ्गसम्भूतौ ततः केशवनामवान्’’ इति हरिवंशवचनम् । वचनान्तराच्चेयमेव निरुक्तिः स्वीकार्येत्याह ॥ हिरण्यगर्भ इति । अत इति लभ्यते तेनैवशब्दस्यान्वयः । हिरण्यगर्भ एव न त्वन्यः । प्रजापतिरीशः शङ्कर एव न त्वन्यः समर्थ इति वा । अनेन केशयोः कर्मणोरुप-पदयोरन्तर्णीतण्यर्थाद्वृतु वर्तन इत्यस्माद्धातोर्डोऽन्यत्रापि दृश्यत इति डप्रत्यय इत्युक्तं भवतीत्युक्तम् ।
यद्वा कश्च ई च रमा चेशः शङ्करश्च । ‘‘नैकांशसममाहात्म्याः श्रीशेषब्रह्मशङ्कराः’’ इति गीताभाष्यादिस्थानान्तरोक्तेश्चेतरत्समम् । ‘‘सूर्यस्तपतो लोकानग्नेः सोमस्य चाप्युत । अंशवो यत्प्रकाशन्ते ममैते केशसंज्ञिताः । सर्वज्ञाः केशवं तस्मान्मामाहुः’’ इति मोक्षधर्मोक्ता निरुक्तिरपि ज्ञेया । एतन्नाम्ना न फलं ‘‘स्वपत्न््नयामाहितो गर्भः’’ इत्यारभ्य ‘‘स हि दीर्घतमा नाम’’ इति गर्भीकृत्य स चक्षुष्मान्समभवद्गौतमश्च भवत्पुनः’’ इत्यन्तेनोक्तं तत्रात्रानुसन्धेयम् । उदाहृतवाक्यसहिताचार्यवचसि च ईशकोटिनिवेशाभिप्रायेणानुदीरणमर्थविशेषलाभलोभेनैतदादिव्याख्याननिषिद्धमनुमतं नीत्या च सम्मतमाचार्यवर्याणामिति तोषो मनीषिभिरेष्टव्यः ।
अर्थापत्तिसम्पदमुपपादयति । अस्वातन्त्र्यात्तु जीवस्येत्यादिना ॥ जीवस्येत्यकवचनं जातौ । अस्वातन्त्र्येत्यनन्तरं प्रत्ययात् ङसेः पूर्वं दर्शनेत्यध्याहार्यमिति दर्शयति । अथवा पञ्चमीं सप्तमीं कृत्वा पूर्वोदीरितसरण्याऽध्याहृते दर्शनपदे स्वातन्त्र्यदर्शन इति पदसम्पत्तिः सम्पादनीया प्रमाणभाष्य इति दर्शयतीति वदन्निति मन्तव्यम् । अस्वातन्त्र्यपदस्यैवास्वातन्त्र्यदर्शनपदे लक्षणा वा । जीवप्रवृत्त्यानु-कूल्याद् वासनामयपदार्थग्रहणादिप्रवृत्त्यनुकूलतन्निमित्तादसौ विभुर्व्यापी समर्थो वा । विप्रसंभ्यो ड्वसंज्ञायामिति डुः । कश्चिन्नियामकोऽन्यो विद्यत इति ज्ञायत इति योजना । केचित्तु जीवप्रवृत्त्य-नाकूल्यादिति पठित्वाऽऽनुकूल्यम् आनुकूल्यं तन्न विद्यते यस्मिन्हरिसंस्थान इति व्याचक्षते । हरिवंश-कोशेष्विव बहुतात्पर्यकोशेष्वप्यदर्शनान्न पाठः सरलार्थोऽपि न मूलाविरलः । स्वसंस्थयेत्यस्य स्वस्थित्येति व्याख्यानं सख्यं भजते स्थित्यदनाभ्यां चेति सूत्रेणेत्योमर्हम् ।
ननु ‘‘संस्कारैर्भगवानेव सृष्ट्वा नानाविधं जगत् । स्वप्नकाले दर्शयति’’ इत्यनुव्याख्याव्याख्यान-सुधायां श्रीमट्टीकाकारचरणैर्जीवायेति शेषः । दर्शनसाधनं च मन एवेति वक्ष्यति । मनश्च केचन जडमेवेति मन्यन्ते । अपरे त्वचेतनमेवारोपितचैतन्यं तन्निरासेन स्वरूपं कथयति ॥ चिदचिन्मिश्रमे-वेति ॥ ‘‘चिदचिन्मिश्रमेवैतन्मनो यावच्च संसृतिः । तेनावस्था इमाः सर्वा जीवः पश्यतीति व्याख्यानावसरे च केवलमचेतनस्य घटादिवदेवंभावासम्भवाच्चैतन्यारोपस्य निराकृतत्वाच्चिदचिन्मिश्रमे-वाङ्गीकार्यम् । भवन्ति चात्रागमाः । यदि मनसः सर्वावस्थाप्राप्तिस्तदा तस्य मोक्षेऽपि भावादवस्थाः स्युरित्यत उक्तं यावत्संसृतिस्तावज्जीवस्योपकारापकारौ करोतीति । कार्त्स्न्येनानभिव्यक्तस्वरूपत्वादिति व्याख्याति ॥ मनोविकारा इति । यद्यस्मात्स्वाप्नविषया मनोजन्यवासनाविकारा न केवलं स्वाप्नं किन्तु सांसारिकीः सर्वा अप्यवस्थास्तेनैव मनसैव पश्यति । अतः प्रधानत्वात्तद्द्वारक एव सम्बन्ध आदरणीयो नापर इत्यादिना सव्यापारस्य मनसः सत्त्वाभिधानादत्र स्वप्नसुषुप्त्यादौ मनस उपरमादिति तात्पर्ये यदोपरामो मनसः स्वप्नसुप्तिलयादिष्विति हरिवंशे च । मूले यदोपरामो मनस इत्युपरमः कथं मनसः कथित इति चेन्न । तदानीं जनितपदार्थसार्थस्य बाह्यार्थवत्स्थौल्यस्य स्वपरसाधारणतत्कालान्तर-दर्शनविमर्शनादिहेतुभूतस्याभावान्मनसस्तद्व्यापारस्योपरमसमीरणमिति समाधानाभिधानसम्भवात् । यथोक्तं तत्रैव । अत एव बाह्यार्थवत्स्थूला न भवति । तेषां क्वचित्स्पष्टता नास्ति । अतः स्वाप्नविषया मनोविकारा इति योजनेत्यादि ।
ननु बाह्यव्यापाराणामपि यथायथं बहुलमुपलम्भो हि तत्र तत्र मानसिद्धोऽस्तीति चेन्न । तत्रैव तदप्याशङ्क्य समाहितम् । तथा हि– ननु स्वाप्नकामिनीसम्भोगादेश्चरमधातुविसर्गादिबाह्यार्थ-क्रियाकारित्वदर्शनाद्भागासिद्धिरित्यत आह ॥ क्वचिदिति । ते स्वाप्ना विषयाः क्वचित्स्पष्टा अपि स्युरेव । तथाऽपि तदतिरिक्तपक्षीकरणाददोष इति भावः । ननु तर्हि तदंशस्य वासनामयत्वं न स्यादित्यत आह ॥ वासनेति । सा च मानसी वासना सिद्धा । अस्पष्टत्वाभावेऽप्यस्थूलत्वस्य सत्त्वादिति भाव इत्यादिना । ततश्च सर्वत्रोपरामशब्देन मनसो व्यापारोदीरणं तद्विकारवासनामय-पदार्थस्य सार्थस्य विस्पष्टस्थूलभावाभावाभिप्रायेणेति सम्भवात् । सन्ध्ये सृष्टिराह हीत्यादिचतुःसूत्र्याऽतः प्रबोधोऽस्मान्मुग्धेऽर्धसम्पत्तिः परिशेषादिति सूत्राभ्यां चेति सूत्रैर्न स्वप्नोऽपि तं विनेत्यारभ्य यत एवं त्रयोऽवस्था मोहस्तु परिशेषतः । अर्धप्राप्तिरिति ज्ञेयो दुःखमात्रप्रतिस्मृतेरित्यन्तभाष्येण च मनस उपरमतरतमभावोक्तिभाव आविष्कृतोऽनेनैव कृत आसीदिति सर्वैककण्ठ््यं सैतद्विचारणौत्कण्ठ््यै-र्विमत्सरैर्विभावनीयमित्यलम् ।
ततश्चेयं श्लोकव्याकृतिः ॥ यदा यस्मान्मनसो नामरूपरूपस्य नामात्मकरूपात्मकप्रपञ्चस्य दृष्टिस्मृतिसम्प्रमोषात्तद्विषयानुभवस्मरणापहारात्तद्विषय एतन्मनीषास्मरणचोरणकर्ता कश्चित्प्रसिद्धश्चोरो नारायणनामापि वर्तत एतत्कर्मानुसृत्येति द्योत्यते स्तेयाभिधेयकमुषधातुनिष्पन्नप्रोपसृष्टमोषपदेनेति ज्ञेयम् । सुप्त्यादौ केवलया ममेदानीं मां व्यापारयित्रा केनचिद्भवितव्यमिति जीवेच्छाऽभिश्रया स्वसंस्थया स्वेच्छया स्वस्थित्या वा । उभयपक्षेऽपि समा । तयोः स्वरूपभूतयोरप्रमोषो विशेषेण धर्मधर्मिव्यवहृतिश्च सम्भवत इति सूचयति । यो दृष्टिस्मृतिसम्प्रमोषादनुभूतस्मृतपदार्थावगत्यनवगत्युपगमापगमकोऽस्तीह कश्चिदिति हीयतेऽर्थापत्त्या तस्मै हंसाय शुद्धाय सूर्यसंस्थाय प्रलये सर्वप्रलयकर्त्रे वा । तथोक्तं बृहद्भाष्ये । ‘‘स एव सूर्यसंस्थत्वाद्धंसनामा’’ ‘‘हन्तृत्वाद्धंसनामाऽसौ’’ इत्यादिना । जीवश्वासनियामकत्वेन प्रातर्योगो महानयमित्याद्युक्तेस्तन्मन्त्रवेद्यायेति वा । न यस्य सख्यमिति श्लोकेऽर्थतः प्रतीकत्वेन धृतायां द्वासुपर्णेति श्रुतौ वृक्षपक्ष्यादित्वेन देहहरिजीवानामुत्प्रेक्षणाद्धंसायेत्युक्तिर्वा । ‘‘सुपर्णः पक्षिमात्रे स्याद्वैनतेये च’’ इति वचनाद्धंस इव हंसस्तस्मै । अत एव ‘‘द्विखगो ह्यादिवृक्षः’’ इत्यादिस्कन्धान्त-रोक्तय एतदनुकूला इति ज्ञेयम् । शरीरसमीरान्तरचर इति वा हंसः । ‘‘हंसः शरीरमरुदन्तरे हंसो विहगभेदे च’’ इति विश्वौ । हिनस्ति लये सर्वमिति हंसः । हिसि हिंसायामिति धातुव्याख्यानात् । भवेद्वर्णागमाद्धंस इत्यादेः पृषोदरादिरियम् । शुचयः शुद्धयोगिनो वा वायुर्वाऽग्निर्वा सद्म निवासस्थानं यस्य तस्मै । शुचिषदित्यादिश्रुतेः । प्रलयेऽप्यलीनस्थलाय वा अग्निः शुचिरित्यादेः । शुचिः शुद्धेऽ-नुपहते हुतवह इति विश्वः । शुचिसद्मन इति पाङ्क्तः पाठः । क्वचिच्छुतिषद्मन इति पाठः । आर्षं षत्वम् । तस्मै नमोऽस्त्वित्यन्वयः ॥ २६ ॥
चट्टी
ननु भगवतो दोषित्वेनानुभवसिद्धजीवाभिन्नत्वात् पूर्वोक्तमहिमा नोपपद्यत इत्याशङ्क्य तस्य जीवभेदेऽर्थापत्तिं तावत्प्रमाणयति ॥ यदेति । भगवान् यदा यस्मिन्काले नामरूपरूपस्य नामरूपात्मकप्रपञ्चप्रत्यायकस्य मनसः । केवलया सुप्त्यादिजीवेच्छानधीनत्वेन जीवेच्छाविश्लिष्टया स्वसंस्थया स्वेच्छालक्षणमहिम्ना उपरामो व्यापारोपरमो भवति । तदा तत्कार्याद् दृष्टिस्मृतिसंप्रमोषात् । दृष्टिरनुभवः । स्मृतिः स्मरणं तयोः संप्रमोषो विलयो यस्मिन्स तथा । तस्मात्सुप्त्यादेः प्रबुद्धेन पुरुषेण केवलया स्वसंस्थया जीवव्यतिरिक्ततया विद्यमानत्वेनेयते ज्ञायते तस्मै हंसाय । नित्यनिर्दोषसाररूपाय । शुचिसद्मने शुचिर्वायुः सद्म मुख्याधिष्ठानं यस्य । ‘‘नित्यहीनोऽखिलैर्दोषैः साररूपो यतो हरिः । हंस इत्युच्यते तस्माद्वायुस्थः शुचिसद्मन’’ इति वचनात् । तस्मै नम इत्यन्वयः । जीवस्य सुप्त्याद्यवस्थासु ज्ञानकरणस्य मनस उपरतत्वेन जीवव्यतिरिक्ततयाऽवस्थाकारणभगवत्ज्ञानाभावेऽपि प्रबोधानन्तरं तदन्यथाऽनुपपत्त्याऽवस्थाप्रबोधादिकारणत्वेन भगवान् ज्ञायत इति भावः ॥ २६ ॥
मनीषिणोऽन्तर्हृदि सन्निवेशितं स्वशक्तिभिर्नवभिश्च त्रिवृद्भिः ।
वह्निं यथा दारुणि पाञ्चदश्यं मनीषया निष्कृषन्तीह गूढम् ॥ २७ ॥
तात्पर्यम्
इच्छादिरूपेण त्रिवृद्भिः । ‘इच्छादित्वेन त्रिविधा विमलाद्यास्तु शक्तयः । विष्णोः स्वरूपभूता यास्ताभ्यस्तन्नामिकाः पराः । जायन्ते तत्प्रसादेव१ ताश्च पीठे प्रपूजयेत् । तद्भिन्नजीवास्तस्यैव प्रसादात्तत्समीपगाः’ इति तन्त्रनिर्णये । ‘दशेन्द्रियाणि च मनो बुद्धिप्राणप्रधानकाः । चतुर्दशैषां परमः पाञ्चदश्यो हरिः स्मृतः । बुद्धेर्भेदेन वैतेषु पाञ्चदश्योऽथ संस्थितेः’ इति च ॥ २७ ॥
पदरत्नावली
विद्वत्प्रत्यक्षानुगृहीतत्वाच्च लिङ्गं बलिष्ठमित्याशयेनाह– मनीषिण इति ॥ मनोनियमनसमर्था मनीषिणः । मनीषयाऽन्तर्हृदि सन्निवेशितं भगवन्तं निष्कृषन्ति निष्कृष्य जानन्ती-त्यन्वयः । कथमिव ? अग्निविदो दारुणि गूढं वह्निं निर्मथ्य जानन्ति यथा तथा । जीवराशि-शरीरेऽन्तर्हितमिति शेषः । त्रिवृद्धिर् इच्छाज्ञानक्रियेत्यादिनवत्वसंख्याविशिष्टाभिः स्वरूपभूताभिः शक्तिभिर्लक्षितमिति शेषः । दशेन्द्रियमनोबुद्धिप्राणप्रधानाख्यानि चतुर्दशतत्त्वानि । तेभ्य उत्तमत्वेन पञ्चदशाश्रयत्वात् पाञ्चदश्यम् । मनोबुद्ध्यहङ्कारचित्तचेतनाभेदेन तत्प्रेरकतया स्थितत्वाद् वा । तदुक्तम्– ‘इच्छादित्वेन त्रिविधा विमलाद्यास्तु शक्तयः’ इति । चशब्दात् तद्भिन्नास्तज्जाताश्चान्याः सन्तीति ग्राह्यम् । तदप्युक्तम्– ‘विष्णोः स्वरूपभूता यास्ताभ्यस्तन्नामिकाः पराः । जायन्ते तत्प्रसादेन ताश्च पीठेऽभिपूजयेत् ॥ तद्भिन्नजीवास्तस्यैव प्रसादात् तत्समीपगाः ॥’ इति । अनेन नवभिर् नवद्वाराभि-व्यक्ताभिस् त्रिवृद्भिर् गुणत्रयात्मभिरित्येतन्निरस्तम् । दशेन्द्रियाद्याश्रयत्वेन पाञ्चदश्य इति व्याख्यातम् । तत्र किं मानमितीयमाशङ्का । दशेन्द्रियाणि च मनोबुद्धिप्राणप्रधानकाः । चतुर्दशैषां परमः पाञ्चदश्यो हरिः स्मृतः । बुद्धिभेदेन चैतेषु पाञ्चदश्योऽथ संस्थितः’ इत्यनेन परिहर्तव्या । अनेन पञ्चदशीति-सङ्ख्यातिथौ वर्तमानत्वात् पाञ्चदश्यमित्येतदपव्याख्यानं निरस्तमिति ज्ञातव्यम् ॥ २७ ॥
सत्यधर्म
मनीषिणोऽन्तर्हृदि सन्निवेशितमिति श्लोके त्रिवृद्भिर्नवभिः शक्तिभिरित्यनेन शक्ती-नामुक्तेस्ताः काः शक्तय इत्यतो मूले नवभिरिति वचनेऽपि प्राचि तिसॄणां शक्तीनां सर्वकार्यकारणत्वा-त्पूर्वमुदीरणं युक्तमिति मन्वानः स्वयं स्ववचनेन प्रदर्श्य तत्तदितरविषये मानमेव मानयंस्तदुदाहरति ॥ इच्छादिरूपेणेति । त्रिवृद्भिस्त्रीन्प्रकारान्वृण्वत इति त्रिवृतस्ताभिः । ते च के इत्यतो वक्ति ॥ इच्छादिरूपेणेति । आदिपदेन ज्ञानशक्तिः प्रयत्नशक्तिश्चेति द्वे ग्राह्ये । जानातीच्छति यतत इति स्थिते इच्छाया आदितया ग्रहणम् । तासां च भगवतेव परस्परं चाभेदज्ञापनायेति ज्ञेयम् । यथोक्तं द्वितीय-तात्पर्ये । ‘‘इच्छा ज्ञानं क्रिया चेति नित्याः शक्तय ईशितुः । स्वरूपभूता अपि तु भिन्नव-द्व्यवहारिकाः’’ ॥ इति प्रकाशसंहितायामिति । बृहद्भाष्ये च– ‘‘प्रत्येकं तु गुणांस्तांस्तु सदा सर्वगुणात्मकान्’’ इत्यादिना । गीताभाष्ये च– ‘‘तानि तानि च सर्वाण्यन्योन्यस्वरूपाणि’’ इत्यादिना । द्वितीयतात्पर्ये स्थानान्तरे । ‘‘ज्ञानवीर्यो ज्ञानबलो ज्ञानानन्द उदाहृतः’’ इत्यादिना । ‘‘अमन्दानन्दस्यन्द्यनन्तगुणार्णव’’ इत्यनुव्याख्याननयचन्द्रिकासन्न्यायरत्नावल्योरानन्दस्यन्दिन आनन्द- पूर्णा अनन्तगुणा नित्यानन्दस्यन्दिगुणानन्त्यमित्यादिना चोक्तेः । ननु तर्हि सुधायाममन्दस्यन्दी चासावनन्तगुणश्चासावर्णवश्चेति विग्रहप्रदर्शनात्तद्विरोध इति चेत् । यतोऽष्टगुणत्वेन प्रमेय इत्येत-त्खण्डनमात्रे निभृतनैर्भर्याः । किञ्च समग्ररूपकतानिरूपणे च तस्यैतत्प्रदर्शननिष्पत्तिकत्वादमुं प्रकारं नादर्शयन्बहुसम्मत्याऽनुमतिमन्त एवास्मिन्प्रमेये श्रीमन्तष्टीकाकारा इति न विरोधः ।
विमलाद्यास्तु शक्तयो विमलाद्या इत्याद्यपदेन मानान्तरावगमिता उत्कर्षिणी ज्ञाना क्रिया योगा प्रह्वी सत्या ईशानाऽनुग्रहा ग्राह्याः । ननु मूले नवभिरित्युक्तेस्तत्र सम्मतित्वेनोदाहृते तन्त्रनिर्णयवचने तदवचनं कथमिति चेन्न । मूले त्रिवृद्भिरित्येतद्व्याख्यानरूपं त्रिविधा इति मानिकं पदं विमलाद्य-पदेनाप्यन्वेति । तुश्च विमलोत्कर्षिणी ज्ञाना चेत्येकविधा । क्रियायोगा प्रह्वीत्येका । सत्या ईशानाऽनुग्रहेत्येका चेत्येवं तिस्रो विधा इति भेदसूचकः । ‘‘तु पादपूरणे भेद’’ इति विश्वः । ततश्चैवं त्रिकत्रिकोपस्थितौ नवत्वसङ्ख्यासम्पत्तिर्भवति । ताश्च भिन्नाभिन्नाश्चेति द्विविधाः । यद्यप्यभावप्रतीति-र्भावप्रतीत्यधीना नियमेनेत्युक्तेर्भिन्ना निरूपणीयाः पुरा तथाऽपि तत्कारणत्वादभिन्नाः शक्तीः पूर्वमुक्तीकरोति ॥ विष्णोरिति । याः स्वरूपभूता विमलाद्याः शक्तयो विष्णोः स्वरूपभूतास्ताभ्यः परा भिन्नास्तन्नामिकास्तानि नामानि तासां नामानि वा यासां ता जायन्ते । तत्र हेतुस्तत्प्रसादे-नाधिष्ठानत्वेन पूज्यतार्जकत्वेनेति । ता एतदुत्पादिकाः शक्तीः पीठे पूजयेत् । तद्भिन्नजीवा विमला-द्यधिष्ठितजीवास्तस्यैव प्रसादाद्विमलादिनिलयाः स्थिताश्च मम समीपे भवन्तीत्यङ्गीकरणप्रसादादेव तत्समीपगा विष्णुसमीपगा आधाराधेययोरेकाभिधेयेति ज्ञेयम् । तेन सूचयामास तासामपि यथोचितां च नीयतामिति मन्तव्यम् । वासिष्ठे, ‘‘गृहीतचामरा दिव्या विमलाद्याश्च शक्तयः । छत्रं च चामरं चैव व्यजनं दर्पणं तथा । गीतं नृत्यं च वाद्यं च स्तोत्रमेतत्समर्पणम्’’ ॥ इति च छत्रादीनां नवसु चामराविरोधेन स्वीकारान्न विरोधः ।
तस्मिन्नेव पद्येऽप्रतिपत्तिविप्रतिपत्तिभ्यां पाञ्चदश्यशब्दं मानेनैव विवृणोति ॥ दशेति । इन्द्रियाणि चक्षुरादीनि मनो बुद्धिः प्राणः प्रधानकोऽव्यक्तमेवं चतुर्दश । एषां चतुर्दशसङ्ख्यानां सकाशात्परम उत्तमः पाञ्चदश्यः पञ्चदशसङ्ख्यापूरकः । पूरणार्थे तद्धिता इति बहुवचनज्ञापितःष्यञ् । पक्षान्तरं किञ्चिदंशे शंसति ॥ बुद्धेरिति । वाशब्दोऽथेत्यनन्तरमन्वेति । ततश्चाथवेति सन्पक्षान्तरवाचको भवति । बुद्धेर्भेदेन बुद्धिर्मनोऽहङ्कारश्चित्तं चेतनेत्येवं पञ्चकेन सहितानि दशेन्द्रियाणीत्याहत्य पञ्चदशसङ्ख्येष्वेतेषु स्थितेर्हेतोः पाञ्चदश्यमिति निर्देश्यमिति वेत्यर्थः । भावार्थ एतत्पक्षे तद्धित इति भावः । चेनेदमपि तन्त्रनिर्णयाख्यग्रन्थग्रथितमिति सूचयति । एवमुत्तरत्राप्यनुसन्धेयम् ॥ अथ मूलार्थः ॥ नार्थापत्ते-रन्यथाऽप्युपपत्तिविपत्तिर्विपश्चित्प्रत्यक्षसिद्धत्वादित्याह ॥ मनीषिण इति । मनस्विनो ज्ञानिनो वाऽऽत्मा मनश्चिन्तनं च शेमुषी बुद्धिरेकार्थवाचका धीश्च मनीषा तप इत्यपि बृहद्भाष्योक्तेः । त्रिवृद्भिरिच्छाज्ञान-प्रयत्नात्मभिर्नवभिर्विमलादिभिः स्वशक्तिभिः स्वरूपभूतशक्तिभिः स्वाभिः समीपगत्वेन स्वकीयाभिरे-तदाख्यासङ्ख्याभिस्ताभिस्तासां सामर्थ्यं विनैतद्द्वयं नास्तीत्यपि तन्त्रेणाह ॥ स्वशक्तिभिरिति । न विद्यते शक्तिर्यासां ता अशक्तयः सु अत्यन्तमशक्तयः । सामर्थ्यात्स्वर्थस्य शक्तिपदार्थेऽन्वयः । अनत्यन्तशक्ता इत्यर्थः । न च कथमिदमलौकिकमिति वाच्यम् । एतत्सजातीयविग्रहाणां स्वलक्षणैरिति व्याख्यावसरे सु सम्यक् स्वरूपान्तर्गत्या न लक्षणानीति वाऽर्थोपपत्तेरिति सुधायाम् अभिनिमाननिषङ्गेति ऋग्भाष्यटीकादौ दर्शनात् । तथा हि– नितराममितत्वेन नितरां यः सङ्गहीनो निषङ्गः । यद्यपि नीतिमानपदेन समस्तं तथाऽपि सामर्थ्येन नञर्थे सम्बध्यते । नेर्नञा सम्बन्ध इत्याद्यभिधानात् । परास्तन्नामिकास्तद्भिन्ना जीवा इत्यादिमानपदानामनेवंविवरण उन्मूलत्वमुन्मिषेत्तच्च निस्तोषदमिति मन्तव्यम् । हृद्यन्तस्तत्रापि पदद्वयमिति नानुपपत्तिः । सह सन्निवेशितम् । णिच् । सन्निभ्यां भक्तभक्तिपारवश्यं परमात्मनः सूच्यते । वृद्धो यूनेति निर्देशात्सहेति लभ्यत इत्युक्तेस्सहेति लभ्यते । गूढं प्रसादं विना प्रकाशं पाञ्चदश्यं चक्षुरादिचतुर्दशव्यतिरिक्तं पञ्चदशसङ्ख्यापूरकम् । अथवा दशेन्द्रियाणि बुद्ध्यादिपञ्चकं चेति पञ्चदशसु भवमिति । मनीषया मनसा प्रज्ञया वा निष्कृषन्ति सर्वविलक्षणतया निष्कृष्य जानन्ति । निदर्शनमनुरूपं निरूपयति ॥ वह्निं यथेति । इह दारुणि काष्ठे गूढं गूहितमप्रत्यक्षमाशुशुक्षणिं मनीषया तत्कालोचितमन्त्रादिविषयिण्या निष्कृषन्ति मथनादिना प्रत्यक्षं कृत्वा जानन्ति तथेत्यर्थः । इहान्तर्गूढं हृद्येव निष्कृषन्तीति वा योजना ॥ २७ ॥
चट्टी
भगवतो जीवभेदे सर्वसाधारणमर्थापत्तिमुक्त्वेदानीं विद्वत्प्रत्यक्षं प्रमाणयति ॥ मनीषिण इति । इह जीवराशौ मनीषिणो मनसेषिणो धीराः । विद्वांस इति यावत् । पृषोदरादित्वात्साधुः । अन्तर्हृदि हृत्कमलमध्ये । त्रिवृद्भिरिच्छाज्ञानक्रियारूपेण त्रिधा वर्तमानाभिः । विमलोत्कर्षण्यादिभेदेन नवभिः स्वाभिः स्वरूपभूताभिः शक्तिभिः शकनाच्छक्तिसंज्ञाभिर्मूर्तिभिस्तथा स्वशक्तिभिस्तन्नामसङ्ख्या-विशिष्टजीवाख्यस्वाधीनकशक्तिभिश्च सह सन्निवेशितम् । तथाऽपि ॥ गूढम् अयोग्यैरनुपलभ्यमानम् ॥ पाञ्चदश्यं दशेन्द्रियमनोबुद्धिप्राणप्रधानाख्यानां चतुर्दशतत्त्वानां नियामकत्वेन स्थितं यं भगवन्तं मनीषया स्वप्रतिभया ॥ निष्कृषन्ति जीवादिभ्यो विविच्य जानन्ति । स मम प्रसीदतामित्युत्तरेणान्वयः । तत्र दृष्टान्तः । अग्निचितो यथा दारुण्यरण्यादौ गूढं वन्हिं मथनाद्युपायेन ततो निष्कृष्य प्रत्यक्षीकुर्वन्ति तथेत्यर्थः । अयमर्थ इच्छादित्वेन त्रिविधा इत्यादि तात्पर्योदाहृतप्रमाणप्रसिद्धः ॥ २७ ॥
स वै ममाशेषविशेषमायानिषेधनिर्वाणसुखानुभूतिः ।
स सर्वनामा स च विश्वरूपः प्रसीदतामनिरुक्तात्मशक्तिः ॥ २८ ॥
तात्पर्यम्
‘इयत्ता तु विशेषः स्यादानन्दादौ तदुज्झितेः । सर्वैर्विशेषै रहित उच्यते हरिरव्ययः । अप्राकृतस्वरूपत्वान्निर्मायश्चेति कथ्यत’ इति च । ‘तद्रूपसदृशं रूपं यतः सर्वस्य सर्वदा । सर्वरूपो यतः शब्दमुख्यार्थः सर्वनामकः’ इति च ॥ २८ ॥
पदरत्नावली
यो मनीषिभिर् निर्मथ्य ज्ञातः स हरिर् मम प्रसीदतामित्यन्वयः । किमन्येभ्यो विशिष्य अस्य प्रसादः प्रार्थ्यते, ‘प्रजापते न त्वदेतान्यन्यः’ इत्यादिश्रुतेरन्येषामप्यतिशयितमाहात्म्य-प्रतीतेरित्याशङ्क्य ‘एष ह्येष शतानन्दः’ इत्यादिश्रुतेर् इतरेषामानन्दादेरियत्ताविशिष्टत्वात्, ‘एतस्या-नन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति,’ ‘न ते विष्णो जायमानः’ इत्यादिश्रुतेः, अस्यापरिच्छिन्ना-नन्दानुभवरूपत्वादित्याह– अशेषेति ॥ अशेषो विशेष इयत्ताख्य अशेषविशेषः । स च माया प्रकृतिश्च । ते अशेषविशेषमाये तयोर्निषेधो यस्य तत् तथा । तच्च निर्वाणमशरीरभोग्यं च यत् सुखं तस्य अशेषविशेषमायानिषेधनिर्वाणसुखस्यानुभूतिर् एतादृशानन्दोऽयमिति स तथा । अपरिमिताप्राकृतशरीरा-भोग्यानन्दानुभवरूप इत्यर्थः । ‘इयत्ता तु विशेषः स्याद् आनन्दादौ तदुज्ज्ञितेः । सर्वैर्विशेषै रहित उच्यते हरिरव्ययः । अप्राकृतस्वरूपत्वन्निर्मायश्चेति कथ्यते ॥’ इति । अतोऽयमेवार्थ इति ज्ञायते । प्रजापत्यादिशब्दमुख्यार्थोऽप्ययमेवेति भावेनाह– स सर्वनामेति ॥ अनेन उपन्यस्ता श्रुतिः सावकाशेति ज्ञातव्यम् । ‘यो देवानाम्’ इति श्रुतेश्च । नीरूपस्य सर्वनामत्वं कथमित्यत उक्तम्– स चेति ॥ विश्वानि रूपाणि यस्य स तथा, विश्वस्य रूपमिव रूपं यस्येति अत्र विश्वरूपसदृशो विश्वरूप इति अन्यथा योज्यम् । ननु प्रतीतार्थं परित्यज्य अप्रसिद्धार्थकल्पने किं कारणमित्यतश् चशब्दसूचितायाः ‘तद्रूपसदृशं रूपं यतः सर्वस्य सर्वदा । सर्वरूपो यतः शब्दमुख्यार्थः सर्वनामकः ॥’ इति स्मृतेः समाख्यानं कारणम् । स स इति तच्छब्दद्वयेन तत्तच्छ्रुत्युक्तसर्वनामत्वसर्वरूपत्वे परामृशति । नन्वदृष्टत्वादेकस्य सर्वनामत्वादि कथं युज्यते ? न च श्रौतत्वाद् युक्तिमत् श्रुतीनाम् अनन्तत्वेनैकत्रान्ययोक्तिसंभवादिति तत्राह– अनिरुक्तेति ॥ ‘विचित्रशक्तिः पुरुष पुराणः’ इति श्रुतेः, गतिसामान्यादितिसूत्रेण श्रुती-नामेकविषयत्वेन ज्ञानोत्पादनधर्मत्वस्य निर्णीतत्वात् । ननु हरेः सर्वनामत्वे ‘‘अवचनेनैव प्रोवाच’’ इत्यादिश्रुतेः का गतिरित्यतो वाह– अनिरुक्तेति ॥ सर्वात्मनेति शेषः । ‘अनिर्वाच्या स्वकीया ज्ञानशक्तिः’ इत्येतत् श्रुतेर्गुणाविर्भावलक्षणाया दोषाविष्कारोक्त्यसंभवेनासङ्गतं स्याद् इति । ‘अलौकि-कत्वान्नो विष्णुरनिरुक्तो निरूपितः । तथापि वेदेषूक्तत्वादुक्तो रूपी स एव च ॥’ इति वाक्य-विरुद्धत्वाच्चोक्त एवार्थः ॥ २८ ॥
सत्यधर्म
स वै ममाशेषविशेषेति श्लोके भगवतो निर्गुणतैवोच्यत इत्यन्यथाप्रतीतिप्रतिषेधाय प्रमाणेनैव विवक्षितमर्थं दर्शयति ॥ इयत्ता त्विति । इयतो भाव इयत्ता । अनेन मूलस्थविशेषपदाभिधेय-मभिधत्ते । सुखानुभूतिपदमन्योपलक्षकमित्यादिपदेन बोध्यते । अन्यथा सुखानुभूत्योरित्यवक्ष्यत् । तेनैव सुखानुभूतिपदं सुखविषयकानुभवपरत्वेनापि विवरीतुं योग्यमिति सूचयति । आनन्दादौ गुणजाते तदुज्झितेस्तस्या इयत्ताया हानाद्धेतोरव्ययो हरिः सर्वैर्विशेषै रहित इत्युच्यते न तु निर्विशेषत्वेनेत्यर्थः । मायेति स्फुटं मायिकत्वं प्रतीयते तत्कथमपलप्यत इति चेत्तत्राह ॥ अप्राकृतस्वरूपत्वादिति । निर्मायेति कथ्यत इत्यन्वयः । विश्वरूपो जगदात्मक इति प्रतीतिं वारयति ॥ तद्रूपसदृशमिति । सर्वस्य सर्वदा ‘‘रूपं रूपं प्रतिरूपो बभूव,’’ ‘‘नित्योपाध्या स्वरूपया चिद्रूपया युतो जीवः केशवप्रतिबिम्बकः’’ । ‘‘आभास एव च’’ इत्यादेः । सदृशं विप्लुडानन्दादित्वेन किञ्चिदिति सर्वरूप इत्युच्यत इति सम्बन्धः । सर्वनामेत्यत्र सर्वम् इति नाम यस्येति भ्रमं भ्रंशयति ॥ यत इति । शब्दमुख्यार्थः परममुख्यार्थोऽतः सर्वनामक इत्युच्यत इत्यन्वयः ।
अतश्चायं मूलार्थः । समनीषिभिर्मनीषया विषयीकृतोऽशेषोऽशेषगुणगतो विशेष इयत्ता च माया प्रकृतिश्च विशेषाश्च माया चेति वा तयोश्च तासां वा निषेधेनाभावेन राहित्येनेति यावत् । निर्वाणे भिन्नशरीराभोग्ये लक्षणया सुखं चानुभूतिश्च तादृशी यस्य स निर्वाणमशरीरम् । ‘‘कायो बाणं शरीरं च’’ इत्यभिधानादिति गीताभाष्ये । अभावाज्जडदेहस्य विष्णुर्निर्वाण उच्यते । भिन्नदेहाभावतो वा । स सहस्रशिरा अपीति गीतातात्पर्ये च । एतद्बाणमवष्टभ्येति षट्प्रश्नोपनिषदि चोक्तेः । सुखानुभवो यस्येति वा । सु शोभनानीन्द्रियाणि खान्यप्राकृतान्यनुभूतिश्च । ‘‘स्वित्यानन्दः समुद्दिष्ट’’ इत्यादिबृह-द्भाष्योक्तेः । सु आनन्दः खानि चानुभूतिश्च यस्येति वा । नासाधारणं नारायणगमकं किञ्चिदित्यतो वाऽऽह ॥ सुखानुभूतिरिति । सुखादनु हीना भूतिर्महालक्ष्मीर्यस्य स सुखानुभूतिः । अनु सह भूत्वा वर्तत इत्यनुभूतिरिति वा । अस्मिन्पक्षे निर्वाणसुखश्चासौ अनुभूतिश्चेति विग्रहः । ‘‘अनु हीने सहार्थे च’’ इति विश्वः । साऽपि न लक्ष्म्यैकलेत्यालपति ॥ अनुभूतिरिति । अनुसृता या भुवो भूरूपिण्या अप्यूतिः सम्बन्धो यस्य स इति वा । अनु मुमुक्षुमोक्षमपेक्ष्यैव भूतिः प्रादुर्भावो यस्येति वा । अनुभु प्रत्यवतारम् ऊतिरभिप्रेतार्थसिद्धिर्येनेति वा । ‘‘आश्रये मोक्षेऽनु’’ इति विश्वः । ‘‘ऊतयेऽभिप्रेतार्थ-सिद्धय’’ इति ऋग्भाष्योक्तेः । ऊतिजूतीति निपातितोऽयं शब्दः । सर्वनामा परममुख्यया वृत्त्या । विश्वरूपः स्वप्रतिबिम्बकप्रपञ्चः । अनिरुक्ता साकल्येन वक्तुमशक्या आत्मा स्वरूपं स्वशक्तयश्च स्वरूपशक्तिर्वा यस्य स इति वा । मम प्रसीदतामिति सम्बन्धः । मद्विषये स्वेच्छामेनमुद्धरिष्यामीति करोत्विति वा । अनुग्रहसहितः स्यादिति वाऽर्थः । प्रसादो नामेच्छाविशेषो गुणान्तरं वा न नः काचित् क्षतिरिति सुधाभिधानात् । ‘‘प्रसादोऽनुग्रहः’’ इति विश्वः । वैशब्द एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति । न ते विष्णो विचित्रशक्तिः पुरुषः पुराणः । अदृश्येऽनात्म्येऽनिरुक्ते न तदीदृगिति ज्ञेयम् । सर्वनामा । ‘‘यो देवानां नामधाः’’ । ‘‘नामानि सर्वाणि यमाविशन्ति’’ इत्यादिप्रसिद्धि-द्योतकः । अनुभूतिर् अनुभु तद्भवनमनु ऊतिः सन्तानविशेषो यस्मात्स इति वा । तदभिलषितानुकूल्य-मेवमर्थापने ज्ञेयम् । अत्रानुपपत्त्युपपत्ती नन्वसौ तन्तुसन्ताने पठ्यत इत्यादि सुधातोऽनुसन्धेयम् ॥२८॥
चट्टी
नन्वन्तर्हृदि सन्निवेशितमित्युक्तं तर्हि दुर्भगशरीरप्रविष्टस्य जीवदुःखादिदोषलेपः स्यादि-त्यत आह ॥ अशेषेति । अशेषेषु गुणेषु विशेष इयत्ता लक्षणपरिच्छेदो माया प्रकृतिस्तयोर्निषिद्धो यस्य स चासौ निर्वाणसुखानुभूतिश्च निर्वाणं नित्यं यत्सुखं तस्यानुभूतिः पूर्णगुणोऽप्राकृतो नित्य-सुखानुभवरूपश्चेत्यर्थः । पूर्णगुणत्वं कथमित्यत । आह ॥ सर्वनामेति । सर्वाणि नामानि मुख्यतो वाचकत्वेन यस्य स तथा । सर्वनाम्नां प्रवृत्तिनिमित्तस्य भगवति मुख्यत्वात्पूर्णत्वं युज्यत इति भावः । ब्रह्मादीन्विहाय भगवानेव कुतः प्रसाद्यत इत्यतो ब्रह्मादिजगतो भगवत्प्रतिबिम्बत्वेन बिम्बस्यैव प्रधानत्वादित्याह ॥ सर्वरूप इति । सर्वं जगद्रूपं प्रतिबिम्बं यस्य सस् तथा । दुर्भगशरीरप्रविष्टस्यापि दोषलेशो नास्तीत्युक्तम् । तत्कुत इत्यतः पूर्णशक्तित्वादित्याह ॥ अनिरुक्तेति । अनिरुक्ता वेदैः साकल्येनानिरूपिता स्वरूपभूता शक्तिर्यस्य स तथा । एतादृशः स भगवान् प्रसीदतामित्यन्वयः । अयमर्थ इयत्ता तु विशेषः स्यादानन्दादावित्यादिप्रमाणादवगन्तव्यः ॥ २८ ॥
यद्यन्निरुक्तं वचसा निरूपितं धियाऽक्षिभिर्वा१ मनसा वोत यस्य ।
मा भूत् स्वरूपं गुणरूपबृंहितं स वै गुणापायनिसर्गलक्षणः ॥ २९ ॥
तात्पर्यम्
अलौकिकत्वान्नो विष्णुर्निरुक्तोऽतो निरूपितः । तथापि वेदेषूक्तत्वादुक्तो रूपी स एव चे’ति व्योमसंहितायाम्२ ॥ २९ ॥
पदरत्नावली
स च विश्वरूप इति विश्वरूपोक्तिं विशदयति– यद् यदिति ॥ वचसा घटत इति निरुक्तं धियाऽक्षभिर्मनसा निरूपितं यद् यत् तत् तद् अस्य हरेः स्वरूपं मा भून् न भवति । कुतः ? सत्वादिगुणसमूहेन वर्धितत्वात् । तर्हि स कीदृश इति तत्राह– स वा इति ॥ सत्त्वादिगुणानामपायः राहित्यमेव निसर्गलक्षणं स्वाभाविकलक्षणं यस्य स तथा । वा इत्यनेन ‘केवलो निर्गुणश्च’ इति श्रुतिं प्रमाणयति । अनेन जगद्रूपं त्रिगुणात्मक, भगवद्रूपमप्राकृतमिति निरणायि । मा भूदित्यनेन जगत् साक्षाद् भगवद्रूपं न जानीहीत्यर्थोऽपि सूचि इति ज्ञातव्यम् ॥ २९ ॥
सत्यधर्म
यद्यन्निरुक्तमितिश्लोके यद्यद्वच आद्यनिरुक्तं तत्तद्धरे रूपं निरुक्तं निरूपितं च मा भूदिति सर्वथाऽनिरुक्तमनिरूपितमिति भ्रममूलकमूलपीडां विलोडयति ॥ अलौकिकत्वादिति । विष्णु-रलौकिकत्वाल्लोकविलक्षणत्वान्नो निरुक्तो निरूपितश्च तथाऽपि वेदेषु तदादिषूक्तत्वादेव । चशब्द उक्तसमुच्चायकः सन्ननुक्तं च समुच्चिनोति । आनन्दादिभिरप्यनिरुक्तो निरुक्तश्चालौकिकत्वात् । ‘‘आनन्दो नेदृश आनन्दः’’ इत्यादेः । ‘‘वेदा ह्येवैनं वेदयन्ति’’ । ‘‘वेदे रामायणे’’ । ‘‘सर्वे वेदाः’’ । ‘‘शास्त्रयोनित्वात्’’ । ईक्षतेर्नाशब्दम् इत्यादिषूक्तो निरूपितश्च । उच्यत इति शेषो वोक्त इत्यावृत्तिर्वा ।
ततश्चेयं श्लोकव्याकृतिः ॥ अनिरुक्तात्मशक्तिरित्युक्तिः पङ्कस्तम्भनिभेत्यतो भाषते ॥ यद्यदिति । यस्य हरेर्यद्यत्स्वरूपं तत्तत् । वीप्सया कस्यचिद्वीप्सामवतारेषु व्यत्यासविषयिणीं पराकरोति । सर्वं च भगवद्रूपं वचसा निरुक्तं धिया मत्याऽक्षिभिरक्षैरिन्द्रियैरुत मनसा चेति निरूपितं मा भूत् । मा भूदिति पदे । तेन माङि लुङित्युक्तेर्लर्ङ्थकता । अक्षिभिरिति मनसोऽपि सौमनस्येन ग्रहणसम्भवे पुनर्मनसे-त्युक्तिः सर्वमूलत्वेन वा सर्वोपरमे कदाचित्तद्व्यापृतेरनावृत्तेर्वेति मन्तव्यम् । धियेति वृत्तिविशेषविवक्षयेति ज्ञेयम् । धीर्भीरित्याद्युक्तेः । न भवति तर्हि निरुपाख्यं किमित्यत आख्याति ॥ गुणरूपबृंहितमिति । गुणैर्ज्ञानानन्दादिभि रूपैर्निरूप्याकारैश्च बृंहितं पूर्णं च । गुणशब्देन न सत्त्वादिप्रतिग्रह इत्याह ॥ स वा इति । गुणापायनिसर्गलक्षणो गुणानां सत्त्वादीनामपायो वर्जनं स एव निसर्गः स्वाभाविकं लक्षणं जगद्विलक्षणताहेतुर्यस्य । अथवा गुणापायेनैव निसर्गः प्रादुर्भावादिः स एव लक्षणं यस्येति सः । वैशब्दस्त्रिगुणातीतमक्षरम् । न तस्य प्राकृता मूर्तिः । अरूपो भूतवर्जनात् । आनन्दमात्रकरः । सद्देह इत्यादिप्रसिद्धिं द्योतयति । गुणरूपबृंहितं गुणादीन्सत्त्वादीन् रूपयति प्रतिष्ठितान् करोतीति गुणरूपं गुणा रूपमाकारो यस्येति वा तत्प्रधानं तद्बृंहितं विश्वं यस्य स्वरूपं मा भून्न भवति । कुत इत्यत आह ॥ स वा इति । विरुद्धधर्माधिकरणत्वान्नानयोरभेद इति भावः ॥ २९ ॥
चट्टी
स च विश्वरूप इति ब्रह्मजगतोर्बिम्बप्रतिबिम्बभावोक्त्या सूचितं भेदं स्पष्टमाह ॥ यद्यदिति । वचसा । वचसा घट इत्यादिरूपेण निरुक्तं प्रतिपादितं यच्च धियाऽक्षिभिरक्षैर्मनसा च निरूपितं ज्ञातं तत्सर्वं यस्य हरेः स्वरूपं मा भूत् । न भवत्येव तस्य लोकप्रमाणाविषयत्वादिति भावः । वै इत्यनेनालौकिकत्वान्नो विष्णुर्निरुक्तोऽतो निरूपितः । तथापि वेदेषूक्तत्वादुक्तो रूपी स एव चेति स्मृतिसिद्धं दर्शयति । लौकिकत्वालौकिकत्वाभ्यां भेद इति भावः । इतोऽपि भेद इत्याह ॥ गुणेति । गुणरूपबृंहितं सत्त्वादिगुणबद्धम् । स हरिस्तु गुणापायनिसर्गलक्षणः । गुणानां सत्त्वादीनाम् । आपायं राहित्यमेव निसर्गलक्षणं स्वाभाविकलक्षणं यस्य स तथा । विरुद्धधर्माधिकरणयोरेतयोर्भेद इति भावः
॥ २९ ॥
यस्मिन् यतो येन च यस्य यस्मै यं१ यो यथा कुरुते कार्यते वा ।
परावरेषां परमं प्राक् स्वसिद्धं तद् ब्रह्म तद्धेतुरनन्यदेकम् ॥ ३० ॥
तात्पर्यम्
सप्तविभक्त्यर्थस्य कालस्य प्रकारस्य च हेतुर्ब्रह्मैव । ‘विभक्त्यर्थस्य कालस्य प्रकाराणां च कारणम् । एक एव परो विष्णुः सर्वसत्ताप्रदत्वतः’ इति भविष्यत्पर्वणि ॥ ‘अनन्यः सदृशाभावादेको रूपाद्यभेदतः’ इति च ॥ ३० ॥
पदरत्नावली
कालकारणत्वं च ब्रह्मणः स्वरूपलक्षणमित्याह– यस्मिन्निति ॥ यस्मिन्नधि-करणभूते काल इदं वर्तते । यतो यस्मादपादानभूतात् कालादभूत्, येन कारणभूतेन कालेन जायते, यस्य संबन्धभूतस्य कालस्याधीनमिदं, यस्मै संप्रदानभूतस्य कालाय कल्पते, यं कर्मभूतं कालं प्रतीक्षते, यः कर्तृभूतः कालः प्रेरयति, यथा येन प्रकारेण पुरुषः कर्म कुरुते स्वयं चापरेण कार्यते तत् तस्य सप्तविभक्त्यर्थस्य कालस्य प्रकाराणां प्रेरकस्य च यत् परावरेषां ब्रह्मादीनां सकाशात् प्राक् पूर्वं स्वसिद्धं कार्यकारणात्मकप्रपञ्चव्यतिरिक्तत्वेन स्वत एव सिद्धम् । अत एव परममत्युत्तमम् । अनन्यद् अन्य-सादृश्यरहितम्, एकम् अवतारादिरूपाभिन्नं तद् ब्रह्म हेतुः कारणमित्यन्वयः । तत्तत्कालस्य सदातन-सत्ताप्रदत्वमस्वैव नान्यस्येति द्योतनाय सप्तविभक्त्यर्थत्वेन कालो विशेषितः । अन्यथा कालस्य कारणं ब्रह्मेति कृतं स्यादिति । तदुक्तं– ‘सर्वसत्ताप्रदत्वतः’ इति । तत्तत्कालीनसर्ववस्तुसत्ताप्रदत्वाद् वा । कुतस्तत्कल्पनमिति चेत् । ‘विभक्त्यर्थस्य कालस्य प्रकाराणां च कारणम् । एक एव परो विष्णुः’ इति स्मृतेर् अयमेवार्थो न तु ‘यस्मिन्नित्यादिना क्रियमाणकारकफलरूपेण ब्रह्मैवावस्थितम्’ इति । ‘अनन्यः सदृशाभावादेको रूपाद्यभेदतः’ इति वचनादनन्यदेकशब्दयोरुक्त एवार्थः ॥ ३० ॥
सत्यधर्म
यस्मिन्यतो येन चेति श्लोके सप्तम्यादिसप्तविभक्त्यन्तपदानामधिकरणादिकारक-वाचकत्वभ्रान्तिमिव भ्रान्तिं यथाशब्दो दृष्टान्तार्थ इति च विघटयन्सान्वयं स्वयं व्याकृत्य मानमाह ॥ सप्तेति । मूले यस्मिन्निति सप्तमीपुरस्कृतिर्यथा कथञ्चिद्बह्वर्था सप्तमीति तात्पर्ये च इदानीं सर्वासामविशेष ऐकनिष्ठ्यादिति भावेनैवमुक्तिरिति भावः । सप्तविभक्त्यर्थस्य सप्त च ता विभक्तयश्च तासामर्थोऽधि-करणत्वादिस्तस्य कालस्येति सामानाधिकरण्यम् । प्रकारस्येत्येकवचनं जातौ । हेतुरेव ब्रह्मेति वा ब्रह्मैव हेतुरिति वाऽन्वयः । मूलस्थयथापदार्थाः प्रकारा इति ज्ञेयम् । एक एवेत्यत्रैवकारः सर्वसत्ताप्रदत्वत एवेत्यन्वेति । तस्मादेवैक इत्युच्यते । ‘‘यदधीना यस्य सत्ता तत्तदित्येव भण्यते । सर्वं समाप्नोषि ततोऽसि सर्वः’’ इत्यादेरेव न द्वितीयाभावत इत्यर्थः । एकपदमेकधा मानेन व्याख्याय व्याख्याता-नन्यत्पदेन सह प्रकारान्तरेण स्थानान्तरस्थेन भविष्यत्पर्ववचनेन व्याख्याति ॥ अनन्य इति । सदृशो ह्यन्यपदार्थः । न स विद्यते येन सो रूपाद्यभेदतो रूपाणि मत्स्यादीनि । आदिपदेन गुणकर्मादिसङ्ग्रहः । तदभेदतो हेतोरेक इत्यर्थः ॥ ततश्चायं मूलार्थः कारणत्वेन लोकव्याहरणविषयाणां कालादीनां कारणं नारायण एवेत्याह ॥ यस्मिन्निति । यस्मिन्काले इदं वर्तते । सर्वत्रापि तत्तद्विभक्त्यन्ततया कालपदमन्वेतव्यम् । यत यस्मा उपादानाद्यात्मकाद्येन करणाद्यात्मना यस्य यत्सम्बन्धि यस्मै यं कर्म यः कर्ता यथा यैः प्रकारैर्जीवः कुरुतेऽपरेण स्वयं कार्यते वा । परावरेषां परैः सहिताश्च तेऽवराश्च तेषां तरतमभावेन परेषामवरेषामिति यावत् । ब्रह्मादीनां सकाशात्प्राक् स्वसिद्धं स्वात्मनैव लब्धस्वरूपम् । तत्र तन्त्रं परममिति । परममुत्तमं बहुज्ञानं बहुसम्पदमनन्यन्निःसदृशमेकमवतारगुणकर्मभेदरहितं तस्योक्तरूपस्य कालस्य हेतुः कारणं तद्ब्रह्म प्रसीदतामिति पूर्वश्लोकादनुवृत्तमन्वेतव्यम् । यस्मि-न्नित्यादिनाऽधिकरणादिसप्तविभक्त्यर्था उक्ताः । यथेति प्रकारः । कार्यते कुरुते वेति कालः । एतेषां तद्ब्रह्मेति ब्रह्माभेद उच्यत इति भाति । ततस्तथोक्तेरभिप्रायमाहेति तात्पर्यमवतारयन्ति केचित् ॥३०॥
चट्टी
ब्रह्मणो जगत्कारणत्वेनापि तस्माद्भेद इत्याह ॥ यस्मिन्निति । यस्मिन्नधिकरणे यतोऽपादानात् । येन करणेन यस्य सम्बन्धि । यस्मै संप्रदानाय । यः कर्ता कुरुते । यदीप्सिततमं यः कर्ता कुरुते स्वतन्त्रः कार्यते वाऽन्वयेन प्रयोज्यकर्ता तेषां सर्वेषां ब्रह्म हेतुरिति । प्रत्येकं सम्बन्धः । प्रातिपदिकार्थकर्मत्वकर्तृत्वकरणत्वसम्प्रदानत्वापादानत्वस्वस्वामिभावाद्याधाराधेयभावादि-रूपस्येत्यादिसप्तविभक्त्यर्थस्य कुरुत इत्यादितिङर्थभूतस्य भूतभविष्यद्वर्तमानकालस्य सुप्तिङ्ङर्थेषु एकत्व-द्वित्वबहुत्वरूपाणां, यथेत्युक्तप्रकाराणां च ब्रह्मैव कारणमिति भावः । ननु चतुर्मुखादीनां सृष्ट्यादौ कुलालादीनां च घटादौ कर्तृत्वदर्शनात्कथं ब्रह्मैव सर्वकारणमित्युच्यत इत्याशङ्क्य तदपि भगवदधीनमेव तस्यैव स्वतन्त्रत्वादित्याह ॥ परावरेषां परममिति । ननु न ब्रह्मणो जगत्कारणत्वमुपपद्यते । ब्रह्मव्यतिरेकेणान्यस्य सृज्यस्याभावात् । एकमेवाद्वितीयं ब्रह्मेति श्रुतेरित्यत आह ॥ अनन्यदिति । न विद्यतेऽन्यत्सदृशं यस्येति तथा । श्रुतिस्तु सदृशद्वितीयपरेति भावः । ननु नरसिंहादीनां संहारकारणत्वदर्शनाद् ब्रह्मैव सर्वहेतुरित्ययुक्तमित्यत आह ॥ एकमिति । सर्वावताराभिन्न इत्यर्थः । सर्वकारणत्वोपयोगिपूर्वभावित्वमाह ॥ प्रागनादितोऽपि स्वत एव सिद्धमिति । तस्मै नम इत्युत्तरे-णान्वयः । अयमर्थः सप्तविभक्त्यर्थस्य कालस्येत्यादिप्रमाणादवगन्तव्यः ॥ ३० ॥
यच्छक्तयो वदतां वादिनां वै विवादसंवादभुवो भवन्ति ।
कुर्वन्ति तेषां मुहुरात्ममोहं तस्मै नमोऽनन्तगुणाय भूम्ने ॥ ३१ ॥
पदरत्नावली
अनिरुक्तात्मशक्तिरित्येतद् विवृणोति– यच्छक्तय इति ॥ विवादसंवादभुवः विप्रतिपत्तिसम्प्रतिपत्त्योर् भुवः विषयाः । वदतां वादं कुर्वताम् । वादिनां मतमज्ञाननिमित्तमित्याह– कुर्वन्तीति ॥ ३१ ॥
सत्यधर्म
शक्तिस्वरूपं व्यक्तीकरोति ॥ यच्छक्तय इति । यस्य हरेः शक्तयः ‘‘पराऽस्य शक्तिर्विविधैव श्रूयते’’ इति श्रुतिश्रुता वदतां वादिनां विवादसंवादभुवो विप्रतिपत्तिसम्प्रतिपत्तिभूमयो विषया इति यावद्भवन्ति । न केवलमेतावदेवेत्याह ॥ कुर्वन्तीति । तेषामात्मविषये मोहमनिर्धारणकारणं वैचित्र्यं मुहुः पुनः कुर्वन्ति तस्मै तच्छक्तियुक्ताय । भूम्ने पूर्णगुणाय । अनन्तगुणायानन्तानां मुक्तानां गुणा येनेति तस्मा अनन्तगुणायापरिच्छिन्नगुणाय । भूम्ने व्याप्ताय वा । यद्वाऽनन्तगुणाय भूम्न इति विशिष्टं पदम् । अनन्तगुण आकाशगुणः शब्दः । ‘‘अनन्तं सुरवर्त्म खम्’’ इत्यमरः । तेनाय्यन्तेऽवगम्यन्ते तेऽनन्तगुणायाः श्रीब्रह्मादयस्तेषु तेषां वा भूमा ज्यायांस्तस्मै नमः । अनन्तगुणायो यः शब्दवेद्यो भूमा महत्त्वं स यस्य तस्मै । नैकांशसममाहात्म्याः श्रीशेषब्रह्मशङ्करा इति गीताभाष्योक्तेः । यच्छक्तय एव वादिनां वदतां वाग्मिताम् । द्वितीयैकवचनम् । कुर्वन्ति वदो वादावदो वाग्मीत्यमरः । ता एवात्ममोहमपि कुर्वन्तीति वाऽन्वयः । अनेन वादिनामित्येवालं कृतं वदतामिति निरस्तम् । अथवा प्रथमपक्षे वादिनामित्युक्ते तदुपलक्षितत्वशङ्कया यदा कदाचिद्वादितामात्रेण वादिनामित्युक्तिरिति भायात्तदापदमपनुत्त्यै वदतामिति तस्य वर्तमानकालवर्तमानतामभिपै्रतीति च ज्ञेयम् । न चैवं चेत्तदतिरिच्यत इत्युच्यत इति चेन्न । इदानीमेवाभ्यस्य शुकतोकवत्किञ्चिद्वक्तीति प्रतीयेत तदपायोपायं वादिनामित्यत्रत्येन इनिप्रत्ययेन भूमार्थकेन प्रत्याययामास । तादृशा अपि तूष्णीका इति वदतामिति वदताऽसूचीति सर्वं चतुरस्रम् ॥ ३१ ॥
चट्टी
अनिरुक्तात्मशक्तिरित्येतद्विवृणोति । यच्छक्तय इति । वदताम् ब्रह्म निर्गुणं सगुणं वेति विवदतां वादो विवादः संप्रोक्त इति वचनात् । वादिनां यच्छक्तयो यस्य हरेः शक्त्यादिगुणा विवाद-संवादभुवो विप्रतिपत्तिसंप्रतिपत्तिस्थानानि । तद्विषया इति यावत् । भवन्ति । केचिद्भगवतो गुणा-न्नाङ्गीकुर्वन्तीत्यर्थः । उभयेऽपि तत्र मुह्यन्तीत्याह ॥ कुर्वन्तीति । तेषामुभयेषामपि यच्छक्तय आत्ममोहं स्वविषयकाज्ञानं कुर्वन्ति जनयन्ति । उभयेऽपि न जानत इति यावत् । तत्र हेतुमाह ॥ अनन्तगुणायेति । योग्या गुणानामानन्त्यात् साकल्येन न जानन्ति । अयोग्यास्तु सर्वथा न जानन्तीति भावः । भूम्ने सर्वोत्तमाय ॥ ३१ ॥
अस्तीति नास्तीति च वस्तुनिष्ठयोरेकस्थयोर्भिन्नविरुद्धधर्मयोः ।
अपेक्षितं किञ्चन सांख्ययोगयोः समं परं ह्यनुकूलं बृहत् तत् ॥ ३२ ॥
तात्पर्यम्
‘मदन्यो नास्ति सर्वेश इति विद्ध्यासुरं मतम् । अस्तीति दैवमुभयोर्हरिरेव व्यपेक्षितः१ । निषेधविध्योर्विषयः फलदाता च केशवः । तादृग्बुद्धेः कारणं च स्थान-योश्चोच्चनीचयोः’ इति च ॥ ३२ ॥
पदरत्नावली
विवादसंवादौ च कथङ्कारं स्यातामिति तत्राह– अस्तीति ॥ यद् भिन्नयो-र्विरुद्धयोर्धर्मयोरपेक्षितं विषयः । किमाकारयोः ? मदन्य ईश्वरोऽस्ति नास्तीति वादिभिः प्रतिपाद्य-मानयोः । भिन्नत्वविरुद्धत्वे कथम् ? अत्राह– वस्त्विति ॥ भिन्नवस्तुनिष्ठत्वादेकस्मिन् वस्तुनि स्थितयोरित्यङ्गीकारे विरुद्धयोः । यद्यप्येकस्य स्वरूपेण सत्त्वं पररूपेणासत्त्वम् इति द्वौ धर्मौ स्तः । तथापि नैतादृशी एते सत्त्वासत्त्वे (किन्तु) स्वरूपस्यैवेति यत इति द्योतनायेतिपदद्वयम् । यच्च किञ्चनालौकिकं यच्च सांख्ययोगयोः समं कर्मानुष्ठानलक्षणयोगप्रतिपादककर्मकाण्डे तत्फलदातृत्वेन प्रतिपाद्यं, सांख्ये च तथार्थज्ञानसाधने वेदान्ते विचारितं, यच्चानुकूलं सर्वेषां प्रियतमं तत्तद्वादिनां तत्तद्बुद्धिजनकत्वेन तत्तदनुरूपफलदातृत्वेन वर्तमानं वा, तत् परं बृहत् परंब्रह्म प्रपद्य इति वाक्यशेषः । सर्वदा वर्तमानं न कदाप्यन्यथाभूतम् इत्यतो बृहदिति । अस्तिस्वपक्ष एव श्रेयान् । न त्वितरः, तस्य दुष्टत्वादिति विशदीकरणाय सांख्ययोगयोरिति विशेषणम् । ‘सर्वे वेदा यत्पदमामनन्ति’ इति श्रुतिं हिशब्देन सूचयति । अस्ति द्वैतं वस्त्विति निष्ठा सांख्ययोगयोः, नास्ति तद् द्वैतं वस्त्वद्वैतमेवेति निष्ठाऽऽसुरीत्यतो वा हीति । तदुक्तम्– ‘मदन्यो नास्ति सर्वेश इति विद्ध्यासुरं मतम् । अस्तीति दैवमुभयोर्हरिरेव ह्यपेक्षितः ॥ निषेधविध्योर्विषयः फलदाता च केशवः । तादृग्बुद्धेः कारणं च स्थानयोश्चोच्चनीचयोः ॥’ इति ॥ ३२ ॥
सत्यधर्म
अस्तीति नास्तीति श्लोके तत्परं ब्रह्मास्तीति नास्तीति भिन्नविरुद्धधर्मयोर्भिन्नौ विरुद्धधर्मौ सत्त्वासत्त्वे तयोरपेक्षितं तद्विषयकापेक्षावदित्यन्यथाव्याख्यां प्रत्याख्यन् मानमेवाह ॥ मदन्य इति । उभयोः पूर्वदेवदेवयोस्तत्सम्बन्धिनो निषेधविध्योर्व्यपेक्षितो विषयः । व्यपाश्रय इत्यत्र यथा खण्डं व्यपेतं तथेति । हरिरेव तं विषयीकृत्येदं मतद्वयं प्रावर्ततेत्यर्थः । मूलेऽस्तीति नास्तीति क्रमः प्रमाणभाष्ये तु तद्विपरीतक्रमश्च किं कृतस्तथैव निषेधविध्योरित्यत्र घ्यन्ताल्पाच्कत्वनिमित्तयोः सतोर्विधिपदं न प्राक् प्रायुङ्क्त किं स क्रमोऽप्युच्चनीचयोरित्यत्र च्युतश्चेन्मैवम् । मूले तथैवोच्चनीचयोरित्यत्र च विध्युच्चयो-रादितः सङ्कीर्तनं स्वरूपकृतमाहात्म्यं ततोऽन्यत्र बाहुल्यमाहात्म्यतोऽसुरा बहुला यस्मात् । कनीयसा देवा ज्यायसा असुराः । अतस्त्वितरज्ज्यायो लिङ्गाच्चेत्यादेः । प्रतिषेधस्य पुरोऽभिधानसम्भवात् । मदन्यो मद्भिन्नः सर्वेशो नास्त्यहमेव सर्वेश्वर इति यन्मतं तदासुरं दैत्यसम्बन्धि । तस्येदमित्यण् । एवं दैवं विद्धि जानीहि । अस्ति मदन्य ईश्वर इति दैवं मतं विद्धीत्यावर्तितमन्वेति । उभयोर्मतयोर्हरिरेव व्यपेक्षितो विषयः । कुतो यतस्तयोः फलदातृतादृग्बुद्धेश्च कारणं तच्चोच्चनीचयोः सुखदुःखप्रापकयोः स्थानयोः कारणमिति वा । फलदातेत्यत्र न दातेत्यनेन वा पूर्वोदीरितरीत्याऽन्वयः ।
अथ मूलार्थः ॥ विवादसंवादभुवो भवन्तीत्युक्तं तौ च किमाकारावित्यतस्तमाह । अस्तीति नास्तीति ॥ भिन्नविरुद्धधर्मयोर्विरुद्धौ च तौ धर्मौ च विरुद्धधर्मौ भिन्नौ विरुद्धधर्मौ ययोस्तौ तथोक्तौ तयोः । अधर्मोत्तरपदकत्वात्त्रिपदबहुव्रीहौ वा । ओवलपूर्वपदत्वान्नानिच् । भिन्नेत्येवोक्ते पञ्च पाण्डवा इत्येकः परश्च दशार्धसङ्ख्यास्त इति वदेच्चेत्तत्रार्थतः साम्येऽपि भङ्गीभेदवदिति स्यात्तदर्थं विरुद्धेति । तावत्येवोक्ते हरावणुत्वमहत्त्ववत्समानाधिकृतावित्यपि भायादतो भिन्नेत्यपि धर्मविशेषणमिति ज्ञेयम् । अपेक्षितं विषयीभूतं तदाकारस्तु मदन्य ईश्वरोऽस्तीति स नास्त्यहमेवेश्वर इति दर्शयतोर्मतयोरिति वेदितव्यः । ते एव कथमित्यतः कथयति ॥ वस्तुनिष्ठयोरिति । विभिन्नवस्तुनिष्ठयोः । ननु घटादेः स्वात्मना सत्त्वमन्यात्मनाऽसत्त्वमितिवत्किं प्रकृते सत्त्वासत्त्वे एते इत्येतदपाकरोति । एकस्थयोरिति ॥ वस्तुपदेन निस्स्वरूपतानिरासः । वस्तुनिष्ठयोरित्यत्र द्विबहुवचनान्तविग्रहो नेति दर्शयितुमेकेत्यादि । साङ्ख्ययोगयोः शुद्धात्मतत्त्वविज्ञानजनको वेदान्तभागः साङ्ख्यः योगः कर्मकाण्डस्तयोः समम् । अविशेषेण नारायणपरा वेदा इत्यादेः प्रतिपाद्यम् ।
साङ्ख्यस्य वक्ता कपिलोऽयं सन्कपिलोऽन्यो जगाद हेत्युक्तः कपिलोऽसंस्तत्साङ्ख्यमपि ज्ञेय-मसदिति ज्ञेयम् । साङ्ख्ययोगाविति गीताविवरणरूपे भाष्ये शुद्धात्मतत्त्वविज्ञानमित्यारभ्योपायश्च वक्ष्यत इत्यन्तेनोक्तौ साङ्ख्ययोगौ वा ग्राह्यौ । साङ्ख्यस्य शुद्धात्मतत्त्वविज्ञानस्य योगस्य चोपायस्येति तयोः समपेक्षितमेकं ब्रह्मैव विषय इत्यर्थः । अपेक्षितं न रक्षकं पालकरहितं वा । यथोक्तं न्यायदीपिकायां ‘‘आपो वा इदमग्र आसीत्’’ इति व्याकृतिसमये स्याग्रे समन्तादपः पालकरहितो भगवान् आसीदिति पक्षद्वये देवर्षिपितृपेत्यत्रेवात्रापि न्यायदीपिकायां– पातीति पः । आतोऽनुपसर्गे क इत्यत्र योगविभागाद्वा मूलविभुजादित्वाद्वा कः । अन्येभ्योऽपि दृश्यत इति डो वा । ‘‘पः पातरि समीरेऽर्के’’ पः पुमान्यवने पातरि’’ इति पैकविश्वैकाक्षरनिघण्टू । स्वयमेव सर्वरक्षकमितीक्षितमिति मतद्वन्द्वरहस्यं वेदितव्यमिति विषयादिपदमनिधायैवं बोधयामासेति सरसमानसैर्देया दयादृष्टिः । अनुकूलं स्वस्वकर्मानुरोधेन फल-वितरणे हिस्तात्पर्योदाहृतमानख्यातिख्यापकः परं किञ्चन नास्तीत्यासुरं सौरं च बृहद्ब्रह्मास्तीति चैतद्विषयं पूर्णं प्रपद्य इत्यन्वयः ॥ ३२ ॥
चट्टी
विवादसंवादविषयत्वमेवोपपादयति ॥ अस्तीति । यद्भिन्नयोर्विरुद्धयोर्धर्मयोरपेक्षितं विषयः । किमाकारयोर्मदन्य इश्वरोऽस्ति नास्तीति वादिभिः प्रतिपाद्यमानयोर्भिन्नत्वविरुद्धत्वे कथमत्राह ॥ वस्त्विति । भिन्नवस्तुनिष्ठत्वादेकस्मिन्स्थितयोरित्यङ्गीकारे विरुद्धयोः । यद्यप्येकस्य स्वरूपेण सत्वं पररूपेणासत्वमिति द्वौ धर्मौ स्तः । तथाऽपि नैव दृश्येते सत्वासत्वे किन्तु स्वरूपस्यैवेति द्योतनाय वस्तुनिष्ठयोरेकस्थयोरिति पदद्वयम् । यच्च किञ्चन । अलौकिकं यच्च सांख्ययोगयोः समम् । एकवाक्यतया प्रतिपाद्यम् । यच्चानुकूलम् । उभयविधज्ञानानुसारेण फलदं तत्परं बृहत् परं ब्रह्म । प्रसीदतामित्युक्त-स्यानुषङ्गः । जीवभिन्न ईश्वरोऽस्तीति पक्ष एव श्रेयान् सांख्यादिशास्त्रेषु तथा प्रतिपादितत्वादित्यभिप्रेत्य साङ्ख्ययोगयोः सममित्युक्तम् । हिशब्देन तु मदन्यो नास्ति सर्वेश इत्यादि प्रमाणप्रसिद्धिं दर्शयति । दैवमतमेव मतं सदैव संसेवनीयं श्रेयःसाधनत्वात् ॥ ३२ ॥
योऽनुग्रहार्थं भजतां पादमूलमनामरूपो भगवाननन्तः ।
नामानि रूपाणि च जन्मकर्मभिर्भेजे स मह्यं परमः प्रसीदताम् ॥ ३३ ॥
तात्पर्यम्
‘तत्कर्मणामदृष्टत्वादनामा चाप्यदर्शनात् । अरूपस्त्ववतारेण रूपकर्माणि दर्शयेत् । नित्यरूपो नित्यकर्माऽप्यव्यक्तत्वमपेक्ष्य तु । अरूपकर्मेत्युदितो रूपकर्मोज्झितेर्न तु’ इति प्रकाशसंहितायाम् । ‘अनामा सोऽधिकार्थत्वादव्यक्तत्वादरूपकः । कंसारित्वादिसाम्यार्थो व्यक्त रूपोऽवतारग’ इति च । ‘लोकदृष्ट्याधिकार्थानि मूलनामानि केशवे । अथ दामोदरादीनि लोकदृष्ट्या समानि तु । आनन्दोऽव्यक्तरूपस्तु मूलरूपमुदाहृतम् । स एव व्यक्तिमापन्नः प्रादुर्भाव उदीरितः’ इति च ॥ ३३ ॥
पदरत्नावली
इतोऽपि मदन्य ईश्वरोऽस्तीति पक्ष एव श्रेयानित्यभिप्रेत्याह– योऽनुग्रहार्थमिति ॥ योऽनन्तो भगवान् पादमूलं भजतामनुग्रहार्थं जन्मकर्मभिर्नामानि रूपाणि च भेजे स परमो मह्यं प्रसीदतामित्यन्वयः । अलौकिकत्वेन तं विशिनष्ठि– अनामरूप इति ॥ देवदत्तकर्मवदीशकर्मणाम-प्रत्यक्षत्वाद् विष्णुमित्ररूपवदीशरूपाणामदर्शनादनामरूपः । न तु स्वरूपकर्मोज्झितत्वात् । ‘यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं’ ‘अथैनमाहुः सत्यकर्मेति’ ‘सर्वकर्मा सर्वनामा सर्वरूपः’ इत्यादिश्रुतेः । अवतारैर्नामरूपकर्मणां दर्शनाच्च । तदुक्तं ‘तत्कर्मणामदृष्टत्वादनामा चाप्यदर्शनात् । अरूपस्त्ववतारेण रूपकर्माणि दर्शयन् । नित्यरूपो नित्यकर्माऽप्यव्यक्तत्वमवेक्ष्य तत् । अरूपकर्मेत्युदितो रूपकर्मोज्झितेर्न तु ॥’ इति । किञ्च भगवद्व्यतिरिक्तपुरुषानुपपन्नार्थवाचि नाम यस्य सोऽनामा । यथा ‘मुक्तानां परमा गतिः’, ‘कमलाकान्तः’ इति । कंसादिनिग्रहादवाप्तकंसारि-र्मुरारिरित्यादिवाच्यार्थसमत्वात् सनामा । मूलरूपस्यात्यन्तमव्यक्तत्वादरूपः । (तदुक्तम्)– ‘अनामा सोऽधिकार्थत्वादव्यक्तत्वादरूपकः । कंसारित्वादिसाम्यार्थो व्यक्तरूपोऽवतारगः ॥’ इति । ‘लोक-दृष्ट्याऽधिकार्थानि मूलनामानि केशवे । अथ दामोदरादीनि लोकदृष्ट्या समानि तु । आनन्दोऽ-व्यक्तरूपस्तु मूलरूपमुदाहृतम् । स एव व्यक्तिमापन्नः प्रादुर्भाव उदाहृतः ॥’ इति । अनेन उक्तस्मृत्यर्थोऽपि स्पष्टीकृत इति ज्ञातव्यम् ॥ ३३ ॥
सत्यधर्म
योऽनुग्रहार्थमिति श्लोकेऽनामरूपो नामरूपाणि भजत इत्याद्युक्तेरनित्यता नामरूपाणां व्यक्तमुक्ता भाति । तच्च निष्टङ्कमनिष्टमित्यतस्तद्भावमाविष्करोति ॥ तत्कर्मणामिति । कंसहिंसक इत्याद्यर्थभूतकंसहिंसनादिकर्मणां तत्तत्र पूर्णमद इत्यादिवेदवेदितमूलरूपे अदृष्टत्वाल्लोकैरिति शेषः । कृष्णादिरूपाणामदर्शनात्तत्रैव तदैव तैरेव । अतो नामा च रूपश्चावतारेण कृष्णादिना दर्शयेत् । तत्स्वभावमावेदयति ॥ नित्यरूप इत्यादिना । तर्हि किं कृतमदर्शनमित्यतो दर्शयति ॥ अव्यक्तत्व-मपेक्ष्य त्विति । इत्येवारूपकर्मेत्युदितो न तु रूपकर्मोज्ज्ञितेस्तद्धानात् । प्रकारान्तरेणापि प्रमाणेन स्थानान्तरस्थेनाह ॥ अनामेति । इदं ध्वनयामास मध्वमुनिर्मध्ये मानं प्रकाशसंहितायामिति नाम-ग्रहणेनैवेति चेति ग्रहणेन नैतयोर्भागान्तरस्थत्वं मन्तव्यमिति । अधिकार्थत्वादर्थपौष्कल्येनानल्पतया निर्वक्तुमयोग्यत्वादनामा । अव्यक्तत्वात्सूक्ष्मसूक्ष्मत्वादरूपकः । अवतारगः कृष्णाद्यवतारं गतः कंसारित्वादिसामर्थ्यसहित इति व्यक्तनामरूपश्च । अरिपदं यद्यपि रिपुमात्राभिधायि तथाऽप्यरिर्वधादि-कर्तेति गीताभाष्योक्तेररिर्हिंसकः ।
सर्वेषां नाम्नामधिकार्थत्वं चेन्न तद्वेदनं सर्ववेदितृसाधारणमिति केषाञ्चिदेव तत्राधिकार इति स्यादित्यतोऽधिकार्थत्वं स्वाभाविकं सदप्येतदुपाधिना नानाविधं प्रतीयत इति मानेनैवाह ॥ लोक-दृष्ट्येति । यानि केशवे मूलनामानि नारायणादीनि लोकदृष्ट्याऽधिकार्थानि । भागवत्या दृष्ट्या तु समानीति भावः । यानि दामोदरादीनि नामानि लोकदृष्ट्या समान्यन्वर्थानि । आनन्दस्तदात्मको मूलकारोऽव्यक्तरूप एवोदाहृतः । स एव मूलरूपी पद्मनाभादिर्व्यक्तिं कृष्णाद्यात्मनाऽऽपन्नः सन्प्रादुर्भावः प्रादुर्भूत उदीरित इत्यर्थः । यद्वा स्वामिन्दैत्यादिकृताऽऽपन् नोऽस्माकमित्युदीरितः । प्रादुर्भावे तदर्थं ब्रह्मादिप्रार्थित इति यावत्स एव व्यक्तिमापन्न इत्यावृत्त्याऽन्वयः ॥ तत इयं मूलार्थ-विवृतिः ॥ य इति । यो भगवाननन्तः परमः स्वपादमूलं भजतां जनानामनुग्रहार्थं तदुपरि कृपां कर्तुमनामरूपोऽधिकानामर्थानां सर्वसाधारण्येनाप्रत्यक्षत्वाद्रूपाणामपि तथात्वादनामरूपो जन्मकर्मभि-र्जन्मभिः कृष्णादिप्रादुर्भावैः कर्मभिः कंसहिंसादिभिर्नामानि रूपाणि च भेजे स मह्यं प्रसीदतु । उक्ता गतिः । सर्वनामा सर्वकर्माऽनामासौ प्रसिद्धत्वादरूपो भूतवर्जनादित्यादेश्च । सर्वथैतद्राहित्यं भगवत इति मतमासुरमतमिति मन्तव्यम् ॥ ३३ ॥
चट्टी
ननु पूर्णकामत्वेनोदासीनस्य प्रार्थने को लाभ इत्यत आह ॥ य इति । योऽनन्तो भगवान् अनामरूपोऽन्यैर्दृष्टप्रवृत्तिनिमित्तान्यल्पानि वा नामान्यैर्दृष्टानि रूपाणि रुग्मवर्णादीनि च न विद्यन्ते यस्य स तथा । मूलरूपेण तादृशोऽपि स्वपादमूलं भजतामनुग्रहार्थं जन्मकर्मभिर्जन्मभिरवताररूपैः रूपाणि भेजे व्यक्तो भवति । कर्मभिरुदरे दामबन्धनादिकर्मभिर्नामानि दामोदरादीनि भेजे लोकानां ज्ञापयति । स परमः प्रसीदतामित्यर्थः । हिशब्देन तत्कर्मणामदृष्टत्वादित्यादिप्रमाणसिद्धतामुक्तार्थस्य दर्शयति ॥३३॥
यः प्राकृतैर्ज्ञानपथैर्जनानां यथाशयं देहगतो विभाति ।
यथाऽनिलः पार्थिवमाश्रितो गुणं स ईश्वरो मे कुरुतान्मनोरथम् ॥ ३४ ॥
तात्पर्यम्
‘स्वदेहस्थं हरिं प्राहुरधमा जीवमेव तु । मध्यमाश्चाप्यनिर्णीतं जीवाद्भिन्नं जनार्दनम् । पूर्णानन्दादिगुणकं सर्वजीवविलक्षणम् । उत्तमास्तु हरिं प्राहुस्तारतम्येन तेषु च । बुद्धिशुद्ध्यनुसारेण यथाप्राणं शरीरगम् । श्वासमात्रं जनाः प्राहुरनिर्णीतं च मध्यमाः । देवदेवेश्वरं सूत्रमानन्दं प्राणवेदिनः’ इति च ॥ ३४ ॥
पदरत्नावली
यथाधिकारं स्वविषयज्ञानस्य तारतम्ययुक्तत्वेन प्रमाणसिद्धत्वान्मदन्यो नास्तीश्वर इति मतमासुरमित्याशयेनाह– यः प्राकृतैरिति ॥ यो भवान् प्राकृतैर् ज्ञानपथैर् जनानां स्वबुद्ध्यनुसृत-सिद्धान्तेन विभाति स ईश्वरो मे मनोरथं कुरुतादित्यन्वयः । क्व स्थित इत्यत उक्तम्– देहेति ॥ अयं भावः– अधमानां जनानां जीवदेहगतो जीवस् तदभिन्न इति प्रतीयते ‘अहं ब्रह्यास्मि’ इति । मध्यमानां जनानां देहगतः संदेहगतो ऽनिर्णीत इति यावत्, जीवस्तदन्यो वा हरिरिति । उत्तमानां जीवानां प्रकर्षेणाप्राकृतेनौत्पत्तिकेन ज्ञानेन देहगतो देहगाज्जीवाद्भिन्न इति शेषः । ईश्वरः पूर्णानन्दादिगुण इति प्रकाशते । तत्रोदाहरणं– यथेति ॥ यथा अनिलो वायुः पार्थिवं पृथिवीकार्यं गुणं सुखदुःखभोगसाधनं शरीरमाश्रितः प्रकतिविकृतैर्ज्ञानसाधनैरिन्द्रियैः प्राकृतानां श्वास इति, मध्यमानां शारीरः प्राण इति, अप्राकृतानामुत्तमानां सर्वदेवोत्तमः सूत्रात्मेति प्रतिभाति तथेति । ‘स्वदेहस्थं हरिं प्राहुरधमा जीवमेव तु । मध्यमाश्चाप्यनिर्णीतं जीवाद् भिन्नं जनार्दनम् ॥ पूर्णानन्दादिगुणकं सर्वजीवविलक्षणम् । उत्तमास्तु हरिं प्राहुस्तारतम्येन तेषु च । बुद्धिशुद्ध्यनुसारेण यथा प्राणं शरीरिणाम् ॥ श्वासमात्रं जनाः प्राहुरनिर्णीतं च मध्यमाः । देवदेवेश्वरं सूत्रमानन्दं प्राणवेदिनः ॥’ इति स्मृतिसमाख्यासिद्धत्वात् त्रैविध्येनार्थकथनं युक्तमिति भावः ॥ ३४ ॥
सत्यधर्म
यः प्राकृतैर्ज्ञानपथैरिति श्लोके तत्तदाशयानुसारतः प्राकृतैर्मनोविकारैर्ज्ञानपथैर्विभाति विषयीकृतो भवतीति भ्रान्तितान्तिं प्रमाणेनैव निराकरोति ॥ स्वदेहस्थमिति ॥ अधमा अधिकारिणः स्वदेहस्थं स्वदेहे सन्तं विचार्यमाणे तन्त्रेण सु ओहे स्थितं तद्बाधाबाधनास्पदं हरिं जीवमेव प्राहुः । व्यवहाररूपकार्यादेव तत्कारणज्ञानं लभ्यत इतीत्थमुक्तिरिति ज्ञेयम् । मध्यमा मिश्रमतिकाः। जनार्दनं न जायतेऽर्दयति संसारमिति जनार्दनः । तथा हि बाभ्रव्यशाखायाम् । सम्भूतः स जनार्दन इति । स ह्यासीत्स नासीत्सोऽर्दयतीति गीताभाष्योक्तेरजं संसारार्दकं च । जीवाद्भिन्नमन्तर्णीतं सन्दिग्धतया प्राहुः । भिन्न इत्येतद्विशेषणे भेदेऽनिर्णीत इत्यन्वेति सामर्थ्यादिति ज्ञेयम् । तथा चानिर्णीतभेदवन्तमाहुरिति पर्यवस्यति । उत्तमास्तु पूर्णानन्दादिगुणकं तत एव सर्वजीवविलक्षणम् । तदपि न सामान्येनेत्याह । तेषु च तारतम्येन हिरण्यगर्भादिस्तम्बपर्यन्तं तारतम्येन तरतमभावस्तारतम्यं तेनेति । बुद्धिशुद्ध्यनुसारेणे-त्युत्तममात्रान्वयि । अन्यथा शुद्धिपदं कुटिलकटाक्षीभूयादिति मन्तव्यम् । तारतम्यस्य बुद्धिशुद्धि-साध्यत्वात्सौलग्न्यं चाधिकम् । अथवा बुद्धिशुद्ध्यनुसारेणेत्यत्र भावे क्तः । बुद्धिः (बुद्धं) एषामस्तीति बुद्धिनो निन्दायामिनिः । अधमा अधमबुद्ध्यनुसारेण । मध्यमाश्च बुद्ध्यनुसारेण मिश्रज्ञानानु-सारेणोत्तमाश्च बुद्धिशुद्ध्यनुसारेणेति धिया विविच्य सर्वत्रान्वयो ज्ञेयः ।
अधिकारित्रयानुरूपं निदर्शनं दर्शयति ॥ यथेति । यथा शरीरगं प्राणं जना अधमाः श्वासमात्रं तदात्मकमेव प्राहुर्मध्यमा अनिर्णीतं श्वासो वा मातरिश्वा वेति प्राहुरुत्तमाश्च देवदेवेश्वरं देवदेवा महादेवादयस्तेषामीश्वरं देवदेवो हि वासुदेवः स ईश्वरो यस्य तं वा सूत्रं तन्नामानमानन्दं तत्प्रदं तद्वन्तं वाऽऽनन्दं यथा भवति तथा प्राणवेदिन उक्तप्रकारेण प्राहुरिति वा तदर्थः ॥ ततश्चायं श्लोकार्थः ॥ मदन्यो नास्तीश्वर इति मतमासुरमिति विवेक्तुमधिकारिणस्तज्ज्ञानं चैतद्रूपमिति निरूपयति । य इति ॥ यो हरिर्भगवान् जनानां त्रिविधानां प्राकृतैर्ज्ञानपथैर्यथाशयं स्वस्वमानसमनुसृत्य । न स दूरेऽस्तीत्याह ॥ देहगत इति । विभाति विषयीभवति । कृतं सुकृतं नास्ति येषां ते ह्यकृताः प्रकर्षेण अकृताः प्राकृताः। सामर्थ्यात्प्रार्थस्य कृतेत्यनेनान्वयः । प्राकृतैरविहितैर्ज्ञानपथैरित्यर्थः । इदमधमादिकार्यधिकारिकम् । प्राकृतैरमहाफलेष्टमात्रपर्यवसायिभिर्मिश्रैः । ‘‘कृतं युगेऽपि पर्याप्ते विहित’’ इति विश्वः । मध्यमानधि-करोतीदम् । प्रकृतेः स्वभावस्येमे तस्येदमित्यण् । प्राकृताः स्वाभाविकास्तैर्ज्ञानपथैर्ज्ञानस्य पन्थानो ज्ञानपथाः । ‘‘ऋक्पूरब्धूः पथामानक्ष’’ इत्यप्रत्ययः । इत्युत्तमाधिकारिज्ञानाभिधानम् । पार्थिवं पृथिवीसम्बन्धिनं गुणमप्रधानं शरीरमाश्रितोऽनिलो वायुर्यथा श्वासमात्रत्वेन मातरिश्वा वा श्वासो वेति देवदेवेश्वरः सूत्रात्मा वेति तथा विभाति । स ईश्वरो मे मनोरथं मनोगतमभिलषितं कुरुतात् ॥ ३४ ॥
चट्टी
यच्छक्तयो विवादसंवादभुव इत्युक्तं स्पष्टयति ॥ य इति । देहगतो यो भगवान् ज्ञानपथैः सदागमैः प्राकृतैर्दुरागमैश्च ज्ञानकरणैर्निमित्तैर्जनानां यथाऽऽशयमनादिवासनावासितान्तःकरणानुसारेण विभाति विविधतया ज्ञानविषयो भवतीत्यर्थः । तत्र दृष्टान्तमाह ॥ यथेति । पार्थिवं भौतिकं गुणं देहमाश्रितोऽनिलः प्राणः । यथा जनानां यथाऽऽशयमन्तःकरणानुसारेण विभाति तथेत्यर्थः ॥ तदुक्तं स्वदेहस्थं हरिं प्राहुरधमा जीवमेव तु । मध्यमाश्चाप्यनिर्णीतं जीवाद्भिन्नं जनार्दनम् । पूर्णानन्दादिगुणकं सर्वजीवविलक्षणम् । उत्तमास्तु हरिं प्राहुस्तारतम्येन तेषु च । बुद्धिशुध्द्यनुसारेण यथाप्राणं शरीरगम् । श्वासमात्रं जनाः प्राहुरनिर्णीतं च मध्यमाः । देवदेवेश्वरं सूत्रमानन्दं प्राणवेदिन इति ॥ ३४ ॥
श्रीशुक उवाच—
इति स्तवैः संस्तुवतः स तस्मिन्नघमर्षणे ।
प्रादुरासीत् कुरुश्रेष्ठ भगवान् भक्तवत्सलः ॥ ३५ ॥
पदरत्नावली
नेयं स्तुतिश् चिह्वाग्रगुडवत् स्तुत्ये चित्तद्रव विकारहेतुरिति भावेनाह– इतीति
॥ ३५ ॥
सत्यधर्म
एतदालोचिता स्तुतिरेतत्कालोचितेत्यफलदित्यालपति ॥ इतीति । स्तवैः स्तुत्यै-र्गुणैस्तद्वत्त्वेन स्तुतिं कुर्वतः स भक्तवत्सलो भगवान्प्रादुरासीदित्यन्वयः ॥ ३५ ॥
चट्टी
संस्तुवतो दक्षस्य स भगवान्प्रत्यक्षोऽभूत् ॥ ३५ ॥
कृतपादः सुपर्णांसे प्रलम्बाष्टमहाभुजः ।
शङ्खचक्रासिचर्मेषुधनुःपाशगदाधरः ॥ ३६ ॥
सत्यधर्म
शङ्खचक्रासिचर्मेषुधनुःपाशगदं तस्याधरः ॥ ३६ ॥
चट्टी
तं वर्णयति ॥ कृतपाद इत्यादिसार्धचतुर्भिः । सुपूर्णस्यांसे स्कन्धे कृतौ पादौ येन स तथा । प्रलम्बा दीर्घा अष्टौ महान्तो भुजा यस्य । चक्राद्यष्टायुधधरः ॥ ३६ ॥
पीतवासा घनश्यामः प्रसन्नवदनेक्षणः ।
वनमालानिवीताङ्गो लसच्छ्रीवत्सकौस्तुभः ॥ ३७ ॥
सत्यधर्म
घनवन्मेघवच्छ्यामो हि घनश्यामो घनश्च महांश्चासौ श्यामः षोडशवार्षिक इत्युक्तेस्तरुणो वा ॥ ३७ ॥
चट्टी
प्रसन्नं वदनमीक्षणे च यस्य । वनमालया निवीतं कण्ठादिपादान्तं व्याप्तमङ्गं यस्य । लसंतौ श्रीवत्सकौस्तुभौ यस्य ॥ ३७ ॥
महाकिरीटकटकस्फुरन्मकरकुण्डलः ।
काञ्च््यङ्गुलीयवलयनूपुराङ्गदभूषितः ॥ ३८ ॥
सत्यधर्म
वलत इति वलय इति नूपुरविशेषणम् । वल संवरणे वलमलितनिभ्यः क्यन् । पारिहार्यः कटकं वलयोऽस्त्रियामित्यमरोक्तेः । कटकस्य पृथगुक्तेर्वलयमत्र पादभूषणम् । कटक-स्योक्तत्वादिति व्याख्यानात् । पदाङ्गदनूपुरोऽस्त्रियामित्यमरं नापश्यदिति तथाऽन्यवाचकस्य विनाऽभि-धानाभिधानं धौर्त्येनैवं वचनमिति च न च मदकृतकृतिनः ॥ ३८ ॥
चट्टी
महान्ति किरीटकटकानि यस्य । स्फुरती मकरकुण्डले यस्य । काञ्च्यादिभिर्विभूषितो । वलयमत्र पादभूषणं द्रष्टव्यम् । कटकस्योक्तत्वात् ॥ ३८ ॥
त्रैलोक्यमोहनं रूपं बिभ्रत् त्रिभुवनेश्वरः ।
वृतो नारदनन्दाद्यैः पार्षदैः सुरयूथपैः ॥ ३९ ॥
सत्यधर्म
नारदश्चोत्तरत्र भगवत्सङ्कल्पितकल्पकत्वेनादावुदितः ॥ ३९ ॥
चट्टी
सुरयूथपैः सुरयूथपालैः ॥ ३९ ॥
स्तूयमानोऽनुगायद्भिः सिद्धगन्धर्वचारणैः ।
रूपं तन्महदाश्चर्यं विलक्ष्यागतसाध्वसः ।
ननाम दण्डवद् भूमौ प्रहृष्टात्मा प्रजापतिः ॥ ४० ॥
पदरत्नावली
नेदं रूपं मायाकल्पितं किन्तु निजमेव अर्थक्रियाकारित्वादित्याशयेनाह– रूपमिति ॥ ४० ॥
सत्यधर्म
महदाश्चर्यमिति समस्तम् । महतामाश्चर्यम् । द्वे पदे वा । दण्डवदित्यनेनाङ्ग-स्मरणाभावो ध्वन्यते ॥ ४० ॥
न किञ्चनोदीरयितुमशकत् तीव्रया मुदा ।
आपूरितमनोद्वारो ह्रदिन्य इव निर्झरैः ॥ ४१ ॥
पदरत्नावली
ह्रदिन्यः ह्रदिनीभावो जलनिर्गमः ॥ ४१ ॥
सत्यधर्म
ह्रदिन्यो नद्यः । तटिनी ह्रदिनी धुनीत्यमरः । ह्रदाः सन्त्यस्यामितीन्यन्तात् ङीबन्तः शब्दः ॥ ४१ ॥
चट्टी
ह्रदिन्यो नद्यो निर्झरैरिव प्रवाहैः । यथाऽऽपूर्यन्ते । एवमेव तीव्रयाऽनर्गलया मुदाऽऽ-पूरितानि मनोद्वाराणीन्द्रियाणि यस्य स तथा । वागिन्द्रियाणां महानन्दपूर्णत्वेनावृत्तिकत्वान्न किञ्चिद्वक्तुं शक्तोऽभूत्तदित्यर्थः । यद्यप्यसौ नावोचत्तथाऽपि चित्तज्ञ इदं वक्ष्यमाणमाह ॥ ४१,४२ ॥
तं तथाऽवनतं भक्तं प्रजाकामं प्रजापतिम् ।
चित्तज्ञः सर्वभूतानामिदमाह जनार्दनः ॥ ४२ ॥
पदरत्नावली
इदमपि निजरूपत्वसाधकमित्याशयेनाह– तं यथेति ॥ ४२ ॥
सत्यधर्म
प्रजाकाममित्यनेन स्त्र्यपत्यप्रयुक्त एवास्यैतावान्संसारो भगवद्दत्तवरस्य तदनुरूपता चेति ध्वन्यते । जनार्दन इत्यनेनैककारिता हरिरूपाणां किन्तु सेवाविशेषवशात्तत्तदाशीःपूरकतेति द्योत्यते । अथवा जनं जननमर्दयत्यागमयतीति । अर्द गतौ याचने चेति धातोः । अन्यथा जनं जननमर्दयतीति व्युत्पत्त्यैतन्नाम्नः प्रजाकामनासमयाननुरूपता स्यादिति तथा न प्रयोक्तव्यं तत्स्यादिति किन्न सन्तोष्टव्यम्
॥ ४२ ॥
श्रीभगवानुवाच—
प्राचेतस महाभाग संसिद्धस्तपसा भवान् ।
यच्छ्रद्धया मत्परया मयि भावं परं गतः ॥ ४३ ॥
प्रीतोऽहं ते प्रजानाथ यत्ते स्याद्बृंहणं तपः ।
ममैष कामो भूतानां यद् भूयासुर्विभूतयः ॥ ४४ ॥
पदरत्नावली
भावं भक्तिम् । बृंहणं प्रजापूरणयोजनम् । कामोऽभिप्रायः ॥ ४३ ॥
सत्यधर्म
भावो हि भक्तिः । ते तव यद्बृंहयति प्रजा इति बृंहणं तप इति सामानाधिकरण्यं तेनाहं ते प्रीत इति प्रकृतकार्यद्वयप्रतीक्षया ते त इति वचः । विभूतयो मत्सन्निधानविशेषपात्राणि । विभूतयो विविधभूतय इति गीताभाष्योक्तेः । भूयासुरिति ममाप्येव कामो वाञ्छितः । अनेन दातृप्रतिग्रहीत्रोर् भर्तुः खट्वायामसम्मतिरसम्मतं च पत्न््नयाः पृथ्वीशयनमिति नीतिवन्न किन्त्वानुरूप्यम् उभयोर् ब्रह्म-ब्रह्मभुवोः सूचयामासेति ज्ञेयम् ॥ ४३,४४ ॥
चट्टी
भावं भक्तिं गतः प्राप्तः । यद्यतस्ते तपो बृंहणं प्रजावृद्धिकरम् । अतस्तेऽहं प्रीतो मत्तपसो लोकसमृध्द्यर्थत्वे त्वत्प्रीतेः किं कारणमत्राह ॥ ममेति । भूतानां विभूतयः समृद्धयो भूयासुरिति यद् एष एव मम कामः । अतो मत्कामपूरणादेवाहं प्रीतोऽस्मीत्यर्थः ॥ ४३, ४४ ॥
ब्रह्मा भवो भवन्तश्च मनवो विबुधेश्वराः ।
विभूतयो मम ह्येता भूतानां भूतिहेतवः ॥ ४५ ॥
तात्पर्यम्
‘विशेषव्यक्तिपात्रत्वाद् ब्रह्माद्यास्तु विभूतयः । तदन्तर्यामिणश्चैव मत्स्याद्या विभवाः स्मृताः’१ इति तन्त्रनिर्णये ॥ ४५ ॥
पदरत्नावली
विभूतयः मम विशेषेण सन्निधानस्थानभूताः । ‘विशेषव्यक्तिपात्रत्वाद् ब्रह्माद्यास्तु विभूतयः । तदन्तर्यामिणश्चैव मत्स्यद्या विभवा इति ॥’ इति वचनात् ॥ ४५ ॥
सत्यधर्म
ब्रह्मा भवो भवन्तश्चेति श्लोके विभूतयः साक्षाद्रूपाणीति भ्रमभ्रंशपूर्वकं तात्पर्यार्थं मानेनानुमानमुनिराह ॥ विशेषेति । तदन्तर्यामिणो ब्रह्माद्यन्तर्यामिणो विभवा इत्युच्यन्त इति विभवविभूतिपदार्थवैलक्षण्यं मानिकं ज्ञेयम् ॥ ततश्चायं मूलार्थः ॥ पूर्वोदीरिताः किमाकारा विभूतय इत्यतस्ता विस्तरेणाह ॥ ब्रह्मेति । भवन्तो भवदाद्याः प्रजेशाः । नव विश्वसृजो युष्मानिति यद्वक्ष्यति । विभूतय इत्यानुगुण्येनैता इत्युक्तिः । भूतानां विशेषसन्निधानपात्रतया विभूतिपदवाच्यानां भूतिहेतवो मत्स्याद्या इत्यपि मानानुसारतो योजनीयम् ॥ ४५ ॥
चट्टी
भूतविस्तारप्रयत्नश्च तवोचित एवेत्याह ॥ ब्रह्मेति । भवन्तः प्रजापतयो मम विभूतयो विशेषाभिव्यक्तिस्थानानि । एता विभूतयो भूतैरुद्भवस्य हेतवः ॥ ४५ ॥
तपो मे हृदयं ब्रह्म तनुर्विद्या क्रियाऽऽकृतिः ।
अङ्गानि क्रतवो जाता धर्म आत्माऽसवः सुराः ॥ ४६ ॥
तात्पर्यम्
‘तपोभिमानी रुद्रस्तु विष्णोर्हृदयमाश्रितः । विद्यारूपा तथैवोमा विष्णो-स्तनुमुपाश्रिता । शृृङ्गाराद्याकृतिगतः क्रियात्मा पाकशासनः । ओषु क्रतवः सर्वे मध्यदेहे च धर्मराट् । प्राणो वायुश्चित्तगतो ब्रह्माद्याः खेषु देवताः’ इति च ॥ यदाश्रितं यद्भवति तत्तन्नामकमीरितम्’ इति शब्दनिर्णये ॥ ४६ ॥
पदरत्नावली
ब्रह्म पूर्णं तपो मे हृदयं प्रियम् । कुतः ? तपोऽभिमानी रुद्रः मम हृदयाज्जातस् तदाश्रितश्चेत्येवं व्याख्येयम् । विद्या मम तनुः स्वरूपम् । विद्याभिमानिन्युमा तनोर्जाता तदाश्रिता । क्रियाभिमानी त्विन्द्रो हरेराकृतिः । शृृङ्गाराद्याकाराज्जातस्तदाश्रितश्च, ऋतवो यज्ञाः सङ्कल्पा वा तदाश्रिताश्च, अभिमानी च पूर्वोक्त एव । धर्मो धर्मराजः हरेरात्मा मध्यदेहाज्जातः । तदाश्रितश्च । सुराः सु शोभमान एव राः कुल्यान्नं यस्य स सुरा वायुश्चित्तगतः हरेरतिप्रियो ऽसवो हरेः प्राणाज्जात-स्तदाश्रितश्च । असव इति बहुवचनमप्शब्दवत् । ब्रह्माद्याः सुराश्च हरेरसुशब्दवाच्येभ्यः श्रोत्रादीन्द्रियेभ्य उत्पन्नास् तदाश्रिताश्चेति द्विरावृत्त्या व्याख्येयम् । ‘तपोऽभिमानी रुद्रश्च विष्णोर्हृदयमाश्रितः । विद्या-रूपा तथा चोमा विष्णोस्तनुमुपाश्रिता ॥ शृृङ्गराद्याकृतिगतः क्रियात्मा पाकशासनः ॥ ओषु क्रतवः सर्वे मध्यदेहे च धर्मराट् । प्राणो वायुश्चित्तगतो ब्रह्माद्याः खेषु देवताः ॥’ इति वचनादुक्त एवार्थो ग्राह्यः । रुद्रादीनां हरेस्तदङ्गशब्दवाच्यत्वं ‘यदाश्रयं यद् भवति तत् तन्नामकमीरितम् ॥’ इत्यभिधानात् सिद्धम् ॥ ४६ ॥
सत्यधर्म
तपो मे हृदयं ब्रह्मेति पद्ये सामानाधिकरण्येन जडानामेव भगवदवयवतादात्म्यमुच्यत इत्यन्यथाप्रतिपत्तिव्यथां श्लथयन्मानत एव तत्तात्पर्यमीरयन् मुनिरीरयति ॥ तपोऽभिमानीति । तपोऽभि-मानी रुद्रो विष्णोर्हृदयमास्थितो विद्या तद्रूपोमा मम तनुमाश्रितेति पदमेकम् । तनुं समग्रमङ्गं क्रियात्मा कर्मस्वामी पाकशासन इन्द्रः शृृङ्गाराद्याकृतिगतः । क्रतवस्तदभिमानिनोऽङ्गेषु हस्तपादादिषु मध्ये देहे च धर्मराड्यमः प्राणो वायुर्मुख्यश्चित्तगतो मनोभिमानवान् ब्रह्माद्याः खेष्विन्द्रियेषु यथायथं यदिन्द्रियमाश्रयो यस्य तद्यदाश्रयं तद्वस्तु तत्तन्नामकमीरितं न तु तत्तादात्म्येन ॥ ततो वितन्यते मूलम् ॥ ब्रह्म पूर्णं पञ्चभिः पञ्चभिर्ब्रह्मेत्यत्र ब्रह्म पूर्णमिति व्याख्यानात् । ‘‘बृहद्ब्रह्म महच्चेति शब्दाः पर्यायवाचकाः’’ इति मोक्षधर्मोक्तेश्च । तपस्तदभिमानिरुद्रस्तज्जस्तदाश्रितश्च । एवमेव सर्वत्र बोध्यम् । विद्या तदभिमानिन्युमा क्रियेन्द्र आकृतिः शृृङ्गाराद्याकारगः । क्रतवो यज्ञास्तदभिमानिनश्च । ‘‘यज्ञदेवता इन्द्राद्याः’’ इति छान्दोग्यभाष्योक्तेः । अङ्गान्यवयवभवाः । धर्मराड्यम आत्मा मध्यदेहज आत्मेत्यावृत्त्य तस्य चित्तगतो वायुरित्यर्थः । असवः प्राणास्तदाश्रिताः खेष्विति मनोभिधानाद्धृदयाद्यङ्गेषु ब्रह्माद्याः सुरास्तज्जा-स्तदाश्रिताश्चेति ज्ञेयम् । ब्रह्म वेदस्तस्य यजुरेव शिरो ऋग्दक्षिणः पक्षः सामोत्तरः पक्ष इत्यादे-स्तदवयवव्यक्तौ तदभिमानिनो यजुर्वेदस्य यजुर्वेदात्मको हरः । इन्द्राद्या यजुरुद्दिष्टा इति च । ऋचः श्रीर्गीरुमाद्याश्चेति छान्दोग्यभाष्योक्तेः । साम्नः प्राणशिवादय इति गीतातात्पर्योक्तेः । ता आप ऐक्षन्त । यजमानः प्रस्तरः । महतश्चतुर्मुखात् । ममात्मा भद्रसेन इत्यादीनां वैदिकानां लौकिकानां च प्रयोगाणां गतिरकामेनाभिमानिव्यपदेशस्तु विशेषानुगतिभ्यामिति सूत्रकृदाद्युक्ताऽङ्गीकरणीया । एतत्पक्षे ब्रह्मपदार्थसामञ्जस्यं ज्ञेयम् ॥ ४६ ॥
चट्टी
विश्वसृष्ट्यर्थत्वेन त्वत्तपसाऽहं प्रीत इत्युक्तम् । तदेव तपः स्तुवन् प्रसङ्गादन्यान्यपि लोकवृद्धिकराणि विद्यादीनि स्तौति ॥ तप इति । अत्र तप आदिशब्दैः प्रसिद्धतपआद्यास्तदभिमानिनो देवाश्च ग्राह्याः । ब्रह्म पूर्णं तपो मे हृदयं प्रियं कुतः, तपोऽभिमानी रुद्रो मम हृदयाज्जातस्तदाश्रितश्चेत्येवं व्याख्येयम् । विद्या तदभिमानिन्युमा तनुस्तनोर्जाता तदाश्रिता च । क्रिया क्रियाभिमानीन्द्र आकृतिः शृृङ्गाराद्याकृतेर्जातस्तदाश्रितश्च । सर्वे ऋतवो यज्ञास्तदभिमानिनो देवाश्चाङ्गा-न्यङ्गेभ्यो जातास्तदाश्रिताश्च । शिरो वै तद्यज्ञस्य यत्प्रवर्ग्यो ग्रीवोपसदश्चक्षुष्याज्यभागावित्यादिश्रुतेः । धर्मस्तदभिमानी धर्मराजश्चात्मा मध्यदेहाज्जातस्तदाश्रितश्च । असवः प्राणाः सुरास्तदभिमानिनो ब्रह्माद्याश्चासवः प्राणेभ्यो जातास्तदाश्रिताश्चेत्यर्थः । एतत्सर्वं तपोऽभिमानी रुद्र इत्यादिप्रमाणा-दवगन्तव्यम् ॥ ४६ ॥
अहमेवेदमासाग्रे नान्यत् किञ्चान्तरं बहिः ।
संज्ञानमात्रमव्यक्तं प्रसुप्तमिव विश्वतः ॥ ४७ ॥
तात्पर्यम्
संज्ञानमात्रं यदिदं त्वया तपसा दृष्टं मम रूपं तदेवाग्र आसीत् । ‘नानावर्णो हरिस्त्वेको बहुशीर्षभुजोरुपात् । आसील्लये तदन्यत्तु सूक्ष्मरूपं श्रियं विना । असुप्तः सुप्त इव च मीलिताक्षो भवेद्धरिः । अन्यत्रानादराद्विष्णौ१ श्रीश्च लीनेव कथ्यते । सूक्ष्मत्वेन हरौ स्थानाल्लीनमन्यदपीष्यते’ इति मात्स्ये ॥ ४७ ॥
पदरत्नावली
अत्राद्वैतवादिनो निर्गुणं वाङ्मनसागोचरं, जगत्कारणं सगुणमिति द्विविधं कल्पयन्ति । तन्मतनिराकरणायाह– अहमेवेत्यादिना ॥ सप्तसु प्रतमेति सूत्राद् अहं मम यदिदं स्वरूपं त्वया तपसा दृष्टं तदेवाग्रे सृष्टेः प्राक् लय आस । अन्यद् वाङ्ग्मनसागोचरं नास । ‘‘सतो बन्धुमसति निरविन्दन् हृदि प्रतीष्या कवयो मनीषा’ इति श्रुतेः । असति प्रलये । कीदृशम् ? आन्तरं बहिः । सर्वान्तः स्थितं सर्वस्माद् बहिरपि स्थितम् । ‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः’ इति श्रुतेः । तपसा दृष्टं प्राकृतं चेदुक्तार्थानुपपत्तिरित्यत उक्तम्– संज्ञानमात्रमिति ॥ समित्यनेन ज्ञानस्य स्वरूपाभेदं ध्वनयति । मात्रशब्देन प्रकृतिप्राकृतरूपराहित्यम् अवताररूपाणां च तदात्मत्वं सूचयति । ‘सत्यं ज्ञानम्’ इति श्रुतेः । अत एवाव्यक्तमतिसूक्ष्म् । ‘तदव्यक्तमाह हि’ इति सूत्रात् । हरेः स्वापवचनमपि लोकव्यामोहनायेति भावेनाह– प्रसुप्तमिवेति ॥ कृतचक्षुर्निमीलनमात्रं न त्वज्ञानात्मक-निद्रया युतम् । श्रियं विना अवस्थितं स्वापवस्थानभागित्यर्थः । सर्वं हरौ लीनं चेन्मुख्यतस्तदविशेष एव किं न स्यादित्यत उक्तम्– विश्वत इति ॥ विश्वस्माद् भिन्नमिति शेषः । अनेन हरेर्नानावर्णत्वं तथा करचरणाद्यवयवत्त्वं श्रियमन्तरेणावस्थानं ध्वनितम् । तत्कथं युज्यत इतीयमाशङ्का ‘नानवर्णो हरिस्त्वेको बहुशीर्षभुजोरुपात् । आसील्लये तदन्यत्तु सूक्ष्मरूपं श्रियं विना । असुप्तः सुप्त इव च मीलिताक्षो भवेद्धरिः । अम्यत्रानादराच्छ्रीश्च विष्णौ लीनेव कथ्यते । सूक्ष्मत्वेन हरौ स्थानाल्लीनमन्यदपीष्यते ॥’ इत्यनेन परिहर्तव्येति । सृष्टौ स्वीकृतनानावर्णं ज्ञानात्मकावयवं यद् रूपं दृष्टं तदेव प्रलये स्वोदरलीन-प्रपञ्चं नित्यप्रबुद्धमपि स्वलीनवत्स्थितश्रीतत्वेन (सह) मीलिताक्षम् अपरिच्छिन्नं श्रीहरिरूपमिति भावः
॥ ४७ ॥
सत्यधर्म
अहमेवेदमासाग्र इति श्लोके जगदिदमहमेव मदात्मकमेवासेत्यपार्थप्रतीतिमपाकुर्वन्स्वयं व्याकृत्य प्रलयकालवर्तिनो हरेर्निराकारत्वभ्रमपरिहाराय प्रमाणमुदाहरति ॥ सद्ज्ञानेत्यादिना ॥ यत्त्वयेत्यादीकृत्य तदेवेत्यन्तं मूले पूरणम् । नानावर्णो रुक्मवर्णं शशिवर्णम् । नानावर्णानि दिव्या-नीत्यादेः । लोहिताकारो वासुदेवः शुक्लवर्णः सङ्कर्षण इत्यादिछान्दोग्यभाष्योक्तेः । बहुशीर्षभुजोरुपात् । बह्विति सर्वान्वयि । ‘‘सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्’’ । ‘‘अनन्तकरपादमुखोदरादिः’’ इत्यादेः । सूक्ष्मरूपं भूतसूक्ष्ममुपलक्षणया जीवाव्याकृताकाशवर्णानां ग्रहः प्रामाणिकत्वात् । एताञ्छ्रियं रमां च विनाऽन्यत्किञ्चन नासीत् । असुप्तः स्वभावतः सुप्तः कार्यतोऽत एवेवेत्युक्तिः । तर्हि लक्ष्म्या लयाभाव इति भावः स्यात् । स च स इदं सर्वं विलापयति स हरिः परः परमात्मा तेजः परस्यां देवतायामित्यादिबाधित इत्यत आह ॥ अन्यत्रेति । विष्णोरन्यत्रानादराद्धेतोर्लक्ष्मीर्लीनेति कथ्यते । हरेरत्यन्तसामीप्यं लयो लक्ष्म्याः प्रकीर्तित इत्यन्यत्राप्येतदेवाभिप्रेत्योक्तम् । अन्यदपि हरौ सूक्ष्मत्वेन स्थानादवस्थानात्स्थूलतयाभावादिति यावल्लीनमिष्यते । पूर्वं पूर्वं सूक्ष्मरूपनिरूपणं नियम्योक्तौ नियामकसंवित्सुलभसाध्येति दर्शयितुम् । पश्चात्प्राक् च श्रीरिति कथनं सूक्ष्मसत्ताऽपि लक्ष्म्यायत्तेति मुख्यतामाख्यातुमिति मतिमद्विमर्शनीयम् । ‘‘असुप्तः सुप्तानभिचाकशीति’’ इति श्रुत्यर्थगर्भेयं माहात्म्यवाणीति मन्तव्यम् ।
ततोऽयं श्लोकार्थः ॥ अहं मम यदिदं त्वया दृष्टं रूपं तदेवाग्रे सृष्टेः प्राक् प्रलय इति यावदास । विभक्तिप्रतिरूपकमव्ययम् । ‘‘यथा द्रोणेरुलूकेन कृतमप्यास बोधकम्’’ इत्यनुव्याख्याव्याख्यासुधायां नन्वासेति कथम् । अस्तेर्भूरित्यस्य नित्यत्वात् । विभक्तिप्रतिरूपकं चाव्ययं भवतीति वचनादव्यय-मेतदिति न दोषः । विभक्तिप्रतिरूपकमव्ययमित्युच्यते । न चैवं विभक्तिरस्ति न नास्ति । अमन्तानु-प्रयोगस्य विद्यमानत्वादित्युक्तेः । गत्यर्थादसतेर्धातूनामनेकार्थत्वादासाभूदिति वा ज्ञेयम् । एवमेव यदिदमुपासत इति तलवकारभाष्यस्थासतेर्विनियामकमित्यत्रत्यासेति व्याचक्रिरे श्रीसत्यप्रियतीर्थ-गुरुराजाः । अन्तरं सर्वान्तःस्थं बहिर्बहिरपि स्थितम् । ‘‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थित’’ इत्यादेः । अन्यदित्यत्राप्यन्वेति । बहिरन्यत्किञ्च किमपि नासान्तरमुदरस्थितमासेति वा । संज्ञानमात्रं ज्ञानात्मकमव्यक्तं विना प्रसादं विश्वतः सर्वप्रकारेणाप्यन्यत्किञ्चन सूक्ष्मं लक्ष्मीं च विना नास । प्रसुप्तमिव वस्तुतस्त्वलुप्तज्ञप्ति । ‘‘सदेव सोम्येदमग्र आसीत्’’ इति व्याख्यावसरे इदमग्रे अस्याग्रे षष्ठ्यर्थे द्वितीयेति बृहद्भाष्यदिशाऽपि शक्यं पद्यं योजयितुम् । इदमस्य जगतोऽग्रे यस्य मम रूपं तपसा त्वया दृष्टं तदहमेवाहं नैतस्य तस्य च भेद इति भावः । सर्वमुर्वरितं पूर्ववत् । ननु बृहद्भाष्ये भाष्यकृत्पादः प्रथमतः प्राप्तां प्रथमां सप्तसु प्रथमेति महाव्याकरणसूत्रतः सुनाऽनायाससम्पादनीय-षष्ठ्यर्थतामतीयाय द्वितीयां च कुतः स्वीकृतवानिति चेत् । शङ्का यद्यपि सातङ्कीकर्तुं शक्या न केनचित् । तथाऽपि भक्तेर्गौरव्याः किमसाध्यं वदाम तम् । स्वतन्त्रेच्छोऽपि प्रथमेति कथिते सप्त-विभक्त्यर्थैरुपस्थितैर्भाव्यम् । द्वितीयेति कथिते च षण्णां विभक्त्यर्थानामित्यर्थोपस्थितिलाघवे धियमाधाय ‘षट्सु द्वितीया यस्माच्च’ इति छान्दोग्यभाष्ये स्वोक्तदिशेति पक्षद्वयेऽपि महाव्याकरणसम्मतिरेव किलेति कश्चिदविपश्चिन्नासिकां कर्षयेत्सोऽपि तुष्यत्विति षष्ठ्यर्थे द्वितीया योगविभागेन केवलं द्वितीया । इदमपेक्ष्येतिमात्रशेषेणाभिलषित-सर्वनिर्वाहिका नैवं प्रथमेत्येवमूचे सुचेता इति वा समाधिरवधेयः ॥४७॥
चट्टी
तपसः संतानवृद्धिहेतुत्वं दर्शयितुं द्वितीयतृतीययोरनुक्तमितिहासमाह ॥ अहमेवेत्यादि-चतुर्भिः । आन्तरं सर्वान्तःस्थितं बहिः सर्वस्माद्बहिरपि स्थितं संज्ञानमात्रं शुद्धज्ञानादिरूपम् । मात्रशब्दादशुभव्यावृत्तिः । अव्यक्तं स्वानुग्रहमन्तरेण दृष्टुमशक्यं विश्वतो विश्वं पूर्णं प्रलये प्रसुप्तं सुप्त्यवस्थापन्नमिव वर्तमानम् । मुख्यसुप्त्यभावादिवेति । अहन्तु मम । सप्तसु प्रथमेति सूत्रात् । यदि त्वया तपसा दृष्टं रूपं तदेवाग्रे प्रलयकाले आसीदित्यर्थः । अनेन ब्रह्मणः सगुणनिर्गुणभेदेन रूपद्वयमस्तीति वदन्तो निरस्ताः ॥ ४७ ॥
मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे ।
यदासीत् तत एवाद्यः स्वयम्भूः समभूदजः ॥ ४८ ॥
तात्पर्यम्
गुणतोऽनन्ते । ‘प्रत्येकशो गुणानां तु निस्सीमत्वमुदीर्यते । तदानन्त्यं तु गुणतस्ते चानन्ता हि सङ्ख्यया । अतोऽनन्तगुणो विष्णुर्गुणतोऽनन्त एव च’ इति तन्त्रभागवते ॥
पदरत्नावली
लयमुक्त्वा सृष्टिमाह– मयीति ॥ मयि मत्सम्बन्धिनाभेर् यत् पद्ममासीत् ततः पद्मादेव स्वयम्भूः समभूदित्यन्वयः । कोऽसौ स्वयम्भूरित्यत उक्तम्– अज इति ॥ ‘अजा विष्णु-हरच्छागाः’ इत्यतः कथं निर्णय इत्यत उक्तम्– आद्य इति ॥ जगदादौ भूतश् चतुर्मुख एवेत्यर्थः । ‘अजः पितामहो ब्रह्मा’ इत्यभिधानाच्च । कीदृशे मयि ? अनन्तगुणे असङ्ख्यातज्ञानादिगुणे । गुणतोऽनन्ते प्रत्येकशोऽप्यसङ्ख्याते । अनन्तविग्रहे असंख्यातरूपे । ‘प्रत्येकशो गुणानां तु निःसीमत्व-मुदीर्यते । अनन्तत्वं तु गुणतस्ते चानन्ता हि संख्यता । अतोऽनन्तगुणो विष्णुर्गुणतोऽनन्त एव च ॥’ इति वचनं चात्र मानम् ॥ ४८ ॥
सत्यधर्म
मय्यनन्तगुणेऽनन्त इति श्लोके गुणतः सत्त्वादिभिरनन्तविग्रहे देवदानवमानव-तिर्यगाद्यपर्यवसितशरीरे मयीत्यन्वयलापनलोपनं विधित्सुः स्वयमन्वयं प्रदर्श्य प्रमाणेन द्रढयति ॥ गुणत इति । गुणतोऽनन्ते यद्गुणत आनन्त्यं तत्प्रत्येकशो गुणानामानन्दादिव्यक्तीनां निस्सीमत्वं निर्गतः सीमाऽवधिर्येभ्यस्ते निस्सीमानस्तेषां भावस्तत्त्वम् । ‘‘सामसीमे स्त्रियामुभे’’ इत्यमरात्सीमाऽऽकारान्तो वा । निरवधिकत्वमेवोदीर्यते हि यतस्ते च गुणाः सङ्ख्ययाऽनन्ता अनवधय एतद्धेतोरतोऽनन्तगुणो गुणतोऽनन्तश्च विष्णुरुदीर्यत इत्यर्थः । व्याख्यातमिदं सुधायाम् । ‘‘अष्टगुणत्ववदनन्तगुणत्वेऽपीश्वरस्य प्रमाणं नास्तीत्यत आह ॥ मयीति । अनन्ता असङ्ख्याता गुणा यस्यासावनन्तगुणो गुणतोऽनन्त इति गुणानां प्रत्येकमनवधिकत्वमनन्तावान्तरविशेषवत्त्वं चाभिप्रेयते । अनन्तविग्रह इत्यन्तं भगवद्वाक्यम्’’ इति । ननु परमात्मा स्वगुणेयत्तां जानाति न वा । नोभयमप्यभयदम् । अनन्तत्वहतेरसर्ववित्त्वापत्तेश्चेति चेन्न । विद्यमानाशेषार्थज्ञत्वस्यैव सार्वज्ञ्यपदार्थत्वात् । भगवद्गुणसङ्ख्याया निरूपाख्यत्वात् । यद्वक्ष्य-त्येकादशतात्पर्ये– ‘अनन्तमिति वेत्तीशस्त्वनन्तं त्वं तवत्तथा । अनन्तस्य तु सङ्ख्याने न तु सर्वज्ञता भवेत्’’ इति ॥ अथ मूलमर्थापयामः ॥ लयमालप्य प्राचेतसचेतोऽनुगुणं सर्गमार्गमाह ॥ मयीति ॥ यन्मय्यजस्य नाभावित्यादिमानबोधितं पुष्करमाविष्कृतं तत एव पद्मादेव स्वयम्भूश्चतुराननो रूढः शब्दस्समभूदतोऽज आज्जात इत्यजशब्दवाच्य एवं बहवो जातास्तेष्वस्यैव को विशेष इत्यत आह । आद्य इति ॥ आदौ भव आद्यो मयीति । कीदृशे त्वयीत्यत आह ॥ अनन्तगुण इति । असङ्ख्य-ज्ञानादिगुणे गुणतः प्रत्येकशोऽप्यनन्तेऽनन्तविग्रहे । गुणत इत्यत्राप्यन्वेति । गुणात्मकानन्तकाये ॥४८॥
चट्टी
कारणत्वोपपादकपूर्वभावित्वमुक्त्वा सृष्टिमाह ॥ मयीति । अनन्तगुणेऽसङ्ख्यातज्ञानादि-गुणे । गुणतोऽनन्ते प्रत्येकशोऽप्यसङ्ख्याते । अनन्तविग्रहे असङ्ख्यातरूपे । मयि । यत्पद्ममासीत्तत तस्मादेव स्वयंभूर्ब्रह्मा समभूत् ॥ ४८ ॥
स वै यदा महादेवो मम वीर्योपबृंहितः ।
१मेनेऽकल्पमिवात्मानमुद्यतः सर्गकर्मणि ॥ ४९ ॥
पदरत्नावली
महादेवः देवेभ्यो महानुत्तमः स ब्रह्मा । अकल्पमशक्तम् । स्नष्टुमिति शेषः ॥४९॥
सत्यधर्म
यदा महादेवो महांश्चासौ देवश्च देवश्रेष्ठ इत्यर्थः । मम वीर्योपबृंहितः सर्गकर्मण्युद्यतः साधनास्फूर्तेरात्मानमकल्पमिव अदक्षमिव मेने व्यजानात् । वैशब्दः स भाणमकरोद् भारूपो णरूपश्चेति भगवान्भाण् तद्व्यञ्जकत्वाद्भाणनं वाक् । न रेमे स ततो ब्रह्मा तस्मादेकस्य नो रतिरित्यादिबृहदारण्य-भाष्यादिप्रमाणप्रचारयोग्यतां दर्शयति । यद्वा मेने लक्ष्मीनाथे मयि सत्येव सर्गकर्मणि सृष्टिक्रियायां यतो यस्य ब्रह्मणो मुन्मय्यसहाय्ये तु सृष्टिकर्मण्युक्तरूपे आत्मनो न सः स्वमकल्पमिवाकल्पमेव मेन इत्यर्थः । सर्गकर्मणि सर्गे सर्गस्य वा कर्मसिद्धिसंपादिका क्रिया यस्य तस्मिन्सत्येव यतो मुत् तत आत्मानं कल्पमिव सतोऽशक्तत्वदिवेत्युक्तिः । मेन इत्यावर्तते । आत्मा न मुद् यत इति छेदः । महा-देवो वामदेवः किन्नेत्याह ॥ आत्मेति । ‘‘आत्मा विरिञ्चः सुमना’’ इति बृहदारण्यभाष्योक्तेर्ब्रह्मा सर्गकर्मणि यतो नियमितोऽप्येकाकीति नमुद्वितोषः सन् अकल्पमसमर्थं मेने । खिलमित्यखिलमनोहरः पाठः । खिलं सवेधं दुर्बलमिति यावत् । असमस्तं साहितीविरहितमिति वा । ‘‘खिलं पद्मवेधयोः’’ इति विश्वः । यतो न मुत्ततोऽकल्पं मेन इति वा । अज्ञानादेश्च स दर्शयति मोहाय विष्णोः प्रीत्यर्थमेव चेत्यादिनोक्तेर्यदा यस्मान्महादेवो विष्णुनाऽऽत्मानमुत्स्वप्राणप्रतोषकस्तदा तस्मात्कल्पमपि मेने । यद्वा अमहाद् एव इति छेदः । अमहादनुत्सवाद्भयादिति यावत् । एव एकत्वादे वातीति व ए चासौ वश्च एव एक एव चरन्नित्यर्थः । उक्तं च गीतातात्पर्यन्यायदीपिकयोः । एकः सर्वाधिको ज्ञेय एक एव करोति यदिति च । एकत्वादे करोतीति क इति । यदाह शौनको देवदत्ताय । वर्णस्य वर्णयोर्लोपो बहूनां व्यञ्जनस्य चेति ॥ ४९ ॥
चट्टी
अकल्पं सृष्टावसमर्थम् ॥ ४९ ॥
अथ मेऽभिहितो देवस्तपोऽतप्यत दारुणम् ।
नव विश्वसृजो युष्मान् येनादावसृजद् विभुः ॥ ५० ॥
पदरत्नावली
अथ तदा । मे मया । येन तपसा ॥ ५० ॥
सत्यधर्म
अथानन्तरं मे मयाऽभिहितस्तप तपेत्यशरीरगिरोदीरितो दारुणमितरासाध्यं तपोऽ-तप्यताकरोत् । येन तपोरूपसाधनेन नव विश्वसृजः प्रजापतीन् युष्मानादौ पूर्वं विभुः कल्पो वाऽखिलो वा सन्नसृजत् । एवमीशो यदुपदिदेश तप तपेतीत्येतदुदितेनैवात्मानमुत्कल्पं मेन इत्याद्यन्वये-नार्थापनमुज्जीवितमिति नाननुरूपता ॥ ५० ॥
चट्टी
मे मया तपस्तपेत्यभिहितो येन तपसा ॥ ५० ॥
एषा पञ्चजनस्याङ्ग दुहिता वै प्रजापतेः ।
असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम् ॥ ५१ ॥
सत्यधर्म
कथया कथितया प्रकृते किं कृतमासीदित्यतः सर्जनकर्मैव मार्जयेत्याह ॥ एषेति । अङ्ग हे इष्ट वा अङ्ग इष्टेति छान्दोग्यभाष्योक्तेः । प्रजेश । अङ्ग हे हा इत्यमरः । पञ्चजनस्य तन्नाम्नः प्रजापतेर्दुहिता पुत्री । नामेत्यव्ययं लुप्ततृतीयान्तम् । नाम्ना असिक्नी एषा पत्नीत्वे प्रतिगृह्यताम् । अङ्गदुहिता साक्षाच्छरीरजा न पालिता पुत्रीति वा ॥ ५१ ॥
चट्टी
सन्ततिवृद्ध्युपायमाह ॥ एषेति । अङ्ग हे दक्ष । पञ्चजनाख्यस्य प्रजापतेः ॥ ५१ ॥
मिथुनव्यवायधर्मस्त्वं प्रजासर्गमिमं पुनः ।
मिथुनव्यवायधर्मिण्यां भूरिशो भावयिष्यसि ॥ ५२ ॥
पदरत्नावली
मदीयया मत्सृष्टया मायया स्त्रीरूपिण्या । अधस्तादर्वाचीना बलिं मे मह्यं हरिष्यन्ति दास्यन्ति ॥ ५३ ॥
सत्यधर्म
व्यवायस्य सुरतस्य धर्मो मिथुनेन दम्पतित्वेन निर्वर्त्यः सो यस्य सः । मिथुनं दम्पती युगे व्यवायः सुरते मूर्ध्नीति विश्वौ । उभयत्रापि स्त्रीपुंसयुगं मिथुनपदार्थ इत्येवं मिथुनव्यवायधर्मिण्यां भूरिशो बहुवारं भूरिशो बहुमुख इति वा प्रजासर्गं प्रजारूपं सृज्यं भावयिष्यस्युत्पादयिष्यसि सम्पादयिष्यसि वा ॥ ५२ ॥
चट्टी
मिथुनस्य यो व्यवाय इति स एव धर्मो यस्य स त्वं तथा भूतायां तस्याम् ॥ ५२ ॥
त्वत्तोऽधस्तात् प्रजाः सर्वा मिथुनीभूय मायया ।
मदीयया भविष्यन्ति हरिष्यन्ति च मे बलिम् ॥ ५३ ॥
सत्यधर्म
त्वत्तोऽधस्तादर्वाञ्चो मदीयया माययेच्छया प्रकृत्या वा मिथुनीभूय तद्भावं प्राप्य भविष्यन्त्युत्पद्यन्ते । मम बलिं पूजोपहारं हरिष्यन्त्याहरिष्यन्ति चेति तत्कृत्योक्तिः ॥ ५३ ॥
चट्टी
अधस्तादर्वाचीनाः प्रजा मायया स्त्रिया सह मिथुनीभूय । मदीयया मायया मत्सामर्थ्येन भविष्यन्ति । पुत्रादिरूपेणोत्पत्स्यन्ते मे मह्यं हरिष्यन्ति । दास्यन्ति ॥ ५३ ॥
इत्युक्त्वा मिषतस्तस्य भगवान् विश्वभावनः ।
स्वप्नोपलब्धार्थ इव तत्रैवान्तर्दधे हरिः ॥ ५४ ॥
॥ इति श्रीमद्भागवते षष्ठस्कन्धे चतुर्थोऽध्यायः ॥
पदरत्नावली
मिषतः पश्यतः ॥ ५४ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
षष्ठस्कन्धे चतुर्थोऽध्यायः ॥
सत्यधर्म
मिषतः पश्यतः सतः । विश्वभावनो जगदुत्पादकः । मिषत इत्यत्राप्यन्वेति । मिषतः प्रजापतिव्यापारव्याजात् । ‘‘मिषं तु स्पर्शने व्याजे’’ इति विश्वः । स्वप्नोपलब्धार्थ इव तत्रैव प्रादुर्भावभूमावेवान्तर्दध इति वा । स्वप्नोपलब्धस्यार्थो निवृत्तिर्यथा तथाऽन्तर्दध इति वा । ‘‘अर्थोऽभिधेयरैवस्तु प्रयोजननिवृत्तिषु’’ इत्यमरः ॥ ५४ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मकृतायां षष्ठस्कन्धे चतुर्थोऽध्यायः ॥ ६–४ ॥
चट्टी
मिषतः पश्यतः ॥ ५४ ॥
॥ इति श्रीभागवतटिप्पण्यां चट्टीव्याख्यायां षष्ठस्कन्धे चतुर्थोऽध्यायः ॥ ६–४ ॥