०३ तृतीयोऽध्यायः

निशम्य देवः स्वभटोपवर्णितं

॥ अथ तृतीयोऽध्यायः ॥

राजोवाच—

निशम्य देवः स्वभटोपवर्णितं

प्रत्याह किं तानपि धर्मराजः ।

एवं हताज्ञो विहितान् मुरारे-

र्नैदेशिकैर्यस्य वशे जनोऽयम् ॥ १ ॥

पदरत्नावली

भक्तिपूर्वकं नामसङ्कीर्तनं मुक्तिसाधनमित्येतस्मिन्नध्यायेऽभिधीयते । तत्र राजा पृच्छति– निशम्येति ॥ हता आज्ञा यस्य स हताज्ञः । मुरारेर्नैदेशिकैर् आज्ञाकारिभिः किङ्करैरित्यर्थः । विहतान् प्रतिहतान् स्वामिनिर्देशकरणाशक्त्या पीडितानित्यर्थः । अयं जनो यस्य यमस्य वशे वर्तते

॥ १ ॥

सत्यधर्म

भक्तियुक्तं नामकीर्तनं मुक्तिसाधनमिति प्रागुक्तार्थमेव द्रढयत्यस्मिन्नध्याये । श्रुतशमन-शासनो निराशनः साश्चर्यचेताः किञ्च किं चकार स्वचारमुखतो विचारं विज्ञाय यम इति परसंशय-मात्मन्यारोप्य नृवृषभो ऋषिं पृच्छति राजेति ॥ धर्मराजो देवः स्वभटोपवर्णितं श्रुत्वा तान्प्रति किमाहेत्यन्वयः । सतां माने म्लाने मरणमथवा दूरगमनम् । आज्ञाभङ्गो नरेन्द्राणामितिवन्नेति पृच्छसि कुत इत्यत आह । एवमुक्तप्रकारेण हताज्ञो हताऽऽज्ञा यस्य स तथा सोऽपीति । यस्य हरेर्वशेऽयं जनस्तस्य मुरारेर्नैदेशिकैर्निदेश आज्ञा तं चरद्भिर्दूतैरिति यावत् । विहितान्कार्यतस्तत्प्रायान्यस्य यमस्य स इति वा । समाधानी चेदनुसन्धानवान्स्यादयं न तथेत्यप्याह ॥ निशमीति । शमीभिन्नः क्रूर इति यावत् । ओव एतद्विषयराजान्तररहितः । देवः सुरे घने राज्ञीति विश्वः। स्वभटोपवर्णितमुद्दिश्य तान्प्रति किमाहेति वा ॥ १ ॥

चट्टी

यमस्तद्भटसंवादव्याजेन परमात्मनोऽविवादं स्वतन्त्रत्वमध्यायेऽस्मिन्निरूप्यते ॥ यमराज्ञे यथा सर्वमाचख्युरिति यत्पुरोक्तं ततश्च किं वृत्तमिति पृच्छति भूपतिः ॥ निशम्येति द्वाभ्याम् ॥ अयं जनो भटवर्गो यस्य वशे वर्ती । भटस्वामीति यावत् । स धर्मराजो देवः स्वभटोपवर्णितं निशम्य मुरारेर्नैदेशिकैराज्ञाकारिभिः । किङ्करैरिति यावत् । विहितान्निराकृतान् । अत एव स्वयं हताज्ञो हता प्रतिहताऽऽज्ञा यस्य स तथा । तान्प्रति किमाहेत्यन्वयः ॥ १ ॥

यमस्य देवस्य न दण्डभङ्गः

कुतश्चनर्षे श्रुतपूर्व आसीत् ।

एवं मुने वृश्चति लोकसंशयं

न हि त्वदन्य इति मे विनिश्चितम् ॥ २ ॥

पदरत्नावली

दण्डभङ्ग आज्ञाभङ्गः । वृश्चति छिनत्ति ॥ २ ॥

सत्यधर्म

कौतुकहेतुमाह ॥ यमस्येति । दण्डभङ्ग आज्ञाभङ्गः श्रुतपूर्वः पूर्वं श्रुतः श्रुतपूर्वो नासीत् । इदानीं जातश्च स किंकारणक एवमिति लोकसंशयम् । त्वदन्य इति पदमेकमनेकं च । न हि वृश्चति छिनत्ति । ओ वृश्च छेदन इति व्याख्यानात् । न दाक्षिण्यादियमुक्तिरित्याह ॥ इतीति । मे मम निश्चितं निश्चयः । भावे क्तः । त्वदन्य इति न्यकारागौरवेणान्यस्मिन्नेतच्छेदविषये मम गौरवं न सम्मतमिति महीपत्याशय इति ध्वनयाञ्चक्रे । ऋषे मुन इति द्विः सम्बोधनेन बोधे शब्दप्रवृत्तिनिमित्त एतत्सन्देहमन्दीकरणपाटवं द्योतयति ॥ २ ॥

चट्टी

अत्याश्चर्यमेतदित्याह ॥ यमस्येति ॥ हे ऋषे यमस्य दण्डभङ्ग आज्ञाभङ्गः कुतश्चन कस्मादपि श्रुतपूर्वो नासीत् । अनेनैका संशयकोटिर्निरूपिता । शुकोक्तिर्द्वितीयेति भावः । एवं कोटिद्वयप्रापितं सर्वलोकस्य वर्तमानं संशयं त्वत्तोऽन्यो न छिनत्ति । इति निश्चयो हि यस्मात्तस्मान्मे तु विशेषार्थज्ञापनाय । कथयेति शेषः । जानन्तोऽपि विशेषार्थज्ञानाय स्थापनाय वा । पृच्छन्ति साधवो यस्माद् इति वचनात् । अत एव लोकसंशयमित्युक्तमिति भावः ॥ २ ॥

बादरायणिरुवाच—

भगवत्पुरुषै राजन् याम्याः प्रतिहतोद्यमाः ।

पतिं विज्ञापयामासुर् यमं संयमनीपतिम् ॥ ३ ॥

पदरत्नावली

‘वाचंयमे प्रेतपतौ यमने च यमः स्मृतः’ इत्यभिधानात् संशयनिराकारणाय संयमनीपतिमिति ॥ ३ ॥

सत्यधर्म

हे राजन् प्रतिहतोद्यमा मोघीकृतोद्योगा यमं पतिं स्वस्वामिनं संयमनीपतिं नरकमूल-नगरीश्वरम् । यद्यपि यममित्यनेन प्रकरणनिरीक्षणेनेतरशङ्कां न कथञ्चिदपि सचेतनः सम्भावयेदिति तावता पूर्तिस्तथाऽपि यं प्रति यं प्रत्यानेतुं गतानां मध्येऽध्वदशेदृशी जातेत्याक्रोशेन संयमनीपति-मित्युक्तिरिति सन्तोष्टव्यम् ॥ ३ ॥

चट्टी

भगवतः पुरुषैः प्रतिहता उद्यमा येषां ते याम्याः पुरुषाः ॥ ३ ॥

यमदूता ऊचुः—

कति सन्तीह शास्तारो जीवलोकस्य वै प्रभो ।

त्रैविद्यं कुर्वतः कर्म फलाभिव्यक्तिहेतवः ॥ ४ ॥

पदरत्नावली

फलाभिव्यक्तिहेतवः फलदातारः । कति सन्तीत्यस्यायमर्थः । किमेकः शास्ता अथवा बहवः ? तत्रापि इयन्त इति नियमोऽस्ति, किं वा नेति ॥ ४ ॥

सत्यधर्म

हे प्रभो स्वामिन् । एकवचनेनेह शास्तारः शासकाः कति सन्तीति काकुः । तथा चाक्षेपो ध्वन्यते । तेन न सन्तीत्यान्तरङ्गिको भावोऽपि ध्वनितः । त्रैविद्यं वेदत्रयबोधितं कर्म कुर्वतो जीवलोकस्य चेतनमात्रस्य फलाभिव्यक्तिहेतवः । त्रैविद्यं कर्म कुर्वत इत्यत्र विशेषणीभूतत्रैविद्यकर्मपदं योग्यतया फलपदात्प्रागन्वेति । ततश्च त्रैविद्यकर्मफलाभिव्यक्तिहेतवस्त्रिविधकर्मफलोपलम्भकाः कतीति प्रश्नाशय इत्याशयः । वै इत्यनेन तवैव प्रभावं प्रसिद्धमिति काकुमुज्जीवयन्तीति ज्ञायते । ज्ञायते च यदि स्युरित्युत्तरपद्येनापि । त्रैविध्यमित्यपि कुत्रचित्पाठः सोऽपि सुन्दरः । त्रैविध्यं त्रिविधं स्वार्थे ष्यञ् । त्रैविध्यं यथा भवति तथा कर्म कुर्वत इति तदर्थः । अभिव्यक्तिपदेन मोक्षमपि कटाक्षयतीति सूच्यते

॥ ४ ॥

चट्टी

त्रैविद्यं वेदविहितम् । त्रैविध्यमिति पाठे सात्विकादिभेदेन त्रिविधम् । स्वार्थे ष्यञ् प्रत्ययः ॥ यद्वा त्रिविधं यथा भवति तथा । कर्म कुर्वतो जीवलोकस्य जीवसमूहस्य फलाभिव्यक्तिहेतवः कर्मफलदातारः शास्तारः स्वामिनः कति सन्तीत्याक्षेपः । बहवः शास्तारो न सन्तीत्यर्थः ॥ ४ ॥

यदि स्युर्बहवो लोके शास्तारो दण्डधारिणः ।

कस्य स्यातां न वा कस्य मृत्युश्चामृतमेव च ॥ ५ ॥

पदरत्नावली

द्वितीयं प्रत्याहुरित्याह– यदि स्युरिति ॥ इयन्त इति संख्याया बहवः मृत्यमृतयोर् दानसमर्था उत न ? न द्वितीय इत्याहुरित्याह– कस्येति ॥ मृत्युलक्षणो बन्धो ऽमृतलक्षणो मोक्षश्च कस्य स्यातामिति वक्तव्यम् । न कस्यापि स्याताम् । दातृत्वे सामर्थ्याभावात् । प्रथमं परिहरन्तीत्याह– न वेति ॥ तौ कस्य न स्याताम् ? सर्वेषामपि स्याताम् । सामर्थ्यात् ॥ ५ ॥

सत्यधर्म

दण्डधारिणस्तव सकाशाद्यदि शास्तारो लोकेऽन्ये बहवः स्युः । अनेन शास्तारो दण्डधारिण इति पदे अर्थतः पुनरुक्ते इति परास्तम् । मृत्युर्बन्धोऽमृतपदस्वारस्यादमृतं मोक्षश्चेत्येते कस्य सकाशात्स्यातां स्वातन्त्र्यस्याव्यवस्थितत्वात्कस्य स्याताम् । यद्येको मारयितुं तारयितंु वा वाञ्छेद् अपरो नेदानीं ते कर्तव्ये इति कुर्याच्चेदपराधं तर्हि कस्यापि न वा स्यातामिति विरुद्धक्रियं शरीरमुन्मथ्येतेति वा । हे लोकेश यद्यस्तारो निरस्तदोषः । एकवचनेन चैकत्वं शासितुः सम्मतमिति ध्वन्यते । तर्हि कस्य मृत्युश्चामृतं च स्यातामिति वाञ्छति तस्य स्यातां न वेति कस्य तस्य न स्यातामिति तेषामान्तरङ्गिको भाव इति पदसम्पदा प्रतिपाद्यत इति मन्तव्यम् ॥ ५ ॥

चट्टी

स्वामिबहुत्वे किं बाधकमित्यत्राहुः ॥ यदीति । मृत्युर्दुःखम् । अमृतं सुखम् । तेषां विप्रतिपत्तौ ते उभे कस्य वा स्याताम् । न कस्यापि । परस्परविरोधेनोभयोरपि प्रतिबन्धात् । एकमत्ये तु कस्य वा न स्याताम् । एकः सुखं कर्तुमिच्छति । दुःखं चान्यः । एकमत्ये च तयोः परस्परकार्यानु-मोदे । अनेन उभयोरपि प्राप्तेः । कस्य वा ते उभेऽपि सहैव न स्यातामित्यर्थः ॥ ५ ॥

किन्तु शास्तृबहुत्वे स्याद् बहूनामिह कर्मणाम् ।

शास्तृत्वमुपचारो हि यथा मण्डलवर्तिनाम् ॥ ६ ॥

पदरत्नावली

न चैतद् युक्तमसम्भवात्, मिथो विरोधापातादित्याहुरित्याह– किन्त्विति ॥ मण्डलवर्तिनां मण्डलेश्वराणाम् ॥ ६ ॥

सत्यधर्म

तत्रापि स्वतन्त्राः सर्वे सर्वदा स्वां स्वां प्रवृत्तिं कुर्वन्ति किंवाऽव्यवस्थया नोभयथाऽपि तद्दुरवस्थावस्कन्दनमित्यनवस्थितेरसम्भवाच्च नेतर इत्यादेः । केवलं त्वमेकल एव लोकेश इति चास्माकीनो निश्चयः पाश्चात्त्यः स कथमन्यथाभूतो भूतलेऽभूदिति पञ्चभिः पद्यैः प्रपञ्चयति ॥ किन्त्विति ॥ कर्मणां तत्सम्बन्धि शास्तृत्वं शिक्षकतोपचारः स्याद् औपचारिकं स्यात् । यथा मण्डलवर्तिनां खण्डेशानां तत्तद्देशविशेषेशता तथा स्यात्तथा सावधिस्वाम्यं स्यात्तच्चासम्भवादिदूषितमिति न शक्याङ्गीकारमिति हृदयम् ॥ ६ ॥

चट्टी

ननु बहूनां कर्मणां व्यवस्थया बहवः शास्तारो भवन्तु । तथा च सति नायं दोषः स्यात्तत्राहुः ॥ किंत्विति । बहूनां कर्मणां व्यवस्थया शास्तृबहुत्वे शास्तृत्वं स्याद् घटेत् । किन्तु यत्सर्वशास्तरि मुख्यं शास्तृत्वं तदेकदेशे उपचारमात्रमेव स्यात् । तत्र दृष्टान्तमाह– यथेति ॥ यथा चक्रवर्तिन एव मुख्यशास्तृत्वं मण्डलवर्तिनामुपचारमात्रम् । निरंकुशत्वाभावात् । तद्वदित्यर्थः ॥ ६ ॥

अतस्त्वमेको भूतानां सेश्वराणामधीश्वरः ।

शास्ता दण्डधरो नॄणां शुभाशुभविवेचनः ॥ ७ ॥

पदरत्नावली

यत एवं बहुत्वे दोषः, अत एकः शस्ता स चैकस्त्वमेवेति प्रथमपक्षोऽभिमत इत्याहुरित्याह– अत इति ॥ शुभाशुभविवेचनः शुभशुभविवेककर्ता ॥ ७ ॥

सत्यधर्म

सेश्वराणां तत्तदवान्तरेश्वरसहितानां शुभाशुभविवेचनः शुभाशुभे सदसती कर्मणी विवेचयति फलदानद्वारेति स तथा । दण्डधर इत्यनेन चतुराननवरत उपयातो दण्डस्तस्य धर इति शास्तृत्वं क्वापि न प्रतिहतमियत्पर्यन्तमिति सूचयन्ति । यदि प्रतिक्षेप्यो बहुशास्तृत्वपक्षो हन्त तर्ह्यहं कुतः कुतो न भवेत्कश्चिन्मतं शासिताऽन्य इत्यतोऽस्मदनुभवसिद्धत्वादाद्यः कल्पोऽनवद्य इति राज्ञे विज्ञापयन्ति ॥ त्वमेक इति । नृणां मनुष्याणामनृणां रक्षः पिशाचादीनामेवम्भूतानाम् । सभाराजामनुष्यपूर्वेति व्याख्यायाममनुष्यशब्दो रक्षः पिशाचादीनाहेत्युक्तेः । नृ चेति नामि दीर्घः ॥७॥

चट्टी

यस्मादेवं शास्तृबहुत्वं न घटत इत्यतस्तस्मात्त्वमेक एव शास्ता शुभाशुभे विवेचयति विविनक्तीति ॥ ७ ॥

तस्य ते विहतो दण्डो नृलोके वर्ततेऽधुना ।

चतुर्भिरद्भुतैः सिद्धैराज्ञा ते विप्रलम्भिता ॥ ८ ॥

सत्यधर्म

तस्य तत्त्वेनास्मत्सम्मतस्य ते दण्डोऽद्भुतैराश्चर्यचर्यैः सिद्धैश्चतुर्भिर्विहत इत्यधुना लोके न वर्तत इत्यन्वयः । अतः सिद्धैस्त्वदनुष्ठाने सदा सन्नद्धैस्ते आज्ञाऽजामिलानयनविषयिणी विप्रलम्भिताऽतिक्रान्ता नास्मन्मनःपूर्वकमिति निरपराधिनो वयमित्यवयन्तीति तात्पर्यं ज्ञेयम् । एवमनन्वये पादः सर्व उक्तानुवादरूप इति निरूपणीयं स्यात्तथा चागतिका गतिस्तथाऽपि त इति वृथेत्यस्य शङ्कनस्यापारणीयत्वं चेति मन्तव्यम् ॥ ८ ॥

चट्टी

विहितो वर्तत इत्यन्वयः । तदेव विवृण्वति ॥ चतुर्भिरिति । विप्रलंभिता वञ्चिता लङ्घितेत्यर्थः ॥ ८ ॥

नीयमानं तवादेशादस्माभिर्यातनागृहम् ।

व्यमोचयन् पातकिनं छित्वा पाशान् प्रसह्य ते ॥ ९ ॥

सत्यधर्म

तत्प्रकारं खेदतः सविस्तरं वदन्तीति वदति ॥ नीयमानमिति । प्रसह्य पाशांश्छित्वा व्यमोचयन्नित्यन्वयः ॥ ९ ॥

चट्टी

तदेवाहुः ॥ नीयमानमिति ॥ ९ ॥

तांस्ते वेदितुमिच्छामो यदि नो मन्यसे क्षमम् ।

नारायणेत्यभिहिते मा भैरित्याययुर्द्रुतम् ॥ १० ॥

सत्यधर्म

ते तव सकाशान्नारायणेति तेनाभिहिते मा भैर्मा भैषीर्न भीतो भवेति द्रुतमाययुस्ते क इति वेदितुमिच्छामः । यदि क्षमं श्रोतुं योग्यं मन्यसे तर्हि वदेति शेषः ॥ १० ॥

चट्टी

यदि नोऽस्माकं क्षमं हितं मन्यसे इत्यर्थः । क्षिति क्षान्त्योः क्षमा प्रोक्ता हिते शक्ते च वाच्यवदिति विश्वः । तत्स्वरूपज्ञानेन किं प्रयोजनमित्यत आहुः ॥ नारायणेति । श्रीनारायणेति केवलमभिहिते मा भयं कुर्विति वदन्तो द्रुतं शीघ्रमागता इत्यर्थः । एवमतर्क्यप्रभवात्तेषां तज्ज्ञानेना-स्माभिरवज्ञाने कृते तवाप्यनर्थः स्यात् । भृत्यकृतस्य राजकृतत्वादिति भावः ॥ १० ॥

श्रीशुक उवाच—

इति देवः स आपृष्टः प्रजासंयमनो यमः ।

प्रीतः स्वदूतान् प्रत्याह स्मरन् पादाम्बुजं हरेः ॥ ११ ॥

पदरत्नावली

यमः स्वदूतान् वक्तीत्याह– इतीति ॥ ११ ॥

सत्यधर्म

दूतोदितं स्वस्वाम्यनैरवद्यमसहमान एकस्वाम्यपक्षं स्वीकृत्य यन्नामाग्रहीदजामिलः, सा च प्रशासनात्, एकः शास्ता न द्वितीयोऽस्ति शास्तेत्यादिसूत्रश्रुतिबोधितः स्वामी शास्ता स भगवा-नित्यवगमयितुं महाप्रमेयबोधनावसर इति भानुसूनुर्मङ्गलाचरणपूर्वकमितीत्यादिभिः श्लोकैरवादीदिति वदति ॥ इतीति । प्रजासंयमनस्तच्छिक्षकः प्रीतः श्रीभगवन्मङ्गलकथाकथनमनायासेन भविष्यतीति प्रीतिमान् ॥ ११ ॥

यम उवाच—

परो मदन्यो जगतस्तस्थुषश्च ओतं प्रोतं पटवद् यत्र विश्वम् ।

यदंशतोऽस्य स्थितिजन्मनाशा नस्योतवद् यस्य वशे च लोकः ॥ १२ ॥

तात्पर्यम्

ओतं प्रोतं पटवत् । ‘यथा कन्थापटाः सूत्र ओताः प्रोताश्च संस्थिताः । एवं विष्णाविदं विश्वमोतं प्रोतं च संस्थितम्’ इति स्कान्दे ॥ १२ ॥

पदरत्नावली

यदुक्तं भवद्भिस्त्वमेक एव शास्तेति तदनालोच्य कथितम् । मदन्यस्यात्युत्तमस्य सत्त्वादित्याह– पर इति ॥ मदन्यो जगतो जङ्गमस्य तस्थुषः स्थावरस्य च शास्ताऽस्ति । स क इत्यत उक्तम्– पर इति ॥ ‘परोऽरिपरमात्मनोः’ इत्यभिधानात् स शास्ता परः परमात्मा । तस्य लक्षणमाह– ओतमिति ॥ अयमर्थः । पटवद् यथा कन्थापटः सूत्रे तन्तौ दीर्घतया ओतस् तिरश्चीनतया प्रोतस् तन्त्वाधारत्वेन स्थितस् तथेदं विश्वं यत्र परमात्मनि ओतप्रोतधर्मेण तदाधारत्वेन स्थितम् । ‘यस्मिन्निदं सं च विचैधि सर्वं’ ‘यथा कन्थापटाः सूत्र ओताः प्रोताश्च संस्थिताः । एवं विष्णाविदं विश्वमोतं प्रोतं च संस्थितम् ॥’ इत्यादिश्रुतिस्मृतिबलादेतल्लक्षणमव्याप्त्यातिव्याप्त्यादिदोषरहितम् । यदि अस्य आधारको न स्यात् तर्हि पतिष्यति । वेगाख्यसंस्काररहितशरवदित्यादितर्काच्च । लक्षणान्तरं चाह– यदंशत इति ॥ यस्यांशतो वासुदेवादिस्वरूपांशैर्भिन्नांशैर्ब्रह्मादिभिरस्य जगतः स्थितिजन्मसंहाराः, भवन्तीति शेषः । ‘यतो वा इमानि भूतानि जायन्ते’ इत्यादिश्रुतेः । ‘यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् ॥’ इत्यादेर् व्यासरूपमन्तरेणापि धारकत्वं तस्यैवेति निश्चयाय चशब्देन पुनर्ग्रहणम् । जन्मनाशावेव लक्षणान्तर इति । जातपक्षपक्षिवत् पुनरस्याधीनं न स्यादिति नेत्याह– नसीति ॥ नसि नासिकायाम् ओता गाव इति च ॥ १२ ॥

सत्यधर्म

परो मदन्यो जगतस्तस्थुषश्चेति श्लोके यद्यपि परपदमन्यपदं वा ओतं प्रोतं पटवदित्यस्योपादानत्वेन प्रपञ्चैक्यं बोधयितुमवसरं न दद्यादित्याचार्येणान्तरङ्गानुपपत्तिः प्रदर्शनीया तथाऽप्यन्यादिपदस्य व्यावहारिकभेदपरत्वमभ्युपेत्यापि पूर्वपक्षी समादध्याद्विदध्याद्वाऽन्योऽन्तरात्मेत्या-दावनैकान्त्यमुद्भाव्य परपदस्य बह्वर्थत्वेनानिर्धारितेदमर्थतां चोपपाद्य किञ्चित्प्रयत्नाभिमुखमुक्तमनुक्तप्रायं भवेदिति मन्वानस्तन्वानोऽन्यादिपदस्येतरानवकाशेन मुख्यभेदपरत्वव्यवस्थामर्थत आनन्दतीर्थमुनिरनूद्य प्रमाणेनैव विवृणोति ॥ ओतं प्रोतं पटवदिति । पटेन तुल्यं वर्तत इति तत्तथा तेन तुल्यं क्रिया चेद्वतिरिति स्मरणात् । तथा तत्र सूत्रे सूत्र इत्यपि क्वचित्पाठः स च सरलः । कन्थापटाः प्रावरणविशेषाः । ‘‘कन्था प्रावरणान्तरः’’ इति विश्वः । ओता दीर्घाकाराः प्रोतास्तिर्यगाकारास्तेन पृथक् स्थितेन सूत्रेणात्यन्तभिन्नाः सन्त्येवं तथा विष्णौ भगवतीदं विश्वं जगत् । जगदिति वचने सङ्कोचेन कस्यचित्त्यागः सम्भाव्येत तत्पराकृत्यै विश्वमित्युक्तम् । तच्च तन्त्रेण जगद्वाचकं सामस्त्यस्येति न तत्सम्भावनावसर इत्यवसेयम् । अनेन पटस्य समस्ततन्त्वभिन्नत्वात्कथं तद्दृष्टान्तीकरणमिति शङ्का परास्ता । स्कान्द इति वदन्निश्चितप्रामाण्यमित्युदाहरणीयतां द्योतयति । एवं पूर्वत्रोत्तरत्र च प्रमाणनामग्रहणकृत्यमवधेयम् ॥

ततश्चायं श्लोकार्थः ॥ मदन्य इति पदमेकमनेकं च । अन्यो भिन्नो जगतश्चेतनमात्रस्य तस्थुषः स्थावरस्य पर उत्तमः । कुत उत्तम इत्यत आह ॥ ओतमिति । यत्रोत्तमे पटवत्कन्थापटवद्विश्वमोतं दीर्घतया प्रोतं तिरश्चीनतया च तन्त्वाधारत्वेन कन्थापटः सूत्रे स्थितस्तथौतं प्रोतमाश्रित्य वर्तत इत्यर्थः । ‘‘यस्मिन्निदं सं च विचैधि सर्वम्’’ इत्यादेः । भर्ता सन्नित्यादेर्धर्ता च स एव । परत्वमव्यभिचारी-त्याह ॥ यदंशत इति । यद्यस्मादस्यांशतोऽभिन्नान्मत्स्यादेर्भिन्नाद् ब्रह्मादेः स्थितिजन्मनाशा मुख्यतयाऽमुख्यतया च भवन्तीति शेषः । ‘‘यतो वा इमानि भूतानि जायन्ते’’ । ‘‘स ब्रह्मणा विसृजति स रुद्रेण विलापयत्यंशा एव हीमे जीवा’’ इत्यादेः । ‘‘अंशा हीम’’ इत्यारभ्य ‘‘न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः’’ इति चेत्यन्तब्रह्मसूत्रभाष्यादंशद्वैविध्यं बोध्यम् । लोकाभिन्नांश-त्वेनोक्तहिरण्यगर्भादयो हरिपाराङ्मुख्ये मुख्या अपि पशुप्राया इत्यभिप्रायेणानुरूपं दृष्टान्तमाचष्टे । नसीति ॥ नसि नासिकाधिकरणे । ओतवदित्यत्र वतिप्रत्ययात्पूर्वं प्रकृतेः परतो गोशब्दमध्याहृत्य योजनीयः । ततश्चौतगववदिति पदनिष्पत्तिर्भवति । नसि रज्जुसमासज्जना गाव इवेति तदर्थः । न च गोपदस्याध्याहृतस्य प्रकृतिप्रत्ययान्तर्निवेशः कथं क्वाप्येतत्सदृशस्यादृष्टेरिति वाच्यम् । यथार्थज्ञानजनका यथार्था युक्तयः स्मृता इत्यनुव्याख्याव्याख्यायुक्त्यादय इत्यर्थ इति सुधाव्याख्याने ‘‘बहुवचनमाद्यर्थ इति । आदिशब्दार्थे बहुवचनं ज्ञापकमित्यर्थः । तेन फणां च सप्तानामित्यादाविव युक्तय इत्यत्र प्रकृतिप्रत्ययोर्मध्ये यत्रानवसरोऽन्यत्र न्यायेनादिपदमध्याहार्यमिति भावेनाह ॥ युक्त्यादय इत्यर्थ इति । तथा च युक्तिश्चादी च युक्त्यादय इति बहुवचनोपपत्तिरिति भावः’’ इति परिमले सुमिलः प्रयोग इति काऽत्र कथन्ता । न च तत्र बहुवचनमिवात्र ज्ञापकाभावान्न साम्यमिति शङ्क्यम् । ओतमिति विशेषणनैरर्थक्यस्यैवात्रैतद्गमकत्ववदुत्तरत्रात्र स्थानान्तरे च गोपदसमभिव्याहारनैय्यत्यस्यापि गमकत्वा-न्नानुपपत्तिरिति केचित् । ओतपदमेव लक्षणयौतगवपरमिति वा । नासिकारज्जुसमासज्जनेन जनानां वशा यथा गावो भवन्ति तथा लोकाश्चास्य वशे भवन्तीति वा । सर्वान्य इति वक्तव्ये भटैः परत्वस्य स्वमात्रपर्यवसानं कृतमिति मदन्य इति प्रागुत्तरत्र चास्य वशे च लोका इति वदन्निदमस्मत्पदमुपलक्षकं ततोऽप्युत्तरत्राप्यन्यान्यत्वस्फोरकविरुद्धधर्माणां बहूनामुपन्यसनाच्च न मन्मात्रपरमित्यभिप्रैति प्रेतपरमिति मन्तव्यम् ॥ १२ ॥

चट्टी

यदुक्तं त्वमेक एव शास्तेति तदयुक्तमित्याह ॥ पर इति । मत्तोऽन्यो जगतो जङ्गमस्य तस्थुषः स्थावरस्य च पर ईश्वरोऽस्ति । अहं तु जङ्गमानामेवेति । तत्रापि नृणामेव तत्रापि पापिनामेव तत्किङ्करः सन् ईश्वरो न तु सर्वेश्वरः । कोऽसावित्यतस्तस्य लक्षणान्याह ॥ ओतमिति । यत्र यस्मिन्नाधारभूते विश्वं जगत् । ओतं प्रोतं च दीर्घात्मना तिर्यगात्मना चावस्थितम् । तत्र दृष्टान्तः ॥ पटवदिति । यथा कन्थाऽवयवाः खण्डपटा आधारभूते सूत्रे ओतप्रोतत्वेन संस्थितास्तद्वदित्यर्थः । एतेनोपादानोपादेयभावापन्नतन्तुपटदृष्टान्तोपादानेन जगद्ब्रह्मणोरुपादानोपादेयभाव इति शङ्का परास्ता । कन्थापटानां सूत्रस्य चात्यन्तभेदात् ॥ तदुक्तं ‘‘यथा कंथापटाः सूत्रे ओताः प्रोताश्च संस्थिताः । एवं विष्णाविदं विश्वमोतं प्रोतं च संस्थितम्’’ इति स्कान्दे । किञ्च यस्यांशतः स्वरूपांशेभ्यो विष्णु-ब्रह्मरुद्राख्येभ्यः । अस्य जगतः स्थित्यादयो भवन्ति ॥ तदुक्तं ‘‘ब्रह्मविष्ण्वीशरूपाणि त्रीणि विष्णो-र्महात्मनः ॥ ब्रह्मणिस्थः सृजेद्विष्णुः स्थित्वा रुद्रे त्वभक्षयत् ॥ पृथक् स्थित्वा जगत्पाति तद्ब्रह्माद्याह्वयो हरिः ॥ स्रष्टा पाता च संहर्ता स एको हरिरीश्वरः ॥ स्रष्टृत्वादिकमन्येषां दारुयोषावदिष्यते’’ ॥ इति च । किञ्च यस्य वशे लोको वर्तते । तत्र दृष्टान्तः ॥ नसीति । नसि नासिकायां प्रोतबलीवर्दवदित्यर्थः ॥ १२ ॥

यो नामभिर्वाचि जनं निजायां बध्नाति तन्त्यामिव दामभिर्गाः ।

यस्मै बलिं त इमे नामकर्मभिर्निबन्धबद्धाश्चकिता वहन्ति ॥ १३ ॥

पदरत्नावली

हरेः शास्तृत्वं नाम दण्डधरस्य दण्डेनेव न । किन्तु वेदलक्षणया वाचा इत्याह– य इति ॥ य ईशः निजायां स्वस्मादभिव्यक्तायां वाचि वेदलक्षणायां नामभिर्ब्रह्मादिलक्षणैर्बध्नाति । ‘निजमात्मीयनित्ययोः’ इत्यभिधानम् । बन्धनेन किं प्रयोजनम् ? अत्राह– यस्मा इति ॥ नामकर्मणामानन्त्यप्रकटनाय बहुवचनम् । अन्यथा नामकर्मभ्यामित्यलम् । दृढं बन्धो निर्बन्धः, तेन बद्धाः ॥ १३ ॥

सत्यधर्म

योऽनामभिः सहितं तद्रहितं जनं निजायां स्वसम्बन्धिन्याम् । निजमात्मीय-नित्ययोरित्यभिधानात् । ‘‘ऋचः सऋच उद्धृत्य’’ इत्यादेः । ‘‘अखिला वेदा उद्गीर्यन्त’’ इत्यादेश्च । न जायत इति निजा वा तस्यां नित्यायां वाचि वेदरूपिण्यां तन्त्यां दामभिर्गाव इव बघ्नाति । यस्मै ते कार्यकारित्वेन प्रसिद्धा इमे वक्ष्यमाणत्वेन बुद्धिसन्निहिता ब्रह्माद्या नामकर्मभिर्नामभिर्ब्रह्मेत्यादिभिः कर्मभिः स्वस्वक्रियाभिर्निबन्धोऽयमेतन्नामाऽयमेतत्कर्मा भवत्विति नियमस्तेन बद्धाश्चकिता भीताः । भीषास्माद्वातः पवत इत्यादेः । बलिं पूजोपहारम् । ‘‘बलिः करपूजोपहारयोः’’ इति विश्वः । अथवा नामभिरिति पदं पूर्वतोऽत्रान्वेतुं योग्यमित्यत्र नामेति भिन्नं पदम् । नामभिः कर्मभिश्च निबन्धा बद्धा बलिं वहन्ति । नाम प्रसिद्धमिति वा । निबन्धेन विधिनिषेधकसमयेनेति वा । स मदन्यः पर इत्यन्वयः। जनमिति वचनानुसारेण यमित्युत्तरत्रोक्त्या पूर्तावपि यद् इमे इति जगाद न तेन स्वतन्त्रतया प्रतीता अपि न पर इति भावमाविश्चकारेति ज्ञेयम् ॥ १३ ॥

चट्टी

एतदेव प्रपञ्चयति ॥ य इति । यो निजायां स्वाज्ञारूपायाम् । वाचि विधिनिषेधात्मक-वेदवाग्रूपायां तन्त्यां दामन्यां नामभिर्ब्राह्मणादिनामलक्षणैर्दामभिरवान्तरपाशैर्गोस्वामी गा इव जनं बध्नाति । त इमे जीवा नामकर्मभिः । नामभिर्ब्राह्मणादिभिः कर्मभिः शमादिभिः । निबन्धैर्दष्टबन्ध-साधनैर्बद्धाश्चकिता भीताः सन्तो यस्मै बलिं वहन्ति । गाव इव गोस्वामिने यदधीनाः कर्म कुर्वति । ‘‘भीषास्माद्वातः पवते’’ इत्यादिश्रुतेरित्यर्थः ॥ १३ ॥

अहं महेन्द्रो निर्ऋतिः प्रचेताः सोमोऽग्निरीशः पवनोऽर्को विरिञ्चः ।

आदित्यविश्वेवसवोऽथ साध्या मरुद्गणा रुद्रगणाः ससिद्धाः ॥ १४ ॥

पदरत्नावली

लोकतः सर्वज्ञानामस्माकं स्वविषयज्ञानजनकत्वमाहात्म्यं च श्रीहरिलक्षण-मित्याह– अहमित्यादिना ॥ १४ ॥

सत्यधर्म

यदि स्वामिन् तवेयती संवित्सीमा तर्हि पूर्वमेव वयं तं समानेतुं नाज्ञाप्यास्तथा चैवं मानहानिर्नानुभूता स्यादित्यतो न वयं साकल्येन तदभिज्ञा इति स्वोत्तमान् गृह्णानः कैमुत्येनाह ॥ अहमिति । पुर इव पुरस्करणं स्वस्यावसेयम् । समेषामज्ञत्वसाम्यादतरतमभावेन सङ्ग्रहः । प्रचेता वरुण ईशः शिवोऽर्कः सूर्य आदित्यास्तद्गणा देवा वा । आदित्याश्च विश्वे च वसवश्च ते । एदन्तो विश्वे इति शब्दः प्रथमाया अलुग्वा । आदित्यविश्वे इति भिन्नपदं वा । विभाषा जसीत्युक्तेः सर्वनामत्वाज्जसः शीति शीभावः । ‘‘वसवश्चाष्टसङ्ख्याता रुद्राश्चैकादश स्मृताः’’ इति मानोक्ता गणदेवताः । क्वचिद्विश्ववसव इति पाठः । तत्रासंज्ञत्वान्न विश्वस्य वसुराटोरिति दीर्घः । सिद्धैर्देवयोनिभिः सहिता मरुद्गणा एकोनपञ्चाशत्सङ्ख्याः ॥ १४ ॥

चट्टी

तस्य च लीला दुर्विभाव्येत्यत आह ॥ अहमिति द्वाभ्याम् ॥ १४ ॥

अन्ये च ये विश्वसृजोऽमरेशा भृग्वादयोऽस्पृष्टरजस्तमस्काः ।

यस्येहितं न विदुः स्पृष्टमायाः सत्त्वप्रधाना अपि किं ततोऽन्ये ॥ १५ ॥

पदरत्नावली

न स्पृष्टा रजस्तमोभ्यामस्पृष्टरजस्तमस्काः शुद्धसात्विका इत्यर्थः । ततो भृग्वादिभ्यो अन्ये मन्वादयः । सत्त्वप्रधाना इत्यनेन सत्त्वं प्रचुरम्, अन्ये रजस्तमसी च किञ्चित् स्त इति ज्ञायते । कुत इत्यत उक्तम्– स्पृष्टेति ॥ ईहितमिच्छाविषयमभिप्रायम् ॥ १५ ॥

सत्यधर्म

विश्वसृजः प्रजासर्जकाः कश्यपाद्या भृग्वादय इति येऽन्ये यस्य हरेरीहितं चेष्टितं न विदुस्तत एतेभ्योऽन्ये न विदुरिति किं वक्तव्यमित्यर्थः । को विशेषस्तेषामेषां चेत्यत आह । अस्पृष्ट-रजस्तमस्का अस्पृष्टा ईषत्स्पृष्टा रजस्तमस्का अत एव सत्त्वप्रधाना अपीति स्पृष्टमायाः सत्त्वा-प्राचुर्येतरप्राचुर्यप्रापकप्रकृतिसम्पर्किनोऽन्ये । यद्वा सर्वेऽपि स्पृष्टमाया भगवदिच्छाच्छादिताः । महा-मायेत्यविद्येति तवेच्छाऽनन्त कथ्यते इत्यादेः । तत्तद्योग्यतानुसार्याच्छादनक्रमेण ज्ञानक्रमो ज्ञेयः ॥१५॥

चट्टी

अस्पष्टं रजस्तमश्च यैस्ते तथा । सत्वप्रधानाः सात्विका अपि । ईहितमभिलाषितं चेष्टितं वा न विदुः । तत्र हेतुः ॥ स्पृष्टमायाः । मायास्पृष्टा भगवदिच्छावृता इति ततस्तेभ्योऽन्ये न विदुरिति किं पुनर्वक्तव्यमित्यर्थः ॥ १५ ॥

यं वै न गोभिर्मनसाऽसुभिर्वा हृदा गिरा वाऽसुभृतो विचक्षते ।

आत्मानमन्तर्हृदि सन्तमात्मनां चक्षुर्यथैवाकृतयस्ततः परम् ॥ १६ ॥

पदरत्नावली

तत्प्रसादमन्तरेणादृष्टलक्ष्यवेधवच्चक्षुरादिन्द्रियाविषयत्वेन तद्विषयं ज्ञानं दुष्कर-मित्याह– यं वा इति ॥ गोभिश् चक्षुरादिन्द्रियैः । असुभृतो जीवाः । आत्मनां जीवानामत्मा-नमन्तर्यामिणम् । स्वरूपान्तरं चाह– अन्तर्हृदि सन्तमिति ॥ अथवाऽऽत्मनामन्तर्हृदि सन्तम् । आकृतयो रूपाणि । स्वप्रकाशं चक्षुरिन्द्रियम् । अनेन निकटवर्तिनां चक्षुरादीन्द्रियाभिमानिनां देवानामपि तद्विषयज्ञानाभाव उक्त इति ज्ञातव्यम् । स्वरूपत्वेन नाकृतयः पश्यन्तीति चेत् तत्राह– तत इति ॥ तत आकृतिभ्यः परं विलक्षणं भिन्नमित्यर्थः । इदमपि हरिलक्षणम् । स पर इति पूर्वेणान्वयः

॥ १६ ॥

सत्यधर्म

यं गोभिरिति सामान्यत इन्द्रियोक्तिरिन्द्रियैः । नेन्द्रियाणीति श्रुतेः । तद्विविच्योचे । मनसा । यन्मनसा न मनुत इत्यादेः । असुभिः प्राणैः । हृदेति पुनर्वचः पूर्ववत् । गिरा । ‘‘यद्वाचाऽनभ्युदितं’’ ‘‘यतो वाचो निवर्तन्ते’’ इत्यादेः । असुभृतोऽसून्बिभ्रतीति ते तथा न विचक्षते न विपश्यन्ति । दूरे वसतो न निरीक्षणं सम्भावितमित्यत आह ॥ हृदीति । तत्राप्यन्तः कमल-कर्णिकायां सन्तमात्मानमन्तर्यामिणम् । ततो गवादेः परं विलक्षणं साकल्येनाविषयम् । आकृतयो रूपाणि । आकृतिः कथितारूप इति विश्वः । चक्षुश्चक्षुरिन्द्रियं कर्म यथा न विचक्षते । ग्राह्यग्राहकयोः सन्निकर्षेऽपि निष्कर्षोऽयं ग्राहक एवायं तद्ग्राह्य इति चक्षुर्नाकृतिग्राह्यमित्यर्थः । ‘‘द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया’’ इत्यादेर्भगवतोऽनुग्रहाभावे न किञ्चिदप्युदञ्चयितुं समर्था इति द्योतयन्तीति निदर्शनेनेति ज्ञेयम् ॥ १६ ॥

चट्टी

भगवन्मायामोहितबुद्धित्वान्न जानन्तीत्युक्तम् । इदानीं तस्य करणाविषयत्वाच्च न विदुरित्याह ॥ यमिति । असुभृतः प्राणिनो ‘‘गोभिश्चक्षुरिन्द्रियैर्मनसा बुध्द्याख्येन्द्रियेण । आत्मा मनश्चिन्तनं च शेमुषी बुद्धिरित्यपि । एकार्थवाचिका’’ इत्यभिधानात् । हृदा मनइन्द्रियेण । ‘‘स्वान्तं हृन्मानसं मन’’ इत्यभिधानात् । गिरा वागिन्द्रियेण । असुभिः प्राणैरितरेन्द्रियैः । सप्तप्राणस्त्वगतेः पञ्चप्राणाश्च कर्मणः । एवं प्राणद्वादशकं मनोबुद्धी तु द्वादशेति वचनात् । यं न विचक्षते न विजानन्ति । दूरस्थत्वात्किं नेत्याह ॥ आत्मानमिति । आत्मनां सर्वप्राणिनाम् अन्तर्हृदि नियमाकत्वेन वर्तमानम् ॥ यद्वा आत्मानं सर्वद्रष्टारम् । अन्येषां स्वविषयकज्ञानाभावेऽपि स्वयं सर्वं पश्यतीत्यर्थः । तर्हि कुतो न जानन्तीत्यत आह ॥ तत इति । तत इन्द्रियेभ्यः परमिन्द्रियाविषयम् । ‘‘यतो वाचो निवर्तन्ते । यद्वाचानभ्युदितम्’’ इत्यादिश्रुतेरित्यर्थः । तत्र दृष्टान्तमाह ॥ चक्षुरिति ॥ तस्य चक्षुर्विषय-त्वात् । ननु रूपं चक्षुः प्रकाशयति । चक्षुषो रूपं प्रति विषयत्वाभावात् । एवमेव भगवन्त-मविषयीकुर्वाणैश्चक्षुरादीन्द्रियैः सर्वेऽपि न जानन्ति भगवानेव सर्वं जानातीति भावः ॥ यद्वा जीवानां भगवद्विषयकज्ञानाभावे तमेवं विद्वानित्यादिश्रुतिविरोधः स्यादित्यत आह– यमिति ॥ गोभिरिन्द्रियाभिमानिभिरिन्द्राद्यैः । ‘‘इन्द्राद्या इन्द्रियात्मान’’ इत्युक्तेः । मनसा चन्द्रेण । ‘‘मनश्चन्द्रः प्रकीर्तित’’ इत्युक्तेः । असुभिर्मृख्यप्राणादिमरुद्भिः । ‘‘मरुतः प्राणमानिन’’ इत्युक्तेः । हृदाऽन्तः-करणाभिमानिना रुद्रेण ‘‘रुद्रोऽन्तःकरणात्मक’’ इत्युक्तेः । गिरा वेदाभिमानिन्या लक्ष्म्या सरस्वत्या च । वागाभिमानिन्या पार्वत्या च । उमैव वाक्समुद्दिष्टेत्यर्थः । सर्वज्ञत्वेन प्रसिद्धैरेतैः सहिता असुभृतः सर्वे जीवा यं न विचक्षते विशेषतो न जानन्ति । तत्र हेतुस्तत उक्तचेतनराशेः परो विलक्षणः । अलौकिकत्वादित्यर्थः । तत्र दृष्टान्तः । आकृतयः । रूपाभिमानिरुद्रपुत्रो व्यानस्ततो व्यानात्पर-मधिकमहिमोपेतं चक्षुस्तदभिमानिनं सूर्यं न वेद । तद्वदित्यर्थः । साकल्येन भगवद्विषयकज्ञानाभावेऽपि तदनुग्रहेण स्वयोग्यतया जानन्तीति न श्रुतिविरोध इति भावः । तथा चोक्तं ‘‘ब्रह्माद्या यं न जानन्ति करणाद्यभिमानिनः । जानन्त्यनुग्रहाच्चास्य प्रधानाग्निं यथाऽर्चिषः ॥ अग्निपुत्र नमस्तस्मै यमाह श्रीश्च न स्फुटम् । वेदरूपा परं देवं वैलक्षण्यात्समस्तशः ॥ आनन्दो नेदृशानन्दो इत्युक्तेर् लोकतः परम् । प्रतिभाति न चाभाति यथावद्दर्शनं विना’’ इति ब्रह्मतर्के । एवंभूतः परमेश्वरो मदन्योऽस्तीति पूर्वेणान्वयः

॥ १६ ॥

तस्यात्मतन्त्रस्य हरेरधीशितुः परस्य मायाधिपतेर्महात्मनः ।

प्रायेण दूता इह वै मनोहराश्चरन्ति तद्रूपगुणस्वभावाः ॥ १७ ॥

पदरत्नावली

तांस्तु वेदितुमिच्छाम इत्यस्योत्तरमाह– तस्येति ॥ मायाधिपतेर् लक्ष्मीपतेः । आत्मतन्त्रत्वलक्ष्मीपतित्वे पूर्वोक्तलक्षणसाधके इति ज्ञातव्यम् । प्रायेणेति कथितार्थनिर्धारणाय । तस्य हरेः रूपं श्यामवर्णं गुणा विप्रप्रियत्वादयः स्वभावो नित्यनिर्दोषत्वं येषां ते तथा ॥ १७ ॥

सत्यधर्म

तांस्ते वेदितुमिच्छाम इत्युत्तरयति ॥ तस्येत्यादिना । आत्मतन्त्रस्याधीशितुः परस्य महात्मन इत्येकैकदूतमुद्दिश्य पृथक् पृथगुक्तमिति न कृत्यविवेचनेन चित्तचाञ्चल्यं सम्पादनीयम् । मायाधिपते रमारमणस्य दूता इह मह्यां चरन्ति । मनोहरा आकारतः प्रायेण तद्रूपगुणस्वभावास्तस्य रूपं चतुर्भुजत्वादिर्गुणा ज्ञानादयः स्वभावो भक्तप्रियत्वादिरिति येषां ते तथा । प्रायेणेत्यनेन तद्गुणादि-प्रतिबिम्बतया सारूप्यं रूपादिकस्य सूचयति । ‘‘प्रायस्तुल्यबाहुल्ययोरपि’’ इति विश्वः । प्रायेण चरन्तीत्यन्वयो वा ॥ १७ ॥

चट्टी

भवत्वेवम्भूतः परमेश्वरो ये पुनरस्मान्निर्भर्त्स्य पापिनं रक्षितवन्तस्ते क इत्यतस्तानाह ॥ तस्येति द्वाभ्याम् । तद्रूपगुणस्वभावास्तस्य हरेरिव रूपं श्यामवर्णादि, गुणाः प्रभावादयः स्वभावश्च भक्तवात्सल्यादिश्च येषां ते तथा । अत एव मनोहराः श्रीहरेर्दूताश्चरन्तीत्यन्वयः । आत्मतन्त्रस्य स्वतन्त्रस्याधीशितुः पूर्णैश्वर्यस्य । परस्य निर्दोषगुणपूर्णस्य मायाधिपतेर्लक्ष्मीपतेः ॥ १७ ॥

भूतानि विष्णोः सुरपूजितानि दुर्दर्शलिङ्गानि महाद्भुतानि ।

रक्षन्ति तद्भक्तिमतः परेभ्यो मत्तश्च मर्त्यानथ सर्वतश्च ॥ १८ ॥

पदरत्नावली

तेषां किं कृत्यमिहेति तत्राह– भूतानीति ॥ विष्णोर्भूतानि पार्षदाः । दुर्दर्शलिङ्गानि दर्शनायोग्यलक्षणानि । तद्भक्तिमतः विष्णुभक्तिमतः ॥ १८ ॥

सत्यधर्म

न चैतत्काकतालीयं तदागमनमिति मनुतेति दूतानभिधत्ते ॥ भूतानीति । विष्णोर्भूतानि दूतभूतानि प्राणिनः सुरपूजितान्यमरसमञ्चितानि महाद्भुतान्यत्याश्चर्यरूपाणि । यर्हि ते सर्वदा सर्वत्र चरन्ति तर्हि कुतो न लोकैर्विलोक्यन्त इत्यतो न वणिग्वीथ्यां त उपलभ्यन्त इत्याहुः ॥ दुर्दर्शलिङ्गानीति । अपुण्यवददर्शनीयचिन्हानि तद्भक्तिमतो मर्त्यान् मत्तः परेभ्यो मदन्येभ्य इति सर्वतश्च । अथ कृतसुकृताविर्भावानन्तरं रक्षन्ति । यस्तद्भक्तिमतस्तस्मिन्भक्तिर्यस्य स इति मतः सम्मतः स मत्तश्चेदपि सर्वतोऽपि रक्षति । अथानन्तरं परेभ्य इतरेभ्यो मर्त्यान्मर्त्याननयति चेष्टयति नियमयतीति यावत् । मर्त्यान् णिलोपस्य स्थानिवद्भावेन न लोपाभावः । छान्दोग्योपनिषद्भाष्ये तज्जलानित्ये-तद्व्याख्यानावसरे योऽसौ जलेऽनितीत्याचार्योक्तेः पुरुनियामको राजा भवतीति शेषः । यमवादानुवादे मदिति मात्रे उच्चारितलाघवमर्थपूर्तिश्च भवतस्तत्र धियमनाधाय निधाय मत्त इति पदमिदमर्थभूमिकां सूचयामास व्यास इत्यवसेयम् । परेषामिभ्य आढ््यः सन्मर्त्यानिति वा । ‘‘इभ्य आढ्य’’ इति विश्वः । परमत्यन्तमिभ्य इति वा । यद्वा सर्वतो हिंसातः । अर्वषर्वहिंसायामिति धातुव्याख्यानात् ॥ १८ ॥

चट्टी

श्रीविष्णोर्भूतानि भृत्याः । दुर्दर्शानि द्रष्टुमशक्यानि लिङ्गानि रूपाणि येषां तानि तद्भक्ति-मतः श्रीविष्णुभक्तान् परेभ्यः शत्रुभ्यः । परोऽरिपरमात्मनोरित्यभिधानात् । सर्वतोऽग्न्यादिभिश्च रक्षतीत्यर्थः ॥ १८ ॥

धर्मं तु साक्षाद् भगवत्प्रणीतं न वै विदुर्ऋषयो नापि देवाः ।

न सिद्धमुख्या असुरा मनुष्याः कुतो नु विद्याधरचारणादयः ॥ १९ ॥

पदरत्नावली

विष्णुदूताश्चेत् तर्हि पातकिनं किमित्युदमूमुचन्निति तत्राह– धर्मं त्विति ॥ तुशब्दात् सूक्ष्मज्ञानं युष्माकं नास्तीत्याह ॥ १९ ॥

सत्यधर्म

हरिपरिचरश्चेच्चेतःपूर्वकं गरिष्ठदुरिष्ठं कथममूमुचदमोचयन्नित्यतो धर्ममर्म सूक्ष्मतरं तत्रैतादृशनिर्दृशा शां का दशा युष्माकमिति कांश्चित्सङ्गृह्णाति ॥ धर्ममिति । साक्षाद्भगवत्प्रणीतं धर्मं देवाः सिद्धमुख्या ऋषयो विद्याधरचारणादयोऽसुरा अपि न विदुः कुतो मनुष्या न विदुरिति वक्तव्यं कैमुत्यत एव सिद्धेर्न वक्तव्यमिति भावः ॥ १९ ॥

चट्टी

ननु श्रीविष्णुभक्ताश्चैते कथमधर्मिपक्षपातं कृतवन्तस्तत्राह ॥ धर्मं त्विति ॥ १९ ॥

स्वयम्भूर्नारदः शम्भुः कुमारः कपिलो मनुः१ ।

प्रह्लादो जनको भीष्मो बलिर्वैयासकिर्वयम् ॥ २० ॥

पदरत्नावली

तर्हि के विदुरिति तत्राह– स्वयम्भूरिति ॥ २० ॥

सत्यधर्म

तर्हि सर्वाविदितश्चेद्धर्मः शशशृङ्गसदृशः स्यादित्यतस्तद्विपश्चितोऽपि कांश्चिदन्वाचि-नोति ॥ स्वयम्भूरिति । स्वयं भगवान्भू रमा । अयमान्तरङ्गिको भाव इति न द्वादशेति मुद्रणं विरुण-द्धीति ध्येयम् । अथवाऽनीशकोटिनिवेशपरा द्वादशेति मुद्रेति साऽपि स्थूलदृश्वनां प्रदर्शनार्थ-मधिकारिणामधिकानां भावस्य सर्वाङ्गीकरणीयत्वात् । अन्यथा ‘‘येऽन्ये विभीषणहनूमदुपेन्द्रदत्ताः पार्थार्ष्णिषेणविदुरश्रुतसेनभूपाः’’ इत्यादिबहुमानावमानप्रसङ्गादिति लक्षणीयम् । स्वयम्भूर्ब्रह्मा कुमारः सनत्कुमारः कपिलः कश्चन सन् भागवतेऽर्थे भगवानृषिकोटिनिवेशात्स्वयंपदोदितभगवतः पृथगुक्तिरिति ज्ञेयम् । द्वितीयपक्षस्तु सुनायासः । मनुः स्वायम्भुवः । वैयासकिः । इञ् अकङादेशश्च । नय्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैजित्यैच् । व्यासवरुडेत्यादिवार्तिकोक्त्या शुकः । वयमस्मदाद्वयोश्चेति वयमिति सम्भवति ॥ २० ॥

चट्टी

ननु तेऽपि चेन्न जानन्ति तस्य सत्वे किं प्रमाणमिति तत्राह ॥ स्वयम्भूरिति । कुमारः सनत्कुमारो मनुः स्वायम्भुवो वैय्यासकिः श्रीशुकः । वयमित्यात्मानमेव बहुमन्यमानो निर्दिशति । न तु भटसाहित्येन बहुवचनम् ॥ २० ॥

द्वादशैते विजानीमो धर्मं भागवतं भटाः ।

गुह्यं विशुद्धं दुर्बोधं यज्ज्ञात्वाऽमृतमश्नुते ॥ २१ ॥

सत्यधर्म

गुह्यं गोप्यं दुर्बोधं विना श्रीनाथानुग्रहं विशुद्धं विशिष्टं शुद्धेभ्य इति विशुद्धं यं ज्ञात्वाऽमृतं मोक्षमश्नुते जनस्तं भागवतं धर्मं द्वादशैते विजानीमः । एते द्वादश सूर्या इति वा सूर्योऽग्निरिति पूर्वोक्तेः । स्वपितृत्वं तत्राविशेषितमिति द्वादशेत्युक्तिः । एते द्वादश वयं च विजानीम इत्यन्वयः । गुरुत्वान्न नामग्रहः । नेदं मुद्रणमेतत्पक्ष इति मन्तव्यम् ॥ २१ ॥

चट्टी

हे भटाः ॥ २१ ॥

एतावानेव लोकेऽस्मिन् पुंसां धर्मः परः स्मृतः ।

भक्तियोगो भगवति तन्नामग्रहणादिभिः ॥ २२ ॥

पदरत्नावली

किञ्च धर्मस्वरूपं निवेदयतु भवानित्याशङ्क्य उत्तमं धर्मं वदामीत्याभिप्रायेणाह– एतावानिति ॥ तस्य हरेर्नामग्रहणादिभिर् भगवति यो भक्तियोग एतावान् पर उत्तमो धर्मः स्मृत इत्यन्वयः । ‘एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः’ इति स्मृतियुक्तम् ॥ २२ ॥

सत्यधर्म

धर्माणां मध्ये श्रेयान्यो धर्मः स एवानेनाचरितोऽतो दूतैरुक्तं युक्तमिति जातं यदिदानीं तज्जातमग्रे वा जाग्रद्भिर्भवद्भिर्भवितव्यमिति स्थलास्थले विविच्य गन्तव्यमिति कैश्चिदपि श्लोकैः स्वकानन्वशासद्यम इत्याह ॥ एतावानित्यादिना । पुंसामित्युक्तगतिकं बहुवचनमाद्यर्थे वा । पुमादिमानां तन्नामग्रहणादिभिर्भगवति भक्तियोगो भक्तेर्योजनमित्येतावान्परमो धर्मः । स्मृत इत्यनेन ‘‘एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः’’ इत्यादिसमानकतामाहैतत्प्रमेयस्येति मेयम् ॥ २२ ॥

चट्टी

तमेव धर्ममाह ॥ एतावानिति । तस्य हरेर्नामग्रहणादिभिर्भगवति भक्तियोग एतावान्पर उत्तमो धर्मः । ‘‘एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः । यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा’’ ॥ इत्युक्तेरित्यर्थः ॥ २२ ॥

नामोच्चारणमाहात्म्यं हरेः पश्यत पुत्रकाः ।

अजामिलोऽपि येनैव मृत्युपाशादमुच्यत ॥ २३ ॥

सत्यधर्म

इहेयताऽनेहसा सहवासे मयेयान्न ज्ञातो धर्मो भवद्भिरिति क्रमात्पुत्रेत्यनेन कप्रत्ययेन च लालनहेलने चकारेति ज्ञेयम् । अपिना तस्यानेतदर्हतां सूचयति ॥ २३ ॥

चट्टी

न चात्र प्रमाणं वक्तव्यम् । दृष्टत्वादित्याह ॥ नामोच्चारणेति । भक्तिपूर्वकनामो-च्चारणमाहात्म्यमित्यर्थः । येनैव सहायान्तरमन्तरेण भक्तिपूर्वकनामोच्चारणेनेत्यर्थः ॥ २३ ॥

एतावताऽलमघनिर्हरणाय पुंसां

सङ्कीर्तनं भगवतो गुणकर्मनाम्नाम् ।

विक्रुश्य पुत्रमघवान् यदजामिलोऽपि

नारायणेति म्रियमाण इयाय मुक्तिम् ॥ २४ ॥

पदरत्नावली

नारायणेत्यादिगुणनाम्नां मधुसूदनेत्यादिकर्मनाम्नां, गुणानां कर्मणां नाम्नां वा यत् सङ्कीर्तनम् एतावता पापनिर्हरणायालम् । साधनान्तरं नापेक्षितमित्यन्वयः । विक्रुश्य आहूय ॥ २४ ॥

सत्यधर्म

गुणकर्मनाम्नां ‘‘यच्छब्दा योगवृत्तयः’’ इति सङ्क्षेपे तथा भगवति विद्वद्रूढ्यैव सर्वशब्दवृत्त्यङ्गीकारात् ‘‘विद्वद्रूढिर्वैदिका स्यात्सा योगादेव लभ्यते’’ इत्यणुभाष्ये चोक्तेस्तत्रप्रसिद्धानां नारायणादिनाम्नामित्याद्याम्नानवद्विशेषकृत आनन्दो ब्रह्मेत्याद्युक्तानन्दादीनां गुणनामकत्वं कंसहिंसक इत्यादीनां कर्मशर्मत्वमिति व्यवहार इति ज्ञेयम् । यद्वा गुणकर्मनाम्नां सङ्कलय्य गुणकर्मोभयप्रयोजकानां नाम्नां कर्मणां नाम्नां गुणानां चेति वा । सङ्कीर्तनमित्येतावत्कृतेनाघहरणायालम् । मुक्तये चेत्युपलक्षणीयम् । उपैति मुक्तिमित्युक्तिस्वारस्यात् । यद्यतो नारायणेति पुत्रं विक्रुश्याघवान्म्रियमाणोऽ-जामिलोऽपि मुक्तिमुपैति । क्रियाप्रबन्धे लडित्युक्तेरुपैत्युपैदित्यर्थकं ज्ञेयम् । यावत्पुरा निपातयो-रित्यनुशासनात्पुराशब्दाध्याहारे लटो लङर्थकतेति वा ज्ञेयम् । ‘‘अपि माषं मषं कुर्याच्छन्दोभङ्गं न कारयेत्’’ इत्यादेस्तिम्रियेत्यत्र म्रौ सत्यपि तिर्लघुः पठनीयः ॥ २४ ॥

चट्टी

येनैवेत्युक्तं विवृणोति ॥ एतावतेति ॥ भगवतो गुणकर्मनाम्नां नारायणेत्यादिगुणनाम्नां मधुसूदनेत्यादिकर्मनाम्नां च गुणानां कर्मणां नाम्नां वा सङ्कीर्तनं सम्यक् भक्तिपूर्वकं कीर्तनं पुंसामघ-निर्हरणायालं पर्याप्तम् । ‘‘अलं भूषणपर्याप्तिशक्तिवारणवाचकम्’’ इत्यभिधानात् । ननु नैतावन्मुक्त्यर्थ-मपेक्षितम् । भक्त्याद्यभावेऽपि पुत्रोपचरितेन नामोच्चारणेनैवाजामिलस्य मुक्तिदर्शनादित्यत आह ॥ विक्रुश्येति ॥ यद्यस्मादघवानजामिलोऽपि म्रियमाणः सन् नारायणेति नाम्ना पुत्रं विक्रुश्याहूयानन्तर-मेवैतावता नामस्वामिस्मरणाभिव्यक्तभक्तिपूर्वककीर्तनेनैव मुक्तिमुपैत्यवाप । तस्मादिति पूर्वेणान्वयः ॥ यद्वा यच्छब्दः प्रश्नार्थे च क्वचिद्भवेत् । क्वचित्परामर्शवाची । क्वचिदाक्षेपवाचीत्यभिधानात् । ततोऽ-जामिलोऽपि पुत्रं विक्रुश्य मुक्तिमगाद्यत्, अगात्किं नैव । किन्तु एतावता प्रागुक्तभक्तिपूर्वकसङ्कीर्तने-नैवेत्यर्थः । यत्तु श्रीधरनामकौमुदीकाराभ्यामुक्तम् । अनेन श्लोकेन भक्तिरहितकीर्तनस्य कृत्स्नपापक्षय-हेतुत्वमेव समर्थ्यते । यदि पर्याप्तिवचनोऽयमलंशब्दस्तर्हि प्रथमाप्रयोगेन भवितव्यम् । अलं मल्लो मल्लायेतिवत् । इह तु तृतीयाप्रयोगो दृश्यते । अतो निवारणवचनोऽयम् अलमिति । प्रसङ्गेनेतिवत् । ततश्चायमर्थः । भगवद्गुणकर्मनाम्नाम् । सम्यक्कीर्तनमिति यावत् । पुंसामघनिर्हरणायैतावताल-मेतावन्नानुष्ठेयम् । पापक्षयमात्रस्यातितुच्छत्वात् । भगवत्कीर्तनस्यातिगरीयस्त्वात् । तदेव विवृणोति ॥ विक्रुश्येति ॥ आमरणमभ्यस्तमहापापोऽजामिलोऽपि नारायणेति विक्रुश्य न तु सम्यक्वीर्तयित्वा तच्च पुत्रं विक्रुश्य न तु श्रीहरिं कीर्तयित्वा तदपि न स्पष्टं म्रियमाणत्वेन शिथिलकरणत्वात् । तथाऽपि दैवगत्या तु पुत्रनाम्नो भगवन्नामत्वान्मुक्तिं समस्तानर्थनिवृत्तिलक्षणां निरतिशयानन्दरूपां च प्राप । नानर्थैकदेशस्य पापस्य निवृत्तिमात्रा । तत्रापि मुक्तिः किल बभूवेति । नैतन्मात्रं किंत्वधुनैव मुक्तिमुपैति । साङ्गुलि-निर्देशमभिधीयते । धर्मराजेन तत्समये तस्य जनस्य वर्तमानत्वाद्वेति । तदतितुच्छम् । नामाभासस्यैव कृत्स्नपापक्षयहेतुत्वाङ्गीकारे शरीरम्भककर्मणामपि नाशावश्यम्भावेनानादौ संसारे कदाचिन्नामाभास-मुच्चारयतां तत्सिद्धान्तानुवर्तिनां सर्वेषामपि सद्यो मरणापातात्सर्वपुराणेषु श्रद्धाभक्त्यावृत्त्यादेरपि विधानात्केवलनामकीर्तनेन सर्वपापक्षयायोगाच्च ।

तथाहि ‘‘सायंप्रातर्गृणन्भक्त्या दुःखग्राहाद्विमुच्यते इति । अनुदिनमिदमादरेण गृणन्निति । ‘‘श्रवणं कीर्तनं ध्यानं हरेरद्भुतकर्मणः । जन्मकर्मगुणानां च तदर्थोऽखिलचेष्टितम्’’ इत्याद्यस्मिन्नेव पुराणेषु पठ्यते । तत्र तत्र पुराणान्तरे च पापक्षयश्च भवति । स्मरतामहर्निशमित्यादि । अत्रैव च । ‘‘तस्मात्सङ्कीर्तनं विष्णोर्जगन्मङ्गलमंहसां महतामपि कौरव्य विध्येकान्तविनिष्कृतिम्’’ ॥ इत्यादिना सम्यक्कीर्तनादवगम्यते । किञ्च तथा सति किमिति मन्वादयो द्वादशाब्दानि प्रायश्चित्तानि स्मरेयुः । तेषामतिक्लेशसाध्यत्वात् । नामाभासस्य च सर्वसौलभ्यात् । न चावृत्तिः श्रद्धादिविधयः पापवासना-क्षयार्था इति वाच्यम् । तथात्वे वासनाक्षयार्थत्वेनापि भक्त्यादेरावश्यकत्वेन केवलकीर्तनस्य मुक्ति-साधनत्वप्रतिज्ञाव्याकोपात् । तस्माद्भक्तिपूर्वकमेव कीर्तनादिकमघहरम् । तथा चोक्तं– ‘‘सर्वपापहरं विष्णोर्नाम तद्भक्तिपूर्वकम् । अभक्त्योदाहृतं नैव फलदातृ भविष्यति ॥ नामस्वामितया तस्य स्मरणं जायते यतः । भक्तस्यातो नामकीर्तिः संकेतादावपीरिता । अजामिलोऽपि स्मरणाद्भक्त्या मृत्योर्विमुच्यते’’ ॥ इति नारदीये । न चालंशब्दस्य पर्याप्त्यर्थत्वे एतावतेति तृतीयानुपपत्तिरिति वाच्यम् । अस्यास्मदुक्तिप्रकारेणोत्तरार्धेनान्वयात् । न च व्यवधानेनान्वयदोषः । संनिधानापेक्षया योग्यतायाः प्रबलत्वात् ॥ उक्तं च व्यवधानेनान्वयोऽपि योग्यतापेक्षया भवेदिति ॥ २४ ॥

प्रायेण वेद तदिदं न महाजनोऽयं

देव्या विमोहितमतिर्बत माययाऽलम् ।

त्रय्यां जडीकृतमतिर्मधुपुष्पितायां

वैतानिके महति कर्मणि युज्यमानः ॥ २५ ॥

पदरत्नावली

देव्या बहुविधविलासोपेतया । मधुपुष्पितायां स्वर्गादिपुष्पप्रकाशिकायाम् । वैतानिके वेदविहिते, यज्ञसंबन्धिनि वा । युज्यमानः प्रेर्यमाणः ॥ २५ ॥

सत्यधर्म

यज्ञादिकृतोऽप्यज्ञा इत्याज्ञापयति ॥ प्रायेणेति ॥ महाजनस्तत्त्वेन ज्ञातो देव्या मायया वारणरूपिण्या हरीच्छया प्रकृत्या चालं विमोहितमतिरिति हेतोस्त्रय्यामाम्नाये जडीकृतमतिरितरत्रा-चलन्तीति जडीकृतमतिर्यस्य स तथा । मधुवन्मदप्रापिकां पुष्पं स्वर्गसुखम् । ‘‘यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः’’ इति गीताभाष्ये मोक्षमप्यपेक्ष्य स्वर्गादिपुष्पयुक्तामित्युक्तेः । पुष्पितेति तारकादि-तचि ज्ञेयम् । तत्प्रतिपादिकायाम् । वैतानिके वितानो हि यज्ञः । ‘‘वितानो यज्ञविस्तारः’’ इति विश्वः। तत्सम्बन्धिनि कर्मणि महति महायाससाध्ये । यद्वा वैतानिके यज्ञकर्मणि कर्मणि तद्भिन्ने क्रियान्तरे चेति वा । ‘‘वितानः क्रतुकर्मणि’’ इति विश्वः । मायया युज्यमानः प्रेर्यमाणस्तदिदं न प्रायेण वेदेत्यन्वयः । माययेदं भवत्कीर्तनं विमोहितमतिर्विमं न सम्पत्प्रदं वा न ज्ञानप्रदं वेत्यूहिता सञ्जातोहा मतिर्यस्य स इति वा । एतेन जडीकृतमतिरिति नातिरिक्तमिति ज्ञेयम् । यदिदमलं निरर्थकं वेद तत्तस्मादयं न महाजन इति वा । ‘‘अलं भूषणपर्याप्तिवारणेषु निरर्थकः’’ इति विश्वः । ‘‘नारायणेति मन्त्रोऽस्ति वागस्ति वशवर्तिनी । तथाऽपि नरके घोरे पतन्तीत्येतदद्भुतमित्यादेः । बत विस्मये खेदे वा । बत खेदानुक्रोशविस्मय इति विश्वः । अमहति कर्मणीति व्यस्तं समस्तं च । तुच्छफलदत्वेन तुच्छे । अमं, न भवति मा ज्ञानं यस्मात्तत्तथा । तस्य हतिस्तिरस्क्रिया यस्य तदमहति । तच्च तत्कर्म च तस्मिन्निति क्रामिकार्थो ज्ञेयः । यद्वा मधु स्वर्गसुखं तद्रूपपुष्पितायामिति वा । यथोक्तमेकादशगीताभाष्य-प्रमेयदीपिकासुधासु मधु द्यौरस्तु नः पिता मधु सुखहेतुरस्त्विति । ‘‘आम्नायस्त्रयी’’ इत्यमरः ॥ २५ ॥

चट्टी

नन्वेवं भक्तिपूर्वकं भगवन्नामकीर्तनं मुक्तिसाधनं चेत्सर्वे एतत्कुतो नानुतिष्ठन्तीत्यत आह ॥ प्रायेणेति । प्रायेण प्राचुर्येणायं महाजनो बहुशो जनो देव्या द्योतमानया मायया भगवदिच्छयाऽलं मोहितमतिरत एव मधुपुष्पितायाम् आपाततः स्वर्गाख्यपुष्पप्रतिपादिकायां त्रय्यां श्रुतौ जडीकृताऽभि-निविष्टा मतिर्यस्य स तथा । आपातप्रतीतिमादाय वेदमुख्यार्थभूतमोक्षतत्साधनज्ञानशून्यः । अत एव महति महायाससाध्ये वैतानिके यज्ञसम्बन्धिनि कर्मणि युज्यमानः संतप्तः सन्मोक्षाख्यं फलमिदं तत्साधनं भगवदनुस्मरणं च न वेदेत्यर्थः । तथा चोक्तं ‘‘मन्दाधिकारिणा नित्यं तपसैव प्रतीक्षितुम् । मोक्षो न शक्यते धैर्यात्ततः स्वर्गादिकं वदन् । स्वर्गादिपुष्पफलतां ज्ञापयित्वा विमोक्षदम् । ज्ञानं वक्तुं तूत्तमानां नित्यो वेदः प्रवर्तते । इक्षुदण्डं ददानीति यथा भैषज्यरोचनम् । एवं मन्देषूत्तमेषु मोक्षमाहात्म्यमुच्यते । न ह्यल्पफलभाग्वेदो वासुदेवैकसंश्रयः ॥’’ इति ॥ २५ ॥

एवं विमृश्य सुधियो भगवत्यनन्ते

सर्वात्मना विदधते खलु भावयोगम् ।

ते मे न दण्डमर्हन्त्यथ यद्यमीषां

स्यात् पातकं तदपि हन्त्युरुगायवादः ॥ २६ ॥

पदरत्नावली

भावयोगं भक्तियोगम् । उरुगायवादः भगवन्नामकीर्तनम् ॥ २६ ॥

सत्यधर्म

एवं ‘‘क्षिप्रप्रसादसाधनं किमिति’’ विमृश्य । तत्र हेतुः ॥ सुधिय इति । हे सुधियः। अनन्ते देशतः कालतो गुणतश्चान्तरहिते । यद्वाऽनन्तेऽबद्धे नित्यमुक्त इति यावत् । ‘‘मय्यनन्त-गुणेऽनन्ते गुणतोऽनन्तविग्रहे’’ इत्यादेः । अति, अदि बन्धन इति धातुव्याख्यानात् । भगवति सर्वात्मना सर्वप्रकारेण भावयोगं भक्तिलक्षणोपायम् । भावो भक्तिरिति प्रोक्त इत्यादेः । मनोयोगमिति वा । भावश्चेष्टात्मेति विश्वः । विदधते कुर्वन्ति ते मे मम सकाशाद्दण्डं नार्हन्ति । तादृशा अपि यदि किञ्चित्कुर्युः पातकं तदाऽयं समय इति नमनं (न गमनं) तनुतेत्याह ॥ अथेति । अमीषां तेषां स्याद्यदि पातकं तदपि दैववशादेवोपयातमप्युरुगायो ब्रह्मादिगीतो हरिस्तस्य वादो मुखवचनम् । गैशब्द इत्यतः कर्मणि घञ् आदेच इत्यात्व आतो युक्चिण्कृतोरिति युकि रूपम् । हन्ति नाशयन्ति । वादो विषय-कत्वं च मुखतो वचनं स्मृतमित्यभिधानादिति गीताभाष्येऽभिधानात् । खलु निश्चितमेतादृशा न दण्डमर्हन्ति शिक्षायोग्या न । अथाथाऽप्यमीषां यत्पातकं तदप्युरुगाया उरुं सर्वोत्तमं गायन्त इति ते तथा । बाहुलिकः कर्तर्यण् । उरु यथा तथा गायन्तीति णो वा । तैः सह वादः सम्भाषणादिरूप उरु जगद्गच्छति व्याप्नोतीत्युरुगो हरिस्तेन अयो लाभो वा । अयः शुभावहं दैवं वाऽभिव्यज्यते येषां ते उरुगायास्तैर्वाद इति वा । महापापिनो यत्संवादादपापा भवन्ति ते मद्दमनीया नेति किं वक्तव्यमिति भावोऽवधेयः । तुलयाम लवेनापि न स्वर्गं नाऽपुनर्भवम् । भगवत्सङ्गिसङ्गस्येत्यादेः ॥ २६ ॥

चट्टी

प्रायेणेत्यस्य व्यावर्त्त्यमाह ॥ एवमिति । ये सुधियो ज्ञानिन एवं भक्तिसहितमेव कीर्तनं मुक्तिसाधनमित्युक्तप्रकारेण विमृश्य सम्यगालोच्य भगवति भावयोगं भक्तियोगम् । ‘‘भावो भक्तिः समुद्दिष्ट’’ इति वचनात् । विदधते कुर्वन्तीत्यर्थः । अमीषां तावत्पातकं न स्यादेव । यदि स्यात् । उरुगायस्य नारायणस्य वादः कीर्तनं तदपि हन्ति ॥ २६ ॥

ते देवसिद्धपरिगीतपवित्रगाथा

ये साधवः समदृशो भगवत्प्रपन्नाः ।

तान् नोपसीदत हरेर्गदयाऽभिगुप्तान्

नैषां भयं न च वयं प्रभवाम दण्डे ॥ २७ ॥

पदरत्नावली

गाथाः सङ्कीर्तनानि देवादिभिर्नृत्तगीतसङ्कीर्तनाः । गदया कौमोदक्या ॥ २७ ॥

सत्यधर्म

श्रोतव्यं सर्वं श्रावयित्वा कर्तव्यं ताननुशास्ति ॥ त इति । ये भगवत्प्रपन्ना भगवान्प्रपन्नः शरणं प्राप्तो यैस्ते । समं निर्दोषं ब्रह्म पश्यन्तीति ते तथा । निर्दोषं हि समं ब्रह्मेत्यादेः । तत्तद्योग्यतामनुसृत्य भगवान्सन्निहित इति ज्ञानिनः । ‘‘पण्डिताः समदर्शिन’’ इत्यादेः । साधवः परापीडकाः । ते देवसिद्धपरिगीतपवित्रगाथा देवसिद्धैः परिगीताः पवित्रगाथाः स्वचर्यागानं येषां ते तथा देवादयोऽपि तान्स्तुवन्तीति भावः । तांस्तादृशान्नोपसीदत नावाप्नुत । गमनं न कार्यं कुत इत्यत आह । हरेरिति ॥ गदया कौमोदिक्याऽभिगुप्तानभितो रक्षितान् । एषां सामान्यतो भयं न नास्ति । वयं च दण्डे न च प्रभवाम न समर्थाः स्मः । नैषां भयं न च वयः प्रभवाम दण्ड इति, वयः कालोऽपि न प्रभवतीति पाठार्थावसरलौ । ये ओवसिद्धपरिगीतपवित्रगाथा असाधवः समदृशः समत्यन्तमदृशो ज्ञानहीना अभगवत्प्रपन्ना नो हरेर्गदयाऽभिगुप्तान् । हरेर्गदया अव्ययानामनेकार्थत्वादभिप्रेयस इति काठकखण्डार्थे अवज्ञार्थेऽभ्यभिधानादवज्ञायैव गुप्तान्न तु मानपूर्वकं तान्नोपसीदतेति न एषां सकाशाद्भयं न च । वयं दण्डे प्रभवामेति वा । हरेर्गं गीता च सा दया च तयाऽभिगुप्तान् । ‘‘गं गीत’’ इति विश्वः । अप विकृतकृतिमत्तया निर्देशपूर्वकं हर्षं सीदत । न एषां सकाशाद्भयं न सर्वमुर्वरितं पूर्ववत् । अप विकृतौ चौर्यनिर्देशहर्षयोरिति विश्व इति वा ॥ २७ ॥

चट्टी

तदेव धर्मतत्त्वं विनिर्णीय भृत्याननुशास्ति ॥ त इति । ये भगवंतं प्रपन्नास्ते देवैः सिद्धैश्च परिगीतपवित्रमाथा वर्णितपुण्यगाथाः । अतस्तान्नोपसीदत । तत्समीपमपि न गच्छतेत्यर्थः ॥ २७ ॥

तानानयध्वमसतो विमुखान् मुकुन्द-

पादारविन्दमकरन्दरसादजस्रम् ।

निष्किञ्चनैः परमहंसकुलैः रसज्ञैः

जुष्टाद् गृहे निरयवर्त्मनि बद्धतृष्णान् ॥ २८ ॥

पदरत्नावली

असतः लोकनिन्दितकर्मनिरतान् । निरयवर्त्मनि नरकद्वारे गृहे भार्यादौ ॥ २८ ॥

सत्यधर्म

असत आचारैः । निष्किञ्चनैर्निर्गता किञ्चनाऽपेक्षणीयविषयादीति ते तथा तैः । सुप्सुपेति समासः । परमहंसकुलैर्योगिसङ्घैः परम् अहंसा निर्मत्सरास्तेषां कुलैरिति वा । हंसो योगि-मात्रेऽपि परमात्मनि मत्सर इति विश्वः । रसज्ञैः सारविद्भिः । ‘‘रसः सारो वरः श्रेष्ठ’’ इति गीताभाष्योक्तेः । अजस्रं निरन्तरं जुष्टात्सेवितान्मुकुन्दपादारविन्दमकरन्दरसाद्विमुखा इति निरयवर्त्मनि नरकमार्गे गृहे भार्यादौ बद्धतृष्णांस्तदेकनिष्ठानानयध्वमित्यर्थः । निरयवर्त्मनि गृहेऽसतोऽविद्यमान-प्रायान् । तत्र हेतुर्बद्धतृष्णानिति । बद्धा प्रतिरुद्धा तृष्णा येषां ते तथा तदातृषानिति यावन् निष्किञ्चनै रसज्ञैः परमहंसकुलैर्जुष्टान्मुकुन्दपादारविन्दमकरन्दरसादजस्रमविमुखांस्तत्परानिति यावत्तान् अ आनयध्वमिति पदं नानयध्वमित्यर्थः । ‘‘अः स्यान्नञर्थ इति हैम’’ इति भानुः । सवर्णदीर्घश्छान्दस-स्तान्नेति पूर्वस्मादावृत्त्याऽन्वेतव्यम् ॥ २८ ॥

चट्टी

के तर्हि दण्डार्थमानेया इत्यत्राह ॥ तानिति द्वाभ्याम् । असतो दुष्टान् । तानेवाह । मुकुन्दपादारविन्दयोर्यो मकरन्दरूपो रसस्तस्माद्विमुखान् । कथम्भूतान् । निष्किञ्चनैरजस्रं जुष्टात् । तेषां दुष्टत्वज्ञापकमाह । निरयवर्त्मनि नरकद्वारे गृहे भार्यादौ बद्धा तृष्णा यैस्तान् ॥ २८ ॥

जिह्वा न वक्ति भगवद्गुणनामधेयं

चेतश्च न स्मरति तच्चरणारविन्दम् ।

कृष्णाय नो नमति यच्छिर एकदाऽपि

तानानयध्वमसतोऽकृतविष्णुकृत्यान् ॥ २९ ॥

पदरत्नावली

अकृतविष्णुकृत्यान् अननुष्ठितविष्णुपादार्चनादिकर्मणः ॥ २९ ॥

सत्यधर्म

येषां जिह्वा रसना भगवद्गुणनामधेयं न वक्ति येषां चेतश्चेतोऽपि तच्चरणारविन्दं न स्मरति यच्छिरः शीर्ष्णं कृष्णाय नो नमति तानकृतविष्णुकृत्यानित्यननुष्ठितभगवत्सेवादिकर्मण आनयध्वम् । येषां भगवद्गुणनामधेयं जिह्वा न न वक्ति चेतश्च तच्चरणारविन्दं स्मरति यश्च कृष्णाय नो यच्छिर एकदा कदाचित्तच्चरणारविन्दं नमत्यसतः संसारेऽकृतविष्णुकृत्यान् अकृतमकृत्रिमं विष्णुकृत्यं येषां ते तान् । कृतं हि फलं तस्मै विष्णोः कृत्यं कर्म येषां ते न भवतीति तथा तान् । कृतमिदमलमिति पर्याप्तं तन्न भवति तद्विष्णुकृत्यं येषां ते तथा तान्वा । ‘‘कृतं पर्याप्ते फले इति विश्वः । अकृत-विष्णुविद्वेषानिति वा । ‘‘कृत्यं विद्विष्टकार्ययोः’’ इति विश्वः । हे कद सुखद स्वामिन्नित्यपि यच्छिरो नमति प्रह्वीभवति तानिति वा । ए अकारवाच्ये भगवति उर्वरितं पूर्ववत् । यः स्मरति मन्मथवदाचरति सौन्दर्यतच्चरणारविन्दं यद्यतो न नमति स कृष्णाय नो नेति । असतोऽमङ्गलस्य शिर आनयध्वम् । ‘‘यत्तदित्यादयः शब्दाः पञ्चम्यन्ताः प्रकीर्तिताः’’ इति बृहद्भाष्योक्तेः । भगवत्सङ्गिसङ्गो न चेत्त-मानयतेत्यप्याह ॥ कृष्णायनोनमिति । कृष्णायनेन भगवदाश्रयेण जनेनोनं रहितमत्यतिक्रम्य तस्यासतः शिर आनयध्वम् । ‘‘अति लङ्घन’’ इति विश्वः । रातं रतिस्तदस्यास्तीति रती हि भक्तस्तत् तद्वत् । यथोक्तं प्रथमतात्पर्ये । तद्वै धनुरिति व्याख्यावसरे स रथो हयास्त इति तत्सदृशा इत्यर्थः । तद्रथहयानां दाहोक्तेरिति चतुर्दशेऽध्याये । त इषव इतीव । ‘‘सदृशे वा प्रधाने वा कारणे वा तदित्ययम् । शब्दः सङ्घटते भेदे विद्यमानेऽपि तत्त्वतः’’ इति ब्रह्मतर्के । चरणारविन्दम् । रविं द्यति खण्डयतीति रविन्द-मन्धकारम् । रविन्दमन्धकारे स्यादिति जयः । तन्न विद्यते येन तदरविन्दम् । चरणं चक्रमरविन्दं यस्य सो ऽरविन्दचरणः । चरणं पवित्रमिति श्रुतेः । चरण श्रीशचरणौ स्थिरीकुरु मनस्सु न इति चक्र-स्तुत्युक्तेः । यद्यत्र धेयं निधेयं न तच्चेतो न तन्मनसो मनस्त्वमेव नास्तीत्यर्थः । यदित्यव्ययत्वाद्यत्रेत्यपि भवतीति बृहद्भाष्योक्तेः । या भगवद्गुणनां भगवन्भगवन्निति गुणनाम् अभ्यासं नाकृत सा जिह्वा न । यच्च न स्मरति तच्चरणारविन्दं ध्येयं नेति तच्चेतश्चेत इति न वक्ति जन इति शेषः । ‘‘गुणनिका चरणादिक-गोचरा’’ इति मध्वविजयोक्तेः । विष्णुकृत्यान्विष्णुद्वेषिणो विष्णोः कृत्यं येषां त इत्युभयपक्षेऽप्यर्थो बोध्यः । इतश्च इतोऽप्येतावदन्वयव्यतिरेकत उत्तमतानुभवेऽपि वा । या जिह्वा भगवद्गुणनामधा न इयं जनता सा नेति नास्तीति वक्तीति वा । या जिह्वा भगवद् ऐश्वर्यादिशालि गुणनामधा ब्रह्मेति । ‘‘यो देवानां नामधा’’ इति श्रुतेः । न वक्ति सा जिह्वा इयं दार्दुरिकी वेत्युक्तेति वा बुद्धिसन्निधानादिय-मुक्तिरिति वा ।

यद्यपि पद्ये पद्यावद्यार्थस्य विद्यते हृद्यता ।

विस्तरदुस्तरदरतो विरतं न रतं मनो ममेति विद्धि ॥ २९ ॥

चट्टी

किञ्च यद् येषां जिह्वेत्याद्यन्वयः । अत्र ‘‘श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम्’’ इत्युक्तनवके कीर्तनं स्मरणं वन्दनं चेति त्रिकं साक्षादुक्तम् । तदितरषट्कं तु विष्णुकृत्यपदेनोच्यत इति ज्ञातव्यम् ॥ २९ ॥

कृष्णाङ्घ्रिपद्ममधुलिट् न पुनर्विसृष्ट

मायागुणेषु रमते वृजिनावहेषु ।

अन्यस्तु कामहत आत्मरजः प्रमार्ष्टु

मीहेत कर्म यत एव रजः पुनः स्यात् ॥ ३० ॥

पदरत्नावली

कृष्णाङ्घिपद्ममधुलिट् कृष्णपादारविन्दमकरन्दं संसेवमानः पुमान् स्वकर्मनिर्मितेषु मायागुणेषु विषयेषु न रमते पुरुषार्थबुद्धिं न करोति । यतः कर्मणः पुनः रजः रागः स्यात् तादृशं कर्म । तुशब्देन कर्दमप्रक्षालनमिवेति दर्शयति ॥ ३० ॥

सत्यधर्म

यो मधुलिट् मधु लेढीति भ्रमरस्तत्तुलो वृजिनावहेषु पापापादकेषु विसृष्टा विष्णुभक्त्या हेयत्वेन त्यक्ता ये मायागुणा ममतादयस्तेषु पुनर्न रमते आसक्तो न भवति तं तत्समूहं नानयध्व-मित्यन्वयः । अन्यो विधुततदास्वादः कामहत इच्छाधीनो विषयवासनाप्रतिहतो वाऽऽत्मरजः पूर्वकर्म-निर्मितं रागं तेन तद्दोषो गृह्यते । तत्प्रमार्ष्टुं मार्जयितुं परिहर्तुमिति यावत् । यतः पुरत आचरितात्पुना रजःस्पृष्टं स्यादेव तत्कर्म ईहेत तमानयध्वम् । स च द्विविधः । किञ्चित्कालं मन्निलये स्थित्वा तत्कर्मफलनिर्मोकानन्तरं प्राप्यभगवल्लोकः । एकस्त्वनुत्थाने स्थाने स्थापनीय इत्युभयोरप्यानयनं युक्तमित्युक्तं युक्तमित्यभिप्रायः । बाहिरङ्गिकमान्तरङ्गिकमस्मदुपपादितं भावमाविर्भावयामास व्यासः पुनर्न रमतेऽन्य इत्येतैस्तुना च विशेषसूचकेनेति मन्तव्यम् । अत एव विसृष्टपदेत्यागार्थकता-व्याख्यानमेतत्सख्यं भजते । ‘‘वृजिनं कल्मषेऽपि स्यात्’’ इति विश्वः । ऋकारे रेफोऽप्यपेक्षित लाघवगौरवानुरोधेन न किञ्चन व्रजनमस्तीत्यन्यत्र वृत्तसम्पत्त्यै पठनीयाविति ज्ञेयम् । ‘‘वृजिनं व्रजिनं दुःखं क्लेशो बाधेति चोच्यते इति बृहद्भाष्योक्तेः । अत एव कुञ्जरशौचवदिति पूर्वमुक्तं संश्लिष्टमिति च सन्तोष्टव्यम् । कर्दमं कर्दमेनोदकेन मर्दयन्निवायमनुपायज्ञस्यापायपदं भवतीति भावः ॥ ३० ॥

चट्टी

दण्ड््यानुक्त्वेदानीं भगवद्भजनमेवाशेषपापनिवर्तकं न कर्मादिकमित्युपसंहरति ॥ कृष्णेति । श्रीकृष्णांघ्रिपद्मयोर्मधुलिट् आस्वादयतीति तथा । तुच्छत्वेन विसृष्टा ये मायागुणा विषयास्तेषु पुनर्न रमते । अन्यस्तु मध्वास्वादनरहितोऽत एव कामाभिभूतः सन् आत्मनो रजः पापं प्रमार्ष्टुमपि कर्मैव प्रायश्चित्तरूपमीहते करोति । यतो यस्मिन्कर्मण्यनुष्ठितेऽपि रजः पापं पुनः स्यादेव । समूलं न निवर्तत इत्यर्थः । पापपरिहारमार्जनबुद्ध्या कृतमपि कर्म भगवद्भक्तिशून्यं न पुनातीति भावः ॥ ३० ॥

तत् क्षम्यतां स भगवान् पुरुषः पुराणो

नारायणः स्वपुरुषैर्यदसत्कृतं नः ।

स्वानामहो न विदुषां रचिताञ्जलीनां

क्षान्तिर्वरीयसि नमः पुरुषाय भूम्ने ॥ ३१ ॥

पदरत्नावली

यत् स्वपुरुषैरसत्कृतं नोऽस्माकं तत् क्षम्यतामित्यन्वयः । न विदुषां हरेर्माहाम्य-मजानताम् । ननु क्षान्त्यर्थं को दण्ड इति तत्राह– रचितेति ॥ किमनेनानायासेनेति तत्राह– नम इति ॥ द्रव्यादिलक्षणदण्डमन्तरेण कथं क्षान्तिरिति तत्राह– क्षान्तिरिति ॥ वरीयसि वरतरे परतमे । पुरुषाय नम इत्येतावता द्रव्यादिदानाधिकेन क्षान्तिर्भवतीति शेषः । ‘भूयिष्ठां ते नम उक्तिं विधेम’ इति श्रुतेः । सर्वदा सन्निहिता सन्तिष्ठते महति क्षमेति सप्तमी ॥ ३१ ॥

सत्यधर्म

दूतसम्भूतो मन्तुस्तन्मात्रपर्यवसायी न किन्तु स्वामिनो निकामं फलोपलम्भक इति भीतः प्रेतनाथः श्रीनाथं क्षमापयतीत्याह ॥ तदिति । स भगवान्पुरुषः शरीरस्थः पूर्णषड्गुणो वा पुरुषो विष्णुरुषणात्सर्वपापानां पूर्णः पुरुष उच्यत इति बृहदारण्यकभाष्योक्तेः पापतापक इति वा । स्वपुरुषैः स्वदूतैर्यदसत्कृतमवज्ञातं तन्न एवेति स भगवान्नारायणस्तत्क्षम्यताम् । सामान्यार्थान्तरमुखेन शंसति ॥ स्वानामिति । रचिताञ्जलीनां सम्पुटीकृतकरपुटीनां स्वानां स्वकीयानां वरीयसि महत्यंहसि सत्यपि क्षान्तिर्विदुषां ज्ञानिनां महतां युक्तेति नाहो नाश्चर्यम् । ‘‘अञ्जलिः कुडवे विद्यादञ्जलिः करसम्पुटः’’ इति विश्वः । क्षमणानन्तरं यदसदहोऽनभिव्यक्तो मोक्षश्च कृतं फलितमित्यर्थः । अहर्मुहूर्तं विज्ञेय-महर्मोक्षेऽपि भण्यते । असदनुज्जृम्भितज्ञानं बलं वा कृतं सम्पादितमिति । ‘‘अहर्दिनं प्रकाशश्च क्वचिज्ज्ञानं बलं तथा’’ इति बृहद्भाष्योक्तेः । गुणश्छदस्त्वाद्वरीयसि परतरे स्वामिनीति वा । त्वया देयो दायश्चायनायक इत्यतो नम इति प्रह्वत्वमेवार्हणमित्याह ॥ नम इति । भूम्न इति भावभवित्रोरभेद-विवक्षयेति ज्ञेयम् । पुरुषैर्ब्रह्मादिभिरायो गम्यो भूमा योग्यतया पूर्णता येनेति वा । यथोक्तं बृहद्भाष्ये । पुरुषविध इति पदव्याख्याने ‘‘ओषेत्सर्वमनुष्णः सन् ब्रह्मा विष्णुप्रसादतः’’ इति । एतेन पुरुषेति पुनर्वचनस्य भूमपदस्य च वैय्यर्थ्याक्लिष्टते भ्रष्टे इति ज्ञेयम् । भूयिष्ठान्ते नम उक्तिं विधेमेत्यादेर् अन्तेऽपि स्वोक्तेर्मङ्गलरूपतासूचनार्थं भगवन्नमनरूपं मङ्गलं कृतवानिति रहस्यम् ॥ ३१ ॥

चट्टी

भगवन्तं क्षमापयति ॥ तदिति । सः भगवान् नः स्वपुरुषैर्यद्यस्मादसद् अन्याय्यं कृतम् । तत्तस्मात्स्वयमेव क्षम्यतां सहताम् । तदर्थं नास्माभिः प्रार्थनीयमिति भावः । इदानीमस्मत्प्रार्थनयाऽपि क्षम्यतामित्याह ॥ स्वानामिति । स्वानां भक्तानाम् । अहो आश्चर्यभूतमाहात्म्यं नविदुषामजानताम् । किञ्च भूम्ने पूर्णाय पुरुषाय नम इत्युक्तिपुरःसरं रचिताञ्जलीनां न इति पूर्वेणान्वयः । यद्यपि यमो भगवद्भक्तमाहात्म्यं जानाति । अन्यथा स्वभृत्यान्प्रति पूर्वोक्तोपदेशासम्भवात् । तथाऽपि भृत्यकृतापराधं स्वकृतापराधमिति मत्वा नविदुषामित्युक्तवानिति ज्ञातव्यम् । क्षान्तिरहितपुरुषप्रार्थनाया निष्फल-त्वादित्यत आह ॥ क्षान्तिरिति । वरीयसि महत्तमे भगवति क्षान्तिरस्त्येवेत्यर्थः । क्षमा महतां स्वभावः । किं पुनर्महत्तमस्य भगवत इति भावेन वरीयसीत्युक्तमिति ज्ञातव्यम् ॥ यद्वा स भगवान्स्वपुरुषैः स्वभृत्यैरस्माभिर्यदसत्कृतं नस्तदन्याय्यं क्षम्यताम् । अत्र हेतुत्रयम् । स्वानां स्वकीयानां नविदुषामज्ञानां रचिताञ्जलीनां विहितकरसंपुटानामिति । ननु द्रव्यादिदण्डमन्तरेण कथं भगवान्क्षमिष्यतीति तत्राह ॥ क्षान्तिरिति । पुरुषाय नम इत्युक्तिमात्रेण वरीयसि क्षान्तिरुदेत्यहो आश्चर्यमित्यर्थः ॥ ३१ ॥

श्रीशुक उवाच—

इत्थं स्वभर्तृगदितं भगवन्महित्वं

संस्मृत्य विस्मितधियो यमकिङ्करास्ते ।

तेनाच्युताश्रयजनं प्रतिशङ्कमाना

द्रष्टुं च बिभ्यति ततः प्रभृति स्म राजन् ॥ ३२ ॥

सत्यधर्म

ते दूता नाथगाथां मद्दलोलूखलनीतिरीतिं निशम्य किं चक्रुरित्यतस्तेऽपि भागवतोत्तंसा इति तेभ्यस्तद्वचो रुरुच इत्याह ॥ इत्थमिति । महित्वं महत्त्वं श्रुत्वाऽथ संस्मृत्य तेन कारणेन प्राक्तनस्वावमानेन च ततः प्रभृति तदारभ्य द्रष्टुं क्रूरदृष्ट्या विषयीकर्तुं बिभ्यति भीता भवन्ति । स्म राजन्नित्यत्र स्मर अजन् इति छेदः । त्वमपि गच्छन्निति चरमसमय इति स्मरेत्यान्तरङ्गिकः शुकाशय इति । अन्यथा स्म पादपूरण इत्यभिधानात्तन्मात्रप्रतिपत्त्यर्थमप्रयोक्तव्यत्वात् ॥ ३२ ॥

तस्मात् सङ्कीर्तनं विष्णोर्जगन्मङ्गलमंहसाम् ।

महतामपि कौरव्य विद्ध्येकान्तविनिष्कृतम् ॥ ३३ ॥

पदरत्नावली

अंहसां पापानाम् एकान्तविनिष्कृतं नियतं प्रायश्चित्तम् । न केवलं स्त्रीशूद्रादीनां नामसङ्कीर्तनं विधीयते (किन्तु) अन्येषामपीति भावेनाह– महतामिति ॥ ३३ ॥

सत्यधर्म

यदर्थमयमितिहासशंसनायासो वैय्यासकिस्तन्निगमयति ॥ तस्मादिति । महतामं-हसामितरापरिहारपापानामेकान्तविनिष्कृतं मुख्यप्रायश्चित्तं रहस्यप्रायश्चित्तं वा त्वयाऽपीदं कियदिति नाविश्वसनीयमिति विधत्ते ॥ कौरव्य त्वं विद्धीति । हि यतो हे कौरव्य यत्र भीष्ममुख्या धर्मोपदेष्टार-स्तत्रोत्पन्नस्त्वमपि । विष्णोः सङ्कीर्तनं जगन्मङ्गलं महतामहं सामप्येकान्तविनिष्कृतमितिवज्ज्ञाता संवादात्मायं वाद इति वा ॥ ३३ ॥

चट्टी

जगतोऽपि मङ्गलरूपं महतां प्रायश्चित्तान्तरनिवृत्त्या नाम विद्धि । अंहसामेकान्त-विनिष्कृतमात्यन्तिकप्रायश्चित्तम् ॥ ३३ ॥

शृण्वतो गृणतो वीर्याण्युद्दामानि हरेर्मुहुः ।

यथा सुजातया भक्त्या शुध्द्येन्नात्मा व्रतादिभिः ॥ ३४ ॥

पदरत्नावली

सर्वाणि साधनान्यनुष्ठीयमानान्यपि भक्तिसहितानि बलवन्तीत्यभिप्रेत्याह– शृण्वत इति ॥ ३४ ॥

सत्यधर्म

शृृण्वतो गुरुमुखात् । गृणतः स्वयमुच्चारयतः । उद्दामान्यत्युत्तमानि सुजाता या सर्वस्मादुत्तम इति स्नेहयुता मतिः सुस्थिरा भक्तिरुद्दिष्टा तया मुक्तिर्न चान्यथा’’ इति बृहद्भाष्योक्ते-स्तादृश्याऽऽत्मा जीवो मनो वा यथा शुध्येन्न तथा व्रतादिभिः केवलैर्न शुध्येत् । तर्हि भक्तेरपीयं नीतिर्व्रतादिवद्दुरवस्था चेत्किं तत्सम्पादनापादनेनेत्यतो वाऽऽह ॥ अव्रतादिभिरिति । व्रतादिभिर्विना ना पुरुषः ॥ ३४ ॥

चट्टी

तदेवाह । शृृण्वत इति ॥ व्रतादिभिस्तथा न सिद्धेत् । तेन विस्मितधिय इत्यन्वयः ॥ यद्वा ॥ तेन भगवता निमित्तेन परिशङ्कमाना अस्मानेवैष हन्यादिति शङ्कावन्तः । अच्युतजनं द्रष्टुमपि बिभ्यति स्मेत्यन्वयः ॥ ३३–३४ ॥

इतिहासमिमं गुह्यं भगवान् कुम्भसम्भवः ।

कथयामास मलय आसीनो हरिमर्चयन् ॥ ३५ ॥

इति श्रीमद्भागवते षष्ठस्कन्धे तृतीयोऽध्यायः ॥ ३ ॥

पदरत्नावली

कुम्भसम्भवोऽगस्त्यः । मलये पर्वते ॥ ३५ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

षष्ठस्कन्धे तृतीयोऽध्यायः ॥

सत्यधर्म

कुम्भसम्भवोऽगस्त्यः । भगवानिति विश्वासजननाय । हरिमर्चयन्नित्यनेनोद्धृत्य भुज-मुच्यत इत्यादिवच्छपथपूर्वकमवादीदिति ध्वनयतीति ज्ञेयम् । मलये तन्नामकगिरौ हरिमर्चयन्नासीनः कथयामासेत्यन्वयः । भगवानिति निर्दिशन् देशिको शुक व्यासोऽपीति मन्दमान्दोलयति शिर इति ध्वनिः ॥ ३५ ॥

॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मकृतायां षष्ठस्कन्धे तृतीयोऽध्यायः ॥ ६–३ ॥

चट्टी

कुम्भसम्भवोऽगस्त्यो मलयपर्वते आसीनः श्रीहरिमर्चयन् पुनः पुनर्विश्वासार्थं श्रीहरेः पादं स्पृशन्नित्यर्थः ॥ ३५ ॥

॥ इति श्रीभागवतटिप्पण्यां चेट्टीव्याख्यायां षष्ठस्कन्धे तृतीयोऽध्यायः ॥ ६–३ ॥