एतत्ते भगवद्दूता यमदूताभिभाषितम्
॥ अथ द्वितीयोऽध्यायः ॥
बादरायणिरुवाच—
एतत्ते भगवद्दूता यमदूताभिभाषितम् ।
उपधार्याथ तान् राजन् प्रत्याहुर्नयकोविदाः ॥ १ ॥
पदरत्नावली
श्रीहरिनामसङ्कीर्तनमाहात्म्यमस्मिन्नध्याये वक्ति । तदर्थं श्रीविष्णुदूता यमदूतान् प्रत्युपोद्घातं रचयन्तीत्याह– बादरायणिरिति ॥ नयकोविदाः प्रायश्चित्तशास्त्रोक्तन्यायसूक्ष्मपण्डिताः
॥ १ ॥
सत्यधर्म
हरिनामस्मरणमशेषदोषविनाशकमिति तदाचरन्नयं कथमकृतनिर्वेश इति तांस्ते वदन्तीति बादरायणिर्वदतीति वदति बादरायणिरिति ॥ नयकोविदा नयेऽयं धर्मो नायमिति नीतौ कुशलाः । ‘‘नये न्याये,’’ ‘‘सन्सुधीः कोविदो बुधः’’ इत्युभयतश्चामरः ॥ १ ॥
चट्टी
भक्तिपूर्वं भगवतो नामसङ्कीर्तनं सताम् ।
सर्वपापहृदित्येतदध्यायेऽस्मिन्निरूप्यते ॥
उपधार्य श्रुत्वा । नयकोविदा न्यायनिपुणाः ॥ १ ॥
विष्णुदूता ऊचुः—
अहो कष्टं धर्मदृशामधर्मः स्पृशते सताम्१ ।
यत्रादण्ड्येष्वपापेषु दण्डो यैर्ध्रियते वृथा ॥ २ ॥
सत्यधर्म
सामान्यार्थान्तरन्यासमुखेनापहसन्तस्तच्चित्तं चित्रयन्तीति पद्यपञ्चकेन प्रपञ्चयति ॥ अहो इति । धर्मदृशां सतां तत्त्वेनाभिमानवतां स्पृशते स्पृशति ॥ २ ॥
चट्टी
धर्मदृशां सभामधर्मः स्पृशति । तदेव विवृणोति ॥ यत्रेति । यत्र सभायां यैर्धर्मदृग्भिः । तेषां सतां सभायाम् ॥ २ ॥
प्रजानां पितरो ये च शास्तारः साधवः समाः ।
यदि स्यात्तेषु वैषम्यं कं यान्ति शरणं प्रजाः ॥ ३ ॥
सत्यधर्म
समाः सर्वाः प्रजा इत्यन्वयः । समाः सदसद्योग्यतयेति वा । पितरः प्रजा इत्यनेन पिता विक्रयते सुतं, न स्त्री स्वातन्त्र्यमर्हतीत्याद्युक्तार्थं ध्वनयन्ति ॥ ३ ॥
चट्टी
पितरः पितृवत्पालकाः । शास्तारोऽनुशिक्षका वैषम्यम् अदण्ड्यदण्डनम् ॥ ३ ॥
यद्यदाचरति श्रेयानितरस्तत्तदीहते ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ ४ ॥
पदरत्नावली
यद् वाक्यं प्रमाणत्वेन करोति तद्वाक्यमनुसृत्य वर्तते । लोको जनः ॥ ४ ॥
सत्यधर्म
नापराधः परतन्त्राणां युष्माकं यौष्माकीणो देव एवादावेतदादिज्ञानहीन इति मन्यामह इत्यन्यापदेशेनोपदिशन्तीत्युपदिशति ॥ यद्यदिति । यद्यदिति तत्तदिति च पदमेकम् । सः श्रेयान् यत्प्रमाणं कुरुते इतरस्तदधमः । ननु पूर्वं वीप्सया सार्वत्रिकी श्रेयःसामान्यानुसारिणी इतरसामान्यचर्येति व्याप्तिर्ज्ञातुं सुशकाऽत्र तु स यल्लोकस्तदित्येकयदादिना कथं व्याप्तिज्ञप्तिरिति चेन्न । एतेनापि सामान्य-मुखी व्याप्तिर्ग्रहीतुं शक्या । यथोक्तं सुधायां– यत्तच्छब्दयोरननुगम इति चेदित्यारभ्य सामान्यपरीक्षायां वक्ष्याम इत्यन्तेन तत्रापि नरत्वादिकमित्यादिव्याख्यावसरे एवं संयोगादिवदित्यारभ्य ननु गतत्वेऽपि गुणकर्मवदित्यन्तेन च । ईश्वरवादे गदाधरभट्टोऽपि ‘‘यन्नाम्ना स्थापयेत्पिण्डं तन्नयेद्ब्रह्म शाश्वतम्’’ इति वाक्यमुदाहृत्यैकपदादेरपि सार्वत्रिकव्यवहारौपयिकता सम्भवतीति व्याचख्यौ । न च कथन्ते ते पिबन्त्वित्यृग्भाष्ये ते षष्ठ्यन्तोऽनुदात्तः स्यादुदात्तो बहुवाचकः । आवृतस्त्वित्याद्युक्तिरिति वाच्यम् । तत्र ये ये इति पूर्वं द्विरभिधानादुत्तरत्रापि त इत्येकस्यावृत्तिः कर्तव्येत्येवाभिप्रेतं न तु यदादेरेकस्या व्याप्तिगमकत्वाभिप्रायेणेति भावसम्भवात् । ‘‘यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति । तस्य तस्याचलां श्रद्धां तामेव’’ इत्यादिस्थले द्वितीयतच्छब्दमध्याहृत्यैवाऽन्वयः कर्तव्य इति न व्यभिचार इत्यर्थः ॥ ४ ॥
चट्टी
एतत्प्रवर्तितमधर्ममन्योऽपि करिष्यतीति महत्कष्टमभूदित्याहुः ॥ यद्यदिति । श्रेयान् श्रेष्ठः ॥ यद्वा ॥ किं प्रमाणं कुरुते प्रमाणत्वेन ज्ञापयति ॥ ४ ॥
यस्याङ्के शिर आधाय लोकः स्वपिति निर्वृतः ।
स्वयं धर्ममधर्मं वा न हि वेद यथा पशुः ॥ ५ ॥
पदरत्नावली
स्वयं परबोधमन्तरेण । पशुः पूर्वापरादिदिगनभिज्ञः ॥ ५ ॥
सत्यधर्म
स्वयं परोपदेशमन्तरेण ॥ ५ ॥
चट्टी
विश्वासघातादपि महत्कष्टमभूदित्याहुः ॥ यस्येति द्वाभ्याम् । लोकः परोपदेशमन्तरेण स्वयं पशुर्यथा तथा धर्ममधर्मं वा न वेद हि यस्मात्तस्मादेव । यस्याङ्के शिर आधाय निर्वृतः निश्चिन्तः सन् स्वपिति । सर्वभारं तत्र निदधातीति यावत् ॥ ५ ॥
स कथं ह्यर्पितात्मानं कृतमैत्रमचेतनम् ।
विस्रम्भणीयो भूतानां सघृणो द्रोग्धुमर्हति ॥ ६ ॥
पदरत्नावली
स प्रमाणभूतः पुरुषः । आत्मन्यर्पित आत्मा सर्वस्वलक्षणो येन स तथा तम् । अचेतनमज्ञानिनम् । विस्रम्भणीयो विश्वसनीयः । ‘‘घृण द्रवीभाव’’ इति धातोः परक्लेशदर्शने यस्य चित्तं द्रवीभवति स सघृणः ॥ ६ ॥
सत्यधर्म
यो भूतानां विश्रम्भणीयो विश्वासः । कृत्यानां कर्तरि वेति षष्ठी । अर्पितात्मानमर्पितः स्वनिवेशित आत्मा मनो यस्य तम् । कृतमैत्रं कृतमित्रत्वानुसन्धानमचेतनं चेतना संविदि प्रोक्तेति विश्वादसंविदं द्रोग्धुमर्हति स सघृणो द्रवद्धृदयः कथं न कथमपीत्यर्थः । तं द्रोग्धुमित्यृते चतुर्थ्या निर्देशो हि यं प्रतीत्युक्ताभिप्रायेण नानाभिप्रेरणेनेति मन्तव्यम् ॥ ६ ॥
चट्टी
सः सघृणो दयालुरत एव भूतानां प्राणिनां विस्रंभणीयः । अचेतनं ज्ञानशून्यम् । अत एव कृतं मैत्रं विश्वासो येन स तथा, तम् । अत एवार्पित आत्मा मनो येन स तथा तम् । कथं दोग्ध्रुमर्हतीत्यन्वयः ॥ ६ ॥
अयं हि कृतनिर्वेशो जन्मकोट्यहंसामपि ।
यद्व्याजहार विवशो नाम स्वस्त्ययनं हरेः ॥ ७ ॥
पदरत्नावली
अकृतनिर्वेशमित्यत्राहुरित्याह– अयमिति ॥ यमदूतान् दृष्ट्वा पुत्रे सङ्केतितमपि नारायणनाम स्मृत्वाऽस्य नाम्नो हरिरेव मुख्यार्थ इति प्राचीनपुण्यप्रचयाज्झटिति ज्ञानोदयादुत्पन्नभक्त्या विवश इतीममर्थं हिशब्दो वक्ति ॥ ७ ॥
सत्यधर्म
प्रकृतमनुसरन्तोऽकृतनिर्वेश इति सहसाऽभिहितमसहमाना भाषन्ते ॥ अयमिति । जन्मकोट्यंहसां ताभिरभ्यार्चितपातकानामपि नेदं कियदंह इत्यलक्षतां कटाक्षयन्ति किमस्मच्चित्रगुप्ता-विदितश्चित्रं गुप्तः स इत्यतो ब्रुवन्ति । यदिति ॥ स्वस्त्ययनं स्वस्ति तस्यायनं क्षेमधाम स्वस्तेरयनमिति वा । ‘‘स्वस्त्याशीः क्षेमपुण्ययोः’’ इति विश्वः । ‘‘स्वस्तिरस्तु नः स्वस्तये’’ इत्यादेरव्ययमनव्ययं चेति केचित् । सर्वत्रापि विभक्तिप्रतिरूपकमव्ययमेवेत्यपरे । हिः प्रमाणप्रसिद्धिद्योतकः ॥ ७ ॥
चट्टी
नन्वस्य पापिनो दण्डे किमर्थमाक्रोशः क्रियते तत्राहुः ॥ अयं हीति । अयमजामिलो यद्यस्माद्विवशो भक्तिपरवशः सन् ‘‘अभक्तोदाहृतं नैव फलदातृ भविष्यति’’ इत्युक्तेः । श्रीहरेर्नाम व्याजहारोच्चारितवान् तस्मादित्यन्वयः । निर्वेशो निष्कृतिः । न केवलं प्रायश्चित्तमात्रं श्रीहरेर्नाम । अपि तु स्वस्त्ययनं मोक्षसाधनमपि । ‘‘आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् । ततः सद्यो विमुच्येत यं बिभेति स्वयंभुवः’’ इत्युक्तेः ॥ ७ ॥
एतेनैव ह्यघो नोऽस्य कृतं स्यादघनिष्कृतम् ।
यदा नारायण इति जगाद चतुरक्षरम् ॥ ८ ॥
पदरत्नावली
विश्वासजननार्थं पुनरुक्तार्थं द्रढयति– एतेनेति ॥ ८ ॥
सत्यधर्म
उक्तं दृढीकर्तुं किञ्चिदनूद्य नाम किं किंरूपं तदिति न ज्ञायत इत्यतस्तद्विवृण्वन्ति ॥ एतेनेति । मघोन इतिवदघोनः । यदा नारायणेति चतुरक्षरं नाम जगाद तदैतेन व्याहरणेनैव । यद् आ इति छेदः । आ ईषच्चतुरक्षरं नाम जगाद । चतुरक्षरमितीदं मुद्रणेनाक्षराधिक्यं व्यवच्छिनत्ति । नारायणे-त्यभिहित इति वक्ष्यति च । कथं जगाद । नारायणायेति पठित्वा नारायण आय आगच्छ इत्येवं विक्रोशरूपेण पुत्राह्वानेनेति श्रीधरीयव्याख्यानं कथं समञ्जसमिति चिन्त्यम् । ननु दूरे क्रीडनकासक्तं तथा प्लावितेन स्वरेणेत्युक्तेर्दूराद्धूते चेति प्लुतत्वे ‘‘प्लुतप्रगृह्या अचि नित्यम्’’ इति प्रकृतिभावेन नारायणा इति भवितव्यमिति चेन्न । प्लुतमात्रस्य वैकल्पिकत्वात् । तथा चोक्तमग्नीषत्प्रेषणे परस्य चेति सूत्रमहाभाष्ये सर्वप्लुतः साहसमनिच्छता विभाषा कर्तव्य इति । मनोरमायां च साहसं शास्त्रत्याग-स्तदनिच्छता शास्त्रमनुरुन्धानेनापीत्यर्थ इति हरदत्तः । वैकल्पिकेष्वनुष्ठानक्लेशधर्माधिक्यफलकमप्य-शक्तत्वादनिच्छतेत्यर्थ इत्यपरे । एतेन ‘‘द्वैपायनो विरहकातर आजुहाव, पुत्रेति’’ इति भागवतं व्याख्यातं प्लुतस्य वैकल्पिकत्वात् । किञ्चेह पुत्रशब्दस्य वाक्यत्वं नास्तीत्यपि सुवचम् । आख्यात-प्राग्वर्तिनोऽप्यनुकरणसम्भवात् । अपि चास्तु प्लुतः । प्रकृतिभावस्तु वैकल्पिकत्वान्माऽस्तु । तथा च ईचाक्रवर्मणस्येति सूत्रे भाष्यम् । ईग्रहणेन नार्थो वशा इयं वशेयमिति प्लुतप्रकृतिभावः सर्वोऽपि चाक्रवर्मणस्य मते नास्तीति भावः । अपि चेह प्रकृतिभावो दुर्लभ एव । अप्लुतवदुपस्थिते उपस्थितं नामावैदिक इति शब्दस्तस्मिन्परतः प्लुतोऽप्लुतवत्स्यादिति हि तस्यार्थः । एवं च चतुर्धा निर्वाहे स्पष्ट आर्षप्रयोग इति श्रीधरोक्तिर्नादर्तव्येति । किञ्चायेति नायतेर्न वा याते रूपम् । प्रथमे परस्मैपदता न स्यात् । चक्षिङो ङित्करणं तु नवीनमतेऽन्यथासिद्धं सन्न ज्ञापकमनुदात्ते त्वप्रयुक्तात्मनेपदानित्यतायाम् । न च प्राचीनमतेन तत्सम्भव इति वाच्यम् । चतुरक्षरत्वदूषणपिशाची तु नाधुना दूरनिहितेति । द्वितीये लोटः सेर्ह्यपिच्चेति हिरवर्जनीयेति । किञ्च यातेर्ह्रदीस्वर्घतावेदकसमयसमदर्शनात्तच्छान्दसताश्रयणं त्वगतिका गतिः । न वा प्रश्लिष्टस्येधातो रूपं दत्तोत्तरत्वात् । प्रथमस्कन्धे स्वकृतसमाधिरत्राप्यनुसन्धेय इति न चाशङ्का न चोत्तरमिति परितुष्यन्परो नास्मद्विनेयैः श्रीधरोक्तं नादर्तव्यमित्यनेन सभाजित इत्यलम् । ननु प्रकृतिभावाभावे भवितव्यं सन्धिनेति चेत्सत्यम् । विवक्षाभावात्तदभावोपपत्तेः ॥ ८ ॥
चट्टी
ननु कर्म षाड्गुण्यकरं श्रीहरेर्नामेति युक्तम् । यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रिया-दिषु । न्यूनं संपूर्णतां याति सद्यो वन्दे तमुच्यतमिति स्कान्दोक्तेः । स्वातन्त्र्येण त्वघनिवर्तकं कथं स्यादित्यत्राहुः ॥ एतेनैवेति । यद् आ इति पदच्छेदः । एषोऽजामिलो नारायणेति चतुरक्षरं यन्नाम जगाद एतेनैव प्रधानेन भगवन्नामोच्चरणेनैव न तु कस्यचिदङ्गेन । सामीप्ये च प्रधाने च एवशब्दोऽव-धारणे इति वचनात् । अघनिष्कृतं हि यस्मात्तस्मादस्याजामिलस्याघः पापं नास्त्येवेत्यन्वयः । सकारान्तनपुंसकोऽयमघशब्दः । कंसशत्रुरघःशत्रुरिति प्रयोगात् ॥ यद्वा ॥ अघमस्यास्तीत्यघः पापी एषोऽजामिलाख्यो ना पुरुषो यन्नाम जगाद । एतेनैवास्याघनिष्कृतं कृतमभूदित्यर्थः । मर्ताऽमर्त्यस्य ते भूरिति नाममनामहे विप्रासो जातवेदसः । आस्य जानन्तो नाम चिद्विववक्तना । अवशेनापि यन्नामि्न कीर्तिते सर्वपातकैः । पुमान्विमुच्यते सद्यः सिंहग्रस्तैर्मृगैरिवेत्यादिश्रुतिस्मृतीनां भगवन्माहात्म्यपराणां स्मरणार्थमाकारः । अप्रगृह्य स्मृतौ वाक्ये इत्यमरोक्तेः ॥ ८ ॥
स्तेनः सुरापो मित्रध्रुग्ब्रह्महा गुरुतल्पगः ।
स्त्रीराजपितृगोहन्ता ये च पातकिनोऽपरे ॥ ९ ॥
पदरत्नावली
न केवलं दासीसङ्गप्राप्तपापहरं हरिनामकीर्तनं, स्तैन्यादिप्राप्तसर्वपापक्षयकर-मित्याहुरित्याह– स्नेन इति ॥
सत्यधर्म
न केवलमियत एवासीद्दासीसम्बन्धनिबन्धनस्य तथाऽन्यायतो धनं बन्द्यक्षकित-वैश्चौर्यैरिति च शंसितस्य स्तेयादेरेनसोऽनेन कृतस्य निष्कृतिरिति किन्तु पातकसर्वस्वगर्वंकषं नाम नारायणस्येति तान्यमदूतान्प्रति महापातकानि नामनिर्देशपूर्वकं सङ्गृह्येममर्थमवधारयितुमेव सुनिष्कृतमिति जगदुः ॥ स्तेन इति । स्तेनश्चोरः । सुरापो मद्यपः । मित्रध्रुक् क्लेशस्थानं निरूप्य यो रक्षां करोति स मित्रम् । निरूप्यापि क्लेशं यः परिरक्षति स मित्रमिति गीताभाष्योक्तेः । मित्रेभ्यो द्रुह्यतीति स तथा । ब्रह्महा ब्राह्मणहन्ता । ब्रह्मभ्रूणेत्यादिना क्विप् । गुरुतल्पगो गुरुतरुणीरन्ता । ‘‘तल्पमट्टकलत्रयोः’’ इति विश्वः । स्त्रीराजपितृगोहन्ता स्त्रीहन्तेत्यादिरन्वयो ज्ञेयः । ये च पातकिनोऽपरे इत्यत्रत्यमपरपदं पातकि-पदेन न स्वरसान्वयं सत्पातकपदेनान्वेति । अपरपातकवन्त इत्यर्थोऽपरे नीचा इति वा ॥ ९ ॥
चट्टी
ननु कामकृतानां बहूनां महापातकानां सहस्रश आवर्तितानां द्वादशाब्दादिकोटि-प्रायश्चित्तैरप्यनिवर्त्यानां कथमिदमेकमेव प्रायश्चित्तं स्यादित्यत्राहुः ॥ स्तेन इति द्वाभ्याम् । स्तेनश्चोरः परद्रव्यापहरणं चौर्याद्वाऽथ बलेन वा । स्तेयस्तस्यानाचरणः स स्तेयोऽधर्मसाधनमित्युक्तेः ॥ ९ ॥
सर्वेषामप्यघवतामिदमेव सुनिष्कृतम् ।
नामव्याहरणं विष्णोर्यतस्तद्विषया मतिः ॥ १० ॥
पदरत्नावली
यतस्तद्विषयेत्यनेन भक्तिपूर्वकत्वमाह ॥ १० ॥
सत्यधर्म
विविच्य वचने वृथा समयगमनमिति मत्वा समुदितमुदितवन्त इत्याह ॥ सर्वेषा-मप्यघवतामिति । नारायणानुपूर्व्युच्चार एवैतदादिपापापनुत्तिदो नान्यनामोच्चार इति विचारभ्रमभ्रंशार्थं नामसामान्यमपि तथाविधमप्यभिदधते ॥ नामेति । यतो नाम्नः सङ्कीर्तनात्तद्विषया भगवद्गुणविषया मतिर्धीर्व्यज्यत इति शेषः । एतेनैतेन कृतं भगवन्नामस्मरणं भक्तिव्यक्तीकरणमुखेन सुखेन ज्ञाननिदानं सन्मुक्तिहेतुर्भवतीति सूचयन्ति । यथोक्तं विष्णुरहस्ये । ‘‘सत्यमेवोदितं ब्रह्मन् लोहं याति सुवर्णताम् । केनाप्युपायेनाथाऽपि खर्परं हेम नो भवेत् ॥ अजामिलादयोऽन्येऽपि प्रायो ये पापकर्मिणः । स्वभावेनैव ते भक्ताः प्रारब्धाद्दुष्टचेतसः ॥ अन्तर्भक्त्यैव तन्नाम जगृहुर्नान्यथा क्वचित् । द्वेषिणोऽपि यदा मुक्तिस्तर्हि भक्तिं करोति कः । रमाब्रह्मादयः किन्नु मूढास्तद्भक्तिकारिणः’’ ॥ इत्यादि ॥ १० ॥
चट्टी
सुनिष्कृतं श्रेष्ठप्रायश्चित्तमिदमेव । अत्र हेतुर्नामव्याहरणान्मतिस्तद्विषया विष्णुविषया भवतीत्यर्थः ॥ यद्वा ॥ यतो नामव्याहरणात् । तद्विषया नामोच्चारकपुरुषविषया । मदीयोऽयं मया सर्वतो रक्षणीय इति विष्णोर्मतिर्भवतीत्यर्थः ॥ १० ॥
न निष्कृतैरुदितैर्ब्रह्मवादिभिस्तथा विशुद्ध्यत्यघवान् व्रतादिभिः ।
यथा हरेर्नामपदैरुदाहृतैस्तदुत्तमश्लोकगुणोपलम्भकम् ॥ ११ ॥
पदरत्नावली
ब्रह्मवादिभिर्वेदवादिभिस् तन्नाम्न उदाहरणम् उत्तमश्लोकस्य हरेर् गुणानानन्दादीन् उपलम्भयति तत्प्रतिबिम्बभूतान् प्रापयतीति तदुत्तमश्लोकगुणोपलम्भकम् ॥ ११ ॥
सत्यधर्म
तर्हि गर्हितं किमर्हितैर्मन्वादिभिः करणीयत्वेनोक्तं तपआदिकमित्यतोऽन्ततो गत्वा तदनुकीर्तनमार्तिहरमिति कर्तव्यमेवेति ततः श्रेय इदमित्यवदन्नित्याह ॥ नेति । यथा न तथा विशुद्ध्य-तीत्यन्वयः । तन्नामकीर्तनमुत्तमश्लोकगुणोपलम्भकमुत्तमश्लोकस्य ब्रह्मादिस्तुत्यस्य महाकीर्तेरिति वा गुणानान्दादींस्तत्तत्प्रतिबिम्बगुणबिम्बभूतानुपलम्भयति प्रापयतीति तत्तथा । नामपदैरुदाहृतैरिति बहुवचनेन नैकवारमेकस्य नाम्न आम्नानं फलोपलम्भकमिति भायात्तदपवदितुं तदुत्तमश्लोकगुणोपलम्भक-मित्युक्तमिति मन्तव्यम् । नामात्मकैः पदैर्नारायणाद्यैः ॥ ११ ॥
चट्टी
भगवन्नामोच्चारणस्य प्रायश्चित्तश्रेष्ठत्वमुपपादयन्ति ॥ नेति द्वाभ्याम् । उदाहृतैरुच्चारितै-र्हरेर्नामपदैर्यथा विशुद्ध्यति तथा ब्रह्मवादिभिर्वेदवादिभिर्मन्वादिभिरुदितैर्व्रतादिभिर्निष्कृतैः । अघवान्न शुद्ध्यतीत्यन्वयः । वाक्यत्वसंपादकनमामीत्यादिक्रियासम्बन्धमनपेक्ष्यापि सर्वपापनिवर्तकत्वेनाहो भगव-न्नाममाहात्म्यमित्यभिप्रेत्य नामभिरिति वक्तव्ये नामपदैरित्युक्तम् । इतोऽपि नामोच्चारणं श्रेष्ठमित्याहुः ॥ तदिति । तन् नामोच्चारणम् । उत्तमश्लोकः कीर्तिर्यस्य हरेर्गुणानां ज्ञानानन्दादीनाम् । उपलंभकं स्मारकं भवति । न कृच्छ्रचान्द्रायणादिवत् पापनिवृत्तिमात्रोपक्षीणमित्यर्थः ॥ ११ ॥
नैकान्तिकं तद्धि कृतेऽपि निष्कृते मनः पुनर्धावति चेदसत्पथे ।
तत्कर्मनिर्हारमभीप्सतां हरेर्गुणानुवादः खलु सत्वभावनः ॥ १२ ॥
पदरत्नावली
हरेर्नामसङ्कीर्तनेनैव पापनिर्मूलनं, न तपआदिभिरित्येतदुपपादयति– नेति ॥ निष्कृते पापप्रायश्चित्ते कृतेऽपि अघवतः मनः पुनरसत्पथे शास्त्रनिषिद्धमार्गे धावति चेत् तत्प्रायश्चित्त-मेकान्तिकं नियतम् अव्यभिचारि न भवतीति यस्मात् तस्मात् कर्मनिर्हारमाकाङ्क्षमाणानां हरेर्गुणा-नामनुवाद ऐकान्तिक एवेत्यन्वयः । नन्वनेनापि मनोदोषानाशे पूर्वस्मादविशेषः स्यादिति तत्राह– खल्विति ॥ सत्वभावनोऽन्तःकरणशुद्धिहेतुः खलु ॥ १२ ॥
सत्यधर्म
तप आद्युपरचनेऽपि न चित्तमुत्तम्भयितुं शक्यं ततो न शक्यं दुर्मार्गात्सन्मार्गं प्रति प्रत्यावर्तयितुमिति न केवलमर्थसिद्धिः प्रत्युतानर्थस्ततो भक्तियुक्तं हरिस्मरणं तच्छरणमिति स्फोरयन्तीति वदति ॥ नैकान्तिकमिति । निष्कृते कृतेऽपि प्रायश्चित्ते चीर्णेऽपि मनः किञ्चित्सङ्केतसङ्कोचं विषय-वाञ्छया पुनरुत्कोचमसत्पथेऽसंश्चासौ पन्थाश्चासत्पथः । ‘‘ऋक्पूरब्धूः पथामानक्ष’’ इत्यकारप्रत्ययः । अथवाऽसंश्चासौ पथश्चासत्पथः । वाटः पथश्च पन्थाश्चेत्यमरः । धावति चेत् तत् प्रायश्चित्तम् । ऐकान्तिकमव्यभिचारि न । तत्तस्मात्कर्मनिर्हारमैकान्तिकमभीप्सतां काङ्क्षतां हरेर्भगवतो गुणानुवादः सत्त्वभावनोऽन्तःकरणनिर्मलीकरणकल्पः खलु साधनेयत्ताऽत्र पर्याप्तेत्यर्थः । ‘‘खलु माने प्रकीर्तितम्’’ इति विश्वः । निश्चयार्थं वीप्सा वा खल्वर्थः । वीप्सायां खल्विति तत्रैवोक्तेः । ‘‘सत्त्वं चित्ते प्राणिषु’’ इति विश्वः । स तु गुणानुवादस्तु । अभावनो भावयत्युत्पादयतीति भावनो न भावनोऽभावनोऽपुनर्भवद इति यावदिति वा । न विद्यते भावनमुत्पादनं यस्मादिति वा ॥ १२ ॥
चट्टी
यस्मिन्निष्कृते कृतेऽपि असत्पथे शास्त्रविरुद्धमार्गे मनो धावति चेन्निष्कृतं नैवान्तकं नात्यन्तशोधकम् । तत्तस्मात्कर्मनिर्हारं कर्मणां पापानां निर्हारमात्यन्तिकं नाशमिच्छतां हरेर्गुणानुवादो गुणानां नामप्रवृत्तिनिमित्तभूतधर्माणामनुसन्धानपूर्वकं वाद उच्चारणमेव प्रायश्चित्तं यतोऽतोऽसौ सत्त्वभावनश्चित्तशोधकः खलु प्रसिद्ध इत्यर्थः ॥ १२ ॥
अथैनं माऽपनयत कृताशेषाघनिष्कृतम् ।
यदसौ भगवन्नाम म्रियमाणः समग्रहीत् ॥ १३ ॥
पदरत्नावली
अथ तस्मात् ॥ १३ ॥
सत्यधर्म
फलितं विलम्बमनवलम्बमाना आलपन्तीति लपन्ति ॥ अथेति । अस्मद्दर्शन-समनन्तरमेनमजामिलं माऽपनयतामार्गेण न नयत । तत्र हेतुमाहुरित्याह ॥ कृताशेषाघनिष्कृतमिति । कृतमशेषाणामघानां निष्कृतं प्रायश्चित्तं येन स तम् । किंरूपं तदित्यतः शृृङ्गिग्राहकतया दर्शयन्तीति दर्शयति ॥ यदसौ भगवन्नामेति । समग्रहीद् गृहीतवान् । समा रमारमणभक्तियुक्तता द्योत्यते । समा चतुरक्षरीमध्ये न न्यूनतां द्योतयन्तीति वा । एतेनैतेनानुष्ठितदुरितस्य नामैकदेशेनाप्युच्चारितेनालमयं तु नाम समग्रं जग्राहेति जग्रासैनः सर्वमिति सूचितमिति मन्तव्यम् । यथा नाथनाम तथाऽन्यदपि गृहीतवानितीतररतिरिति कथं तदेकतानमानसता सत एतस्येत्यतो नेत्यप्यनेनैवाहुरित्याह ॥ अथेति ॥ अथ श्रीनारायणनामव्याहरणानन्तरं कृताशेषाघनिष्कृतमेनमजामिलं यद्यतो मा मानं ज्ञानं सम्पद्वाऽऽप प्रापैव । म्रियमाणोऽसौभगवत् सौभगं सौभाग्यं मङ्गलमिति यावत् । तदस्यास्तीति सौभगवत्तन्न भवतीत्यसौभगवन्नाम दास्यादेरसौभगवतां दास्यादीनां नामेति समस्तं वा । समग्रहीत् । विरक्ति-भक्तिसम्पत्तिं समा सूचयति । तथाऽग्रहीन्निगृहीतवान् । ततश्चैनं नयतेति काकुः । न नयतेति तात्पर्यम् । मेत्यनुवृत्तिर्वा ॥ १३ ॥
चट्टी
ननु भगवन्नामोच्चारणमात्रं न पापनिवर्तकम् । किन्तु भक्तिपूर्वकमेव । न चाजामिलस्य तदस्तीत्याशङ्कां परिहरति ॥ अथेति ॥ यद्यस्मादसौ अजामिलो म्रियमाणः सन् भगवन्नाम समग्रहीद् भक्तिपूर्वकमुच्चारितवान् । अथ तस्मात्कृतम् अशेषाणामघानां निष्कृतं येन स तथा । तमेनमपमार्गेण नरकमार्गेण मा नयतेत्यन्वयः । म्रियमाण इत्यनेनान्तकाले हरिस्मृतिर्जन्मनः परमो लाभ इति सूचयति ॥ तदुक्तम् ॥ ‘‘एतावान्साङ्ख्ययोगाभ्यां स्वधर्मपरिनिष्ठया । जन्मलाभः परः पुंसामन्ते नारायणस्मृतिः’’ इति ॥ १३ ॥
साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा ।
वैकुण्ठनामग्रहणमशेषाघहरं विदुः ॥ १४ ॥
तात्पर्यं
नारायणोऽयमित्यन्यहेलनविषयत्वेनोक्तमघहरम् । ‘सर्वथाऽघहरं विष्णोर्नाम तद्भक्तिपूर्वकम् । अभक्त्योदाहृतं नैव फलदातृ भविष्यति । नामस्वामितया तस्य स्मरणं जायते यतः । भक्तस्यातो नामकीर्तिः सङ्केतादावपीरिता । अजामिलोऽपि स्मरणाद्भक्त्या मृत्यो-रमुच्यत’ इति नारदीये ॥ १४ ॥
पदरत्नावली
नन्वनेन न हरेर्नामाग्राहि किन्तु पुत्रानामैवेति तत्राह– साङ्केत्यमिति ॥ पुत्रादि-सङ्केतादिविषयत्वेन नारायणेत्यादिभगवन्नामसङ्कीर्तनमशेषाघहरम् । तदुक्तमाचार्यैः ‘नारायणोऽय-मित्यन्यहेलनविषयत्वेनोक्तमघहरम्’ इति । भक्तिपूर्वकमेवोदाहृतं हरिनामाशेषाघहरमिति तात्पर्यमत्र बोद्धव्यम् । एतदप्युक्तम्– ‘सर्वथाऽघहरं विष्णोर्नाम तद्भक्तिपूर्वकम् । अभक्त्योदाहृतं नैव फलदातृ भविष्यति ॥’ नामस्वामितया तस्य स्मरणं जायते यतः । भक्तस्यातो नामकीर्तिः सङ्केतादावपीडिता । अजामिलोऽपि स्मरणाद् भक्त्या मृत्योरमुच्यत ॥’ इति । स्मरणप्राचुर्यदर्शनाय साङ्केत्यादिस्थल-बाहुल्यकथम् । सङ्केते रूढिमात्रेण व्यवहारनिर्वाहात् स्मरणासम्भवेन परिहासे तस्मात् स्मरणं सम्भवति । चित्तविकासोद्रेकव्यवहारात् । ततोऽपि स्तोभे स्मरणम् । कोपजननाय नर्मवचनं स्तोभः । मधुमक्षिकासूदनाऽसमर्थस्त्वं किं मधुं सूदितवान् ? असौ हरिश्चेन्मधोर्वधान्मधुसूदन इत्युपपन्नमिति । ततोऽपि हेलने नामस्वामिस्मरणम् । हरेरन्यं नारायणादिनाम्ना पित्रादिभिर्दत्तेनोपचरितं कञ्चन पुरुषं दृष्ट्वा निन्दयेत् ‘साक्षात्पयोधिशायी नारायणः किल’ इति । हरिद्वेषेण हरिनामकीर्तनमघहरं न स्यात् । ‘अभक्त्योदाहृतं नैव फलदातृ भविष्यति’ इत्यादेश्च । नामस्वामिस्मरणाभावे देवदत्ते नाम पीडितार्थं भवति । मधोः सूदनान्मधुसूदन इत्यर्थस्याभावात्, हरौ तद्भावात् । अतो अजामिलेन भक्त्या नामस्वामिनं स्मृत्वा नामकीर्तनं कृतमिति ज्ञातव्यम् । तदुक्तञ्च ‘नामस्वामितया तस्य स्मरणं जायते यतः’ इत्यादि । यानि यानि श्रीहरेर्नामानि तानि सर्वाणि पापहरणे सामर्थ्याेपेतानि भवन्तीति ज्ञापनाय वैकुण्ठनामेति । अत्रैव ‘हरिरित्यवशेनाह यः पुमान्’ इति वक्ष्यति । स्मरणं च ज्ञानपूर्वकमपेक्षितमित्यतो विदुरिति ॥ १४ ॥
सत्यधर्म
म्रियमाणो हरेर्नामेति श्लोके तोकनामैवाभक्तिपूर्वकं गृहीतं सन्मुक्तिदमिति भ्रमं तथा साङ्केत्यं पारिहास्यमिति श्लोके गोविन्दनिन्दां कुर्वतोऽपि कुर्वतो नामोच्चारणमुच्चलोकगमनमुच्यत इति भ्रममत्रापेक्षितपूरणेनान्वयं दर्शयन्वारयंश्चाचार्यवर्यस्तत्तात्पर्यार्थमाह ॥ नारायण इति । नारायणोऽय-मित्यन्यहेलनविषयत्वेनोक्तमघहरं स्वपुत्रं छात्रं वा नारायणादिनामानमनभ्यस्यन्तं नारायणोऽयं जाल्मो न पठतीत्यन्यहेलनविषयत्वेनोच्चरितं दुरितहरमित्यर्थः । एतेन मूले हेलनशब्दस्तद्विषयत्वार्थः । तथा चान्यहेलनविषयत्वेनोक्तमित्यर्थः सम्पन्नः । अन्यथा सर्वभक्तानां भागवतं नाम नटयतां कूटधियामयं हरिर्न चान्यथेत्यादिव्यवहरतां साल्वादीनामपि कैवल्यं स्यात् । न च स्यात्किमिति वाच्यम् । निन्दया गोविन्दस्य भगवत्यत्यर्थमनर्थ इत्यर्थप्रतिपादकानामागमानां विप्लवापत्तेः । स्ववादसंवादकमान-मानन्दतीर्थमुनिराह । सर्वथेति ॥ तद्भक्तिपूर्वकं विष्णुभक्तिपूर्वकं विष्णोर्नाम सर्वथा सङ्केतादितः । उदाहृतं फलदात्रित्युभयत्र सम्बध्यते । उदाहृतमशेषाघहरं न केवलं दुरितहरमपि तु फलदातृ मोक्षप्रापकं च । अनेन मानेन स्ववचनभाष्येऽप्यघहरमित्यत्र फलदात्रिति शेषः कार्य इति सूचितं भवति । मुखतो वचनं च प्रस्तुतमनुसृत्येति नाचातुर्याचार्याणामिति मन्तव्यम् । हरिरतस्यावशतो मुखतो निस्सृतं नाम पूर्वतनसत्कर्मवशतोऽघहरमिव फलदातृ च भविष्यतीति भावः । व्यतिरेकमुखेनापि भक्तेरावश्यकता-मभिधत्ते ॥ अभक्त्येति ॥ भक्त्यभावेन न विद्यते भक्तिर्यस्यां सा तया धियेति प्रजयेति शेषो वा । अत्राप्यघहरमित्यन्वेति सङ्केतादिना श्रीनिकेतनामग्रहणं किमनुबन्धेनाघहरमित्यत आह– नामेति ॥ तस्य हरेर्नाम स्वामितया तत्प्रवृत्तिनिमित्तपौष्कल्यसम्पन्नत्वेन तथाऽन्यदीयप्रवृत्तिनिमित्तोज्जृम्भकत्वेन स्वाम्यं तेन यतः स्मरणं भक्तस्य जायतेऽतः सङ्केतादावपि नामकीर्तिस्तत्कीर्तनमुदीरिताऽघहरत्वेनेति शेषः । नामकीर्तिरुद् दलद्वयात्मके मोक्षविषये ईरिता साधनत्वेनेति शेषः । उन्मोक्ष इति विश्वः । प्रकृते मानमाह– अजामिलोऽपीति ॥ भक्त्या स्मरणात् । अपिना लोकदृष्ट्या तदर्हतां सूचयति । मृत्यो-र्यमान्नरकादियातनाया वाऽमुच्यत मुक्तोऽभूत् ।
नन्वनेन कुमारनामैव गृहीतं विदितमाविपालगोपालं तत्कथं कथयत भक्तियुक्तं हरिनामव्याहरणं कृतमित्यत आहुरित्याह ॥ साङ्केत्यमिति । साङ्केत्यं सङ्केतसम्बन्धि सङ्केतात्कृतमिति यावत् । एवं पारिहास्यम् । सङ्केतः पित्रादिकृतः परिहासे प्राचीनाचार्याः स्मृतिपूर्वकं हर इति तत्स्मरणमिति ततो विशेषः । स्तोभं स्तोभो हि हरे मन्त इत्यादिगीतपूरकपदप्रक्षेपः सोऽस्त्यस्येत्यर्श आद्यच् । स्वाशया-नाविर्भावपूर्वकं श्रोतृचित्तचौर्यफलकस्ततोऽपि गरीयान् । हेलनमन्यविषयकमस्येति पूर्ववत् । तात्पर्यान्य-विषयत्वेनेति प्रत्ययार्थविवरणपरमिति मन्तव्यम् । सर्वमिदं नामग्रहणविशेषणम् । अथवा सुपां सुपो भवन्तीत्यादेस्तृतीयायाः प्रथमा । ततश्च साङ्केत्येनेत्यादिसिद्धिरिति दिदर्शयिषुर्वा तात्पर्येऽन्यविषय-त्वेनेत्यूचे सुचेता इति ज्ञेयम् । अन्तरङ्गतरतमभावतो वाऽधिकारिबाहुविध्येन वा सङ्केत्याद्युक्तिः । तत्रापि प्रस्तुतनारायणेति सङ्केतितसुतनामग्रहणरूपत्वेन तत्पुरस्करणं युक्तमिति मन्तव्यम् । चतुरक्षरमित्या-द्युक्तेर्नामनियमः किमिति नेत्याहुरित्याह ॥ वैकुण्ठनामेति । विकुण्ठाया अपत्यं वैकुण्ठो हि विष्टरश्रवाः । शिवाद्यण् । विदुरित्यनेन बहुसंवादं ध्वनयामासुरिति ज्ञेयम् । निरन्तरं रामनामस्मरणकर्ता हरो अशेषाद्यहरमिति वेदितेत्यप्याह– विदुरिति ॥ उः रुद्रः विज् ज्ञाता । एतत्तात्पर्येणैव पुत्रे नारायणाह्वये दूरे क्रीडनकासक्तमित्याद्यभिप्रायः क्रोडीकृतप्राय इति बोध्यम् ॥ १४ ॥
चट्टी
नन्वयं पुत्रनाम जग्राह । न तु भगवन्नामेति तत्राहुः ॥ साङ्केत्यमिति । साङ्केत्यं पुत्रादौ कृतसङ्केतनिमित्तकम् । पारिहास्यं, भगवत्यो वयं देवस्त्रीस्वभावेन यद्यपि । भगवानसि केन त्वं हेतुना यातु नाशनेत्याद्युक्तप्रकारेण परिहासेन कृतम् । स्तोभं गीताविलासपूर्णार्थं कृतम् । हेलनं नारायणशब्देन संकेतिते पुरुषेऽवज्ञया सर्वदोषाश्रयस्त्वं कथं नारायणोऽसीत्यादिरूपमपि वैकुण्ठनामग्रहणमशेषाघहरं विदुरित्यर्थः । साङ्केत्यादिषु मध्ये केनापि प्रकारेणोच्चारितभगवन्नाम्नस्तन्मुख्यवाच्यभगवत्स्मारकत्वेन भगवद्भक्तिजनकत्वेन सर्वपापनिवर्तकत्वं युज्यत इति भावः ॥ १४ ॥
पतितस्खलितो भग्नः सन्दष्टस्तप्त आहतः ।
हरिरित्यवशेनाह पुमान्नार्हति यातनाम् ॥ १५ ॥
पदरत्नावली
सन्दष्टः सर्पादिना । आहतो लकुटेन । यातनां दुःखम् ॥ १५ ॥
सत्यधर्म
स्वोक्तं दृढीकर्तुं पुनः सप्तश्लोक्या प्रत्यपीपदन्निति प्रतिपादयति ॥ पतित इति । ‘‘पततेस्तनिपतिदरिद्रातिभ्यः’’ इति वैकल्पिकस्येटो यस्य विभाषेति निषेधात्तत्र चैकाजित्यनु-वृत्तेरप्राप्तेर्द्वितीयाश्रितातीतपतितेति निपातनाच्चुरादावदन्तेषु पठितस्य पतगतावित्यस्येटि रूपमिति वा मन्तव्यम् । सन्दष्टः सर्पादितः । तप्तो ज्वरादिना मध्येऽध्वसूर्यतापादिना वा । आहतस्ताडितो यः पुमानवशेन परिदृश्यमानबाह्यसाहित्यानधीनतया हरिरित्याह स यातनां नार्हतीति सम्बन्धः । हरिरित्यक्षरद्वयकनामग्रहणेनायं तु चतुरक्षरं नाम जग्राहेति यातनां नार्हतीति किं वक्तव्यमिति कैमुत्यं ध्वनयाञ्चक्रुरिति हृदयम् । पुमानित्यनेन वर्णाश्रमादिनियमाभावं लक्षयन्ति । पुमानित्युक्तेः पूर्वोक्ता गतिरनुसन्धेया ॥ १५ ॥
चट्टी
नामव्याहरणं न ध्यानादिवदासनादिनियमसापेक्षमिति सुलभोपायः । स्मरणं सर्वदा योग्यं ध्यानोपासनमासन इत्यभिप्रेत्याहुः । पतित इति ॥ प्रासादादिभ्यः सुपतितो मार्गे भग्नगात्रः संदष्टः सर्पादिभिस्तप्तो ज्वरादिभिराहतो दण्डादिना । एतादृशः पुमान् । अवशेन भक्तिपारवश्येन हरिरित्याह । सः यातनां नार्हतीत्यर्थः । पुमानित्यनेन नात्र वर्णाश्रमादिनियम इत्युक्तम् ॥ १५ ॥
गुरूणां च लघूनां च गुरूणि च लघूनि च ।
प्रायश्चित्तानि पापानां ज्ञात्वोक्तानि महर्षिभिः ॥ १६ ॥
पदरत्नावली
ननु नामसङ्कीर्तनेन पापपरिहारे गुरुलघुपापपरिहारार्थं गुरुलघुप्रायश्चित्तविधानं व्यर्थमित्याशङ्क्य प्रायश्चित्तेन तत्तत्पापपरिहारेऽपि संसारहेतुभूतं पापसंस्कारव्यञ्जकं प्राकृतं लिङ्गं मनो भगवदनुग्रहेण लीयते नान्येनेत्याह– गुरूणामिति ॥ १६ ॥
सत्यधर्म
ननु तर्हीयतैव सर्वपापापनोदे महतां पातकानां महान्ति लघीयसां लघीयांसीति विचार्य महर्षिभिराचार्यैरुदितानि । महान्तो ऋषयो द्रष्टारो येषां तैर्वेदादिभिरिति वा । उक्तानि प्रायश्चित्तानि वृथेत्यायातमित्यत एतैः पातकमात्रघातेऽप्यन्ततो गत्वा संसारकारणस्यान्तःकरणस्य कंसारिकरुणात एवातिसम्पादनीयोपायो नोपायान्तरेणेति सैव कैश्चिच्छ्लोकैराहुरित्याह ॥ गुरूणामिति ॥ १६ ॥
चट्टी
ननु पापतारतम्येन कृच्छ्रादितारतम्यवन् महतः पापस्य महदेव प्रायश्चित्तं युक्तम् । न त्वल्पनामग्रहणमात्रमिति तत्राहुः ॥ गुरूणामिति द्वाभ्याम् । गुरूणां पापानां गुरूणि प्रायश्चित्तानि लघूनां लघूनीति तारतम्यं ज्ञात्वा मन्वादिषूक्तानि । अतस्तत्र न तथैव व्यवस्था । श्रीहरिनामस्तुतेरियं व्यवस्थोक्ता । ‘‘मुच्यते सर्वपातकैः’’ इति वचनात् । न चेदं वचनमपि विश्वसनीयम् । सुराबिन्दुमात्र-पानस्य महापातकत्वाभिधायकवचनस्यापि तथात्वापातादिति भावः ॥ १६ ॥
तैस्तान्यघानि पूयन्ते तपोदानव्रतादिभिः ।
नाधर्मबीजं हृदयं तदपीशाङ्घ्रिसेवया ॥ १७ ॥
पदरत्नावली
हृदयं लिङ्गं मनः ॥ १७ ॥
सत्यधर्म
तैर्महर्षिभिरभिहितैरघानि पूयन्ते तेन तद्वन्तो लक्ष्यन्ते अघवन्तः पूयन्ते पूता भवन्तीत्यर्थः । अधर्मबीजं मुख्यमधर्मसाधनं मनः । हृदयं मनः पूयन्त इति पूयत इति विपरिणतं सदन्वेति यतो हृदयं ब्रह्म तस्य ईशा एवं समर्थेनाधिकारिणा कर्त्राऽङ्घ्रिसेवया करणेन पूयते हृदयमधर्मबीजं नेति वा । हृदयं च सः । हृतिसद्दानयानेभ्यः यत्तध्रृदयमित्युक्तमिति बृहद्भाष्योक्तेः । न पूयन्ते तर्हि तस्य कः प्रतीकार इत्यत आहुरित्याह ॥ तदपीति । ईशाङ्घ्रिसेवया स्मरणादिरूपिण्या । विष्णोः स्मरणमात्रेण मुच्यते सर्वपातकैः । पापक्षयश्च भवति स्मरतां तमहर्निशमित्यादेः । तदपि तप आदिभिरपूतमपि पूयत इत्यन्वयः ॥ १७ ॥
चट्टी
किं च तैस्तपोदानादिभिस्तान्यघानि पूयन्ते नश्यन्ति अधर्माणां बीजमुत्पत्तिस्थानं हृदयं लिङ्गं मनो न शुद्ध्यति । तदपीशाङ्घ्रिसेवया कीर्तनादिलक्षणया शुद्ध्यतीत्यर्थः ॥ १७ ॥
धर्मो योऽयमुपन्यस्तः परमस्तु सनातनः ।
क्रियतेऽहरहः शुद्धिरात्मनो वाससो यथा ॥ १८ ॥
पदरत्नावली
अजामिलस्यापि सकृन्नामसङ्कीर्तनेन वृषलीसङ्गावाप्तपापपरिहारेण देहवियोग-लक्षणमृत्योर्मुक्तिर् न तु संसारात्, तदर्थं तन्नामोच्चारणादिसेवाऽहरहः कर्तव्येति विधीयते– धर्म इति ॥ धर्मो नामसङ्कीर्तनलक्षणः । आत्मनः शुद्धिर् अचिन्मनोनाशेन चिन्मनसः कैवल्यलक्षणा शुद्धिर्भवति । वाससो निर्णेजनेनेवेति शेषः ॥ १८ ॥
सत्यधर्म
ननु युष्मत्कपोलकल्पनमिदं न केऽपि लोका एवमवदन्नित्यत आहुः ॥ धर्म इति । उपन्यस्तोऽस्माभिरिति शेषः । सनातनः परम्परागतत्वान् नादेन शब्देन सह वर्तत इति सनादन एव सनातन इति गीतातात्पर्योक्तदिशा निर्वचनत्वाद्दकारस्य तकारे सनातनो वेदवेदित इत्यर्थः । अहरहः सदा क्रियते चेदात्मनो मनसः शुद्धिर्भवतीति शेषः । यथा वाससो वसनस्य शुद्धिर्नीरक्षारादिनेति शेषः । क्रियते ह चेद्रहः शुद्धिरेकान्तिकी शुद्धिः सकृन्नाम गदाभृत इत्यादीनि नैकान्तशुद्धिः स्यात्कर्तु-रित्यनुवचनं च लग्नानि भवन्तीव भगवन्नाममहामाहात्म्यलाभो भवत्येवं योजनायाम् इति ज्ञेयम् ॥ १८ ॥
चट्टी
वैवश्येनापि सकृदनुष्ठित्तभगवन्नामकीर्तनादिना सर्वपापनिवृत्तिद्वारा मोक्षो भवतीत्येतदधि-कारिविषयम् । ‘‘शरीराद्वाचकाभ्यासो वाचकान्मानसो भवेत् । मानसाद्विवशान्मुच्येन्नान्यथा मुक्ति-रिष्यत’’ इति वचनात् । अजामिलस्य तदानीमेव मुक्त्यभावाच्च । अतो यावदधिकारपरिपाकं तावद्वृत्तिः कर्तव्येत्यभिप्रेत्याह ॥ धर्म इति । यः कीर्तनादिलक्षणो धर्म उपन्यस्तोऽयं यदि पुरुषेणाहरहः क्रियेत तर्ह्यात्मनोऽन्तःकरणस्य शुद्धिर्भवति । तत्र दृष्टान्तः ॥ वाससो यथेति । निर्णेजनेनेति शेषः ॥ १८ ॥
नैकान्तशुद्धिः स्यात् कर्तुः क्रियया कर्तृता१ यतः ।
अकर्तुरात्मनस्तस्माद्भजेतानीहया हरिम् ॥ १९ ॥
पदरत्नावली
नन्वीश्वरसेवया यथा मनश्शुद्धिस् तथा निरन्तरप्रायश्चित्तक्रिययाऽपि सा किं न स्यादिति तत्राह– नैकान्तशुद्धिरिति ॥ अकर्तुः स्वतन्त्रकर्तृतारहितस्यात्मनः जीवस्य प्रायश्चित्तकर्मकर्तुः प्रायश्चित्तक्रियया एकान्तशुद्धिर्मनःशुद्धिपूर्विका शुद्धिर्न स्यात् । अकर्तृता स्वतन्त्रकर्तृत्वं नास्तीति यतः । तस्मादनीहया निषिद्धकर्माकरणेन निरन्तरहरिनामकीर्तनलक्षणक्रियया हरिं भजेतेत्यन्वयः ॥ १९ ॥
सत्यधर्म
क्रियया तप आदिकयैकान्तशुद्धिः संसृतिबीजभर्जनेन मनःशोधनं कर्तुर्जीवस्य न भवति । अकर्तुरक्लिष्टकारित्वात् । ‘‘हरिरक्लिष्टकारित्वादकर्तेत्युच्यते बुधैः’’ इत्यादेः । अतत्फल-भोक्तृत्वादकर्ता हरिः । अनश्नन्नित्यादेः । नासौ दुःखभुगुच्यत इत्यादिस्मृतेश्च । आत्मन आततत्वाच्च मातृत्वादात्मेत्यादेः । सकाशात्क्रियया करणेन यतः कर्तृता तस्मात्तं हरिं क्रियाकारयितारमनीहयाऽ-फलकामनया भजेत स्मरणादिरूपं भजनं कुर्यात् । यतः क्रियया पूर्वं कर्तुमारब्धया पुनः कर्तृता देहान्तरप्रापककर्मकर्तृता । अनेन कर्मपरम्परापराहतिरनयेति ध्वन्यते । अकर्तुरीषत्कर्तुः फलभोजनमात्र-हेतुभूतपरतन्त्रकर्तृत्ववत आत्मनः क्रियया नैकान्तशुद्धिर्यतस्तस्मात् शिष्टं स्पष्टमिति वा । या क्रिये-हैकान्तशुद्धिरेकान्ता ऐकन्तिकी मुख्येति यावत्, शुद्धिर्यस्याः सा तथा न स्यात्तया क्रिययेति पूर्ववत्सर्वमन्वेतव्यम् । तस्मादनी प्राणी हरिं भजेतेति वा ॥ १९ ॥
चट्टी
कीर्तनादिलक्षणभगवद्भजने इतिकर्तव्यतामाह ॥ नेति । कर्तुर्जीवस्य क्रियया कर्मणा । एकान्तशुद्धिर्न स्यादित्यतस्तस्माद्धरिमनीहया फलानपेक्षया भजेतेत्यन्वयः । ननु हरिरेव कुतो भजनीय इत्यतः स्वतन्त्रत्वादित्याह । यतो न विद्यते कर्ता यस्य तस्यात्मनः परमात्मनः कर्तृतां स्वातन्त्र्यम् । कर्तृत्वं तु स्वतन्त्रत्वमित्युक्तेः । तस्माद्धरिमेव भजेतेत्यर्थः ॥ १९ ॥
अज्ञानादथवा ज्ञानादुत्तमश्लोकनाम यत् ।
सङ्कीर्तितमघं पुंसो दहत्येधो यथाऽनलः ॥ २० ॥
पदरत्नावली
नामसङ्कीर्तनस्य कर्तव्यतामर्थवादरूपेणोपसंहरति– अज्ञानादिति ॥ अज्ञाना-दित्यनेन सर्वात्मना ज्ञानाभावोऽपि न विवक्ष्यते । किन्तु अरविरुद्धत्वान्नारा गुणास् तेषामाश्रयो नारायण इत्याद्यर्थविषयवेदनाभावः । अन्यथा हरेः सर्वशब्दवाच्यत्वेन घटपटादीनां तन्नामत्वेऽपि तान् विहाय नारायणादिनामकीर्तनानुपपत्तेः । अत उपचारमात्रमिदमिति ज्ञातव्यम् ॥ २० ॥
सत्यधर्म
अज्ञानादल्पज्ञानाद्भगवन्नामेदमेतत्स्मरणमेवारणमिति ज्ञानादित्यर्थः । ज्ञानान्मुख्या-मुख्यनयेन निर्वचनलभ्यानन्याधीनार्थपौष्कल्यवत्त्वज्ञानात् । अज्ञानादिति छेदो वा । यदुत्तमश्लोक-नामोद्गतं तमोऽज्ञानं यस्मात्स उच्यत उत्तमः । स श्लोको यशो यस्य तस्य नाम । एकशकार-द्विशकारोच्चारणविशेषाविशेषविचारोऽस्माभिर्विरचितायां भाष्यदीपिकायुक्तिवात्यायां यद्द्वैतं न पश्यतीति बृहदारण्यकतत्त्वनिर्णयन्यायामृतमहाभाष्याद्युदाहरणेन कृतोऽनुसन्धेयः । तमोवाची तमशब्दो वा । तमं तु तमसा सार्धमिति द्विरूपकोशः । उदुत्कृष्टं तमो दुर्गात्मिका श्रीस्तया श्लोक्यत इति स तथा । ‘‘तमो हि दुर्गा’’ इति श्रुतिगीता । ‘‘तमो दुर्गा प्रकीर्तिता यतः संग्लपयेत्सर्वम्’’ इति बृहदारण्यकभाष्योक्तेः । उत्तमौ श्लोकौ सुखज्ञाने यस्य स उत्तमश्लोकस्तस्य नामेति वा । शं लोकः श्लोकः परमानन्दं परमज्ञानं चेत्यर्थः। लुक्प्रकाश इति धातोरिति बृहद्भाष्योक्तेः । अघं पापम् । एकवचनेनेतराशक्य-परिहारमेतन्मात्रपरिहार्यं गात्रान्तरारम्भकं यद्दहने कैमुत्येनेतरपराकृतिस्तदघं धर्तव्यमिति सूचितं भवति । एधः काष्ठमनलोऽग्निः ॥ २० ॥
चट्टी
ननु तथाऽप्यजामिलेन भगवन्नाम सर्वपापप्रायश्चित्तमिति ज्ञात्वा नोच्चारितमिति चेत्तत्राहुः ॥ अज्ञानादिति । बालकेनाज्ञानात्प्रक्षिप्तोऽग्निर्यथा काष्ठराशिं दहति तद्वदित्यर्थः । भक्तिमता गृहीतमेव नामाघहरमिति ज्ञापनाय दृष्टान्ते एध इत्युक्तम् । अग्नेर्दाहकत्वसामर्थ्ये विद्यमानेऽपि स्वविषयं काष्टमेव दहति न त्वविषयं पाषाणम् । तथा भगवन्नामापि भक्तिमन्तमेव पुनाति न तु तद्रहितमिति भावः ॥२०॥
यथाऽगदं वीर्ययुतं१ सूपयुक्तं यदृच्छया ।
अजानतोऽप्यात्मगुणं कुर्यान्मन्त्रोऽप्युदाहृतः ॥ २१ ॥
पदरत्नावली
सर्वशब्दानां भगवन्नामत्वेऽपि तदावृत्त्यापि फलानुदयान् नारायणादिनाम्ना तदुदयोपलम्भादुभयेषां विशेषः कस्मादित्याशङ्क्य मन्त्रोऽगदवदित्याहुरित्याह– यथेति ॥ अजानत इत्यत्रापि उपदेशादिना सामान्यज्ञानमस्त्येव । सूपयुक्तमित्यस्योपदेशापेक्षितत्वात् । यथेतरस्तम्ब-मूलशब्दमात्रेभ्यः मन्त्रौषधयोर् विशिष्टफलत्वं चेश्वरक्लृप्तदेवतासन्निधानात् तथाऽत्रापीति भावः ॥ २१ ॥
सत्यधर्म
ननु नामानि सर्वाणि सर्वनामा सर्वकर्मेत्याद्याम्नायाम्नातत्वाद्घटपटाद्यभिधाऽपि भगवतोऽभिधैव तदुच्चारणं चास्ति सदातनतः फलं नोपलभ्यत उपलभ्यते च नारायणादिनामसङ्कीर्तने तु किं कृतोऽयं विशेष इति चेत्सत्यम् । तत्राधिकारिणो हि महान्तो ब्रह्मादय एव तेषां चोपलभ्यते तेषां फलमितर इतरत्रधिकारिण इति तेषामेव प्रस्तुततया नामपुरस्कारणं तच्च सामान्यतो ज्ञातं ज्ञातं च विशेषतः कलयत्येव स्वस्वानुगुणं फलमित्यनुरूपनिदर्शनेन दर्शयन्तीति दर्शयति । यथेति ॥ अगदम् औषधम् । ‘‘भिषजौषधभैषज्यान्यगदोजायुरित्यपि’’ इत्यमरः । वीर्ययुतं स्वभावसामर्थ्योपेतं यदृच्छया हरीच्छयैव । ‘‘यदृच्छा तु हरीच्छा स्यात्’’ इत्यादेः । उपयुक्तं शरीरान्तःप्रविष्टमजानत एतद्रोग-स्यैतदिति विशेषशेमुषीरहितस्यापि नरस्यात्मगुणमारोग्यादिकं कुर्यादेव । उदाहृतो मन्त्रः शब्दात्मा सन्नप्यजानतोऽपि यदृच्छयोदाहृत आत्मगुणं श्रीश्रीनिवासप्रसादं रिपुपुरीहरणादिकं वा कुर्यादिति । तत्र यथा भगवत्सन्निधानविशेषमाहात्म्यं प्रयोजकमितीतरशब्दविलक्षणता तथा नामविशेष इति विशेषा-न्महामाहात्म्यं तस्येति तदुच्चारणमुच्चताहेतुरिति नाम सङ्कीर्तितमिति कीर्तितं युक्तमिति भावः ॥ २१ ॥
चट्टी
उक्तमर्थं दृष्टान्तान्तरेण समर्थयति ॥ यथेति ॥ यथा वीर्यतममगदमौषधं यदृच्छया दैवेच्छयोपभुक्तं भक्षितं सद् आत्मगुणं स्वसामर्थ्यमजानतोऽपि पुरुषस्यात्मगुणमारोग्यलक्षणं कुर्यादेव । तथोदाहृत उच्चारितो हरिनामलक्षणमन्त्रोऽपि सकार्यं कुर्यादेवेत्यर्थः । पापनिवर्तनस्वभावमपि भगवन्नाम-ज्ञानविशेषेण फलविशेषप्रदमिति ज्ञापनायौषधदृष्टान्तः ॥ तदुक्तम् औषधादिषु चैतस्माद्देवा एव वरप्रदाः । औषधादिस्थिता देवास्तेऽज्ञे दृष्टफलप्रदाः । ज्ञानिन्यदृष्टदाश्च स्युर्न दैवात्किञ्चिदिष्यते । यथाऽज्ञस्यापि राज्ञस्तु भोजनं क्लिप्तमिष्यते । न त्वविज्ञाय राजानं ग्रामप्राप्तिस्तथा भवेत् । एवं देवा दृष्टफलं दद्युरज्ञस्य चाल्पतः । किञ्चिदज्ञकृता दृष्टा तच्च नैवान्यथा भवेत् । अदृष्टाख्यं फलं यत्तु तत्ज्ञस्यैव न चान्यगम्’’ ॥ इति ॥ २१ ॥
पतिं वः पृच्छत भटा धर्मेऽस्मिन् यदि संशयः ।
स वेद परमं गुह्यं धर्मस्य भगवान् यमः ॥ २२ ॥
पदरत्नावली
भवद्भिरस्मदुक्तार्थो विस्रम्भणीयः, युष्मत्पृष्टस्वाम्युक्तार्थस्यैकत्वोपपत्तेरित्याशये-नाहुरित्याह– पतिं व इति ॥ २२ ॥
सत्यधर्म
स्वोदीरिते धर्मे श्रुतेऽपि किञ्चित्सङ्कुचितचेतसः प्रेतनाथदूतान्विश्वासजननाय ताना-श्वासयामासुरेवमुपदेशेनेति शंसति ॥ पतिमिति । हे भटा यद्यस्मिन्नस्मदुक्ते धर्मे संशयस्तर्हि वः पतिं सर्वस्वाम्यं निरुपचरितं स्वस्वामिन एव नान्यस्येति भटा इत्यविशेषतोक्त्या तत्रापि व इत्येवोक्त्या किञ्चिदाधिपत्यं सम्मतीकृत्य प्रोचुरिति सूच्यते । भगवद्दूतगदितो धर्मो वा वदेति स्वामिनं यमं पृच्छत । यथा राजा तथा प्रजा इत्यादेस्तदुपदेशेनैवेयं दशाऽस्माकमिति तत्प्रश्नो विफल इति चेन्न स तथेत्याहुरित्याह ॥ स इति । स भगवान्यमो धर्मस्य परमं गुह्यमितरातिगोप्यस्वरूपं वेद जानात्यतो वः प्रश्नः फलवानिति फलितोऽर्थः । धर्मस्य धर्मं भगवतो वेद परमं वेद मुख्यार्थं गुह्यं साकल्येन ज्ञातुमशक्यत्वाद्गोप्यम् । वेदेत्येकदेशावृत्तिः । परमं बहुज्ञं बहुसम्पदं रमारमणं वेदेति वा ॥ २२ ॥
चट्टी
नास्मद्वाक्यमविश्वसनीयमित्याहुः ॥ पतिमिति ॥ २२ ॥
श्रीशुक उवाच—
एवं ते सुविनिर्णीय धर्मं भागवतं नृप ।
तं याम्यपाशान्निर्मुच्य विप्रं मृत्योरमूमुचन् ॥ २३ ॥
पदरत्नावली
मृत्योर्देहवियोगलक्षणात् ॥ २३ ॥
सत्यधर्म
एवं विवादानन्तरमनन्तदूताः किं चक्रुरिति परीक्षित्प्रश्नस्यावसरमददानः शुको वदतीति वदति ॥ श्रीशुक इति । नृपेत्यनेन राजस्वपि विबलीयस्सु बलीयसां राज्ञां वृत्तिरेतादृशीति त्वदनुभवारूढं प्रमेयमिदमिति ध्वनयति । मृत्योस् तात्कालिकापमृत्योरमूमुचन्नायुषः शेषो गमनीय इति तं त्यक्त्वा कृत्वा भगवत्प्रवणं गता इति भावः ॥ २३ ॥
चट्टी
तं विप्रं मृत्योर्देहवियोगलक्षणात् । अमूमुचन् मोचयामासुरित्यन्वयः ॥ २३ ॥
इति प्रत्युदिता याम्या दूता याता१यमान्तिकम् ।
यमराज्ञे यथा सर्वमाचचख्युररिन्दम ॥ २४ ॥
पदरत्नावली
विष्णुदूतैः सदुत्तरीकृता याम्याः पुनः किमकुर्वन्निति तत्राह– इतीति ॥ २४ ॥
सत्यधर्म
हरिपरिचरोदीरितस्य प्रत्युत्तरदाननिदानज्ञानहीना निर्निष्पादितपतिप्रतिभाषितार्थाः श्रितास्तमेव देशं गता वा विदेशं निदेशकारिणां किमस्माकमिति स्वेशं प्रत्येव गता इत्यतोऽननुमत्या प्रतिक्षिप्य पक्षद्वयं तृतीयं मन्वानाः क्षेमङ्करं तथा चक्रुरित्याह ॥ इतीति ॥ प्रत्युदिताः प्रत्याख्याताः श्रीनाथदूतैरिति पूर्वोदीरितरीत्या । यथा सर्वं स्वानुभूतसर्वार्थानुसारं यमराज्ञे यमराजाय जानन्ति पूर्वराजान आदिराज्ञामित्यादि प्रायः प्रयोगाट् टजनित्य इति बोध्यम् । आचचख्युराख्यातवन्तः । हे यमेति सम्बोध्य राज्ञ आचचख्युरिति वा । आ च चख्युरिति छेदः । व्यवहिताश्चेत्युक्तेराङः क्रियया योगो बोध्यः । तथा चाचख्युश्चेत्यन्वयः । यं धर्मं प्रत्युद्दिश्योदितास्तन्नाममात्रोच्चारणरूपमाचरितं धर्ममरान्दोषान् आ सम्यग्जानातीति ज्ञः । दोषारश्छिद्रेत्यादेः । दोषज्ञे विपश्चिति तत्समीपे । वटे गाव इतिवत्सामीपकाधिकरणे सप्तमी । आचख्युरिति वा । हरिदूतकृतावमतिदरतो यम यमेति याता याम्यदूताः । अन्तिकम् अन्ती हि स्वैर्देयत्वेन क्लृप्तोऽन्तो देहवियोगरूपस्तद्वांस्तस्य मृतप्रायस्येत्यभिप्रायः । कं तदवियोगजनजनितसुखं भगवद्दूतदत्तमिति वाऽन्वयः । ‘‘सुखशीर्षजलेषु कम्’’ इति विश्वः । अरिन्दम परीक्षित् । संज्ञायां भृतॄवृजिधारिसहितपिदम इति खश् । अरुर्द्धिषदजन्तस्येति मुम् । दमिः शमनायां तेन सकर्मक इत्युक्तम् । मतान्तरे त्वन्तर्भावितण्यर्थोऽत्र दमिरिति कौमुद्युक्तेर्दमिमात्रे विशेषो बोध्यः ॥ २४ ॥
चट्टी
प्रत्युदिता निराकृताः । विष्णुदूतैरिति शेषः । यात्वा गत्वा यमराज्ञे यमराजाय यथा यथावत्कथयामासुः ॥ २४ ॥
द्विजः पाशाद्विनिर्मुक्तो गतभीः प्रकृतिं गतः ।
ववन्दे शिरसा विष्णोः किङ्करान्दर्शनोत्सवः१ ॥ २५ ॥
पदरत्नावली
अजामिलेन मुक्तमृत्युना पुनः किमकारीति तत्राह– द्विज इति ॥ प्रकृतिं गतः सात्विकावस्थां प्राप्तः ॥ २५ ॥
सत्यधर्म
अजामिलो निजमोचनानन्तरं किमचीचरत्ते वा चक्रभृद्भटाः किं चक्रुरित्यत आह ॥ द्विज इति । प्रकृतिम् अयं हि श्रुतिसम्पन्न इत्यादिनाऽऽदित उदितां सत्त्वं स्वभावम् । दर्शनोत्सवो दर्शनाज्जात उत्सवो यस्य दर्शनस्य सम्बन्धश्चोक्तरूप उत्सवो यस्येति वा दर्शने उत्सव इच्छाप्रसरो यस्येति वा । ‘‘उत्सवो मह उत्सेक इच्छाप्रसरकोपयोः’’ इति विश्वः ॥ २५ ॥
चट्टी
प्रकृतिं सात्विकावस्थाम् । दर्शनोत्सुकान् स्वदर्शनेन जनानामुत्सवापादकान् ॥ २५ ॥
तं विवक्षुमभिप्रेत्य महापुरुषकिङ्कराः ।
सहसा पश्यतस्तस्य तन्त्रान्तर्दधिरेऽनघ ॥ २६ ॥
पदरत्नावली
मर्त्यदेहस्थेन तेन द्विजेन सल्लापायोगाद् विष्णुदूतैः किं कृतम् ? अत्राह– तं विवक्षुमिति ॥ २६ ॥
सत्यधर्म
विवक्षुं किञ्चिद्वक्तुकाममभिप्रेत्य ज्ञात्वा सहसा तत्रान्तर्दधिरे । आगमनप्रयोजन-निष्पत्तेः कृत्यान्तरस्येदानीमभावादन्तर्धानमिति भावः ॥ २६ ॥
चट्टी
विवक्षुं वक्तुमिच्छन्तम् । अभिप्रेत्य ज्ञात्वा ॥ २६ ॥
अथाजामिल आकर्ण्य दूतानां यमकृष्णयोः ।
धर्मं भागवतं शुद्धं त्रैविद्यं च गुणाश्रयम् ॥ २७ ॥
पदरत्नावली
प्रकृतिं गत इत्युक्तं विवृणोति– अथेति ॥ त्रैविद्यं त्रिवेदविहितं धर्मम् । एतदेव स्पष्टयति– गुणाश्रयमिति ॥ २७ ॥
सत्यधर्म
यमकृष्णयोरागमनक्रमतो निर्देश इति वा सिद्धान्तस्य सिद्धं पूर्वपक्षपूर्वकत्वमिति वा नाभ्यर्हितसमयसमीक्षेति मन्तव्यम् । तयोर् दूतानां सकाशात्त्रैविद्यं वेदत्रयविहितं गुणाश्रयं शुद्धं भागवतधर्ममाकर्ण्येति सामानाधिकरण्येनान्वयः । त्रैविद्यं गुणाश्रयं सत्त्वादिगुणाश्रयकं धर्मं यमदूतोदितं शुद्धं भागवतं धर्मं हरिकिङ्करोदीरितमाकर्ण्येति वैय्यधिकरण्येन यथाक्रममन्वयो वा । चशब्दः परस्परसमुच्चायकः प्राचि सम्प्रति तु वक्त्रन्तरप्रकारान्तरसमुच्चायक इति ज्ञेयम् ॥ २७ ॥
चट्टी
कृष्णदूतानां सकाशात् । शुद्धं मोक्षसाधनं भागवतं धर्मं भगवत्कीर्तनादिलक्षणधर्मं, यमदूतानां सकाशात् त्रैविद्यं वेदप्रतिपाद्यम् । गुणाश्रयं गुणमयस्वर्गादिविषयं धर्मं च श्रुत्वेति विवेकेन योज्यम् ॥ २७ ॥
भक्तिमान् भगवत्याशु माहात्म्यश्रवणाद्धरेः ।
अनुतापो महानासीत् स्मरतोऽशुभमात्मनः ॥ २८ ॥
पदरत्नावली
स्वर्गादिविषयं श्रुत्वा पथिकवदुदासीनोऽभूत् किम् ? अत्राह– भक्तिमानिति ॥ अभूदिति शेषः । कृतदोषप्रायश्चित्ताभावे हरौ भक्तिः सुदृढा न स्यादित्यतस् तत्प्रायश्चित्तक्रिया-प्रकारमाह– अनुताप इति ॥ २८ ॥
सत्यधर्म
यो हरेर्माहात्म्यश्रवणादाशूपदेशकमाहात्म्येन भक्तिमांस्तस्यात्मनोऽशुभं स्मरतः कामादशुभं स्मरत इत्यावृत्यान्वयो वा । महाननुतापः पश्चात्ताप आसीदिति यच्छब्दमात्राध्याहारेण योजना लघुः ॥ २८ ॥
चट्टी
भक्तिमानासीदित्युत्तरस्यानुषङ्गः ॥ २८ ॥
अहो मे परमं कष्टमभूदविजितात्मनः ।
येन विप्लावितं ब्रह्म वृषल्यां जायताऽऽत्मना ॥ २९ ॥
पदरत्नावली
ब्रह्म ब्रह्मण्यं विप्लावितं विनाशितम् । जायता रेतोरूपेण जायमानेन ॥ २९ ॥
सत्यधर्म
अनुतापस्वरूपमेव निरूपयति कैश्चिच्छ्लोकैः ॥ अहो इति । ब्रह्म वेदो वा तपो वा ब्राह्मणकुलं विप्लावितं विनाशितम् । वृषल्यां, ‘‘यस्मिन्विलीयते धर्मस्तमेव वृषलं विदुः । वृषो हि भगवान्धर्मो यस्तस्य कुरुते लयम्’’ ॥ इति शान्तिपर्वराजधर्मोक्तेरेतादृशस्य स्त्रीति पुंयोगङीष् । साधवः शूद्रा वारिताः । जायता जायमानेन रेतोरूपेणोत्पन्नेनात्मना मया । ‘‘तज्जाया जाया भवति यदस्यां जायते पुनः । आभूतिरेषा भूतिर्बीजमेतन्निधीयत’’ इति सप्तमपञ्चकीयत्रयोदशखण्डोक्तेः । आत्मा वै पुत्रानामासीदित्यादेश्च ॥ २९ ॥
चट्टी
अनुतापं प्रपञ्चयति ॥ अहो इति चतुर्भिः । येनात्मना मया वृषल्यां पुत्रतया जायमानेन ब्रह्म ब्राह्मणजातिः प्लावितं नाशितम् ॥ २९ ॥
धिङ्मां विगर्हितं सद्भिर्दुष्कृतं कुलकज्जलम् ।
हित्वा बालां सतीं योऽहं सुरापामसतीमगाम् ॥ ३० ॥
पदरत्नावली
कुलकज्जलं ब्राह्मणकुलमषीभूतम् ॥ ३० ॥
सत्यधर्म
दुष्कृतं दुःखसाधनत्वेन दुष्टव्यापारं कुलकज्जलं कुलस्य कालुष्यप्रदत्वेन कज्जलं मषीसदृशं कलङ्ककरमिति यावद् बालां स्त्रियं सतीं पतिव्रताम् ॥ ३० ॥
चट्टी
दुष्कृतं दोषकर्तारं कुलकज्जलं कुलस्य ब्राह्मणकुलस्य कज्जलं कलङ्कम् ॥ ३० ॥
वृद्धावनाथौ पितरौ नान्यबन्धू तपस्विनौ ।
अहो मयाऽधुना त्यक्तावकृतज्ञेन नीचवत् ॥ ३१ ॥
सत्यधर्म
अनाथौ निरैश्वर्यौ रक्षकरहितौ वा नान्यबन्धू अन्यो बन्धुः पुत्रादिर्ययोस्तौ तौ न भवत इति तथा । नसमासः । अन्यबन्धू नेति वा । अधुनेति तात्कालिकविवक्षया । नीचवन्नीचेनेव । अकृतज्ञेन नीचवदिति पदमेकं वा । अकृतज्ञानामिनः पतिः । ‘‘इनः सूर्ये नृपे पत्यौ’’ इति विश्वः । स चासौ नीचः पामरस्तेनेव । ‘‘नीचस्तु पामर’’ इत्यमरः ॥ ३१ ॥
चट्टी
नास्त्यन्यो बन्धुः पुत्रादिर्ययोस्तौ तथा । तपस्विनौ सन्तप्तौ । अधुना तत्क्षणमेव त्यक्तौ
॥ ३१,३२ ॥
सोऽहं व्यक्तं पतिष्यामि नरके भृशदारुणे ।
धर्मघ्नाः कामिनो यत्र विन्दन्ति यमयातनाः ॥ ३२ ॥
सत्यधर्म
धर्मघ्ना मूलविभुजादित्वात्कः । पतिष्यामीत्यनेन स्वाचरिताचाराव्यभिचारं नरकाप्तेर्ध्वनयति । अतो न ‘‘गतभीः प्रकृतिं गतः’’ इति विरोधः। उत्प्रेक्षया विकल्पोऽयमथाऽ-पीत्युत्तरग्रन्थस्वारस्यायेति वा ज्ञेयम् । यमयातनास्तत्कृततीव्रवेदनाः ॥ ३२ ॥
किमिदं स्वप्नमाहोस्वित् साक्षाद् दृष्टमिहाद्भुतम् ।
क्व याता अद्य ते ये मां व्यकर्षन् पाशपाणयः ॥ ३३ ॥
सत्यधर्म
इदमद्भुतं स्वप्नः किमाहोस्वित्साक्षाद्दृष्टम् । अबाधितप्रत्यक्षविषयः सत्यता समा तथाऽप्यालस्यानालस्यफलोपलम्भकताकृतः स एवेति जाग्रद्दृष्टतादात्म्यभ्रमकृतो वा विशेषो बोध्यः
॥ ३३ ॥
चट्टी
इदानीं तस्य विमर्शपूर्वकं मोक्षक्रममाह ॥ किमिदमित्यादिना । साक्षात्प्रत्यक्षम् । इह जाग्रतौ दृष्टम् ॥ ३३ ॥
अथ ते क्व गताः सिद्धाश्चत्वारश्चारुदर्शनाः ।
व्यमोचयन् नीयमानं बद्ध्वा पाशैरधोभुवः ॥ ३४ ॥
पदरत्नावली
भुवोऽधः नरकम् ॥ ३४ ॥
सत्यधर्म
भुवोऽधः नरकम् ॥ ३४ ॥
चट्टी
ये भुवोऽधो नरकं प्रति नीयमानं मां व्यमोचयन् । ते च क्व गता इत्यन्वयः ॥ ३४ ॥
अथापि मे दुर्भगस्य विबुधोत्तमदर्शने ।
भवितव्यं मङ्गलेन येनात्मा मे प्रसीदति ॥ ३५ ॥
पदरत्नावली
यत्किञ्चित् पुण्यमस्ति चेद् विष्णुदूतसन्दर्शनसाधनं तत् स्यादिति प्रार्थयते– अथापीति ॥ येन पुण्येन । आत्मा मनः ॥ ३५ ॥
सत्यधर्म
येन कारणेनात्मा मनः प्रसीदति प्रसन्नं वर्तते तेन विबुधोत्तमदर्शने मङ्गलसाधने जाते सति मङ्गलेन भगवल्लोकादिप्रापकेन शुभेन भवितव्यम् । तदवलोको मनःप्रसादश्च भाविभावुकघटका-वित्यूहितवानिति भावः ॥ ३५ ॥
चट्टी
यद्यप्यहमस्मिञ्जन्मनि दुर्भगः पापीयान् । तथाऽपि जन्मान्तरे नूनं पुण्यवानित्याह ॥ अथाऽपीति । विबुधोत्तमदर्शन इति निमित्तसप्तमी । तेषां दर्शनार्थं पूर्वेण मङ्गलेन महापुण्येन भवितव्यम् । येन दर्शनेनात्मा मनः प्रसीदति । निर्मलं भवति । आत्मा परमात्मेति वा ॥ ३५ ॥
अन्यथा म्रियमाणस्य नाशुचेर्वृषलीपतेः ।
वैकुण्ठनामग्रहणं जिह्वा वक्तुमिहार्हति ॥ ३६ ॥
पदरत्नावली
अन्यथा पूर्वचीर्णपुण्याभावे ॥ ३६ ॥
सत्यधर्म
निश्चयोऽपि जातो मुख्यसाधनसम्पत्त्येत्यर्थापत्त्योपपादयति ॥ अन्यथेति । गृह्यत इति ग्रहणं वैकुण्ठनामात्मकं ग्राह्यं पदं जिह्वा वक्तुं नार्हति न योग्या भवति । जिह्वा वैकुण्ठनाम वक्तुं नार्हति । ग्रहणं हरिदूतैः स्वीयत्वेन स्वीकरणं च नार्हतीति वा ॥ ३६ ॥
चट्टी
अन्यथा पूर्वपुण्यं विना ॥ ३६ ॥
क्व चाहं कितवः पापो ब्रह्मोज्झो निरपत्रपः ।
क्व च नारायणेत्येतद्भगवन्नाम मङ्गलम् ॥ ३७ ॥
पदरत्नावली
ब्रह्मोज्झस् त्यक्तब्राह्मण्यः ॥ ३७ ॥
सत्यधर्म
अङ्गस्मृत्यभावाद्भङ्ग्यन्तरेणोक्तमेव पुनर्वक्ति । निरपत्रपो वृषलीवृषभतायातलज्जा-वर्जितः । लज्जा साऽपत्रपान्यत इत्यमरः ॥ ३७ ॥
चट्टी
ब्रह्मोज्झस्त्यक्तब्राह्मण्यः ॥ ३७,३८ ॥
सोऽहं तथा यतिष्यामि यतचित्तेन्द्रियानिलः ।
यथा न भूय आत्मानमन्धे तमसि मज्जये ॥ ३८ ॥
सत्यधर्म
यतचित्तेन्द्रियानिलो नियमितमनस्को नियतेन्द्रियो जितश्वास इत्यर्थः । यथाऽऽत्मानं स्वदेहं वाऽन्धे तमसि न मज्जये न मग्नं कुर्यां तथा यतिष्यामि यतिष्ये । एवं मज्जये मम जयविषये यतिष्यामीत्यावृत्त्याऽप्यन्वयः । पतितप्रायत्वाद्भूय इति सम्भवति । मनःप्रसाद इत्यारभ्य तपो मानसमुच्यत इत्यन्तेन गीतागीतं तपोऽप्येकं सम्पन्नं ममेति सूचयति ॥ ३८ ॥
विमुच्य तमिमं बन्धमविद्याकामकर्मजम् ।
सर्वभूतसुहृद्दान्तो मैत्रः करुण आत्मवान् ॥ ३९ ॥
सत्यधर्म
अविद्याकामकर्मजं बन्धं संसारं बन्धं स्नेहमिति वा । सुहृत् प्रत्युपकारमनपेक्ष्योप-कारकृत् करुणयतीति करुणाऽस्यास्तीति अर्शआद्यचि वा करुणः सघृणः। आत्मवान्स्वाधीनदेहः । सहोरूरित्यादिवत्प्रशस्तशरीरो वा निगृहीतमनस्को वा ॥ ३९ ॥
चट्टी
कामो राग आत्मवान् वशीकृतमनाः ॥ ३९ ॥
मोचये ग्रस्तमात्मानं योषिन्मय्याऽऽत्ममायया ।
विक्रीडितो यथैवाहं क्रीडामृग इवाधमः ॥ ४० ॥
पदरत्नावली
आत्ममायया हरेरधीनया लोकमोहनशक्त्या । यथा यथावत् ॥ ४० ॥
सत्यधर्म
योषिन्मय्या स्त्र्यात्मिकयाऽऽत्ममाययेशशक्त्या । ‘‘महामायेत्यविद्येति नियति-र्मोहिनीति च । प्रकृतिर्वासनेत्येवं तवेच्छाऽनन्त कथ्यते’’ इत्युक्तेः । यथा क्रीडामृगः क्रीडोपयुक्तः कप्यादिस्तथा विक्रीडत एवमनया ग्रस्तमात्मानं मोचये । ननु मनुजस्य न सममिदं निदर्शनमित्यतो दृष्टान्तान्तरमाह ॥ अधम इवेति । श्रुतसम्पन्नत्वाद्यसम्पन्नतयाऽधमः पुमानिति वा । यथा सम्यगिति वा
॥ ४० ॥
चट्टी
योषिन्मय्या स्त्रीरूपया । आत्मनो भगवतो मायया बन्धकशक्त्या ॥ ४० ॥
ममाहमिति देहादौ हित्वा मिथ्यार्थधीर्मतिम् ।
धास्ये मनो भगवति शुद्धं तत्कीर्तनादिभिः ॥ ४१ ॥
सत्यधर्म
मिथ्यार्थधीर्भगवदवगममन्तरेणासद्रूपेऽर्थे धीरनेन मम प्रयोजनमिति धीर्यस्य स तथा । देहादौ देहगेहादावहं ममेति मतिं हित्वा तत्कीर्तनादिभिस्तस्य कीर्तनं नामोच्चारणमादिर्येषां तद्दूत-दर्शनसम्भाषणवन्दनानां तानि तैः शुद्धं मनो भगवति धास्य इति सम्बन्धः ॥ ४१ ॥
चट्टी
अर्थधीर् अर्थे मोक्षाख्यपुरुषार्थे धीर्यस्य सोऽहम् । देहेन्द्रियादौ विषये ममाहमिति मिथ्यामतिं भ्रान्तिं हित्वा भगवति मनो धास्य इत्यन्वयः ॥ ४१ ॥
इति जातसुनिर्वेदः क्षणसङ्गेन साधुषु ।
गङ्गाद्वारमुपेयाय मुक्तसर्वानुबन्धनः ॥ ४२ ॥
पदरत्नावली
गङ्गाद्वारं नाम तीर्थविशेषम् ॥ ४२ ॥
सत्यधर्म
क्षणसङ्गेन क्षणमात्रसहवासेनोत्सवपूर्वकसङ्गेनेति वा जातसुनिर्वेदः समुत्पन्नविरक्ति-र्मुक्तसर्वानुबन्धनस्त्यक्तदास्यादिसर्वस्नेह एतस्य विरक्तिकार्यत्वात् । यद्वा मुक्तसर्वानुबन्धनो ह्यतिविरक्तो जातसुनिर्वेदो जातस्तत्प्रायः सुनिर्वेदो नितरां लाभो भागवतदर्शनस्पर्शनादिजो यस्य स तथेति । यथोक्तं गीताभाष्ये । निर्वेदं नितरां लाभमिति प्रयोगात्तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्येत्यादि । सुना लभ्य-लाभस्य नैरवद्यं द्योतयति । गङ्गाद्वारं तन्नामकतीर्थविशेषमुपेयाय जगाम ॥ ४२ ॥
चट्टी
गङ्गाद्वारं नाम तीर्थविशेषम् । मुक्तं सर्वमनुबन्धनं पुत्रादिस्नेहो येन सः ॥ ४२ ॥
स तस्मिन् देवसदनं१ आसीनो योगमास्थितः ।
प्रत्याहृतेन्द्रियग्रामो युयोज मन आत्मनि ॥ ४३ ॥
पदरत्नावली
प्रत्याहृतो वशीकृत इन्द्रियग्रामो येन स तथा तम् । आत्मनि हरौ ॥ ४३ ॥
सत्यधर्म
देवसदनं श्रीश्रीनिवासावासं योगं शरीरस्थैर्यप्रयोगमुपायं वा । योगो वपुःस्थैर्यप्रयोगे च द्रव्योपायसन्नहनेष्वपीति विश्वः । योग उपायः । ‘‘दृष्टा योगाः प्रयुक्ताश्च पुंसां श्रेयःप्रसिद्धये’’ इति भागवत इति गीताभाष्योक्तेः । तत्फलमालपति । प्रत्याहृतेन्द्रियग्रामः प्रत्याहृत इतरविषयेभ्यः प्रत्यावर्तित इन्द्रियाणां ग्रामः समुदायो येन स इति मन आत्मनि । आत्मा प्रयत्न इति विश्वः । स्वप्रयत्ने युयोज स्वयत्नानुकूलं कृतवानित्यर्थः ॥ ४३ ॥
चट्टी
तस्मिन्गङ्गाद्वारे देवसदने त्रिविक्रमाख्यदेवालये । गङ्गाद्वारे त्रिविक्रममिति स्कान्दोक्तेः । प्रत्याहृतो वशीकृदिन्द्रियग्रामो येन स तथाभूतः सन् मन आत्मनि स्वान्तर्यामिणि हरौ युयोज ॥४३॥
ततो गुणेभ्य आत्मानं वियुज्यात्मसमाधिना ।
युयुजे२ भगवद्धामि्न ब्रह्मण्यनुभवात्मनि ॥ ४४ ॥
पदरत्नावली
गुणेभ्यः शरीरेन्द्रियादिभ्यः । आत्मानं स्वस्वरूपम् । भगवद्धामि्न भगवत्स्वरूपे । ब्रह्मणि व्याप्ते । अनुभवात्मनि ज्ञानात्मनि ॥ ४४ ॥
सत्यधर्म
ततोऽनन्तरं गुणेभ्यस् तत्कार्येभ्योऽगुणेभ्यो वैषयिकदोषेभ्य इति वा । समाधिना नियमेन । ‘‘समाधिर्नियम’’ इति विश्वः । समाधिना प्राक्तन्याऽतिमनोव्यथया वा । ‘‘पुंस्याधिर्मानसी व्यथा’’ इत्यमरः । आत्मानं स्वमनो वियुज्य वियोज्य भगवद्धामि्न भगवतो धाम स्वरूपं यस्य तत्तस्मिन्ब्रह्मणि गुणपूर्णेऽनुभवात्मन्यनुभवं प्रतिजन्म आत्मनि स्वामिनि शाश्वतिकरे ज्ञानात्मके वा युयुजे योजयामास । ‘‘स्वरूपं धाम चोच्यते’’ ‘‘बृहन्तो ह्यस्मिन्गुणा’’ इत्यादेः । आत्मा भवतीत्यादिव्याख्याने आत्मा स्वामीति तत्त्वनिर्णयाद्युक्तेः ॥ ४४ ॥
चट्टी
ततस्तदनन्तरमात्मसमाधिना चित्तैकाग्रेणात्मानमन्तर्यामिणं गुणेभ्यः स्वदेहेन्द्रियादिभ्यो विविच्य स्फुटतरं वैलक्षण्येन ज्ञात्वाऽनुभवात्मनि ज्ञानरूपे भगवद्धामि्न समग्रैश्वर्यादिसंपन्ने तेजोरूपे ब्रह्मणि व्याप्तरूपे परमात्मनि युयोज तदैक्येन चिन्तितवानित्यर्थः ॥ ४४ ॥
यर्ह्युपारतधीस्तस्मिन्नद्राक्षीत् पुरुषान् पुरः ।
उपलभ्योपलब्धान् प्राग् ववन्दे शिरसा द्विजः ॥ ४५ ॥
पदरत्नावली
यर्हि यस्मिन् काले उपारतधीर् बाह्यविषयान्निवृत्त्य हरावेव निरतबुद्धिरभूत् । तस्मिन् काले । पुरः स्वस्याग्रभूमौ । प्रागुपलब्धान् दृष्टान् ॥ ४५ ॥
सत्यधर्म
यर्हि यदोपारतधीस्तस्मिन्काले विषयविरक्तचित्त उप सर्वाधिके आरता सम्यगासक्ता धीर्यस्येति वा । ‘‘उपोऽधिके च’’ इति सूत्रात् ‘‘उत्कृष्टानन्दरूपत्वादुपशब्दः प्रकीर्तितः’’ इति माण्डूके उपशमशब्दव्याख्याभाष्यव्याख्यायामुत्कृष्टवाच्युशब्दपर्याय उपशब्द इति व्याख्यानात् । उप उत्कृष्ट इति वा । उप हीनोऽधिके प्रोक्तमिति विश्वः । उपे सर्वेश्वर इति सप्तमतात्पर्योक्तेः । प्रागुपलब्धान् पुनरुपलभ्येत्यन्वयः ॥ ४५ ॥
चट्टी
यर्हि यदा तस्मिन्भगवद्रूपे उपारता निश्चिता धीर्यस्य स तथा । तस्मिन् काले पुरः पुरतः पुरुषानद्राक्षीदित्यन्वयः । ततश्च प्रागुपलब्धानेव तानुपलभ्य प्रत्यभिज्ञाय हरिनामकीर्तनश्रद्धातिशयं जनयन् ॥ ४५ ॥
हित्वा कलेवरं तीर्थे गङ्गायां दर्शनादनु ।
सद्यः स्वरूपं जगृहे भगवत्पार्श्ववर्तिनाम् ॥ ४६ ॥
पदरत्नावली
भगवत्पार्श्ववर्तिनां मुक्तानाम् । स्वरूपं निर्दोषत्वादिलक्षणम् ॥ ४६ ॥
सत्यधर्म
गङ्गायां तत्रापि तीर्थे क्षेत्रविशेषे वाऽवतारप्रदेशे वा मज्जनाय गच्छत्सज्जनचरण-धूलीधूसरणार्थमिति भावः । ‘‘तीर्थं क्षेत्रोपायावतारर्षिजुष्टाम्भः’’ इति विश्वः । दर्शनाद्भागवत-दूतदर्शनादनु अनन्तरं कलेवरं शरीरं हित्वा सद्यो भगवत्पार्श्ववर्तिनां दृष्टदूतानां स्वरूपमिव स्वरूपं जगृह इत्यन्वयः । मुक्तानां स्वरूपमित्यर्थो वा ॥ ४६ ॥
साकं विहायसा विप्रो महापुरुषकिङ्करैः ।
हैमं विमानमारुह्य ययौ यत्र श्रियः पतिः ॥ ४७ ॥
सत्यधर्म
विहायसाऽऽकाशमार्गेण हैमं हेममयम् । प्राणिरजतादित्वादञ् ॥ ४७ ॥
एवं स विप्लावितसर्वधर्मो दास्याः पतिः पतितो गर्ह्यकर्मा ।
निपात्यमानो निरये हतव्रतः सद्यो विमुक्तो भगवन्नाम गृह्णन् ॥ ४८ ॥
पदरत्नावली
नामसङ्कीर्तने श्रद्धातिशयं जनयन्नुपसंहरति– एवमिति ॥ दास्याः पतिरित्याक्रोशे षष्ठी । अजमिलनाम मुक्त्वा दास्याः पतिरित्याह्वयति लोक इत्यर्थः ॥ ४८ ॥
सत्यधर्म
इयता प्रबन्धेन प्रतिपादितमर्थं श्रद्धातिशयसिद्धये सूत्रप्रायश्लोकीकृत्य निगमयति ॥ एवमिति । विप्लावितसर्वधर्मो विप्लाविताः सर्वे धर्मा येन सः । अनित्यत्वान्नान्निच् सर्वधर्मशब्दस्य केवलत्वाभावाद्वा । दास्याः पतिः । षष्ठ्या आक्रोशे । पतितस्तत्प्रायो हतव्रत इत्यादिहेतुभिर्निपात्यमानो नाम गृह्णन्सद्यो विमुक्त इत्यन्वयः ॥ ४८ ॥
चट्टी
उपसंहरति ॥ एवमिति द्वाभ्याम् । विप्लाविताः सर्वे धर्मा येन हतं व्रतं स्वदारनियमादिकं यस्य स तथा ॥ ४८ ॥
नातः परं कर्मनिबन्धकृन्तनं मुमुक्षुतां तीर्थपदानुकीर्तनात् ।
न यत् पुनः कर्मसु सज्जते मनो रजस्तमोभ्यां कलिलं न चान्यथा ॥ ४९ ॥
पदरत्नावली
अन्यथा तीर्थपदानुकीर्तनं विना ॥ ४९ ॥
सत्यधर्म
अतस्तीर्थपदानुकीर्तनात्परमन्यदुत्तमं वा मुमुक्षुतां मोक्षेच्छावतां कर्मनिबन्धकृन्तनं कर्मदृढबन्धच्छेदकं न नास्ति । कृन्तनमिति कृतिधात्वन्तररूपम् । नखनिकृन्तनविकारो विरहनिकृन्तन-कुन्तमुखेत्यादिवैदिकगीतगोविन्दादिलौकिकप्रयोगात् । केचिदीदित एव कृतीधातोर्ल्युटि इदित् सूत्रस्य धातोरिति योगविभागं शे मुचादीनामिति सूत्रमहाभाष्योक्तमभ्युपगम्य नुममुदपादयन्निति तथा वा कृन्तनं ज्ञेयम् । यद्यस्माद्रजस्तमोभ्यां कलिलमपि मनः कर्मसु पुनर्न सज्जते तस्मादन्यथा न परमिति न । अन्यथा रजस्तमोभ्यां कलिलं मनः कर्मसु न सज्जत इति नेति वाऽन्वयः ॥ ४९ ॥
चट्टी
कर्मनिबन्धनस्य पापमूलस्य कृंतनं छेदनम् । अतः परं नास्ति । कस्मात्परं तीर्थपदानु-कीर्तनात् । यद्यस्मात्कीर्तनान्मनो रजस्तमोभ्यां कलिलं सत् कर्मसु पापेषु न सज्जते । अन्यथा कीर्तनाभावे न सज्जेत इत्येतन्नास्तीत्यर्थः ॥ ४९ ॥
य एवं परमं गुह्यमितिहासमघापहम् ।
श्रुणुयाच्छ्रद्धया युक्तो यश्च भक्त्याऽनुकीर्तयेत् ॥ ५० ॥
चट्टी
श्रोतृवक्तृणां फलमाह ॥ य एवमिति त्रिभिः । यद्यप्यमङ्गलस्तथाऽपि अष्टाशीतिवर्ष-परिमितायुषो वैयर्थ्येऽप्यन्तकाले पुत्रोपचारितानुसन्धानाभिव्यक्तश्रद्धयाऽपि मुक्तिमगात् । किमुत स्वाभाविकया निरन्तरभगवच्छ्रद्धया गृणन्निति भावः ॥ ५०–५२ ॥
इति श्रीभागवतटिप्पण्यां चेट्टीव्याख्यायां द्वितीयोऽध्यायः ॥ ६–२ ॥
न वै स नरकं गच्छेन्नेक्षितो यमकिङ्करैः ।
यद्यप्यमङ्गलो मर्त्यो विष्णुलोके महीयते ॥ ५१ ॥
पदरत्नावली
अमङ्गलो यद्यपि तथापि ॥ ५१ ॥
सत्यधर्म
यो यद्यप्यमङ्गलो मर्त्यस्तथाऽपि नरकं न गच्छेद्वै प्रसिद्धम् । अजामिलवन्न दूतसमीक्षणमित्यप्याह । यमकिङ्करैर्नेक्षितोऽनवलोकित एवं विष्णुलोके महीयते । अयमो निःसदृश-शिक्षकान्तररहितो हि भगवांस्तत्किङ्करैरीक्षितो ना पुरुषो विष्णुलोके विना गरुडेनोपलक्षणया तत्समः शेषश्च तेन मार्गेण ष्णुव्यते । ष्णु प्रस्रवणे । तदपि गतिविशेष इति गम्यते स विष्णुः । पृषोदरादित्वात् षत्वम् । स चासौ लोकश्च तस्मिन्निति वा विष्णुलोके हरिलोक इति वा अमर्त्यः सन्महीयत इति वा
॥ ५१ ॥
म्रियमाणो हरेर्नाम गृणन् पुत्रोपचारितम् ।
अजामिलोऽप्यगान्मुक्तिं किमुत श्रद्धया गृणन् ॥ ५२ ॥
॥ इति श्रीमद्भागवते षष्ठस्कन्धे द्वितीयोऽध्यायः ॥
पदरत्नावली
दासीसङ्गादवाप्तपापमुक्तिकरी अन्ये नारायणस्मृतिरिति जानन्नजामिलोऽपि नित्य-कर्मतयोपलब्धया नित्याभ्यासेन मरणसमयेऽपि नामस्मरणार्थं पुत्रोपचरितं कृत्वा श्रद्धया पुत्राह्वानव्याजेन कीर्तयन् मुक्तिमगात् । न तु पुत्रस्नेहेन । ‘भगवति श्रद्धया’ । ‘भक्तियोगो भगवति तन्नामग्रहणादिभिः’ इत्युत्तरत्र वक्ष्यमाणत्वात् । पुत्रादिसाङ्केतिकं नाम मुक्त्वा नित्यकर्मत्वेन श्रीहरिनाम कीर्तयन् किमुत श्रद्धयेत्युच्यते । अस्य फलाधिक्यं च दर्शयितुं पृथगेवोक्तिरिति ज्ञातव्यम् ॥ ५२ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
षष्ठस्कन्धे द्वितीयोऽध्यायः ॥ ६–२ ॥
सत्यधर्म
पुत्रे स्वतनये उपचारितं निर्वचनलभ्यार्थविकला भवत्युपचरितमिति नाम श्रद्धया गृह्णन्नजामिलो दुराचार्यपीति फलितोऽर्थः । धाम वैकुण्ठमगात् । श्रद्धया बहिर्द्दश्यमानसद्वृत्तिरहितया गृणन्धाम गच्छेदिति किमुतेति कैमुत्यार्थो न त्वभक्त्याऽपीति ज्ञेयः ॥ ५२ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मकृतायां षष्ठे द्वितीयोऽध्यायः ॥ ६–२ ॥