निवृत्तिमार्गः कथित आदौ भगवता यथा
श्रीमद् भगवद्बादरायणप्रणीतम्
श्रीमद्भागवतम्
षष्ठस्कन्धः
अथ प्रथमोऽध्यायः
ॐ नमो भगवते वासुदेवाय
राजोवाच—
निवृत्तिमार्गः कथित आदौ भगवता यथा ।
क्रमयोगोपलब्धेन ब्रह्मणा यदसंसृतिः ॥ १ ॥
**श्रीमद्विजयध्वजतीर्थविरचिता **
पदरत्नावली
श्रीमध्ववल्लभश्रीहयग्रीवाय नमः
भवभयजटां घोरां यस्याभिधानमघच्छिदो ।
दलयति नृणां सद्यः संकीर्तितं स्खलनादिषु ।
अहिरिपुरहेर्हत्याद्यंहो जहौ हि यदर्चया ।
शरणमनिशं शान्तं कान्तं नमामि मुरद्विषम् ॥
अवारूढः पञ्चमस्कन्धशैलादहं षष्ठस्कन्धसिन्धावगाधे ।
अनुज्ञां वः प्रार्थये स्नातुकामो भवन्तः सन्तो गुणार्थैकलुब्धाः ॥ २ ॥
अस्मिन् स्कन्धेऽतीतस्कन्धार्थो अध्येतृप्रवक्तृश्रोतॄणां फलाधिक्यप्रकटनाय संक्षिप्य निरूप्यते । तत्र प्रारिप्सितेऽध्याये सर्वाधिकारिकं सुखसाध्यं श्रीहरिप्रसादजनकज्ञानसाधनमपि भक्त्या हरेर्नामसङ्कीर्तनं पापपरिहारद्वाराऽऽवश्यकं मुक्तिसाधनमिति निरूप्यते । तदर्थं ज्ञानदरिद्रजनदयालुर्विद्वानपि परीक्षिद् येन विना पापाविनाशो न स्यात् तदभावे ज्ञानानुदयः, तस्मिन् सति मोक्षमात्रमपि न स्यात्, अतस्त्वया तदवश्यं वक्तव्यमितीममेवार्थं वादयितुं द्वितीयस्कन्धोक्तार्थमनुवदति– निवृत्तिमार्ग इति ॥ आदौ द्वितीयस्कन्धारम्भे । ‘वरीयानेष ते प्रश्नः’ इत्यादिना विवृत्तिमार्गः स्वस्वरूपानन्दाविर्भावलक्षण-मोक्षसाधनविशेषः । ननु साधनविशेषप्रपञ्चनमन्तरेण सृष्ट्यादिकथनं कुत्रोपयोगितया सङ्गच्छत इति तत्राह– यथेति ॥ यथावत् । सृष्ट्यादिलक्षणेन दोषत्रयरहितेन लक्षितं श्रीनारायणस्वरूपं मुख्य-पुरुषार्थोपयोगीत्यभिप्रायेण तत् प्रपञ्चितमिति भावः । तस्य फलमाह– क्रमयोगेति ॥ यद् यस्मा-न्निवृत्तिमार्गादनुष्ठिताज्ज्ञातेन ब्रह्मणा सर्वगुणपूर्णेन श्रीनारायणेन असंसृतिः संसाराभावलक्षणं फलं भवति, जीवस्येति शेषः । कर्तृकरणयोस्तृतीयेत्यत उभयथापि मुख्यत्वं श्रीहरेरेवेति प्रकटनाय ब्रह्मणेति तृतीया । ‘अथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन् गुणाः’ इति श्रुतेर् गुणपरिपूर्णतया ज्ञात एव पुरुषार्थप्रदः न निर्गुणत्वेन (ज्ञातः) इत्यतो ब्रह्मेति पदं प्रयोजि । कथं ज्ञानेनेति तत्राह– क्रमेति ॥ क्रमेणानुष्ठितेन योगेन वैराग्यभक्तिनिरन्तरध्यानज्ञानलक्षणोपायेनोपलब्धेन दृष्टेन । प्रथमं स्मरणं पश्चादेकैकावयवध्यानं तदनन्तरं समग्राङ्गध्यानमिति वा क्रमयोगः ॥ १ ॥
अथ श्रीमद्भागवतटिप्पणी श्रीसत्यधर्मकृता प्रारभ्यते
श्रीसत्यधर्म
नृसिंहवासवीसूनुदाशरथ्यर्वकन्धरान् ।
कुलैतद्ग्रन्थसंस्थानोपास्तिदेवानुपास्महे ॥ १ ॥
देवते वाङ्मनसयो रमे हरिमनोरमे ।
द्रावयैतत्तरलतान्तरक्षीति केवलम् ॥ २ ॥
वाणि ते करवाण्यम्ब याञ्चां वाचं शुभां शुभे ।
दिश प्राङ्मूकमकृता नेति तान्तिर्बहुर्न हि ॥ ३ ॥
वाणीश तीर्थवाणी क्व वाग्दरिद्रस्य वाक् च ते ।
जनैर्नेत्यपहास्यः स्यां यतस्तद्वंशसम्भवः ॥ ४ ॥
टीकाकृत्पादनौका नो मनोरथमहार्णवम् ।
पारयेन्मध्वमरुता जयध्वजयुतायुता ॥ ५ ॥
आचार्यवर्यरचितोचितार्था विवृतिर्मितैः ।
पञ्चस्कन्ध्या पदैः सैव जीवातुर्मम निर्ममः ॥ ६ ॥
क्व ते त्वं क्वेति नो चेतः परां व्रज्यां व्रज प्रभो ।
साक्षात्तेभ्योऽपि पारोक्ष्यमध्यक्षन्ते निदर्श्यते ॥ ७ ॥
निषिद्धोऽपि निषादस्त्वमेकलव्यो यदेकलः ।
मार्तिक्या च तन्मूर्त्या स्वस्त्राण्यापेति मा शुचः ॥ ८ ॥
किञ्च सूर्याप्तपूर्वाशोऽप्यसच्चरण इत्यहम् ।
मानावजाने जाने यदरुणं स्वेट् पुरोदयम् ॥ ९ ॥
समयाज्ञोऽपि समयो गर्ह्यो नैतर्ह्यहं मया ।
गुरौ गीरिति विश्वासाद्विश्वासः फलदायकः ॥ १० ॥
ज्ञातो ज्ञातिविभागो वः पीयूषप्रापणक्षणे ।
नारायण्यकृता देवा न युक्तं नस्तदर्पणम् ॥ ११ ॥
श्रीसत्यबोधश्रीसत्यसन्धसत्यवरा वराः ।
मस्तकन्यस्तहस्ताय यदयां कुर्युः सहोदयाम् ॥ १२ ॥
नत्वा गुरून्भागवतषष्ठस्कन्धस्य काश्यते ।
तात्पर्यव्याकृतिमिषाद्भावो भावुकमोददः ॥ १३ ॥
एतत्तात्पर्यतात्पर्यभाष्यटीकान्तरानुगाम् ।
काञ्चित्तनोति विवृतिं कोऽपि कौपीनभाग्यभाक् ॥ १४ ॥
प्राक् तद्व्याख्यायते यत्र तात्पर्यं वर्तते न हि ।
यत्र तत्रादितो मूलमिति वित्त स्थितिं बुधाः ॥ १५ ॥
इह खलु नानाविधव्यसनसम्भृतसंसारासारकान्तारसन्ततसंसरणा निःसारणोपायनिदानव्यापार-दीनजननिभालनकरुणापरवशः पराशरशरीरजो जननीतनूजनुषमिवोद्दिधीर्षुरनङ्कुरितधरान्तरस्थनिरुपरि सरणकरणबीजवदकिञ्चित्करज्ञानाङ्कुरं निर्निरञ्जनजनानामेतर्हि गर्हिताचारवत्परिदृश्यमानं पुराचीर्ण-दुरिष्टवशादिष्टसाधनानुष्ठानाचतुरं पञ्चजनमुदीक्ष्याऽस्मिन्स्कन्धे सर्वाधिकारिसाधारणं सभक्तिभगव-त्स्मरणमिव तन्नामसङ्कीर्तनं कार्पासराशिमाशुशुक्षणिरिव क्षणमात्रेणाघौघविघटकमिव घटकं सप्ररोहज्ञानं पुरो निधाय माधवधामाप्तेरिति निरूपयन्साक्षात्त्र्यक्षावतारस्य मनोनियामकस्य शुकस्य स्वरूपाप्रवित्या प्रवृत्त्यनुपपत्तेः श्रुतमश्रुतप्रायाभिप्रायं किमिति शङ्कातङ्कावैकल्याध्यवसायाच्छंसति किं शुकः परीक्षितु किं प्रेक्ष इति परीक्षकप्रेक्षावन्मानसशङ्काशङ्कुमुन्मूलयितुं द्वादशस्कन्ध्याः पादपीठत्वेन प्रथमस्कन्धे स्वप्रश्न-ग्रन्थस्यैवान्तिमत्वेनानुवदनीयत्वेन द्वितीयस्कन्धोदितमर्थमादीकृत्या पञ्चमस्कन्धोक्तार्थं लेशतोऽनुवद-न्नरकादिश्रवणात्तन्निर्हरणोपायः पापिनां कथं भविष्यति कथयेति तदुद्धृतये पृच्छति राजा चेति वक्ति– निवृत्तिमार्ग इति ॥ निवृत्तिमार्गो भगवत्प्रीतिमात्राशासनमार्गः । एतत्स्कन्धबोधनीयोऽर्थस्तु ‘दक्षजन्म प्रचेतोभ्यस्तत्पुत्रीणां च सन्ततिः । यतो देवासुरनरास्तिर्यङ्मृगखगादयः । त्वाष्ट्रस्य जन्मनिधनं पुत्रयोश्च दितेर्द्विजा ॥’ इत्यनुक्रमणिकातोऽवसेयः ।
नन्वनुक्रमणिकायां किं न सञ्जग्राह सङ्ग्राह्याजामिलकथां भगवानिति चेन्न । भगवन्नामस्मरण-तत्सङ्कीर्तनादेश्चापवर्गानर्गलमार्गताया अत्रेवाजामिलवत्परःशतं नाममात्रोच्चाराविर्भूतप्रभूतज्ञानानामधि-कारिणाम् । ‘‘आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् । नामान्यनन्तस्य यशोऽङ्कितानि’’ इत्यादि प्रथमे । ‘‘योगिनां नृप निर्णीतं हरेर्नामानुकीर्तनम् । यद्गृह्यमाणैर्हरिनामधेयैः’’ इत्यादि द्वितीये । ‘‘यन्नामधेयश्रवणानुकीर्तनात्’’ । ‘‘यज्जिह्वाग्रे वर्तते नाम तुभ्यम् । ब्रह्मानूचुर्नाम गृणन्ति एत’’ इत्यादि तृतीये । ‘‘यन्मख इज्यनामभिः’’ । ‘‘यन्नामधेयमभिधाय’’ इत्यादि चतुर्थे । ‘‘सकृदाददीत यन्नामधेय- मधुना स जहाति बन्धम् । कश्मलनिरसनानि तव गुणकृतनामधेयानि वचनगोचराणि भवन्तु’’ इत्यादि पञ्चमे । ‘‘यद्व्याजहार विवशो नाम स्वस्त्ययनं हरेः । नामव्याहरणं विष्णोः’’ इति षष्ठे । ‘‘हरे-र्नामपदैरुदाहृतैः । वैकुण्ठनामग्रहणम् । उत्तमश्लोकं नाम यत् । भगवन्नाम मङ्गलम् । भगवन्नाम गृह्णन् । तीर्थपदानुकीर्तनात् । हरेर्नाम गृणन्पुत्रोपचारितम् । सङ्कीर्तनं भगवतो गुणकर्मनाम्नाम् । नारायणेति यन्नाम सकृच्छ्रवणादि प्रस्तुते । मुहुः श्वसन्वक्ति हरेर्जगत्पतेर्नारायण’’ इत्यादि सप्तमे । ‘‘श्रवण-मङ्गलनामधेय’’ इत्याद्यष्टमे । ‘‘यन्नामस्मृतिमात्र’’ इत्यादि नवमे । यन्नाम गृह्णन्नखिलाञ्छ्रोतॄन् । नामानि च मङ्गलानि ते’’ इत्यादि दशमे । ‘‘शृृण्वन्सुभद्राणि रथाङ्गपाणेर्गीतानि नामानि तदर्थकानि’’ इत्येकादशे । ‘‘यन्नामधेयम् । विमुक्तकर्मार्गल’’ इत्यादि द्वादशे चोक्तेरनासाधारण्येन प्रतिपादना-न्नैतत्स्कन्धमात्रमुख्यार्थत्वमिति त्यागसम्भवात् । भगवता पूज्येन त्वया । यथोक्तं तत्त्वविवेकटीकायां ‘‘भगवानिति पूजार्थम्’’ इति । योग्यैश्वर्यादिमतेति वा । एतेन न धनाशया ममोपदेशनमिति सूचितं भवति । निवृत्तिर्नितरां वृत्तिस्तत्रैव वर्तनं कदाऽपि न प्रत्यावृत्तिर्मोक्ष इति । वृत्तिरागच्छदन्यथारूपमिति निवृत्तिर्विमुक्तिस्तन्मार्ग इति वा । ‘‘मुक्तिर्हित्वाऽन्यथारूपम्’’ इत्यादेः ।
ननु तत्र सृष्ट्यादेरपि स्पष्टनात्तज्ज्ञानस्य च मुक्त्यनुपयुक्तत्वात्कथं निवृत्तिमार्गः कथित इत्यसदनु-वादो मेदिनीपतेरित्यत आह– यथेति । यथा सम्यक् तस्य सम्यक्त्वं च नोक्तोपयुक्तत्वातिरिक्तम् । जन्मादिकारणत्वेनेतरव्यावृत्तभगवज्जिज्ञासाया एव ‘‘जन्माद्यस्य यतः’’ ‘‘अथातो ब्रह्मजिज्ञासा’’ इति शंसता व्यासेनैव कर्तव्यतोक्तेस्तदुपयुक्तताऽऽपामरामरं दृढमनुभवारूढेति मन्तव्यम् । ननु यथा भगवता तव पित्रा त्वां प्रति प्रतिपादितं यथा मां प्रति त्वया कथितमिति योग्यतावीप्सानतिवृत्ति सादृश्यानि यथार्था इत्युक्तयथाऽसादृश्य इति प्रतिषिद्धसमासतानुकूल्यसादृश्यार्थकत्वसम्भवात्किमननुशिष्ट-सम्यगर्थतास्वीकारेणेति चेन्न । साक्षात्सदाशिवावतारं स्वं प्रति यथोपदिष्टवान्वासिष्ठस्तथा अचकथद्राज्ञ इत्यनधिकारात्तस्येत्यविलास्यव्याहरणत्वात् । यथोक्तम् । अतो ‘‘यथात्मशक्त्यैव’’ इत्युपासना-पादीयानुव्याख्यानव्याख्यानावसरे सुधायाम् । नन्वत्रात्मशक्तिमनतिक्रम्य यथात्मशक्तिम् इत्यव्ययीभावे सति तस्याव्ययीभावश्चेत्यव्ययत्वादव्ययादाप्सुप इति तृतीयाया लुका भवितव्यम् । तथाऽऽत्मशक्त्येति कथम् । उच्यते । यथेति भिन्नं पदं सम्यग्वाचि । निवृत्तिमार्गः कथित आदौ भगवता यथेति यथेति । नन्वेतदर्थचतुष्टयाप्रविष्टस्य सम्यक्त्वरूपस्यार्थस्य मूलकृदनुक्तत्वात्कथमचकथंष्टीकारास्तन्निदर्शनेनेति चेन्न । अन्यथाऽनुपपत्तेरिवाव्ययत्वस्याप्येतद्गमकत्वात्तदुपपत्तेः । अनव्ययस्थले कर्मनिर्णयटीकायां युक्तपदं शोभनमित्यर्थापयित्वा यदाह भिक्षुः । बालक्रीडा वासुदेवस्य युक्तेत्युक्तिरत्र कैमुत्यं सूचयति । टीकाकृतामेवं विवरणे मूलमाचार्यवचनम् ।
योग उपायो इति तट्टिप्पण्यां च वयुनं ज्ञानम् । दृष्टा योगाः प्रयुक्ताश्च पुंसां श्रेयःप्रसिद्धये । त्वद्दत्तया वयुनयेदमचष्ट विश्वम्’’ इति गीताभाष्येशावास्यभाष्यादिकमेतत्सजातीयमिति ज्ञेयम् । उत्तरत्र कीर्तनादेव कीर्तनात्साक्षान्मोक्षसाधनताया विना ज्ञानं तथात्वं तस्येति भ्रमभ्रंशं करोति– क्रमयोगेति ॥ क्रमस्य तरतमभावस्य योगस्तत्सम्बन्धी य उपायो वैराग्यादिसाधनजातं तेन । अथवा वैराग्यभक्त्यु-पासनाज्ञानानीति क्रमस्य योगः सम्बन्धस्तेन । क्रमेण गतो योगः समाध्यादिसाधनसाधनं तेनेति वा । उपलब्धेन ज्ञातेन ब्रह्मणा पूर्णेन भगवता यद्यस्मादनुष्ठितान्निवृत्तिमार्गादसंसृतिः संसाराभावः । असंसृतिरित्यत्र सुलोपाद्यभावो रक्षोहागमलध्वसन्देहा इति महाभाष्यनिर्देशादितो ज्ञेयः । विस्तृतं चैत ‘अविरोधोऽत्’ इत्यनुव्याख्याव्याख्या ‘‘अविरोधो विरोधाभाव’’ इति सुधावाक्यार्थचन्द्रिकायामनु-सन्धेयम् । असंसृतिः संसाराभावस्तन्निवृत्तिरिति यावत् । एतदर्थे मानमाह ॥ क्रमयोगेति । क्रमस्य नियतैकप्रकारतादेस्तत्क्रमेणेत्यादिगदितस्य योगेन सहोपलब्धेन वसिष्ठादिदृष्टेन ब्रह्मणा वेदेनासंसृतिः कथित इति विपरिणतं सत्कथितेत्यन्वेति । ब्रह्म प्रोक्तं तपोऽध्यात्मवेदज्ञानेषु सूरिभिरिति विश्वः । ब्रह्मणा ज्ञानेनेति वा । क्रमयोगात्पूर्वस्मिन्नुत्तरोत्तरप्रवेशोपायाल्लब्धो भगवदन्तरङ्गद्वारत्वात्प्राप्तो ब्रह्मा चतुरास्यस्तेन सहासंसृतिर्मोक्ष इतरेषामिति वा । वृद्धो यूनेति निर्देशादनुक्तावपि सहेति लभ्यते । ‘ब्रह्मलोकात्सहामुना । ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते परात्मानः प्रविशन्ति परं पदम्’ इत्यणुभाष्यभाष्यादेः ॥ १ ॥
अथ श्रीचट्टी विरचिता श्रीमद्भागवतटिप्पणी
चट्टी
सुखचित्प्रमुखैर्गुणैर्युतो वियुतश्चाखिलदोषसङ्घतः ।
नृहरिर्हृदयांबुजे वसन्मम दद्यादखिलेष्टसञ्चयम् ॥ १ ॥
आनन्दतीर्थगुरुमादरतो भजामि स्वानन्ददं स्वचरणौ भजतां जनानाम् ।
यद्वक्त्रनिर्गलितवागमृतप्रपूरैस्तापत्रयं शममुपैति विनाऽतियत्नात् ॥ २ ॥
जयतीर्थगुरुन्वन्दे सर्वाभीष्टप्रदान्मम ।
विजयध्वजतीर्थादीन् गुरूनन्यांश्च भक्तितः ॥ ३ ॥
श्रीमध्वशास्त्रदुग्धाब्धिविक्रीडनविशारदान् ।
नरसिंहाचार्यसंज्ञांश्च पितृव्याननिशं भजे ॥ ४ ॥
नत्वा श्रीमद्वेङ्कटाचार्यसंज्ञान्विद्यागुरूननिशं बुद्धिशुद्ध्यै ।
कुर्वे चट्टीवेङ्कटाह्वयोऽहं सद्भ्यः षष्ठस्कन्धटीकां हिताय ॥ ५ ॥
स्वोपदिष्टस्य सर्वस्य तत्त्वस्य हृदि धारणात् ।
मन्दोपदेशसन्देहव्यावृत्त्या बादरायणिः ॥ ६ ॥
हर्षेण महताविष्टः स्वपृष्टं प्रतिवक्ष्यते ।
इत्यभिप्रेत्य नृपतिर्ज्ञापयन् प्रतिभां स्वकाम् ॥ ७ ॥
अनूद्य पूर्वस्कन्धोक्तं वक्तुं प्रार्थयते पुनः ।
पञ्चमान्त्योक्तनिरयनिवर्तनपटीयसी ॥ ८ ॥
निवृत्तिमार्ग इत्यादिषड्भिः श्लोकैर्विनिष्कृतिम् ।
भगवता सर्वज्ञेन त्वया । आदौ द्वितीयस्कन्धे । निवृत्तिमार्गो निवृत्तिधर्मलक्षणो मोक्षमार्गः । यथा यथावत् । कथितः । ‘‘गृहात्प्रव्रजतो धीर’’ इत्यादिना तत्फलमाह– यदिति ॥ यद् येन निवृत्तिधर्मानुष्ठानेन । असंसृतिर्मोक्षो भविष्यति । ‘‘निष्कामं ज्ञानपूर्वन्तु निवृत्तमिति चोच्यते । निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम्’’ इत्युक्तेः । एतच्च ब्रह्मसाक्षात्कारद्वारेणेत्याह– क्रमेति । क्रमेणोपचितैर्योगैर् भक्तिज्ञानादिलक्षणोपायैः । उपलब्धेन साक्षात्कृतेन । ब्रह्मणाऽनन्तकल्याणगुणपूर्णेन हरिणा निमित्तेनेत्यर्थः । अत्र ब्रह्मोपलम्भेनेति वक्तव्ये उपलब्धेन ब्रह्मणेत्युक्तिस्तु कर्तृत्वं करणत्वं च परब्रह्मण एव मुख्यमिति ज्ञापनार्थम् । कर्तृकरणयोस्तृतीयेति सूत्रात् । यद्वा निवृत्तिमार्गो निवृत्तिधर्मेण प्राप्यो मार्गोऽर्चिरादिमार्गः कथितः । वैश्वानरं यातीत्यादिना यद्येन मार्गेण गतानां क्रमयोगोपलब्धेन क्रमयोगोऽर्चिरादिप्राप्तिस्तेनोपलब्धेन प्राप्तेन ब्रह्मणा चतुर्मुखेन सहासंसृतिर्भगवत्प्राप्तिलक्षणो मोक्षो भविष्यतीत्यर्थः । तदुक्तं ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसञ्चरे ॥ परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्’’ इति ॥ १ ॥
प्रवृत्तिलक्षणश्चैव त्रैगुण्यविषयो मुने ।
योऽसावलीनप्रकृतेर्गुणसर्गः पुनः पुनः ॥ २ ॥
पदरत्नावली
‘‘ब्रह्मवर्चसकामस्तु यजेत ब्रह्मणस्पतिम्’ इति प्रवृत्तिलक्षणश् चशब्दात् कथितः । स किं फल इति तत्राह– त्रैगुण्येति । त्रिगुणात्मकपुरन्दरादिदेवतास्थानप्राप्तिफल इत्यर्थः । तत् फलं किं नित्यम् ? नेत्याह– य इति ॥ योऽसौ प्रवृत्तिमार्गः कामकर्मविदूषितान्तःकरणदोषभर्जनासमर्थ-त्वादलीनप्रकृतेर् अविनष्टप्रकृतिशक्तेः पुरुषस्य पुनःपुनः गुणभूतस्य देहस्य सर्गो यस्मात् स तथा । सत्वादिगुणैः सर्गो यस्मादिति वा । भूयो जननमरणे प्राप्य चक्रवत् परिभ्रमणफलं ददातीत्यर्थः । अलीनप्रकृतेर्यो गुणसर्गः सत्वादिगुणनिमित्तोत्पत्तिर् असावपि तृतीयस्कन्धादौ कथित इति वा योगविभागः ॥ २ ॥
सत्यधर्म
ब्रह्मवर्चसकामस्तु यजेत ब्रह्मणस्पतिमित्यादिनोक्तं श्रुतं प्रवृत्तिलक्षणमनुवदति ॥ प्रवृत्तिलक्षण इति ॥ काम्यकर्मात्मा । प्रवृत्तिं लक्षयति ॥ घटयतीति ॥ प्रवृत्तिरिति लक्षणं नाम यस्येति वा प्रवृत्तिलक्षणः । ‘‘लक्षणं नामि्न’’ इति विश्वः । चस्तु मार्ग इति कथित इति चानुवर्तते इति सूचयति । तत्फलं लपति ॥ त्रैगुण्यविषय इति ॥ त्रिगुणकार्यस्वर्गादिपातनिकार्थवानित्यर्थः । तद्धितःष्यञन्तोऽयम् । यथोक्तं गीताभाष्यप्रमेयदीपिकातट्टिप्पणीषु । त्रिगुणसम्बन्धिस्वर्गादिः प्रतीतितोऽर्थ इव इति । त्रिगुणसम्बन्धीत्यनेन तस्येदमित्यर्थे तद्धितोऽयम् । विचित्रा हि तद्धितगतिरिति सूचयति । सम्बन्धिकार्यं प्रतीतित आपातप्रतीतितस्तद्धितोऽयमिति । ष्यञ्प्रत्ययस्तद्धितसंज्ञ इत्यर्थः ।
ननु गुणवचनब्राह्मणादिभ्यः कर्मणि चेति भावे कर्मणि च ष्यञ्प्रत्ययो विहितः । न चात्र भावः कर्म वाऽभिप्रेतम् । प्रत्युत तस्येदमिति सूत्रेणोक्तार्थेऽणेव विहितस्तत्कथमत्र ष्यञ्प्राप्तिरित्यत उक्तं विचित्रेति ॥ तद्धितप्रत्ययप्रवृत्तिरभिमतेऽर्थे भवतीति वैय्याकरणवचनार्थः । अत एव तद्धितेत्यन्वर्थ-संज्ञेति भावः । सम्बन्धीति भाष्ये कार्यकारणसम्बन्धोऽभिप्रेत इति भावेनोक्तं कार्यमिति ॥ गुणत्रय-जन्यपशुपुत्रादीत्यर्थ इत्यादि । एतत्सकलं न नित्यमित्याह– य इति ॥ योऽसावुक्तः प्रवृत्तिमार्गोऽलीन-प्रकृतेरविनष्टप्रकृतिसामर्थ्यस्य पुंसो गुणसर्गो गुणस्य जीवचेष्टाधीनचेष्टावत्त्वादप्रधानस्य शरीरस्य पुनः पुनः सर्गः सृष्टिर्यस्मात्स तथा । पुनः पुनरित्यनेन विना निवृत्तिमार्गं न संसृत्युपरतिरित्यभिप्रैति । अथवाऽलीना च सा प्रकृतिश्च तस्याः । ल्यब्लोपनिमित्ता चेयं पञ्चमी । तामुपादानीकृत्य । पूर्ववदुर्वरितम् । गुणसर्गः सत्त्वादिनिमित्तोत्पत्तिरिति वाऽर्थस्तृतीयस्कन्धादौ कथित इति योगविभागो वेति पूर्वे । गुणैः प्राप्यः सर्गो मार्गः स च ‘दक्षिणेन पथाऽऽर्यम्णः पितृलोकाद्व्रजन्ति ते’ इत्यादिना तृतीये कथित इति वेति केऽपि । ‘‘रूपादाहतप्रशंसयोर्यप्’’ इति सूत्रेऽन्येभ्योऽपि दृश्यत इत्युक्त्वा ‘‘गुण्या गुणवन्तो ब्राह्मणाः’’ इति महाभाष्यभाषितप्रकारेणात्र गुण्यपदमङ्गीकृत्यविग्रहो न सुग्रहः । त्रयश्च ते गुणाश्च त्रिगुणास्ते सन्त्यस्य जनकतया तत्त्रिगुणं तत्सम्बन्धि सुखादिकं त्रैगुण्यं स विषयो यस्येति किल भवितव्यम् । तत्र पुनरण् कर्तव्य इति गौरवग्रासात् । अत एव टीकाकृन्नाटीकत तथेति मन्तव्यम् ॥ २ ॥
चट्टी
प्रवृत्तिलक्षणः काम्यकर्मलक्षणो मार्गश्च कथितः । ‘‘ब्रह्मवर्चसकामस्तु यजेत ब्रह्मस्पतिम्’’ इत्यादिना । तत्फलमाह ॥ त्रैगुण्येति । त्रैगुण्यं स्वर्गादिसुखं तदेव विषयः प्राप्यं यस्य स तथा । स्वर्गाद्यर्थं प्रवृत्तं स्यादित्युक्तेः । प्रवृत्तिलक्षणधर्मस्य नित्यसुखसाधननिवृत्तिमार्गाद्वैलक्षण्यमाह ॥ योऽसाविति । यः प्रवृत्तिधर्मोऽसावलीनप्रकृतेः प्रवृत्तिधर्मस्य प्रकृतिविलयापादनसामर्थ्याभावेनालीना प्रकृतिर्यस्य तस्य पुंसः पुनः पुनर्गुणसर्गो गुणानां भौतिकदेहानां सर्ग उत्पत्तिर्यस्मात्स तथा । शरीरपरम्परारम्भको भवतीति यावत् । ‘‘क्षीणे पुण्ये मर्त्यलोकं विशन्ति’’ इत्यादेः । प्रवृत्तिधर्मस्य क्षयिष्णुफलकत्वेन निवृत्तिधर्माद्वैलक्षण्यमिति भावः । यद्वा प्रवृत्तिलक्षणो मार्गः पितृयानाख्यः कथितस्तृतीये । ‘‘दक्षिणेन यथाऽर्यम्णः पितृलोकं यजन्ति त’’ इत्यादिनेत्यर्थः ॥ २ ॥
अधर्मलक्षणा नाना१ नरकाश्चोपवर्णिताः ।
मन्वन्तरश्च व्याख्यात आद्यः स्वायम्भुवो यतः ॥ ३ ॥
पदरत्नावली
अधर्मेण लक्ष्यन्ते दृश्यन्ते अनुभूयन्ते, पृथक् संज्ञावत्त्वेन क्रियन्त इति वाऽधर्मलक्षणाः । अधर्मं लक्षयन्तीति वा । नास्ति रतिः कथञ्चन येषु ते नरका उपवर्णिताः, पञ्चमान्त इति शेषः । मन्वन्तरो मन्वन्तरविषयो विचारश्चतुर्थारम्भे व्याख्यातः । कोऽसाविति तत्राह– आद्य इति ॥ आद्यः प्राथमिकः । केन सृष्ट इत्यत उक्तम्– स्वायम्भुव इति ॥ स्वयम्भुवा कल्पितः । यतः यस्मान् मन्वन्तरे स्वयम्भुवो जातो मनुराद्यः सर्वमनूनामाद्यभूत इति वा ॥ ३ ॥
सत्यधर्म
अधर्मलक्षणा इति । नरकापायपरिहरणोपायप्रश्नस्य कर्तव्यत्वेन मनसि दृढनिरूढत्वा-त्प्राक् प्रतिपादनीयमन्वन्तरेत्यादिचतुर्थस्कन्धार्थस्यावसरप्राप्तस्य क्षणमुपेक्षणं क्षान्त्वा अधर्मेत्यादि-नाऽर्धेनान्ववदत् । श्रवणादेव मूर्च्छादिरित्यादेरेकसरण्याननुवदनीयत्वद्योतनाय मध्ये चतुर्थोक्तार्थव्यवधानं राज्ञोऽभीप्सितमित्यभिप्रायं प्रायशो व्यासवचनमिति न व्यत्ययदोषः । न च (किं न च वाच्यम्) यादृच्छिकं भगवद्वचनमिति वाच्यम् । द्वीपवर्षेत्यादिसार्धश्लोकव्यवधानेन पुनरधुनेहेत्यादिना नरकोप-रमकप्रश्नोक्तेरेतदकल्पकत्वात् । किञ्चासर्वज्ञताप्राप्तेश्च कवयितुर्द्वैपायनस्येति दिक् । अधर्मलक्षणा अधर्मो लक्षणं स्वप्रापणचिन्हं येषां त इति । अधर्मं धर्मरूपातिरिक्तं यमरूपं लक्षयन्ति दर्शयन्तीति स्वप्रवेशात्पुरेति ते तथा वा । तद्रूपस्यैव पापिशिक्षणाधिकारादिति भावः । यद्वक्ष्यति ‘‘न ते यमं पाशभृतश्च तद्भटान्स्वप्नेऽपि पश्यन्ति हि चीर्णनिष्कृता’’ इति विपर्ययेणाधर्मेणैव लक्ष्यन्ते दृश्यन्तेऽनु-भूयन्त इति वा । नानानरका इति ॥ अथ तांस्ते राजन्नामरूपलक्षणतोऽनुक्रमिष्याम इति प्रतिज्ञाय तामिस्रोऽन्धतामिस्रो रौरव इत्यादिना पञ्चमे प्रपञ्चिताः । नामनरका इति पाठे नामानि तामिस्रेत्यादीनि च नरकाश्च स्वरूपतोऽनुवर्णिता इत्यर्थः । नामेति प्रसिद्ध्यर्थकमव्ययं वा । यतो यस्मिन्नाद्यः प्राथमिकः स्वायम्भुवो मनुरभूत् । योगरूढोऽयं शब्द इति नातिप्रसक्तिः । स च मन्वन्तरस्तद्विषयो विचारो व्याख्यातो निरूपितः । चतुर्थादिभाग इति शेषः । स्वायम्भुवो ब्रह्मजो मनुर्यतो यस्मिन्स आद्यो मन्वन्तरः’’ इति वा । मनूनामन्येषामन्तरमवधिर्भेदः प्रभेदो वा यस्मात्सस् तदात्मा मन्वन्तरमस्यास्तीति कालविशेष इति वा ॥ ३ ॥
चट्टी
अधर्मेण लक्ष्यन्ते दृश्यन्तेऽनुभूयन्त इति ते तथोक्ताः । उपवर्णिताः । पञ्चमस्कन्धे । आद्य-श्चतुर्दशमन्वन्तराणां मध्ये प्राथमिकः स्वायंभुवो मन्वन्तरश्च व्याख्यातः । चतुर्थस्कन्धस्यादौ । सर्वं प्रमेयं सर्वेष्वपि स्कन्धेषु यथासम्भवं सङ्क्षेपविस्तराभ्यां निरूपितमिति ज्ञापनायानुवादे स्कन्धक्रमोल्लङ्घनम् ॥३॥
प्रियव्रतोत्तानपदोर्वंशस्तच्चरितानि च ।
द्वीपवर्षसमुद्राद्रिनदीनदवनानि च ॥ ४ ॥
पदरत्नावली
ननु स्वायम्भुव इति सामान्योक्तौ मनुविशेषः कुतो निश्चीयते ? न च तच्छब्दादिति वाच्यम् । अश्रवणात् । न च तेनैव । स्वयम्भूजातानां सर्वेषामपि तत्संबन्धितया तच्छब्दवाच्यत्वोपपत्तेः। न च रूढ्या तदङ्गीकारः किं न स्यादिति वाच्यम्, विशेषमन्तरेण केवलया निश्चेतुमशक्यत्वात् । ‘स्वायम्भव कया वृत्त्या वर्तितं ते परं वयः’ इत्यत्र नारदपरत्वेन रूढेरपहाराच्चेतीयमाशङ्का यतश्शब्द-मुत्तरत्र सम्बद्ध्य परिह्रियते– यत इति ॥ यतो यस्मात् । स्वायम्भुवान्मनोर्जातयोः प्रियव्रतोत्तान-पदोर्वंशस् तयोश्चरितानि चतुर्थे पञ्चमे च व्याख्यातानीत्यनेन स्वायम्भुवो मनुरेवोच्यत इति निश्चीयत इति । द्वीपादयश्च, पञ्चमे व्याख्याता इति शेषः ॥ ४ ॥
सत्यधर्म
उत्तानपदो राज्ञो वंशो ध्रुवादिस्तच्चरितानि वासुदेवप्रसादसम्पादनादिरूपाणि प्रिय-व्रतोत्तानपदोश्चरितानीति वाऽन्वयः । प्रियव्रतस्य वंश ऋषभादिर् उपवर्णितानीति लिङ्गविपरिणामे-नान्वेति । यद्यपि समीपवर्तिव्याख्यात इत्यस्य विपरिणामोऽन्याय्यस्तथापि विपरिणयनमेकवचनस्य बहुवचनत्वेनापि कार्यमिति गौरवभीरुणा त्यक्त इति सन्तोष्टव्यम् । द्वीपादीनि चानुवर्णितानीत्ये-तदन्वेतीति सूच्यते । नदाश्च समुद्रातिरिक्ताः ॥ ४ ॥
चट्टी
यतो यस्मिन्स्वायम्भुवमन्वन्तरे जातः प्रियव्रतोत्तानपदोर्वंशश्च व्याख्यातः । तयोश्चरितानि च व्याख्यातानि पञ्चमे चतुर्थे च द्वीपादीन् ॥ ४ ॥
धरामण्डलसंस्थानं भागलक्षणमानतः ।
ज्योतिषां विवराणां च यथेदमसृजद् विभुः ॥ ५ ॥
पदरत्नावली
भागतो विभागतो लक्षणतो मानतश्च । ज्योतिषां, स्वरूपमिति शेषः । विवराणा-मधोभुवनानाम् । संस्थानमिति शेषः । विभुरिदं जगद् यथा येन प्रकारेणासृजत्, सोऽपि द्वितीयतृतीयादौ कथित इति शेषः ॥ ५ ॥
सत्यधर्म
भागलक्षणमानतो भागश्च लक्षणानि च मानं परिमाणं च तेभ्यः। ज्योतिषां सूर्यचन्द्रनक्षत्रादीनाम् । विवराणामतलवितलादीनां स्वरूपं निरूपितं पञ्चमे । विभुर्व्यापीदं विश्वं यथा येन प्रकारेण पूर्वकल्पीयसृष्ट्यनुसारेणेति वाऽसृजत्सोऽपि व्याख्यातस्तत्र तत्र । इदं संस्थानं व्याख्यातमिति वा । विप्रसम्भ्योड्वसंज्ञायामिति भुवो डुः । विविधतया भावयतीति स इत्यन्तर्णीत-ण्यर्थता वा । विविधमासीदिति विभुः । तथा हि वारुणशाखायाम् । ‘‘विभुप्रभु प्रथमं मेहनावत इति स ह्येव प्राभवद्विविधोऽभवत्’’ इति । ‘‘सोऽकामयत बहु स्यां प्रजायेत्’’ इत्यादिश्चेति गीता-भाष्योक्तप्रकारेण वा विभुः । धरेति पदं वा । धरा भूर्व्याख्याता । मानत इति बुद्धिविविक्तमन्वेति । मण्डलं संस्थानं राह्वादिमण्डलस्थितिरिति वा ॥ ५ ॥
चट्टी
भागतो विभागतो लक्षणतो मानतः परिमाणतश्च । धरामण्डलस्य संस्थानं च ज्योतिषां विवराणां चेदं संस्थानं च विभुर्यथाऽसृजत् । तदपि व्याख्यातमित्यर्थः ॥ ५ ॥
अधुनेह महाभाग यथैव नरकान् नरः ।
नानोग्रयातनान् नेयात् तन्मे व्याख्यातुमर्हसि ॥ ६ ॥
पदरत्नावली
प्रवक्तुर्व्याख्याने हर्षोद्रेककारणाय स्वस्योक्तार्थग्रहणसामर्थ्यं प्रदर्श्य विवक्षितार्थं पृच्छति– अधुनेति ॥ अधुनेममर्थं भवन्तं पृच्छामीति शेषः । इह जीवलोके दुष्कर्माऽपि नरो यथा येन साधनेन नानोग्रयातनान् नरकान् नेयान्न गच्छेत् तदधुना दुष्कर्मपरिहारपटीयः साधनं व्याख्यातु-मर्हसीत्यन्वयः । यातना तीव्रवेदनेत्यभिधानान् नानाविधा उग्रा यातना स्तीव्रवेदना येषु नरकेषु तथा तानिति नरकविशेषणमेतत् ॥ ६ ॥
सत्यधर्म
इदानींं परमप्रमेयं पृच्छति ॥ अधुनेति ॥ इदानीमिहाधिकारिणि जीवसङ्घे वा । महाभाग महाभागधेय । ‘‘भागो रूपार्धके प्रोक्तो भागधेय’’ इति विश्वः । आन्महत इत्यात्वम् । महाभां प्रकाशं ज्ञानं वा गच्छति प्राप्नोतीति स तथा तत्सम्बुद्धिः । यथा येनानुष्ठितसाधनेन नरकान् नाना नानाप्रकारान् नेयान्न प्राप्नुयात्तत्साधनं व्याख्यातुं वितत्य वक्तुम् । मध्यमपुरुषप्रयोगात्त्वमिति लभ्यते । ततश्च त्वमर्हसीत्यन्वयः । तव किमियानायासो गन्ता गच्छत्वित्यतस्तवेव ममापि मुमूर्षो-र्लोकोपकारः केवलं परमपुरुषकरुणापदमिति मनसि कृत्वा पृच्छति । नर इति ॥ कुतस्तेषु तव जिहासेत्यतस्तद्रूपं निरूपयति । उग्रेति ॥ उग्रा घोरा यातनास्तीव्रवेदना येषु येभ्यो वा तान् । नानोग्रयातनानिति वा पदम् । नाना नानाविधा इत्युग्रं यातनाविशेषणम् । नाना नानाविधविकारा उग्राः क्रूरा वैवस्वतदूतास्तैः कर्तृभिर्यातना येषु तानिति वा । तत्तत्साधनं नाना नानाविधं व्याख्यातुमर्हसीत्यन्वयो वा । अधिकारिणां बाहुविध्यात्साधनमपि तथाविधं बोधितं सत्साधयेदभिमतं नान्यथेति भावः । पुमर्थदलान्तरबोधनप्रार्थनमप्यावश्यकं कथमियतैवार्थितेन कृती भवानित्यतो वक्ति ॥ नर इति ॥ नरो नरान् । सुपां सुलुगिति शसः सुः । अनश्वरानीश्वरलोकांस्तद्रूपविशेषान्वया-त्तन्ममाख्यातुमर्हसीत्यावृत्त्याऽप्यन्वयः । एतस्या अजामिलादिमुक्तिभगवद्दर्शनाद्युपरितनोक्तियुक्ततायै सोढव्यत्वात् । नरौ तावविनाशित्वादिति ऋग्भाष्यभाषणात् ॥ ६ ॥
चट्टी
इह पापिषु नरोऽनुतापवान्पुरुषः । नाना उग्रयातना येषु तान्नरकान्यथा येन साधनेन नेयान् नगच्छेत् । तत्साधनमधुना व्याख्यातुमर्हसि ॥ ६ ॥
श्रीशुक उवाच—
न चेदिहैवापचितिं यथाऽहंसः कृतस्य कुर्यान्मनउक्तिपाणिभिः ।
ध्रुवं स वै प्रेत्य नरकानुपैति ये कीर्तिता मे भवतस्तिग्मयातनाः ॥ ७ ॥
पदरत्नावली
‘न चेदिहावेदीन्महती विनष्टिः’ इति श्रुत्यर्थं पश्यन् प्रवक्ति– न चेदिति ॥ यः पुरुषमनउक्तिपाणिभिर् मनोवाक्कायैः कृतस्यांहसोऽपचितिं प्रायश्चित्तोपलक्षणं नाशमिहैव न कुर्याच्चेत् तर्हि स पापी प्रेत्य नरकानुपैतीत्यन्वयः । कीदृशान् ? अत्राह– ये कीर्तिता इति ॥ वा इत्यनेन पारम्पर्येणेतीममर्थमाह । कथङ्कारमपचितिः स्यादित्यत उक्तम्– यथेति ॥ अहंसो गुरुलाधवं यथा तथा प्रायश्चित्तकरणमित्यर्थः । न चेदमौपचारिकं (किन्तु) ध्रुवं निश्चितमिति । यस्मिन् जन्मनि आचरितं तस्मिन् प्रायश्चित्तं चेल्लध्वपि क्षिप्रं गुरुदोषनिवृत्तिलक्षणफलदमिति एवेत्यनेन दर्शयति ॥ ७ ॥
सत्यधर्म
किं वीथीकथया तव कृत्यमत्यौपयिकं पृच्छेति तूष्णीमासीत्किं व्याससूनुर्न तस्याप्ये-तद्द्वारा नरोद्दिधीर्षापरतन्त्रतेति तदुत्तरयतीतीरयति ॥ शुक इति ॥ न चेदिति ॥ अनेन न चेदवेदी-न्महती विनष्टिरिति बृहदारण्यक नचेदिहावेदीन्महती विनष्टिरिति तलवश्रुती उपादत्ते । इह महौ एतज्जन्मनि वा । यः पुरुषस्तत्सङ्घ इति यावत् । मनउक्तिपाणिभिर् मनांसि चोच्यन्तेऽर्था आभि-रित्युक्तयो वागिन्द्रियाणि च तत्सहिताः पाणयो हस्तोपलक्षितदेहाश्च तैः । ‘‘हिरण्यपाणिमूतये हिरण्यहस्तो असुरः’’ इत्यादिऋग्भाष्यटीकयोः ‘‘हिरण्यं वर्णतोऽपि च । रूपं नारायणस्यैव पाणिशब्दोपलक्षितम् । स्वर्णपाणिः स्वर्णहस्तश्च देवः । पृथक् पृथक् पाणिपूर्वाङ्गवित्यै स्वर्णवर्णः स्वर्णपाणिः स उक्तः । तथाऽपि पाण्योरेव हिरण्यवर्णत्वं लभ्यते । न सर्वावयविन इति न वाच्यम् । उपलक्षणार्थत्वात्पाणिशब्दस्येत्युक्तम् । पृथक् पृथक् सर्वेषामिति यावत् । पाणिपूर्वाणामङ्गानां हिरण्यत्ववित्या’’ इत्याद्युक्तम् । कायैः कृतस्य सम्पादितस्यांहसः पापस्यापचितिं निष्कृतिम् । ‘‘भवेदपचितिर्निष्कृतौ’’ इति विश्वः । यथा पातकानुकूल्येन न कुर्याच्चेत्तर्हि पापी स प्रेत्य मृत्वा ये भवतः प्रति मे मया कीर्तितास्तिग्मयातनास्तिग्मास्तीक्ष्णा भोक्तुमशक्या यातना येषु ते तान्नरकानुपैति । न वातवार्तेयमित्याह– ध्रुवमिति ॥ यस्मिञ्जन्मनि पातकसम्पत्त्या विपत्तिस्तस्मिन्नेवोचितापचिति-श्चेदल्पापि साकल्याशुद्धावित्यवश्यं सम्पादनीयेति भावः । वैशब्दोऽमुष्यार्थस्य प्रसिद्धिद्योतकः । न वैकेनाक्षरेण छन्दांसि वियन्तीत्यादेर्नरकानित्यत्र न वर्णाधिक्यदोषः । एवमुत्तरत्रापि ज्ञेयम् ॥ ७ ॥
चट्टी
तत्र तावन्मन्वादिप्रायश्चित्तं विना नरका दुर्निर्वारा इत्याह ॥ न चेदिहेति द्वाभ्याम् । मनउक्तिपाणिभिर्मनोवाक्कायैः कृतस्यांहसस्तैरेवेहापचितिं प्रायश्चित्तं यथा यथावत् । न कुर्याच्चेत्तर्हि सः पुरुषः प्रेत्य मृत्वा नरकान्ध्रुवमुपैति । ये मया भवतः कीर्तितास्तिग्मा दारुणा यातना येषु ते ॥ ७ ॥
तस्मात्पुरैवाश्विह पापनिष्कृतौ यतेत मृत्योरविपद्यदात्मनः१ ।
दोषस्य दृष्ट्वा गुरुलाघवं यथा भिषक् चिकित्सेत रुजां निदानवित्२ ॥ ८ ॥
पदरत्नावली
यस्मादेवमनर्थप्राप्तिस्तस्माद् देहवियोगात् पूर्वमेव कालक्षेपमन्तरेण पापनिष्कृतौ पापपरिहारे यतेत । यतनमपि मध्यमे वयस्येवेत्यभिप्रायेणोक्तम्– अविपदिति ॥ बाल्ये वार्धके वा दौर्बल्यलक्षणविपत्तिः संभवात् तारुण्ये तदयोगात् समर्थ इत्यर्थः । अनेन द्रव्यादिसंपत्तावेव (न) प्रयतनीयमिति ध्वनितम् । यथेत्युक्तं विवृणोति– यदात्मन इति ॥ आत्मनो दोषस्य यद् गुरुत्वं लधुत्वं च तद् दृष्ट्वा तदनुसारेणेत्यर्थः । अत्रैव दृष्टान्तमाह– यथेति ॥ रुजां रोगाणां ‘निदानं त्वादिकारणम्’ इत्यभिधानान् मूलनिमित्तज्ञानी भिषग् वैद्यो यथा चिकित्सेत चिकित्सते । आत्मनो दोषस्य गुरुलाघवज्ञानाभावे तद् गुरुमुखादपि ज्ञात्वा कर्तव्यमिति सूचितमनेन दृष्टान्तेन । यद्वा यद् यावदात्मनो देहस्य मृत्योस्सकाशाद् यन्मरणलक्षणविपन्न भवति तस्मात् तावत् पुरैव पापस्य गुरुलाघवज्ञानपूर्वकं निष्कृतौ यतेत । इममर्थं सदृष्टान्तमाह– दोषस्येति ॥ ८ ॥
सत्यधर्म
नश्वरस्यापि शरीरस्य शश्वदीश्वरतन्त्रत्वात्तत्रापीयान्समय आयुष इति न सर्वसाधारण्येन ज्ञानमित्यग्र एव जाग्रता भाव्यमिति वक्तुमुत्कमना यथेति सूचितं विवृणोति ॥ तस्मादिति ॥ पुरैव मध्यमे वयस्याशु तत्रापि विलम्बमनवलम्बमान इह पापनिष्कृतावेतद्दुष्कृतिनिष्कृतौ । पुरैवेत्युदीरितं विवृणोति । मृत्योरिति ॥ यद्यावदात्मन एतद्देहस्य मृत्योरन्तकादविपद्विपदभावो रोगाद्युपद्रवाद्यभावः । इदमपि प्रायिकत्वाभिप्रायम् । प्राथमिकेऽपि प्रमाददर्शनात् तत्प्रागेव यतेत प्रयत्नं तनुयादित्यर्थः । आत्मनः स्वस्येति वा । अविपद्यतात्मनेति पाठोऽपि सुन्दरः । अविपदिति यतात्मनेति अविपद्यता आत्मनेति वा पदविभागः । यतात्मना यतेन तदेकाग्रीकृतेन आत्मना मनसा । निष्कृतिप्रयत्नकृति काले पुनः पापसम्पादककर्मानिष्पादकीकरणमेव तन्नियमनमिति भावः । मृत्योरविपद्यता विपत्तिमप्राप्नु-वताऽऽत्मना देहेन स्वेन मनसेति वा । दोषस्य पापापादकस्य । गुरुलाघवं गौरवं लाघवं च दृष्ट्वा शास्त्रतोऽवेत्य । यद्वा गुरुलाघवं गुरोराचार्यात्तन्मुखादिति यावत् । लाघवं दृष्ट्वाऽवेत्य । आचार्यः पूर्वरूपमाचार्योपासनं गुरुर् यद्दद्यात्सुप्रसन्नधीः । आचार्याद्व्येवेत्यादेः । लाघवं लघुनि चरिते प्रायश्चित्ते महीयसोऽप्यंहसः संहारोपायत्वमल्पवित्तव्ययकालायाससाध्यत्वं वा । अनुरूपनिदर्शनेन निरूपयति । यथेति ॥ रुजां रोगाणां निदानविदादिकारणज्ञो भिषग्वैद्यश्चिकित्सेत चिकित्सते । आत्मनः शरीरस्य मृत्योरविपन्मरणरूपविपदभावो यद्यावत्तत्पुरैवेति योग्यान्वयीति सर्वमनुवर्तते । आत्मना अविपद्यता करणेन पुरैव यतेतेति द्वितीयपाठेऽप्यन्वयो ज्ञेयः । रुजानिदानविदिति क्वाचित्कपाठः । तत्र टापं चैव हलन्तानामिति टाबन्तो रुजाशब्दः । स्त्रीरुग्रजेत्यमरः । तासां निदानवित् । अथवा यथा भिषक् चिकित्सते तथाऽयमपि यतेतेति विधेयतोभयकार्यस्येति लिङोलट्त्वकरणश्रमो नास्त्येतत्पक्ष इति मन्तव्यम् । पूर्वं कुर्यादित्युक्तं स्वयं यतेतेति व्याख्यान् शुकोऽन्तरान्तरायोपनिपाते वा शरीरपाते वा ‘‘प्रारम्भमात्रमिच्छा वा विष्णुधर्मे न निष्फला’’ इत्यादेश्च प्रयत्नमात्रादपि पातकघातो भवतीत्यभिप्रैति
॥ ८ ॥
चट्टी
यस्मादेवं तस्मात्पापस्य निष्कृतौ प्रायश्चित्ते यतेत । कदा मृत्योर्मरणात्पुरैव । तत्रापि यदाऽऽत्मनः शरीरस्याविपद् रोगादिलक्षणा विपन्नास्ति । तत्राप्याशु । अन्यथाऽतीतकाले तु द्विगुणं व्रतमर्हतीति द्वैगुण्यापत्तेः । तत्र च पापस्य महत्वमल्पत्वं वाऽपेक्ष्य तदनुरूपप्रायश्चित्ते यतेत । रुजां रोगाणां निदानवित् । यथा वैद्यस्तदनुरूपं चिकित्सेत तद्वत् ॥ ८ ॥
राजोवाच—
दृष्टश्रुताभ्यां यत्पापं जानन्नप्यात्मनोऽहितम् ।
करोति भूयो विवशः प्रायश्चित्तमथो कथम् ॥ ९ ॥
पदरत्नावली
राजा निष्कृतेर्वैयर्थ्यं शङ्कते– दृष्टेति ॥ चौर्यादिकारिणो राजदण्डादिदर्शनेन । ‘मृतो नरकमभ्येति ह्यगम्यागमानान्नरः’ इति श्रुतेः । स चात्मनः पापमहितं दुःखसाधनं जानन्नपि विवशः स्वकर्माधीनः भूयः पश्चादपि पापं करोतीति यद् यस्माद् अथो तस्मात् प्रायश्चित्तं कथं भवतीत्यन्वयः ॥ ९ ॥
सत्यधर्म
स्वयं प्रायश्चित्तस्यावश्यानुष्ठेयत्वं जानन्नपि राजा ‘‘रथस्थं केशवं दृष्ट्वा सर्वपापैः प्रमुच्यते । महात्मवचनाच्छुद्धो भवति’’ इत्यादेरुक्तरूपप्रायश्चित्ताकरणेऽपि पातकनिवृत्तिश्रुतेः ‘‘मृतो नरकमभ्येति ह्यगम्यागमनान्नरः । तथैव नरके पतन्ति’’ इत्यादिपञ्चमप्रपञ्चितप्रकारश्रवणत एतदर्थे सन्दिहानमन्दजनसन्दोहमानन्दयितुं तत्संशयं स्वाशयगतं निष्कृतेर्वैय्यर्थ्यं द्वाभ्यां श्लोकाभ्यामुपपादय-न्पृच्छति– दृष्टश्रुताभ्यामिति ॥ यद्यस्माद् दृष्टश्रुताभ्यामात्मनोऽहितमैहिकपारलौकिकापत्प्रापकं पापं जानन्नपि जनः । दृष्टश्रुतेति भावे क्तो वा । दर्शनश्रवणाभ्यां भूयः पुनरपि । अथोऽनन्तरम् । तादृशमेव तनोति । तत्र निमित्तमुत्तम्भयति– विवश इति ॥ पराधीनः स्वानुष्ठितदुरिष्टवशो, वेः परमात्मनो वश इति वा । पुनर्दरिद्रः पुनरेव पापीत्यादेः । तस्मादस्माकं प्रायश्चित्तमुक्तं युक्तं नेति भातीत्याह ॥ प्रायश्चित्तं कथमिति । प्रायस्य चित्तिचित्तयोरिति सुट् । अपिना प्रायश्चित्तपक्षं गर्हयामास । जानन्नपीत्यन्वयो वा ॥ ९ ॥
चट्टी
प्रायश्चित्तस्य वैकल्यं द्वाभ्यां शङ्कते नृपः– दृष्टेति ॥ यद् दृष्टं राजदण्डादि श्रुतं नरकादि ताभ्यामात्मनः पापमहितं जानन्नपि प्रायश्चित्तानन्तरं पुनः पुनः करोति । जानता तत्करणे हेतुः– विवश इति । भगवत्परतन्त्रः ‘‘स कारयेत्पुण्यपापम्’’ इति श्रुतेः । रागादिपरतन्त्रो वा । ‘‘अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः’’ । श्रीभगवानुवाच ‘‘काम एष क्रोध एष’’ इति । अथोऽतः कारणात् । मन्वादि विहितद्वादशाब्दादि कथं प्रायश्चित्तं घटत इत्यर्थः । यद्यनुष्ठितं प्रायश्चित्तं समूलदुरितनिवारकं तर्हि तत्सकलं नरकनिवारकं स्यात् । न चैतदस्ति । तथात्वे सवासनदुरितोच्छेदेन कारणाभावेनोत्तरत्र दुरितानुत्पादप्रसङ्गात् । न चेष्टापत्तिः । लोके प्रायश्चित्तानन्तरमपि शतशः क्रियमाणदुरितदर्शनात् । अतः पापस्य दुर्निवारत्वेन नरकपातस्यावश्यम्भा-वित्वान्निरधिकारिकत्वेन धर्मशास्त्रे क्रियमाणं प्रायश्चित्तविमर्शनं व्यर्थमिति भावः ॥ ९ ॥
क्वचिन्निवर्ततेऽभद्रात्क्वचिच्चरति तत्पुनः ।
प्रायश्चित्तमथोऽपार्थं मन्ये कुञ्जरशौचवत् ॥ १० ॥
पदरत्नावली
असंभवं विवृणोति– क्वचिदिति ॥ क्वचिदभद्रात् प्रायश्चित्तेन निवर्तते । क्वचित् तत्सदृशमभद्रमाचरतीति यदथो तस्मात् प्रायश्चित्तम् अपार्थं मन्ये । निष्प्रयोजनत्वे कुञ्जरशौचवदिति दृष्टान्तः । शौचेन स्नानं लक्षयति ॥ १० ॥
सत्यधर्म
अयुक्ततामेव पुनर्वक्ति– क्वचिदिति ॥ अभद्रादमङ्गलकर्मणः क्वचिन्निवर्तते । तद् अभद्रम् । क्वचित् क्वापि पुनराचरति यस्मादित्यावृत्तं सत् हेतुसमर्पकं च भवति । तत्तस्मात् । अथोऽत इति वा । आचरति पुनराचरत्येव । अथोऽनन्तरमिति । कुञ्जरशौचवद्गजमज्जनवन्मन्ये । तद्यथा पुनः पुनर्धूलीप्रक्षेपेण अपार्थं वृथा तथेदं प्रायश्चित्तमिति मन्ये जान इति भावः । अथो संशयोऽयं क्व निवर्तते । त्वां विनैतत्परिहारो यत्र क्वापि न भवतीति वाऽर्थः । ‘‘अथोऽथ च संशये च प्रकीर्तितौ’’ इति विश्वः । यद्यप्योदिति प्रगृह्यसंज्ञायां प्लुतप्रगृह्या अचि नित्यमिति प्रकृतिभावेन भवितव्यमथो अपार्थमिति तथाऽपि सन्धिना निर्देशोराजाभिसन्धेरितरापरिहार्यतासूचक इति मन्तव्यम् । प्रायश्चित्तमथो ऽपार्थमिति पदविभागः । प्रायश्चित्तमथ इत्यभद्रविशेषणम् । प्रायश्चित्तं मथ्नातीति मथकम् । विशेषणपरनिपातः । प्रायश्चित्तं मथकं यस्य तत्तादृशादभद्रात् । प्रायश्चित्तमेव मथ्नाति स्वफलोपलम्भकत्वेनेति तत्तथा तस्मादभद्रादिति वा । मथे विलोडनेऽस्मात्कर्तरि क्विप् । जश्त्वचत्वयोः प्रायश्चित्तमदिति अग्नि-मच्छब्दवद्भवति । अत्र प्रसङ्गात्काचिच्चर्चा क्रियते । ‘‘ये विद्वांसोऽबुधो जना’’ इति बृहदारण्यकभाष्ये षष्ठेऽध्याये ‘‘बोधके विद्यमानेऽपि ये विदुर्न परं हरिम् । बुधः सकाशेऽप्यविद्वांस इत्यर्थः । बोधवान्ज्ञानवान्भुत्स्यात्तत्सकाशाच्च ये हरिमिति कर्तरि क्विप उररीकारात्कथमीक्षत्यधिकरणीयसुधायां ‘‘बोधनाद्भुद्वेद’’ इति करणग्रहणमिति चेन्न । मिथ्याशब्दोऽनिर्वचनीयं वदतीतिवत्करणस्यापि कर्तृत्व-मौपचारिकमङ्गीकृत्य बृहदारण्यकैककण्ठ््यसम्पादनसम्भवात् । अन्यथा इत्यादिश्रुतयो ‘‘मानं शतशोऽत्र समन्ततः’’ इति भूमिकानुव्याख्याकरणे कर्तृत्वमौपचारिकं स्वरसं स्यादिति मन्तव्यमिति । तत्प्रायश्चित्तमपार्थं मन्य इति वा ॥ १० ॥
चट्टी
उक्तमेव सदृष्टान्तं विवृणोति ॥ क्वचिदिति । क्वचित् कदाचित् । अभद्रात्पापान्निवर्तते । क्वचित्क्वचित्तदेव पुनराचरति । यथा कुञ्जरः स्नातोऽपि रजोभिरात्मानं मलिनीकरोति तथा । अथो तस्मात्प्रायश्चित्तमपार्थकं मन्य इत्यर्थः ॥ १० ॥
श्रीशुक उवाच—
कर्मणा कर्मनिर्हारो न ह्यात्यन्तिक इष्यते ।
अविद्वदधिकारित्वात् प्रायश्चित्तविमर्शनम् ॥ ११ ॥
पदरत्नावली
प्रायश्चित्तलक्षणं कर्मापार्थमिति वदन् किं केवलं व्यर्थमुत विद्वद्भिर्विमृश्य विहित-माहोस्विज्ज्ञानपूर्वकमपि क्रियमाणं तदिति । तत्राद्यः सम्मत इत्याह– कर्मणेति ॥ प्रायश्चित्तलक्षणेन कर्मणा कर्मनिर्हारः पापकर्मविनाश आत्यन्तिकश् छिन्नमूलत्वेन नेष्यते । उभयोरप्यज्ञानमूलत्वेनाधि-कृतत्वात् । द्वितीयं न व्यर्थमित्याह– प्रायश्चित्तेति ॥ विद्वद्भिरविदुषोऽधिकृत्य प्रायश्चित्तं कर्मविमर्शनं कृत्वा विहितं कर्म व्यर्थं नेष्यत इति पूर्वेणान्वयः ॥ ११ ॥
सत्यधर्म
प्रायश्चित्तं किं सर्वथाऽविद्वत्कृतमीषज्ज्ञाच्चाविद्वत्कृतमुत विद्वत्कृतं पार्थिवापार्थं मन्यसे चेत्तत्राद्यद्वितीययोरनुमितिरननुमितिश्च चरमे कल्प इत्युत्तरमीरयति ॥ कर्मणेति । कर्मणा प्रायश्चित्ता-त्मकेन मखमुखेन । कर्मनिर्हारो बन्धककर्मबाधनम् । नेष्यते प्रामाणिकैरिति शेषः । किञ्चित्सङ्कुचित-श्चेदपि न जातु च प्रायेणेत्यभिप्रायेणाह– न हीति ॥ आत्यन्तिको गलितमूलः । उभयत्राप्येक-योक्त्योत्तरमाह– अविद्वदिति ॥ अविद्वांसः सर्वथाज्ञाईषद्ज्ञाश्चाधिकारिणो यस्मिन्स तस्य भाव-स्तस्मात् । नञ अकारस्य च ईषदर्थता चानुदरा कन्याऽतोया गङ्गा । ‘‘अः स्यादभावे स्वल्पार्थे’’ इति प्रयोगविश्वादितो ज्ञेया । उभयोरपि न सर्वथैतद्भयाभाव इति भावः । तृतीय आह ॥ प्रायश्चित्त-विमर्शनमिति । प्रायश्चित्तस्य तद्रूपकर्मणो विमर्शनं भगवदवगमकगुरूपदेशेन तत्समर्पणम् । अपार्थं व्यर्थम् । नेष्यत इत्यनुवृत्तमन्वेति । विद्वान्नाविद्वद्वदिति वदति । अविद्वदिति ॥ अज्ञवत् । तत्र तस्येवेति नियमितत्वेऽपि प्रथमादेरपि वतिर्धर्मत्वाद्रूपरसवदित्यादीनां प्रेक्षावत्प्रयोगाणां बहुलमुपलम्भादन्यतो भवति । प्रपञ्चितश्चायं प्रकारः सुधातो ज्ञेयः । कर्मणा भगवदर्पणरूपेण । कर्मनिर्हारः कर्मणां समूल-विलयो यस्य सः । प्रायो बाहुल्येन समयज्ञसम्मत्या नेष्यते । प्रेक्षावद्भिर्विद्वद्विलक्षणतया परोक्षीकृत इति भावः । तत्र हेतुमाह– हि चित्तविमर्शनमिति ॥ हि यतः । तस्येति शेषः । तदपि कुत इत्यत आह– अधिकारित्वादिति ॥ समधिगताधिकारित्वात् ।
अथवा प्रायः कर्म जीवजातं हि यतश्चित्तविमर्शनं चित्तस्य विमर्शनं यस्य तत् । अतोऽविद्वन्नेति वा । कर्मणि जीवेऽस्वात्रन्त्र्यात् । ‘‘करोऽस्मिन्मीयत इति कर्म जीव उदाहृतः’’ इति नारदीये । कर इति सकारान्तोऽदृष्टवाची क्रियावाची वा । तदधीनत्वात् । प्रसिद्धश्च जीवे कर्मशब्दः पञ्चरात्र इति । कोऽयं करो नामेत्यत आह– कर इति ॥ करशब्दस्य हस्तादिवाचित्वमेव दृष्टं नादृष्टवाचित्वमित्यत आह ॥ सकारान्त इति । हस्तादिवाचिनोऽयं सकारान्तोऽन्य एवेति भावः । कर्मशब्दस्य जीवे विद्वद्रूढिं दर्शयति । प्रसिद्धश्चेत्यादिचतुर्थाध्यायगीतातात्पर्यन्यायदीपिकयोः । कर्मशब्दो जीववाचीत्युक्तेर्युक्त-मिदमिति मन्तव्यम् । यद्वा कर्मणा भविष्यद्बन्धानुबन्धसाधनेन । अविद्वद् अं भगवन्तं वेत्तीत्यवित्तद्वत् । नह्यात्यन्तिको नह्यो नहनीयो बन्धयोग्यः स चासावात्यन्तिकश्च । ‘‘णह बन्धने’’ । ‘‘अर्हार्थे यत् । ण्यतिवाहश्च छान्दसः’’ । आत्यन्तिकत्वं विशेष्ये स्वयमनन्वयि सत् तद्विशेषणेनान्वेति । सन्निधानात् । एतत्सजातीयं प्रमेयं परत्र सम्मतं टीकाकाराणामिति न चित्तं चित्रयितव्यम् । तथा हि । स्वर्गी ध्वस्तः, सप्तघटिकाभोजनं, परमाख्यविद्येत्याद्यनुव्याख्यानव्याख्यानावसरे तस्य परमत्वं नामान्यन्न भवती-त्यनुत्तमत्वमेव । तदपि सन्निधानात्प्रमाणत्वेनैव । तद्यथा परमधार्मिक इत्युक्ते परमत्वं धर्मेणेति सुधायां ‘‘दीप्तानलार्कद्युतिमप्रमेयम्’’ इति गीताभाष्येऽनलार्कद्युतिमित्युक्ते मितत्वशङ्कामपाकरोति ॥ अप्रमेय-मिति । उक्ते जातां द्युतेर्मितत्वशङ्काम् । एतच्च ‘‘सविशेषेण विशेषणत्वाद् द्युत्या सम्बध्यत’’ इति प्रमेयदीपिकायां तट्टिपणीष्व प्रमेयत्वविशेषणमनलार्कद्युतिरूपविशेषणविशिष्टस्य भगवतो विशेषणं भवद् विशेष्ये वैय्यर्थ्याख्यबाधाद् द्युत्या सम्बध्यते । एवं चोक्तशङ्कापरिहार इत्येवं जातीयकासु । तत्कर्म न सम्मतं सतामनुत्तममित्यप्याह ॥ अधिकारित्वादिति । महावैरिरूपत्वादित्यर्थः । कुतो विद्वद्दशे-दृशीत्यतो वाऽऽह ॥ आत्यन्तिक इति । अत्यन्तिके भव आत्यन्तिकः । विद्वत्समीपवर्ति । न हि यतस्तस्य कर्म निर्हारः कर्मणोऽनुष्ठितस्य हारोऽपहारस्तस्य निर्निषेधोऽभाव इति यावत् । उपसर्गाश्च धातुलीनार्थद्योतका इति सम्भवति हारोऽपहार इष्यत इति वा । आत्यन्तिको बलवदनिष्टाननुबन्धी यः कर्मनिर्हारः स प्रायः प्रकृष्टभगवज्ज्ञानिलाभवान् प्रकृष्टोऽयः शुभावहभागधेयं यस्य । हि यतश्चित्तविमर्शनमुक्तरूपमिष्यते । ‘‘प्रायश्चानशने मृत्यौ तुल्यबाहुल्ययोरपि’’ इति विश्वः । आयो लाभ निर्निषेध इति च । अयः शुभावहो विधिरित्यमरः । प्रायश्चित्ताश्च बहुज्ञास्तेभ्यो विविधं मर्शनं विचारो यस्य स तत्कर्म जीव इति वा । विद्वत्स्वरूपमप्यनेन निरूपयति ॥ अविद्वदधिकारित्वादिति ॥ अविद्वांसः पुत्राश्छात्रा वा तेऽधिकमरयो यस्य स तथा । ‘‘पुत्रः शत्रुरपण्डितः’’ इत्यादेरिति वा । अथवा अविद्वत्सु तद्विषयेऽधिकारित्वात्तच्छिक्षाधिकारवत्त्वादिति दिक् । ‘‘सत्सूत्रगुरुमार्गेण रटन्ती धीर्नटीव नः । विस्तरं स्वबहिष्कारं दृष्ट्वान्तर्द्रवति द्रुतम्’’ ॥ ११ ॥
चट्टी
प्रायश्चित्ताधिकारी द्विविधः । विद्वानविद्वांश्च । तत्राविद्वत्कर्तृकप्रायश्चित्तस्यात्यन्तिक-दुरितनिवारकत्वाभावेऽपि विद्वत्कर्तृकस्य तदस्तीति प्रायश्चित्तविमर्शनं सफलमित्यभिप्रेत्य परिहरति– कर्मणेति ॥ कर्मणा द्वादशाब्दादिप्रायश्चित्तेन कर्मणा पापस्य निर्हारो नाश आत्यन्तिकः समूलो नेष्यते । कुतः । अविद्वदधिकारित्वात् । हिशब्दोऽवधारणार्थः । स नेत्यनेन सम्बध्यते । हि हेता-ववधारण इत्युक्तेः । अविद्वानधिकारी यस्मिंस्तस्य भावस्तत्त्वं तस्मात् । अज्ञेन क्रियमाणत्वादेवेति यावत् । ज्ञानिना तु क्रियमाणेन तेनैव प्रायश्चित्तेनात्यन्तिकनिर्हारो भवत्येव । ‘‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’’ इति श्रुतेरित्यवधारणार्थः । अतोऽधिकारिसम्भवात्प्रायश्चित्तस्य विमर्शनविधानमुपपन्नमित्यर्थः ॥ ११ ॥
नाश्नतः पथ्यमेवान्नं व्याधयोऽभिभवन्ति हि ।
एवं नियमकृद्राजञ्छनैः क्षेमाय कल्पते ॥ १२ ॥
पदरत्नावली
तृतीये इदं पापमिति जानता तदकुर्वाणेन स्वविहितं क्रियमाणमुत मया कृतं पापमिति ज्ञात्वा तस्येदं प्रायश्चित्तमिति जानतेति पक्षद्वयेऽपि क्रियमाणं कर्म न व्यर्थं किन्तु सार्थकमिति भावेनाह– नाश्नत इति ॥ एवमिति वचनाद् यथेत्यध्याहर्तव्यम् । पथ्यमेवान्नमश्नतः पुंसो व्याधयो नाभिभवन्ति यथा, देहमिति शेषः । ‘अत्यम्बुपानाच्च न जीर्यतेऽन्नमनम्बुपानाच्च स एव दोषः । तस्मा-न्नरो वह्निविवर्धनाय मुहुर्मुहुर्वारि पिबेदभूरि ॥’ इत्यादिविधानं हिशब्देनाक्षिप्तं स्पष्टयति– एवमिति ॥ नियमकृत् पापकर्माकुर्वन् स्वविहितं कुर्वन् शनैर्बहुजन्मात्यये पुण्यप्रचयेन ज्ञानोत्पत्तौ क्षेमाय कल्पते मोक्षाय समर्थो भवति ॥ १२ ॥
सत्यधर्म
निदर्शनप्रदर्शनेन सङ्कुच्योक्तं विविच्योवाच ॥ नेति । यथा पथ्यं स्वदेहानुकूलत्वेन हितमन्नमश्नतो भोक्तॄन्व्याधयो रोगा नाभिभवन्ति हीति । ‘‘अत्यम्बुपानाच्च न जीर्यतेऽन्नमनम्बुपानाच्च स एव दोषः । तस्मान्नरो वन्हिविवर्धनाय मुहुर्मुहुर्वारि पिबेदभूरि’’ । ‘‘धातुरपथ्याद्विक्रियत’’ इत्यादि-प्रसिद्धिं द्योतयति । दार्ष्टान्तिकेऽप्याचष्टे– एवमिति ॥ ‘‘एवं प्रकारोपमयोः’’ इति विश्वः । एवं तथा राजन्नियमकृद्विहिताविहितचरणाचरणनियमो शनैर्मन्दं सम्पादितसाधनः क्षेमाय स्थितस्य परिपालन-लक्षणाय । मोक्षाय असाधारण्येन व्यपदेशा भवन्तीति क्षेमो मुख्यक्षेमो मोक्ष इति वा । तस्मै कल्पते समर्थो भवति । अश्नत इति षष्ठी वा । अश्नतः पुंसः शरीरमिति शेष इति पूर्वे । अश्नतः पुंसः । अभि आभिमुख्येन व्याधयो न भवन्ति । ‘‘अभि वीप्साभिमुख्ययोः’’ इति विश्वः । न भवन्ति सत्तां नाप्नुवन्ति । नाश्नतः पञ्चषाणि दिनानि अभुञ्जानस्य । नसमासः । पथ्यमन्नमेव व्याधयोऽप्यभिभवन्ति । ‘‘न चैकान्तमनश्नतः’’ इत्यादेः । नाश्नतः पथि अमा इवेति वा पदानि । न पथि । तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः । भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात्’’ इत्यादिना निराकृते शास्त्रविरुद्धे अनिवेदितानितरपङ्क्तिकैकान्तभोजनादिरूपे मार्गे शनैः स्वरैरमा सहाश्नतो व्याधयोऽभिभव-न्त्येवेत्यन्वयः । नियमकृत्पूर्वोदीरितविपरीतहरिसमर्पणादिनियमकृत्क्षेमायेहाऽऽयुःक्षयो न भवतीति क्षेमाय स्वस्थित्यै मोक्षाय परत्र कल्पते समर्थो भवतीति ।
पथि ‘‘नान्यः पन्था’’ इति निवेदिते (वेदवेदिते) ज्ञानरूपे नियमकृत् तत्सम्पादननियमवान् । अं नारायणम् । अन्नमद्यतेऽत्ति चेति व्युत्पत्त्याऽन्नशब्दवाच्यम् । ‘‘अविष्णावेष त्वनव्ययः’’ इति विश्वः । अद्यतेऽत्ति चेत्युपजीव्यत्वादत्तृत्वात्तच्छब्दवाच्यम् । अश्नत उपजीवनमेवाशनं तद्वतः । ‘‘पपुर्नितान्तं सरसाक्षिभृङ्गैः’’ इत्यादिवद्गौणमशनम् । व्याधयो रोगा विविधाकारा आधयो नाभिभवन्ति न पराभावयन्ति । हिशब्दोऽन्नं ब्रह्मेत्युपासीतेत्यादिप्रमाणप्रसिद्धिद्योतकः । अम् अन्नमुद्दिश्य नियम-कृदित्यन्वयो वा । क्षेमायेत्यादि पूर्ववत् । शनैरन्नमश्नतश्चिरं भुञ्जानस्येति वा । तस्य चासम्पत्प्रापकत्वस्य ‘‘चिरस्नायी दीर्घभोजी तेन मे रावणः प्रियः’’ इत्यादिना ज्ञापितत्वात् । ‘‘त्वरितं नान्नमश्नीयात्’’ इत्यादिवचनं कर्मविलोपेन नाश्नीयादित्यर्थपरमिति न तद्विरोधः । यद्वा पथ्यं शश्वद्धितरूपमन्नं व्याधयो विशिष्टा विविधाकारा वा आधयो यैस्ते दैतेया अभिभवन्त्येवमिति नियमकृज्जनोऽश्नतो दुःखादि-भुञ्जानानामनादृत्य कल्पत इति वा । ‘‘षष्ठी चानादरे’’ इति षष्ठी । कस्मा इत्यत आह । क्षेमायेति ॥ ‘‘शनैः शनैश्चरे स्वैरे’’ इति विश्वः । अमा सहार्थान्तीत्यादि विश्वः । एवं पूर्वोदीरितरीत्या नियमकृद्यमकृदात्मशिक्षकत्वेन यमसम्पादकः । स नि न भवतीति तथा । ‘‘निर्निश्चये निषेधे च’’ इति विश्वः। निरामिणो निखिलमित्यादिप्रयोगाच्च । कृन्तति कर्तयतीति कृत् स्वयं दूतादितो वा । कृती छेदन इति धातुव्याख्यानात् । यमश्चासौ कृच्च यमकृत् । स नि न भवति यस्य स तथेति वा । विशेषणविशेष्यभावस्य कामचारित्वस्य निकामं वैयाकरणैरङ्गीकृतत्वादेतदादेरर्थस्य पद्यपदशाबल्य-मेवानुकूल्यं कल्पयतीति न नः प्रयास इति मन्तव्यम् ॥ १२ ॥
चट्टी
नन्वेवं चेदज्ञेन कृतप्रायश्चित्तस्य किं सर्वथा वैयर्थ्यम् । नेत्याह ॥ नाश्नत इति । पथ्यमेवान्नमश्नतः पुरुषान्व्याधयो न बाधन्ते । एवं नियमकृन्नियतप्रायश्चित्तकृत् । निषिद्धत्यागेन विहितकृच्च पुरुषोऽविद्वानपि शनैर्विलम्बेन क्षेमाय श्रेयसे कल्पते । समर्थो भवतीत्यर्थः । अज्ञानिनोऽपि प्रत्यहम् अनुष्ठितेन पञ्चयज्ञादिकर्मणा दुरितानुरूपप्रायश्चित्ताचरणेन शनैः पापोपमर्दो भवति । ‘‘अहन्यहन्यनुष्ठानं यज्ञानां मुनिसत्तम । उपकारकरं पुंसां क्रियमाणाघशान्तिदम्’’ इति विष्णु-पुराणोक्तेरिति ॥ १२ ॥
तपसा ब्रह्मचर्येण शमेन च दमेन च ।
त्यागेन सत्यशौचाभ्यां नियमेन यमेन च ॥ १३ ॥
पदरत्नावली
ज्ञानेन तपआदिप्रायश्चित्तकर्मणा महदघं क्षपन्तीत्यन्वयः ॥ १३ ॥
सत्यधर्म
उत्तमानुत्तमाधिकारिणोऽधिकृत्य करणीयाकरणीयसाधनप्रकारं कैश्चित् श्लोकैराह ॥ तपसेत्यादिना । देवद्विजगुरुप्राज्ञेत्यारभ्य गीतागीतकायसङ्क्लेशनानशनादिरूपेण तपसा । ब्रह्मचर्येणैक-पत्नीविहितकालगामित्वाद्यात्मना । शमेन भगवन्निष्ठबुद्ध्या दमेनेन्द्रियनिग्रहेण । ‘‘शमो मन्निष्ठता बुद्धेर्दम इन्द्रियनिग्रहः’’ इत्यादेः । त्यागेन सत्पात्रे वित्तादिसमर्पणेन सत्येन भूतहितेन । सत्यं भूतहितं प्रोक्तमित्यादेः । शौचेन शरीरशुद्ध्या सदाचारादिना वा । यमेन विषयोपरत्या । नियमेन विना साधन-ग्रहणादिबलवद्बाधकोपनिपातम् ब्रह्मयज्ञादिविहितकल्पानतिक्रमणात्मना । ‘‘अहिंसा सत्यमस्तेयमसङ्गो ह्रीरसञ्चयः । आस्तिक्यं ब्रह्मचर्यं च मौनं स्थैर्यं क्षमाऽभयम् । शौचं जपस्तपो होमः श्रद्धातिथ्यं मदर्चनम् । तीर्थाटनं परार्थेहा तुष्टिराचार्यसेवनम् । एते यमास्तन्नियमा उभयो द्वादश स्मृताः’’ ॥ इत्येकादशे भगवदुक्तयमनियमाभ्यामिति वा । सात्त्विकस्यैव तपआदेर्भगवदवगमाङ्गता न तु राज-सतामसादेः । विस्तृतं चायं सप्तदशाध्यायगीतातद्भाष्यप्रमेयदीपिकास्विति । ततोऽनुसन्धेयः । मनस-श्चेन्द्रियाणां चैकाग्य्रं परमं तप इति तपसा वा । ब्रह्मचर्येण । ‘‘स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रियानिर्वृतिरेव च । एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम्’’ ॥ इति स्मार्तब्रह्मचर्यं वेति केऽपि ॥ १३ ॥
चट्टी
ज्ञानिनां मन्वादिविहितप्रायश्चित्तानुष्ठानेनात्यन्तिकपापनिर्हारो भवतीत्युक्तम् । वस्तुतस्तु तेषां स्वभावसिद्धेनैव तपोब्रह्मचर्यादिना सर्वदुरितनिर्हारसिद्धेर्न तत्प्रायश्चित्तापेक्षाऽऽवश्यकीत्याह ॥ तपसेति त्रिभिः । केचिद्धीरा ज्ञानिनः । श्रद्धयाऽस्माकं मन्वादिविहितप्रायश्चित्तान्वेषणं किमर्थं स्वभावसिद्धशमादिकेनैव सकलदुरितोन्मूलनसम्भवादित्यास्तिक्यबुद्धिः श्रद्धा तयाऽन्विता युक्तास्सन्तः । तपसा सच्छास्त्रालोचनेन । तप आलोचनं प्रोक्तमिति वचनात् । ब्रह्मचर्येणाष्टाङ्गेन । तदुक्तं स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेव च । एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम्’’ इत्युक्तेः । शमेन शत्रुमित्रादिबुद्धिवर्जेन । शमः प्रियादिवैधुर्येत्युक्तेः । दमेन इन्द्रियनिग्रहेण । दम इन्द्रियनिग्रह इत्युक्तेः । त्यागेनाहंममतात्यागेन । ‘‘मिथ्याभिमानविरतिस्त्याग इत्यभिधीयत’’ इत्युक्तेः । काम्यकर्मत्यागेन वा । ‘‘सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणा’’ इत्युक्तेः । सत्यं सतां हितवचनम् । यत्सतां हितमत्यन्तं तत्सत्यमिति कथ्यत इत्युक्तेः । ‘‘अभक्ष्यपरिहारश्च संसर्गश्चाप्यनिन्दितेः । स्वधर्मे च व्यवस्थाने शौचमेतदुदाहृतम्’’ इत्युक्तलक्षणं शौचम् । ताभ्याम् । ‘‘अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ । यमाः शौचं तपस्तुष्टिः स्वाध्यायो हरिपूजनम् । नियमा इत्युक्तलक्षणेन यमेन नियमेन च’’ ॥ १३ ॥
देहवाग्बुद्धिजं धीरा धर्मज्ञा श्रद्धयाऽन्विताः ।
क्षिपन्त्यघं महदपि वेणुगुल्ममिवानलः ॥ १४ ॥
सत्यधर्म
धीरा धियां बुद्धौ रताः । रमेर्यमन्ताड्ड इति डः । धर्मज्ञा धर्मं पुण्यकर्म । ‘‘स्याद्धर्ममस्त्रियां पुण्यं श्रेयसि’’ इत्यमरः । तं तद्वा जानन्तीति ते तथा । धर्मो भगवान् सर्वं जगद्धत्त इति धर्मः । पृथिवी धर्ममूर्धनीति प्रयोगान् मोक्षधर्म इति गीताभाष्योक्तेर्धर्मज्ञा भगवज्ज्ञाना वा । श्रद्धयान्विताः । श्रदित्यव्ययमास्तिक्यवाची तद्धत्त इति श्रद्धा परलोकादिकमस्तीति निष्ठा । ‘‘श्रन्नामा-स्तिक्यमुच्यत’’ इति गीताभाष्योक्तेः । तयाऽन्विताः । देहवाग्बुद्धिजं देहवाग्बुद्धिभ्यो जातम् । पञ्चम्या-मजाताविति जनेर्डः । महदितरावारणीयत्वेन महत् । अघं कलुषम् । ‘‘कलुषं वृजिनैनोघमंहो दुरितम्’’ इत्यमरः । क्षिपन्ति नाशयन्ति । अनायासेन नाशयन्तीत्यत्र स्पष्टदृष्टान्तमाचष्टे– वेण्विति ॥ अनलोऽग्निर्वेणुगुल्मं वेणोर्वंशस्य । ‘‘वेणुर्भूपान्तरे वंश’’ इति विश्वः । गुल्मः स्तम्बः ‘‘गुल्मस्तम्बे प्लीह’’ इति विश्वः ॥ १४ ॥
चट्टी
देहवाग्बुद्धिजं महदप्यघम् । अनलो वेणुगुल्ममिव क्षिपन्तीत्यर्थः ॥ १४ ॥
केचित् केवलया भक्त्या वासुदेवपरायणाः ।
अघं धुन्वन्ति कार्त्स्न्येन नीहारमिव भास्करः ॥ १५ ॥
पदरत्नावली
दुर्बलकायादिमतां तपआद्याचरणाशक्तानां केन पापक्षयः स्यादिति तत्राह– केचिदिति ॥ १५ ॥
सत्यधर्म
निस्त्राणगात्राणां कथं कथयेत्यत आह– केचिदिति ॥ केवलयाऽनपेक्षितेतरसाधनया भक्त्या । ‘‘स्नेहो भक्तिरिति प्रोक्तस्तया मुक्तिर्नचान्यथा’’ इति स्नेहरूपिण्या । वासुदेवपरायणा वासुदेवः परमयनं येषां ते तथा । नेतरफलोपलम्भाद्यर्थं तदासक्ता इति भावः । भागवता एव ‘‘यूयं भक्त्या वयं प्रभो’’ इति नारदेन धर्मं प्रत्युक्तेस्ते नारदादय इति ज्ञेयम् । यद्वा केवलया तपआद्युपेक्षया भक्त्या मुख्याश्रयो ‘‘यादृशी मयि भक्तिः स्यात्तादृश्यन्यत्र नैव चेत् । अनन्यभक्तिर्विज्ञेया’’ इत्युक्त-रूपिण्येति विवक्षितेऽर्थे वासुदेवपरायणा इत्यतिरिच्यत इत्यतो वाऽऽह– वेति ॥ असुदेवपरायणाश्चेति मुख्यप्राणपरायणाश्च । वा समुच्चय इति विश्वः । ‘‘देहेऽपि यत्र पवनो’’ ‘‘विष्णुर्हि दाता मोक्षस्य वायुश्च तदनुज्ञया’’ । ‘‘वायुरनिलममृतं वायुरप्यमृतः स्मृतः’’ इत्यादेस्तत्परायणता तदनुसारिण्य-प्यावश्यकीति नातिरेकः । अथवा केवलया भक्त्या करणेन वासुदेवपरायणास्तदाश्रया इति तयोरन्त-र्विशेषान्नातिरेक इति । अत ‘‘एतस्माद् बिभ्यत्परो वासुदेवपरायणाः’’ इति नाधिकारिविशेषणमेतत् । किन्त्वन्येषामश्रद्धया तत्राप्रवृत्तेरर्थात्तेष्वेव पर्यवसानादनुवादमात्रमिति व्याख्यन्प्रत्याख्यातः । अथवा के केचन चित्के चितो ज्ञानस्य कं सुखं तच् चित्कम् । षष्ठ्यर्थस्तत्साध्यरूपः सम्बन्धः । ज्ञानमात्रसाध्ये मोक्षसुखे । विषयसप्तमी वा । यदघं तदपि धुन्वन्तीत्युत्तरेणान्वयः । ‘‘एकान्तानां न कस्याचित् । त्वत्पादपद्मान्न परं वृणोम्यहम्’’ इत्यादेर्मोक्षापेक्षां न महान्तः कुर्वन्ति तस्य स्वत एवान्तरालिकतया लाभादिति भावः । सा च भक्तिरुपक्षीणसामर्थ्या फलकामनयेत्याह ॥ वलयेति । भगवत्प्रीतिमात्रसाधना पटीयसीत्यर्थः । वबयोरभेदात् । अघं के धुन्वन्ति न केऽपीत्यर्थः । अथवा वलते चरति विषये मोक्षादाविति सा वला तया । ‘‘वल सञ्चरण’’ इति धातुव्याख्यानात् । तर्हि मोक्षापेक्षारहितास्ते कीदृशा इत्यत आह– वासुदेवपरायणा इति ॥ ‘‘अर्थे नारायणो देवः सर्वमन्यत्तदर्थकम्’’ इत्यादेस्तन्मात्रकामुकाः । भास्करः सूर्यो नीहारं हिममिव कार्त्स्न्येन सामस्त्येन तदधिगम इत्यादिशंसितप्रकारेणाघं पापं धुन्वन्ति क्षपयन्ति समूलघातं घ्नन्तीत्यर्थः । कार्त्स्न्येनेत्येतन्नीहारं भास्करः कार्त्स्न्येन यथा धुनोति तथेति वाऽन्वेति । तत्राघानां नानात्वेऽप्यघानीत्यनुक्त्वोक्त्वा चाघमिति कियन्त्यपि तानि सन्तु वासुदेवपरायणानां स्वल्पान्येवेति ध्वनयामासेति ज्ञेयम् ॥ १५ ॥
चट्टी
केचिच्च ज्ञानिनो वासुदेवपरायणाः । वासुदेव एव परमयनम् आश्रय इति ज्ञानं येषां ते तथा । तदेकशरणा इति यावत् । केवलया सहायान्तरानपेक्षया । भक्त्या ज्ञानपूर्वकभगवत्स्नेहेन । ‘‘ज्ञानपूर्वः परस्नेहो नित्यो भक्तिरितीर्यत’’ इत्युक्तेः । अघं धुन्वन्ति परिहरन्तीत्यर्थः । ज्ञानिनो द्विविधाः । यमादियोगप्रचुरा भक्तिप्रचुराश्चेति । उभयेषामपि मन्वादिप्रायश्चित्तानपेक्षया स्वभाव-सिद्धाभ्यामेव योगभक्तिभ्यां सर्वपापनिवृत्तिर्भवति । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते क्षणात् । न हि ज्ञानेन सदृशं पवित्रमिह विद्यत इति भगवद्वचनादिति भावः ॥ १५ ॥
न तथा ह्यघवान् राजन् पूयेत तपआदिभिः ।
यथा कृष्णार्पितप्राणस्तत्पूरुषनिषेवया ॥ १६ ॥
पदरत्नावली
इदमशक्ताधिकारिकं चेन्निकृष्टं किम् ? न । किन्तु ततोऽप्युत्तममिति भावेनाह– न तथेति ॥ कृष्णेऽर्पिताः प्राणाः श्रोत्रादय•े यस्य स तथा । कृष्णार्पितप्राणत्वं केन स्यात् ? अत्राह– तत्पूरुषेति ॥ तस्य कृष्णस्य पूरुषास् तेषां निषेवया । ‘भक्त्या त्वनन्यया शक्यः’ इत्यादिप्रसिद्धिं हिशब्देन दर्शयति ॥ १६ ॥
सत्यधर्म
अशक्तविषयमुक्तमिदं साधनं न मन्दमिति मन्दाशङ्कां परिहरति ॥ नेति ॥ तपआदिभिः पूर्वमुदीरितैः । तथाऽघवान्पापी न पूयेत । क इवेत्यत आह– यथेति ॥ कृष्णे लसत्पीतपटे वासुदेवे । पुत्रात्प्रेयो मित्रात्प्रेयः सर्वस्मात्प्रेय इत्यर्पिताः प्राणा इन्द्रियाणि (येन) यस्य सः । एत-दवाप्तिरपि केनेत्यत आह– तत्पूरुषनिषेवया तद्भक्तसेवयेति । हिः समुच्चये । तत्पूरुषनिषेवया च यथा पूयेत न तथा पूयेतेति वा । पुरुषाः पूरुषा नरा इत्यमरः । ते पूरुषा अपि न मोक्षाय यतन्त इत्यप्याह– तत्पूरुषेति ॥ तत्पूर् वैकुण्ठादिषु रुषा कोपस्तदनाकाङ्क्षा येषां ते पूरुषास्ते च ते पूरुषाश्च तेषां निषेवया
॥ १६ ॥
चट्टी
तथाऽपि शमादियोगापेक्षया भक्तिरेव गरीयसीत्याह– न तथेति ॥ कृष्णेऽर्पिताः प्राणाः श्रोत्रादीन्द्रियाणि येन स तथोक्तस् तद्भक्तिमानिति यावत् । यथा पूयते । तथा तप आदिभिर्न पूयेत न शुद्ध्येत । अत एव पूर्वश्लोके कार्त्स्न्येनेत्युक्तम् । कृष्णे भक्तिः केन स्यादत्राह– तदिति ॥ तत्पूरुषाणां तद्भाक्तानां महतां सेवया कृष्णार्पितप्राण इत्यन्वयः ॥ १६ ॥
सध्रीचीनो ह्ययं लोके पन्थाः क्षेमोऽकुतोभयः ।
सुशीलाः साधवो यत्र नारायणपरायणाः ॥ १७ ॥
पदरत्नावली
अत्र त्रिषु दुष्कृतपरिहारमार्गेषु भक्तिमार्गस्यैव प्राधान्यमित्याह– सध्रीचीन इति ॥ लोके प्रायश्चित्तलक्षणसाधनसमूहे । आनन्दरूपत्वात् क्षेम इत्युच्यते । तत्राधिकारिण आह– सुशीला इति ॥ १७ ॥
सत्यधर्म
सङ्कलय्य पूर्वमुक्तमन्वयव्यतिरेकमुखेन द्रढयति ॥ सध्रीचीन इति ॥ लोके भुवने । ‘‘लोकस्तु भुवने जन’’ इत्यमरः । अयमव्यवहिततयाऽभिमतो मार्गः सध्रीचीनः प्रान्तपर्यवसायी समीचीन इति यावत् । सध्रीचीनेनेति सहाञ्चतीति सध्य्रक् सहशब्दोपपदादञ्चतेर्ऋत्विग्दधृगित्यादिना क्विन् तस्य सर्वापहरी लोपः । अनिदितामित्यादिनोपधानकारलोपः । सहस्य सध्रिरिति सहशब्दस्य सध्य्रादेशः । एवं निष्पन्नात्सध्य्रच्शब्दात्स्वार्थे विभाषाञ्चेरदिक्स्त्रियामिति खप्रत्यये आयने इत्यादिना खस्येनादेशे भसंज्ञायामच इत्यकारलोपे चौ लुप्तनकारेऽञ्चतौ परे पूर्वस्याणो दीर्घः स्यादिति सध्रिशब्दस्य दीर्घे च निष्पन्नेन सध्रीचीनशब्देन गुणैः सहाञ्चतीति व्युत्पत्त्या समीचीनरूपो लभ्यत इति ऋग्भाष्यटीकाटिप्पणोक्तेः । मोक्षेऽप्ययममुं न जहातीति भावः । अत्रावस्थानदशायामपि क्षेमः क्षेमङ्करो बोद्धारोऽपि निषेद्धारो नेत्याह– अकुतोभय इति ॥ न विद्यते कुतोऽपि भयं यस्य स तथा । मयूरव्यंसकादिसमासः । कुत इत्यत आह– यत्रेति ॥ यन्मार्गे नारायणपरायणा अत एव साधवः सुशीलाः सु पूज्यं शीलं स्वभावः सु अत्यन्तं शीलं सद्वृत्तं येषां ते तथा । शीलं स्वभावे सद्वृत्ते सु पूजायां भृशार्थे चेति विश्वौ । वर्तन्त इति शेषः ॥ १७ ॥
चट्टी
भक्तिवदन्यन्न शोधकमित्यत्र हेतुमाह ॥ सध्रीचीन इति । लोके आलोके आलोचने क्रियमाणे । यद्वा लोके प्रायश्चित्तादिलक्षणसाधनसमूहोऽयं पन्था भक्तिमार्गः सध्रीचीनो हि यस्मादिति पूर्वश्लोकेनान्वयः । सध्रीचीनत्वे हेतुत्रयम् । क्षेमो मोक्षहेतुः । न कुतश्चिद्विघ्नादेर्भयं यस्य स तथा । यत्र यस्मिन्भक्तिमार्गे साधवः प्रवर्तन्ते । तत्परिगृहीत इति यावत् ॥ १७ ॥
प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखैः ।
न वै पुनन्ति राजेन्द्र सुराकुम्भमिवापगाः ॥ १८ ॥
पदरत्नावली
तपआदीनामपि भक्त्योपचितबलानां पापनिर्हरणहेतुत्वं न केवलानामित्यतोऽपि भक्तेरेव प्राधान्यमित्याह– प्रायश्चित्तानीति ॥ १८ ॥
सत्यधर्म
नारायणपराङ्मुखैर्जनैश्चीर्णानि कृतानि तान्न पुनन्ति । वा इति पुराणादिप्रसिद्धिमाह । आपगा निम्नगा भागीरथ्याद्याः सुराकुम्भं मद्यभाण्डं यथा न पुनन्ति तथेति योजना । ‘‘सुरो देवे सुरा मध्ये कुम्भःस्याद्वटे’’ इति विश्वौ । अपां समूह आपं तद्गच्छतीत्यपगच्छतीति वाऽऽपगा । आपगा त्वपगापि चेति द्विरूपकोशः । नदी । उभयत्रापि गमेर्डः ॥ १८ ॥
चट्टी
तपआदीनामपि भक्त्योपचितबलादीनामेव पापनिर्हरणहेतुत्वं न केवलानामित्यतोऽपि भक्तेरेव प्राधान्यमित्याह ॥ प्रायश्चित्तानीति । महतामप्यशोधकत्वे दृष्टान्तः ॥ सुराकुम्भं नद्य इवेति
॥ १८ ॥
सकृन्मनः कृष्णपदारविन्दयोर्निवेशितं तद्गुणरागि यैरिह ।
न ते यमं पाशभृतश्च तद्भटान् स्वप्नेऽपि पश्यन्ति हि चीर्णनिष्कृताः ॥ १९ ॥
पदरत्नावली
ननु केवलभक्त्या पापनिर्हरणप्रकारः कथम् ? अत्राह– सकृदिति ॥ पापनिर्हरणं तपआदाविव चिरसाध्यं न भवति, किन्तु क्षिप्रसाध्यमित्यतो वा भक्तेः प्राधान्यमित्याह– सकृदिति ॥ कृतपापानुतापपूर्वकं श्रीकृष्णाङ्घ्रिपद्मे सकृन्मनोनिवेशनेन चीर्णनिष्कृताः कृतप्रायश्चित्ताः ॥ १९ ॥
सत्यधर्म
तपआदिकं श्रीपतिकृपासम्पादनसाधनं चिरसमयसमाचीर्णमेव तथा नेदमिति सर्वाधिकारिसाधारणं तत्राप्यतिसुनायाससाध्यं साधनं बोधयति ॥ सकृदिति । यैर्जनैः सकृदेकवारं मनः कृष्णपदारविन्दयोः कृष्णस्य मूलरूपिणो नारायणस्य वासुदेवस्य वा सन्निधानात् । यथोक्तं तत्त्वप्रकाशिकायाम् । कृष्णो मूलरूपी नारायणः । ‘‘कृष्णो मुक्तैरिज्यते वीतमोहैः’’ इति । नियम-नादिना सकललोककर्षणात्कृष्णः । तच्चोक्तं– ‘‘यतः कर्षसि देवेश नियम्य सकलं जगत् । अतो वदन्ति मुनयः कृष्ण त्वां ब्रह्मवादिन’’ ॥ इति महाकौर्मे इति गीताभाष्योक्तेः । ‘‘कृषिर्भूवाचकः शब्दः णश्च निर्वृतिवाचकस् तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते इत्यादेश्च । पदारविन्दयोः पदे एवारविन्दे कमले तयोः । अनेन मनसो भ्रमररूपतां ध्वनयति । सरसाक्षिभृङ्गैर्वराननाब्जमित्यादेः । द्विवचनेन द्वयोरपि विशेषबलेन विलक्षणफलोपलम्भकत्वेनोक्तिरावश्यकीति ज्ञापयति । सुवरिति प्रतिष्ठे द्वे एते अक्षरे इत्येतद्बृहदारण्यकभाष्ये ‘‘स्वित्यानन्दः समुद्दिष्टो वरिति ज्ञानुमुच्यते । मोक्षदानेन तद्दाना-त्सुवरस्य पदद्वयम् । दक्षिणश्चैव सव्यश्च’’ इत्याद्युक्तेः । निवेशितं नियोगेन स्थिरं स्थापितं मनस-श्चञ्चलत्वात् । ‘‘मनसश्चञ्चलत्वाद्धि स्थितिर्योगस्य वै स्थिरा । विनाऽभ्यासान्न शक्या स्याद्वैराग्याद्वा न संशयः ॥’’ इति षष्ठगीताभाष्योक्तेः । इदं दुःसाधमित्यत आह ॥ तद्गुणरागि यैरिति । रागोऽनुरक्तिरिति विश्वः । तस्य गुणास्तेषु राग आसक्तिरस्यास्तीति तत्तथाऽऽसक्तं मन इत्यर्थः । इदमवादीदानन्दतीर्थमुनिरासक्तमना अतीवस्नेहयुक्तमना इति सप्तमे गीताभाष्ये ।
ननु ‘‘न बहुव्रीहिलभ्येऽर्थे भवन्ति मतुबादय’’ इत्युक्तेस्तद्गुणरागमिति पूर्ते रागीति कथमिति चेन्न । प्रायिकाभिप्रायमिदम् । एकदेशे नैकाधिकरण इत्यत एकदेशिन इति निर्देशात् । तद्गुणश्च तदप्रधानभूता ब्रह्माद्यास्तद्रागीति वा । अप्रधानतया तद्रागस्यापि भगवत्प्रसादसाधनताया ‘‘उपासनाङ्ग-देवानां परमाङ्गतया भवेत् । तद्भक्तभक्तेष्वपि यो न कुर्यात्प्रीतिमञ्जसा । विष्णुर्जहाति तं पापमिह चामुत्र च प्रभुः’’ इत्यादिभाष्यभारताद्युक्तेः । ‘‘शुक्ले सन्ध्यादिके गुण’’ इत्यमतव्याख्यायाममरसुधायां ‘‘गुणो मौर्व्यामप्रधाने रूपादौ’’ इत्यभिधानात् । गुणसम्मूढा इति व्याख्यावसरे गीताभाष्ये ‘‘शब्दाद्या इन्द्रियाद्याश्च सत्त्वाद्याश्च शुभानि च । अप्रधानानि च गुणा निगद्यन्ते निरुक्तिगैः’’ ॥ इत्यभि-धादित्यभिधानात् । नमन्त्यस्मिन्गुणा इत्यनुव्याख्यानसुधायां गुणा उपसर्जनभूता ब्रह्माद्या इति व्याख्यातत्वात् । अथवा निना कृतदुष्कृतानुतापो द्योत्यते तेन तत्पूर्वकं वेशितमिति वा । सकृत्सहैकवारे स्यादिति विश्वः । ते यमं पाशभृतः पाशान्बिभ्रतीति ते तथा तांश्च न पश्यन्ति । तद्बाधा नास्तीति तात्पर्यम् ।
नन्वग्रतो जाग्रद्दशायां तद्दर्शनाभावेऽपि भयं स्वाप्नेभ्यस्तेभ्यो दृष्टेभ्यः स्यादित्यतो नेत्याह ॥ स्वप्नेऽपि न पश्यन्तीति । तत्र हेतुमाह ॥ हि चीर्णनिष्कृता इति । यतश्चीर्णं निष्कृतम् । भावे क्तः । प्रायश्चित्तं यैस्ते तथा मनोनिवेशनमात्रेणैव सर्वं प्रायश्चित्तं कृतमिति भावः । तत्तद्भटानवलोकनमात्रेण कथं कृतिन एत इत्यतो भगवद्भगवद्दूतनिरीक्षणं च तेषां भवतीत्यप्यनेनाह ॥ नतेयममिति । र्इं रमां यमयति नियमयतीति ईयमो रमारमो नतः सर्वनतश्चासावीयमश्च तं तद्भटांश्च पश्यन्ति । लक्ष्म्यामी स्यादनव्ययमिति विश्वः । नता प्रणता या ई तामिति वा । ‘‘पाशः पक्ष्यादिबन्धने कर्णान्ते शोभनार्थकः’’ इति विश्वौ । कर्णयोरिति शेषः । कर्णशोभककुण्डलादिभृत इति तद्भटविशेषणम् । स्वप्नेऽपीत्यनेन पारवश्येऽपीत्थम्भावो यदा तदा किं वाच्यं जाग्रद्दशायामिति सूचयति । अर्थविशेष-लाभलोभात्तच्छब्दाध्याहारः सोढव्यः पूर्वत्रेवात्रापीति ज्ञेयम् । तर्हि के तान्पश्यन्तीत्यत एत इत्यप्याह ॥ यैरिति । यैर्जनैः सकृत्कृष्णपदारविन्दयोस्तद्गुणरागि ते च ते गुणाश्च विषयास्तत्र रागोऽशोभनेषु शोभनत्वाध्यासः । यथोक्तं द्वितीयगीताभाष्ये । शोभनाध्यासो रागो रसो रागस्तथाऽऽसक्तिः शोभना-ध्यास उच्यत इत्यभिधानात्’’ इति । सकृन्न निवेशितं यतो मनो वेशितं निवेशितं नेति निवेशितम् । तत्तस्मान्न चीर्णनिष्कृता इति ते यमं तद्भटांश्च । अपिर्जाग्रदवस्थासमुच्चायकः । सदेति यावत् । पश्यतीत्यतस्तत्र न निवेश्यमिति वा यत्रानवसरोऽन्यत्रेत्यादिमानसिद्धत्वाच्च नापूर्वताऽपि ॥ १९ ॥
चट्टी
पापनिर्हरणं तपआदाविव चिरसाध्यं न भवति किन्तु क्षिप्रसाध्यमित्यतोऽपि भक्तेः प्राधान्यमित्याह ॥ सकृदिति । तस्य कृष्णस्य गुणेषु राग्यनुरागि मन इह चेतनानां वर्गे चीर्णा निष्कृताः कृतपापानुतापपूर्वकं श्रीकृष्णाङ्घ्रिपद्मे सकृन्मनोनिवेशेनैव कृतप्रायश्चित्ताः ॥ १९ ॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
दूतानां विष्णुयमयोः संवादं तं निबोध मे ॥ २० ॥
पदरत्नावली
नन्वेवं वैदिकानामस्तु । अवैदिकानां स्त्रीशूद्रादीनां पापप्रायश्चित्तं कथं स्यादित्या-शङ्क्य भक्त्या तेषां नामसङ्कीर्तनेन दुष्कृतनिष्कृतिः स्यादितीममर्थमितिहासेन दर्शयति– अत्रेति ॥ भक्त्या (सकृद्) भगवन्नामसङ्कीर्तनादपि दुष्कर्मनाशः स्याद् किमु वक्तव्यं निरन्तरमेकमनस्कत्वेन श्रीहरिचरणस्मरणादिनेत्यतो वेममर्थमाख्यायिकया दर्शयति– अत्रेति ॥ अत्र वैदिकानामवैदिकानामपि भक्त्या नामसङ्कीर्तनादघक्षये । एवकारेणायोगं व्यवच्छिनत्ति । न त्वन्ययोगम् । तथात्वे पूर्वोक्ता व्यर्थाः स्युरित्यर्थः ॥ २० ॥
सत्यधर्म
व्याजतोऽपि हर्याह्वयव्याहरणं दुरितदूरीकरणकारणधुरीणं यदा तदा किमुदाहर्तव्यं तदेकतानमानसेन सदा तदाराधनादिसाधनवतां महतामंहःसंहारो भविष्यतीत्यत्र निदर्शनप्रदर्शनेनेदम् । अर्थविमुखान्सुमुखीकुर्वन्काञ्चनाख्यायिकामाख्याति । अत्रेति ॥ अत्र भगवन्नाममात्रकीर्तनेन पापापनोदे उदाहरन्ति सन्त इति शेषः । पारोक्ष्यनिर्देशेन बहुवचनेन च सम्प्रदायागतां बहुसम्मतिं च सूचयति । इमं वक्ष्यमाणमितिहासं पुरावृत्तम् । पुरातनमिति पृथग्विद्यत इतीतिहासशब्दः ‘‘स कीचकैर्मारुतपूर्णरन्ध्रैः’’ इत्यादिवद्वृत्तमात्रपरोऽवसेयः । तथा च पुरातनं वृत्तमिति सिद्ध्यति । एवकारेणोत्तरत्र वक्ष्यमाणकार्य-कारणभावो न व्यभिचारी क्वापीति नियममाह । पुरातनं यमपुरश्रीहरिपुरयोरतनं गमनमुद्दिश्य विष्णुयमयोर्दूतानां संवादो यस्मिन्स तं मे मत्तो निबोध शृृणु । एतेन विवक्षा ममास्तीति सूचयति । न चाततेः सन्ततगमनार्थस्य कथं गमनसामान्यपर्यवसानमिति वाच्यम् । कामात्पौत्रायणः शोकादङ्गना-भामिनीत्यादिशब्दानामङ्गात्कल्याण्यामित्याद्यर्थविशेषे नियमितानाममितानां सामान्यकामिन्यादिपराणां बहुलमुपलम्भात्काऽत्र कथन्ता । ततश्च किञ्चिदितिहासपददौर्मुख्यं प्रत्याख्यातं भवतीति सन्तोष्टव्यम् । शृृणुष्वेत्याद्यकथयन् कथयंश्च निबोधेति नितरां बोधो यस्येति तत्सम्बोधनेन वस्तुस्थितिसूचकेन राजसौमनस्यसम्पादनमिव लोकहितमित्यादिस्वाभिहितसौमुख्यं च ध्वनयामासेत्यान्तरङ्गिको भावो विभावनीयः । आगतिक्रमेण यमविष्ण्वोरिति वक्तव्यं तथाऽपि तदकार्यकारितयाऽऽद्यन्तत्वेनाभ्यर्हितत्वेन च विष्णुपुरस्कृतिरिति ज्ञेयम् ॥ २० ॥
चट्टी
इममर्थमितिहासेनोपपादयति । अत्रेति ॥ इतिहासं कथां मे मत्तः ॥ २० ॥
कान्यकुब्जे द्विजः कश्चिद् दासीपतिरजामिलः ।
नाम्ना नष्टसदाचारो दास्याः संसर्गदूषितः ॥ २१ ॥
पदरत्नावली
अजया प्रकृत्या ज्ञानस्य मीलो मीलनं तिरोभावो यस्य स तथा । पश्चादजाद्धरेः पूर्वपुण्यसंपन्नज्ञानस्य मील उन्मीलनं यस्य स तथेत्युभयथा वाऽजामिलत्वं युक्तम् । ह्रस्वत्वं छान्दसम् । सन् समीचीन आचारः सदाचारः ॥ २१ ॥
सत्यधर्म
कान्यकुब्जे गङ्गायमुनामध्यस्थदेशविशेषे मान्धातृ दुहितॄणां चतुर्दशशतसङ्ख्यानां कन्यानामष्ठावक्रतः कुब्जा भवतेति शापो भवताश्च तथा भवन्यत्र स देशः कन्याकुब्जोऽभवत् स एव कान्यकुब्जः । यथोक्तम् अयोध्यामाहात्म्येऽष्टाविंशोध्याये । ‘‘तस्य कन्याः समायाताः शतानि च चतुर्दशा । तं च दृष्ट्वा मुनिवरं हृदा वव्रुः सुमध्यमाः । अष्टावक्रं तु तं दृष्ट्वा तत्यजुस्तास्तुतं द्विजम् । द्विजस्य हेलनं कृत्वा निवृत्ता राजकन्यकाः । ऋषिः कोपसमाविष्टः शशापाधीशकन्यका ऋषिणा शापिता नार्यः कुब्जास्ता अभवन् क्षणात् । कन्याकुब्जेति विख्यातो देशः’’ इति । दासीपतिर्दास्याः पतिरुपपतिरन्यथा द्विज इत्युद्वेजयेदिति भावः । नाम्नाऽजामिलो दास्याः संसर्गदूषितः, चैत्रस्य दास-भार्येत्यादिवन्नित्यसापेक्षत्वात्संसर्गदूषित इति समासः । षष्ठ्या आक्रोश इत्यलुक्समासो वा इति हेतोर्नष्टोऽदर्शनं गतः सन् निर्दुष्ट आचारः सतामाचार इति वा यस्य स तथा । दृष्टं च नष्टशब्दस्या-दर्शनं गत इत्यर्थकत्वं नष्टधर्मेत्यादिगीताभाष्ये ‘‘नश् अदर्शन’’ इति धातुव्याख्यानाच्च । सर्वथा तन्नाशो भाविकार्याननुगुणः । अथवा दास्याः संसर्गदूषित इत्यनेनैव पतिशब्द उपपत्यर्थक इत्यभिप्रैतीति मन्तव्यम् । नाम्नाऽजामिल इति वदतो न निर्भरस्तत्र यौगिकार्थविचारेण चित्तक्लेशो न इति ज्ञायते । तथाऽप्यजया प्रकृत्या ज्ञानस्य मीलो मीलनं तिरोभावो यस्य स तथा । पश्चादजाद्धरेः पूर्वपुण्यसम्पन्न-ज्ञानस्य मील उन्मीलनं यस्य स तथेत्युभयथा चाजामिलत्वं युक्तम् । ह्रस्वत्वं छान्दसमिति पूर्वमेव विवृतवन्तः । अजा मिलति श्लिष्यति ‘‘मिल श्लेषण’’ इति धातुव्याख्यानात् । स्वकार्येण यम् । अजो विष्णुः स आ सम्यक् स्वकार्येण सह मिलति यः सोऽजामिल इति निरुक्तौ त्वार्थिकतयाऽभिप्रेतोऽर्थः सेत्स्यति विना ह्रस्वश्छान्दसमिति विग्रहाग्रहेऽपि पन्थाः सुमिल इति मन्तव्यम् ॥ २१ ॥
चट्टी
कान्यकुब्जपुरे दास्याः पतिर्नाम्नाऽजामिलः ॥ २१ ॥
बन्द्यक्षैः कैतवैश्चौर्यैर्गर्हितां वृत्तिमाश्रितः ।
बिभ्रत् कुटुम्बमशुचिर्यातयामास देहिनम् ॥ २२ ॥
पदरत्नावली
बन्दिग्रहणैरक्षैर्देवनैः, ‘कितवः स्यादनृतवादी कैतवं तस्य भाषणम्’ इत्याभि-धानाद् असत्यव्यवहारैः, चौर्यैः परस्वापहरणलक्षणव्यापारैर् वृत्तिं वर्तनं जीवनोपायम् । देहिनं यातया-मास नरकगमनाभिमुखमकरोत्, शरीरयात्रायुक्तमकृतेति वा ॥ २२ ॥
सत्यधर्म
बन्दी तद्ग्रहैर्मध्येऽध्वनोऽध्वनीनान्गृहीत्वा नयनैरक्षैः फाशैः । फाशके चाक्षमिति विश्वः । कैतवैः । ‘‘कितवो मत्तो वञ्चक’’ इति विश्वः । वञ्चकव्यापारैः ‘‘कितु स्यादनृतत्वादि कैतवं तस्य भाषणम’’ इत्यभिधानेनासत्यव्यवहरणैरिति वा । कितवस्य कर्म । युवादित्वादण् । कितवं द्यूतदम्भयोः । ‘‘कैतवः कितवे शत्राविति हैम’’ इति भानुदीक्षित उदाजहार ‘‘छद्मकैतव’’ इत्यमरव्याख्यावसरे । चौर्यैः स्तेयैर्द्यूतेन चौर्येण वा चौर्यद्यूपरि श्रमोऽस्ति भवतो भ्रष्टस्य का वा गतिरित्यादेः । गर्हितामहितैर्निन्दितां वृत्तिमाचारमाश्रितोऽवलम्बमानः कुटुम्बं बिभ्रत् । नाभ्यस्तादिति नुमभावः । अत एवाशुचिरशुद्ध औपासनानलादिविकलो वा । ‘‘शुचिः शुद्धे ग्रीष्मे हुतवहेऽपि च’’ इति विश्वः । देहिनं स्वात्मानं यातयामास यातना नारकीः प्रति गमयामास । तत्साधनसिद्धेः सिद्ध-वत्कृत्योक्तिः । देहिनमिति स्वेतरकर्मीभूतस्याभावाद्बाधितान्वयं यातयामासेत्येतद्विशेषणे शरीरेऽन्वेति । ततश्च देहमेवं यातयामास गमयामासेत्यर्थः सिद्ध्यति । वृत्तिं जीवनोपायमिति वा देहिनमितरं स्ववद्गर्हितां वृत्तिं यातयामास ग्राहयामासेति वा ॥ २२ ॥
चट्टी
बन्दिग्रहणैरक्षैश्च द्यूतेन । कैतवैरनृतवादैश्च । कितवोऽनृतवादी स्यात्कैतवं तस्य भाषण-मित्युक्तेः । वृत्तिं जीविकाम् । बिभ्रन्पुष्णन् । देहिनं स्वात्मानं यातयामास नरकगमनाभिमुखमकरोत्
॥ २२ ॥
एवं निवसतस्तस्य लालयानस्य तत्सुतान् ।
कालोऽत्यगान्महान् राजन्१ अष्टाशीत्याऽऽयुषः समाः ॥ २३ ॥
पदरत्नावली
अष्टशीत्यायुषो याः समा ये संवत्सरास् तत्परिमाणलक्षणः कालः ॥ २३ ॥
सत्यधर्म
तत्सुतान् दासीसुतान् लालयानस्य क्रीडयत आयुषो जीवनकालस्याष्टाशीतिसमा-स्तत्परिमितसंवत्सरा एतदात्मकालोऽत्यगाद्गतः । अशीतिशब्दोऽप्यक्षीतिशब्दवत्सङ्ख्याविशेषवाची । ‘‘विंशत्याद्याः सदैकत्वे’’ इत्यमरादष्टाशीतिसमा इति सम्भव इत्यन्वयः । अष्टाशीत्या तत्सङ्ख्ययोप-लक्षितः काल इति वा । ‘‘हायनोऽस्त्रीशरत्समाः,’’ ‘‘समा वर्ष’’ इति चामरविश्वौ । महाराजन्निति पाठे जानन्ति पूर्वराजान आदिराज्ञामितिवद्राजाहःसखिभ्य इति टजभावे रूपम् । महानिति पाठस्तु महान् । कालस्य महत्त्वं तु तद्दौर्जन्यवशादिति मन्तव्यम् ॥ २३ ॥
चट्टी
आयुषः सम्बन्धी महान्कालोऽत्यगात् । कियानित्यपेक्षयामाह ॥ अष्टाशीत्येति । अष्टाशीत्या सङ्ख्यया युक्ताः समाः संवत्सराः ॥ २३ ॥
तस्य प्रवयसः पुत्रा दश तेषां तु योऽवमः ।
बालो नारायणो नाम्ना पित्रोश्च दयितो भृशम् ॥ २४ ॥
पदरत्नावली
अवमः कनिष्ठः ॥ २४ ॥
सत्यधर्म
प्रवयसः प्रगतं वयो यस्य स तस्य वृद्धस्य । तेषां मध्ये योऽवमः कनिष्ठः । पित्रोर्माता च दासी च पिता चाजामिलश्चेत्येतयोः पितामात्रेत्येकशेषः । भृशं दयितो बहुस्नेहपात्रम् । उत्तरत्र पुत्रप्रसवासम्भावनया प्रीतिपात्रमयमिति मन्तव्यम् । अतिवेलभृशात्यर्थेत्यमरः ॥ २४ ॥
चट्टी
प्रवयसो वृद्धस्यावमः कनिष्ठः ॥ २४ ॥
स बद्धहृदयस्तस्मिन्नर्भके कलभाषिणि ।
निरीक्षमाणस्तल्लीलां मुमुदे जरठो भृशम् ॥ २५ ॥
सत्यधर्म
स जरठ इति सम्बन्धः । कलभाषिणि कलमव्यक्तमधुरं यथा भवति तथा भाषते तच्छील इति । सुप्यजाताविति णिनिः । कलोऽव्यक्तमधुरध्वनाविति विश्वः । कलेन भाषाऽस्तीति शिखादिनिवेशादनन्तत्वेऽपीति वा । बद्धहृदय आसक्तचित्तो बद्धं सस्नेहं हृदयं यस्येति वा । ‘‘अनुबन्धो हि भक्तिः स्याद्बन्धः स्नेह उदाहृतः’’ इति सप्तमतात्पर्योक्तेः । तल्लीलां बालक्रीडाम् । भृशमिति स्थानत्रयान्वयि । मुमुदे तुतोष ॥ २५ ॥
चट्टी
जरठो वृद्धः ॥ २५ ॥
भुञ्जानः प्रपिबन्खादन्बालकस्नेहयन्त्रितः ।
भोजयन्पाययन्मूढो न वेदागतमन्तकम् ॥ २६ ॥
पदरत्नावली
अन्तकं मृत्युम् ॥ २६ ॥
सत्यधर्म
बालकस्नेहयन्त्रितस्तन्नियतः । ‘‘यन्त्रणं स्यान्नियमने इति विश्वः । पूर्वानुपूर्व्या खादन्निति पुरोऽपि पूरणीयम् । आगतं सन्निहितमन्तकं मृत्युं न वेद न व्यजानादत एव मूढः । मूढ इति न वेदेति वा ॥ २६ ॥
चट्टी
अन्तकं मृत्युम् ॥ २६ ॥
स एवं वर्तमानोऽज्ञो मृत्युकाल उपस्थिते ।
मतिं चकार तनये बाले नारायणाह्वये ॥ २७ ॥
पदरत्नावली
मृत्युकाले देहवियोगलक्षणकाले मृत्योः सर्वदोषापहरस्य हरेरनुग्रहात् काले दत्तज्ञानलक्षणे उपस्थिते हृदि प्रकाशिते तनये पूर्णज्ञाने बाले पञ्चवर्षकल्पे प्रादेशमात्रे नारायणाह्वये मूर्तिविशेषे मतिं स्मरणसमर्थं चित्तं चकार । भक्त्याऽस्मरदित्यर्थः । ‘अजामिलोऽपि स्मरणाद् भक्त्या मृत्योरमुच्यत’ इत्येतद् वाक्यम् अशेषाघहरं विदुरित्यत्र प्रमाणत्वेन वक्ष्यमाणमत्रानुसन्धेयमिति ज्ञातव्यम्
॥ २७ ॥
सत्यधर्म
प्रकृतमनुसरति ॥ स इति । य एवं वर्तमानः समयं गमयन्मृत्युकाले उपस्थिते आसन्ने नारायणाह्वये नारायणेत्याह्वयो नाम यस्य स तस्मिन्बालेऽणीयसि तनये मतिं धियं चकार तल्लुलोक-यिषापरवशोऽभूदिति भावः ॥ २७ ॥
स पाशहस्तांस्त्रीन् दृष्ट्वा पुरुषान् भृशदारुणान् ।
वक्रतुण्डानूर्ध्वरोम्ण आत्मानं नेतुमागतान् ॥ २८ ॥
सत्यधर्म
यथा प्रवृत्तं कर्म क्रियमाणं क्रमाद्व्यक्तभक्तिनिवृत्तकर्मौपयिकं सन्मुक्त्युपयुक्तं तथा नारायणनाम बालानामपि प्राचीनचीर्णपुण्यविशेषवशेन सभक्तिमुक्त्युपयुक्तमिति श्लोकद्वयस्याप्येकान्वयः। सोऽजामिलो भृशदारुणानतिक्रूरान् वक्रतुण्डान् कुटिलवक्त्रानूर्ध्वरोम्णोऽन्तर्निभृत कोपेनोर्ध्वाञ्चितलोम्नः पाशहस्तान् । इदं सर्वं पुरुषपारुष्यसूचकमिति मन्तव्यम् । त्रीन्पुरुषान्परस्परप्रसरद्भिः । किं तव कृत्यमित्यतो वक्ति आत्मानं नेतुमागतानिति ॥ यमपुरं प्रतीति शेषः ॥ २८ ॥
चट्टी
वक्राणि तुण्डानि मुखानि येषां ते । ऊर्ध्वाणि रोमाणि येषां तान् ॥ २८ ॥
दूरे क्रीडनकासक्तं पुत्रं नारायणाह्वयम् ।
प्लावितेन स्वरेणोच्चैराजुहावाकुलेन्द्रियः ॥ २९ ॥
पदरत्नावली
दूरे अण्डाद्बहिः स्थितं जगत्सर्जनादिलीलाविलासोपेतं पुन्नाम्नो नरकात् त्रातारं नारायणनामानम् । उच्चैः प्लावितेन त्रिचतुरादिमात्रात्मना स्वरेण । पूर्वाचरितपुण्यप्रचयेनोत्पन्नया भक्त्याऽऽकुलेन्द्रियः ॥ २९ ॥
सत्यधर्म
दृष्ट्वा दूरे किञ्चिदसन्निधाने क्रीडनकासक्तं क्रीडनमेव क्रीडनकं तत्र निरतं क्रीडासक्तं पुत्रं नारायणेत्युच्चैः प्लावितेन स्वरेण तारस्वरेणाजुहावाहूतवान् । आकुलेन्द्रियो विकाराकारनिरीक्षणेन व्याकुलानीन्द्रियाणि यस्य स तथा । उच्चैर्निरीक्षितनरोत्तमैर्निमित्तेनाकुलेन्द्रियः सन्पुत्रमाजुहावेति वा । उच्चैरव्ययमनव्ययं च ॥ २९ ॥
चट्टी
प्लावितेन प्लुतत्वान्वितेन । आकुलेन्द्रियो दुर्बलेन्द्रियः । पुत्रसङ्केतितनारायणनामाख्य-सम्बन्ध्यनुसन्धानेनोद्बुद्धप्राचीनसंस्कारोऽजामिलस्तन्मुख्यवाच्यं भगवन्तं स्मृत्वा भक्तिपारवश्येनाकुलि-तेन्द्रियः सन् दूरे ब्रह्माण्डाद्बहिरपि वर्तमानं प्लुतेनाह्वानोपपत्त्यर्थमेतज् जगत्सर्जनादिक्रीडासक्तम् । ‘‘बालक्रीडनकैर्यद्वत्क्रीडतेऽस्माभिरच्युत’’ इत्युक्तेः । पुन्नामनरकात् त्रातारम् । ‘‘त्राता पुत्रस्त्वमेव मे’’ इत्युक्तेः । नारायणाह्वयं मूर्तिविशेषम् । यत्तस्य व्यापकं रूपं परं नारायणाभिदमित्युक्तेः । आजुहा-वेत्यर्थोऽपि बोध्यः । ‘‘न मत्स्वामितया तस्य स्मरणं जायते यतः । अजामिलोऽपि स्मरणाद्भक्त्या मृत्योर्विमुच्यते ॥’’ इत्युक्तेः ॥ २९ ॥
निशम्य म्रियमाणस्य मुखतो हरिकीर्तनम् ।
भर्तुर्नाम महाराज पार्षदाः सहसाऽपतन् ॥ ३० ॥
पदरत्नावली
हरेः कीर्तनं किं गुणरूपम् ? नेत्याह– भर्तुरिति ॥ भर्तुः स्वामिनो नारायणेति-नामरूपम् । दोषहरणशीलं कीर्तनं यस्य नाम्नस्तद्धरिकीर्तनं भर्तुर्नाम निशम्येति वा । हरिरित्यक्षरद्वयं नारायणेत्यक्षरचतुष्टयम् अनेनोक्तमिति ज्ञापनायानन्वितत्वेनोक्तमिति वा । अनेन पुत्रस्नेहमन्तरेण प्राचीनादृष्टबलादुद्भूतया भक्त्या भगवन्नामसङ्कीर्तनं कृतमिति ज्ञायते ॥ ३० ॥
सत्यधर्म
म्रियमाणस्य मरणोन्मुखस्य भर्तुः सुतदर्शनेच्छाभारवोढुरजामिलस्य मुखतो हरिकीर्तनं श्रीनारायणनामव्याहरणं निशम्य श्रुत्वा पार्षदास्तद्दूताः सहसा झडिति । इतरानूहितत्वं गमनस्य सहसेति द्योतयति । इदं नाविश्वसनीयमित्याह ॥ नामेति । प्रसिद्धमित्यर्थः । यत्पूर्वमहरिकीर्तनं हरिस्मरणरहितं तस्मान्मुखतः भर्तुः स्वस्वामिनः सर्वस्वामिनो नाम निशम्य शिष्टं पूर्ववत् । एवमुत्तरत्रापि ज्ञेयम् । मुखत आरम्भदशायां म्रियमाणस्य पाप्मभिरत्युत्कटैस्तथा कटाक्षितस्याहरिकीर्तनं कीर्तनाभावस्तस्य मुखतो भर्तुर्नाम निशम्येति वा । मुखतो मुखे पूर्वमहरिकीर्तनमन्हि दिवा एः अस्यापत्यमिः । अत इञ् । कामो विष्णुपुत्रस्तस्य कीर्तनं सौरतसल्लाप इति यावत् । प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते ब्रह्मचर्यमेव तद्यद्रात्रौरत्या संयुज्यन्त इति षट्प्रश्नोपनिषदादिप्रश्नोक्तेः । यामिन्यां कामिन्यां विहिता रतिर्विहितकाले न दिवेति भावः । भर्तुर्नामेति प्राग्वत् । यन्मुखे कीर्तनमहरि हरिविरहितं तन्मुखत इति वा । सार्वविभक्तिकस्तसिः । ‘‘इ कामदेवे त्वनव्ययम्’’ इति विश्वः । ‘‘मुखं निःसरणे वक्त्रे प्रारम्भोपाययोरपि’’ इति विश्वः । निशम्यम्रियमाणस्येति पदमेकम् । शमी हि भगवन्निष्ठः स न भवतीति निशमी स चासावम्रियमाणश्च तोकावलोकनवासनावानिति भवत्यम्रियमाणस्तस्य । नाम नाम्नः । प्रथमा षष्ठ्यर्थे । हरि दुरितादेर्हरणात् कीर्तनं व्याहरणं भर्तुर्धर्तुः कुर्वत इति यावत् । मुखतो मुखेऽभिमुखे । महाराजपार्षदा इति समस्तम् । महाराजस्य राजराजस्य हरेः पार्षदाः । हे महाराजेति वा । भर्तुर्नामेति समस्ते व्यस्ते पदे । भर्त्रोर्नाम भर्तॄणां नामेति विग्रहभूमिका भवेत्स चानिष्टो विष्ण्वेकश्रेष्ठताविघटकत्वादतस्तां न ते विष्णवित्यादिप्रमाणप्रमितां निदर्शयिषुर्व्यासो व्यासेन निर्दिदेशेति तात्पर्यमवधेयम् ।
नन्वभिमानिव्यपदेशस्त्विति सूत्रव्याख्यासुधानुरोधेन समस्ते न्यस्ते न्यस्तेऽपि प्रकारोऽयमाकारयितुं व्यपदेश इत्याद्येकवचनादिनेव नामेत्येकवचनेन शक्य इति वक्तुं शक्यमिति चेन्न । वैषम्यात् । व्यपदेश इत्येकवचनमन्तरङ्गगमकमिव दृश्यते त्विति सूत्रैकवचनं चैकवचनान्तविग्रहसुग्राहकम् । अत एव भाष्ये देवताऽत्र व्यपदिश्यत इत्येकत्रापरत्र दृश्यन्ते मुनिभिश्च ता इति मानमनुसृत्य तासामित्युक्तिरिति । सुधायामेतदनुधावनार्थं व्यपदेशो दृश्यत इत्येतन्निमित्तमेकवचनान्तविग्रहं प्रदर्श्य प्रदर्श्य च न हीत्यादिना तत्र युक्तिं तास्तासामित्यनुसारेण जात्येकवचनाभिप्रायकत्वं च वर्णितम् । नात्र तथान्तरङ्गादि-निमित्तद्वैराश्यमस्ति । नामेत्येकवचनं तु ‘‘विप्राणां भोजनं यथा’’ इत्येतदेतत्सुधानुसारेण सावकाश-मेकलमिति न निर्धारकम् । न च ‘‘परो मात्रया’’ ‘‘न ते विष्णो’’ ‘‘एष सर्वेश्वर’’ इत्यादि-मानानुयायिविवरणशरणीकरणे समसनेन शंसनेऽपि भर्तुर्नाम भर्तृनामेति विग्रहः सुग्रहो विशिष्टा आख्या व्याख्येत्यादिवदिति वाच्यम् । बोध्यं प्रति बोध्यैकाधिपत्यन्तरङ्ग गमकमसमसनं निरस्य बहिरङ्ग-व्याख्यानादिमार्गणस्य नार्गलमार्गत्वात् । यथोक्तं सुधायाम्– न च व्याख्यानतोऽप्यधिकांशो ज्ञायत इति व्यर्थं पृथक्करणमिति वाच्यम् । अन्तरङ्गज्ञापकाभाव एव बहिरङ्गस्यान्वेषणीयत्वादिति’’ इति । अतोऽ-ग्रत एव जाग्रता भाव्यमिति व्यासेन व्यासनिर्देश एव स्वैकाधिकत्वज्ञापकत्वेन कृत इति दिक् ॥ ३० ॥
चट्टी
हरिकीर्तनं निशम्यापतन् । यतस्तद्भर्तृनाम ॥ ३० ॥
विकर्षतोऽन्तर्हृदयाद् दासीपतिमजामिलम् ।
यमप्रेष्यान् विष्णुदूता वारयामासुरोजसा ॥ ३१ ॥
पदरत्नावली
ओजसाऽवष्टम्भेन बलेन वा । ‘ओजोऽवष्टम्भबलयोः’ इति यादवः ॥ ३१ ॥
सत्यधर्म
विष्णुदूता व्याप्तस्य भगवतो भृत्याः सदा तदुपरि परिवर्तिनः । एतेन क्व ते क्वायं कथं सहसाऽपतन्निति परास्तम् । हृदयात्तत्कर्णिकायाः । अन्तो नरकाद्यन्तः । अजामिलं जीवं विकर्षतो यमप्रेष्यान् यमदूतान् ‘‘नियोज्य किङ्करप्रेष्यभुजिष्यपरिचारकाः’’ इत्यमरः । हृदयाद् ल्यब्लोपनिमित्तेयं पञ्चमी । हृदयं विधाय मनः कृत्वाऽन्तर्धाममध्ये न्यवारयन्निवारयामासुः । एतादृग्दुष्कृतिकर्षणेऽमर्षस्तेषां कुत इत्यतो वाऽऽह– यमिति ॥ तन्नामोच्चारं प्रत्यप्रेष्यान् स्वामिना यमेन प्रेषयितुम् अयोग्यानित्यर्थः । तन्निवारणे कारणम्– ओजसेति ॥ ओजोऽवष्टम्भो बलं वा । ‘‘ओजोऽवष्टम्भबलयोः’’ इति यादवः
॥ ३१ ॥
चट्टी
ओजसा बलेन । ओजोऽवष्ठम्भबलयोरित्युक्तेः ॥ ३१ ॥
ऊचुर्निषेधितास्तांस्ते वैवस्वतपुरःसराः ।
के यूयं प्रतिषेद्धारो धर्मराजस्य शासनम् ॥ ३२ ॥
सत्यधर्म
निषेधिता निषिद्धास्तैः कर्तृभिः करणैर्व्याहरणैरिति वा । वैवस्वतपुरःसरा विवस्वतः सूर्यस्यापत्यं यमस्तस्य पुरस्सराः किङ्कराः ॥ ३२ ॥
चट्टी
पुरःसरा भृत्याः ॥ ३२ ॥
कस्य वा कुत आयाताः कस्मादस्य निषेधथ ।
किं देवा उपदेवा वा यूयं किं सिद्धसत्तमाः ॥ ३३ ॥
पदरत्नावली
निषेधथ । अस्य, नयनमिति शेषः ॥ ३३ ॥
सत्यधर्म
कस्य किं सम्बन्धिनो ऽस्य नयनमिति शेषः । देवादीनां त्रयाणां शमनशासन-शमनशक्तियुक्तेति तथा विकल्पयामासुः । उपदेवा अपि यमोत्तमा इति न किन्तु महदाज्ञाकराः । सिद्धा नारदाद्या अपि तत्कालोपचितभक्तियुक्ता इति तदुभयग्रहणं नासङ्गतमिति मन्तव्यम् ॥ ३३ ॥
चट्टी
निषेधथ । अस्य नयनम् इति शेषः । उपदेवा गन्धर्वादयः ॥ ३३ ॥
सर्वे पद्मपलाशाक्षाः पीतकौशेयवाससः ।
किरीटिनः कुण्डलिनो लसत्पुष्करमालिनः ॥ ३४ ॥
सत्यधर्म
लसत्पुष्करमालिनः शिखादिरियं मालाशब्दः ॥ ३४ ॥
चट्टी
देवाद्युत्तमजातिविषयकसंशयः कुत इत्यतोऽलौकिकरूपदर्शनादित्याहुः ॥ सर्व इति सार्धश्लोकाभ्याम् । लसन्त्यः पुष्करमाला येषां ते तान् ॥ ३४ ॥
सर्वे च नूत्नवयसः सर्वे चारुचतुर्भुजाः ।
धनुर्निषङ्गासिगदाशङ्खचक्राम्बुजश्रियः ॥ ३५ ॥
पदरत्नावली
नूत्नवयसः षोडशवर्षवयसः । धनुरादिभिः श्रीर्येषां ते तथा ॥ ३५ ॥
सत्यधर्म
नूत्नवयसस्तरुणा निषङ्गा इषुधयः । ‘‘निषङ्ग इषुधिर्द्वयोः’’ इत्यमरः । एतदादीनां श्रीः शोभा तदादिभिर्वा येषां ते तथा ॥ ३५ ॥
चट्टी
नूत्नं नवं वयो येषां ते । निषङ्ग इषुधिः । धनुर्निषङ्गादिभिः श्रीः शोभा येषां ते ॥३५॥
दिशो वितिमिरालोकाः कुर्वन्तः स्वेन रोचिषा ।
किमर्थं धर्मपालस्य किङ्करान् नो निषेधथ ॥ ३६ ॥
पदरत्नावली
वितिमिरालोका इत्यत्र वीत्युपसर्गः प्रत्येकमभिसंबद्ध्यते । विगतानि तिमिराणि विगता आलोका अन्यप्रकाशाश्च यासु दिक्षु तास्तथा निरस्तान्धकारान्यप्रकाशा इत्यर्थः ॥ ३६ ॥
सत्यधर्म
वितिमिरालोकास्तिमिरस्य तमिस्रस्यालोको दर्शनं विगतो याभ्यस्ताः । तिमिरं चालोकोऽन्यप्रकाशश्च विगतो याभ्य इति वा । तिमिरेण निमित्तेनालोको ज्ञानाभावो विगतो यासामिति वा । स्वेन स्वकीयेन रोचिषा शोचिषा । तमिस्रं तिमिरं तमो रोचिः शोचिरित्युभयतश्चामरः । वितिमिरा हे लोका जना इति विष्णुदूतसम्बोधनं वा । धर्मपालस्य धर्मरक्षकस्य यमस्य । सार्धत्रिश्लोक्या एकोऽन्वय इति कलापकं विशेषकं वा । ‘‘द्वाभ्यां युग्ममिति प्रोक्तं त्रिभिः प्रोक्तं विशेषकम् । कलापकं चतुर्भिश्च तदूर्ध्वं कुलकं स्मृतम्’’ इति वचनात् ॥ ३६ ॥
चट्टी
विगतं तिमिरमालोकश्चान्यस्य प्रकाशो याभ्यस्तथाभूता दिशः कुर्वन्तः । भवतामे-तदनुचितमित्याह ॥ किमर्थमिति ॥ ३६ ॥
श्रीशुक उवाच—
इत्युक्ते यमदूतैस्ते वासुदेवोक्तकारिणः ।
तान् प्रत्यूचुः प्रहस्येदं मेघनिर्ह्रादया गिरा ॥ ३७ ॥
सत्यधर्म
धर्मराजस्य धर्मपालकस्येति स्वस्वामिनं वदतामियज्ज्ञानं नास्ति किलाहो इति प्रहस्येति सम्भवति ॥ ३७ ॥
चट्टी
अहो दण्ड्यादिज्ञानशून्या एते चोरा एवास्मद्भिया धर्मराजस्य किंकरा इत्यनृतं वदन्तीति विस्मयेन प्रहस्य तान्प्रत्यूचुरित्याह ॥ इत्युक्त इति त्रिभिः ॥ ३७ ॥
विष्णुदूता ऊचुः—
यूयं वै धर्मराजस्य यदि निर्देशकारिणः ।
ब्रूत धर्मस्य नस्तत्वं यच्चाधर्मस्य लक्षणम् ॥ ३८ ॥
पदरत्नावली
तत्त्वमनारोपितं रूपम् । लक्षणं व्यावर्तकधर्मम् ॥ ३८ ॥
सत्यधर्म
धर्मस्याधर्मस्य च यल्लक्षणमसाधारणधर्मस्तं तत्त्वं यथार्थं यथा भवति तथा ब्रूत । यद्यपि प्रस्तुतो धर्मकृदित्यागतवतः प्रत्यधर्मस्य धर्मस्येति वक्तव्यं तथाऽपि प्रतियोगिज्ञाने तज्झानं सुकरमिति वा । स्वेषां धर्म एवानुष्ठितोऽनेनेति ज्ञानात्तदनुरोधेन वा धर्मपुरस्करणमिति मन्तव्यम् ॥ ३८ ॥
चट्टी
धर्मस्याधर्मस्य च तत्त्वं स्वरूपं लक्षणं प्रमाणम् ॥ ३८ ॥
कथंस्विद् ध्रियते दण्डः किं वाऽस्य स्थानमीप्सितम् ।
दण्ड्याः किं कारिणः सर्वे आहोस्वित् कतिचिन्नृणाम् ॥ ३९ ॥
पदरत्नावली
कथंस्वित् केन प्रकारेण । स्थानं देशः, विषयो वा । नृणां मध्ये कारिणः कर्म-कारिणः सर्वेऽपि दण्ड्याः किमाहोस्वित् कतिचिदेव दण्ड्याः ? तत्रापि किंकारिणो वा किमकारिणो वा इति ब्रूत ॥ ३९ ॥
सत्यधर्म
कथंस्विदिति निपातसमुदायः । केन प्रकारेणेति तदर्थः । ‘‘कथं प्रश्ने सम्भवे च प्रकारार्थे त्वसम्भवे । स्वित्प्रश्ने च वितर्के च’’ इति विश्वौ । अस्य दण्डस्य स्थानं विषयोऽस्य दण्डस्य स्थानं गन्तव्यो निवेशो नृणां तन्मध्ये कारिणः कर्मकारिणः सर्वे दण्ड्याः किमाहोस्विदथवा दुष्कर्म-कारिषु कतिचित् केचनैवेति ब्रूतेत्यस्यानुवृत्तिः । यदि कारिणां मध्ये केचित्त्याज्या इति हन्त तर्हि कुतोऽयं न त्याज्य इति तद्धृदयम् । ‘‘स्थानं स्थितौ च सादृश्ये सन्निवेशावकाशयोः’’ इति विश्वः
॥ ३९ ॥
चट्टी
कथंस्वित् केन प्रकारेणास्य दण्डस्य स्थानं विषयः । ईप्सितमिष्टम् । भवतामिति शेषः । नृणां चेतनानां मध्ये किं कतिचिदेव कारिणः क्रूरस्वभावाश्चेतना दण्ड्याः । आहोस्वित् सर्वेऽपीत्यर्थः
॥ ३९ ॥
यमदूता ऊचुः—
वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः ।
वेदो नारायणः साक्षात् स्वयम्भूरिति शुश्रुम१ ॥ ४० ॥
श्रीमद् आनन्दतीर्थभगवत्पादाचार्यविरचितः श्रीमद्भागवततात्पर्यनिर्णयः
‘वेदानां प्रथमो वक्ता हरिरेव यतो विभुः । अतो विष्ण्वात्मका वेदा इत्याहुर्वेदवादिनः’ इति शब्दनिर्णये ॥ ४० ॥
पदरत्नावली
यच्चाधर्मस्य लक्षणमित्यत्राहुरित्याह– वेदेति ॥ वेद एव धर्माधर्मौ मिथो व्यवर्त्य वक्तीत्यनेन प्रमाणं चोक्तम् । धर्मस्य तत्त्वं ब्रूतेत्यत्रोत्तरमाहुरित्याह– वेदेति ॥ वेदो नारायणवक्तृकः । तपःशक्त्या दृष्टवेदवक्तृमुनिव्यावृत्त्यर्थं साक्षादिति । तदुक्तम्– ‘वेदानां प्रथमो वक्ता हरिरेव यतो विभुः । अतो विष्ण्वात्मका वेदा इत्याहुर्वेदवादिनः ॥’ इति । देवदत्तवन्नारायणोऽपि किमन्यस्मादवाप्तदेह इति नेत्याह– स्वयम्भूरिति ॥ अनेन नारायणवक्तृत्वे पौरुषेयत्वेनानारोपितरूपत्वाभावेन तदुक्तधर्माधर्म-निश्चयायोग इत्याशङ्का परिहृता । तेषां स्वयम्भूत्वेनाभिव्यक्तिरेव हरेर्न तु पुराणादिवदन्यथा रचितत्वम् । ‘यावद् ब्रह्म विष्ठितं तावती वाक्’ इति श्रुतेः ॥ ४० ॥
सत्यधर्म
इतःपूर्वतनो ग्रन्थः प्रायोऽतिरोहिताभिप्रायः क्वचिदनुचितार्थतया प्रतीयमानोऽपि समानसम्मत्युत्तरविवरणेन योग्यो योग्यार्थीकर्तुमिति मतिमानानन्दतीर्थमुनिरनितरसुलभसौभाग्यस्य रमा-रमणस्य विशिष्टचेतनस्याचेतनभेदाभेदं प्रत्याययन्तमापाततो वेदप्रणिहित इति श्लोकं व्याकुर्वन् प्रयत्न-गौरवमसहमानो मानमेवादावुदाहरति ॥ वेदानामिति । प्रथमो मुख्य आदिमश्च यतो विभुर्हरिर्वेदानां वक्ता । एवकारेणैतदन्यस्य प्रथमवक्तृत्वं प्रतिषेधतीति ज्ञेयम् । ताच्छील्यार्थकेन तृना न धनायादिनेति सूचयति । अत एतद्धेतोरस्मादिति वा । एतदोऽन्नित्यनि, इदम इश् इत्यस्मादिदम इति योगविभागा-दनुवृत्तस्यानि वाऽत इति भवति । ‘‘वेदा विष्ण्वात्मका इत्याहुर्वेदवादिनः’’ इत्यनेन वक्तारोऽनेकेऽपि न पामरा इति क्रमाद्दर्शयति । शब्दनिर्णयो नाम ग्रन्थविशेषस्तस्मिन् । किं तत्प्रश्न उत्तरितः किं वा ते प्रतारिता इति परीक्षिच्छङ्कामपाकरोति ॥ यमदूता इति । वेदप्रणिहितो वेदबोधितकर्तव्यत्वः ‘‘स्वाध्यायोऽध्येतव्य’’ इत्यादिवेदवेदितः स्वाध्यायादिर्धर्मः पुण्यसाधनम् । तद्विपर्ययो ‘‘न सुरां पिबेत्’’ इत्यकर्तव्यत्वेन बोधितः सुरापानादिरधर्मः पापापादकः । कुतो इयान्महिमाऽऽम्नायस्येत्यत आह– नारायण हीति ॥ यतो वेदो नारायणस्तद्रूपमुख्यवक्तृकस्तद्रूपादिवक्तृको वा । न च ऋग्वेद एवाग्नेरजायतेत्यादिना पौरुषेयत्वोक्तेस्तद्दोषप्रयुक्तदोषवत्त्वप्रसक्तेरविश्वसनीयत्वात्कथं तस्यैतदर्थे प्रमाणी-करणमित्यत आह ॥ स्वयम्भूरिति । स्वयं भवति स्वयं भगवता सदा सत्तावानिति स तथा । तानि चाक्षराणि नित्यानि । ‘‘वाचा विरूपनित्यया’’ । ‘‘अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा’’ । ‘‘अत एव च नित्यत्वम्’’ इत्यादिश्रुतिस्मृतिभगवद्वचनेभ्य इति गीताभाष्यात् । ‘‘यावद्ब्रह्म विष्ठितं तावती वाक्’’ । ‘‘नित्या वेदा समस्ताश्च शाश्वता’’ इत्यादेः । अग्न्यादयस्तद्व्यञ्जकतामात्रेण जनकतयोच्यन्त इति न तद्विरोध इति भावः । स्वयम्भूरिति नारायणविशेषणं सद्वक्तृवाच्यानुरूप्यं बोधयतीत्यपि ज्ञेयम् । तदपि स्वयं भवनं वेदस्वयम्भवनवदितराधीनं किं नेत्याह ॥ साक्षादिति । शुश्रुमेत्यनेन नोपज्ञेयमस्माकमपि तु परम्पराप्राप्तमिदमिति ज्ञापयामासुरिति मूलार्थः । शुश्रुम इति पाठे छान्दसः परस्मैपदानामिति मादेशाभावः । साक्षात्स्वयम्भूस्तत्तुल्यः साक्षाच्चक्रधारिणो नारायणा-त्पुराणकर्तुः शुश्रुम इति वा । साक्षात्प्रत्यक्षतुल्ययोः । ‘‘अक्षः कर्षे तुषे चक्र’’ इति विश्वौ ॥ ४० ॥
चट्टी
‘‘ब्रूत धर्मस्य नस्तत्वं यच्चाधर्मस्य लक्षणम्’’ इत्यत्रोत्तरमाहुः ॥ वेदेति । यो वेदेन प्रणिहितः कर्तव्यतया बोधितः । स धर्म इत्यनेन धर्मस्वरूपं निरूपितम् । यो धर्मः स वेदप्रणिहित इति व्यत्यासेन योजनायां धर्मप्रमाणं च निरूपितम् । यस् तद्विपर्ययो वेदेन निषिद्धः सोऽधर्मः । अनेना-धर्मस्वरूपं निरूपितम् । व्यत्यासेन योजनायाम् अधर्मप्रमाणं च निरूपितमित्यर्थः । ननु ‘‘ऋचः सामानि जज्ञिरे’’ इत्यादिश्रुतेर्वेदानां पौरुषेयत्वेन पुरुषनिबन्धनदोषशङ्कायाः सन्दिग्धप्रामाण्यकानां कथं धर्माधर्मयोः प्रामाण्यमित्यत आह– वेदः स्वयम्भूरिति । स्वयमेव कारणमनपेक्ष्यैव भवति वर्तत इति स्वयम्भूरित्यर्थः। श्रुतिस्त्वभिव्यक्तिविषया । ‘‘वाचा विरूपनित्यया’’ इत्यादिश्रुतिविरोधादिति भावः । ननूत्पत्तिश्रुतिविरोधान्नित्यत्वश्रुतेरेव ध्रुवाद् द्यौरित्यादाविव बहुकालावस्थायित्वमादायोपचरितार्थत्वं किं न स्यादित्यत आह ॥ साक्षादिति । अनुपचारत इत्यर्थः । ‘‘वेदानां सृष्टिवाक्यानि भवेयुर्व्यक्त्यपेक्षया’’ इत्यादेरिति भावः । ननु वेदस्यापौरुषेयत्वे पुरुषाभिपायप्रवेशमन्तरेण वाक्यस्य स्वातन्त्र्येण तात्पर्या-योगात् । कथं धर्मादौ प्रमाणत्वमित्यत आह ॥ वेदो नारायण इति । तद्वक्तृक इत्यर्थः । ‘‘मुनीनां प्रतिभास्यन्ति भागेनैव न सर्वशः’’ इत्यादेस्तपःशक्तिदृष्टैकदेशवक्तृमुनिव्यावृत्त्यर्थं साक्षादिति । मुख्यतः कार्त्स्न्येनेति यावत् । ‘‘नित्या वेदाः समस्ताश्च शाश्वता विष्णुबुद्धिगाः । सर्गे सर्गेऽमुनैवैत उद्गीर्यन्ते तथैव च’’ इत्यादेः । अनागन्तुके वेदे आगन्तुकपुरुषाभिप्रायप्रवेशानुपयोगादाह ॥ नारायणः स्वयम्भूरिति ॥ ४० ॥
येन स्वधाम्नयमी भावा रजस्सत्वतमोमयाः ।
गुणनामक्रियारूपैर्विभाव्यन्ते यथातथम् ॥ ४१ ॥
पदरत्नावली
नन्वेतावता नारायण इतरस्मात् कथं व्यावृत्ततया ज्ञायत इति तल्लक्षणमाह– येनेति ॥ स्वधामि्न स्वाधारतया । गुणाः शुक्लादयः । नामान्यश्वमहिषदेवदत्तादीनि । क्रियाः पचति-पठतीत्यादयः । रूपाणि द्विपाच्चतुष्पादित्यादीनि । क्रिया पञ्चविधं कर्मेति वा । गुणाः शमदमादयः । रूपाणि शुक्लादीनि । यथातथमसाङ्कर्येण विभाव्यन्त उत्पाद्यन्ते ॥ ४१ ॥
सत्यधर्म
वेदो नारायण इत्यावेदितं स कथं ज्ञेय इत्यतो लक्षणमाहुरित्याह ॥ येनेति । अमी भावाः पदार्थाः । स्वधामि्न स्वाश्रये सत्ये । रजःसत्त्वतमोमया एतद्गुणत्रिकप्रचुरा विकृता वा । गुणनामक्रियारूपैर्गुणा रजस उत्तरत्र बोध्योत्पत्त्या पुरस्करणम् । तदनुरोधाद्रक्तादयो विशेषाननुसरणेन शब्दादयो वा । नामेति तदात्मकप्रपञ्चो नामानि मृत्तिकादीनि वा । क्रिया स्वाध्यायाध्ययनादिरूपं तदात्मप्रपञ्च आकारविशेषो वा । एतैर्यथातथं प्राचुर्यादसङ्कीर्णतया विभाव्यन्ते उत्पद्यन्ते । ‘‘यस्य ब्रह्मादयो देवा वेदा लोकाश्चराचराः । नामरूपविभेदेन’’ इत्यादेः । सोऽप्येवं किं नेत्यप्याह ॥ य इति । ये भावा वक्ष्यमाणा अमिते स्वधामि्न स्वाश्रये । स्वे महिम्नीति श्रुतेः । सु अत्यन्तधामि्न भिन्नाश्रयरहिते वा स नारायण इत्यन्वयः । किं मानेनेदमेतल्लक्षणं ज्ञेयमित्यतस्तदप्यवदन्निति वदति ॥ येनेति । स्वधाम्नीत्यादि प्राग्वत् । यथातथं येन वेदेन विभाव्यन्ते विविच्य भगवदधीनतया बोध्यन्ते स वेद इत्यन्वयः । पूर्वत्र ‘‘वेदो नारायणः साक्षात्’’ इति वचनेनोत्तरत्र वक्ष्यमाणसाक्षिप्रेक्षणेन सन्दृष्टश्लोकयोजनाश्लिष्टान्तिमव्याख्यान इति भाति तां च बिन्दवो बन्धवोऽस्माकं विदां कुर्वन्त्वमत्सराः
॥ ४१ ॥
चट्टी
वेदो नारायण इत्युक्तम् । तत्र कोऽसौ नारायण इत्यत आह ॥ येनेति । येन स्वधामि्न स्वाधारतया रजःसत्त्वतमोमयाः । तदुपादानका अमी प्रत्यक्षादिप्रमाणप्रमिताः । भावाश्चेतनाचेतनाश्च । गुणनामक्रियारूपैर् गुणाः शब्दादयः शुक्लपीतादयश्च, नामानि ब्राह्मणादीनि घटादीनि च, क्रिया अध्ययनादय उत्क्षेपणादयश्च, रूपाणि संस्थानविशेषास् तैः । तदनुविद्धतयेति यावत् । विभाव्यन्ते उत्पाद्यन्ते । अवस्थाप्यन्ते संह्रियन्ते च । ‘‘सृष्टिस्थितिश्च संहारो भवनं समुदाहृतम्’’ इत्युक्तेः । स नारायण इत्यर्थः ॥ ४१ ॥
सूर्योऽग्निः खं मरुद्गावः सोमः सन्ध्याहनी दिशः ।
कालः स्वयं धर्म इति ह्येते धर्मस्य साक्षिणः ॥ ४२ ॥
पदरत्नावली
किं वाऽस्य स्थानमीप्सितमित्यत्राहुरित्याह– सूर्योऽग्निरिति ॥ गाव आपः । ‘गौर्भूमिरापः’ इति वचनात् । सन्ध्या चाहश्च सन्ध्याहनी । कालाभिमानी देवः । स्वयं पापपुण्ययोः कर्ता । देवशब्दवाच्यः श्रीहरिर्वा कालः । हृदयं मन इति द्वे स्वयमित्यनेन व्याख्याते । धर्मस्येत्युपलक्षणम् । अधर्मस्यापि । साक्षादीक्षन्त इति साक्षिणः ॥ ४२ ॥
सत्यधर्म
तथाऽपि धर्माधर्ममर्मज्ञानं दुश्शकमित्यतः सकलानुभूतसाक्षिण आहुरित्याह ॥ सूर्य इति । ‘‘ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायण’’ इत्याद्युक्तेरुक्तेश्च ‘‘वेदो नारायण’’ इति । तदधिष्ठानतया रविपुरस्करणं स्वस्वामिजनकतया वेति मन्तव्यम् । ‘‘खमाकाशो गाव आपश्चन्द्रश्च वाग्वारिषु च गौर्माता गौश्चन्द्रः’’ इति विश्वौ । सोमो मनो हृदयं च वृत्तिभेदाद्भेदः । उमया सहितः सोमः सोमश्चन्द्र इति द्वयोरपि मनोभिमानित्वादभिमन्यमानाभिमानिनां चैकशब्दवाच्यता महतश्चतुर्मुखा-दित्यादौ दृष्टा । किञ्च ‘‘चन्द्रमा मनसो जातः’’ इत्यादेर्मनोजन्यत्वाच्चन्द्रमसो जन्यजनकवाचकशब्दानां साङ्कर्यं यथा ब्रह्मादिकं मुखमित्यादावुद्देश्यविधेयशाबल्यात् ‘‘पितामहाद्यास्तु पितरो नाम कीर्तिताः’’ इति सूत्रभाष्यैतरेयभाष्यादिषु स्पष्टं दृष्टमित्युभयग्रहः सम्भवति । सन्ध्याहनी सन्ध्या चाहश्च ते तदभिमानी देवः दिशो दिग्देवताः । कालो गृहीतकालेतरकालोभिमानी देवः श्रीनारायणो वा । ‘‘कालोऽस्मि लोकक्षयकृत्’’ इति गीता । ‘‘सोऽहं कालोऽवतीर्णोऽस्मि’’ इत्यनन्तकथोक्तेः । स्वयं कर्ता जीवः । धर्मो यमः । धर्मस्याकारप्रश्लेषेणाधर्मस्यापि साक्षिणः साक्षादीक्षन्ते ते तथा । साक्षाद्द्रष्टरि संज्ञायामिति पाणिनिस्मरणात् । एतेन यत्र साक्षाद्द्रष्टृत्वमनुपपन्नं तत्र देवता ग्राह्येति सूच्यते । साक्षिण इति पदेन स्वाध्यक्षवाचकस्य धर्मपदस्य साक्षादन्वयबोधनार्थं स्वयं धर्म इत्यन्ते निबन्ध इति बोध्यम् । य कालो नारायणस्तस्मात्साक्षिण इति पञ्चम्यन्तं सदनुवर्तते । एते तस्मादेव साक्षिण इत्युच्यन्ते । स एवैतांस्तत्त्वेन स्थापयामासेति भावः । यथोक्तं ‘‘परिस्पशोऽदधात्सूर्येण’’ इत्येतदृग्भाष्यटीकयोः । ‘‘सहैव सूर्येण च देवसङ्घांश्चरानज्ञातानदधाद्वासुदेवः । दैत्यानां वा तमसां वृत्तदृष्ट्यै ।
नन्वीश्वरस्तद्वृत्तं ज्ञात्वा दण्डयेत्तज्ज्ञानमेव तस्य कथं सर्वज्ञत्वात् । किं चन्द्रो वासुदेवो बहि-र्दैत्यानामन्तस्तमसामज्ञानादीनां वृत्तदृष्ट्यै वृत्तदर्शनार्थं सूर्येण सहैव सूर्यसहितान्स्पशो ज्ञातचरान्देव-सङ्घान्परितः स्थापितवान् । तथा चोक्तम् ‘‘आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं मनश्च । अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम्’’ । तथा ‘‘सूर्योऽग्निर्मरुतो गावः सोमः सन्ध्याहनी दिशः । कालः स्वयं धर्म इति ह्येते धर्मस्य साक्षिण’’ इति । हृदयं मनोबुद्धिरहङ्कारादि-वृत्तिचतुष्टयम् । अन्यत्राभिमानिनो ग्राह्याः । अत्र गवां कालसामान्यस्य चानुक्तेः प्रमाणान्तरमाह ॥ सूर्य इति । अत्र च गवादीनामनुक्तेः पूर्वप्रमाणोपन्यास इति भाव इति छलारीये विष्णुपुराणे भागवते चेति क्रमाद्बिदरहल्लीयाचार्यटिप्पणे । ‘‘साक्षी चेता केवलो निर्गुणश्च’’ । ‘‘वाङ्मनसि दर्शनाच्छब्दाच्च’’ इति सूत्रभाष्ये ‘‘मनो रुद्र उदाहृतः’’ ‘‘रुद्रो वीन्द्रः शेषकामौ मनसस्त्वेव देवता । तस्या रुद्रो मनोभिधः’’ इति षट्प्रश्नभाष्ये । ‘‘मनोभिमानिनो रुद्रः’’ इत्यादि काठकभाष्ये चोक्तेः । ‘‘तत्र प्राणात्मना वायुर्मनोरूपेण शङ्करः । शेषः सुपर्ण इन्द्रश्च मनांस्येव पृथक् पृथक्’’ । ‘‘अहम्भावमनोरुद्रः’’ । ‘‘यज्ञादिसाधनं यत्तु मनश्चन्द्रः प्रकीर्तितः’’ इत्यैतरेयभाष्योक्तेर्मनश्चन्द्रः
॥ ४२ ॥
चट्टी
किं वाऽस्य स्थानमीप्सितमिति प्रश्नस्याधर्मिणो दण्डस्थानमित्युत्तरं वक्ष्यन् जीवानाम-नन्तत्वेन तत्कृतधर्माधर्मयोर्ज्ञातुमशक्यत्वेन एते पापिन इति विविच्य ज्ञानासम्भवान्न दण्डस्थानत्वमिति शङ्कापरिहाराय धर्माधर्मसाक्षिणस्तावदाह ॥ सूर्योऽग्निरिति । खमाकाशं गावः स्वर्गभूमिजलानि । स्वर्गेषु पशुवाग्वज्रदिङ्नेत्रघृणिभूजले । ‘‘लक्ष्यदृष्टयोः स्त्रियां पुंसि गौलिङ्गं चिन्ह शेफयोः’’ इत्यभिधानात् । सन्ध्याद्वयम् अहनी अहश्च रात्रिश्च । कालः कालशब्दोदितो देववर्गः । ‘‘हरिश्च प्रकृतिश्चैव ब्रह्मा वायुस्तथैव च । सुपर्णशेषरुद्राश्च शक्रः सूर्ययमावपि । अग्निर्यमानुजश्चैव काल-शब्दोदिताः क्रमात्’’ । इति वचनात् । स्वयं कर्ता जीवः । स्वयं दण्डधारी धर्मश्चेति वा । अत्रा-धर्मस्येत्यपि पदच्छेदः । जडवाचकशब्दैस्तदभिमानिनो ग्राह्याः । एते देवा धर्माधर्मयोः साक्षिण इत्यर्थः । तदुक्तम् ‘‘आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च संध्ये धर्मश्च जानाति नरस्य वृत्तम्’’ ॥ इति ॥ ४२ ॥
एतैरधर्मो विज्ञातः स्थानं दण्डस्य युज्यते ।
सर्वे क्रमानुरोधेन दण्डमर्हन्ति कारिणः ॥ ४३ ॥
पदरत्नावली
धर्माधर्मलक्षणपुण्यपापदर्शिभिरेतैः सूर्यादिभिः । न धर्मो यस्य सोऽधर्मः, अधर्म इति विज्ञातो यः पुरुषः स एव दण्डस्य स्थानं दण्ड्य इति युज्यते । यमस्तु दण्ड एवाधिकृतः । कथंस्विद् ध्रियते दण्ड इत्यस्योत्तरमाहुरित्याह– सर्व इति ॥ कारिणः पापकारिणः । सर्वे क्रमानुरोधेन पापकर्मतारतम्यानुकूल्येन दण्ड्याः । किंकारिणः सर्व इत्यत्राहुरित्यतो वाऽऽह– सर्व इति ॥ पापकारिणः सर्वे दण्डमर्हन्तीत्यनेन पापकारिण एव यमेन दण्ड्या न पुण्यकारिण इति च ग्राह्यम्
॥ ४३ ॥
सत्यधर्म
दण्ड्यादण्ड्यनिर्णायकान्साक्षिण उक्त्वेदानीं तानाहुरित्याह– एतैरिति । योऽधर्मः । बहुव्रीहिरनिजनित्यः । धर्मोऽस्यास्तीति धर्मो न धर्मोऽधर्म इति तत्पुरुषत्वविवक्षायां न समासान्त इति वेति विज्ञातः । पुमान्दण्डस्यास्मद्यमराजशिक्षाया युज्यते योग्यो भवति स एव स्थानम् । यद्वैतैर्यो धर्मस्य दण्डस्य स्थानमिति विज्ञातस्तत्र युज्यते तत्र युक्तियुक्तो भवति । एतैर्यो धर्म इति विज्ञातस्तस्य यः स्थानं स दण्डस्य युज्यते योग्यो भवतीति वा । किं कारिणः सर्व उत कतिचिदित्येतदुत्तरयतीतीरयति ॥ सर्व इति । कारिणः पापकारिणः सर्वे क्रमानुरोधेन य इयतः पातकस्यैतावती शिक्षेति तदानुकूल्येन दण्डमर्हन्ति कस्यापि न तेष्ववशेष इति भावः । सर्वे कारिणः शुभकारिणः क्रमानुरोधे सति न दण्डमर्हन्ति वेदबोधितप्रकारेण कर्मकरणेन तच्छिक्षादक्षा वयमिति भाव इति वा ॥ ४३ ॥
चट्टी
इदानीं दण्डस्य स्थानमाह– एतैरिति ॥ यस्मादेतैः साक्षिभिर्न धर्मो यस्य सोऽधर्मो पुरुषो विज्ञातो विज्ञापितस्तस्मात्स दण्डस्य स्थानमित्येतद्युज्यत इत्यर्थः । दण्ड्याः किं कारिणः सर्वे आहोस्वित्कतिचिन्नृणामित्यस्योत्तरमाहुः– सर्व इति ॥ कारिणो जीवाः सर्वेऽपि क्रमानुरोधेन । ‘‘रौरवोऽथ महांश्चैव वन्हिर्वैतरणी तथा । कुम्भीपाक इति प्रोक्तान्यनित्यनरकाणि तु । एतानि क्रमशो गत्वैवारोहोऽथावरोहणम्’’ ॥ इति भारतोक्तक्रमानुसारेण दण्डमर्हन्तीत्यर्थः ॥ ४३ ॥
सम्भवन्ति ह्यभद्राणि१ विपरीतानि चानघाः ।
कारणं गुणसङ्गोऽस्ति देहवान्न ह्यकर्मकृत् ॥ ४४ ॥
पदरत्नावली
ननूभयेषामपि दृष्टश्रुताभ्यामैहिकसुखदुःखफले जानतामुभयविधकर्मसंभवः कथम् ? अत्राह– संभवन्तीति ॥ विपरीतानि पापविरुद्धपुण्यानि राज्याद्यवाप्तिनिमित्तसुखफलप्रदानि । ‘आचतुर्दशमाद् वर्षात् कर्माणि नियमेन तु । दशावराणां देहानां कारणानि करोत्ययम् ॥’ इत्येतत् हिशब्दगृहीतम् । संभवेऽपि किं कारणम् ? अत्राह– कारणमिति ॥ त्रिगुणसंबन्ध एव कारणमिति भावः । नन्वेतल्लिङ्गशरीरिण्यनैकान्त्यं तस्य कर्माकारणादित्याशङ्क्य स्थूलदेहविवक्षयोक्तमिति भावेनाह– देहवानिति ॥ यो गुणसङ्गेऽपि पुण्यवान् न कर्म करोति ज्ञानाद् इति चेत् तत्राह– देहवानिति वा ॥ देही चेदकर्मकृन्नास्त्येव । गुणानां तादृशशक्तिमत्वात् । ‘कार्यते ह्यवशः’ इत्युक्तेः
॥ ४४ ॥
सत्यधर्म
ननु विदुषामविदुषां च दृष्टश्रुताभ्यामैहिके सुखदुःखफले कुतः कर्मणि प्रवृत्तिरा-मुष्मिकसुखैकफले कर्मण्येव न कुतः प्रवृत्तिरित्यत आहुरित्याह– सम्भवन्तीति ॥ अभद्राणि सांसारिक्यां दशायां क्लेशदानि विपरीतान्यत्रैव सुखप्रदानि कर्माणि सम्भवन्ति । प्रथमतो धर्मप्रस्तावा-द्विपरीतानीति प्राक् प्रयोज्यम् । तथाऽपि तदभद्राचाराणां बहुत्वादग्रे ग्रहणम् । अतस्त्वितरज्ज्यायो लिङ्गाच्च । ‘‘असुरा बहुला’’ इत्यादेः । अभ्यर्हितत्वात्तज्ज्ञानेन तत्प्रतियोगिनो ज्ञानं सुलभं प्रस्तुता-प्रस्तुतश्चेति । भद्राणीति पाठस्तु भद्रतर इति ज्ञेयम् । सम्भवतीत्येतन्मात्रेण कथं समाधिरभूदित्यतस्तत्र निमित्तमाहुरित्याह ॥ कारणमिति । गुणसङ्गः सत्त्वादिगुणसम्बन्धः सोऽस्ति यतस्ततः सम्भवन्ति विना कर्मावस्थानं न स्थूलशरीरिण इत्याहुः । देहवानिति मतुपा चैतत्प्राप्तिमद्देहहेयतामाहुः । भूमनिन्देत्यादेः । अकर्मकृत्कर्मासम्पादको न ह्यस्तीत्यन्वयः । ‘‘आचतुर्दशमाद्वर्षात्कर्माणि नियमेन तु’’ । ‘‘कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः’’ । ‘‘न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्’’ इत्यादिप्रसिद्धोऽयमर्थोऽत्रैवोक्तव्याप्तिबलेन चेति हिराह । अनघास्तत्रापि न कर्म स्वतन्त्रमित्यप्याहुः ॥ गुणसङ्ग इति । गुणसङ्गः श्रीहरिः कारणमिति ज्ञानमस्ति यस्य स एव देहवान्प्रशस्तशरीरः । अकर्मकृन्न हि चेदपि कर्मकृच्चेदपि तस्य यान्यनुष्ठितान्यभद्राणि कर्माणि विपरीतानि भद्राणि सम्भवन्तीति वा । हिना ‘‘धर्मो भवत्यधर्मोऽपि कृतो भक्तैस्तवाच्युत । पापं भवति धर्मोऽपि यो न भक्तैः कृतो हरे’’ ॥ इत्यादिप्रसिद्धिं द्योतयति । अकर्मकृन्न अकर्मकृदिव कृतानामपि तेषामबन्धकत्वा-दिति भावः । चक्रं न वृत्तमित्यादिवन्नञ इवार्थकतेति वा । गुणसङ्गो नह्यस्ति तस्य देहवतो विपरीतानि भद्राणि अभद्राणि सम्भवन्ति मा तूक्ता पुरस्तात् ॥ ४४ ॥
चट्टी
ननु केषाञ्चित्पुण्यकर्तृणामपि सद्भावात्कथं सर्वेऽपि दण्ड्या इत्युच्यत इत्यत आह ॥ सम्भवन्तीति । हि यस्मात्सर्वेषामपि कारिणामभद्राणि न तद्विपरीतानि भद्राणि च सम्भवन्ति तस्मादिति पूर्वेणान्वयः । सम्भवेऽपि किं कारणमत्राह ॥ गुणसङ्ग इति । त्रिगुणसम्बन्ध एव कारणमिति भावः । गुणसङ्गनिमित्तकं कर्म कारणमित्यत्र प्रमाणमाह ॥ देहवानिति । गुणसम्बन्ध-देहवान् । अकर्मकृन्नास्तीत्येतद्धि प्रमाणप्रसिद्धमित्यर्थः ॥ तदुक्तं ‘‘न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः’’ ॥ इति ॥ ४४ ॥
येन यावान् यथा धर्मो ह्यधर्मो वा समीहितः ।
स एव तत्फलं भुङ्क्ते तथा तावदमुत्र वै ॥ ४५ ॥
पदरत्नावली
किमत इत्यतः फलितमाह– येनेति ॥ अमुत्र परलोके ॥ ४५ ॥
सत्यधर्म
कृताभ्यां सुकृतदुष्कृताभ्यां पारत्रिकं फलमस्यैवेत्यालपन्तीत्यालपति ॥ येनेति । येन देहिना यावान्स्वयोग्यतायोग्यो यथा धर्मोऽधर्मो वा समीहितोऽनुष्ठितः पृथक् पृथगन्वयः । स एव तत्फलमेव भुङ्क्त एवेति वैवान्वयः । तथा तत्कर्मानुकूल्येनामुत्र परत्र । कर्ता शास्त्रार्थावत्त्वात् । स पात्रं बन्धमोक्षयोरित्यादिकं स्मारयति वैकारः । स एव धर्म इत्यावर्तते । भगवान्भुङ्क्ते भोजयति । तर्हि कर्मणः फलमेकरूपं चेदयं जीवस्तत्पात्रं तत्रापि शुभफलाभावात्तस्य वैय्यर्थ्यं वा किमस्ति तस्य पात्रत्वमित्यत आहुरित्यप्याह धर्मो भगवांस्तत्फलं मुख्यामुख्यादिन्यायेन मुख्यं शुभं भुङ्क्त इति वै । ‘‘गुहां प्रविष्टावात्मानौ हि तद्दर्शनात्’’ । ‘‘आत्मान्तरात्मेति हरिरेक एव द्विधा स्थितः । निविष्टो हृदये नित्यं रसं पिबति कर्मजम्’’ ॥ इत्यादिसूत्रागमादिप्रख्यातिं ख्यापयति ॥ ४५ ॥
चट्टी
कथंस्विद् ध्रियते दण्ड इत्यस्योत्तरमाहुः ॥ येनेति । समीहितः कृतः । अमुत्र परलोके धर्मो वेति दृष्टान्तः । धर्मानुसारेण सुखवान् । अधर्मानुसारेण दण्ड इत्यर्थः ॥ ४५ ॥
यथेह देवप्रवरास्त्रैविध्यमुपलभ्यते ।
भूतेषु गुणवैचित्र्यात् तथाऽन्यत्रानुमीयते१ ॥ ४६ ॥
पदरत्नावली
ननु ‘यावज्जीवं सुखं जीवेद् ऋणं कृत्वा घृतं पिबेत् । भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥’ इति वचनात् स एवामुत्र स्वकृतं भुंक्त इति न घटत इत्यत्राह– यथेहेति ॥ स्वकृतफलदातारो दृश्यन्ते, प्रमाणत इति शेषः । वाक्यप्रामाण्यानङ्गीकारेऽपि प्रत्यक्षगृहीतव्याप्तिकानु-मानात् सिद्धमित्याह– त्रैविध्यमिति ॥ सत्वादिगुणानां वैचित्र्याद् भूतेषु उत्तमाधममध्यमत्वभेदेन त्रैविध्यमुपलभ्यते यथा प्रत्यक्षेणेति शेषः । अन्यत्र जन्मान्तरे परलोके वा ॥ ४६ ॥
सत्यधर्म
महामतीनामेत एवमेते एवमिति भवतु ज्ञानम् अतथाभूतानां तज्ज्ञानं दुःशकमित्यत उपायोक्त्याऽऽप्याययन्तीत्युपपादयति ॥ यथेति । हे देवप्रवरा इह संसारे भूतेषु प्राणिषु गुणवैचित्र्यात् त्रैविध्यं गुणत्रयप्रयोजकं फलमुपलभ्यते । दुःखी सुखी सुखदुःखवानिति त्रिविधमुपलभ्यते प्रत्यक्षादिना विषयीक्रियते । तथाऽमुत्र पुनर्जन्मनि परत्रानुमीयते । अयं परत्र महासुखपात्रमत्र तथाभूतत्वा-दागामिकगुर्वादिबोधिततथात्ववत्पुरुषान्तरवदित्यनुमानेन निश्चेतुं शक्यते ॥ ४६ ॥
चट्टी
न केवलं सूर्यादीनामेव धर्मादिविषयकं ज्ञानम् । किन्तु लौकिकानामप्यानुमानिकं तदस्तीति सिंहावलोकन्यायेनाहुः ॥ यथेहेति । हे देवप्रवरा यथेह जन्मनि भूतेषु प्राणिषु सत्त्वादिगुणानां वैचित्र्यात् सात्विकादिकर्मत्रैविध्यं दृश्यते । तथाऽन्यत्र जन्मान्तरेऽपीत्यनुमीयते । शरीरत्वावच्छिन्न-शरीरस्य गुणजन्यत्वनियमात् । गुणसङ्गस्य कर्मकारणत्वादित्यर्थः ॥ ४६ ॥
वर्तमानोऽन्ययोः कालो गुणाभिज्ञापको यथा ।
एवं जन्मानयोरेतद्धर्माधर्मनिदर्शनम् ॥ ४७ ॥
पदरत्नावली
अनुमानस्य प्रामाण्यं ग्राहयितुम् एतदर्थं सदृष्टान्तमुपपादयन्तीत्याह– वर्तमान इति ॥ वर्तमानः प्रतीयमानः वसन्तादिकालः, अन्धयोर् अतीतैष्यद्वसन्तयोर् गुणानां फलपुष्पादि-कार्याणाम् अभिज्ञापको यथा एवमेतद् वर्तमानं जन्म धर्माधर्मज्ञापकम् । अनयोरतीतागतजन्मनोर् यौ धर्माधर्मौ तौ नितरां दर्शयति ज्ञापयतीति धर्माधर्मनिदर्शनम् ॥ ४७ ॥
सत्यधर्म
स्थूलदृश्वनामप्याश्वासनप्रकारमाहुरित्याह– वर्तमान इति ॥ वर्तमानः कालो वसन्तादिः । अन्ययोर्भूतभविष्यतोः स्वकालयोः । गुणाभिज्ञापको गुणानां फलपुष्पादीनामेवं तदेति यथाऽभिज्ञापकोऽनुमापकः । एवम् एतज्जन्माद्यतनम् । अनयोरतीतानागतसम्भूत्योर्धर्माधर्मनिदर्शनं धर्मश्च श्रेयश्चाधर्मोऽश्रेयश्च तौ निदर्शयतीति तत्तथा ॥ ४७ ॥
चट्टी
उक्तमेव सदृष्टान्तं विवृणोति ॥ वर्तमान इति । वर्तमानो वसन्तादिकालः । अन्ययोर्भूतभाविनोर्वसन्तयोर्ये गुणाः पुष्पफलादयस्तेषामभिज्ञापको यथा । एवमेतज्जन्मान्ययोर्भूतभाविनो र्जन्मनोर्धर्माधर्मादि दर्शयतीति धर्माधर्मनिदर्शनमित्यर्थः ॥ ४७ ॥
मनसैव पुरे देवः पूर्वरूपं विपश्यति ।
अनुमीमांसतेऽपूर्वं मनसा भगवानजः ॥ ४८ ॥
पदरत्नावली
इतोऽप्यनुमानं प्रमाणमिति ज्ञापयितुं जीवसमवेतधर्माधर्मसद्भावे हरेः प्रत्यक्षं प्रमाणयन्तीत्याह– मनसेति ॥ पुरे जीवशरीरे स्थितो देवः श्रीनारायणः जीवस्य पूर्वरूपमपूर्वम् अनागतरूपं च तत्समवेतधर्माधर्मौ च स्वमनसैव विपश्यति अपरोक्षीकृत्य वर्तते । दर्शनस्य क्वापि बाधो नास्तीति लट्प्रयोगः । अन्येषामदर्शनमेव किम् ? नेत्याहुरित्याह– अनुमीमांसत इति ॥ अजः परमेष्ठी भगवान् मनसाऽनुमीमांसते तदनुग्रहेणालोच्य विचार्य पश्यतीत्यर्थः । सर्वजीवसाधारणाजशब्दप्रयोगादन्ये देवा अपि यथायोग्यं जानन्तीति ग्राह्यम् । किञ्च जीवात्मनोऽपि धर्माधर्मसमवेतपूर्वापररूपे वर्तमानवत् सिद्धे इत्याहुरित्यतो वाह– मनसेति ॥ सुरनरतिर्यगादिपुरे देवः क्रीडन् भगवान् भाग्यगुणोपेतो जीवः पूर्वानुभवसंस्कारसंस्कृतेन मनसैव पूर्वरूपं धर्माधर्मसमवायात्मकं रूपं विपश्यति विजानाति । अपूर्व-मनागतं मनसाऽनुमीमांसते विचार्यानुमिनोति । ‘अजो ह्येको जुषमाणोऽनुशेते’ इति श्रुतेः ॥ ४८ ॥
सत्यधर्म
सूर्योऽग्निरित्यादिप्रतिपादितसाक्षिमध्ये कांश्चित्सव्यापारानीरयित्वा तत्प्रत्यक्षोप-जीव्यत्वान्न प्रतिक्षेपमर्हतीत्यनुमानमाहुरित्याह ॥ मनसैवेति । पुरे शरीरे । पुरं देहमणतीति गीताभाष्योक्तेः । तत्र सन्निहितः सन् देवः क्रीडन् तत्र निमित्तं भगवानिति । ऐश्वर्यादिवैराग्यान्तभगवान् अत्रापि निमित्तमज इति । सर्वदोषाणां जननानुरोधात्तदभावादेव तदभाव इति भगवत्त्वम् । ततश्चानश्नन्नन्योऽभिचाकशीतीत्यादेः क्रीडनं सम्भवति । नारायणः पूर्वरूपं मनसा करणेनाप्तमिति शेषः । जीवस्य पश्यति । तथा अपूर्वं समस्तमपि पदं रूपम् इतिशब्दानुशासनमित्यत्र शब्दशब्द-वदनुवर्तितमपूर्वपदेनान्वेति । अपूर्वरूपमेष्यद्विपश्यति । एवकारेणानन्यनिघ्नतां दर्शनस्य दर्शयति विशब्देन वा । ‘‘मन एव मनुष्याणां कारणं बन्धमोक्षयोः’’ इत्यादेः । अजो जीवोऽपि । ‘‘अजो ह्येको जुषमाण’’ इत्यादेः । मनसाऽनुमीमांसते पूर्वम् । अपूर्वमनन्तरं मनसेश्वरानुगृहीतेन विपश्यति । एतेन स्वयमित्युक्तो जीवो मनश्च साक्षित्वेनोक्ते इति ज्ञेयम् । अजो ब्रह्मा मनसाऽऽलोचनेनैव पश्यतीति च । उपलक्षणया सर्वतत्त्वेशादिसुरसङ्ग्रह इति ज्ञेयम् । ईदेवो लक्ष्मीनारायणः । अनेन लक्ष्मीरपि मनसैव स्वेच्छयैव ‘‘स्वेच्छयैव’’ इति बृहद्भाष्योक्तेरनालोचनेनैव पश्यतीतीशादन्यत्रानालोचने सर्वविषयकं लक्ष्मीज्ञानम् । आलोचने सर्वविषयं ब्रह्मज्ञानमित्याद्युक्तेः । भगवान् भगोऽर्कः सोऽस्यास्ति जनकतयेति भवति भगवान्यमो देवोऽस्माकं पुरे संयमिन्यामुर्वरितं सर्वं पूर्ववत् । अनेन धर्मेत्युक्तः साक्षी कटाक्षीकृत इति ज्ञेयम् । भगवान् भगः स्वार्थे मतुप् । सूर्यश्च गतेरर्थवत्त्वमिति यथा । अजशब्देन व्याख्यातोऽ-निलः । ‘‘यत्प्राप्तिर्यत्परित्याग उत्पत्तिर्मरणं तथा’’ इत्यादेः ॥ ४८ ॥
चट्टी
धर्मराजस्तु मनसैव सर्वं पश्यतीत्याहुः ॥ मनसैवेति । पुरे संयमिन्यां स्थित एव देवो यमो जीवस्य पूर्वरूपं धर्माधर्मादियुक्तं मनसा प्रत्यक्षेणैव पश्यति । अनु अनन्तरमपूर्वं मीमांसते यदस्यानुरूपं तद्विचारयति । तत्राधिकदृष्टान्तमाहुः ॥ भगवानिति । यथाऽन्तर्यामितया पुरे देहे वर्तमान एव सर्वं पश्यति । भगवानजः श्रीहरिस्तथेत्यर्थः ॥ ४८ ॥
यथाऽज्ञस्तमसा युक्त उपास्ते व्यक्तमेव हि ।
न वेद पूर्वमपरं नष्टजन्मस्मृतिस्तथा ॥ ४९ ॥
पदरत्नावली
पूर्वापररूपे जानाति चेत् तर्हि कथमन्यत्र मृतोऽन्यत्र जातोऽहमिति न जानातीत्या- शङ्क्य श्रीनारायणानुग्रहमन्तरेण तादृशज्ञानं न सुलभं सर्वेषामित्यभिप्रेत्याह– यथेति ॥ अज्ञोऽविवेकी अव्यक्तं प्रकृतिनिर्मितदेहमेवोपास्ते देहात्मनोरभेदं कल्पयति । व्यक्तमेव पुरःस्थितमेव जानाति न तु पूर्वापरे इति वा । तत्र कारणमाहुरित्याह– तमसेति ॥ विपरीतप्रत्ययापादकतमोगुणयुक्तत्वात् । अत एव पूर्वमपरं च न वेद यथा, तथा नष्टजन्मविषयस्मृतिः पुरुषोऽन्यत्र जात इत्यादिकं न जानातीत्यर्थः । अनेन ‘यावज्जीवं सुखं जीवेत्’ इति चार्वाकमतमज्ञप्रलपितमिति ज्ञायत इति भावः ॥ ४९ ॥
सत्यधर्म
यर्हि जीवः पूर्वापरं जानीयात्तर्हि जातोऽत्र तत्र जनिष्ये तत्र मृतोऽत्र मरिष्यामीति कुतो न जानातीत्यतो हर्यनुग्रहात् केचन तथाऽन्येषां प्रकृतिबन्धध्वंसाभावेन च ज्ञानानुदय इति वदन्तीति वदति ॥ यथेति । यथाऽज्ञो मूढो व्यक्तं पुरःस्थितमेवोपास्ते तथा ज्ञो जीवः । ज्ञोऽत एवेति यथा । तमसा युक्तस्तमोगुणसहितोऽव्यक्तं प्रकृतिं हि यत उपास्ते ततो नष्टजन्मस्मृतिस्ततश्च पूर्वमपरं च न वेद । यथा नष्टजन्मस्मृतिरेतज्जन्मानुभूतमपि न प्रभूतं स्मर्तुं शक्तिमांस्तथा पूर्वमपरं च न वेदेति वा । जानन्तमपि जनमनेनैव बोधयतीति बोधयति ॥ यथेति । तमसा कार्योन्मुखेनायुक्तो ज्ञोऽव्यक्तं सूक्ष्मतरं ब्रह्मैव । तदव्यक्तमाह हीत्यादेः । वेदपूर्वं वेदवेदितप्रकारपूर्वकं यथोपास्ते तथाऽपरमन्यद्वेदानुदितं नोपास्ते स नष्टजन्मस्मृतिः । नष्टमिति भावे क्तः । नष्टं च नष्टिर्मृतिश्च जन्म च तयोः स्मृतिश्च यस्य स इति ॥ ४९ ॥
चट्टी
जीवस्त्वीश्वरेणोपस्थापितं वर्तमानमेव देहं पश्यति न पूर्वमपरं चेत्याहुः ॥ यथेति । अज्ञो जीवस्तु व्यक्तमेव प्राचीनकर्मणाऽभिव्यक्तमेव देहमुपास्ते जानाति पूर्वमपरं वा न वेद । अत्र हेतुः । नष्टेति । नष्टा वर्तमानजन्मनां स्मृतिस् तत्कारणसंस्कारो यस्य स तथा । तत्र दृष्टान्तः ॥ तमसेति । यथा तमसांऽधकारेण युक्तः पुरुषो व्यक्तमेव त्वचा स्पृष्टमेवोपास्ते न तु पूर्वं पुरस्ताद्वर्तमानम् । अपरं पश्चाद्वर्तमानं च पदार्थं तथेत्यर्थः ॥ यद्वा ॥ तमसा निद्रया युक्तो यथा स्वप्नेऽभिव्यक्तमेव वासनामयपदार्थजातमेवोपास्ते न तु स्वप्नात्प्रागुत्तरजाग्रत्पदार्थजातं तथेत्यर्थः ॥ ४९ ॥
पञ्चभिः कुरुते स्वार्थान् पञ्च वेदाऽथ पञ्चभिः ।
एकस्तु षोडशेन त्रीन् स्वयं सप्तदशोऽश्नुते ॥ ५० ॥
पदरत्नावली
देही चेत् कर्म करोत्येवेत्युक्तम् । तत्र कर्मकरणप्रकारं दर्शयति– पञ्चभिरिति ॥ पञ्चभिर्वागादिकर्मेन्द्रियैः स्वार्थान् स्वविषयानभिवदनशिल्पगतिविसर्गानन्दाख्यान् । पञ्चभिः श्रोत्रादि-ज्ञानेन्द्रियैः पञ्च शब्दादीन् । सप्तदशः स्वयमेक आत्मा षोडशेन षोडशभेदयुक्तेन लिङ्गशरीरेण त्रीन् सत्त्वादिगुणैस्त्रिधा विभक्तं सुखं दुःखं मिश्रं च भुंक्ते । सत्त्वं सुखे सञ्जयतीत्यादेः । देहात्मनोर्भेद-प्रकाशनाय सप्तदश इत्युक्तम् ॥ ५० ॥
सत्यधर्म
सांसारिक्यां दशायां देहवान्कर्म करोत्येवेत्युक्तम् । तत्र तत्कारणादिकं पञ्चभिः प्रपञ्चयतीति प्रतिपादयति ॥ पञ्चभिरिति । पञ्चभिः करादिकर्मेन्द्रियैः स्वार्थान्स्वनिवर्त्यान्विषयान् शिल्पजल्पनविसर्पणविसर्गानन्दादीन् कुरुते । पञ्चभिः श्रोत्रादिभिः पञ्च शब्दादीन् वेद । स्वयमेकः षोडशेन मनसा सह सप्तदशस् त्रीन्सुखं दुःखं मिश्रं चेति तत्तद्गुणव्यक्तान्विषयानश्नुते भुङ्क्ते । सत्त्वं सुखे सञ्जयतीत्याद्यात् । अत्र लेखनीयविशेषस्तु नित्योपलब्धिसूत्रसंसारं तथा मतान्तराणि चोदाहृत्य सविस्तरं महाभारततात्पर्यनिर्णयटीकायां लिखितोऽस्माभिर्विलोकनीयोऽत्र विस्तरदरत उपरतः ॥५०॥
चट्टी
एवंभूतस्य जीवस्य च प्रसङ्गात्संसारं प्रपञ्चयति पञ्चभिः श्लोकैः । स्वयमेको जीवो यैः पञ्चभिर्वागादिकर्मेन्द्रियैः । स्वार्थांस्तद्विषयानभिवादनशिल्पगतिविसर्गानन्दाख्यान् कुरुते । यैश्च पञ्चभिः श्रोत्रादिज्ञानेन्द्रियैः पञ्चशब्दादीन् वेद । येन च षोडशेन मनसा त्रीन् जाग्रत्स्वप्नसुषुप्तिकालीनान् विषयानश्नुतेऽनुभवति ॥ ५० ॥
तदेतच्छोडशकलं लिङ्गं शक्तित्रयं महत् ।
धत्तेऽनु संसृतिं पुंसि हर्षशोकभयार्तिदम् ॥ ५१ ॥
पदरत्नावली
तर्हि कस्मात् संसारेऽस्येति तत्राह– तदेतदिति ॥ षोडश कलाः श्रोत्रा-दीन्द्रियाणि मनश्च पञ्चभूतानि यस्मिन् तत् तथा । शक्तीनां प्रकाशक्रियावरणलक्षणानां त्रयं यस्मिंस्तत् तथा, सत्त्वादिगुणशक्तियुक्तमित्यर्थः । अत एव महापुरुषार्थाभिभवसमर्थम् । त्रिशक्तियुक्तत्वात् हर्षादिप्रदं लिङ्गं लिङ्गशरीरं पुंस्यनु स्वकर्मानुकूल्येन संसृतिं धत्त इत्यन्वयः । अधिकरणत्वमात्रप्रदर्शनाय पुंसीति सप्तमी । तस्मादभिमाननिमित्तमिदं सर्वमित्यर्थः ॥ ५१ ॥
सत्यधर्म
एतन्मूलमालपन्ति । तदेतदिति । षोडशकलमिन्द्रियदशकं भूतपञ्चकं मनश्चेति षोडश-कलम् । शक्तित्रयं सत्त्वादिगुणत्रिकशक्तियुक्तम् । ताश्च प्रकाशक्रियावरणरूपाश्च तिस्रो महद्विद्यमान-ज्ञानाद्यनुज्जृम्भकतया लिङ्गं शरीरम् । पुंसीत्यजामिलप्रस्तावात्पुंपुरस्करणम् । जीवसामान्ये अनु कर्मानुकूल्येन हर्षशोकभयार्तिदं सत्संसृतिं धत्ते । पुंसि परमपुरुषेऽनु अनुकूले सति न धत्ते । स्वतो लिङ्गस्यानुल्लङ्घनीयत्वादिति भावः । फलप्रदो वासुदेवोऽखिलस्येत्यादेः ॥ ५१ ॥
चट्टी
तदेतदुक्तम् । षोडशकलम् । ता एताः । पूर्वोक्ता एकादशेन्द्रियाणि भूतपञ्चकं चेति षोडशकला यस्मिंस्तत् । तदेतच्छोडशकलम् । शक्तित्रयं शक्तीनां प्रकाशक्रियावरणलक्षणानां त्रयं यस्मिंस्तथा सत्त्वादिगुणशक्तियुक्तमित्यर्थः । अत एव हर्षादिप्रदं महत् । ईश्वरप्रसादमन्तरेणानिवृत्तं लिङ्गं लिङ्गशरीरं पुंसि पुरुषेऽनु स्वकर्मानुसारेण संसृतिं धत्ते ददासीति श्लोकद्वयस्यान्वयः ॥ ५१ ॥
देह्यज्ञोऽजितषड्वर्गोऽनिच्छन् कर्माणि कार्यते ।
कोशकार इवात्मानं कर्मणाऽऽच्छाद्य मुह्यति ॥ ५२ ॥
पदरत्नावली
आत्मनः संसारप्रकारं निरूपयति– देहीति ॥ अवशीकृतषडिन्द्रियवर्गोऽ-निच्छन्नपि कर्माणि कार्यते, गुणाधीनषडिन्द्रियैरिति शेषः । विष्टिगृहीतवद् बलात् कार्यमाणश्चेत् स्वसम्पद्विपदौ वेत्ति किम् ? नेत्याह– कोशकार इति ॥ यथा कोशकारः कृमिः स्वकर्मणा निर्मितकोशेनात्मानमाच्छाद्य मुह्यतीत्यर्थः ॥ ५२ ॥
सत्यधर्म
अजितषड्वर्गोऽजितोऽस्वाधीनीकृतः षड्वर्गः षढ्ढोतारमित्यादेः षडिन्द्रियवर्गो येन सः । यद्वा कामाद्यरिषड्वर्गः षड्वर्गः । अज्ञो देही तदभिमानवाननिच्छन् इन्द्रियैः कामादिभिर्वा कर्माणि कार्यते । तथाभूतत्वान्न ज्ञानमेतस्येत्यत्र दृष्टान्तमाचष्टे ॥ कोशकार इति । कोशकारः कृमिरिव यथा कर्मणा स्वव्याप्येन कोशेन कर्मणा स्वकर्तृकसर्जनकर्मीभूतेनेति वा । य आत्मानमासाद्य मुह्यति कोश एव निलीनः स्वनाशानाशौ न जानाति यथा तथाऽज्ञ इत्यर्थः ॥ ५२ ॥
चट्टी
लिङ्गशरीरं कर्मानुसारेण संसृतिं धत्त इत्युक्तम् । तर्हि कर्माकरणेन संसृतिनिवृत्तिः स्यादत आह ॥ देहीति । देही लिङ्गशरीरवान् ॥ जीवोऽज्ञो भगवद्ज्ञानशून्यः । अत एवाजितषड्-वर्गोऽवशीकृतषडिन्द्रियवर्गः । अजितकामादिषड्वर्गो वा । अनिच्छन्नपि प्रकृतिगुणैर्बलात्कर्माणि कार्यते । ततश्च यथा कोशकारः कीटविशेषः । स्वकर्मणा निर्मितकोशेनात्मानमाच्छाद्य मुह्यति निर्गमोपायं न जानाति । तथा देह्यपि कर्मणाऽऽत्मानमाच्छाद्य मुह्यतीत्यर्थः ॥ ५२ ॥
न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ५३ ॥
पदरत्नावली
मोहोऽस्यास्तीति कुतो ज्ञायत इत्याशङ्क्य पुनःपुनः कर्मकरणादित्यभिसन्धिमन्तः स्वोक्तार्थे प्रमाणं दर्शयन्तीत्याह– नहीति ॥ ५३ ॥
सत्यधर्म
मुह्यतीति निस्सन्देहमुक्तं तत्र मानं किमित्यतः सकारणसर्वस्वं कर्मैव तदीयमित्यभि-सन्धिमन्तः स्वस्वेतरानुभूतप्रमेयप्रतिपादकं प्राहुः प्रमाणमिति प्राह ॥ न हीति । कश्चित्कोऽपि जातु कदाचिदप्यकर्मकृन्न तिष्ठति । ईक्षतेर्नाशब्दमितिवदर्थातिशयो द्वौ नञौ न्यायेन ज्ञेयः । कर्म विना न स्थितिरिति भावः । प्रकृतिजैर्गुणैरवशो विष्णुवशः परतन्त्र इति वा सर्वो जनः कर्म कार्यते । यथोक्तं गीताभाष्ये– ‘‘प्रकृतिजन्मकृतानामनन्तकर्मणां भावात्’’ इत्यादि । ननु सर्वजननिष्ठप्रयोज्यकर्तृत्वस्य तिङाऽनभिहितत्वात्कर्तृकरणयोस्तृतीयेति तृतीयायां सत्यां सर्वेणेति भाव्यं सर्व इति कथमिति चेत् । उच्यते । हृक्रोरन्यतरस्यामिति सूत्रेणाण्यन्तयोर्हरतिकरोत्योर्यः कर्ता स ण्यन्तयोरन्यतरस्यां कर्मसंज्ञो भवतीति कर्मसंज्ञाविधानेन कर्मसंज्ञया कर्तृसंज्ञाया बाधात्कर्तृकरणयोरिति तृतीयाप्राप्तिर्नास्ति । कर्मत्वस्य कार्यत इति तिङोक्तत्वेन कर्मणि द्वितीयेति द्वितीयाप्राप्त्यभावात्सर्व इति प्रथमा युक्तेति दुर्घटार्थप्रबोधिनी
॥ ५३ ॥
चट्टी
कर्माणि कार्यत इत्यत्रानुभवं प्रमाणयन्ति । न हीति ॥ गुणैर्गुणकार्यरागादिभिः स्वाभाविकैः पूर्वजन्मसंस्कारोद्भूतैरित्यर्थः ॥ ५३ ॥
लब्ध्वा निमित्तमव्यक्तं व्यक्ताव्यक्तं भवत्युत ।
यथायोनियथा बीजं स्वभावेन बलीयसा ॥ ५४ ॥
पदरत्नावली
जननमरणे अपि देहस्यैव, आत्मनस्तदभिमानादुपचर्येते इत्याहुरित्याह– लब्ध्वेति ॥ संसारनिमित्तमव्यक्तं प्रकृतिकार्यं शरीरं लब्ध्वा व्यक्ताव्यक्तमुत जन्ममरणमपि भवति, जीवस्योपचारत इति शेषः । ‘देहस्य सर्वथा नाशादनाशाच्चेतनस्य च’ इत्यादेः । निमित्तं कारणमव्यक्तं प्रकृतिं लब्ध्वा प्राप्य व्यक्ताव्यक्तं जन्ममरणात्मकं शरीरं भवति, जीवस्येति शेष इति वा । कथम् ? यथायोनि पश्वादियोनिमनतिलङ्घ्य । यथाबीजं कर्मराशिमनतिक्रम्य । सत्वादिनिमित्तस्वभावेन ॥ ५४ ॥
सत्यधर्म
जननमरणे न देहिनः किन्तु देहस्यैवाभिमानादेव जातो गत इति व्यवहार औपचारिक इतीरयन्तीतीरयति ॥ लब्ध्वेेति । अनिमित्तमुपादानकारणमव्यक्तं प्रकृतिं तत्सम्बद्धशरीरमिति वाऽव्यक्तं दुर्ज्ञेयं देवं वा निमित्तं लब्ध्वेति तदनन्तरं व्यक्ताव्यक्तं स्थूलास्थूलकलेवरम् । व्यक्तेन सहितं च तदव्यक्तं चेति विग्रहः । विप्रतिषिद्धं चेत्येकवद्भावो वा । भवति जीवस्येति शेषः । यद्यप्यव्यक्तसम्बन्धानन्तरं व्यक्तसम्बन्ध इति तदेव पूर्वं निरूप्यं तथाऽपि व्यक्तेनानुमेयं तदिति पूर्वमुक्तिः । व्यक्ताव्यक्तं जन्ममरणं भवतीति वा । देहस्य सर्वथा नाशादनाशाच्चेतनस्य च । अजो नित्य इत्यादेः । यथायोनि स्वस्वजाति-मनतिहाय यथाबीजं कर्मादिकारणानुसारेण यथायोनि मातृसमं यथाबीजं पितृसदृशं योनिर्भगवा-न्यथायोनि तदिच्छानुसारेणेति यावत् । ‘‘योनिश्च हि गीयते’’ इति हि गीयते यथाबीजं भगवदिच्छानु-सारमिति । व्यञ्जनाद्बीजमुच्यत इति ‘‘बीजं तदहमर्जुन’’ इत्यादेः । किं निमित्तीकृत्य भगवदादिः कार्यत इत्यत उक्तं स्वभावेन योग्यतयेति । ‘‘स्वभावाख्या योग्यता या हटाख्या’’ इत्यादेः स्वभावस्या-नपायाद्बलीयसेत्युक्तिः । न शक्य सोऽन्यथाकर्तुमित्यादेः ॥ ५४ ॥
चट्टी
कर्मवशेन च तदनुरूपो देहो भवतीत्याहुः ॥ लब्ध्वेति । अव्यक्तं निमित्तमदृष्टाख्य-निमित्तकारणम् । लब्ध्वा व्यक्ताव्यक्तं तदनुरूपं स्थूलं सूक्ष्मं च शरीरं भवति । यथायोनि मातृसदृशं यथाबीजं पितृसदृशं च । स्वभावो वासना शुक्लशोणितयोरेकरूपत्वेऽपि कर्मवासनया मातापितृदेहसदृशो भवति । शरीराकृतिभेदास्तु भूपते कर्मयोनय इति विष्णुपुराणोक्तेरिति भावः ॥ ५४ ॥
एष प्रकृतिसङ्गेन पुरुषस्य विपर्ययः ।
आसीत् स एव न चिरादीशसङ्गाद्विलीयते ॥ ५५ ॥
पदरत्नावली
एवं संसारप्रसङ्गमुक्त्वा तन्निवृत्त्युपायमाहुरित्याह– एष इति ॥ य एषः पुरुषस्य विपर्ययः संसारः प्रकृतिसङ्गेनासीत् स एष ईश्वरसङ्गादीश्वरसेवालक्षणान्नाचिरात् क्षिप्रं विलीयते समूलं विच्छिद्यते ॥ ५५ ॥
सत्यधर्म
एतत्संसृतिमोचनं कथं कथयतेत्यनुयुक्ता इव युक्तं वदन्तीति वदति ॥ एष इति । प्रकृतिसङ्गेन पुरुषस्य विपर्ययः संसार आसीत् । स एवेशसङ्गात्स्वोत्तमानारभ्य सर्वोत्तमपर्यन्तं सेवालक्षणात् । न चिरात्क्षिप्रं विलीयते समूलं लयमभ्युपैति ॥ ५५ ॥
चट्टी
संसारक्रममुपसंहरन्मुक्तिप्रकारमाह ॥ एष इति । विपर्ययः संसार ईशसङ्गात्परमेश्वरभजनात्
॥ ५५ ॥
अयं च श्रुतसम्पन्नः शीलवृत्तगुणालयः ।
धृतव्रतो मृदुर्दान्तः सत्यवाक् मन्त्रविच्छुचिः ॥ ५६ ॥
पदरत्नावली
विद्वत्तादिगुणसम्पन्नत्वेन बुद्धिपूर्वकमेव पापकारित्वेन प्रायश्चित्तानधिकारित्वेन नाममात्रोच्चारणस्य प्रायश्चित्तत्वे सर्वेषामपि मुक्तिप्रसङ्गेन दण्ड्यजनाभावेन युष्मत्स्वाम्याज्ञाकरिणो यमस्याज्ञोल्लङ्घनदोषप्रसक्त्याऽधिकारहानिलक्षणानर्थः स्यादित्यतो यमसकाशं गत्वाऽयं तत्र दण्डेन शुद्धो भवत्वित्याहुरित्याह– अयं चेति ॥ मन्त्रविद् वेदज्ञः ॥ ५६ ॥
सत्यधर्म
अजानता कृता चेद्दुष्कतिर्निष्कृतिर्भवतु तस्य अयं तु नयविदपि कापथं गतवानिति नैतस्य पातकमपहाय यातनां लोपमुपैतीत्यालपितुं प्राचीनाचीर्णं सन्तमाचारं गर्हितमेतर्ह्यनुष्ठितं च स्पष्टयन्त्यध्यायशेषेणेति स्पष्टयति ॥ अयमिति । श्रुतं श्रवणम् । क्तो भावे । अयं श्रुतसम्पन् न इति छेदः । श्रवणसम्पद्वान् नः सम्मत इति शेष इति वा । शीलं वृत्तं तदितरे गुणाश्च तदालयः सत्यवान्भूतहितवाक्समेतः सत्यं ब्रह्म तद्वांस्तदुपासक इति वा । सत्यं ब्रह्मेतीशावास्यभाष्योक्तेः । मन्त्रविद्वेदज्ञः ॥ ५६ ॥
चट्टी
तदेवं सामान्यतो धर्मविनिर्णयमुक्त्वा प्रस्तुतस्याजामिलस्याधर्मं प्रपञ्चयन्तो दंड्यत्वमाहुः ॥ अयं हीति । यावदध्यायसमाप्ति । तत्र द्वाभ्यां तत्पूर्ववृत्तानुवादोऽन्यायातिरेकप्रदर्शनार्थः । शीलं सुस्वभावः । वृत्तं सदाचारो गुणादयः क्षमादयः । तेषामाश्रयः । दान्तो निगृहीतेन्द्रियो मन्त्रविद्वेदज्ञः
॥ ५६ ॥
गुर्वग्न्यतिथिवृद्धानां शुश्रूषुर्निरहंकृतिः ।
सर्वभूतसृहृत्साधुर्मितवागनसूयकः ॥ ५७ ॥
एकदाऽसौ वनं यातः पितृसन्देशकृद्द्विजः ।
आदाय तत आवृत्तः फलपुष्पसमित्कुशान् ॥ ५८ ॥
पदरत्नावली
आवृत्तो निवृत्तः ॥ ५८ ॥
सत्यधर्म
शुश्रूषुः सेवकः । शैषिकी च षष्ठी । यद्यपि श्रु श्रवण इति श्रवणार्थकोऽयं धातुस्तथाऽप्यखण्डोऽयमन्यः शब्दः । ‘‘शुश्रूषा श्रवणेच्छायां परिचर्या कथिता’’ इति विश्वः ॥ आवृत्तोऽगारं प्रत्यागन्तुं निवर्तमानः ॥ ५७, ५८ ॥
चट्टी
ततो वनात् । आवृत्तः परावृत्तः ॥ ५७, ५८ ॥
ददर्श कामिनं कञ्चिच्छूद्रं सह भुजिष्यया ।
पीत्वा तु मधु मैरेयं मदाघूर्णितनेत्रया ॥ ५९ ॥
पदरत्नावली
भुजिष्यया दास्या मैरेयाख्यं मधुविशेषम् ॥ ५९ ॥
सत्यधर्म
भुजिष्यया दास्या मधु मैरेयं मैरेयाख्यमद्यविशेषम् । स्वयं मधु पीत्वा मैरेयं पीत्वा मदाघूर्णितनेत्रयोपेतमिति वाऽन्वयः ॥ ५९ ॥
चट्टी
भुजिष्यया भोगस्त्रिया दास्या । मैरेयं मधुपैष्टिं पीत्वा मदेन घूर्णिते भ्रान्ते नेत्रे यस्याः
॥ ५९ ॥
मत्तया विश्लथन्नीव्या ह्युपेतं निरपत्रपम् ।
क्रीडन्तमनुगायन्तं हसन्तमनयाऽन्तिके ॥ ६० ॥
पदरत्नावली
विश्लथन्ती नीवी वस्त्रग्रन्थिर्यस्याः सा तथा ॥ ६० ॥
सत्यधर्म
विश्लथन्ती नीवीवसनग्रन्थिर्यस्याः सा तया । ‘‘नीवी परिपणे ग्रन्थौ स्त्रीणां जघनवासस’’ इति विश्वः । अनयाऽस्याः । अनया सहान्तिके लोकानां समीप इति वा ॥ ६० ॥
चट्टी
विशेषेण श्लथन्ती नीवी यस्या विवस्त्रया सह ॥ ६० ॥
दृष्ट्वा तां कामलिप्तेन बाहुना परिरम्भिताम् ।
जगाम हृच्छयवशं सहसैव विमोहितः ॥ ६१ ॥
पदरत्नावली
स्वेदकम्पादिलक्षणजनकेन कामेन लिप्तेन वशीकृतेन । हृच्छयः कामः । तस्य वशम् ॥ ६१ ॥
सत्यधर्म
कामलिप्तेन गन्धादिनेति । स्मरपरवशेन अन्येन पुंसेति वा । बाहुना बाहुभ्याम् । हृच्छयो मदनः । सहसा हाससहिता या तां दृष्ट्वेत्यन्वयः ॥ ६१ ॥
चट्टी
कामलिप्तेन कामवशीकृतेन शूद्रेण कामोद्दीपितेन । तदङ्गरागेण हरिद्रादिना लिप्तेन बाहुनेति वा । हृच्छयः कामः ॥ ६१ ॥
स्तम्भयन्नात्मनाऽऽत्मानं यावत्सत्त्वं यथाश्रुतम् ।
न शशाक समाधातुं मनो मदनवेपितम् ॥ ६२ ॥
पदरत्नावली
यावत्सत्त्वं यथाशक्ति । यथाश्रुतं ‘शूद्य्रां योनौ पतेद् रेतः’ इत्यादि शास्त्रश्रवणमनुसृत्य । मदनवेपितं कामकम्पितं कामबीजावपनस्य क्षेत्रीभूतं वा ॥ ६२ ॥
सत्यधर्म
(अन्यथा) यावत्सत्त्वं यावद्बलम् । यथाश्रुतं ‘‘न शूद्य्रां पातयेद्रेत’’ इत्यागम-श्रवणमनुसृत्य । मदनवेपितं तत्कम्पितम् ॥ ६२ ॥
चट्टी
सत्त्वं धैर्यं श्रुतं ज्ञानम् । तद्बलेन स्तंभयन्नपि मदनकंपितं मनः । समाधातुं न शक्तोऽभूत्
॥ ६२ ॥
तन्निमित्तस्मरव्याजग्रहग्रस्तो विचेतनः ।
तामेव मनसा ध्यायन् स्वधर्माद् विरराम ह ॥ ६३ ॥
पदरत्नावली
स्मर इति व्याजग्रहेण ग्रस्तः । विचेतनः शास्त्रविरुद्धज्ञानः ॥ ६३ ॥
सत्यधर्म
तन्निमित्तो भुजिष्यादर्शनजनितः स्मरव्याजः कन्दर्पापदेशो ग्रहस्तेन ग्रस्तः । विचेतनो विगता चेतना संविद्यस्मात्सः । चेतना संविदि प्रोक्तेति विश्वः । ज्ञानहीनः ॥ ६३ ॥
चट्टी
तद्दर्शनमेव निमित्तं यस्य स्मरव्याजस्य ग्रहस्य । तेन ग्रस्तः । अत एव विचेतनो नष्टशास्त्रजन्यज्ञानः ॥ ६३ ॥
तामेव तोषयामास पित्र्येणार्थेन यावता ।
ग्राम्यैर्मनोरमैः कामैः प्रसीदेत यथा तथा ॥ ६४ ॥
पदरत्नावली
ग्राम्यैः कामभोगसाधनैः । काम्यन्त इति कामा विषयास्तैः ॥ ६४ ॥
सत्यधर्म
पित्र्येण पित्रार्जितेन पितुर्यच्चेति यत् । ग्राम्यैः सुरतधर्मैः । ग्राम्यमश्लीलरतबन्दयोरिति विश्वः । यथा काम्यैः काम्यन्त इति कामा विषयास्तैः करणैः सा दासी प्रसीदेत भवेत्प्रसन्ना तथा तां तोषयामासेत्यन्वयः ॥ ६४ ॥
चट्टी
यावता समग्रेण ग्राम्यैः कामभोगसाधनैः । काम्यन्त इति कामा विषयास्तैः ॥ ६४ ॥
विप्रां स्वभार्यामप्रौढां कुले महति लम्भिताम् ।
विससर्जाचिरात् पापः स्वैरिण्यापाङ्गविद्धधीः ॥ ६५ ॥
पदरत्नावली
अप्रौढामनवाप्तयौवनाम् ॥ ६५ ॥
सत्यधर्म
अप्रौढामनवाप्तत्रिंशत्संवत्सरां षोडशशरदमारभ्य त्रिंशत्संवत्सरपर्यन्तं तरुणीति तरुणीम् । बाला स्यात् षोडशाब्दात्तदुपरि तरुणी त्रिंशतं यावदूर्ध्वं प्रौढा स्यात्पञ्चपञ्चाशदित्यादेः । प्रादूहोढोढ्येषैष्येष्विति वृद्धिः । महति कुले वंशे लम्भितां लब्धोत्पत्तिम् । यद्यपि यभ्रं लभिति लभिरनिट्केषु गणितस्तथाऽपि रुधादित्वादिटि रभेरशब्लिटोर्लभेश्चेत्युक्तेर्नुमिच लम्भितामिति भवति । स्वैरिण्या स्वच्छन्दप्रवृत्त्या । स्वादीरेरिणोरिति वृद्धिः । स्वैरः स्वच्छन्दमन्दयोरिति विश्वः । कुलटा स्वैरिणीति जयः । कर्त्र्याऽपाङ्गनेत्रान्तेन करणेन । यद्वा पदमेकम् । स्वैरिण्या यद् आ ईषद-पाङ्गोऽन्तेऽप्यन्तभागस्तेन । ‘‘अपाङ्गनेत्रान्ते तिलकेऽपि च’’ इति विश्वः ॥ ६५ ॥
चट्टी
अप्रौढां बालाम् । लम्भितां परिणीताम् ॥ ६५ ॥
इतस्ततश्चोपनिन्ये न्यायतोऽन्यायतो धनम् ।
बभारास्याः कुटुम्बिन्याः कुटुम्बं मन्दधीरयम् ॥ ६६ ॥
सत्यधर्म
अन्यायत एव न्यायत इति विभ्रम्य तदाचारविचारेण न्यायत इति कल्पस्याजल्प्यत्वात् । अयं मन्दधीः कुटुम्बं बभार पुपोष । मन्दधीरयं मन्दो धीरयो बुद्धिवेगो यथा भवति तथा बभारेति वा
॥ ६६ ॥
चट्टी
कुटुम्बिन्या दास्याः । कुटुम्बं बन्धुपुत्रादिकम् ॥ ६६ ॥
यदसौ शास्त्रमुल्लङ्घ्य स्वैरचार्यार्यगर्हितः ।
आवर्तत चिरं कालमघायुरशुचिर्मलात् ॥ ६७ ॥
पदरत्नावली
स्वैरचारी निरंकुशत्वेन वर्तमानोऽघायुः पापजीवनः । मलाद् रागादिदोषात्
॥ ६७ ॥
सत्यधर्म
अघायोरित्यृग्भाष्येऽघार्थयोरिति । ‘‘अघायुरिन्द्रियारामो मोघं पार्थ स जीवति’’ इति गीताभाष्ये च । अघनिमित्तमेवायुर्यस्य सोऽघायुरिति व्याख्यानादघायुशब्दार्थो ज्ञेयः । मलात्कृपणा-द्दास्यादेर्निमित्तादशुचिरशुचिरनलविकलोऽग्निहोत्रादिहीन इति यावत् । ‘‘कृपणेऽमल’’ इति विश्वः
॥ ६७ ॥
चट्टी
स्वैरचारी निरंकुशत्वेन वर्तमानः । अघायुरघनिमित्तमायुर्यस्य स तथा । मलमेतदीयमन्नादिकमत्तीति मलात् । स्नानदानादिरहित एवान्नमत्तीति वा । ‘‘अस्नात्वाशीमलं भुङ्क्ते’’ इत्युक्तेः ॥ ६७ ॥
तत एनं दण्डपाणेः सकाशं कृतकिल्बिषम् ।
नेष्यामोऽकृतनिर्वेशं यत्र दण्डेन शुध्द्यति ॥ ६८ ॥
॥ इति श्रीमद्भागवते षष्ठस्कन्धे प्रथमोऽध्यायः ॥ १ ॥
पदरत्नावली
अकृतनिर्वेशं यावता निर्वेशेन पापशुद्धिः स्यात् तावत्पापप्रायश्चित्तं न कृतवांस्तम् । यत्र नीतो यमभटकृतदण्डेन शुद्धो भवति ॥ ६८ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
षष्ठस्कन्धे प्रथमोऽध्यायः ॥
सत्यधर्म
एनमिदमोऽन्वादेशे द्वितीया टौ स्वेन इतीदमः पातकितोपपादनकार्यं प्रत्युपात्तस्य तस्य पुनः संयमिनीनयनदण्डनादिरूपकार्यान्तरं प्रत्युपादानादेनादेशः । अकृतनिर्वेशमननुष्ठितप्रायश्चित्तम् । यत्र नीतः दण्डेन यमदूतकृतेन ॥ ६८ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मयतिकृतायां षष्ठे प्रथमोऽध्यायः ॥ ६–१ ॥
चट्टी
अकृतनिर्वेशमकृतप्रायश्चित्तमस्यैव हितार्थं नेष्याम इत्याहुः ॥ यत्रेति । यत्र नीतो यमभटकृतताडनेन शुद्धो भवतीत्यर्थः ॥ ६८ ॥
॥ इति श्रीभागवतटिप्पण्यां चट्टीव्याख्यायां प्रथमोऽध्यायः ॥ ६–१ ॥