२४ चतुर्विंशोऽध्यायः

महर्षे एतद्वैचित्र्यं लोकस्य कथमिति

॥ अथ चतुर्विंशोऽध्यायः ॥

राजोवाच–

महर्षे एतद्वैचित्र्यं लोकस्य कथमिति ॥ १ ॥

श्रीशुक उवाच–

बहुगुणत्वात्कर्तुः श्रद्धायाः कर्मगतयः पृथग्विधाः सर्वा एव सर्वस्य तारतम्येन भवन्ति ॥ २ ॥

पदरत्नावली

अतिबहुलदुःखभोगस्थानत्वेन नरकलोकस्य हेयत्ववर्णनेन संसारस्याति-हेयत्वेन वैराग्यस्य दार्ढ्यातिशयो जायत इति तन्निरूपयत्यस्मिन्नध्याये । तत्रादौ पूर्वोक्तार्थे प्रश्नमुद्भाव्य परिहृत्य वक्तव्यार्थं प्रतिजानीते– महर्ष इति ॥ अयमर्थः । लोकस्य स्वर्गादि-पातालान्तस्य स्थानस्य विशेषात् तत्स्थस्य जनस्यैतत्प्रत्यक्षेण त्वद्वचनादागमेन च सिद्धत्वात् प्रत्यक्षवदेतदित्युच्यते । वैचित्र्यं कस्यचित्सुखित्वं, कस्यचिद्दुःखित्वं, कस्यचिदुभयरूपत्वं कथं घटते । सुखादिसामान्यविशेषहेतुत्वं च सुखे दुःखे चाल्पमहत्त्वभेदेन तारतम्यं च कथमिति । किञ्चैता गतयः सर्वाः सर्वेषां भवन्ति । किञ्चैकैकस्यैकैका गतिरुतैकस्यानेका गतिरित्येतत्सर्वं परिहरति– बहुगुणत्वादिति ॥ अयमर्थः । कर्तुः श्रद्धाया एवमितः प्रेत्याभिसम्भावितास्मीति बुद्धिलक्षणाया बहुगुणत्वाद्बहुविधत्वाद्युक्तं सत्वादिगुणवैचित्र्येण निर्मितत्वाल्लोकवैचित्र्यं यस्मा-त्सर्वाः कर्मगतयः सर्वस्य भवन्ति (‘अतिभयङ्करनरकनिकरादिविविधदुःखोदर्कस्यास्य क्षणिक-सांसारिकभोगस्यातिहेयत्वेन तत्र सुदृढवैराग्यसम्पादनद्वारा सात्विकप्रकृतिभिर्मुमुक्षुभिर्मोक्ष-प्रदजनार्दनसमर्चनतत्वज्ञानार्जनादि– निवृत्तकर्मैकनिरतैर्भवितव्यमिति ज्ञापनाय नरकयात-नोच्यतेऽस्मिन्नध्याये । पुंसो गतय उच्चावचा विसदृशा इति भोगवैचित्र्यमुक्तं तत् कथमिति पृच्छति– महर्ष इति ॥ लोकस्य जनस्य । सुखसाधनप्रवृत्तिकर्मणां समानत्वात् कथं फलवैचित्र्यमित्यर्थः । श्रद्धावैचित्र्येण कर्मणोऽपि वैचित्र्यात् फलवैचित्र्यं भवतीत्याह– बहुगुणत्वादिति ॥ सत्त्वादिगुणभेदेन इज्यदेवताभेदेन च बहुविधत्वादित्यर्थः । ‘त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्विकी राजसी चैव तामसी चेति तां शृणु ॥ सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥ यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः । प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥’ इत्यादेः ।’ इति कपाठः) ॥ १-२ ॥

प्रकाशिका

पुंसो गतय उच्चावचा विसदृशा इति भोगवैचित्र्यमुक्तम् । तत्कुत इति पृच्छति ॥ महर्ष इति । लोकस्य जनस्य कथं सुखसाधनप्रवृत्तकर्मणां समानत्वादित्याशयः ॥ कर्मणः श्रद्धावैचित्र्येण वैचित्र्यात्फलवैचित्र्यमिति परिहरति ॥ बहुगुणत्वादिति । सत्त्वादि-भेदेनेज्यदेवताभेदेन च बहुविधत्वादित्यर्थः । सर्वा एव सर्वस्य भवन्तीति । ‘‘यो यो यां यां तनुं भक्तः श्रद्धयाऽर्चितुमर्हति । तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् । स तया श्रद्धया युक्तस्तस्याराधनमीहते । लभते च ततः कामान् मयैव विहितानिति’’ । ‘‘यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः । प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जना’’ इति वचनादित्याशयः

॥ १-२ ॥

अथेदानीं प्रतिषिद्धलक्षणस्याधर्मस्य तथैव कर्तुः श्रद्धाया वैसादृश्यात्कर्मफलं विसदृशं भवति ॥ ३ ॥

पदरत्नावली

अथ तस्माच्छास्त्रनिषिद्धस्याधर्मस्य तथैव कर्तुः श्रद्धाया वैसादृश्याद्विरुद्ध-स्वरूपत्वात् कर्मफलमपि विरुद्धम् (‘प्रतिषिद्धं प्रतिषेधः स एव लक्षणं प्रमाणं यस्य तस्य ।’ इति कपाठः) ॥ ३ ॥

प्रकाशिका

एवं सात्त्विकादिभेदेन त्रिविधस्य प्रवृत्तधर्मस्य फलभूतां गतिं निरूप्ये-दानीमधर्मस्य गतिं निरुपयिष्यामीति प्रतिजानीते ॥ अथेति ॥ प्रतिषिद्धं प्रतिषेधः स एव लक्षणं प्रमाणं यस्य तस्याधर्मस्य कर्तुः श्रद्धायाः परलोकविषयबुद्धेर्वैसादृश्यात् तामसतरतामस-तमादिभेदेन वैलक्षण्यात् । कर्मफलमधर्मफलं तथैव धर्मफलवदेव विसदृशं विलक्षणं भवति न त्वेकप्रकारम् ॥ ३ ॥

या ह्यनाद्यविद्याकामानां तत्परिणामलक्षणाः सृतयः सहस्रशः प्रवृत्तास्ताः प्राचुर्येणानुवर्णयिष्यामः ॥ ४ ॥

पदरत्नावली

ततः किं तत्राह– या हीति ॥ अनाद्यविद्यया विलसितकामानां प्राणिनां तत्परिणामलक्षणास्तेषामनाद्यविद्याकामानां परिपाकनिमित्तपापकर्मविकारलक्षणा याः सृतयो गतयः सहस्रशः प्रवृत्ताः(‘गतयो नरकरूपाः’ इति कपाठः) ताः प्राधान्येनानुवर्णयिष्याम इत्यन्वयः ॥ ४ ॥

प्रकाशिका

अथ तस्मादनाद्यविद्याकामानां जीवानां तत्परिमाणलक्षणा अधर्मपरिपाक-स्वरूपा याः सृतयो गतयो नरकरूपास्ता इदानीं प्राचुर्येणानुवर्णयिष्याम इत्यन्वयः ॥ ४ ॥

राजोवाच–

नरका नाम भगवन् किं देशविशेषा अथवा बहिस्त्रिलोक्या आहोस्वि-दन्तराल इति ॥ ५ ॥

पदरत्नावली

पृष्टेनैवोत्तरं वाच्यमित्यतः परिक्षित्पृच्छति– नरका इति ॥ किं केचन देशविशेषा उत महादुःखानुभवलक्षणशब्दवाच्याः । प्रथमे ते त्रैलोक्याद्बहिरन्तर्वा द्वितीये कस्यां दिशि कियदधस्तात् कियदुपरीति ॥ ५ ॥

प्रकाशिका

देशविशेषा भूमावेव केचन देशविशेषा इत्यर्थः । आहोस्वित्त्रिलोक्या अन्तराले मध्ये भूमिव्यतिरिक्ते विद्यमाना देशविशेषा इत्यर्थः ॥ ५ ॥

ऋषिरुवाच–

अन्तराल एव त्रिजगत्यास्तु दिशि दक्षिणस्यामधस्ताद्भूमेरुपरिष्टा दण्ड-जलाशयस्याग्निष्वात्तादयः पितृगणा यस्यां दिशि स्वानां गोत्राणां परमेण समाधिना सत्या एवाशिष आशासनानि वसन्ति ॥ ६ ॥

पदरत्नावली

परिहरति– अन्तराल इति ॥ दुःखानुभवसद्भावेऽपि न तच्छब्दवाच्याः किन्तु तदधिकरणदेशविशेषास्त्रैलोक्यान्तराले । तत्रापि भारतखण्डाद् दक्षिणसूत्रपाते (‘दक्षिण-सूत्रनिपाते’ इति कपाठः) भूमेरधस्तादण्डजलाशयस्य गर्भोदकराशेरुपरिष्टाद् दक्षिणस्यां दिशि । निर्द्धारणार्थमेतद्वचनम् ॥ ६ ॥

प्रकाशिका

अन्तिमपक्षमाश्रित्योत्तरमाह ॥ अन्तराल एवेति । अण्डजलाशयस्य गर्भोदकराशेरुपरिष्टात् ॥ ६ ॥

यत्र हवाव भगवान् पितृराजो वैवस्वतः स्वविषयं प्रापितेषु स्वपुरुषैर्जन्तुषु सम्परेतेषु यथाकर्मावद्यमेवानुल्लङ्घितभगवच्छासनः सगणो दमं धारयति ॥ ७ ॥

पदरत्नावली

यथा कर्मनिर्मितपापमनुल्लङ्घितमनतिक्रान्तं भगवतो हरेः शासनमाज्ञा येन स तथा (‘वैवस्वतः सूर्यपुत्रो यमः स्वपुरुषैः स्वविषयं स्वदेशं दण्डस्थानं प्रापितेषु जन्तुषु यथाकर्मावद्यं कर्मनिर्मितपापमनतिक्रम्य दमं दण्डं धारयति । सर्वनियामकस्य स्वतन्त्रस्य हरेराज्ञानुसारेणैव प्रवर्ततेऽसौ समवर्तीत्याह– अनुल्लङ्घितेति ॥ अनुल्लङ्घितमनतिक्रान्तं भगवतो हरेः शासनमाज्ञा येन स तथा ।’ इति कपाठः)॥ ७ ॥

प्रकाशिका

यथ कर्मावद्यं कर्मनिर्मितपापमनतिक्रम्य दमं दण्डम् ॥ ७ ॥

तत्र हैके नरकानेकविंशतिं गणयन्ति अथ तांस्ते राजन्नामरूपलक्षणतोऽनु-क्रमिष्यामस् तामिस्रोऽन्धतामिस्रो रौरवो महारौरवः कुम्भीपाकः कालसूत्र असीपत्रवनं सूकरमुखोऽन्धकूपः कृमिभोजनः सन्दंशस्तप्तभूमिर्वज्रकण्टकः शाल्मलीवैतरणीपूयोदः प्राणरोधो विशसनं लालाभक्षः सारमेयादनमवीचीपूरं रेतःपानमिति ॥ ८ ॥

पदरत्नावली

तस्यां दिशि विद्यमानान्नरकानेकविंशतिं सङ्ख्याति– तत्र हेति ॥ तत्र हेत्यनेन ‘सप्त प्रधानाः सन्ति’ इति स्मृतिप्रसिद्धिं द्योतयति (‘नरकान् प्रधानान्’ इति कपाठः)

॥ ८ ॥

किञ्चान्येऽपि क्षारकर्दमो रक्षोगणभोजनः शूलप्रोतो दन्दशूकः पटनिरोधः पर्यावर्तनं सूचीमुखमित्यष्टाविंशतिनरका विविधयातनाभूमयः ॥ ९ ॥

पदरत्नावली

नैतावता समाप्तिः किं तथापि सन्तीत्याह– किञ्चेति ॥ तान्देशान् विशिनष्टि– क्षारकर्दम इति ॥ विविधयातनाभूमयः नानाविधदण्डस्थानविशिष्टाः ‘यातना तीव्र-वेदना’ इति वचनाद् दुःखासम्भिन्नप्रदेशा इत्यर्थः ॥ ९ ॥

**तत्र ह यस्तु परवित्तापत्यकलत्राण्यपहरति स हि कालपाशबद्धो यमपुरुषै-रतिभयानकैस्तामिस्रे नरके बलान्निपात्यते । अनशनातिपानदण्डसन्ताडन-सन्तर्जनादिभिः पात्यमानो जन्तुर्यत्र कश्मलमासादित एकदैव मूर्छामुपयाति तमिस्रप्राये ॥ १० ॥ **

पदरत्नावली

तत्तन्नरकेषु तत्तद्दुष्कर्मनिमित्तदुःखविशेषानाह– तत्रेति ॥ पात्यमानः दुःखानुभवीक्रियमाणः । कश्मलं बहुदुःखम् । एकदेति विशेषणात् कदाचिन्मूर्छां न यातीति विशेषो ज्ञायते । यातनाभिः पर्यायेण पीड्यमानत्वादित्यर्थः (‘दुरितभेदेन नरकयातनाभेदं निरूपयति– तत्र ह यस्त्वित्यादिना ॥ यात्यमानः पीड्यमानो जन्तुर्यत्र तामिस्रप्राये अन्धकारबाहुल्ये स्थाने कश्मलं बहुदुःखमासादितः सन् । इति कपाठः) ॥ १० ॥

प्रकाशिका

पात्यमानः पीड्यमानः । एकदेति विशेषणात् कदाचिन्मूर्च्छां न यतीति सूचयति ॥ १० ॥

एवमेवान्धतामिस्रे यस्तु वञ्चयित्वा पुरुषं धनदारादीनुपभुङ्क्ते यत्र शरीरी निपात्यमानो यातनास्थो वेदनया नष्टमतिर्नष्टदृष्टिश्च भवति । यथा हि वनस्पतिर्वृंश्च्यमानमूलस्तस्मादन्धतामिस्रं तमुपदिशन्ति ॥ ११ ॥

पदरत्नावली

वृश्च्यमानमूलश् छिद्यमानशिफः । यस्मान्नष्टदृष्टिस्तस्मादन्धतामिस्रम् अन्धत्वापादकान्धकारयुतमित्यर्थत्वादुपदिशन्ति । मूर्छया बुद्धिनाशात् तामिस्रे, अन्धतामिस्रे तु चाक्षुषज्ञानस्य सर्वात्मना नाशादुभयोः सामान्यविशेषसद्भावाद् विशेषः (‘वृश्च्यमानमूलश् छिद्यमानमूलः । ‘ओ व्रश्चू छेदने’ इति धातुः ।’ इति कपाठः) ॥ ११ ॥

यस्त्विह वा एतदहमिति ममेदमिति भूतद्रोहेण केवलं कुटुम्बमेवानुदिनं पुष्णाति । स तदिह विहाय स्वयमेव तदशुभेन रौरवे निपतति ॥ १२ ॥

पदरत्नावली

एतच्छरीरमहमिति, इदं क्षितिमण्डलं ममेति भ्रान्त्या । तु वै महातारतम्यद्योतकौ । इतिशब्दौ प्रत्येकरौरवप्राप्तिनिमित्ते भवत इति द्योतयतः ॥ १२ ॥

प्रकाशिका

एतद्गृहादिकमहं करोमीदं धनादिकं ममेति । बुद्ध्येति शेषः ॥ १२ ॥

ये चेह यथैवामुना विहिंसिता जन्तवः परत्रयमयातना उपगतं त एव रुरवो भूत्वा तथा तमेव विहिंसन्ति तस्माद्रौरवमित्याहुः । रुरुरिति सर्पादतिक्रूर-सत्वापदेशः ॥ १३ ॥

पदरत्नावली

प्रकारान्तरेण रौरवं निर्वक्ति– ये चेति ॥ एवं द्वयं कर्त्रन्तरव्यावर्त्तकम् । रुरवः मृगाः किं नेत्याह– रुरुरिति ॥ रुरुरित्यपदेशो व्यपदेशः (‘के ते रुरव इत्याकाङ्क्षाया-माह– रुरुरिति ॥ सर्पादप्यतिक्रूरस्य सत्त्वस्य प्राणिविशेषस्य अपदेशः सञ्ज्ञा ।’ इति कपाठः)। ‘मृगा नानाविषमुखा रुरवः परिकीर्तिताः’ इत्यभिधानम् ॥ १३ ॥

प्रकाशिका

त एव एतदनुसन्धानवन्तो यमदूता एव ॥ १३ ॥

**एवमेव महारौरवो यत्र निपतितं पुरुषं क्रव्यादारुरवस्तत्क्रव्येण **

खादयन्ति यः केवलं हि देहम्भरः ॥ १४ ॥

पदरत्नावली

रौरवाद्विशेषमाह– यत्रेति ॥ देहम्भरः, तथा पततीति शेषः (‘यो हि प्राणिद्रोहेण केवलं देहम्भरः स्वशरीरपोषणपरः । क्रव्येण मांसेन निमित्तेन ।’ इति कपाठः)

॥ १४ ॥

प्रकाशिका

अतिक्रूरस्य सत्त्वस्य प्राणिनोऽपदेशो व्यपदेशः केवलं हि देहंभरो यस्तं पुरुषमित्यन्वयः ॥ १४ ॥

यस्त्विह वा उग्रः पशून् पक्षिणो वा प्राणिन उपरुन्धयति तमकरुणं पुरुषादैरपि विगर्हितममुत्र यमानुचराः कुम्भीपाके तप्ततैल उपरुन्धयन्ति ॥१५॥

पदरत्नावली

उपरुन्धयन्ति अशक्यश्वासमोक्षो यथा भवति तथोपरोधं कारयन्तीत्यर्थः (‘उपरन्धयति पचति । ‘रधि दाहे’ इति धातुः’ इति कपाठः) ॥ १५ ॥

प्रकाशिका

उपरुन्धयन्ति श्वासमोक्षो यश्च न भवति तथा कारयन्तीत्यर्थः ॥ १५ ॥

यस्त्विह पितृभ्रातृब्रह्मध्रुक् तदर्थापहर्ता वा स कालसूत्रसंज्ञे नरकेऽयुत-योजनपरिमण्डले ताम्रमये खले तप्ततल उपर्यधस्तादग्न्यर्काभ्यां तप्यमानेऽभि-निवेशितः क्षुत्पिपासाभ्यां च दह्यमानान्तर्बहिः शरीर आस्ते शेते तिष्ठति परिधावति याचति च यावन्ति पशुरोमाणि तावद्वर्षसहस्राणि कालसूत्रसंज्ञके नरके निवसति ॥ १६ ।

पदरत्नावली

अधस्ताद् अग्निरूपर्यर्कः खले धान्यादिशोषणस्थलस्थानीये । न केवलं पित्रादिध्रुक् चतुष्पाद्धिंसकोऽप्येवमित्याह– यावन्तीति (‘खले समप्रदेशे । अधस्तादग्नि-रुपर्यर्कस्ताभ्याम् ।’ इति कपाठः)॥ १६ ॥

प्रकाशिका

अधस्तादग्निरुपर्यर्कस्ताभ्यां तदा खले । धान्यशोषणस्थलं खलमित्युच्यते । तद्वद्विद्यमानप्रदेश इत्यर्थः ॥ १६ ॥

यस्त्विह वै निजवेदपथादनापपद्यगतः पाषण्डं चोपगतस्तमसि पत्रवनं प्रवेश्य कशया प्रहरन्ति । तत्र हासादित इतस्ततो धावमान उभयतो धारै-स्तालवनासिपत्रैश्छिद्यमानसर्वाङ्गो हा हतोऽस्मीति परमया वेदनया मूर्च्छितः पदे पदे निपतति । स्वधर्महा पाषण्डानुगतः फलं भुङ्क्ते ॥ १७ ॥

पदरत्नावली

अनापदीति ॥ विशेषणादापदि कञ्चनानुग्रहं सूचयति । ‘धाराऽस्त्राग्रेऽम्बु सन्तत्यां सैन्याग्रेऽश्वगतिष्वपि’ इत्यभिधानाद् धाराशब्देन निशितप्रान्तभाग उच्यते(‘उभयतो धारा असिवन्निशितप्रान्तभागा येषां तानि तथा’ इति कपाठः) । तालवनस्य तालसमूह-स्यासिवन्निशितधारपत्रैः । स्वधर्मः स्ववर्णादिविहितः(‘स्वधर्महा श्रुतिविहितस्वधर्मपरित्यागी’ इति कपाठः) ॥ १७ ॥

यस्त्विह राजा राजपुरुषो वा अदण्ड्ये दण्डं प्रणयति ब्राह्मणे वा शरीरदण्डं स पापीयान्नरकेऽमुत्र सूकरमुखे निपतति तत्रातिबलैर्निष्पीडयमानावयवो यथैवेक्षुदण्डम् आर्तस्वरेण स्वनयन् क्वचिन्मूर्च्छितः कश्मलमुपगतो यथैवेह दृष्टदोष उपरुद्धः ॥ १८ ॥

पदरत्नावली

अदण्ड्ये दण्डनायोग्ये । शरीरदण्डस्ताडनादिः । उपरुद्धः कारागृडे शृृङ्खलायां वा निवेशितः । दृष्टे दोषश् चौर्यादिलक्षणो यस्य स तथा । स दण्ड्यते यथा तथेति (‘अदण्ड्ये दण्डानर्हे । शरीरदण्डं ताडनादि । स्वनयन् रुदन् । दृष्टे दोषश्चौर्यादिलक्षणो यस्य स तथा । उपरुद्धः दण्डितः ।’ इति कपाठः) ॥ १८ ॥

प्रकाशिका

दृष्टःदोषश्चौर्यादिरूपो यस्य सः । यथा इह लोके उपरुद्धः कारागृहे निवेशितः । तथा कश्मलं मोहमुपगतो भवति ॥ १८ ॥

यस्त्विह वै भूतानामीश्वरकल्पितवृत्तीनामविदितपरव्यथानां स्वयं पुरुषोप-कल्पितवृत्तिर्विदितपरव्यथो व्यथामाचरति स परत्रान्धकूपे तदभिद्रोहेण निपतति तत्र हासौ तैर्जन्तुभिः पशुमृगपक्षिसरीसृपैर्मशकयूकमत्कुणमक्षिकादिभिर्ये केचनेहाभिद्रोग्धारस्तैः सर्वतोऽभिद्रुह्यमाणस्तमसि विहतनिद्रानिवृत्तिर-लब्धावस्थानः परिक्रामति यथा कुशरीरे जीवः ॥ १९ ॥

पदरत्नावली

अविदितपरव्यथानामज्ञातपरक्लेशानाम् । ईश्वरेण विधात्रा कल्पिता सहजत्वेन वृत्तिर् मनुष्यादिशरीरभक्षणलक्षणा येषां मत्कुणादीनां तानि तथा तेषाम् । अपकल्पितवृत्तिस् तद्वृत्तिकल्पनासमर्थः । पुरुषेण श्रीहरिणोपकल्पिता प्रावरणादिलक्षणा वृत्तिर्यस्य स तथापीति वा (‘पुरुषेण श्रीहरिणा स्वस्ववर्णाश्रमानुसारेण विधिनिषेधपूर्वकमुप-कल्पिता वृत्तिर्यस्य स तथा । अभिद्रुग्धा विहिंसिताः ।’ इति कपाठः)। यूकाः शूलमुखाः । आदिशब्दात् स्वेदजादयः प्राणिविशेषाः शिरआदिनिलया गृह्यन्ते । कुशरीरे कुष्ठादिदूषितदेहे

॥ १९ ॥

प्रकाशिका

ईश्वरेणोपकल्पिता मनुष्यरक्तपानादिलक्षणा वृत्तिर्येषां मत्कुणादीनां पुरुषेणेश्वरेणोपकल्पिता वृत्तिर्विधिनिषेधादिरूपं वर्तनं यस्य ॥ १९ ॥

यस्त्विह वाऽसंविभज्याश्नाति यत्किञ्चनोपनतमनिवर्तितयज्ञोपायमसंस्कृतं स परत्र कृमिभोजने नरकाधमे निपतति तत्र शतसहस्रयोजने कृमिकुण्डे कृमिभूतः स्वयं कृमिभिरेव भक्ष्यमाणः कृमिभोजनो यावदप्रदत्ता१कृतनिर्वेशस्तावदात्मानं पातयति ॥ २० ॥

पदरत्नावली

यस्तु यत्किञ्चन प्राप्तमन्नफलादिकम् असंविभज्य अतिथिभृत्यबाल-वृद्धादीनभोजयित्वा स्वयं भुङ्क्ते स च । यश्चानिर्वृतयज्ञोपायमकृतदेवता– पूजालक्षणयागादि-श्रेयःसाधनं तदन्नमश्नाति स च । यश्चासंस्कृतं याज्याद्युपस्कारेण शून्यं तदन्नमश्नाति सोऽपि कृमिभोजननामि्न निकृष्टनरके पतति । कृमय एव भोजनं यस्य स तथा । यावद् यावान् अप्रत्तस्यातिथिदेवतादिभ्योऽप्रदत्तस्याकृतस्यासंस्कृतस्य प्रारब्धापरिसमाप्तस्य कर्मणो वा निर्वेशः प्रायश्चित्तलक्षणा प्रतिक्रिया तत् तावतात्मानं नरकाद्यातयति उद्धारयति । अप्रमत्तेति पाठे यावद् अप्रमत्तं बुद्धिपूर्वमकृतो निर्वेशो येन स तथा । तावत्तमात्मानं नरके पातयति प्रापयतीति वेत्येतत्सर्वत्रानुकर्षणीयम् (‘यावत् तदसंविभागादिनिमित्तं पापं तावत् । न कृतो निर्वेशः प्रायश्चित्तं यस्य स तथा’ इति कपाठः) ॥ २० ॥

प्रकाशिका

यत्किञ्चनान्नादिकमुपनतं प्राप्तमसंविभज्यात्ति अतिथ्यादीनभोजयित्वा-प्रदत्त-स्यातिथ्यादिभ्योऽदत्तस्य न कृतो निर्वेशः प्रायश्चित्तं यस्य स तथा ॥ २० ॥

यस्त्विह वै स्तेयेन बलाद्वा हिरण्यरत्नादीनि ब्राह्मणस्य चापहरत्यन्यस्य वा नापदिपुरुषं तममुत्र राजन् यमपुरुषा अयस्मयैरग्निवर्णैः सन्दंशैस्त्वचि निष्कालयन्ति ॥ २१ ॥

पदरत्नावली

सन्दंशैः सूचीविशेषैस्त्वचि निष्कालयन्त्युद्घाटयन्ति (‘निष्कुषन्ति छिन्दन्ति ।’ इति कपाठः) ॥ २१ ॥

प्रकाशिका

संदंशैः सूचीविशेषैर्निष्कालयन्ति उद्घाटयन्ति ॥ २१ ॥

यस्त्विह वाऽगम्यां स्त्रियं पुरुषं वा योषिदपि गच्छति तावमुत्र कशया ताडयन्तस्तर्जयन्तस्तप्तया सूर्म्या लोहमय्या पुरुषमालिङ्गयन्ति स्त्रियं च पुरुषरूपया सूर्म्या ॥ २२ ॥

पदरत्नावली

सूर्म्या लोहादिमयपुत्तल्या ॥ २२ ॥

प्रकाशिका

सूम्या प्रतिमया ॥ २२ ॥

यस्त्विह वै सर्वाभिगमस्तममुत्र निरये वर्तमानं वज्रकण्टकशाल्मलीमारोप्य निकर्षयन्ति ॥ २३ ॥

पदरत्नावली

सर्वाभिगमः सर्वाभिः स्त्रीभिः कृतसौरतः । संवादाभावेऽपि बलाद् गमनमभिगमः । शाल्मली कण्टकतरुः ॥ २३ ॥

प्रकाशिका

सर्वाभिगमः सर्वाभिः स्त्रीभिः कृतसौरतः शाल्मली कण्टकतरुः ॥ २३ ॥

ये त्विह वा राजन्यो राजपुरुषा वा पाषण्डा धर्मसेतून् भिन्दन्ति ते सम्परेत्य वैतरण्यां निपतन्ति भिन्नमर्यादास् तस्यां निरयपरिखाभूतायां नद्यां यादोगणैरितस्ततो भक्ष्यमाणा आत्मना न वियुज्यमानास्ते स्वासुभिरुह्य-मानाश्चौघेन कर्मपाकमनुस्मरन्तो विण्मूत्रपूयशोणितकेशनखास्थिमेदोमांस-वाहिन्यामुपतप्यन्ते ॥ २४ ॥

पदरत्नावली

आत्मना देहेन स्वासुभिः स्वप्राणैश्च (प्राणैश्च न वियुज्यमानाः’ इति कपाठः) ओघेन निरयप्रवाहेण (‘नदीप्रवाहेण’ इति कपाठः) उह्यमाना अपि वियुज्यमाना अपि ते योगं प्राप्यमाणा अम्रियमाणा इत्यर्थः । विण्मूत्राद्यात्मना स्यन्दमानायाम् ॥ २४ ॥

प्रकाशिका

आत्मना देहेन । स्वासुभिः स्वप्राणैश्च न वियुज्यमाना ओघेन नदीप्रवाहेणोह्यमानाश्चोपतप्यन्त इत्यन्वयः ॥ २४ ॥

**ये त्विह वै वृषलीपतयो नष्टशैचाचारनियमास्त्यक्तलज्जाः पशुचर्यां चरन्ति ते चापि प्रेत्य पूयविण्मूत्रश्लेष्ममलपूर्णार्णवे निपतन्ति तदेवातिबीभत्सितमश्नन्ति **

॥ २५ ॥

प्रकाशिका

पशुचर्यां स्वेच्छाचारम् ॥ २५ ॥

ये त्विह वै श्वगर्दभपतयो ब्राह्मणादयो मृगयाविहारा अतीर्थे च मृगान्निघ्नन्ति तानपि सम्परेताल्लक्ष्यभूतान्यमपुरुषा इषुभिर्विर्द्धन्ति ॥ २६ ॥

पदरत्नावली

अतीर्थे अपात्रमुद्दिश्य अविहितकाले वा (‘अतीर्थे विहितादन्यत्र । विध्यन्ति ‘व्यध ताडने’ इति धातुः । इषुभिर्विध्यन्तीति प्राणरोधनरको विवृतः ।’ इति कपाठः)॥ २६ ॥

प्रकाशिका

अतीर्थे विहितादन्यत्र ॥ २६ ॥

येत्विह वै डाम्भिका डम्भयज्ञेषु पशून्विशसन्ति तानमुष्मिंल्लोके वैशसने नरके पतितान्निरयपतयः पातयित्वा विशसन्ति ॥ २७ ॥

पदरत्नावली

दाम्भिकाः, धर्मध्वजिनः विशसन्ति खण्डशः खण्डयन्ति (‘डाम्भिकाः, धर्माचरणतत्वमजानन्तोऽपि लोकवञ्चनस्वजीवनयात्राद्युद्देशेन स्वधार्मिकत्वप्रदर्शनाय यज्ञाद्यनुष्ठान-निरता इति यावत् । विशसन्ति खण्डशः खण्डयन्ति ।’ इति कपाठः) ॥ २७ ॥

प्रकाशिका

निरयपतयो यमदूताः ॥ २७ ॥

यस्त्विह वै सवर्णां भार्यां द्विजो रेतः पातयति काममोहितस्तं पापकृतममुत्र रेतः कुल्यायां पातयित्वा रेतः पाययन्ति ॥ २८ ॥

पदरत्नावली

सवर्णां स्ववर्णसमानवर्णाम् ॥ २८ ॥

ये त्विह वै दस्यवोऽग्निदागरदाग्रामान् सार्थान् वा विलुम्पन्ति राजाराजभटा वा तांश्चापि हि परे तान्यमदूता वज्रदंष्ट्राः श्वानः सप्तशतानि विंशतिश्च तैः सरभसं खादयन्ति ॥ २९ ॥

पदरत्नावली

सार्थान् पान्थान् (‘अर्थसहितान्’ इति कपाठः) जनान् ॥ २९ ॥

प्रकाशिका

सार्थान्वणिजः ॥ २९ ॥

यस्त्विह वाऽऽनृतं वदति साक्ष्ये द्रव्यविनिमये दाने वा कथञ्चित्स वै प्रेत्य नरके अवीचिमत्यधःशिरा निरवकाशे योजनशतोच्छ्रयाद्गिरिशृृङ्गान्निपात्यते । यत्तज्जलमिव स्थलमश्मपृष्ठमवभासते तदवीचिमतिलशोति विशीर्यमाणशरीरो न म्रियमाणः पुनरारोपितो निपतति ॥ ३० ॥

पदरत्नावली

द्रव्यविनिमये वाणिज्यव्यवहारे । साक्ष्ये साक्षिणा वक्तव्ये । अवीचि-मज्जलं यत्तदश्मपृष्ठं स्थलम् । दूराद्दर्शने जलामिव दृश्यते । तस्मिन्न वीचिमति जलशून्ये पाषाणपृष्ठे निरवकाशे निरालम्बने (‘साक्ष्ये साक्षिणि वक्तव्ये । द्रव्यविनिमये क्रयविक्रयादौ । निरवकाशो निरालम्बः । अवीचिमच्छब्दार्थमाह– यत्रेति ॥ यदश्मपृष्ठस्थलं दूरतो दर्शने जलतरङ्गोपेतस्थलमिवावभासते तदवीचिमदिति ।’ इति कपाठः) ॥ ३० ॥

प्रकाशिका

साक्ष्ये साक्षिणी वक्तव्ये । द्रव्यविनिमये क्रयविक्रयादौ । निरवकाशे निरवलम्बे । आवीचीमच्छब्दार्थमाह ॥ यत्तदिति । तथा चावीचीमतीत्यस्य जलशून्ये पाषाणपृष्ठ इत्यर्थ उक्तो भवतीति ज्ञातव्यम् ॥ ३० ॥

यस्त्विह वै विप्रो राजन्यो वैश्यो वा सोमपीथास्तत्कलत्रं वा सुरां व्रतस्थितो वा पिबति तेषां निरयनीतानामुरसि पदाक्रम्यास्ये वह्निना द्रवमाणं कार्ष्णायसं निषिञ्चन्ति ॥ ३१ ॥

पदरत्नावली

सोमपीथाः कृतसोमपानाः । विप्राणां नित्यनिषिद्धम् । राजन्यतद्भार्याणां सोमपानानन्तरं पूर्वं वीर्यपानलक्षणं वारुणीपानसम्भवात्तद्भार्याणां सुरते मधुपानात् । वैश्यानां च पूर्वोक्तवत् पित्रादिमृतिनिमित्तदीक्षालक्षणव्रतस्थानां वेत्यादिविशेषोऽवगन्तव्यः ॥ ३१ ॥

प्रकाशिका

यस्त्विहेति । अत्रैवं योजना । विप्रस्तत्कलत्रं वा सुरां पिबति । राजन्यस्तत्कलत्रं वा सोमपीथः कृतः सोमपानः । सोमपानानन्तरमिति यावत् । सुरां पिबति वैश्यस्तत्कलत्रं वा पित्रादिव्रतस्थोऽपि सुरां पिबतीति ॥ ३१ ॥

अथ यस्त्विह वा आत्मसम्भावनेन स्वयमधमो जन्मतपोविद्याचारवर्णाश्रम-वतो वरीयसो न बहुमन्येत स मृतक एव मृत्वा क्षारकर्दमे निरयेऽर्वाक्-शिरनिपातितो दुरन्तायातना ह्यश्नुते ॥ ३२ ॥

पदरत्नावली

(‘आत्मसम्भावनेन ‘अहमेव महाविवेकी सर्वसम्मान्यः’ इत्याद्यभिमानेन’ इति कपाठः) वरीयसः बहुमानयोग्यान् पुरुषान् । मृतकः जीवन्मृतः । क्षारकर्दमे लवणात्मक-पङ्के । दुरन्तयातना अनवसानदुःखानि ॥ ३२ ॥

प्रकाशिका

मृतकः जीवन्मृतक एव सन् मृत्वा पुरुषमेधेन पुरुषहत्यया यजेरन् । भैरवादीनिति शेषः ॥ ३२ ॥

ये त्विह वै पुरुषाः पुरुषमेधेन यजेरन्नशास्त्रीयान् वा पशून् खादन्ति याश्च स्त्रियोऽथ पशूंश्च खादन्ति तांश्च ताश्च वै पशव इह निहतास्ते यमसादने यातयन्तो रक्षोगणाः सौनिका इव स्वधितिना विदार्यासृक्पिबन्ति नृत्यन्ति गायन्ति हसन्ति च हृष्यमाणा यथेह पुरुषादाः ॥ ३३ ॥

पदरत्नावली

पुरुषमेधेन पुरुषहत्यालक्षणयज्ञेन । यमसदने नरके । स्वधितिना विशसनखङ्गेनावदाय खण्डयित्वा । सौनिका हिंसकाः, पशुमारा इत्यर्थः (‘पुरुषमेधेन पुरुषमारणलक्षणयज्ञेन भैरवादीन् यजेरन् । सौनिकाः पशुमारकाः । ‘वैतंसिकः सौनिकः स्यात् सूना पश्वादिघातनम्’ इत्युत्पलमाला । स्वधितिना परशुना । ‘परश्वधः कुठारः स्यात् परशुः स्वधितिस्तथा’ इति गोपालः ।’ इति कपाठः) ॥ ३३ ॥

प्रकाशिका

रक्षोगणा रक्षोगणभूता सैनिका हिंसकाः पशुमारा इत्यर्थः । स्वधितिना विशंसनखड्गेन यथेह ते पुरुषादाः सन्तः पूर्वमनृत्यन्त तद्वत् ॥ ३३ ॥

ये त्विह वा अनागसोऽरण्ये ग्रामे वा वैस्रम्भकैरुपविस्रम्भय्य जिजीविषून् शूलसूत्रादिषूपप्रोतान् क्रीडनतया पातयन्ति तेऽपि च प्रेत्य यमयातनानुशूल-सूत्रादिषु प्रोतात्मानः क्षुत्तृड्भ्यां चोपहताः कङ्कबलाकादिभिश्चेतस्ततस्तिग्म-तुण्डैराहन्यमाना आत्मशमलं स्मरन्ति ॥ ३४ ॥

पदरत्नावली

वैस्रम्भकैर् विश्वासोपायैः । उपविस्रम्भय्य विश्वास्य (‘आत्मनः शमलं पापम् ।’ इति कपाठः)। आदिशब्दाद्भृगुपातनम् । क्रीडनतया लीलाकरणभावेन यमयातनासु यमेनाधिकृतनरकेषु । बलाका दीर्घतुण्डाः श्येनविशेषाः ॥ ३४ ॥

प्रकाशिका

विस्रंभकैर्विश्वासजनकोपायैरुपविस्रंभय्य विश्वस्य ॥ ३४ ॥

ये त्विह वै भूतानुद्वेजयन्ति नरा अत्युल्बणस्वभावा यथा दन्दशूकास्तेऽपि प्रेत्य नरके दन्दशूकाख्ये निपतन्ति यत्र नृपदन्दशूकाः पञ्चमुखाः सप्तमुखा उपसृप्य ग्रसन्ति यथा बिलेशयाः ॥ ३५ ॥

पदरत्नावली

दन्दशूकाः सदा दंशनशीलाः सर्पा उद्वेजयन्ति भयमुत्पादयन्ति । उपसृप्य प्राप्य इह लोके यथा बिलेशया अजगराः ‘बिलेशयस्त्वजगरः शयुरुक्तो मनीषिभिः’ इति ॥ ३५ ॥

प्रकाशिका

दंदशूकाः सदा दंशनशीलाः सर्पा इह लोके यथा बिलेशया अजगराः

॥ ३५ ॥

ये त्विह वा अवटकुसूलगृहादिषु भूतानि रुन्धन्ति तथाऽमुत्र तेष्वेवोपवेश्य सगरेण वह्निना धूमेन निरुन्धन्ति ॥ ३६ ॥

पदरत्नावली

अवटं निरुच्छ्वासबिलम् । कुसूलं व्रीहिगर्तगृहङ्कारागृहम् । आदिशब्दा-त्तज्जलमज्जनं दारुपात्रं वा । सगरेण विषसहितेन अग्निनाकृन्तनम् (‘वह्निना जातेन धूमेन’ इति कपाठः) ॥ ३६ ॥

प्रकाशिका

अवटं निरुछ्वासबिलं कुलं सूव्रीहिगर्तः गृहं कारागृहम् । आदि-शब्दाज्जलमज्जनादिकं ग्राह्यम् । सगरेण विषसहितेनाग्निना ॥ ३६ ॥

यस्त्विह वाऽऽतिथीनभ्यागतान्वा गृहपतिरसकृदुपगतमन्युर्दिधक्षुरिवापचक्षुषा निरीक्षते तस्य चापि निरये पापदृष्टेरक्षिणी वक्रतुण्डा गृध्रकङ्ककाकबलाकादयः प्रसंह्योरुबलादुत्पाटयन्ति ॥ ३७ ॥

पदरत्नावली

अपचक्षुषातिरश्चीनेन नेत्रेण (‘अतिथयोऽज्ञातपूर्वाः । अभ्यागता ज्ञातपूर्वाः ।’ इति कपाठः) ॥ ३७ ॥

प्रकाशिका

अतिथयोऽज्ञातपूर्वा अभ्यागता ज्ञातपूर्वाः पापचक्षुषा वक्रीकृतेन नेत्रेण

॥ ३७ ॥

**यस्त्विह वाऽर्थाभिमतिरहङ्कृतिस्तिर्यक्प्रेक्ष्णः सर्वतः शङ्की व्ययविनाश-चिन्तया परिशुष्यमाणहृदयवदनो निर्वृतिमनुपगतो ग्रह इवार्थमभिरक्षति । स चापि प्रेत्य तत्सम्पादनोत्कर्षणसंरक्षणशमलग्रहः सूचीमुखे नरके निपतति यत्र ह वित्तग्रहं पापपुरुषं धर्मराजपुरुषा वायका इव सर्वतोऽङ्गेषु सूत्रैः परिवयन्ति **

॥ ३८ ॥

पदरत्नावली

अर्थेषु अभिमतिरभिमानो यस्य स तथा । अहङ्कृतिरहङ्कारस्वरूपः । व्ययविनाशयोश्चिन्तया ग्रहः ब्रह्मराक्षसादिलक्षणो यथानिधिमन्येभ्योऽभिरक्षति । तथेति शेषः (‘अहङ्कृतिरहङ्कारपूर्णः । ग्रह इव ब्रह्मराक्षसादिवदन्येभ्यो निधिमनुरक्षति’ इति कपाठः)। तस्यार्थस्य सम्पादने अर्जने उत्कर्षणे वृद्धीकरणे संरक्षणे च यच्छमलं तद्गृह्णातीति तत्सम्पाद-नोत्कर्षणसंरक्षणशमलग्रहः । वित्तग्रहम् अर्थलुब्धपिशाचम् । वायकाः पटच्चरैः कन्थानिर्माण-निपुणाः । क्षुरधारानिशितैः सूत्रैः परिवयन्ति ओतप्रोतक्रियया विध्यन्ति ॥ ३८ ॥

प्रकाशिका

अर्थाभिमतिरर्थेष्वभिमानवान् अहंकृतिरहंकारपूर्णो ग्रह इव यथा ब्रह्मराक्षसादिरूपो ग्रहो निधिमन्येभ्यो रक्षति तथेत्यर्थः । तस्यार्थस्य सम्पादनादिभिः शमलं गृण्हातीति तथा वित्तगृहं धनरक्षकपिशाचम् । वायकाः पटचीरैः कंथानिर्माणनिपुणाः परिवयन्ति सूचिप्रोतान् कुर्वन्ति ॥ ३८ ॥

एवंविधा नरका यमलोके सन्ति शतशः सहस्रशस्तेषु सर्वेषु सर्व एवाधर्म-वर्तिनो ये केचिदिहोदिता अनुदिताश्चावनिपते पर्यायेण विशन्ति ॥ ३९ ॥

पदरत्नावली

न इयं त एव नरकाः किन्त्वेतादृशा अन्ये नरका असङ्ख्याताः सन्तीत्याह– एवं विधा इति ॥ ३९ ॥

प्रकाशिका

अन्येऽपि नरका बहवः सन्तीत्याह ॥ एवंविधा इति ॥ ३९ ॥

**तथैव धर्मानुवर्तिन उत्तरत्र इह तु पुनर्भवे उभयशेषाभ्यां निविशन्ति **

॥ ४० ॥

पदरत्नावली

उत्तरत्र स्वर्गादौ । इह मनुष्यलोके । पुनर्भवे पुनरुत्पत्तौ । उभयशेषाभ्यां धर्माधर्मशेषाभ्याम् (पुनर्भवे स्वल्पकालेनैव पुनर्जन्मनिमित्तस्थाने । उभयोर्धर्माधर्मयोः शेषाभ्याम् ।’ इति कपाठः) ॥ ४० ॥

प्रकाशिका

उत्तरत्र स्वर्गादौ इह मनुष्यलोके पुनर्भवे पुनरुत्पत्तिनिमित्ते उभयोर्धर्मा-धर्मयोः शेषाभ्याम् ॥ ४० ॥

निवृत्तिलक्षणमार्ग आदावेव व्याख्यातः । एतावानेवाण्डकोशो यश्चतुर्दशधा पुराणेषूपकल्पितः ॥ ४१ ॥

पदरत्नावली

चतुर्दशधा लोकप्रकारेण (‘आदावेव द्वितीयस्कन्धे ‘वैश्वानरं याति विहायसा गतः सुषुम्नया ब्रह्मपथेन शोचिषा । विधूतकल्कोऽथ हरेरुदस्तात् प्रयाति चक्रं नृप शैंशुमारम्’ इत्यादिना । चतुर्दशधा चतुर्दशलोकप्रकारेण विकल्पितो भगवता विनिर्मितः पुराणेषूद्गीयते ।’ इति कपाठः) ॥ ४१ ॥

प्रकाशिका

आदावेव द्वितीयस्कन्धे वैश्वानरं यातीत्यादिना चतुर्दशधा चतुर्दशलोक-प्रकारेण ॥ ४१ ॥

यस्तद्भगवतो नारायणस्य साक्षान्महापुरुषस्य स्थविष्ठं रुपमात्ममायया गुणमयमनुवर्णितमादृतः पठति श्रुणोति श्रावयति स एवायं भगवतः परमात्मनो ह्यणिष्ठमपि श्रद्धधानो भक्तिविशुद्धबुद्धिर्वेद ॥ ४२ ॥

पदरत्नावली

स्थविष्ठं स्थूलतममणिष्ठं सूक्ष्मतमम् ( ‘स्थविष्ठं ब्रह्माण्डलक्षणं स्थूलं रूपम् । अणिष्ठम् अतिसूक्ष्मं, स्वबिम्बभूतमिति यावत् ।’ इति कपाठः)॥ ४२ ॥

प्रकाशिका

स्थविष्ठं रूपं ब्रह्माण्डलक्षणम् । अणिष्ठंमपि स्वबिंबभूतमपि अणिष्ठज्ञाने स्थूलश्रवणादिकं कारणमित्यर्थः ॥ ४२ ॥

श्रुत्वा स्थूलं तथा सूक्ष्मं रूपं भगवतो याति ।

स्थूले निर्जितमात्मानं शनैः सूक्ष्मधिया नयेदिति ॥ ४३ ॥

पदरत्नावली

उभयो रूपयोः कस्मिन् रूपे प्रथमप्रतिपत्तिरिति क्रममाह– श्रुत्वेति ॥ आत्मानं मनः । सूक्ष्मधिया सूक्ष्मरूपोपासनया (‘उभयो रूपयोः कस्मिन् रूपे प्रथम-प्रतिपत्तिरित्यत्र क्रममाह– श्रुत्वेति ॥ स्थूले रूपे निर्जितं स्थूलोपासानाभिव्यक्तभक्तिविशेष-विशुद्धमात्मानमन्तःकरणं धिया सूक्ष्मोपासनया, सूक्ष्मे रूपे नयेद् गमयेत् ।’ इति कपाठः)

॥ ४३ ॥

प्रकाशिका

एतदेवोपपादयति ॥ श्रुत्वेति । याति जानाति । आत्मानं मनः सूक्ष्मधिया सूक्ष्मोपासनया ॥ ४३ ॥

भूद्वीपवर्षसरिदद्रिनभःसमुद्रपातालदिङ्नरकभागणलोकसंस्थम् ।

**गीतं मया तव नृपाद्भुतमीश्वरस्य स्थूलं वपुः सकलजीवनिकायधाम्नः **

॥ ४४ ॥

॥ इति श्रीमद्भागवतमहापुराणे पञ्चमस्कन्धे चतुर्विंशोऽध्यायः ॥

पदरत्नावली

उक्तार्थमुपसंहरन् प्रतिपत्त्यर्थं सङ्कलय्याह– भूद्वीपेति ॥ सकलजीवानां निकायस्य धाम य आश्रयस्तस्य सकलजीवनिकायो धाम यस्य स तथा वा । तस्येश्वरस्याद्भुतं स्थूलं वपुर्मया तव गीतमित्यन्वयः । कीदृशं भूद्वीपादिलोका एव संस्था अवयवा यस्य तत्तथा तत् (‘यतश्च प्रथमत एवातिसूक्ष्मे मनोऽवधातुमशक्यं, किन्तु स्थूले निवेशितमेव मनः सूक्ष्मे निवेशयितुं शक्यमित्यतः श्रीहरेरतिसूक्ष्मबिम्बरूपोपासनोपयोगितया ‘पातालमेतस्य हि पादमूलम्’ इत्यादिवचनैः स्थूलरूपमुपवर्णितमित्युपसंहरति– भूद्वीपेति ॥ भूद्वीपादय एव संस्था अवयवा यस्य तत् तथा । भागणः ज्योतिर्गणः । सकलजीवनिकायानां धाम आश्रयभूत-मीश्वरस्य श्रीहरेरद्भुतं स्थूलं वपुर्ब्रह्माण्डलक्षणं मया तव गीतमित्यर्थः ।’ इति कपाठः)॥४४॥

वारिजवासावारिजयोनित्रिनयनशतमखमुखसुरमुकुट-

श्रेणिनिषण्णश्रीपदपीठं ससलिलसलिलदृगतिरुचिरुचिरम् ।

मृदुहासेन्द्वानन्दितलोकं दारितदितिसुतततिमदगिरिशिखरम् ।

कृष्णमकृष्णं चिन्तय चेतः शुचितरमतिगुणयदुकुलतिकम् ॥ १ ॥

विजयध्वजतीर्थार्यै रचिता प्रीतये हरेः ।

पदरत्नावली नाम पञ्चमस्कन्धसङ्गता ॥ १ ॥

॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजभट्टारकस्य कृतौ श्रीमद्भागवतटीकायां

पदरत्नावल्यां पञ्चमस्कन्धे चतुर्विंशोऽध्यायः ॥

प्रकाशिका

सुखप्रतिपत्त्यर्थमुक्तं सङ्गृह्याह ॥ भूद्वीपेति । सकलजीवानां निकाय आश्रयो ब्रह्माण्डलक्षणस्तस्य धामाश्रयस्तस्य सकलजीवनिकायो धाम यस्येति वा । भूद्वीपादय एव संस्था अवयवा यस्य तत्तथा तत् ॥ ४४ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागतटिप्पण्यां प्रकाशिकायां पञ्चमस्कन्धे चतुर्विंशोऽध्यायः ॥ २४ ॥

॥ समाप्तश्चायं पञ्चमस्कन्धः ॥