२३ त्रयोविंशोऽध्यायः

अधस्तात्सवितुर्योजनायुते स्वर्भानुर्नक्षत्रवच्चरतीत्येके

॥ अथ त्रयोविंशोऽध्यायः ॥

श्रीशुक उवाच–

अधस्तात्सवितुर्योजनायुते स्वर्भानुर्नक्षत्रवच्चरतीत्येके । योऽसावमरत्वं ग्रहत्वं वालभत भगवदनुकंपया स्वयमसुरापसदः सैंहिकेयो ह्यतदर्हस्तस्य तात जन्म-कर्मणी चोपरिष्टाद्वक्ष्यामः ॥ १ ॥

पदरत्नावली

अथावशिष्टातलादिलोकनिवासिनाम् ऐश्वर्यं श्रीनारायणमाहात्म्यव्यञ्जकमिति तदिह निरूपयति । तत्रादौ शनैश्चरपर्यन्तानां ग्रहाणां स्थितिं निरूप्य राहोः स्थितिः किमिति न निरूपितेति त्वरितमतेर्मन्दस्याशङ्कां परिहरंस्तां निरूप्य सूर्यादीनां मण्डलपरिमाणं निरूप-यति– अधस्तादिति (‘सूर्यादुपरितनसन्निवेशं निरूप्याधुना सूर्यादधःस्थितसन्निवेशं वक्ति– अधस्तादिति ॥’ इति कपाठः) ॥ एके पौराणिकाः स्वर्भानुर्नक्षत्रवन् नभोमध्यमण्डले मेरुं परितः प्रादक्षिण्येन चरतीति वदन्ति । केचिन् मौहूर्तिका मानसोत्तरबहिर्भूतप्रान्तभूमेरागत्य समुदेत्य पुनः पश्चिमभागे भूमावेवास्तमित्वा पातालविवरमध्य एव पूर्वदिशं गत्वा मानसोत्तरे बहिः प्रान्तभूमेरेव पूर्वस्यां दिशि उदेत्य पश्चिमस्यां दिशि भूमावेवास्तमेतीत्येवं सङ्गिरन्ते । अत एव कदाचित् पातालग्रहणमभूदिति च भाषन्ते । अपरे मेरो प्रादक्षिण्येन नभोवलये चरन् पश्चिमत उदेत्य पूर्वस्यां दिश्यस्तं गच्छतीत्याचक्षते । अतदर्हो ऽमरत्वायोग्यः ॥ १ ॥

प्रकाशिका

सूर्यमारभ्य ध्रुवान्तं ज्योतिर्गणस्थितिं निरूप्येदानीं सूर्यादधस्ताद्विद्यमानस्य राहोः स्थितिं निरूपयति ॥ अधस्तादिति । स्वर्भानू राहुर्नक्षत्रवदिति नभो मध्यमण्डले मेरुं परितः प्रादक्षिण्येनैव चरतीत्यर्थः । एके पौराणिकाः पूर्वस्यां दिशि भूमावेव समुदेत्य पश्चिमस्यां दिशि भूमावेवास्तमेतीत्येवं मतान्तरसूचनायैक इत्युक्तम् । आलभत लेभे । सैंहिकेयः सिंहिकायाः पुत्रः । अतदर्होऽमरत्वायोग्यः ॥ १ ॥

यददस्तरणेर्मण्डलं प्रतपति तद्विस्तारतो योजनायुतमाचक्षते । द्वादशसहस्रं सोमस्य त्रयोदशसहस्रं राहोर्यः पर्वणि तद्व्यधानकृद्वैरानुबन्धात्सूर्याचन्द्र-मसावभिधावति ॥ २ ॥

पदरत्नावली

तरणिमण्डलं दशसहस्रयोजनविस्तृतम् । ततो द्विगुणं सोममण्डलं विंश-त्सहस्रयोजनविस्तृतं द्वादशसहस्रं द्विदशसहस्रमित्यर्थः । सोममण्डलाद् द्विगुणं चत्वारिंश-त्सहस्रयोजनेन विस्तृतम् । राहुमण्डलं त्रयोदशसहस्रमित्यनेन त्रिदशेति युक्त्या त्रिंशत्सङ्ख्या लभ्यते । पुनश्च दशसङ्ख्या सोममण्डलाद्द्विगुणोक्त्या । कुत एवं कल्पना यथा स्थितव्याख्यान-मन्तरेणेति चेत् । न । ‘राहुसोमरवीणां तु मण्डलाद्द्विगुणोक्तितां विनैव सर्वमुन्नेयम्’ इति वचनात् । राहुसोमरवीणां च मण्डलाद् द्विगुणोक्तिताम् । विनैव सर्वमुन्नेयं योजनाभेदतोऽत्र तु’ इति ब्रह्माण्डोक्त्या योजनाविशेषोऽवगन्तव्यः । ग्रहणं वक्तुमाह– य इति ॥ तद्व्यवधानकृद् अमृतपानसमये तयोः सूर्यचन्द्रयोर्मध्ये प्रवेशेन व्यवधानं करोतीति तथा । अत एवैताभ्यां सूचितत्वात् तयोर्वैरमनुबध्नातीति तथा ।’) ॥ २ ॥

प्रकाशिका

इदानीं सूर्यादिमण्डलानां परिमितिमाह ॥ यदद इति ॥ द्वादशसहस्र-मिति । द्विदशसहस्रमित्यर्थः । विंशतिसहस्रपरिमितमिति यावत् । तेन सूर्यमण्डलाद्द्वि-गुणोक्तिता लभ्यते ॥ त्रयोदशसहस्रमिति । अत्र दशशब्दो दशकपरः । स चावर्तनीयः । तेन त्रयोदशकस्त्रिंशदथ च दशेति व्याख्येयम् । तथा च राहुमण्डलस्य सोममण्डलाद्द्विगुणोक्तिता वा चत्वारिंशत्सहस्रपरिमितोक्तिता लभ्यत इति द्रष्टव्यम् । अत एवोक्तं भगवत्पादैः, ‘‘राहुसोमरवीनां तु मण्डलाद्द्विगुणोक्तिताम् । विनैव सर्वमुन्नेयं योजना भेदतोऽत्र चे’’ति ॥ ग्रहणं वक्तुमाह ॥ य इति । यो राहुः पर्वणि सूर्याचन्द्रमसावभिधावतीत्यन्वयः । पर्वकाल एव तस्य तादृशं सामर्थ्यमायाति नान्यदेत्याशयः । अभिधावति तौ गृहीतुमिति शेषः । तत्र हेतुसूचनाय तद्व्यवधानकृद् वैरानुबन्ध इति विशेषणद्वयम् । अमृतपानसमये तयोः सूर्यचन्द्रयो-र्मध्ये उपवेशनेन व्यवधानं करोतीति । तथा अत एवैताभ्यां सूचितत्वात्तयोर्वैरमनुबध्नातीति तथा

॥ २ ॥

तन्निशाम्योभयत्रापि भगवताऽभिरक्षणाय प्रयुक्तं सुदर्शनं नाम भागवतं चक्रं दुर्विषहं परिवर्तमानमभ्यवस्थितो मुहूर्तमुद्विजमानश्चकितहृदय आरादेव निवर्तते तदुपराग इति वदन्ति लोकाः ॥ ३ ॥

पदरत्नावली

भागवतं भगवतः प्रियम् । तदस्य प्रियमित्यस्मिन्नर्थेऽण्प्रत्ययः । परिवर्तमानं (परिवर्तमानं परिभ्रमत्, दृष्ट्वेति शेषः । अभि चक्राभिमुखं मुहूर्तमवस्थितः सन् उद्विजमानः भीतः, चकितहृदयः कम्पितहृदय आराद् दूरादेव निवर्तते । तद् राहोर्मध्यस्थित्या व्यवधानेन सूर्यचन्द्रयोरदर्शनमेव लोका उपरागं ग्रहणं वदन्ति ।’ इति कपाठः) मण्डलमिति शेषः । चक्राभिमुखमवस्थित उद्विजमानः वेगेन चलन् आराद् दूरात् ॥ ३ ॥

प्रकाशिका

भागवतं भगवतः प्रियम् । परिवर्तमानं परितो भ्रमत् । तदभिमुखं मुहूर्तमवस्थानम् । उपरागो ग्रहणम् ॥ ३ ॥

ततोऽधस्तात्सिद्धचारणविद्याधराणां सदनानि तावन्मात्र एव ॥ ४ ॥

पदरत्नावली

तावन्मात्रे अयुतमात्रे ॥ ४ ॥

प्रकाशिका

तावन्मात्रेऽयुतयोजनमात्रे ॥ ४ ॥

ततोऽधस्ताद्यक्षरक्षःपिशाचभूतप्रेतगणानां विहाराजिरमन्तरिक्षं यावद्वायुर्वाति यावन्मेघा उपलभ्यन्ते ॥ ५ ॥

पदरत्नावली

(विहारार्थमजिरमङ्गणस्थानीयम् । पृथिव्या उपरि पार्थिवपक्षिसञ्चार-प्रदेशोऽपि पृथिवीत्वेन विवक्षित इत्याह– ततोऽधस्तादिति ॥ इति कपाठः) ॥ ५ ॥

प्रकाशिका

विहारार्थमजिरमङ्गणस्थानीयम् ॥ ५ ॥

ततोऽधस्ताच्छतयोजनान्तरे चेयं पृथिवी यावद्धंससारसश्येनसुपर्णादयः पतत्रिप्रवरा उत्पतन्तीत्युपवर्णितं भूमेर्यथा संनिवेशमवस्थानम् ॥ ६ ॥

प्रकाशिका

पृथिव्या उपरि पार्थिवपक्षिसञ्चारप्रदेशोऽपि पृथिवीत्वेन विवक्षित इत्याह ॥ ततोऽधस्ताच्छतयोजनान्तर इति ॥ ६ ॥

अवनेरप्यधस्तात्सप्त भूविवरा एकैकशो योजनायुतायामविस्तारास्तारतम्ये-नोपक्लृप्ता अतलं वितलं सुतलं तलातलं महातलं रसातलं पातालमिति ॥ ७ ॥

पदरत्नावली

भूविवराः पातालादयः । तारतम्येनोपक्लृप्ताः सुखादिसामान्यविशेषाभ्याम् और्ध्वाधः क्रमेणेति वा (‘तारतम्येन विविधसुखविहारप्रकारतारतम्येन’ इति कपाठः)॥ ७ ॥

प्रकाशिका

भूविवरा अतलादयस्तारतम्येन सुखाधिक्यतारतम्येन । और्ध्वाधःक्रमेणेति वा ॥ ७ ॥

एतेषु हि बिलस्वर्गेषु स्वर्गादप्यधिकाः सकलसम्पत्समृद्धयः कामभोगैश्वर्या-नन्दविभूतिभिः सुसमृद्धभवनोद्यानाक्रीडाविहारेषु दैत्यदानवकाद्रवेया नित्य-प्रमुदितानुरक्तकलत्रापत्यबन्धुसुहृदनुचरा गृहपतय ईश्वरादप्यप्रतिहतकामविनोदा निवसन्ति ॥ ८ ॥

पदरत्नावली

समृद्धिरुद्रेकः विभूतिः सन्ततिपरम्परासमृद्धभवनोद्यानाक्रीडेषु आविहारो यत्र ते तथा तेष्वाक्रीडः मिथुनक्रीडायोग्यपर्वत आविहारो भूलोकविहारविलक्षणत्वाद् ईश्वरात् शिवात् । तथा त्वं वराद्वा (‘आक्रीडाविहारशब्दौ मिथुनक्रीडास्थानप्रकटविहारस्थानपरौ । ईश्वरात् शिवादप्यप्रतिहता कामविनोदा येषां ते तथा । तथात्वं च वरादित्यवगन्तव्यम् ।’ इति कपाठः) ॥ ८ ॥

प्रकाशिका

सामान्यतो विवराणि वर्णयति ॥ एतेष्वित्यादिना । अथातलमित्यतः प्राक्तनेन ग्रन्थेन एतेषु दैत्यादयो निवसन्तीत्यन्वयः । कथम्भूतेषु । अधिकः कामभोगश्चैश्वर्या-नन्दश्च विभूतिः सम्पत्तिश्च तैः सुममृद्धा भवनादयो येषु । आक्रीडाविहारशब्दौ क्रीडाविशेष-योग्यस्थानपरौ । कथम्भूताः । नित्यप्रमुदिता अनुरक्ताः कलत्रादयो येषाम् । ईश्वराच्छिवात् । तथात्वं च वरादित्यवगन्तव्यम् ॥ ८ ॥

येषु महाराज मयेन मायया निर्मिताः पुरो नानामणिप्रवेकविरचितविचित्र-भवनप्राकारगोपुरसभाचैत्यचत्वरायतनादिभिर्नानास्वनमिथुनपारावतशुक-सारिकाकीर्णकृत्रिमभूमिभिर्विवरेश्वरगृहोत्तमैः समलङ्कृताश्चकासन्ति ॥ ९ ॥

पदरत्नावली

येषु विवरेषु पुरः पुराणि चकासन्ति विलसन्तीत्यन्वयः । मायया अर्थ-क्रियया कारणशक्तिलक्षणोपादानभूतया निर्मिता नानामणीनां प्रवेकैः श्रेष्ठैर्विरचितविचित्र-भवनादिभिरुपलक्षिताः । चैत्यं देवालयम् । आयतनं (‘चत्वराणि चतुष्पथाः, आयतनानि प्रवासिजनविश्रामस्थानानि’ इति कपाठः) पाषाणबद्धवृक्षमूलस्थानम् । नानास्वनैर् मिथुनतो वर्तमानैः पारावतादिभिराकीर्णाः कृत्रिमभूमयो येषु ते तथा तैः । विवरेश्वराणां गृहोत्तमैरन्तः-पुरश्रेष्ठैः ॥ ९ ॥

प्रकाशिका

येषु विवरेषु मयेन मायया मन्त्रौषधादिरूपया निर्मिताः पुरः पुराणि चकासन्तीत्यन्वयः । कथंभूताः । नानामणीनां प्रवेकाः श्रैष्ठास्तैर्विरचितैर्विचित्रैर्भवनादिभि-र्विवरेश्वराणां गृहोत्तमैश्च समलंकृताः । कीदृशैर्गृहोत्तमैः । नानास्वनैर्मिथुनैर्मिथुनतो वर्तमानैः पारावतादिभिराकीर्णाः कृत्रिमभूमयो येषु ते तथा तैः ॥ ९ ॥

उद्यानानि चातितरां मनइन्द्रियानन्दिभिः कुसुमफलस्तबककिसलयावनत-रुचिरविटपैर्विटपिनां कनकलतालिङ्गितानां श्रीभिः समिथुनविहंगकुलकोलाहल-जलाशयानाममृतजलपूर्णानां खषकुलोल्लङ्घनक्षुभितनीरनीरजकुमुदकुवलयकह्लार-नीलोत्पलशतपत्रादिवनेषु कृतनिकेतानामेनकविहाराकुलमधुकराणां मधुकर-विविधस्वनादिभिरिन्द्रियोत्सवैरमरलोकश्रियमतिशयितानि ॥ १० ॥

यत्र ह वा न भयमहोरात्रिभिः कालविभागैरुपलक्ष्यते ॥ ११ ॥

पदरत्नावली

येषु विवरेषूद्यानानि चकासन्ति (‘येषु विवरेषूद्यानानि चामरलोकश्रिय-मतिशयितानि अतिक्रान्तानि चकासतीत्यन्वयः’ इति कपाठः) विटपिनां वृक्षाणां मन-आदीन्द्रियानन्दहेतुभिः । विटपैः शाखाभिः (‘कुसुमादिभिरवनता रुचिरा विटपाः शाखास्तैः’ इति कपाठः) कृताभिः श्रीभिः समृद्धिभिः । कनकेति वृक्षविशेषणम् । अमृतजलपूर्णानांस-मिथुनानां विहङ्गकुलानां कोलाहलशब्दयुक्तानां जलाशयानां सरसां सम्बन्धिनां मत्स्यकुलाना-मुल्लङ्घनेनोत्पत्यपतनेन क्षुभितनीरचञ्चलनीरजादिसमुदायेषु कृतनिवासानाम् अनेकविहाराकुलानां मधुकराणामिन्द्रियोत्सवैर्मधुकरस्वनादिभिः स्वर्गश्रियमतिशयितानि अतिशयोपेतानि उद्यानानीति सम्बन्धः । नीरजं सामान्येन कमलं कल्हारं सौगन्धिकम् । शतपत्रं रक्तकमलम् । आदिशब्देन पुण्डरीकादयो गृह्यन्ते । ‘पुण्डरीकं सिताम्बुजम्’ इत्यभिधानम् ॥ १०-११ ॥

प्रकाशिका

उद्यानानि चातितराममरलोकश्रियमतिशयितानि येषु चकासन्तीत्यन्वयः । कैः । विटपिनां वृक्षाणां मनआदीन्द्रियानन्दहेतुभिः कुसुमादिभिरवनता रुचिरा विटपाः शाखा-विशेषास्तैः । पुनः काभिः । कनकलतालिङ्गितानां वृक्षविशेषाणां श्रीभिः शोभाभिः । पुनः कैः । अनेकविहाराकुलमधुकराणामिन्द्रियोत्सवे मधुकरविविधस्वनादिभिः । कथम्भूतानां मधुकराणाम् । वनेषु कृतनिकेतानाम् । वनवर्णनार्थमुक्तं समिथुनेत्यादि । अमृतजलपूर्णानां समिथुनाश्चक्रवाकादिमिथुनसहिता ये विविधा विहगास्तेषां कोलाहलो येषु तेषां जलाशयानां सरसां सम्बन्धिनां मत्स्यकुलानामुल्लङ्घनमुत्पतनं तेन क्षुभितं यन्नीरं जलाशयजलं तस्मिन्यानि नीरजादीनि तेषां वनेषु नीरजसाम्येन कमलम् । कल्हारं सौगन्धिकं लोहितम् । शतपत्रं तद्विशेषः । अतिशयितान्यतिशयोपेतानि ॥ १०,११ ॥

यत्र हि महाहिप्रवरशिरोमणयः शार्वरं तमः प्रबाधन्ते ॥ १२ ॥

पदरत्नावली

शार्वरं शर्वरीजन्यमिव स्थितं तमः ॥ १२ ॥

प्रकाशिका

शार्वरं शर्वरीभवं तमः ॥ १२ ॥

न वा एतेषु वसतां दिव्यौषधरसपानस्नानादाधयो व्याधयो वलीपलित-जरादयश्च देहवैवर्ण्यदौर्गन्ध्यस्वेदश्रमग्लानिक्लमा इति वयोवस्थाश्च भवन्ति ॥१३॥

पदरत्नावली

पानसहितस्नानाद् आधयो मनोदुःखानि, ग्लानिर्मनोबलक्षयः, क्लमः शारीरबलक्षयः, वयोवस्थाः शैशवादिवयोलक्षणाः (‘आधयो मनोव्यथाः । व्याधयो शरीर-व्यथाः । वलीपलितश्चर्मसङ्कोचः । क्लमः श्रमः । ग्लानिरुत्साहहानिः । वयोवस्थाः शैशवादि-वयःकृतावस्थाः ।’ इति कपाठः) ॥ १३ ॥

प्रकाशिका

वयोऽवस्थाः शैशवादिवयःकृतावस्थाः ॥ १३ ॥

न हि तेषां कल्याणानां प्रभवति कुतश्चन मृत्युर्विना भगवत्तेजसश्चक्राप-देशात् ॥ १४ ॥

प्रकाशिका

चक्रापदेशाच् चक्रशब्दाभिधेयात् ॥ १४ ॥

यस्मिन्प्रविष्टेऽसुरवधूनां प्रायः पुंसवनानि भयादास्रवन्ति पतन्ति च

॥ १५ ॥

पदरत्नावली

यस्मिंश्चक्रे(यस्मिन् सुदर्शनचक्रे’ इति कपाठः) । पुंसवनानि गर्भाः (‘आचतुर्थाद् भवेत् स्रावः पातः पञ्चमषष्ठयोः’ इति स्रावपातयोर्भेदोऽवधेयः’ इति कपाठेऽधिकांशः)॥ १५ ॥

प्रकाशिका

यस्मिंश्चक्राख्ये भगवत्तेजसि पुंसवनानि गर्भाः । आचतुर्थाद्भवेच्छ्रावः पातः पञ्चमषष्ठयोरिति वचनानुसारेण स्रावपातशब्दार्थो ज्ञातव्यः ॥ १५ ॥

अथातले मयपुत्रोऽसुरो बलो निवसति येन ह वा इह सृष्टाः षण्णवतिमायाः काश्चनाद्यापि मायाविनो धारयन्ति यस्य च विजृम्भमाणस्य मुखतस्त्रयः स्त्रीगणा उदपद्यन्त स्वैरिण्यः कामिन्यः पुंश्चल्यः ॥ १६ ॥

पदरत्नावली

एवं सामान्येन विवरलक्षणमुक्त्वा विशेषेणाह– अथेति ॥ नाम्ना बलस् तासु काश्चन मायाः । त्रयो जातिभेदेन । स्वैरिण्यः स्वेच्छानुवृत्तयः(‘सवर्णे रताः स्वैरिण्यः, असवर्णेऽपि रताः कामिन्यः, तत्राप्यतिचञ्चलाः पुंश्चल्यः । इति कपाठः) । कामिन्योऽन्तर्गत-कामोद्रेकाः । पुंश्चल्यः पुरुषमात्रेण सुरतमाकाङ्क्षमाणाः, पुरुषदर्शनमात्रेण परिप्लुतेन्द्रिया वा

॥ १६ ॥

प्रकाशिका

एवं विवरस्वरूपं सामान्यत उक्त्वा विशेषतोऽप्याह ॥ अथातलेत्यादिना । नाम्ना बलस् तासु काश्चनमायास्त्रयो जातिभेदेन स्वैरिण्यः स्वेच्छानुसारेण सवर्णे रताः कामिन्यः परकामानुसारेण सवर्णेऽपि प्रवर्तमानाः पुंश्चल्यः पुरुषमात्रेण सुरतमाकांक्षमाणाः ॥ १६ ॥

या वै बिलायनप्रविष्टं पुरुषं रसेन हाटकाख्येन पाययित्वा स्वविलासाव-लोकनानुरागस्मितसल्लापोपगूहनादिभिः स्वैरं किल रमयन्ति ॥ १७ ॥

पदरत्नावली

सर्वा अपि नियतपुरुषा न भवन्तीत्याह– या इति ॥ बिलायनं बिलस्थानं सल्लापोमिथो भाषणमुपगूहनमालिङ्गनं चुम्बनादिकमादिपदगृहीतम् ॥ १७ ॥

प्रकाशिका

तासां सामर्थ्यमाह ॥ या वा इति । बिलायनं बिलस्थानम् ॥ १७ ॥

यस्मिन्नुपभुक्ते पुरुषा ईश्वरोऽहं सिद्धोऽहमित्ययुतमहागजबलात्मानः कत्थन्ते मदांधा इव ॥ १८ ॥

ततो वितले हरो भगवान् हाटकेश्वरः स्वपार्षदभूतगणावृतः प्रजापति-स्सर्गोपबृंहणाय भवो भवान्या सह मिथुनीभूयाऽस्ते यत्र प्रवृत्ता सरित्प्रवरा हाटका नाम भवयोर्वीर्येण यत्तच्चित्रभानुर्मातरिश्वनेध्यमान अंजसा पिबति तन्निष्पन्नं हाटकाख्यं सुवर्णं भूषणेनासुरेन्द्रावरोधेषु पुरुषाः सह पुरुषीभिर्धार-यन्ति ॥ १९ ॥

पदरत्नावली

यस्मिन् रसे भवयोः पार्वतिपरमेश्वरयोर्यत्तद्वीर्यं चित्रभानुरेध्यमानो वर्द्धमानः । अवरोधा अन्तःपुराणि तेषु । पुरुषीभिः पुरुषवद्बलोपेताभिः स्त्रीभिः (‘भवयोर्भवश्च भवा च भवौ तयोः शिवभवान्योः । चित्रभानुरग्निः । समिध्यमानः प्रज्वलितः । तेनाग्निना निष्ठ्यूतं फूत्कृत्य त्यक्तम् । असुरेन्द्राणामवरोधेषु अन्तःपुरेषु । पुरुषीभिः पुरुषवद् बलोपेताभिः स्त्रिभिः ।’ इति कपाठः) ॥ १८,१९ ॥

प्रकाशिका

यस्मिन् रसे उपभुक्ते सेविते ॥ भवयोर्भवश्च भवा च भवौ तयोर्यत्त-द्वीर्यम् ॥ चित्रभानुरग्निरेध्यमानः वर्धमानः पिबति पानं करोति अवरोधा अन्तःपुराणि पुरुषीभिः स्त्रीभिः ॥ १८,१९ ॥

ततोऽधस्तात्सुतले उरुश्रवाः पुण्यश्लोको विरोचनात्मजो बलिर्भगवता महेन्द्रस्य प्रियं चिकीर्षमाणेनादितेर्लब्धकायो भूत्वा वटुवामनरूपेण पराक्षिप्त-स्वलोकत्रयो भगवदनुकंपयैव पुनःप्रवेशित इन्द्रादिष्वविद्यमानया सुसंवृद्ध्या श्रियाऽभिजुष्टः स्वधर्मेणाराधयंस्तमेव भगवन्तमपगतसाध्वस आस्तेऽधुनापि

॥ २० ॥

पदरत्नावली

उरुणः बहुनः शास्त्रस्य श्रवः श्रवणं यस्य स तथा । पराक्षिप्तमाकृष्टं स्वाधीनं लोकत्रयं यस्य स तथा । प्रवेशितः लोकत्रयेण प्रतिवत्सरम् । क्रियमाणपूजायामिति शेषः (‘पुण्यैः पुण्यपुरुषैः श्लोक्यते कीर्त्यत इति तथा । महेन्द्रस्यादितेश्च प्रियं चिकीर्षमाणेन वटुवामनरूपेण भगवता लब्धोऽभिवृद्धिं प्राप्तः कायो यस्य स तथा त्रिविक्रमरूपी भूत्वा पराक्षिप्तं त्रिपदयाञ्चामिषेण हृतं स्वाधीनं लोकत्रयं यस्य स तथा । प्रवेशितः, सुतले इति शेषः ।’ इति कपाठः) ॥ २० ॥

प्रकाशिका

सुतले बलिरधुनाऽप्यास्त इत्यन्वयः । कथंभूतः । प्रथमं भगवताक्षिप्त-माकृष्टं स्वाधीनं लोकत्रयं यस्य स तथा । प्रवेशितः । सुतल इति शेषः । कथंभूतेन भगवता । लब्धकायो भूत्वा धृतेन वटुवामनरूपेण ॥ २० ॥

नो एवैतत्साक्षाद्वरो भूमिदानस्य यद्भगवत्यशेषजीवनिकायानां जीव-भूतात्मभूते परमात्मनि वासुदेवे तीर्थतमे पात्र उपपन्ने परया श्रद्धया परमादर-समाहितमनसा सम्प्रतिपादितस्य साक्षादपवर्गद्वारस्य यद्बिलनिलयैश्वर्यं यस्य हवा क्षुत्पतनप्रस्खल– नादिषु विवशः सकृन्नामाभिगृणन्पुरुषः कर्मबन्धमञ्जसा विधुनोति ॥ २१ ॥

पदरत्नावली

सर्वस्य जीवराशेरधिकं बलेनैश्वर्यं हरये भूमिदानफलं न तस्य फलं मुक्तिरेव किन्तु पूर्वजन्मार्जितकिञ्चित्पुण्यफलं भवितुमर्हतीत्याह– अधुनापीति ॥ अधुनापि बलेर्बिलनिलये सुतललोके यदैश्वर्यम् एतद्भूमिदानस्य साक्षाद्वरो नो एव मुख्यफलं नैव । कुतो नेति तत्राह– भगवतीति ॥ परमात्मनि सम्यक्प्रतिपादितस्य सपात्रं चेत् कथं तदिति तत्राह– पात्र इति ॥ पात्रगुणमाह– तीर्थतम इति ॥ अतिशयेन शुद्धे । अतो युक्तमित्याह– उपपन्न इति ॥ अन्येषु महात्मसु सत्सु स्वस्यैवोपपत्तिः कथमिति तत्राह– जीवेति ॥ केषामत्राह– अशेषेति ॥ जीवभूतत्वे दुःखित्वेनाशुद्धिरापन्नेति तत्राह– आत्मभूत इति ॥ सदा स्वामिनि इदं स्वामित्वं न लोकवत् किन्तु सदातनमित्यतः– भूत इति ॥ स्वतन्त्रत्वाद्दुःखनिवारणसमर्थ इत्यर्थः । आत्मवत् सर्वभूतप्रेष्ठ इति वा । तर्हि किं तस्य फलमत्राह– साक्षादिति ॥ नन्वश्रद्धया हुतं दत्तमित्यादेः श्रद्धया सहितेन दत्तस्यासङ्कल्पत्वादस्यापि तथात्वेन कथं मुक्ति-द्वारत्वमिति तत्राह– परयेति ॥ प्रत्यक्षफलदर्शनाच्चायमेव पात्रभूत इत्याह– यस्येति ॥ निर्भयं विष्णुनाम्नैव यथेष्टं पदमागतमित्येतदस्मिन्नर्थे प्रमाणमित्याह– हेति ॥ यथा नामसङ्कीर्तनात् कर्मबन्धविध्वंसो भवत्येवं बलेरपीत्यस्मिन्नर्थे वेति । ‘वा विकल्पोपमानयोः’ इत्यमरः । आदि-शब्दात् स्वप्नादिभयदर्शन इति गृह्यते (बलेः सुतलाधिपत्यमिदं भूदानफलमिति केचिदाचक्षते । तन्निराकरोति– नो एवैतदिति ॥ बलेर्यद् बिलनिलयनैश्वर्यं सुतललोके भुज्यमानमैश्वर्यं तदेतद् अशेषजीवनिकायानां ब्रह्मादिजीवसमूहानां जीवभूते प्राणधारके आत्मभूते सदास्वामिनि तीर्थतमे अतिशयेन शुद्धेऽत एवोपपन्ने युक्ते पात्रे भगवति परमात्मनि वासुदेवे परया श्रद्धया सम्प्रतिपादितस्य भूमिदानस्य साक्षाद्वरो मुख्यं फलं नो एव । तर्हि किं तस्य फलमित्यत आह– साक्षादिति । ‘निर्भयं विष्णुनाम्नैव यथेष्टं पदमागतम्’ इत्याद्युक्तरीत्या भक्त्या यन्नामसङ्कीर्तनमपि पुरुषस्य कैवल्यसाम्राज्यादिसाधनं, किमुत तस्मिन् परया श्रद्धया समर्पितं त्रिलोकदानमपवर्गसाधनमित्याशयेनाह– यस्य हवावेति ॥’ इति कपाठः)॥ २१ ॥

प्रकाशिका

केचित्तु बलेरेतत्सुतलाधिपत्यं भूमिदानफलमिति मन्यन्ते । तन्निरा-करोति ॥ नो वा एतदिति । अशेषजीवनिकायानां ब्रह्मादिजीवसमूहानां जीवभूते प्राणधारके आत्मभूते स्वामिन्यत एव परमात्मनि वासुदेवे तीर्थतमेऽतिशयेन शुद्धेऽत एवोपपन्ने युक्ते पात्रे परया शुद्धया सम्प्रतिपादितस्य तस्य भूमिदानस्य यद्विलनिलयैश्वर्यमेतत् । साक्षाद्वरो मुख्यं फलं नो वै नैव तर्हि किमस्य मुख्यं फलमित्यपेक्षायामुक्तम् ॥ साक्षादपवर्गद्वारस्येति । मुख्यतो मोक्ष आनन्दातिशयकारणस्येत्यर्थः । यस्य नामोच्चारणमपि पुरुषस्य मोक्षादिसाधनं तदा किं वक्तव्यं तस्मिन्परया श्रद्धया समर्पितं भूमिदानं मोक्षसाधनं भविष्यतीत्याशयेनाह ॥ यस्य हवावेति । विवशः परमात्मवशत्वानुसन्धानवान् ॥ २१ ॥

यस्य ह वै प्रतिबोधनं तु मुमुक्षवोंऽजसाहोपलभन्ते यत्तद्भगवन्नाम सर्वेषामात्मनामात्मदमेव ॥ २२ ॥

पदरत्नावली

‘तमेवं विद्वानमृत इह भवति’ इति श्रुतेर्ज्ञानमन्तरेण नाम्ना कर्मबन्धहानिः कथम्? अत्राह– यस्येति ॥ प्रतिबोधनं (ज्ञानं) नामसङ्कीर्तनलक्षणकर्मद्वारा ज्ञानं भवति । ‘कर्मणा ज्ञानमातनोति’ इति श्रुतेरित्येतद्वेत्यनेनाह अविगानेन सर्वेषां चेतनानामात्मदं ज्ञान-जननद्वारा सायुज्यफलप्रदम् (‘आत्मनामुक्तरीत्या कर्मक्षयं प्राप्तानामात्मदं सम्यग्ज्ञानजननद्वारा सायुज्यफलप्रदम्’ इति कपाठः) । यद्यस्मात्तद्भगवन्नाम मुमुक्षुभिरभ्यसनीयमेवेत्याह– यत्तदिति ॥ तस्मिन् वासुदेव इति पूर्वत्रान्वयः ॥ २२ ॥

प्रकाशिका

ननु भगवत्साक्षात्कार एव कर्मक्षयरूपमोक्षसाधनतया प्रसिद्धोऽतः कथं नामाभिगृणन् तु कर्मबन्धं विधुनोतीत्यत आह ॥ यस्येति । प्रतिबोधनं साक्षात्कारमुपलभन्ते । नामोच्चारेणेनेति शेषः । तथा च नामाभिगृणन् भगवत्साक्षात्कारं सम्पाद्य कर्मबन्धं विधुनो-तीत्यभिप्रेतम् । अतो न कोऽपि विरोध इत्यर्थः । न केवलं भगवन्नामोच्चारणं कर्मक्षयरूप-मुक्तिसाधनं किन्तु स्वरूपानन्दाविर्भावप्रदं चेत्याह ॥ यत्तदिति । आत्मनामुक्तरीत्या कर्मक्षयं प्राप्तानामात्मदं स्वरूपानन्दाद्याविर्भावप्रदमेवेत्यनेनास्यार्थस्य प्रमाणसिद्धत्वं सूचयति । यद्भगवन्नामैतादृशं तदभिगृणन्पुरुष इत्यन्वयः । यस्येति यच्छब्दस्य तस्मिन् परमात्मनि वासुदेव इत्यन्वयः ॥ २२ ॥

न वै भगवान्नूनं मनुष्याननुजग्राह यदुत पुनरात्मानुसृतिमोक्षणं१ मायामयं भोगैश्वर्यमेवाऽतनुते ॥ २३ ॥

पदरत्नावली

भगवन्नाम आत्मदं चेत् तन्नामजापिनो मनुष्यान् किमिति नानुजग्राह भगवानित्याशङ्क्य भक्तिज्ञानाद्यतिशयाभावादित्यभिप्रेत्याह– न वा इति ॥ नूनशब्दसामर्थ्यादत्र मनुष्यशब्देन सृतियोग्या गृह्यन्ते । मनुष्यानुद्दिश्य नानुजग्राह प्रस्तुतत्वादेतादृशमैश्वर्यमिति शेषः । तर्ह्यात्मदानलक्षणमोक्षमनुजग्राह किम् ? नेत्याह– यदिति ॥ पूर्ववाक्यस्थितनञ अध्याहारः कर्तव्यः । यत्पुनरात्मानुसंसृतिमोक्षणं तत् । ‘यवाग्वा अपि सन्देहे कोकुन्दस्य तु का कथा’ इतिवन्नानुजग्राहेति किमुत तर्हि तन्नामोपासनं व्यर्थं किमिति नेत्याह– माया-मयेति ॥ मायामयं प्रकृतिनिर्मितं नश्वरं न त्वनश्वरमित्येवार्थः (‘यमेवैष वृणुते तेन लभ्य-स्तस्यैष आत्मा विवृणुते तनूं स्वाम्’ इत्यादिश्रुत्युक्तरीत्या भगवदनुग्रहभाज एवोत्तमभक्ता नामोच्चारणादिरूपमुक्तिसाधनसम्पादनद्वारा मुक्ता भवन्ति, न त्वन्ये इत्याशयेनाह– न वा इति ॥ भक्त्या नामोच्चारणादिरहितान् मनुष्यानुद्दिश्य नानुजग्राह, स्वापरोक्षज्ञानलभ्यमोक्षमिति शेषः । अत्र मनुष्यशब्देन नित्यसंसारिणस् तमोयोग्यश्च गृह्यन्ते । आत्मनः स्वस्य भगवतोऽनु-स्मृतिं मुष्णातीति तथाभूतं मायामयं प्रकृतिविकारं, नश्वरमिति यावत् ।’ इति कपाठः)॥२३॥

प्रकाशिका

नन्वेतादृशं चेद्भगवन्नाम तर्हि किमिति सर्वे न मुच्यन्त इत्यत आह ॥ न वा इति । मनुष्यान्सर्वान् । सृतिस्थानिति शेषः । आत्मनः स्वस्यानुसृतिरनुसरणम् । सेवेति यावत् । तस्या मोक्षणं विनाशो यस्मात्तत्तथा । भोगैश्वर्यमेव न तु नामोच्चारणादिरूपं स्वानुसरणमित्येवार्थः । आत्मानुस्मृतिमोक्षणमित्यपि क्वचित्पाठः । मायामयं प्रकृतिविकारम् । नश्वरमिति यावत् । तथा च भगवदनुग्रहस्यैव मोक्षहेतुतया यस्य प्रसादादित्यादिश्रुति-सिद्धत्वाद्भगवान् यस्मिन्नेनं मोक्षयिष्यामीत्यादिरूपमनुग्रहं करोति स एव नामोच्चारणादिरूपं मोक्षसाधनं सम्पाद्य मुक्तो भवति नेतर इत्याशयः ॥ २३ ॥

यत्तद्भगवताऽनधिगतान्योपायेन च याञ्चाछलेनापहृतस्वशरीरावशेषित-लोकत्रयो यो वरुणपाशैश्च बद्धो गिरिदर्यां चापविद्ध इति होवाच ॥ २४ ॥

पदरत्नावली

इतो भक्त्याद्यतिशय एवैश्वर्ये निमित्तम् । यतो राज्यापहरणादि-लक्षणापकारकारिणि हरौ भक्त्यतिशयो दरीदृश्यते । बलेर्दरीलक्षणकारागृहे निवसतस्तेन बद्ध-प्रमुक्तस्य, न हि मनुष्याणामेतादृश्यामापद्ये तादृशीया भक्तिः । समस्तगुणेष्वसूयिनामित्याशय-वानाह– यत्तदिति ॥ न अधिगतो भिक्षाव्यतिरेकेणान्यः सुखसाध्य उपायो येन स तथा तेन । भगवता याञ्चा व्याजेनापहृतं स्वशरीरावशेषितं लोकत्रयं यस्य स तथा । भगवदाज्ञया गरुडेन प्रथमं वरुणपाशैर्बद्धः, चशब्दाद्ब्रह्मादीनां याञ्चया पश्चान्मुक्तः पुनश्च त्वया प्रतिश्रुतं दत्वैव गन्तव्यमिति । तेन कारागृह इति गिरिदर्यामपविद्ध इव निरुद्धो बलिरिति वक्ष्यमाणप्रकारेण । जगाद हेत्यनेन प्राणात्ययेऽपि भगवद्भक्तिं न मुञ्चामीत्यभिसन्धिं दर्शयतीति यद्यस्मात्तस्मा-न्मनुष्यान्नानुजग्राहेत्युच्यते(‘याञ्चां विनाऽनधिगतो न प्राप्तोऽन्य उपायो येन तेन भगवता याञ्चाछलेनैवाहृतं स्वशरीरमात्रावशेषितं लोकत्रयं यस्य स तथा । त्वया प्रतिश्रुतं सर्वं न दत्तमिति प्रथमं भगवदाज्ञया गरुडेन वरुणपाशैर्बद्धः गिरिदर्यां कारागृहरूपायामपविद्धः प्रक्षिप्तः । पश्चाद् ब्रह्मादीनां याञ्चया मुक्तश्च । इति वक्ष्यमाणप्रकारेणोवाच । हेत्यनेन प्राणोत्क्रमणेऽपि भगवद्भक्तिं न मुञ्चामीति बलेरभिसन्धिं द्योतयति ।’ इति कपाठः) ॥ २४ ॥

प्रकाशिका

ननु बलेर्दैत्यस्य कथं भूमिदानेन मोक्ष आनन्दातिशय इत्यपेक्षायां दैत्य-कुलोत्पन्नत्वेऽपि स हरिभक्त एव तद्वचनेन तथाऽवगमादित्याशयेन तद्वचनं प्रदर्शयितुमाह ॥ यत्तदिति । अवशेषितं स्वशरीरं येन तत्तथा । परनिपातः । याञ्चाछलेन याञ्चाव्याजेनापहृतं स्वशरीरावशेषितं लोकत्रयं यस्य स तथा । ननु भगवता याञ्चा कुतो लोकत्रयमपहृतमित्यत उक्तम् ॥ अनधिगतान्योपायेनेति । याञ्चाव्यतिरिक्तो युद्धादिरूपोपायस्तस्मिन्समये भगवता नाधिगतो बलेन ब्राह्मणानुग्रहबलेन युद्धादिना जेतुमशक्यत्वादित्याशयः । वरुणपाशैर्बद्धः सम्पूर्णं प्रतिश्रुतस्यादानाद्गिरिदर्यां कारागृहरूपायामिति वक्ष्यमाणप्रकारेण ॥ २४ ॥

नूनं बताऽयं भगवानर्थेषु निष्णातोऽसाविन्द्रस्य सचिवो मन्त्राय धृत एकान्ततो बृहस्पतिस्तमतिहाय यदा स्वयमुपेन्द्रेणातदर्हं मामयाचत पदान्यात्मन आशिषो नो एव न दास्यामि गंभीररयस्य कालस्य मन्वन्तरपरिमितं कियल्लोकत्रयमिदम् ॥ २५ ॥

पदरत्नावली

इन्द्रस्य सचिवो बुद्धिसहायभूतो यदा योऽसौ बृहस्पतिरस्मत्सन्धानार्थ-मिन्द्रेण प्रेषित एकान्ततो मन्त्राय धृतः सन्नद्धस्तदा तमप्यतिहाय तत्सन्धानात् पूर्वमेव समागत्य ममार्थेषु स्वपादसेवनाद्यभिप्रायेषु निष्णातस्तत्सेवनादिकमेव दातुमुद्युक्तोऽयं भगवान् स्वयमुपेन्द्रेण वटुवामनरूपेणात्मने स्वस्मै त्रीणि पदान्यतदर्हं याचनायोग्यं मामयाचत । नो एवाशिष इति यत्तस्यायमभिप्रायः(‘निजभक्तानुजिघृक्षयैव याचनमिदं न तु स्वप्रयोजनापेक्षया स्वस्य नित्यमवाप्तसमस्तकामत्वादित्याशयेनाह– आत्मन इति ॥’ इति कपाठः) । इदं लोकत्रयं चतुर्दशभुवनापेक्षया कियदल्पं हि तदपि कालग्राहग्रस्तमित्याह– गम्भीररयस्येति ॥ गम्भीरवेगस्य (‘अतिगभीरोऽनिर्वार्यो रयो वेगो यस्य तस्य’ इति कपाठः) महतः कालस्य मन्वन्तरलक्षणावयवमितमत एवानित्यम् । तस्मादैश्वर्यनिमित्तमदो न स्यादित्यस्मै बलये राज्यं न दास्यामीति त्रिपदच्छलेनापहृतं नूनं निश्चितम् । बत भक्ते मय्यनुकम्पया ‘यस्यानुग्रहमिच्छामि हरिष्ये तद्धनं शनैः’ (‘तं भ्रंशयामि सम्पद्भ्यो यस्य चेच्छाम्यनुग्रहम्’ इति कपाठः) इत्यादिस्ववचनात् ॥ २५ ॥

प्रकाशिका

बतेत्यास्वादनम् । अर्थेषु भक्तस्य मम पुरुषार्थेषु निष्णातस्तत्साधना-योद्युक्तः । सचिवः सहायभूतो बृहस्पतिरेकान्ततो मन्त्रार्थमस्मत्सन्धानार्थं धृतः । इन्द्रेणेति शेषः । तदा तमतिहाय सन्धानात्पूर्वमेवातदर्हं स्वयाञ्चायामयोग्यम् । ननु भक्तस्य मम पुरुषार्थ-साधनायोद्युक्तोऽयाचतेति कुतः । स्वप्रयोजनार्थमेवायाचतेति किं न स्यादित्यत उक्तम् ॥ आत्मन आशिषो नो एवेति । अवाप्तसमस्तकामस्याशास्या अर्था नैवेत्यर्थः । नन्वथाऽप्युत्तर-मन्वन्तरे दीयमानं लोकत्रयमेतद्भूमिदानस्य फलमस्त्वित्यत आह ॥ गम्भीरेति । गंभीररयस्य गंभीरवेगस्य महतः कालस्य मन्वन्तरलक्षणावयवपरिमितमत एवानित्यमिदं लोकत्रयात्मकं कियत्तुच्छमतो न मुख्यं फलं किन्तु नान्तरीयकमतो भक्तस्य ममानन्दोद्रेकार्थमेवायाचतेत्यर्थः । यथोक्तम्– ‘‘ऐन्द्रं पदं नान्तरीयं फलं तु हरितोषणम् । जगद्दातुर्बलेर्यस्मादानन्दोद्रिक्तता भवेत्’’ इति ॥ अपहृतस्वशरीरेत्यादिविशेषणत्रयम् आपत्काले इदमुक्तम् । अतः स हरिर्भक्तोत्तम इति दर्शयितुम् । न ह्यपकारिणि हि तत्कर्तृत्वं मन्यते ॥ २५ ॥

यस्यानुदास्यमेवास्मत्पितामहः किल वव्रे नतु स्वपित्र्यं राज्यं यदकुतोभयं पदं दीयमानं भगवता विरमिते स्वपितरि तस्य महानुभावस्यानुपथमनुवर्तितु-मलममृदितकषायः को वाऽस्मद्विधः परिहीनभगवदनुग्रह इति ॥ २६ ॥

पदरत्नावली

हरेरिममभिप्रायमस्मत्पितामह एव वेत्ति न मादृश इत्याह– यस्येति ॥ स्वपितरिहिरण्यकशिपुनामि्न विरमिते मृते भगवता दीयमानं स्वपित्र्यं पितृधनत्वाद्योग्यमपि यदकुतो भयं निहतकण्टकत्वात् पदं राज्यलक्षणं तन्न वव्रे किन्तु यस्य हरेरनुदास्यं सेवाख्यमेव वव्रे । कोऽसावित्यस्मत्पितामहः प्रह्लादस् तस्य चास्माकं महदन्तरमस्तीत्याह– तस्येति ॥ तस्य प्रल्हादस्यानुगमनमनुवर्तितुमस्मादृशः पुरुषः को वालं न कोऽपीत्यर्थः । कीदृशः परिहीनः भगवदनुग्रहो यस्य स तथा । अमृदितकषायोऽनिरस्तपापो नालमिति किं वक्तव्य-मित्यर्थः । इतिशब्दो वाक्यसमाप्तौ वर्तते (‘अस्मत्पितामहः प्रह्लादः । स्वपितरि हिरण्यकशिपौ उपरते मृते सति अकुतोभयं निर्भयं स्वपित्र्यं पदं राज्यलक्षणं भगवता दीयमानमपि न वव्रे । तस्य प्रह्लादस्य । अनुपथमनुवर्त्म । अमृजिता अक्षीणाः कषाया रागादयो यस्य स तथा । परिहीणो भगवदनुग्रहो यस्य स तथा । अस्मद्विधः को वाऽलं समर्थः ? न कोऽपि । इतिशब्दो बलिवचनसमाप्त्यर्थः ।’ इति कपाठः) ॥ २६ ॥

प्रकाशिका

हरिसेवाया इतरन्न मुख्यं फलमित्यत्र पूर्वाचारमपि प्रमाणयति ॥ यस्येति । पदं राज्यलक्षणं विरमिते विनाशिते । अस्मद्विधेषु तत्समः कोऽपि नास्तीत्याह ॥ तस्येति । तस्यानुपथं तदनुष्ठितं मार्गमनुवर्तितुमनुष्ठातुमलं समर्थः । अमृदितः सम्यगनाशितः कषायो रागादिर्यस्य । प्रल्हादस्तु सम्यग्मृदितकषायोऽवाप्तभगवदनुग्रहश्चेत्यर्थः । इतिशब्दो बलिवाक्य-समाप्त्यर्थः ॥ २६ ॥

तस्यानुचरितमुत्तरस्माद्विस्तरिष्यते यस्य भगवान्स्वयमखिलजगद्गुरुर्नारायणो द्वारि गदापाणिरवतिष्ठते निजजनानुकंपितहृदयो येन पदांगुष्ठेन दशकंधरो योजनायुतं दिग्विजय उच्चाटितः ॥ २७ ॥

पदरत्नावली

तस्य प्रल्हादस्य उत्तरस्मात्सप्तमे इदं श्रीशुकवाक्यं पुनरपि हरेर्भक्तानु-कम्पितत्वमाह– यस्येति ॥ वामनाख्यो नारायणः स्वदत्तवरात् तथावस्थानमिति द्योतयितु-मवतिष्ठते इति आत्मने पदप्रयोगः । अखिलजगद्गुरुत्वमुपपन्नं तस्यापदि स्वपादप्रणतजनरक्षक-त्वेनेत्यभिप्रेत्याह– येनेति ॥ रावणस्य दिग्विजये उच्चाटितः प्रक्षिप्तः । दूरीकृत इत्यर्थः । एवंविधस्य हरेर्भक्तजनप्रयोजनार्थितया नापीन्द्रस्य राज्यदानेच्छया अस्मद्राज्यापहरणलक्षणं कार्यं नान्यदिति वाक्यशेषः (‘दिग्विजये रावणदिग्विजयसमये येन वामनेन बलेर्द्वारि निविशन् दशकन्धरो रावणः पदाङ्गुष्ठेनैव उच्चाटितः प्रक्षिप्तः ।’ इति कपाठः)॥ २७ ॥

प्रकाशिका

शुक आह ॥ तस्यानुचरितमिति । तस्य प्रल्हादस्योत्तरस्मात् सप्तमे । तस्य बलेरुत्तरस्मादष्टम इति वा । बलिर्भगवद्भक्त इत्यत्र ज्ञापकान्तरमप्याह ॥ यस्येति । निजजनेषु भक्तजनेष्वनुकम्पितं कृतानुग्रहं हृदयं यस्य द्वारपालकतया स्थितस्य तस्य कर्माह ॥ येनेति । दिग्विजये रावणदिग्विजयसमये । येन श्रीनारायणेन बलेर्द्वारि विशन् दशकंधर उच्चाटितः क्षिप्तः । केन पदा तत्राप्यङ्गुष्ठेनैवेत्यर्थः ॥ २७ ॥

ततोऽधस्तात्तलातले मयो नाम दानवेन्द्रस्त्रिपुराधिपतिर्भगवता मुरारिणा त्रिलोक्याः शंचिकीर्षुणा निर्दग्धस्वपुरत्रयस्तत्प्रसादाल्लब्धपदो मायाविनामाचार्यो महादेवेन परिरक्षितो विगतसुदर्शनभयो महीयते ॥ २८ ॥

पदरत्नावली

शं सुखं, महीयते स्वभृत्यैरिति शेषः ॥ २८ ॥

प्रकाशिका

लब्धपदो लब्धं पदं तलातलाख्यं स्थानं येन स तथा । महीयते पूज्यते । स्वभृत्यैरिति शेषः ॥ २८ ॥

ततोऽधस्तान्महातले काद्रवेयाणां नैकशिरसां क्रोधवशो नाम गणः कुहक-तक्षककालियसुषेणादिप्रधाना महाभोगवन्तः पतत्रिराजाधिपतेः पुरुषोत्तमवाहाद-नवरतमुद्विजमानाः स्वकलत्रापत्यसुहृत्कुटुंबसङ्गेन क्वचित्प्रमत्ता विचरन्ति

॥ २९ ॥

पदरत्नावली

(‘नैकशिरसामनेकफणानाम् । गणो ऽस्तीति शेषः ।’ इति कपाठः) महाभोगवन्तः स्थूलशरीरवन्तः पुरुषोत्तमस्य वाहो वाहनं तस्मात् ॥ २९ ॥

प्रकाशिका

नैकशिरसामनेकफणानां गणः । अवतिष्ठतीति शेषः । एतत्प्रपञ्चयति ॥ कुहकेति । महाभोगवन्तः स्थूलशरीराः पुरुषोत्तमस्य वाहो वाहनं तस्मात्क्वचित्कदाचिदेव प्रमत्ता विचरन्ति न सर्वदेत्यर्थः ॥ २९ ॥

ततोऽधस्ताद्रसातले दैतेया दानवाः पणयो नाम निवातकवचाः कालकेया हिरण्यपुरवासिन इति विबुधप्रत्यनीका उत्पत्त्या महौजसो महासाहसिनो भगवतः सकललोकमहानुभावस्य हरेरेव तेजसा प्रतिहतावलेपा बिलेशया एव निवसन्ति ये वै सरमयेन्द्रदूत्या वाग्भिर्मन्त्रवर्णाभिरिन्द्राद्बिभ्यति ॥ ३० ॥

पदरत्नावली

पणयो दैत्या दानवा निवातकवचाः कालकन्यापुत्राः कालकेया विबुध-प्रत्यनीका देवशत्रवः प्रतिहतावलेपा विनाशितगर्वा योगबलाद्बिलेशयाः सर्पाकारा ये पणय इन्द्रदूत्या सरमया शुन्योक्ताभिर्मन्त्रवर्णाभिर्वाग्भिर् इन्द्रस्य दूतीरिषिताचरामिमह इच्छन्ती पणयो निधी च इत्यादिमन्त्रवर्णात्मकगीर्भिः श्रुताभिरिन्द्राद्बिभ्यति भीतास्तिष्ठन्तीति यस्मात्तस्मा-द्बिलेशयाकारानि वसन्तीत्यर्थः । सरमात्वं दूरादध्वनो बहिर्गताभिर्जिव्हाभिर्जगुरिः किमपि निगरन्ती किमिच्छन्त्यत्र प्रानटप्रायासीः । ‘हि गतौ’ इति धातोर् अस्यास्तव अस्मे अस्मासु हितिर्गतिः का किं कार्यमुद्दिश्यात्रागमनं ते तव का परितक्म्या तस्यार्थे दूतस्यार्थे दूतक्रियाऽ-सीत् । त्वं रसायाः पयांसि कथमतर इति पणिभिः पृष्टा सरमा ब्रूते अहमिन्द्रस्य दूती तेन प्रेषिता (इषिता) चराम्यागताऽस्मि । ‘व्यत्ययो बहुलम्’ इति सूत्रात् किमिच्छन्तीत्यस्य परिहारमाह । हे पणयो वो महोलक्षणनिधीनिच्छन्ती । अपहर्तुमिति शेषः । नोऽस्माकमति स्कन्दो भियसा स्वामिनो भयेन तत्तदावद् आवामागमं तथा तस्माद्रसायाः पयांस्यतरमिति सरमायाः पणीन्प्रति परिहारवचनमिति मन्त्रवर्णार्थः (‘दैतेयादयो ऽसुरभेदाः । निवातं शस्त्राभेद्यं कवचं येषां ते तथा । कालकेयाः कालकापुत्राः । विबुधप्रत्यनीका देवशत्रवः । प्रतिहतो बलावलेपो वीर्यमदो येषां ते तथा । गरुडाद् भीता बिलेशयाः सर्पा इव रसातले वसन्ति । इन्द्रदूत्या सरमया प्रयुक्ताभिर्मन्त्रवर्णाभिर्वेदरूपाभिर्वाग्भिः । अत्रैवमाख्यायिका । पणिभिरसुरैर्निगूहितगवान्वेषणाय देवेन्द्रेण प्रहितां सरमां सन्धिमिच्छन्तः पणयः ‘किमिच्छन्ती सरमा’ इत्यादि । सा च सन्धिमनिच्छन्ती इन्द्रस्तुतिपूर्वकं तान् प्रति परुषमुवाच ‘हता इन्द्रेण पणयः शयध्वे’ इत्यादि । ते च तच्छ्रुत्वा बिभ्यतीति । एवं हि श्रुत्युक्तिः ‘किमिच्छन्ती सरमा प्रेदमानड् दूरे ह्यध्वा जगुरिः पराचैः । का स्मे हितिः का परितक्म्यासीत् कथं रसाया अतरः पयांसि । इन्द्रस्य दूतीरिषिता चरामि मह इच्छन्ती पणयो निधीन् वः । अतिष्कन्दो भियसा तन्न आवत् तथा रसाया अतरं पयांसि । कीदृङ्डिन्द्रः सरमे का दृशीका यस्येदं दूतीरसरः पराकात् । आ च गच्छन्मित्रमेना दधामाऽथा गवां गोपतिर्नो भवति । नाहं तं वेद दभ्यं दभत् स यस्येदं दूतीरसरं पराकात् । न तं गूहन्ति स्रवतो गभीरा हता इन्द्रेण पणयः शयध्वे । इमा गावः सरमे या ऐच्छः परिदिवो अन्तान् सुभगे पतन्ती । कस्त एना अव सृजादयुध्व्युतास्माकमायुधा सन्ति तिग्मा’ इत्यादि ।’ इति कपाठः) ॥ ३० ॥

प्रकाशिका

विबुधप्रत्यनीका देवशत्रवः सकलेष्वपि लोकेषु महानुभावो यस्य तस्यैव तेजसा सुदर्शनेन प्रतिहतावलेपा विनाशितगर्वा बिलेशया एव सर्पतुल्या एवेन्द्रदूत्या सरमया तन्नामिकया शुन्या प्रयुक्ताभिर्मन्त्रवर्णाभिर्वेदरूपाभिर्वाग्भिरत्रैवमाख्यायिका, फणिभिरसुरैर्निगूहितां गामन्वेष्टुं सरमां देवशुनीमिन्द्रेण प्रहितां संधिमिच्छन्तः पणयः प्राहुः किमिच्छसीति । सा च सन्धिमनिच्छन्तीन्द्रस्तुतिपूर्वकं तान्प्रति पौरुषमाह । हता इन्द्रेण पणयः शयध्वमित्यादि । ते च तच्छ्रुत्वा बिभ्यतीत्यादिरूपा ॥ ३० ॥

ततोऽधस्तात्पाताले नागपतयो वासुकिप्रमुखाः शङ्खकुलिकमहाशङ्खश्वेतधनञ्जय धृतराष्ट्रशङ्खचूडकंबलाश्वतरदेवदत्तादयो महाभोगिनो महामर्षा निवसन्ति येषामुह वै पञ्चसप्तदशशतसहस्रशीर्षाणां फणासु विरचिता महामणयो रोचिष्णवः पातालविवरतिमिरनिकरं स्वरोचिषा विधमन्ति ॥ ३१ ॥

पदरत्नावली

महाभोगिनः स्थूलशरीरा बहुभोगयुक्ता वा । (‘महानमर्षः क्रोधो येषां ते तथा ।’ इति कपाठोऽधिकः)शीर्ष्णामिति वक्तव्ये शीर्षाणामितीतरपुरुषशिरोवैलक्षण्यद्योतनाय । विगतं रचितं रचनं येषां ते तथा । औत्पत्तिका इत्यर्थः । विधमन्ति निरस्यन्ति ॥ ३१ ॥

प्रकाशिका

महाभोगिनः स्थूलशरीरा महानमर्षः क्रोधो येषां पञ्चादिसङ्ख्यानि शीर्षाणि येषां तेषाम् । शीर्षाणामित्युक्त्या शीर्षशब्द आकारान्तोऽप्यस्तीति ज्ञापयति । विरचिता विशेषेण रचिताः । सम्बद्धाः । औत्पत्तिका इति यावत् । विधमन्ति विनाशयन्ति ॥ ३१ ॥

तस्य मूलदेशे त्रिंशद्योजनसहस्रान्तरे आस्ते या वै कला भगवतस्तामसी समाख्यातानन्त इति सात्वता यद्दृश्ययोः सन्निकर्षणमहमित्यभिमानलक्षणं सङ्कर्षणमित्याचक्षते ॥ ३२ ॥

पदरत्नावली

तस्य पातालस्य तामसी तमोगुणप्रवर्तनी अनन्तस्य यत्स्वरूपं द्रष्टुश्चेतनस्य दृश्यस्य शरीरस्य सन्निकर्षणं सामीप्यापादकमभेदग्राहकं कथं देहोऽहमिति तर्हि इदं सत्यं किं नेत्याह– अभिमानेति ॥ अभिमानलक्षणं भ्रान्तिप्रत्यापादकमित्यर्थः । तत्स्वरूपं सङ्कर्षणमित्याचक्षते (तस्य पातालस्य मूलदेशे अधस्तात् । तामसी तमोगुणप्रवर्तिनी कला मूर्तिः । सात्त्वतीयाः पञ्चरात्राद्यभिज्ञाः । द्रष्टृदृश्ययोश् चेतनाचेतनयोर् जीवशरीरयोः सम्यक् कर्षणमेकीकरणं येन स तथा । एतदेव प्रपञ्चयति– अहमित्यभिमानलक्षणमिति ॥ देहेन्द्रियादिष्वहमित्यभिमानो लक्ष्यते येन तमित्यर्थः । एवञ्चैतादृशाहङ्कारस्य नानायोनिषु जननाद्यनर्थपरम्परानिदानत्वात् तन्निवृत्त्यै सङ्कर्षणरूपोपासनं मुमुक्षुभिरनुष्ठेयमित्यवधेयम् । इदं च मिश्रस्तुतिर्मुख्यवृत्त्या शेषान्तर्यामिपरतया, अमुख्यवृत्त्या शेषपरतया च योजनीया । ‘अनन्तान्तःस्थितो विष्णुरनन्तश्च सहामुना । पूज्यते गिरिशेनेश इलावृतगतेन तु ॥’ ‘जीव-व्यपेक्षया चैव तथाऽन्तर्याम्यपेक्षया । मिश्रास्तु स्तुतयो ज्ञेया विष्णोरन्यत्र केवलम् ॥’ इत्यादि ब्रह्माण्डेक्तरीत्या इावृतस्थस्तुतिवत् पातामूलस्थस्तुतिर्योजनीयाऽनन्तविषया ।’ इति कपाठः)

॥ ३२ ॥

प्रकाशिका

तस्य पातालस्य मूलदेशेऽधोभाग इत्यर्थः । तामसी तमोगुणकार्य-संहारकर्तृत्वादनन्तः शेष इति समाख्याताः सात्त्वता इति पञ्चरात्राभिज्ञा यत्स्वरूपं सङ्कर्षण इत्याचक्षते । केन निमित्तेन द्रष्टुर्दृश्ययोर्द्रष्टा जीवो दृश्यं देहगेहादिरूपं जडं तयोः सम्यक् कर्षणमेकीकरणं येन स तथा । एतदेव विवृणोति । अहमित्यभिमानलक्षणम् । देहादावह-मित्यभिमानो लक्ष्यते येन तमित्यर्थः । तथा चाहं नाड्यां स्थित्वा देहादावहङ्कर्तेत्यभिमान-प्रदत्वात्सङ्कर्षण इत्युच्यते इत्युक्तं भवति ॥ ३२ ॥

तस्येदं क्षितिमण्डलं भगवतोऽनन्तमूर्तेः सहस्रशिरस एकस्मिन्नेव शीर्षणि ध्रियमाणं सिद्धार्थ इव लक्ष्येत ॥ ३३ ॥

पदरत्नावली

सात्वतः गुरुतरक्षितिमण्डलं सर्षपलाघववद्धारयतोऽपरिमितबलत्वेनान्तत्वं युक्तमित्यभिप्रेत्याह– तस्येति ॥ सिद्धार्थः सर्षपः (‘भगवान् नारायणो स्वचरणैकशरणानां शिष्टाग्रणीनामनन्तानिष्टनिवर्तकत्वादनन्ताभीष्टप्रापकत्वाच्चानन्त इत्युपासितव्य इत्यभिप्रेत्य तदनन्तशक्तिं परिचाययति– तस्येति ॥ सिद्धार्थः सर्षपः ।’ इति कपाठः) ॥ ३३ ॥

प्रकाशिका

अनन्तबलत्वादनन्त इत्युच्यत इत्यभिप्रेत्य तद्बलस्यापरिमितत्वमाह ॥ तस्येति । सिद्धार्थः सर्षपः ॥ ३३ ॥

यस्य ह वा इदं कालेनोपसंजिहीर्षतोऽमर्षविरचितरुचिरभ्रमद्भ्रुवोरन्तरेण सङ्कर्षणो नाम रुद्र एकादशव्यूहस्त्र्यक्षस्त्रिशिखं शूलमुत्तंभयन्नुदतिष्ठत् ॥ ३४ ॥

पदरत्नावली

एकादशव्यूह एकादशधा विभक्तरूपविशेषः । उत्तम्भयन् उत्कम्पयन् (‘इदं विश्वं कालेन प्रयसमयेन उपसञ्जिहीर्षत उपसंहर्तुमिच्छतो यस्यानन्तस्य । एकादश-व्यूह एकादशधा विभक्तरूपविशेषः । उत्तम्भयन् उन्नमयन् ।’ इति कपाठः) ॥ ३४ ॥

प्रकाशिका

तामसत्वमुपपादयति ॥ यस्येति । इदं विश्वमुपसंजिहीर्षत उपसंहर्तु-मिच्छतः । अमर्षेण विरचिते कुण्डलीकृते भ्रमन्त्यौ भ्रुवौ तयोरन्तरेण मध्ये रुद्र उदतिष्ठ-दित्यन्वयः । एकादशव्यूह एकादशधा विभक्तरूपविशेषः । उत्तम्भयन् उत्कम्पयन् इति कपाठः

॥ ३४ ॥

यस्यांघ्रिकमलयुगलारुणविशदनखमणिमण्डलेष्वहिपतयः सह सात्वतर्षभै-रेकान्तभक्तियोगेनावनमन्तः स्ववदनानि परिस्फुरत्कुण्डलप्रभामण्डितगण्डस्थला-न्यति मनोहराणि प्रमुदितमनसः किल विलोकयन्ति ॥ ३५ ॥

पदरत्नावली

(यस्याङ्घ्रिकमलयुगले येऽरुणा विशदाः स्वच्छा नखा एव मणयस्तेषां षण्डः समूहस्तस्य मण्डलेषु अहिपतयः स्ववचनानि विलोकयन्ति ।’ इति कपाठः)॥ ३५ ॥

प्रकाशिका

भगवत्त्वमाह ॥ यस्याङ्घ्रीत्यादिना । एतेषां यच्छब्दानां स एष भगवा-नानन्त इत्युत्तरेणान्वयः । अङ्घ्रिकमलयुगलेऽरुणा विशदा नखास्त एव मणयस्तेषां मण्डलेषु प्रतिबिंबितानि स्ववदनानि विलोकयन्ति । कथम्भूतानि । परिस्फुरतां कुण्डलानां प्रभया मण्डितानि गण्डस्थलानि येषु तानि ॥ ३५ ॥

यस्यैव हि नागराजकुमार्य आशिष आशासानाश्चार्वङ्गदवलयविलसितविशद-विपुलधवलसुभगरुचिरजभुजरजतस्तम्भेष्वगरुचन्दनकुङ्कुमपङ्कानुलेपेनावलिम्पमाना-स्तदभिमर्शनोन्मथितहृदयमकरध्वजावेशरुचिरललितस्मितास्तदनुरागसमुदित– मदविघूर्णितारुणावलोकनयनवदनारविन्दं सव्रीडं किल विलोकयन्ति ॥ ३६ ॥

पदरत्नावली

तदभिमर्शनेन भुजस्पर्शनेन । सव्रीडमिति क्रियाविशेषणम् (‘चारूण्यङ्ग-दानि केयूराणि वलयानि च तैर्विलसिताश्च ते विशदाश्च विपुलाश्चेति । तदभिमर्शनेन भुजस्पर्शनेन ।’ इति कपाठः) ॥ ३६ ॥

प्रकाशिका

चारुभिरङ्गदवलयैर्विलसिता विशदादिरूपा भुजा एव रजतस्तंभास्तेषु तदभिमर्शेन भुजस्पर्शेन मदेन विघूर्णिते प्रचलिते आ ईषदरुणेनावलोकेन कृपाकटाक्षेण युक्ते नयने यस्मिंस्तद्वदनारविन्दम् । विलोकयन्ति । सव्रीडमिति क्रियाविशेषणम् ॥ ३६ ॥

स एष भगवाननन्तोऽनन्तगुणार्णव आदिदेव उपसंहृतामर्षरोषवेगो लोकानां स्वस्तय आस्ते ॥ ३७ ॥

पदरत्नावली

शृृङ्गाराद्यनन्तगुणार्णवः (‘उपसंहृतो ऽमर्षरोषयोर् असहनक्रोधयोर्वेगो येन स तथा ।’ इति कपाठः) ॥ ३७ ॥

प्रकाशिका

अमर्षोऽसहनं रोषः क्रोध उपसंहृतस्तयोर्वेगो येन ॥ ३७ ॥

ध्यायमानः सुरासुरोरगसिद्धगन्धर्वविद्याधरमुनिगणैरनवरतमदमुदितविकृति-विह्वललोचनः सुललितमुखरितामृतेनाप्यायमानः स्वपार्षदविबुधयूथपतीन-परिम्लानरागनवतुलसिकामोदमध्वासवेन माद्यन्मधुकरव्रातमधुरगीतश्रियं वैजयन्तीं स्वां वनमालां नीलवासा एककुण्डलो हलककुदिकृतसुभगसुन्दरभुजो भगवान् माहेन्द्रो वारणेन्द्र इव काञ्चनीं कक्ष्यामुदारलीलो बिभर्ति ॥ ३८ ॥

पदरत्नावली

अपरिम्लानो रागः कान्तिर्यस्याः सा तथा । आमोदमध्वासवेन सौरभ-रूपमधुरसेन हलस्य निजायुधस्य ककुद्यग्रे कक्ष्यामुदरबन्धम् (‘सुरादिभिर्ध्यायमानो ऽनवरतमदेन मुदितश्चासौ विकृतविह्वललोचनश्च तथा । सुलतिेन मुखरितामृतेन वचनामृतेन स्वपार्षदान् विबुधयूथपतींश्चाप्यायमानो हर्षयन् वैजयन्तीं वनमालां बिभर्ति । अपरिम्लानो रागः कान्ति-र्यस्यास्तस्या नवतुसिकाया आमोदमध्वासवेन सुरभिमधुररसेन माद्यतां मधुकराणां ये व्राताः समूहास्तेषां मधुरगीतेन श्रीर्यस्यास्ताम् । हलस्य निजायुधस्य ककुदि पृष्ठे कृतः न्यस्तः सुभगश्च सुन्दरश्च भुजो येन स तथा । कक्षां वरत्रां, गजमध्यबन्धनरज्जुमित्यर्थः ।’ इति कपाठः)॥३८॥

प्रकाशिका

सुरादिभिर्ध्यायमानोऽनवरतमदेन मुदितश्चासौ विकृतविव्हललोचनश्च सुललितेन मुखरितामृतेन वचनामृतेन स्वपार्षदान् विबुधयूथपतींश्चाप्यायमानो हर्षयन् वैजयन्तीं वनमालां बिभर्ति । कथंभूताम् । अपरिम्लानो रागःकान्तिर्यस्यास्तस्या नवतुलसिकाया आमोदमध्वासवेन सुरभिमधुररसेन माद्यतां मधुकराणां ये व्रातास्तेषां मधुरगीतेन श्रीर्यस्यास्ताम् । नीले वाससी यस्य स तथा । एकमेव कुण्डलं यस्य स तथा । हलस्य निजायुधस्य ककुदि अग्रे कृतो न्यस्तः सुभगश्च सुन्दरश्च भुजो येन । उदारा लीला यस्य सः । कक्ष्यामुदरबन्धम्

॥ ३८ ॥

य एष एवमनुश्रुतोऽभिध्यायमानो मुमुक्षूणामनादिकालकर्मवासनाग्रथितम-विद्यामयं हृदयग्रन्थिं सत्वरजस्तमोमयमन्तर्हृदयं गत आशु निर्भिनत्ति ॥ ३९ ॥

तस्यानुभावमिमं भगवान्स्वायम्भुवो नारदः सह तुम्बुरुणा सभायां ब्रह्मणः संश्लोकयामास ॥ ४० ॥

पदरत्नावली

संश्लोकयामास पद्यलक्षणवाक्यैः कथयामास (‘संश्लोकयामास श्लोकै-रस्तावीत्’ इति कपाठः) ॥ ४० ॥

प्रकाशिका

सश्लोकयामास पद्यलक्षणवाक्यैः कथयामास ॥ ४० ॥

उत्पत्तिस्थितिलयहेतवोऽस्य कल्पाः सत्वाद्याः प्रकृतिगुणा यदीक्षयाऽसन् ।

यद्रूपं ध्रुवमकृतं यदेकमात्मन्नानाधात्कथमु ह वेद तस्य वर्त्म ॥ ४१ ॥

तात्पर्यम्

इलावृतस्थस्तुतिवत्पातालमूलस्थस्तुतिर्योजनीयाऽनन्तविषया ॥ ४१ ॥

पदरत्नावली

हरेश्चतसृषु मूर्तिषु द्वितीयमूर्तेः शेषे विशेषसन्निधानात् तस्योपपन्नान् गुणांश्छेषस्यैव कीर्तयति– उत्पत्तीति ॥ अस्य जगत उत्पत्त्यादिहेतवः सत्वाद्याः प्रकृतिगुणा यदीक्षया कल्पा समर्थाः । आसन्नुत्पत्त्यादाविति शेषः । नन्वचेतनस्य स्वतः प्रवृत्त्यनुपपत्ते-स्तत्सम्बन्धेन प्रवृत्तौ तस्यापि तद्विकारापत्तिरिति तत्राह– यद्रूपमिति ॥ ध्रुवं शश्वदेकप्रकारम् । कुतः । अकृतमकृत्रिमत्वात् । नित्यस्यापि जीवस्य शरीरसम्बन्धेन विकारादकृतस्यापि प्रधानस्य कार्यरूपेण तु तत्वदर्शनादस्याकृतत्वमौपचारिकं किं न स्यादिति तत्राह– यदेकमिति ॥ यदेकं केवलं कार्यात्मना तत्सङ्गेन वा विकारि न भवति ‘सच्च त्यच्चाभवत्’ इति श्रुतेः । कार्यत्वश्रुतेः कथं न तन्मुख्यं स्यादित्यत्राह– आत्मन्निति ॥ आत्मन्नात्मनि स्वाधारतया नानाविधं जगदधाद् धृतवान्, न तु तद्रूपत्वेन ‘य उ त्रिधातु पृथिवीमुतद्याम्’ इति श्रुतेः । किंचाचिन्त्यमहिमत्वात्तत्स्वरूपं दुर्ज्ञेयमित्यभिप्रेत्याह– कथमिति ॥ तस्य शेषान्तर्यामिणः सङ्कर्षणनामधेयस्य हरेर्वर्त्म वर्तनं कथमु ह वेद? न कथमपीत्यर्थः । ‘मुह्यन्ति यं सूरयः’ इति स्वोक्तिं हेत्यनेन स्मारयति (‘अस्य जगत उत्पत्तिस्थितिलयहेतवः सत्त्वाद्याः प्रकृतिगुणा यस्य शेषे विशेषतः सन्निहितस्य सङ्कर्षणस्येक्षया कृपावलोकनेन कल्पाः स्वस्व-कार्यकरणे समर्था आसन् । यद्रूपं ध्रुवं शश्वदेकप्रकारम्, अकृतमकृत्रिमं सज्ज्ञानानन्दादिस्वरूप-मित्यर्थः । एकं सर्वोत्तमम् । ‘एकः सर्वाधिको ज्ञेय एष एव करोति यत्’ इति महावराहे । आत्मन् आत्मनि स्वाधारतया नानाविधं जगदधाद् दधार । अनन्याधीनत्वज्ञापनाय आत्म-न्नित्युक्तम् । किञ्चाचिन्त्यमहिमत्वात् तत्स्वरूपं दुर्ज्ञेयमित्याशयेनाह– कथमिति ॥ तस्य शेषान्तर्यामिणः सङ्कर्षणनामधेयस्य हरेर्वर्त्म प्राप्तिमार्गं तत्करुणामन्तरेण जनः कथमु ह वेद ? नैव वेदेत्यर्थः । ‘मुह्यन्ति यं सूरयः’ इत्यादेर् इति कपाठः) ॥ ४१ ॥

प्रकाशिका

उत्पत्तीत्यादिश्लोकेषु जन्मादिकर्तृत्वरूपं हरेर्माहात्म्यमुच्यते । तत्कथं शेषस्तुतित्वेन व्याख्येयमित्यतोऽत्र विवक्षिततात्पर्यं दर्शयति ॥ इलावृतस्थस्तुतिवदिति । इलावृतखण्डे विद्यमानस्यानन्तस्य स्तुती रुद्रेण कृता यथा । जीवव्यपेक्षया चैव तथाऽन्तर्याम्य-पेक्षया मिश्राः स्तुतयो ज्ञेया विष्णोरन्यत्र केवलमिति प्रमाणबलान्मुख्यामुख्यविवक्षयोभयपरतया व्याख्याताः । इलावृतस्थानन्तस्तुतिर्मुख्यतोऽनन्तस्थहरिविषयैवामुख्यतोऽनन्तविषया योजनीया । अतो न कोऽपि विरोध इत्याशयः ॥ ततश्चायमुत्पत्तीत्यादेर्मूलस्यार्थः ॥ अस्य जगत उत्पत्त्यादिहेतवः सत्त्वाद्याः प्रकृतिगुणा यस्य शेषान्तर्यामिणः सङ्कर्षणस्येक्षया कृपावलोकनेन कल्पाः स्वस्वकार्यकरणे समर्था आसन् । यद्रूपं ध्रुवं नाशशून्यमकृतमनादि यदेकमेव सत् । आत्मन्नात्मनि स्वाधारतया नाना नानाविधं जगदधाद् धृतवत् । स्थानभेदेन भेदशङ्कापरिहारा-यैकमित्युक्तम् । अन्यन्याधीनत्वप्रदर्शनायात्मन्निति । तस्य शेषान्तर्यामिणो वर्त्म तत्त्वं जनः कथमु ह वेद नैव वेदेत्यर्थः ॥ ४१ ॥

मूर्तं यः पुरुकृपया बभार सत्वं संशुद्धं सदसदिदं विभाति यत्र ।

यल्लीलां मृगपतिराददेऽनवद्यामादातुं स्वजनमनांस्युदारवीर्यः ॥ ४२ ॥

पदरत्नावली

आत्मन्नानाधादित्येतत्सङ्क्षिप्याह– मूर्तमिति ॥ सत्वं बलज्ञान-समाहारलक्षणम् । अत एव संशुद्धं लोकदृष्ट्या मूर्तं परिमितम् । यत्र रूपे इदं सदसत्कार्य-कारणात्मकम् । अधिकरणाधेययोर्नामभेदः शङ्कनीयः । मृगपतिः सिंहो यस्य लीलां शौर्यादि-लक्षणमाददे अशिक्षत । लीलाकरणप्रयोजनमाह– आदातुमिति ॥ अनेन ‘आत्मन् नानाऽ-धात्’ इत्यत्र स्वाभिन्ना मत्स्यादिनानावतारा अप्यकृता इति ज्ञायते (‘निजगुणगणसंस्मरणादिना कृपणभक्तजनोद्धरणाय करुणार्णवो हरिर्धरायां नानावतारान् दधारेत्याह– मूर्तमिति ॥ यत्रेदं सदसत् कार्यकारणात्मकं जगद् विभाति स नोऽस्माकं भक्तानां पुरुकृपया सत्त्वं बलज्ञानादि-समाहारलक्षणमत एव संशुद्धं मूर्तं लोकदृष्ट्या परिमितं रूपं बभार । यद् यस्मात् स्वजनानां मनांस्यादातुं वशीकर्तुं मृगपतिः सिंह इवोदारवीर्यो लीलां शौर्यादिलक्षणामाददे ।’ इति कपाठः) ॥ ४२ ॥

प्रकाशिका

तर्हि मुमुक्षुभिः कथं ज्ञायत इत्यत उक्तम् ॥ मूर्त्तं य इति । यत्रेदं सद-सत्कार्यकारणात्मकं जगद्विभाति । स नोऽस्माकं भक्तानामुरुकृपया सत्त्वं बलज्ञानसमाहार-रूपमत एव संशुद्धं मूर्त्तमस्मद्बुद्धियोग्यपरिच्छिन्नपरिमाणोपेतं रूपं बभार । स्वजनानां मनांस्यादातुं वशीकर्तुं यस्य लीलां शौर्यादिलक्षणां मृगपतिः सिंह आददे अशिक्षत ॥ ४२ ॥

यन्नामश्रुतमनुकीर्तयेदकस्मादार्तो वा यदि पतितः प्रलोभनाद्वा ।

हंत्यंहः सपदि नृणामशेषमन्यं कं शेषाद्भगवत आश्रयेन्मुमुक्षुः ॥ ४३ ॥

पदरत्नावली

यन्नामस्मरणमात्रेणाशेषजन्मार्जितपापक्षयश्रवणात् तन्नामकीर्तनेनाघक्षयो भवतीति किं वक्तव्यमित्यभिप्रेत्य स्तुवता शेषान्तर्यामी श्रीनारायण एव स्तूयते अजामिलादौ दर्शनाच्च अन्यनामकीर्तने न तादृक् फलादर्शनाच्चेति भावेनाह– यन्नामेति (‘भक्त्या हरेरेव नामोच्चारणादिना नानाजन्मार्जितपापक्षयश्रवणाद् अजामिलादौ दर्शनाच्च, अन्यनामानुकीर्तनादिना तादृक्फलादर्शनाच्च अत्र शेषान्तर्यामी नारायण एव स्तूयते– यन्नामेति ॥ प्रलम्भनाद् उपहासात् ।’ इति कपाठः) ॥ शेषाच्छेषान्तर्यामिणो हरेरन्यं कं पुरुषं मुमुक्षुराश्रयेत् । ‘अहं भोगप्रदो वत्स मोक्षदस्तु जनार्दनः’ इत्युक्तिं स्मारयति ॥ ४३ ॥

प्रकाशिका

मुमुक्षूणामेतत्सेवाऽनायाससाध्येत्याह ॥ यन्नामेति ॥ ४३ ॥

मूर्धन्यर्पितमणुवत्सहस्रमूर्ध्नो भूगोलं सगिरिसरित्समुद्रसत्वम् ।

आनन्त्यादविदितविक्रमस्य भूम्नः को वीर्याण्यपि गणयेत्सहस्रजिह्वः

॥ ४४ ॥

पदरत्नावली

गुरुगिर्यादिधरधरागोलधृतिरपि शेषस्य हरिसन्निधानादेवान्यकृता नेति भावेनाह– मूर्धनीति ॥ विक्रमाणामानन्त्यात् साकल्येनाज्ञातपराक्रमस्य सहस्रजिव्हः शेष इत्यनेन स्पष्ट्यते (‘गुरुतरगिर्यादिसहितभूगोधारणमपि शेषस्य तदन्तर्यामिणः सङ्कर्षणस्य सन्निधानादेवेत्याशयेनाह– मूर्धनीति ॥ शेषान्तर्यामिणः सङ्कर्षणस्य शिरसीति मुख्यार्थः । तस्य भूम्नो वीर्याणि सहस्रजिह्वोऽपि को गणयेदित्यन्वयः ।’ इति कपाठः) ॥ ४४ ॥

प्रकाशिका

उदारवीर्य इत्युक्तमुपपादयति ॥ मूर्धनीति । गिर्यादिसहितं भूगोलं सत्त्वानि प्राणिनः सहस्रं मूर्धानो यस्य मूर्धन्यर्पितमणुवत्परमाणुवद्वर्तते । तस्य भूम्नो वीर्याणि । सहस्रजिह्वोऽपि को गणयेदित्यन्वयः ॥ ४४ ॥

एवं प्रभावो भगवाननन्तो दुरन्तवीर्यः स्वगुणानुभावः ।

मूले रसायाः स्थित आत्मतन्त्रो यो लीलया क्ष्मां स्थितये बिभर्ति ॥४५॥

पदरत्नावली

शेषे त्व सम्भावितगुणकर्मकथनपूर्वकं स्तवनमुपसंहरति– एवमिति ॥ दुरन्तवीर्य इत्यनेनानन्तनामहरेरेव मुख्यं नान्यस्य । अतोऽनन्ते न लिङ्गमप्यनन्त इत्यादि-सूत्रस्मृती प्रमाणमिति दर्शयति– स्वगुणानेवानुभवति भुङ्क्त इति । कर्मण्यण् प्रत्ययः । देहिदेह-स्थितत्वेन दुःखानुभवस्यापि सम्भवात् कथं स्वगुणभोग इत्यत उक्तम्– आत्मतन्त्र इति ॥ भारस्य भर्तुः श्रमदर्शनादौपचारिकमिदं स्वातन्त्र्यं किं न स्यादित्यत उक्तम्– यो लीलयेति (‘एवमचिन्त्यः प्रभावो यस्य स तथा । रसाया भूमेर्मूले स्थितः सन् ।’ इति कपाठः)॥४५॥

प्रकाशिका

दुरन्तं वीर्यं यस्य स तथा । स चासौ स्वगुणानामनुभावः सामर्थ्यं यस्य स तथा । रसाया भूमेर् उत्पत्तीत्यादिकं शेषदेवेऽप्यमुख्यतया कथञ्चिद्योज्यमतोऽस्य मिश्रस्तुतितेति ज्ञातव्यम् ॥ ४५ ॥

**एता ह्येवेह नृभिरुपगन्तव्या गतयो यथाकर्मविनिर्मिता यथोपदेशमनुवर्णिताः **

॥ ४६ ॥

पदरत्नावली

परीक्षित्प्रश्नपरिहारार्थमुपसंहरति– एता हीति ॥ गम्यन्त इति गतयो लोका उपगन्तव्या धर्मफलत्वेन । यथा कर्मनिर्मितास्तारतम्येनेति शेषः । एवशब्देन निषिद्धकर्मप्राप्यस्थानमन्तरेणान्यव्यवच्छेदः क्रियते । हिशब्दः प्रमाणप्रसिद्धिं वक्ति (‘इह प्रवृत्तिमार्गे नृभिरुपगन्तव्या यथाकर्म तत्तत्कर्मानुसारेण विनिर्मिता गम्यन्त इति गतयो लोका एता एव हि प्रसिद्धा यथोपदेशं मयाऽनुवर्णिताः ।’ इति कपाठः) ॥ ४६ ॥

प्रकाशिका

उक्तस्य लोकविभागस्योपयोगं वदन्नुपसंहरति ॥ एता ह्येवेति । गम्यन्त इति गतयो लोका । यथा कर्मविनिर्मिताः । तारतम्येनेति शेषः । तथा यथोपदेशमनुवर्णिताः

॥ ४६ ॥

कामान्कामयमानस्यैतावत्यो हि राजन् पुंसः प्रवृत्तिलक्षणस्य धर्मस्य विपाकगतय उच्चावचा विसदृशा यथाप्रश्नं व्याख्याताः किमन्यत्कथयाम

इति ॥ ४७ ॥

॥ इति श्रीमद्भागवतमहापुराणे पञ्चमस्कन्धे त्रयोविंशोऽध्यायः ॥

पदरत्नावली

मुक्तिगतेरन्यस्या विद्यमानत्वात् कथमेतावत्य इतीयत्तेति तत्राह– कामानिति ॥ मुक्तेरपीच्छाविषयत्वादित्यतः सामान्येनोक्तं विशिनष्टि– प्रवृत्तिलक्षणस्येति ॥ (‘विपाकगतयः फलभूता लोकाः’ इति कपाठः)उच्चावचानां सालक्षण्यं नास्तीत्याशयेनोक्तम्– विसदृशा इति ॥ (‘विसदृशा विलक्षणाः’ इति कपाठः)यथा प्रश्नं व्याख्याता इत्यनेनान्योऽपि वक्तव्यांशोऽस्तीति ज्ञायते । तत्र वक्तव्यांशा बहवः सन्ति तेषु किं वक्तव्यं तदाख्याहि, तस्यापि परिहारं कथयाम इत्याशयेनाह– किमन्यदिति ॥ ४७ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

पञ्चमस्कन्धे त्रयोविंशोऽध्यायः ॥

प्रकाशिका

कामान् कामयमानैर्नृभिरुपगन्तव्या इत्यन्वयः ॥ एतदेव विशदयति ॥ एतावत्यो हीति । विपाकगतयः फलभूता लोकाः । विसदृशा विलक्षणाः ॥ ४७ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागतटिप्पण्यां प्रकाशिकायां पञ्चमस्कन्धे त्रयोविंशोऽध्यायः ॥ ५-२३ ॥