२२ द्वाविंशोऽध्यायः

यदेतस्य भगवत आदित्यस्य मेरुं ध्रुवं

॥ अथ द्वाविंशोऽध्यायः ॥

राजोवाच–

यदेतस्य भगवत आदित्यस्य मेरुं ध्रुवं च प्रदक्षिणेन परिक्रमतो राशीना-मभिमुखं च प्रचलनं भगवतोपवर्णितम् अमुष्य वयं कथमनुमीमहीति ॥ १ ॥

पदरत्नावली

उक्तैवाध्यायसङ्गतिः (‘पौनःपुन्येन महावृश्चिकदंशनैर्दूयमानजन्तुरिव विविधदुरितकृतोपतापैस्तातप्यमानसुजनानां त्रिकालाचरितदुरितनिकरनिरसनद्वारा श्रेयोऽभिवृद्ध्यर्थं हरेर्ज्ञानानन्दात्मकशिंशुमाररूपमाहात्म्यं निरूपयत्यस्मिन्नध्याये ।’ इति कपाठः) । राशीनां प्रचलनमपि प्रदक्षिणत इति यस्मात्तस्मादेतस्यादित्यस्य राशीनामभिमुखप्रचलनमप्रदक्षिणगमनं घटते तदनुपपन्नं भगवता तदभिमुखप्रचलनमुपवर्णितं यस्मात्तस्मादमुष्यादित्यस्याभिमुखतया गमनस्य राशीनां प्रचलनस्याभिप्रायं कथमनुमीमहि युक्तिपूर्वकं बुध्यामह इति (‘सव्येनाचलं दक्षिणेन करोति’ इत्यादिनाऽऽदित्यस्य राशीनामभिमुखं प्रदक्षिरं चोपवर्णितम् । राशीनाम-प्रदक्षिणतो गमने हीदं कथञ्चिद् घटते । न च तदस्ति । नक्षत्रैः सहेति राशीनामपि प्रचलनस्य प्रदक्षिणत एवोक्तत्वात् । तस्मात् कथं सूर्यस्य राशिभिः सह मेरुं परिक्रामतो राश्यभिमुखया गमनम् ? विरुद्धत्वात् । अत एतत् कतमनुमीमहि युक्तिपूर्वकं बुध्यामहे ? ।’ इति कपाठः)

॥ १ ॥

प्रकाशिका

राशीनामभिमुखं प्रदक्षिणं चोपवर्णितम् । सव्येनाचलं दक्षिणेन करोतीति वदता । यद्वा । यदा वृषभादिषु राशिषु चरतीत्यादिकं वदतेत्यर्थः । राशिषु सञ्चरणं तदाभि-मुखेनैवेति शास्त्रान्तरे प्रसिद्धमित्यतोऽभिप्रायत उपवर्णितमिति व्याख्येयम् । अमुष्य वयं कथमनुमीमहि । एतत्कथं सयुक्तिकं ज्ञास्यामो राशीनामप्रदक्षिणतो गमने हीदं कथञ्चिद्घटते । न च तदस्ति । नक्षत्रैः सहेति राशीनामपि प्रचलनस्य प्रदक्षिणत एवोक्तत्वात् । अतः सूर्यस्य राशिभिः सह प्रदक्षिणेन मेरुं परिक्रमतो राश्यभिमुखतया गमनं विरुद्धमत एतत्कथ-मनुमीमहीत्यर्थः ॥ १ ॥

स होवाच शुकः यथा कुलालचक्रेण भ्रमता सह भ्रमतां तदाश्रयाणां पिपीलिकादीनां गतिरन्यैव प्रदेशान्तरेष्वप्युपलभ्यमानत्वात् । एवं नक्षत्रराशिभि-रुपलक्षितेन कालचक्रेण ध्रुवं मेरुं प्रदक्षिणतः परिधावता सह परिधावमानानां तदाश्रयाणां सूर्यादीनां ग्रहाणां गतिरन्यैव नक्षत्रान्तरे राश्यन्तरे वोपलभ्य-मानत्वात् ॥ २ ॥

पदरत्नावली

प्रदक्षिणतो भ्रमता कुलालचक्रेण सह प्रदक्षिणीक्रियमाणा अपि तद्गताः पिपीलिका-दयो यथा स्वप्रयत्नसाध्यगत्या विपरीतं गच्छन्त्येवं प्रदक्षिणेन भ्रमता ज्योतिश्चक्रेण सह प्रदक्षिणीक्रियमाणोऽपि सविता स्वगत्या पूर्वापरीभावतया शीघ्रमन्दमध्यभेदेन राशीनामभि-मुखं चलतीत्यभिप्रायः (‘चलतीति विरोधपरिहारः’ इति कपाठः) । राश्यादयः प्रत्यादित्यं स्वपृष्ठतो गच्छन्तीत्येके । बिम्बप्रतिबिम्बवत् ॥ २ ॥

प्रकाशिका

नक्षत्रराशिभिर्नक्षत्रपादनवकात्मकमेषादिराशिभिरुपलक्षितेन युक्तेन काल-चक्रेण कालज्ञापकसूर्यरथेन । अत्र सूर्यरथस्य नक्षत्रराशियुतत्वं वायुपाशविशेषद्वारेति ज्ञातव्यम् । एवं तदाश्रयणामित्युक्तं सोमादीनां सूर्यरथाश्रितत्वमपि वायुपाशद्वारैवोपपादनीयम् । तथा च प्रदक्षिणतः भ्रमता कुलालचक्रेण सह प्रदक्षिणीक्रियमाणा अपि तद्गता पिपीलिकादयो यथा स्वप्रयत्नसाध्यगत्याऽप्रदक्षिणा गच्छन्ति । एवं प्रदक्षिणेन भ्रमता सूर्यरथेन सह प्रदक्षिणी-क्रियमाणोऽपि सविता स्वस्वाभाविकगत्योत्तरायणादिरूपया राशीनामभिमुखमप्रदक्षिणतश्चलति । अतो न कोऽपि विरोध इत्यर्थः । सूर्यादीनामिति वचनात् प्रश्नवाक्यस्थादित्यशब्द इतरोपलक्षक इति ज्ञातव्यम् ॥ २ ॥

स एष भगवानादिपुरुषः साक्षान्नारायणो लोकानां स्वस्तय आत्मानं त्रयीमयं कर्मविशुद्धिनिमित्तं कविभिरपि वेदेन विज्ञास्यमानो द्वादशधा विभज्य षट्सु वसन्तादिषृतुषु यथोपजोषमृतुगुणान् विदधाति ॥ ३ ॥

पदरत्नावली

वसन्तादिषु ऋतुषु क्रियमाणानां कर्मणां विशुद्धेर्निमित्तं (‘विशुद्धेर्निमित्त-भूतमात्मानं द्वादशधा विभज्येत्यन्वयः’ इति कपाठः) तदर्पणत्वेनेतिशेषः । कविभिर् भूतभविष्यद्वर्तमानज्ञैर्ब्रह्मविद्भिः । यथोपजोषं यथाक्रमम् (यथाक्रमभोगम् । ऋतुगुणात् पुष्पफल-शीतोष्णादीन् ।’ इति कपाठः) ॥ ३ ॥

प्रकाशिका

कर्मविशुद्धनिमित्तं द्वादशधा विभज्येत्यन्वयः । अन्यथा तन्मासदेवता-परिज्ञानाभावेन तदुद्देश्यकर्मणां न शुद्धिर्भवतीत्याशयः । यथोपजोषं स्वप्रीत्यनुसारेण ऋतुगुणान् पुष्पादीन्यस्मिन् ऋतौ यः पदार्थः स्वप्रीतिविषयस्तं पदार्थं तस्मिन् ऋतौ सृष्टवानित्यर्थः ॥३॥

तमेतमिह पुरुषास्त्रय्यां विद्यायां वर्णाश्रमाचारानुपथा उच्चावचैः कर्मभि-राम्नातैर्योगवितानैश्च श्रद्धया यजन्तोंऽजसा श्रेयः समधिगच्छन्ति ॥ ४ ॥

पदरत्नावली

द्वादशधा विभक्तेः कारणमाह– तमेतमिति ॥ वर्णाश्रमाचारमनुपथन्ति अनुगच्छन्तीति वर्णाश्रमाचारानुपथाः । ‘पथे गतौ’ इति धातोः । योगवितानैरीश्वरार्पण– बुद्धिलक्षणोपायविस्तारैः (‘योगवितानैर् ईश्वरार्पणबुद्ध्या क्रियमाणकर्मरूपोपायसमूहैः’ इति कपाठः) आम्नाये वेदे (‘आम्नायैः सदागमैः’ इति कपाठः) आम्नातैः प्रतिपादितैः (‘प्रतिपादि-तैरुच्चावचैः सन्ध्योपासनाग्निहोत्रादिभिः कर्मभिः’ इति कपाठः) ॥ ४ ॥

प्रकाशिका

त्रय्यां विद्यायामाम्नातैः प्रतिपादितैः कर्मभिरित्यर्थः । वर्णाश्रमाचारानुपथा वर्णाश्रमविहिताचारानुवर्तिनः पुरुषा योगवितानैरीश्वरार्पणबुद्ध्या क्रियमाणकर्मादिरूपयोगसमूहै-रंजसा श्रेयो मुख्यं श्रेयो मोक्षरूपम् ॥ ४ ॥

अथ स एष आत्मा लोकानां द्यावापृथिव्योरन्तरेण नभोवलयस्य कालचक्र-गतो द्वादशमासान् भुङ्क्ते तानेव राशिसंज्ञान् संवत्सरावयवान् मासान् पक्षद्वयं सपादर्क्षद्वयमुपदिशन्ति यावता षष्ठमंशं भुञ्जीत स वै ऋतुरित्युपदिश्यते संवत्सरावयवः ॥ ५ ॥

पदरत्नावली

अथ स इति तच्छब्देन सूर्यान्तर्यामी नारायणः परामृश्यते । प्रस्तुतत्वाद् लोकानामात्मेत्युक्तेश्च । अथशब्दान्नारायणाधिष्ठानभूतः सूर्यो वा । द्यावापृथिव्योरन्तरेण मध्ये स्थितस्य नभोवलयस्य मध्यवर्तीकालचक्रगतः भुक्तिर्वर्तनं रानीनां संज्ञा येषां मासानां ते तथा तान् । मेषवृषादीनित्यर्थः । संवत्सरस्य द्वादशांशो मास इति ज्ञापनाय संवत्सरावयवानिति विशेषणम् । पक्षद्वयमित्यनेन मासपरिमाणं, सपादर्क्षद्वयमित्यनेन नक्षत्रनिमित्तमासपरिमाणं, तिथ्यात्मकालांशभोक्तृत्वं चेत्यनेनोक्तम् । कृत्तिकापादयुक्ताश्विनीभरण्यौ मेष इत्यादिक्रमेण बोद्धव्यम् । पक्षद्वयात्मकालभोगेन सह सपादर्क्षद्वयात्मकालस्य भुज्यमानत्वादुभयं च युज्यत इत्यर्थः । संवत्सरस्य षष्ठमंशं मासद्वयं यावता कालेन नभोवीथ्या र्ओन प्रचरति तं कालमयनमाहुः । दक्षिणायनमुत्तरायणम् । उत्तरायणे मन्दगतिर्दक्षिणायने त्वरिता गतिर्वैषुवे समाना गतिरिति (अथ स इति तच्छब्देन सूर्यान्तर्यामी नारायणः परामृश्यते । स एष लोकानामात्मा सूर्यान्तर्यामी नारायणो द्यावापृथिव्योरन्तरेण मध्ये यन्नभोवलयमन्तरिक्षं तस्य मध्ये यत् कालचक्रं तद्गतो राशिभिर्मेषादिभिः सञ्ज्ञा येषां तान् संवत्सरस्यावयवभूतान् द्वादशमासान् मेषसङ्क्रमणादिरूपान् सौरमासान् भुङ्क्ते प्रवर्तयति । इदमुपलक्षणम् । चैत्रादि-सञ्ज्ञान् चान्द्रमासानित्यपि ग्राह्यम् । अत एव मासभेदानाह– मास इति ॥ पक्षद्वयं मास इति चान्द्रेण मासेन । दिवानक्तं चेति पितृणाम् । सपादर्क्षद्वयमिति सौरेण । कृत्तिकापाद-युक्ताश्विनीभरण्यो मेषमास इत्यादिक्रमेण पादेन सहितं नक्षत्रद्वयमित्यर्थः । संवत्सरस्य षष्ठमंशं मासद्वयम् ।’ इति कपाठः) ॥ ५ ॥

प्रकाशिका

एष एव स्वगत्या मासादिरूपकालविशेषः क्रियमाणयोगसमूहैर्ज्ञापक इत्याह ॥ अथ स इति । अथशब्दस्तस्मादित्यर्थे । द्वादशधा विभक्तत्वादित्यर्थः । लोका-नामात्मा स्वामी । द्यावापृथिव्योरन्तरेण मध्ये विद्यमानस्य नभोवलयस्यान्तरिक्षस्य मध्ये कालचक्रगतः कालचक्राश्रितो भुङ्क्ते प्रवर्तयति । लोकानां ज्ञापयतीति यावत् । राशीनां मेषादीनां संज्ञा येषां तान्मेषसंक्रमणादिरूपान् सौरमासानुपदिशन्तीत्यन्वयः । इदमुपलक्षणम् । चैत्रादिसंज्ञान् चान्द्रमासानित्यपि ग्राह्यम् । अत एव चान्द्रमासप्रमाणमाह ॥ पक्षद्वयमिति । सपादऋक्षद्वयमिति सौरमासप्रमाणमुक्तं कृत्तिकापादयुक्ताश्विनीभरण्यौ मेषमास इत्यादिक्रमेण पादेन सहितं नक्षत्रद्वयमित्यर्थः । संवत्सरस्य षष्ठमंशं मासद्वयम् इति कपाठः ॥ ५ ॥

अथ च यावताऽर्धेन नभोवीथ्याः प्रचरति तं कालमयनमाचक्षते ॥ ६ ॥

पदरत्नावली

(नभोवीथ्या इति जात्यैकवचनम् । अर्धेन चतुर्दशनक्षत्रात्मकेन मार्गेण । यानि पुष्यादीनि उत्तराषाढान्तानि चतुर्दशनक्षत्राणि तेषु यावता षण्मासात्मकेन कालेन प्रचरति तं कालं दक्षिणायनमित्याचक्षते । यान्यभिजिदादीनि पुनर्वस्वन्तानि चतुर्दशनक्षत्राणि तेषु यावता कालेन प्रचरति तं कालमुत्तरायणमित्याचक्षते ।’ इति कपाठः) ॥ ६ ॥

प्रकाशिका

नभोवीथ्या इति । नभसि विद्यमानाया अश्विन्यादिनक्षत्ररूपाया वीथ्या इत्यर्थः । वीथ्या इत्येकवचनं जात्यभिप्रायेण । नभसि हि वीथित्रयं प्रसिद्धम् । उत्तरत ऐरावती वीथी । मध्यतो जारद्गवी । दक्षिणतो वैश्वानरीति ॥ तदुक्तम् ॥ सर्वग्रहाणां त्रीण्येव स्थानानि द्विजसत्तम । स्थानं जारद्गवं मध्यं तथैरावतमुत्तरम् । वैश्वानरं दक्षिणतो निर्दिष्टमिह तत्त्वत इति । एतद्वीथीत्रयं प्रत्येकं त्रेधा भिद्यते । नागवीथी गजवीथी ऐरावतीत्युत्तरभागे वीथित्रयम् । आर्षभागो वीथी जरद्गवी चेति मध्यभागे वीथित्रयम् । अजावीथी मथवीथी वैश्वानरी चेति दक्षिणभागे वीथित्रयम् । एताश्च वीथ्योऽश्विन्यादिनक्षत्ररूपा एव । तथा चोक्तं वायुपुराणे । अश्विनी कृत्तिका याम्या नागवीथी तु शब्दिता । रोहिण्यार्द्रा मृगशिरो गजवीथ्यभिधीयते । पुष्याश्लेषा तथाऽऽदित्या वीथी चैरावती मता । एतास्तु वीथयस्तिस्र उत्तरो मार्ग उच्यते । तथा द्वे चापि फाल्गुन्ये मघा चैवार्षभी मता । हस्तचित्ते तथा स्वाती गोवीथी तु शब्दिता । ज्येष्ठा विशाखाऽनुराधा वीथी जारद्गवी मता । एतास्तु वीथयस्तिस्रो मध्यमो मार्ग उच्यते । मूलाषाढोत्तराषाढा अजवीथी तु शब्दिता । श्रवणश्च धनिष्ठा च मार्गी शतभिषक्तथा । वैश्वानरी भाद्रपदे रेवती चेति कीर्तिता । एतास्तु वीथयस्तिस्त्रो दक्षिणो मार्ग उच्यत इति । याभ्या भरणी । आदित्या अदितिदेवताका । पुनर्वसुः । मार्गी मृगवीथी । उत्तराषाढान्त्य-भागस्य श्रवणपूर्वभागस्य चाभिजिदिति संज्ञां प्रकल्प्याष्टाविंशति नक्षत्राणीत्याकरे स्पष्टम् । तथा च नभोविथ्या नभसि विद्यमानानां नक्षत्ररूपाणां वीथीनामर्धेन चतुर्दशनक्षत्रात्मकेन मार्गेण यावता कालेन षण्मासात्मकेन प्रचरति तं कालमयनं दक्षिणायनमित्याचक्षते । यानि पुष्यादीनि उत्तराषाढान्तानि चतुर्दश नक्षत्राणि तेषु यावता कालेन प्रचरति तं कालमुत्तरायणमित्याचक्षत इत्यर्थः ॥ ६ ॥

अथ च यन्नभोमण्डलं सह द्यावापृथिव्योर्मण्डलाभ्यां कार्त्स्न्येन भुञ्जीत तं कालं संवत्सरं परिवत्सरमिडावत्सरमनुवत्सरं वत्सरमिति भानोर्मांद्याशैघ्य्र-समानगतिभिः समामनन्ति ॥ ७ ॥

पदरत्नावली

द्यावापृथिव्योर्मण्डलाभ्यां सह नभोमण्डलं प्रचलति, तं कालं संवत्सरादि-पञ्चभेदेन सूर्यस्य मन्दादिगतिभेदाद्वदन्ति । तज्ज्ञा इति शेषः (‘मान्द्यादिगतिभिर् द्यावापृथि-व्योर्मण्डलाभ्यां सह विद्यमानं नभोमण्डलं कार्त्स्न्येन अष्टाविंशत् सङ्ख्यया कृत्स्ननक्षत्रसञ्चरणेन यावद् भुञ्जीत प्रकाशयेत् तं कालं संवत्सरादिरूपं समामनन्ति । उक्तं हि ब्रह्मतर्के ‘इडावत्सरनामाऽसौ नक्षत्रद्वादशस्थितः । तिथीनां द्वादशावर्ते यो हरिः सोऽनुवत्सरः ॥ वत्सरो यः स्थितस्त्वाह्नां षष्ठ्युत्तरशतत्रये । गुर्वावर्तद्वादशांशे यः स्थः स परिवत्सरः ॥ सौरद्वादशके मासे यः स्थः संवत्सरो हरिः । एवं स कालनामाऽपि कालस्थः परमेश्वरः ॥’ इति ।’ इति कपाठः) ॥ ७ ॥

प्रकाशिका

अथ च यदिति ॥ यद्यावता कालेन द्यावापृथिव्योर्मण्डलाभ्यां सह विद्यमानं नभोमण्डलं लोकमित्यर्थः । कार्त्स्नेनाष्टाविंशतिसङ्ख्याककृस्त्ननक्षत्रसंचरणेन भुञ्जीत प्रकाशयेत्तं कालं संवत्सरादिरूपं समामनन्तीत्यन्वयः । संवत्सरादिसंज्ञानामर्थभेदस्तृतीयस्कन्धे भगवत्पादैरेवाभिहितस्तत्रैवानुसन्धेयः । नक्षत्रादिगतेरपि सूर्यगत्यधीनत्वात्तृतीये भगवत्पादोदित-वत्सरपञ्चकस्य सूर्यप्रवृत्तित्वमुपपन्नमिति ज्ञातव्यम् । कार्त्स्नेनेत्युक्तमेव विवृणोति ॥ भानो-रिति । उत्तरायणे मन्दगतिर्दक्षिणायने शीघ्रगतिर्वैषुवे समानेति ज्ञातव्यम् ॥ ७ ॥

एवं चन्द्रमा अर्कगभस्तिभ्य उपरिष्टाल्लक्षयोजनत उपलभ्यमानोऽर्कस्य संवत्सरभुक्तिं पक्षाभ्यां मासभुक्तिं सपादर्क्षाभ्यां दिनेनैव पक्षभुक्तिमग्रचारी द्रुततरगमनो भुङ्क्ते (नक्षत्राणामग्रणीत्वं च) ॥ ८ ॥

पदरत्नावली

अर्कस्य संवत्सरभुक्तिं द्वादशराशिप्राप्तिं पक्षाभ्यां शुक्लकृष्णसंज्ञाभ्यां भुङ्क्ते । मासभुक्तिं सपादर्क्षाभ्यां सकृत्तिकाश्विनीभरणीभ्यामित्यादिक्रमेण प्राप्नोति । पक्षभुक्तिमेकनक्षत्र-संमितां दिनेनैव भुङ्क्ते । चन्द्र इत्यर्थः । अत्र हेतुमाह– अग्रचारीति ॥ नक्षत्राणामग्रणीत्व-मग्रचारित्वम् ॥ ८ ॥

प्रकाशिका

एवमादित्यस्य स्थानं कार्यं चाभिधाय सोमादीनामपि तदाह ॥ एवं चन्द्रमा इत्यादिना । अर्कगभस्तिभ्योऽर्कमण्डलात् । संवत्सरभुक्तिं द्वादशराशिरूपां पक्षाभ्यां शुक्लकृष्णसंज्ञाभ्यां भुङ्क्ते प्राप्नोति । मासभुक्तिमित्यादावर्कस्येत्यनुवर्तते । तथा चार्कस्य मासभुक्तिमेकराशिप्राप्तिरूपामित्यर्थः । सपादऋक्षाभ्यां कृत्तिकापादसहिताश्विनीभरणीभ्यामित्यादि-क्रमेण भुंक्ते इत्यर्थः । अर्कस्य पक्षभुक्तिमेकनक्षत्रप्राप्तिरूपामेकेनैव दिनेन भुंक्त इत्यर्थः । अत्र हेतुमाह ॥ अग्रचारीति । सूर्याद्यपेक्षयाऽग्रे चरतीति तथा । तदपि कुत इत्यत उक्तम् ॥ द्रुततरगमन इति । सूर्यादयो यस्मिन्नक्षत्रे स्थितास्तन्नक्षत्रमेकेनैव दिनेन भुक्त्वाऽग्रे नक्षत्रान्तरं गच्छतीत्यर्थः ॥ ८ ॥

**अथ चापूर्यमाणाभिरुपक्षीयमाणाभिश्च कलाभिः पितॄणामहोरात्राणि पूर्वपक्षा-परपक्षाभ्यां वितन्वानः सर्वजीवनिवहप्राणो जीवश्चैकमेकं नक्षत्रं त्रिंशन्मुहुर्तैर्भुङ्क्ते **

॥ ९ ॥

पदरत्नावली

सर्वजीवराशिचेष्टकः जीवश्च प्राणधारकश्च । दिनेन पक्षभुक्तिं स्पष्टयति– एकमिति ॥ त्रिंशन्मुहूर्तैस्त्रिंशद्भिर्मुहूर्तैः ॥ ९ ॥

प्रकाशिका

सर्वजीवनिवहप्राणः सर्वजीवराशिप्राणनहेतुभूतान्नवृद्धिकरः । अत एव जीवो जीवनप्रदः । दिनेन पक्षभुंक्तिं स्पष्टयति ॥ एकं नक्षत्रमिति । सूर्याद्यधिष्ठितमेकं नक्षत्रमित्यर्थः ॥ ९ ॥

य एष षोडशकलः पुरुषो भगवान्मनोमयोऽन्नमयोऽमृतमयो देवपितृ-मनुष्यभूतपशुपक्षिसरीसृपवीरुधां प्राणाप्यायनशीलत्वात्सर्वमय इति वर्णयन्ति

॥ १० ॥

पदरत्नावली

(‘मनोभिमानित्वान् मनोमयः । अमृतमयोऽमृतस्राविकिरणः’ इति कपाठः) सर्वजीवनिवहप्राण इत्युक्तं स्पष्टयति– देवेति ॥ उपजीव्यप्रधानत्वात् सर्वमय इत्यर्थः

॥ १० ॥

प्रकाशिका

महिमान्तरं वदन् जीवनिवहप्राण इत्युक्तं विशदयति ॥ य एष इति । मनोभिमानित्वान्मनोमयोऽमृतमयोऽमृतस्राविकिरणः । प्राणाप्यायनेति । अन्नवर्धनद्वारेति शेषः । सर्वमयः सर्वजीवप्रधानः ॥ १० ॥

तत उपरिष्टाल्लक्षयोजनतो नक्षत्राणि मेरुं दक्षिणेनैव कालायन ईश्वर-योजितानि सहाभिजिताष्टाविंशतिः ॥ ११ ॥

पदरत्नावली

कालानयने, तादर्थ्ये सप्तमी । कालज्ञापनार्थमीश्वरनियुक्तकालचक्र इति वा । अभिजिद् उत्तराषाढाश्रवणयोः संयोगः । अश्विनीरेवत्योः सन्धिरिति केचित् (‘नक्षत्रा-ण्यश्विन्यादीनि । एवं सति सूर्यादीनां तन्नक्षत्रप्राप्तिस्तन्नक्षत्रसमानदेशप्राप्तिरूपैव विवक्षितेति मन्तव्यम् । कालायने कालचक्रे । उत्तराषाढाश्रवणसन्धावभिजिन्नक्षत्रं फलविशेषेण पृथक् कल्पितं तेन सहाष्टाविंशतिः ‘अभिजिन्नाम नक्षत्रमुपरिष्टादषाढानामधस्ताच्छ्रोणायाः’ इति श्रुतेः ।’ इति कपाठः)॥ ११ ॥

प्रकाशिका

नक्षत्राण्यश्विन्यादीनि । एवं सति सूर्यादीनां तन्नक्षत्रप्राप्तिस्तत्तन्नक्षत्र-समानदेशप्राप्तिरूपैव विवक्षितेति ज्ञातव्यम् । दक्षिणेनैवेत्यवधारणेन सूर्यादीनामेव न तेषामन्या गतिरस्तीति सूचयति । कालायने कालचक्रे सूर्यरथचक्ररूपे । तत्रेश्वरेण योजितत्वं तदनुसारेण प्रवर्तमानत्वम् । अष्टाविंशतिरष्टाधिकविंशतिसङ्ख्याकानि । उपलभ्यन्त इति शेषः ॥ ११ ॥

**तत उपरिष्टादुशना द्विलक्षयोजनत उपलभ्यते पुरतः पश्चात्सहैव चार्कस्य शैघ्य्रमांद्य साम्यादिभिर्गतिभिरर्कवच्चरति लोकानां नित्यदाऽनुकूल एव प्रायेण वर्षं यत्स्थितिद्वारेणानुमीयते स वृष्टिविष्टंभग्रहोपशमन उशनसा बुधोऽपि व्याख्यातः **

॥ १२ ॥

पदरत्नावली

यस्योशनसः स्थितिद्वारेण । वृष्टिविष्टम्भग्रहोङ्गारकः(‘वृष्टेर्विष्टम्भः प्रतिबन्धो यस्मादङ्गारकादिग्रहात् तमुपशमयतीति तथा’ इति कपाठः) ॥ १२ ॥

प्रकाशिका

उशनाः शुक्रः । स्वस्य शैघ्रगत्याऽर्कस्य पुरतः सूर्येण भोक्ष्यमाणे नक्षत्रे मांद्यगत्याऽर्कस्य पश्चात्तेन भुक्तनक्षत्रे साम्यगत्या सहैवार्केण भुज्यमाने नक्षत्रे । आदिपदे-नातिचरादेर्ग्रहणम् । यद्वारेण यस्योशनसः स्थितिद्वारेण वृष्टेर्विष्टंभनं प्रतिबन्धो यस्माद्ग्रहा-त्तमुपशामयतीति वृष्टिविष्ठंभग्रहोपशमनः बुधोऽपि व्याख्यातः ॥ १२ ॥

तत उपरिष्टाद् द्विलक्षयोजनतो बुधः सोमसुत उपलभ्यमानः प्रायेण शुभकृद्यदाऽर्कमतिरिच्येत तदाऽतिवाताभ्रप्रायाऽनावृष्ट्याभयमाशंसते ॥ १३ ॥

पदरत्नावली

(‘पुरतः पश्चात् सहैव वा चरतीत्यंशेन तुल्यतया बुधोऽपि व्याख्यात इत्यर्थः । प्रायेणेत्यस्य कृत्यमाह– यदेति ॥ आशंसते सूचयति ।’ इति कपाठः)॥ १३ ॥

प्रकाशिका

अर्कस्य पुरतः पश्चात्सहैवार्कवच्चरणे विषये विशेषमप्याह ॥ तत इति । प्रायेणेत्यस्य कृत्यमाह ॥ यदेति । अतिरिच्येत क्रमस्थनक्षत्रं विहायान्यत्र गच्छेत् । आशंसते सूचयति ॥ १३ ॥

**तत ऊर्ध्वमङ्गारकोऽपि योजनलक्षद्वितय उपलभ्यमानस्त्रिभिस्त्रिभिः पक्षै-रेकैकशो राशीन् द्वादशानुभुङ्क्ते यदि न वक्रेणाभिवर्तते प्रायेणाशुभग्रहोऽघशंसः **

॥ १४ ॥

पदरत्नावली

तस्योपशान्तिकृत् शुभग्रहसंयोगे शुभसूचको अन्यथाघशंसः दुःखसूचक इत्यतः– प्रायेणाशुभग्रह इति ॥ १४ ॥

प्रकाशिका

अघशंसो दुःखसूचकः । यदि न वक्रेणाभिवर्तते तर्हि त्रिभिस्त्रिभिः पक्षैरित्यन्वयः । शुभग्रहयोगे शुभसूचकोऽपि भवतीत्याशयेन प्रायेणेत्युक्तम् ॥ १४ ॥

तत उपरिष्टाद्विलक्षयोजनान्तरगतो भगवान् बृहस्पतिरेकैकस्मिन् राशौ परिवत्सरं प्रचरति यदि न वक्रः स्यात् प्रायशोऽनुकूलो ब्राह्मणकुलस्य ॥१५॥

प्रकाशिका

सर्वानेव द्वादशराशीन् गुर्वावृत्तद्वादशांशस्य परिवत्सरत्वेनोक्तत्वात्परिवत्सर-मित्युक्तम् ॥ १५ ॥

तत उपरिष्टाद्योजनलक्षद्वयात्प्रतीयमानः शनैश्चर एकैकस्मिन्राशौ त्रिंश-न्मासान् विलंबमानः सर्वानेवानुपर्येति तावद्भिरनुवत्सरैः प्रायेण हि सर्वेषा-मशान्तिकरः ॥ १६ ॥

तत उत्तरस्मादृषय एकादशलक्षयोजनान्तर उपलक्ष्यन्ते य एव लोका-न्समनुभावयन्तो भगवतो विष्णोर्यत्परमं पदं प्रदक्षिणं प्रक्रमन्ति ॥ १७ ॥

पदरत्नावली

तावद्भिस्त्रिंशद्भिरनुवत्सरैः । सर्वराशीननुपर्येति । राशिषु विलम्ब-सञ्चरणात् शनैश्वर इति नाम । प्रायेणैकादशे शुभकरत्वात् (‘सर्वानेव द्वादशराशीननुपर्येति अनुक्रामति । तावद्भिस्त्रिंशद्भिरनुवत्सरैः । राशिषु शनैर्विम्बेन चरतीति शनैश्चरेति नाम । एकादशस्थाने स्थितस्य शुभकारित्वात् प्रायेणेत्युक्तम् ।’ इति कपाठः) ॥ १६-१७ ॥

प्रकाशिका

तावद्भिस्त्रिंशद्भिरनुवत्सरैस्तिथीनां द्वादशावृत्तरूपैर्वत्सरविशेषैः पर्येति प्राप्नोति । अनेन राशिषु विलंबेन चरणात् शनैश्चरेति नामास्येति सूचयति । एकादशादिस्थाने स्थितस्य शुभकारित्वात्प्रायेणेत्युक्तम् ॥ १६ ॥

अथ तस्मात्परतस्त्रयोदशलक्षयोजनान्तरतो यत्तद्विष्णोः परमं पदमभिवदन्ति यत्र महाभागवतो ध्रुव औत्तानपादिरग्निनेन्द्रेण प्रजापतिना कश्यपेन धर्मेण च समकालयुग्भिः सबहुमानं दक्षिणतः क्रियमाण इदानीमपि कल्पजीविनामाजीव्य उपास्ते तस्येहानुभाव उपवर्णितः ॥ १८ ॥

पदरत्नावली

ध्रुवेण समकालं सायुज्यभाग्भिर् उपास्ते । श्रीहरिमिति शेषः (‘ध्रुवेण समकालं युज्यन्त इति तैः । आजीव्यस् तत्वोपदेष्टृत्वादिनोपजीव्यः । उपास्ते, श्रीहरिमिति शेषः । तस्य ध्रुवस्य अनुभावः वासुदेवाराधनादिरूपश् चतुर्थस्कन्धे उपवर्णितः ।’ इति कपाठः) ॥ १८ ॥

प्रकाशिका

तस्मादृषिस्थानाद्यत्तद्विष्णोः परमं पदम् । यत्र ध्रुव उपास्ते । हरिमिति शेषः । अग्निनेत्यादिनोक्ता अग्न्यादयो नक्षत्ररूपा एव तैः समकालयुग्भिः समकालमेव युंजत इति यथा तैर्ध्रुवकालसमकालवासिभिरित्यर्थः । कल्पजीवानां महर्लोकवासिनामाजीव्यस्तत्त्वोप-देष्टृत्वादिनोपजीव्य उपास्ते । हरिमिति शेषः ॥ १८ ॥

**स हि सर्वेषां ज्योतिर्गणानां ग्रहनक्षत्रादीनामनिमिषेणाव्यक्तरंहसा भगवता कालेन भ्राम्यमाणानां स्थाणुरिवावष्टंभ ईश्वरेण विहितः शश्वदवभासते यथा मेढीस्तम्भ आक्रमणपशवः संयोजितास्त्रिभिः सवनैर्यथास्थानं मण्डलानि चरन्ति **

॥ १९ ॥

पदरत्नावली

अनिमिषेण उन्मीलितलोचनेनाक्रमणपशवः । परिवर्तमाना बलीवर्दा मेढीस्तम्भे बद्धास्तामभितो भ्रमन्त इत्यर्थः । त्रिभिः सवनैः शैघ््रयामान्द्यसमसञ्चारैर्यथास्थानं विहितादन्यथा न क्वचिच्चरन्ति भूमण्डलानि मेढीस्तम्भं परितःस्थानानि (अनिमिषेण उन्मीलित-लोचनेन अव्यक्तं रंहो वेगो यस्य तेन कालेन कालनाम्नेश्वरेण । अवष्टम्भ आश्रयः । मेढीस्तम्भे बद्धा धान्याक्रमणपशवो धान्यकाण्डानि पदा मर्दयन्तो बलीवर्दाः कृषीवलेन संयोजितास्त्रिभिः सवनैः शैघ्य्रमान्द्यसमरूपैः कालविशेषैर्यथास्थानं स्वस्वविहितस्थानान्यनतिक्रम्य मण्डलमाचरन्ति यथेति स्थाणुरिवेत्यस्योपपादनम् ।’ इति कपाठः) ॥ १९ ॥

प्रकाशिका

ध्रुवमाहात्म्यमेवाह ॥ स हीति । ज्योतिर्गणानामित्युक्तमेव विवृणोति ॥ ग्रहनक्षत्रादीनामिति । अनिमिषेणोन्मीलितलोचनेन कालेन कालनाम्नेश्वरेणेत्यर्थः । अवष्टंभ आश्रयः । आक्रमणपशवो धान्यकाण्डानि पदा स्पृशन्तो बलीवर्दास्त्रिभिः सवनैः शैघ्रमांद्य-समानरूपैः कालविशेषैर्यथास्थानं स्वस्वविहितस्थानान्यतिक्रम्य मण्डलानि मेढीस्तंभस्य परितो विद्यमानानि त्रीणि स्थानानि ॥ १९ ॥

एवं भगणा ग्रहादय एतस्मिन्नन्तर्बहिर्योगेन कालचक्र आयोजिता ध्रुवमेवाव-लम्ब्य वायुनोदीर्यमाणा आकल्पान्तं परितः क्रमन्ति ॥ २० ॥

पदरत्नावली

आदिशब्दगृहीतास्तारकाः । केचिद् ध्रुवस्यान्तर्योगेन केचिद्बहिर्योगेन सञ्चरन्तीत्यर्थः । आवहादिशब्दवाच्येन वायुनोदीर्यमाणाः प्रेर्यमाणाः (‘आयोजिता ईश्वरेण वायुपाशविशेषैः संयोजिताः’ इति कपाठः) ॥ २० ॥

प्रकाशिका

ग्रहादय इत्यत्रादिशब्दगृहीताः सप्तर्ष्यादयः ॥ अन्तर्बहिर्योगेनेति । आक्रमणपशुवत्केषाञ्चिदन्तर्योगः केषाञ्चिद्बहिर्योग इत्यर्थः । कालचक्रे सूर्यरथचक्रे आयोजिता ईश्वरेण वायुपाशविशेषैः संयोजिता वायुना आतिवाहिकशब्दवाच्येनोदीर्यमाणाः प्रेर्यमाणाः

॥ २० ॥

नभसि यथा मेघाः श्येनादयो वायुवशाः कर्मसारथयः परिवर्तन्ते ॥ २१ ॥

**एवं ज्योतिर्गणाः प्रकृतिपुरुषसंयोगानुगृहीतकर्मनिर्मितगतयो भुवि न पतन्ति **

॥ २२ ॥

पदरत्नावली

नन्वेते निरालम्बाः कथं न पतन्तीति तत्राह– यथेति ॥ अयनादिलक्षणं कर्मैव सारथिर्येषां ते तथा । औत्पत्तिकवेगाख्यसंस्कारो वा अदृष्टं वा स्त्रीपुरुषसंयोगेनानु-गृहीतैरापादितैर्नभःसञ्चरणहेतुभूतैः कर्मभिर्निर्मितगतित्वात् (‘नन्वेते निरालम्बाः कथं न पतन्तीत्यत आह– यथेति ॥ वायुवशा वायोरधीना मेघौघाः कर्म सारथिः सहायो येषां ते श्येनादयो विहङ्गमाश्च यथेत्यन्वयः । एवं प्रकृतिर्महालक्ष्मीः पुरुषः परमपुरुषो नारायणस्ताभ्यां संयोगेन सन्निधानविशेषेण अनुगृहीतं निमित्तत्वेन स्वीकृतं यत् कर्म तन्निर्मिता गतिर्येषां ते ज्योतिर्गणा भुवि न पतन्ति।’ इति कपाठः)॥ २१-२२ ॥

प्रकाशिका

नन्वेते निरालम्बाः कथं न पतन्तीत्यत आह ॥ यथेति । कर्म अदृष्टं सारथिः सहायो येषाम् । प्रकृतिपुरुषसंयोगेन जीवस्य शरीरविशेषसंयोगेनेति यावत् । अनुग्रही-तानि सहकृतानि कर्माण्यदृष्टानि । तैर्निर्मिता गतयो येषां जीवस्य पक्षादिशरीरविशेषसंयोग-सहकृतादृष्टविशेषजनितगतिमत्वाद्यथा श्येनादयो नभसि निरालंबा अपि न पतन्ति । तथैवैते ग्रहादयस्तेजोमयशरीरविशेषसंयोगानुगृहीतादृष्टविशेषजनितगतिमन्तोऽस्मदादिवैलक्षण्यान्न पतन्तीत्याशयः ॥ २१,२२ ॥

केचनैतज्ज्योतिरनीकं शिंशुमारसंस्थानस्य भगवतो वासुदेवस्य योगधारणाया-मनुवर्णयन्ति ॥ २३ ॥

पदरत्नावली

ज्योतिरनीकं ज्योतिश्चक्रम् । योगधारणायां, स्थितमिति शेषः शिंशुमार-संस्थानस्य शिंशुमारावयवोपेतस्य । योगबलेन धारणक्रियायां स्थितिमनुवर्तयन्ति (‘ज्योतिरनीकं ज्योतिश्चक्रम् । योगधारणायां, स्थितमिति शेषः ।’ इति कपाठः) ॥ २३ ॥

प्रकाशिका

एवं नभसि निराश्रयतया प्रतीयमानानां ग्रहादीनां निरालंबत्वमङ्गीकृत्य पतनमुपपादितम् । इदानीं वस्तुतो नैते निरालंबाः किन्तु शिंशुमारावयवालंबाः । अतोऽपि न पतन्तीति केषाञ्चिज्ज्ञानिनां पक्षमाश्रित्याह ॥ केचनेति । ज्योतिरनीकं ग्रहादिसमूहम् । प्रसिद्धशिंशुमारस्थानस्य प्रसिद्धशिंशुमारावयवसदृशावयवोपेतस्य योगधारणायां योगसामर्थ्येन धारणक्रियायां सत्यां भुवि न पतन्तीत्येतदनुवर्णयन्ति प्रतिपादयन्ति ॥ २३ ॥

यस्य पुच्छाग्रेऽर्वाक्शिरसः कुण्डलीभूतदेहस्य ध्रुव उपकल्पितस्तस्य लांगूले प्रजापतिरग्निरिन्द्रों धर्म इति ॥ २४ ॥

पदरत्नावली

कुण्डलीभूतदेहस्य वक्रीकृतशरीरस्य । पुच्छाग्र उपकल्पितो ध्रुवः । पुच्छाग्रव्यतिरिक्ते स्थले लाङ्गूले । पुच्छमध्य इत्यर्थः ॥ २४ ॥

प्रकाशिका

शिंशुमारेण योगसामर्थ्येन कथं ज्योतिरनीकं धृतमित्यतस्तत्प्रपञ्चयति ॥ यस्येत्यादिना । कुण्डलीभूतदेहस्य वक्रीकृतशरीरस्य लांगूले पुच्छमध्ये प्रजापतिर्दक्षः । एते प्रजापत्यादयो नक्षत्ररूपा इति ज्ञेयम् ॥ २४ ॥

पुच्छमूले धाता विधाता च कट्यां सप्तर्षयस्तस्य दक्षिणावर्तकुण्डली-भूतशरीरस्य यान्युदगयनानि दक्षिणपार्श्वे तु नक्षत्राण्युपकल्पयन्ति ॥ २५ ॥

दक्षिणायनानि तु सव्ये यथा शिंशुमारस्य कुण्डलीभोगसन्निवेशस्य पार्श्वयो-रुभयोरप्यवयवाः समसङ्ख्या भवन्ति ॥ २६ ॥

पदरत्नावली

(उदगयनानि अभिजिदादीनि पुनर्वस्वन्तानि चतुर्दशनक्षत्राणि ॥ दक्षिणायनानि पुष्यादीनि उत्तराषाढान्तानि ।’ इति कपाठः) ॥ २५,२६ ॥

प्रकाशिका

उदगयनान्यादित्यानामुत्तरदिग्गमनमार्गभूतानि अभिजिदादीनि पुनर्वस्वा-न्तानि चतुर्दशनक्षत्राणि दक्षिणायनानि दक्षिणदिग्गमनमार्गभूतानि पुष्यादीन्युत्तराषाढान्तानि चतुर्दश सव्ये वामपार्श्वे ॥ २५,२६ ॥

पृष्ठे त्वजवीथी आकाशगङ्गा चोत्तरतः पुनर्वसुपुष्यौ दक्षिणवामयोः श्रोण्यो-रार्द्राऽऽश्लेषा च दक्षिणवामयोः पादयोरभिजिदुत्तराषाढे च दक्षिणवामयो-र्नासिकयोर्यथासङ्ख्यं च श्रवणपूर्वाषाढे च दक्षिणवामयोर्लोचनयोर्धनिष्ठामूलं च दक्षिणवामयोः कर्णयोर्मघादीन्यष्ट नक्षत्राणि दक्षिणायनानि वामपार्श्वपङ्क्तिषु युञ्जीत ॥ २७ ॥

पदरत्नावली

यान्युदगयनानीत्यादेर्विस्तरो मघादीनि इत्यादिः (‘उत्तरायणदक्षिणायन-नक्षत्राणां दक्षिणवामपार्श्वागतत्वमुक्तं यत् तदेव स्थानविशेषेण विभज्य दर्शयति– पुनर्वसु-पुष्यावित्यादिना ॥ प्रातिलोम्येन मृगशिरा रोहिणी कृत्तिकेत्येवं व्युत्क्रमेण पूर्वाभाद्रपदान्तानि यान्युदगयननक्षत्राण्यष्ट तानीति ।’ इति कपाठः) ॥ २७ ॥

प्रकाशिका

पृष्ठे त्वजवीथीति । इयमजवीथी न पूर्वोदाहृतवायुपुराणोक्तनक्षत्ररूपा किंत्वन्यैव प्रमाणान्तरोक्तेति ज्ञातव्यम् । उत्तरायणदक्षिणायननक्षत्राणां दक्षिणवामपार्श्वगतत्व-मुक्तम् । तदेव स्थानविशेषेण विभज्य दर्शयति ॥ पुनर्वसुपुष्यावित्यादिना । वामपार्श्वपङ्क्तिषु वामपार्श्वप्रदेशेषु ॥ २७ ॥

तथैव मृगशीर्षादीन्युदगयनानि दक्षिणपार्श्वेषु प्रातिलोम्येन प्रतियुञ्जीत

॥ २८ ॥

पदरत्नावली

प्रातिलोम्येन पूर्वाभाद्रपदामारभ्य मृगशीर्षान्तानीति ॥ २८ ॥

प्रकाशिका

दक्षिणपार्श्वेषु दक्षिणपार्श्वप्रदेशेषु । ननु मृगशीर्षादीनां त्रयाणां भानामेवो-दगयनत्वं न पुष्यादीनामित्यत आह ॥ प्रातिलोम्येनेति । मृगशीर्षरोहिणीभरण्यश्विनी-रेवतीत्यादिप्रातिलोम्येन पूर्वाभाद्रपदांतानि यान्युदगायननक्षत्राण्यष्ट तानि दक्षिणपार्श्वेषु युंजीतेत्यर्थः ॥ २८ ॥

शतभिषज्येष्ठे द्वे स्कन्धयोर्दक्षिणवामयोर्न्यसेत् ॥ २९ ॥

उत्तरहनावगत्स्यो ऽधरहनौ यमो मुखे चाङ्गारकः शनैश्चर ऊपस्थे बृहस्पतिः ककुदि वक्षस्यादित्यो हृदये नारायणो मनसि चन्द्रो नाभ्यामुशनास्तनयोरश्विनौ बुधः प्राणापानयोराहुर्गले केतवः सर्वांगेषु रोमसु सर्वे तारागणाः ॥ ३० ॥

एतदुहैव भगवतो विष्णोः सर्वदेवतामयं रूपमहरहः संध्यायां प्रयतो वाग्यतो निरीक्ष्यमाण उपतिष्ठेत । नमो नमो ज्योतिर्लोकाय कालायनायानिमिषां पतये महापुरुषाय धीमहीति ॥ ३१ ॥

पदरत्नावली

अनिमिषा देवास्तेषां नाथाय । क्विप्प्रत्ययान्तत्वेनानिमिरिति रूपं सिद्ध्यति (‘नास्ति निमिषश् चक्षुस्पन्दनं येषां ते देवास्तेषां पतये ।’ इति कपाठः) ॥ ३१ ॥

प्रकाशिका

यमो नक्षत्ररूपः सर्वदेवतामयं रुपं सर्वदेवताप्रधानं रूपं प्रयतः कायिक-मानसिकनियमोपेतः । उपस्थानमन्त्रमाह ॥ नमो नम इति । ज्योतिर्लोकाय ज्योतिषा-माश्रयाय । कालायनाय कालज्ञापकायानिमिषां देवानामिति मन्त्रेणोपतिष्ठेतेत्यन्वयः ॥ ३१ ॥

ग्रहर्क्षतारामयमाधिदैविकं रूपं हरेर्मंत्रकृतस्त्रिकालम् ।

नमस्यतः संस्तुवतो नश्यते वै स्वयं त्रिकालं कृतमाशु पापम् ॥ ३२ ॥

॥ इति श्रीमद्भागवतमहापुराणे पञ्चमस्कन्धे द्वाविंशोऽध्यायः ॥

तात्पर्यम्

‘ज्ञानानन्दात्मके विष्णौ शिंशुमारवपुष्य(पि)थ । ऊर्ध्वलोकेषु संव्याप्त आदित्याद्यास्तदाश्रिता’ इति ब्रह्माण्डे ॥ ३२ ॥

पदरत्नावली

शिंशुमाररूपग्रहणप्रयोजनमाह– ग्रहेति ॥ मन्त्रकृतो जपतो नमस्यतो नमस्कारं कुर्वतः । पुंस इति शेषः । प्रातरादित्रिकालं कृतं पापं स्वयं सर्वात्मना नश्यते इत्यन्वयः । वा इत्यनेन ‘नारायणो नाम नरो नराणाम्’ इत्यादिवाक्यं प्रमाणयति (‘मन्त्रकृतां पूर्वोक्तमन्त्रं जपताम् । नमस्यतो नमस्कुर्वतः, पुंस इति शेषः । वैशब्देन ‘नारायणो नाम नरो नराणां प्रसह्य चोरः कथितः पृथिव्याम् । अनेकजन्मार्जितपापसञ्चयं हरत्यशेषं स्मृतमात्र एव ॥’ ‘यस्य संस्मरणादेव वासुदेवस्य शार्ङ्गिणः । कोटिजन्मार्जितं पापं तक्षणादेव नश्यति ॥’ इत्यादिप्रमाणवचनानि सूचयति ।’ इति कपाठः) ॥ ३२ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

पञ्चमस्कन्धे द्वाविंशोऽध्यायः ॥

प्रकाशिका

आधिदैविकमधिदेवाश्रयम् । मन्त्रकृतो जपतो नमस्यतो नमस्कारं कुर्वतः । पुंस इति शेषः । त्रिकालं त्रिकालजम् । अत्र हरेः शिंशुमारस्य स्थानमुक्तम् । तत्प्राकृतमिति शङ्कापरिहाराय केचनेत्युक्त्यैतन्मतं नाज्ञानिनां किन्तु ज्ञानिनामेवेति प्रदर्शनाय चात्र समाख्यप्रमाणं पठति ॥ ज्ञानानन्दात्मक इति । अथशब्दोऽप्यर्थः । न केवलं नभोवलये समाश्रिताः किन्तु शिंशुमारवपुष्यपीति योजना ॥ ३२ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागतटिप्पण्यां प्रकाशिकायां पञ्चमस्कन्धे द्वाविंशोऽध्यायः ॥ ५-२२ ॥