२१ एकविंशोऽध्यायः

एतावानेव भूवलयस्य सन्निवेशः प्रमाणलक्षणतश्च

॥ अथ एकविंशोऽध्यायः ॥

श्री शुक उवाच–

एतावानेव भूवलयस्य सन्निवेशः प्रमाणलक्षणतश्च व्याख्यात एतेनैव हि दिवो मण्डलमानं तद्विद उपदिशन्ति ॥ १ ॥

पदरत्नावली

चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वृत्तं व्यतीरवीविपत्’, ‘भीषाऽस्माद्वातः पवते । भीषोदेति सूर्यः’ इत्यादिश्रुतेरखण्डस्वामिनो हरेराज्ञया स्वाधिकारेषु प्रवर्तमानानामिष्टदेवतात्वेन लोकैर्निषेव्यमाणानां तस्यैव विशेषनिवासस्थानानां सूर्यादीनां स्वरूप-ज्ञानमपि भगवज्ज्ञानोपयोगीत्यभिप्रायेण तन्निरूपयत्यस्मिन्नध्याये । तत्रातीताध्यायार्थानुवाद-मुखेनैतमध्यायमवतारयति– एतावानिति ॥ भूवलयस्य लोकात्मकस्य सन्निवेशः विस्तार-विशेषः (‘सन्निवेशो विस्तार एतावानेव पञ्चाशत्कोटियोजनपरिमित एव’ इति कपाठः) ॥१॥

प्रकाशिका

इदानीं द्व्यन्तरिक्षादिलोकप्रमाणादिकमतिदेशेन दर्शयितुमुक्तमनुवदति ॥ एतावानेवेति । सन्निवेशो विस्तार एतावानेव पञ्चाशत्कोटियोजनपरिमित एव । दिवो मण्डलमानं स्वर्गविस्तारप्रमाणम् ॥ १ ॥

यथा द्विदलनिष्पावादीनां तदन्तरेणान्तरिक्षमुपसन्धितम् ॥ २ ॥

पदरत्नावली

द्विदलनिष्पावादीनां निष्पावराजमाषद्विदलानां सर्वप्रकारेण परिमाणतः समत्वमेवं भूवलयस्य सर्वस्य परिमाणतः समत्वमेव । यस्य अन्तरिक्षस्य मध्यगतस्तदन्तरिक्षं तयोर्द्यावापृथिव्योरन्तरेण मध्य उपसन्धितं स्थापितम् (‘एतेन पञ्चाशत्कोटियोजनात्मकेन मानेन दिवो मण्डलमानं तद्विदः प्रामाणविद उपदिशन्ति । तत्र दृष्टान्तमाह– यथेति ॥ निष्पावादीनां द्विदलानां राजमाषादीनां द्विदलयोर्मध्ये एकस्य मानेन यथाऽपरस्यापि मानमुपदिश्यते तद्वत् । तयोर्द्यावापृथ्व्योरन्तरेण मध्ये तदुभयसन्धितं ताभ्यामुभयत उपर्यधोभागे सल्लग्नमन्तरिक्षलोक-मस्तीति तद्विस्तारोऽपि तावानेवेति यावत् ।’ इति कपाठः) ॥ २ ॥

प्रकाशिका

एतदेव दृष्टान्तमुखेन दर्शयति ॥ यथेति । द्विदलानां निष्पावादीनां द्वयोर्दलयोर्मध्ये एकस्य मानेन यथा परस्य मानमुद्दिश्यते तद्वत् । अन्तरिक्षप्रमाणमप्यनेनैवोक्तं भवतीत्याशयेनाह ॥ तदन्तरेणेति । तयोर्द्यावापृथिव्योरन्तरेण मध्ये उपसन्धितं स्थापितम् । तदुभयसमविस्तारवदित्यर्थः । ‘‘भुवः स्वर्गश्च कोट्यैव योजनानां प्रविस्तृतावि’’ति भारत-तात्पर्यनिर्णयवचनम् । तत्रत्यानां भोगस्थानविस्तारमेवाभिप्रेत्येति ज्ञातव्यम् ॥ २ ॥

यन्मध्यगो भगवांस्तपतां पतिस्तपन आतपेन त्रिलोकान् प्रतपत्यवभास-यत्यात्मभासा एष उदगयन दक्षिणायन वैषुवसंज्ञाभिरारोहणवरोहणादिभि-र्दीर्घ•हस्व समानाभिर्गतिभिरारोहणावरोहणसमस्थानेषु यथासवनमभिपद्यमानो मकरादिराशिष्वहोरात्राणि दीर्घ•हस्वसमानानि विधत्ते ॥ ३ ॥

पदरत्नावली

आत्मनः परमात्मनो भासा । ‘यदादित्यगतं तेजः’ इत्यादेः । एष सूर्य उदगयनमुत्तरायणं तत्संज्ञया गत्यारोहणं संज्ञेषु मकरादिमिथुनान्तेषु राशिषु यथासवनं तत्तन्मकरादिमासकालमनतिक्रम्य तत्तन्नक्षत्रैश्चोदयमभिपद्यमानो दक्षिणायनसंज्ञया गत्यावरोहण-संज्ञकेषु कर्काटकादिधनुःपर्यन्तेषु राशिषु तत्तत्कर्काटकादिमासकालमनतिक्रम्य तत्तन्नक्षत्रै-श्चोदयमभिपद्ममानस्तथा वैषुवसंज्ञया गत्या समस्थानसंज्ञयोर्मेषतुलयोः राश्योस्तन्नक्षत्राभ्यामुदयं प्राप्नुवन् अहोरात्राणि दीर्घह्रस्वसमानानि करोति (‘आत्मनः स्वान्तर्नियामकस्य नारायणस्य भासा । ‘यदादित्यगतं तेजो जगद् भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥’ इत्यादेः । स एष सूर्यनामा भगवान् यथासवनं तत्तन्मकरादिमासकालमनतिक्रम्य आरोहणादिस्थानेषु मकरादिराशिषु अभिपद्यमानः प्राप्तः सन् उदगयनादिसञ्ज्ञाभिर्मन्दादिभि-र्गतिभिरहोरात्राणि दीर्घह्रस्वसमानानि विधत्ते । अत्र दीर्घत्वं त्रिंशन्मुहूर्तापेक्षया अधिकत्वं, ह्रस्वत्वं तदपेक्षयाऽल्पत्वं, तदुभयराहित्यं समानत्वमित्यवगन्तव्यम् ।’ इति कपाठः)॥ ३ ॥

प्रकाशिका

अन्तरिक्षलोकस्य लक्षणं सूचयितुं तदन्तःस्थस्य सूर्यस्य माहात्म्यं संक्षिप्योक्तं विशदयति ॥ यन्मध्यग इति । तदन्तरिक्षमिति पूर्वेणान्वयः । अनेनैतादृश-सूर्यवत्त्वमन्तरिक्षलोकस्य लक्षणं सूचितमिति ज्ञातव्यम् । एषः सूर्यनामा भगवान् उदगयन-मुत्तरायणं गतेर्दीर्घत्वं मन्दत्वं ह्रसत्वं क्षिप्रत्वम् । तथा चोदगयनादिसंज्ञाभिर्मन्दक्षिप्र-समगतिभिरित्यर्थः । यथासवनं यथाकाल तत्तत्कालमनतिक्रम्यानुसारेणेति यावत् । आरोहणा-वरोहणसमवस्थानेषु मानसोत्तरगतेष्विति शेषः । आरोहणस्थानमुत्तरप्रदेशः । अवरोहणस्थानं निम्नप्रदेशः । एतदुभयभिन्नप्रदेशः समवस्थानम् । आरोहणावरोहणसमवस्थानेषु मकरादिराशिषु यथावसवनमभिपद्यमान इत्यन्वयः । आरोहणादयः शब्दाः कर्मार्थकल्युडन्ताः । यथासवनं यथाकालं मकरादिसंक्रमणकालमनतिक्रम्य । तथा चोन्नतादिप्रदेशगमननिमित्तेषु मकरादिराशिषु मकरमासादिकालानुसारेणाभिपद्यमान इत्यर्थः । अत्र दीर्घत्वं त्रिंशन्मूहूर्तापेक्षयाऽधिकत्वं ह्रसत्वं तदपेक्षयाऽल्पत्वं तदुभयराहित्यं समानत्वमिति ज्ञातव्यम् ॥ ३ ॥

यदा मेषतुलयोर्वर्तते तदाऽहोरात्राणि समानानि भवन्ति ॥ ४॥

यदा वृषभादिषु पञ्चसु राशिषु चरति तदाहान्येव वर्धन्ते •हसन्ति च रात्रयः मासि मास्येकैका घटिका तुल्यं दिवसं वर्धमानान्यहानि तावतीरनुसंक्षीयमाणा रात्रयः समुद्धृत्य समान्यहोरात्राणि त्रिंशन्मुहूर्तान्येव भवन्ति यदा वृश्चिकादिषु पञ्चसु वर्तते तदाऽहोरात्राणि विपरीतानि भवन्ति ॥ ५ ॥

पदरत्नावली

एतदेव विविच्य दर्शयति– यदेति ॥ वृषभादिकन्यान्तेषु वृद्धिश्च ह्रासश्च भवतः । तौ कियन्ताविति तत्राह– मासीति ॥ वर्द्धते ह्रसति चेति शेषः । अत्र वृद्धिह्रासयोरेकैका घटिकेति नियमो नास्ति । त्रिचतुरादिवृद्धिदर्शनात् । तर्हि मुहूर्तानामपि वृद्धिह्रासौ स्यातामिति नेत्याह– तुल्यं दिवसमिति ॥ त्रिंशन्मुहूर्तमेव दिवसमाहुरित्यर्थः । कथं तुल्यतेति तत्राह– वर्द्धमानानीति ॥ वर्द्धमानान्यहानि भवन्ति, तावतीस्तावत्यो वर्द्धमाना रात्रयश्च सङ्क्षीयमाणा ह्रसन्त्यश्च यास्ताः समुद्धृत्य घटिकाभिरेकीकृत्य त्रिंशन्मुहूर्तान्यहोरात्राणि समानानि भवन्ति । वृश्चिकादिमीनान्तेषु अहोरात्राणि विपरितानि अहानि ह्रसन्ति रात्रयो वर्द्धन्ते (‘एतदेव प्रपञ्चयति– यदेत्यादिना ॥ एकैका घटिकेति स्थूलदृष्ट्यैवोक्तम् । वृद्धिह्रासयोः प्रतिमासं वैषम्यात् । विपरीतानि अहानि न्यूनानि रात्रयश्चाधिका भवन्ति ।’ इति कपाठः) ॥ ५ ॥

प्रकाशिका

एतदेव विविच्य दर्शयति ॥ यदेति । एकैका घटिकेति न नियमः । एकसार्धघटिकाभेदेन वृद्धि•हासयोः प्रमाणसिद्धत्वाद्यथोक्तं फलं फले फलानि स्युरत्यादिनात्यन्तं वैषम्याभावात्समानानीत्युक्तम् । वृषभादिषु कन्यान्तेषु वर्धन्ते रात्र्यपेक्षयाऽधिका भवन्तीत्यर्थः । तेन कर्काटादिषु न •हासात्कथं वर्धन्त इत्युक्तमिति चोद्यानवकाशः । एवं वृश्चिकादिषु रात्रिवृद्धावपि दिनापेक्षयाऽल्पत्वात् •हसन्तीत्युक्तम् । कथमित्यत आह ॥ मासि मासीति । एकैका घटिकाऽधिका न्यूना वा यथा स्यात्तथा वर्धन्ते •हसन्ति चेत्यन्वयः । नन्वेवं दिवसस्य त्रिंशन्मूहूर्तात्मकता कथमित्यत आह ॥ तुल्यं दिवसमिति । अन्हां रात्रीणां च वृद्धिह्रास-वत्त्वेऽपि त्रिंशन्मुहूर्तात्मकं दिवसं सर्वकालेषु तुल्यं सममेव वर्तत इत्यर्थः । कथमित्यतस्तदुप-पादयति ॥ वर्धमानानीति । वर्धमानानि यान्यहानि तावतीस्तावत्सङ्ख्याकाः संक्षीयमाणा •हसंत्यो या रात्रयस्ताः । समुद्धृत्य घटिकाभिरेकीकृत्य । इदमुपलक्षणम् । वर्धमाना या रात्रयस्तावन्तीः संक्षीयमाणानि यान्यहानि समुद्धृत्येत्यपि ग्राह्यम् । अहोरात्राणि तदात्मकानि दिवसानि त्रिंशन्मुहूर्तानि त्रिंशन्मुहूर्तात्मकानि सन्ति समानि सर्वकालेष्वेकप्रकाराणि भवन्तीत्यर्थः । वृश्चिकादिषु मीनान्तेषु विपरीतान्यहानि •हसन्ति रात्रयो वर्धन्त इत्यर्थः ॥ ५ ॥

यावद्दक्षिणायनमहानि वर्धन्ते •हसन्ति च रात्रयः यावदुदगयनमहानि •हसन्ति रात्रयो वर्धन्ते ॥ ६ ॥

पदरत्नावली

मकरादिषु वृश्चिकादिषु मेषतुलयोरित्येतेषु कथितं सङ्गृह्याह– यावदिति ॥ अथवा आवहप्रवहोद्वहसंवहविवहपरावहपरिवहनामानः सप्तवायवो ज्योतिश्च कस्य प्रवर्तकास्तत्र ज्योतिश्चक्राधिपत्यादित्यगमनस्य तिस्रो वीथ्यो मध्यमोत्तरादक्षिणा चेति (‘तद्धृद्धिह्रासकालमाह– यावदिति ॥ उत्तरायणाद् दक्षिणायनपर्यन्तं यावदुदगयनसञ्ज्ञया मन्दया गत्या आरोहणस्थानेषु मकरादिषु षट्सु राशिषु प्रचलति तावदहानि वर्धन्ते पूर्वपूर्वदिनापेक्षया उत्तरोत्तरदिनानि वृद्धिं प्राप्नुवन्ति, रात्रयस्तु पूर्वपूर्वरात्र्यपेक्षया उत्तरोत्तरा ह्रसन्ति । दक्षिणायनादुदगयनर्पन्तं यावद् दक्षिणायनसञ्ज्ञया क्षिप्रगत्या अवरोहणस्थानेषु कर्कटादिषु षट्सु राशिषु प्रचलति तावत् पूर्वपूर्वरात्र्यपेक्षया उत्तरोत्तररात्रयो वर्धन्ते, दिनानि तु पूर्वपूर्वदिनापेक्षया उत्तरोत्तराणि ह्रसन्ति । अत्रेदं ज्ञातव्यम् । वृषभादिषु राशिषु सूर्यस्योत्तरायणरूपं गमनं यदा भवति तदा ध्रुवेण मेरोर्दक्षिणदिग्भागे युगाक्षकोटिनिबद्धवायुपाशद्वयस्याकर्षणे क्रियमाणे रथस्यारोहणस्थाने गमनं, तेन गतिमान्द्यं दिनवृद्धिः । यदा तु वृश्चिकादिषु दक्षिणायनरूपं गमनं तदोक्तपाशद्वये मेरोरुत्तरभागे ध्रुवेण मुच्यमाने रथस्यावरोहणस्थाने गमनं, तेन गतेः क्षिप्रता रात्रिवृद्धिः । यदा तु मेषतुलयोर्वैषुवतसञ्ज्ञगमनं तदा पाशद्वयं समतयाऽऽकृष्यत इति गतिसाम्यमहोरात्रसाम्यं च भवति’ इति कपाठः )। तदुक्तम्– ‘सर्वग्रहाणां त्रीण्येव स्थानानि द्विज सत्तमाः । स्थानं जारद्गवं मध्यं तथैरावतमुत्तरम् । वैश्वानरं दक्षिणतो निर्दिष्टमिह तत्वतः ॥’ इति । तच्च वीथीत्रयमेकैकं त्रिधाऽभिपद्यते । अश्विन्यादिनक्षत्राणां त्रिभिस्त्रिभिर्नक्षत्रैर्नागवीथीगजवीथ्यै-रावतीवीथीत्युत्तरमार्गे वीथीत्रयम् । आर्षभीगोवीथीजारद्गवीचेति वैषुवे मध्यमार्गे वीथीत्रयम् । अजवीथीमृगवीथीवैश्वानरी चेति दक्षिणमार्गे वीथीत्रयम् । एतद्वायुपुराणे कथितम्– ‘अश्विनी कृत्तिका याम्या नागवीथीती शब्दिता । रोहिण्यार्द्रा मृगशिरो गजवीथ्यभिधीयते । पुष्याऽऽश्लेषा तथाऽऽदित्या वीथी चैरावती मता । एतास्तु वीथयस्तिस्र उत्तरो मार्ग उच्यते । तथा द्वे चापि फाल्गुन्यौ मघा चैवार्षभी मता । हस्तचित्रे तथा स्वाती गोवीथीति तुशब्दिता । ज्येष्ठा विशाखाऽनुराधा वीथी जारद्गवी मता । एतास्तु वीथयस्तिस्रो मध्यमो मार्ग उच्यते । १मूलाषाढोत्तराषाढा अजवीथ्यभिशब्दिता । श्रवणं च धनिष्ठा च मार्गी शतभिषस्तथा । वैश्वानरी भाद्रपदे रेवती चैव कीर्तिता । एतास्तु वीथयस्तिस्रो दक्षिणो मार्ग उच्यते ॥’ इति । याम्या भरणी, आदित्या अदितिदेवताका पुनर्वसुः, मार्गी मृगवीथी । तत्र च युगाक्षकोटि-सम्बद्धवायुपाशद्वयस्य ध्रुवेणाकर्षणं यदा तदाभ्यन्तरमण्डलगमनाय रथनीडस्यारोहणं वायुपाश-शैथिल्ये च बहिर्मण्डलगमनार्थमवरोहणम् । ‘आकृष्येते यदा तौ तु ध्रुवेण समधिष्ठितौ । तदाभ्यन्तरतः सूर्यो भ्रमते मण्डलानि तु । ध्रुवेण मुच्यमानेन पुना रश्मियुगेन तु । तथैव बाह्यतः सूर्यो भ्रमते मण्डलानि च ॥’ इति । तत्र बाह्यवीथ्यां गतस्य शीघ्रगतित्वाद्दिनह्रासो रात्रिवृद्धिश्च, अभ्यन्तरवीथ्यां गतस्य मन्दगतित्वाद्रात्रिक्षयो दिनवृद्धिश्च, मध्यवीथ्याम् आगतस्य समानगतित्वादहोरात्रसाम्यमित्यादि । विशेषस्तु कालविशेषवेदिभिरवगम्यत इति तदधिकारित्वा-दस्माभिरत्र यत्नो न क्रियत इति ॥ ६ ॥

प्रकाशिका

मकरादिषु वृश्चिकादिषु मेषतुलयोरित्युक्तं सङ्गृह्याह ॥ यावदिति । अत्रायं सम्प्रदायः । यदा सूर्यस्य वृषभादिषु राशिषूत्तरायणरूपगमनं भवति तदा ध्रुवेण मेरोर्दक्षिणदि-ग्भागे युगाक्षकोटिनिबद्धवायुपाशद्वयस्याकर्षणे क्रियमाणे रथस्यारोहणस्थाने गमनं गति-माद्यन्दिनवृद्धिः । यदा तु वृश्चिकादिषु दक्षिणायनरूपं गमनं तदोक्तपाशद्वये मेरोरुत्तरभागे ध्रुवेण मुच्यमाने रथस्यावरोहणस्थाने गमनम् । तेन गतेः क्षिप्रता रात्रिवृद्धिः । यदा तु मेषतुलयो-र्वैषुवसंज्ञगमनं तदा तु पाशद्वयं समतया कृष्यते । तेन गतिसाम्यं दिवरात्रिसाम्यं च भवतीति

॥ ६ ॥

एवं नवकोट्य एकपञ्चाशल्लक्षाणि च योजनानां मानसोत्तरगिरिपरिवर्त मानस्योपदिशन्ति तस्मिन्नैन्द्रीपुरी मेरोः पूर्वस्माद्देवधानी नाम दक्षिणतो याम्या संयमिनी नाम पश्चाद्वारुणी निम्लोचनी नामोत्तरतः सौम्या विभावरी नाम तासूदयमध्याह्नास्तमयनिशीथानीति भूतानां प्रवृत्तिनिवृत्तिनिमित्तानि समय-विशेषेण मेरोश्चतुर्दिशम् ॥ ७ ॥

पदरत्नावली

इदानीमेकाहोरात्रगन्तव्यमार्गसङ्ख्यामाह– एवमिति ॥ एवं त्रिविध-गतिभिस् त्रिविधराशिषु वर्तमानस्यादित्यस्य रथचक्रस्यैकस्मिन्नहोरात्रे मानसोत्तरशिखरे यत्परि-वर्तमानं परितोगमनं तस्य मार्गमेकपञ्चाशल्लक्षाधिकनवकोटय इति व्यपदिशन्ति । तन्मार्गज्ञा इति शेषः । तस्मिन्मानसोत्तरपर्वते पूर्वस्मान् मेरोः पूर्वदिक्सूत्रनिपाते दक्षिणत आदिष्वेवं सौम्या सोमस्य विद्यमाना तासु पुरीषु तत्पुरद्वारेष्वादित्यस्य यानि गमनान्युदयादिसंज्ञानि स्युः । समयविशेषेण सङ्केतविशेषेण । न हि सर्वदा सञ्चरत उदयादिकमस्ति मेरोश्चतुर्दिशं स्थितानां भूतानां प्रवृत्तिनिमित्तानि तत्रोदयमध्याह्ने प्रवृत्तिनिमित्ते अस्तङ्गमनमीषन्निवृत्तिनिमित्तं निशीथ-गतिरह्नासञ्चरमाणानां सम्यङ्निवृत्तिनिमित्तभूतानिशीथमर्धरात्रम् (‘एवं सूर्यगतिमुपवर्ण्य तन्मार्ग-परिमाणाकाङ्क्षायां यथा मेरोरेकतः सूर्योदयादि भवति तथैव मेरोश्चतुर्दिशमपीत्याह– एवमिति ॥ मानसोत्तरगिरिपरिवर्तनस्य तन्मण्डलस्य । तस्मिन् मानसोत्तरपर्वते । मेरोः पूर्वस्मात् पूर्वदिक्-सूत्रनिपातप्रदेशे । सौम्यां सोमस्य विद्यमानाम् । मेरोश्चतुर्दिशं तासु पुरीषु उदयादीनि भवन्ति । उदयमध्याह्नयोः प्रवृत्तिनिमित्तत्वमस्तमयनिशीथयोर्निवृत्तिनिमित्तत्वमिति बोध्यम् । समयविशेषेण सङ्केतविशेषेण । न हि सर्वदा सञ्चरत उदयादिकं वास्तवं भवति । तथा च मेरोर्दक्षिणे देशे ये वसन्ति तेषामैन्द्रीमारभ्य ये पश्चिमे तेषां याम्यामारभ्य ये उत्तरे तेषां वारुणीमारभ्य ये पूर्वे तेषां सौम्यामारभ्योदयादयो भवन्तीति मन्तव्यम् ।’ इति कपाठः) ॥ ७ ॥

प्रकाशिका

इदानीं मानसोत्तराचले तोयेन परिभ्रमतः सूर्यस्यैकाहोरात्रगन्तव्य-मार्गसङ्ख्यामाह ॥ एवमिति । नवकोट्य इति । एकपञ्चाशल्लक्षाधिकनवकोट्य इत्यर्थः । मानसोत्तरपरिवर्तनस्य मानसोत्तरे परितो गमनमार्गस्य मेरोश्चतसृषु दिक्षु विद्यमानानां जनाना-मुदयास्तमयादिकं वक्तुमाह ॥ तस्मिन्निति । मानसोत्तराचल इत्यर्थः । मेरोः पूर्वस्मान्मेरोः पूर्वदिक्सूत्रनिपातप्रदेशे ऐन्द्रपुरी वर्तत इति शेषः । ऐन्द्रीमित्यादिद्वितीयान्तपाठे उपदिशन्तीत्य-स्यानुषङ्गः । एवं दक्षिणत इत्यादिकमपि व्याख्येयम् । याम्या यमस्य विद्यमाना सोम्या सोमस्य विद्यमाना मेरोश्चतुर्दिशं स्थितासु तासु पुरीषु तत्पुरद्वारेषु सूर्यस्य यानि गमनानि तानि क्रमेणोदयादिसंज्ञानीत्युपदिशन्तीत्यन्वयः । भूतानां तत्तद्दिगवस्थितानां प्राणिनां प्रवृत्तिनिवृत्ति-निर्मितानीति । उदयमध्यान्हयोः प्रवृत्तिनिमित्तत्वमस्तमयनिशीथयोर्निवृत्तिनिमित्तत्वमिति ज्ञेयम् । समयविशेषेण संकेतविशेषेण । न हि सर्वदा संचरत उदयादिकं वास्तवं भवति । तथा च ये मेरोर्दक्षिणे देशे वसन्ति तेषामैन्द्रीमारभ्योदयादयः । ये पश्चिमे तेषां याम्यामारभ्य ये उत्तरे तेषां वारुणीमारभ्य ये पूर्वे तेषां सोम्यामारभ्य भवन्तीत्यर्थः ॥ ७ ॥

तत्रत्यानां दिवसमध्यगत एव सदाऽदित्यस्तपति सव्येनाचलं दक्षिणेन करोति ॥ ८ ॥

पदरत्नावली

तत्रत्यानाम् इलावृतखण्डनिवासिनां सव्येनाचलमचलस्य मेरुनाम्नो वामपार्श्वतो गच्छन्न चलं दक्षिणेन स्वस्य दक्षिणतः सर्वदा करोति । सर्वेषां द्वीपवर्षाणां मेरुरुत्तरतः स्थित इति न्यायेन सर्वदिङ्मुखस्यापि मेरोः पूर्वाभिमुखत्वात् सर्वत्र गच्छन् सव्येनैव गच्छत्यादित्य इत्यर्थः (‘तत्रत्यानां मेरुसमीपस्थेलावृतगतानाम् । मकरादिसङ्क्रमणरूपगत्या स्वसव्येन विद्यमानमचलं ज्येतिश्चक्रभ्रमणवशात् प्रत्यहं दक्षिणतः करोतीत्यर्थः ।’ इति कपाठः)

॥ ८ ॥

प्रकाशिका

तत्रत्यानां मेरुसमीपस्थेलावृतगतानां दिवसमध्यगत एव मध्याह्नसमयमत एव सव्येनाचलमिति । मकरादिसंक्रमणरूपगत्या स्वसव्येन विद्यमानमचलं ज्योतिश्चक्रभ्रमण-वशात्प्रत्यहं दक्षिणतः करोतीत्यर्थः ॥ ८ ॥

यत्रोदेति तत्समानसूत्रनिपाते निम्लोचति यत्र क्व च न स्यन्दते१ तत्र हैष समानसूत्रनिपाते प्रस्वापयति तत्र गतं न पश्यन्ति ये तमनुपश्येरन्२ ॥ ९ ॥

पदरत्नावली

गतिघटनोपरि वक्ष्यते च यत्रोदेति तत्समानसूत्रनिपाते पश्चिमे भागे निम्लोचति । दक्षिणायने किञ्चित्किञ्चिद्दक्षिणभागोदये सति किञ्चित्किञ्चिद्दक्षिणभागे पश्चिमे निम्लोचति । एवमुत्तरायणे किञ्चित्किञ्चिदुत्तरत उदयनिम्लोचौ याति । एवमुद्यन्नादित्य उदयप्रदेशस्तत्र निपातं विहाय यत्र क्वापि न स्पन्दते न चलति तस्योदयस्थस्य समानसूत्र-निपाते विभावरी पुरिद्वारिस्थितोऽन्यजनान् प्रस्वापयति निद्रितान् करोति । उद्धतशृृङ्ग-च्छायापिहितं तत्र विभावर्यां गतं न पश्यन्ति । जना इति शेषः (‘उदयास्तमनयोर्देशनियम-माह– यत्रेत्यादिना ॥ यत्रोदेति तत्समानसूत्रनिपाते पश्चिमे भागे निम्लोचति अस्तमेति । दक्षिणायने क्रमेण किञ्चित्किञ्चिद्दक्षिणभागे उत्तरायणे क्रमेण किञ्चित्किञ्चिदुत्तरभागे उदय-निम्लोचौ यातीति यावत् । तदुक्तं विष्णुपुराणे ‘उदयास्तमये चैव सर्वकालं तु सम्मुखे । दिशास्वशेषासु तथा मैत्रेय विदिशासु च । यैर्यत्र दृश्यते भास्वान् स तेषामुदयः स्मृतः । तिरोभावं च यत्रैति तत्रैवास्तमनं रवेः । नैवास्तमनमर्कस्य नोदयः सर्वदा स्मृतः । उदयास्तमनाख्यं हि दर्शनादर्शनं रवेः ॥’ इत्यादि । उदयानन्तरं गच्छन् त्रिंशद्घटिकान्ते यत्र क्कचन नभोमण्डलमध्यस्थः सन् स्यन्देन स्वेदोद्गमेनाभितपति तस्य देशस्य समानसूत्र-निपातविषयीभूते देशे एष सूर्यो जनान् प्रस्वापयति तेषां निशीथं करोतीत्यर्थः । तत्र गतमस्तप्रदेशगतं न पश्यन्ति, जना इति शेषः ।’ इति कपाठः) ॥ ९ ॥

प्रकाशिका

उदयास्तमययोर्देशनियममाह ॥ यत्रेत्यादिना । तत्समानसूत्रनिपाते पश्चिमे भागे निम्लोचत्यस्तमेति । दक्षिणायने क्रमेण किञ्चित्किञ्चिद्दक्षिणभागे उदयास्तमयौ उत्तरायणे क्रमेण किञ्चित्किञ्चिदुत्तरभागे तावित्यर्थः । एवमादित्योदयप्रदेशसूत्रनिपातप्रदेशं विहाय यत्र क्वापि न स्यन्दते न चलति । यो निम्लोचति । तस्यास्तमयभागगतस्य समानसूत्रनिपाते उदयप्रदेशे विद्यमानान् जनान् प्रस्वापयति । तेषां निशीथं करोतीत्यर्थः । तत्रगतमस्तप्रदेशगतं न पश्यन्ति । मेरोर्दक्षिणतः स्थिता ये तमनुपश्येरन् इति पाठे ये दक्षिणतः स्थितास्तं सूर्यमनुपश्येरन् तस्मिन्समये विहितुं ध्यातुं ध्यानं कर्तुमुद्यतास्ते तदा तं न पश्यन्तीत्यर्थः । अनेन निम्लोचनशब्दार्थो दर्शित इति ज्ञातव्यम् ॥ ९ ॥

यदा चैन्द्र्याः पुर्याः प्रतिचलति पञ्चदशभिर्घटिकाभिर्याम्यां सपादकोटिद्वयं योजनानां सार्धद्वादशलक्षाणि साधिकानि चोपयाति ॥ १० ॥

पदरत्नावली

सार्द्धद्वादशलक्षाणि साधिकानीति पञ्चविंशतिसहस्राधिकानि सार्धद्वादश-लक्षाणीत्यर्थः ॥ १० ॥

प्रकाशिका

साधिकानीति । पञ्चविंशतिसहस्राधिकानीत्यर्थः ॥ १० ॥

एवं ततो वारुणीं सौम्यामैद्रीं च पुनः पुनस्तथाऽन्ये च ग्रहाः सोमादयो नक्षत्रैः सह ज्योतिश्चक्रेण समभ्युद्यन्ति सह चाभिनिम्लोचन्ति ॥ ११ ॥

एवं मुहूर्ते चतुस्त्रिंशल्लक्षयोजनान्यष्टशताधिकानि सौरो रथस्त्रयीमयोऽसौ चतसृषु परिवर्तते पुरीषु ॥ १२ ॥

पदरत्नावली

देवधान्यानिर्गत्य संयमनिं प्रवेक्ष्यन् पञ्चदशघटिकाभिः कालावयवैः पादोनाष्टत्रिंशल्लक्षोत्तरकोटिद्वयमतिक्रम्य प्रविशति तपनः । एवं चतुर्गुणितान्येतानि योजनानि सैकपञ्चाशल्लक्षनवकोटिसङ्ख्यानीति सर्वात्मना ज्ञातव्यम् (‘त्रयीमयो वेदसमधिगम्यः’ इति कपाठः) ॥ १२ ॥

प्रकाशिका

त्रयीमयो वेदप्रधानः । वेदोदित इति यावत् । यद्यपि सूर्यस्यापि नक्षत्रैः सहोदयास्तमयौ तथापि तस्य तत्साहित्यादर्शनात्सोमादीनामेव तत्साहित्यमुक्तमिति ज्ञातव्यम्

॥ १२ ॥

यस्यैकं चक्रं द्वादशारं षण्नेमित्रिनाभि स्वयं संवत्सरात्मकं समामनन्ति तस्याक्षो मेरोर्मूर्धनि कृतो मानसोत्तरे कृतेतरभागो यत्र प्रोतं रविरथचक्रं तैलयन्त्रवन्मानसोत्तरे गिरौ परिभ्रमति ॥ १३ ॥

पदरत्नावली

यस्य रविरथस्यैकमेव चक्रं द्वादशमासाभिमानिदेवताभिमन्यमाना द्वादश अरा यस्य तत्तथा । षडर्त्विभिमानिदेवताभिमन्यमानाः षण्णेमयो यस्य तत्तथा । चातुर्मास्याभि-मानिदेवताभिमन्यमानास् त्रीणि नाभयो यस्य तत्तथा । स्वयं संवत्सराभिमानिदेवताभिमन्य-मानम् । तस्य रथस्य(‘सूर्यरर्थस्याक्षो दण्डविशेषः’ इति कपाठः) अक्ष प्रमाणं सार्धकोटिद्वयं सप्तलक्षाधिकं, ‘सार्धकोटिद्वयं प्रोक्तं सप्तलक्षाधिकं तथा । रथाक्षस्य रवेर्मेरोर्मानसोत्तरवर्तिनः ॥’ इति (‘इति प्रमाणानुसारेण मन्तव्यम् । मानसोत्तरे तदुपरि कृत इतरो भागो यस्य ।’ इति कपाठः) । यत्रेतरभागे रविरथचक्रं प्रोतं यः सूर्यरथाक्षश्चक्रप्रोतैकभागो मेरुमूधर्ि्नप्रोतैकभागः

॥ १३ ॥

प्रकाशिका

यस्य सूर्यरथस्य चक्रमेकं द्वादशमासाभिमानिदेवताभिमन्यमाना द्वादशारा यस्य तत् । षडॄत्वभिमानिदेवताभिमन्यमानाः षण्णेमयो यस्य चातुर्मास्याभिमानिदेवताभिमन्य-मानास्त्रिनाभयो यस्य स्वयं संवत्सराभिमानिदेवताभिमन्यमानं मेरोर्मूर्धनि कृतः कृतैकभागो मानसोत्तरे तदुपरि कृत एकोऽन्यो भागो यस्य । अक्षप्रमाणं तु सार्धकोटिद्वयं प्रोक्तं सप्त-लक्षाधिकं तथा । रथाक्षस्य रवेर्मेरोर्मानसोत्तरवर्तिन इति प्रमाणानुसारेणेति ज्ञातव्यम् ॥ १३ ॥

तस्मिन्नक्षे कृतमूलो द्वितीयोऽक्षस्तुरीयमानेन संमितः ॥ १४ ॥

पदरत्नावली

तस्मिन् दीर्घाक्षे चक्रप्रोतैकभागस्तस्मिन् दीर्घाक्षे चक्रप्रोतदेशे कृतमूलः कीलितपृष्ठभागस्तुरीयमानेन संमितः दीर्घाक्षचतुर्भागसमानः ॥ १४ ॥

प्रकाशिका

यत्र मानसोत्तरगतेतरभागे प्रोतं रविरथचक्रं परिभ्रमति तस्मिन्दीर्घाक्षे चक्रप्रान्ते कृतमूलः कीलितपृष्ठभागस्तुरीयमानेन संमितो दीर्घाक्षचतुर्भागसमानः द्वितीयोऽक्षोऽस्ति

॥ १४ ॥

तैलयन्त्राक्षवद्ध्रुवे कृतोपरिभागो रथनीडस्तु षडि्वंशल्लक्षयोजनायतस्तुरीय-भागविशालस्तावान् रविरथयुगो यत्र हयाश्छन्दोनामानः सप्तारुणयोजिता वहन्ति देवमादित्यम् ॥ १५ ॥

पदरत्नावली

द्वितीयाक्षोऽस्ति । स तु ध्रुवलोके कृतो परिभागः रथनीडः सूर्यस्य पीठस्थानीयः । तुरीयभागविशालो नवलक्षविस्तारस्तावान् रविरथयुग इति पूर्वप्रस्तुतदीर्घाक्ष-समानः । प्रकृते सम्बन्धाभावाद् दूरस्थपरामर्शः प्रमाणान्तरसिद्धत्वाच्च । अक्षप्रमाणमुभयोः प्रमाणं तद्युगार्धयोर् ह्रस्वाक्षस्तद्युगार्धेन ध्रुवाधारो रथस्य वा इति अक्षप्रमाणम् । अक्षयोर् दीर्घाक्षह्रस्वाक्षयोः परिमाणमुभयोर्युगार्द्धयोर्युगं च तदर्धं च युगार्द्धे तयोर्युगार्धयोर्यथा क्रमं प्रमाणम् । युगस्योत्तरभागोऽश्वस्कन्धे निवेशितः, दक्षिणभागस्तु ध्रुवस्थानादवलम्बमानो वायु-पाशेन बद्धः, युगार्धस्त्वश्वस्कन्धान्निर्गतयुगाग्रे कीलितः, चक्रप्रोतदीर्घाक्षाग्रे कीलितापरभागः । तत्र रथस्य यो ह्रस्वाक्षस्तत्रैव कीलितस्तेन युगार्धेन सह ह्रस्वाक्षः ध्रुवाधारो भवति । उत्तान-पादपुत्रलोके वायुपाशेन बद्ध इत्यर्थः । अश्वस्थित्या चायमर्थोऽवगम्यते । ‘सप्ताश्वरूपच्छन्दांसि वहन्तो वामतो धुरम् । चक्रपक्षनिबद्धानि चक्रे चाक्षः समाहितः ॥’ इति । रविरथनीड-विशालसमान इति केचित् । तत्त्वम् अरुणो विजानाति । ईषादण्डपरिमाणमपि तदनु-सारेणोत्प्रेक्षणीयम् । युगमध्ये निर्गताग्र ईषादण्डः (‘रथनीडे रथे सूर्यस्योपवेशस्थानम् । तुरीयभागेन नवलक्षयोजनेन विशालो विस्तृतः । यत्र युगे अरुणेन योजिता गायत्र्यादि-च्छन्दोनामानः सप्त हया आदित्यं वहन्ति । ‘एकोऽश्वो वहति सप्त नाम’ इति श्रुतेः, एक एवाश्वः सप्तधा विभक्तः सप्तनामा सन् वहतीति ज्ञेयम् ।’ इति कपाठः) ॥ १५ ॥

प्रकाशिका

ध्रुवे ध्रुवलोके कृतो वायुपाशेन निबद्ध उपरिभागो यस्य । रथनीडो रथे सूर्यस्योपवेश्यस्थानम् । आयत उच्छ्रितः । तुरीयभागविशालो नवलक्षविस्तारस्तावान् रथनीड-विशालसमानः । यत्र युगे गायत्र्यादिसप्तछन्दनामानोऽरुणेन सारथिनाऽयोजिताः सन्तो वहन्ति । एकोऽश्वो वहति सप्त नामेति श्रुतेः । एक एवाश्वः सप्तधा विभक्तः सप्तनामा सन्वहतीति ज्ञातव्यम् ॥ १५ ॥

पुरस्तात्सवितुररुणः पश्चान्नियुक्तः सौत्ये कर्मणि किलास्ते ॥ १६ ॥

पदरत्नावली

सवितुः पुरस्ताद् अश्वानां पश्चात्पृष्ठे (‘सौत्ये अश्ववाहनरूपे सूतकर्मणि नियुक्तोऽरुणः पूर्वमुखोपविष्टस्य सवितुः पुरस्तादग्रे पश्चात् पृष्टप्रदर्शनापराधपरिहाराय तदभिमुखः प्रत्यङ्मुख आस्ते । आदित्याभिमुखेनापि तेन सौत्यकर्मकरणं सम्भावितमेवेति तत्सामर्थ्य-विशेषद्योतनायाह– किलेति ॥ अश्वस्थानं त्वेवमवगन्तव्यम् । ‘सप्ताश्वरूपच्छन्दांसि वहन्ते वामतो रविम् । चक्रपक्षनिबद्धानि चक्रे चाक्षः समाहितः ॥’ इति कपाठः) ॥ १६ ॥

प्रकाशिका

सवितुः पुरस्तात्स्थितोऽपि पश्चात् प्रत्यङ्मुखो नवालिखिल्यादिवत्तदभिमुख इत्यर्थः ॥ १६ ॥

तथा वालिखिल्या ऋषयोंऽगुष्ठपर्वमात्राः षष्टिसहस्राणि पुरतः सूर्यं सूक्त-वाकाय नियुक्ताः संस्तुवन्ति ॥ १७ ॥

तथाऽन्ये च ऋषयो गन्धर्वाप्सरसो नागा ग्रामण्यो यातुधाना देवा इत्येकैकशो गणाः सप्त चैकैकशो रथस्था मासि मासि भगवन्तं सूर्यमात्मानं नानानामानं पृथङ्नामानः पृथक्कर्मभिर्द्वादश उपासते ॥ १८ ॥

पदरत्नावली

ग्रामण्यस्तक्षाणः । ‘ग्रामाधिपे तक्षणि च ग्रामणीः परिकीर्तितः’ इति यादवः ॥ १८ ॥

प्रकाशिका

सूक्तवाकाय सूर्यप्रतिपादकमन्त्रैः स्तवनाय ग्रामण्यस्तक्षाणः । ग्रामाधिपे तक्षणि च ग्रामणीः परिकीर्तित इत्यभिधानात् ॥ १७ ॥

लक्षोत्तरसार्धनवकोटियोजनपरिमण्डलभूवलयस्य क्षणेन गव्यूत्युत्तरद्विसहस्र-योजनानि स भुङ्क्ते ॥ १९ ॥

॥ इति श्रीमद्भागवते चतुर्थस्कन्धे एकविंशोऽध्यायः ॥

पदरत्नावली

(‘सगव्यूत्युत्तरं क्रोशद्वयाधिकं यथा भवति तथा द्विसहस्रयोजनानि क्षणेन स आदित्यो भुङ्क्ते परिक्रामति । गव्यूतिः क्रोडद्वयं, गव्यूतिरूपं यदुत्तरमधिकं तत्सहितं तथा भवति तथेत्यर्थः’ इति कपाठः) ॥ १९ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

पञ्चमस्कन्धे एकविंशोऽध्यायः ॥

प्रकाशिका

गव्यूतिः क्रोशद्वयं भुंक्तेऽनुभवति । गच्छतीति यावत् ॥ १९ ॥

॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां

श्रीमद्भागतटिप्पण्यां प्रकाशिकायां पञ्चमस्कन्धे एकविंशोऽध्यायः ॥ ५-२१ ॥