२० विंशोऽध्यायः

अतः परं प्लक्षादिद्वीपानां प्रमाणलक्षणसंस्थानतो वर्षविभाग उपवर्ण्यते

॥ विंशोऽध्यायः ॥

श्री शुक उवाच–

अतः परं प्लक्षादिद्वीपानां प्रमाणलक्षणसंस्थानतो वर्षविभाग उपवर्ण्यते

॥ १ ॥

पदरत्नावली

प्लक्षादिद्वीपप्रमाणादिज्ञानेन श्रीनारायणमाहात्म्यमेव ज्ञाप्यतेऽस्मिन्नध्याये । प्रमाणमियत्ता । ‘प्रमाणं बोधनेयत्तामर्यादाशास्त्रहेतुषु’ इति यादवः । लक्षणमेतावद्गिरिसरिद्व्यावृत्तं (‘लक्षणमसाधारणं चिह्नम् ।’ इति कपाठः) संस्थानं वर्तुलत्वचतुरस्रत्वादिस्वरूपप्रकारः ॥१॥

प्रकाशिका

प्रमाणमियत्तौ । लक्षणं तत्रत्यं वृक्षादिकं संस्थानं वर्तुलत्वादिरूपम् ॥१॥

**जम्बुद्वीपोऽयं यावान् प्रमाणविस्तारतस्तावता क्षारोदधिना परिवेष्टितो यथा मेरुर्जंब्वाख्येन लवणोदधिरपि ततो द्विगुणविशालेन प्लक्षाख्येन परिक्षिप्तो यथा परिखा बाह्योपवनेन प्लक्षो जंबूप्रमाणो द्वीपाख्यातिकरो हिरण्मयः प्लक्ष उत्थितो यत्राग्निरुपास्ते सप्तजिह्वस् तस्याधिपतिः प्रियव्रतात्मज इध्मजिह्वः स्वं द्वीपं सप्त वर्षाणि विभज्य सप्तवर्षनामभ्य आत्मजेभ्य आकलय्य स्वयमात्मयोगेनोपरराम **

॥ २ ॥

पदरत्नावली

तावता विस्तारेण लक्षयोजनप्रमाणेन । ततो जंबूद्वीपात् । प्लक्षाख्येन बहिःस्थितेन(‘परिक्षिप्तः परिवेष्टितः’ इति कपाठः) तत्र दृष्टान्तः– यथेति ॥ यत्र द्वीपे प्लक्ष उत्थितो ऽसौ प्लक्षः जम्बूप्रमाणः द्वीपाख्यातिकरत्वे जम्बूं प्रमाणीकरोति अधिसहस्रयोजनोन्नाह इति वा । यत्रेत्युत्तरत्रापि सम्बध्यते । श्रीहरिमिति शेषः (‘जम्बुप्रमाण एकादशशतयोजनो-च्छ्रायः शाखाभिरेकादशशतयोजनविततः शतयोजनस्थूलश्च प्लक्षो यत्र द्वीपे द्वीपाख्यातिकरः । तत्सम्बन्धेनैव द्वीपस्य षट्कप्लक्ष इति सञ्ज्ञेत्याशयः । यत्र प्लक्षे उत्थितो हिरण्मयः सप्त-जिह्वोऽग्निरुपास्ते, हरिमिति शेषः ।’ इति कपाठः) । तस्य द्वीपस्य आकलय्य दत्वा ॥२॥

प्रकाशिका

तावता विस्तारेण । लक्षयोजनप्रमाणेनेति यावत् । ततो जम्बुद्वीपात् । परिक्षिप्तः परिवेष्टितः । जम्बूप्रमाणः पूर्वोक्तजम्बूवृक्षप्रमाणः प्लक्षो वृक्षो यत्रोत्थितो द्वीपाख्यातिकरः । तत्सम्बन्धेनैव द्वीपस्य प्लक्ष इति संज्ञेत्याशयः । उपास्ते । हरिमिति शेषः । आकलय्य दत्वा ॥ २ ॥

शिवं यशस्यं सुभद्रं शान्तं क्षेमममृतमभयमिति वर्षाणि तेषु गिरयो नद्यश्च सप्त सप्तैवासन्नभिज्ञाताः ॥ ३ ॥

पदरत्नावली

अभिज्ञाताः प्रसिद्धाः प्रधाना वा(‘सप्तैव’ इति कपाठः) ॥ ३ ॥

प्रकाशिका

अभिज्ञाताः प्रसिद्धाः सप्तैव ॥ ३ ॥

मणिकूटो, वज्रकूट, इन्द्रसेनो, ज्योतिष्मान्, धूम्रवर्णो, हिरण्यग्रीवो, मेघ-माल इति सेतुशैलाः, अरुणा, अनुगुणा, आङ्गिरसी, सावित्री, सुप्रभाता, ऋतम्भरा, सत्यंभरेति महानद्यः यासां जलोपस्पर्शनविधूतरजस्तमसोहंस-पतङ्गगोर्ध्वायनसप्तांग संज्ञाश्चत्वारो वर्णाः सहस्रायुषो विबुधोपमसन्दर्शन-प्रजननाः स्वर्गद्वारं त्रय्या विद्यया भगवन्तं त्रयीमयं सूर्यात्मानं यजन्ते ॥४॥

पदरत्नावली

सेतुशैला मर्यादागिरयः । विबुधोपमसन्दर्शनं प्रजननं सुरतबलं च येषां ते तथा । सूर्यात्मनां सूर्यस्वरूपम् (जलोपस्पर्शनेन स्नानादिना विधूतं निरस्तं रजस्तमश्च येषां ते तथा । हंसादयो ब्राह्मणादिस्थानीयाश्चत्वारो वर्णाः । विबुधोपमं सन्दर्शनं प्रजनन-मपत्योत्पादनं च येषां ते तथा । त्रय्या वेदत्रयात्मिकया विद्यया । त्रयीमयं वेदत्रय-प्रतिपाद्यमात्मानं सर्वान्तर्यामिणं सूर्यं सूर्यान्तःस्थत्वसूरिप्राप्यत्वादिना सूर्यशब्दाभिधं विष्णुं यजन्ते । ‘य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद यस्यादित्यः शरीरं य आदित्य-मन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः’ इति बृहदारण्यकोक्तेः । अत्र सूर्यसोमादिपदेन सूर्याद्यन्तर्यामी सूर्यादिसर्वनामा विष्णुरेव प्रधानत उपास्यत्वेनोच्यत इत्यवगन्तव्यम् । उक्तं हि कौर्मे ‘सूर्यसोमाग्निवारीशविधातृषु यथाक्रमम् । प्लक्षादिद्वीपसंस्थास्तु स्थितं हरिमुपासते ॥’ इति ।’ इति कापठः)॥ ४ ॥

प्रकाशिका

अन्ये च पर्वता नद्यश्च सहस्रशः संतीत्यर्थः । सेतुशैला मर्यादागिरयो जलोपस्पर्शनविधूतं रजस्तमश्च येषां हंसादिनामानो ब्राह्मणादिस्थानीयास्तत्र चत्वारो वर्णा विबुधोपमं संदर्शनं प्रजननम् अपत्योत्पादनं च येषां स्वर्गद्वारं स्वर्गप्राप्तिसाधनं सूर्यात्मानमिति ॥ ४ ॥

‘‘प्रत्नस्य विष्णो रूपं यत्सत्यर्तस्य ब्रह्मणः ।

अमृतस्य च मृत्योश्च सूर्यमात्मानमीमहि’’ इति ॥ ५ ॥

तात्पर्यम्

‘सूर्यसोमाग्निवारीरविधातृषु यथाक्रमम् । प्लक्षादिद्वीपसंस्थास्तु स्थितं हरिमुपासत’ इति च ॥ ५ ॥

पदरत्नावली

प्रत्नस्य पुरातनस्य विष्णोर्व्याप्तस्य हरेर्यद्रूपं प्रतिमास्थानीयम् । यच्च सत्यर्तस्य वाचिककायिकसुकृतप्रेरकस्य ब्रह्मणो विरिञ्चस्य रूपं सन्निधाननिमित्तम् । यच्चामृतस्यामरसमूहस्य मृत्योर्मारकस्य महेश्वरस्य रूपम् । एवं त्रिमूर्त्तिनिवासयोग्यं तं सूर्यमात्मनमीमहि शरणं प्राप्नुम इति मन्त्रार्थः । ननु सूर्यान्तःस्थितं हरिं शरणं प्रपद्यामह इति व्याख्यानं किं प्रमाणकं प्रतीतार्थं परित्यज्यान्यार्थाङ्गीकारस्य प्रमाणसापेक्षत्वादितीयमाशङ्का ‘‘सूर्यसोमाग्निवारीशविधातृषु यथाक्रमं प्लक्षादिद्वीपसंस्थासु स्थितं हरिमुपासत’’ इत्यनेन परिहर्तव्येति ॥ (‘प्रत्नस्य पुरातनस्य सत्यर्तस्य सत्यं मुक्तामुक्तनियामकं तच्च तदृतं पूर्वावगत-वत् स्थितं निर्विकारं च तस्य ब्रह्मणो गुणपूर्णस्य अमृतस्य नित्यमुक्तस्य मृत्योः सर्वसंहारकस्य विष्णोर्यद् रूपं सूरिप्राप्यत्वसूर्यसन्निधिप्राप्यत्वादिना सूर्यनामकं सूर्यान्तःस्थमात्मानमादानादि-कर्तारमीमहि शरणं प्राप्नुमः । ‘सूरिप्राप्तो यतो विष्णुः सूर्य इत्यभिधीयते’ इत्यादेः ।’ इति कपाठः) ॥ ५ ॥

प्रकाशिका

अत्र प्लक्षादिद्वीपषट्के उपास्यतयोक्तानां सूर्यसोमाग्न्यब्वायुब्रह्मणां विष्णु-व्यतिरिक्तानां ग्रहणे तेषु प्रत्नस्येत्यादिमन्त्रार्थासम्भवमालोच्य सूर्यसोमादिषट्कस्य विवक्षितमर्थं प्रमाणैनैव दर्शयति ॥ सूर्येति । यथाक्रमं स्थितं हरिमुपासते इत्यन्वयः । तथा च सूर्यादि-शब्दास्तद्गतविष्णोरेव वाचका इत्याशयः । ततश्च सूर्यः सूर्यान्तःस्थः सूर्यनामा स चासा-वात्माऽऽदानादिकर्ता च तमित्यादिरूपेण मूलं व्याख्येयमित्याशयः । प्रत्नस्य पुरातनस्य व्याप्तस्य वा सत्यर्तस्य सत्यं मुक्तामुक्तनियामकं तच्च तदृतं पूर्वावगतवत्स्थितं निर्विकारं च तस्य ब्रह्मणो गुणपूर्णस्यामृतस्य नित्यमुक्तस्य मृत्योर्मारकस्य विष्णोर्यद्रूपं सूर्यं सूरिभिः प्राप्यत्वात्सूर्यनामकं त्वां सूर्यान्तःस्थमात्मानमादानादिकर्तारमीमहि शरणं प्राप्नुम इति मन्त्रार्थः

॥ ५ ॥

प्लक्षादिषु पञ्चसु पुरुषाणामायुरिन्द्रियमोजः सहोबलं बुद्धिर्विक्रम इति च सर्वेषामौत्पत्तिकीसिद्धिरविशेषेण वर्तते ॥ ६ ॥

प्लक्षस्तु समानेनेक्षुरसोदेनावृतो यथा द्वीपोऽपि शाल्मलो द्विगुणविशालः समानेन– सुरोदेनावृतः परिवृत्तेन ॥ ७ ॥

पदरत्नावली

(‘अविशेषेण समानत्वेन’ इति कपाठः) परिवृत्तेन वर्तुलेनेत्येतत् सर्वद्वीपसमुद्रेष्वनुसन्धेयम् ॥ ७ ॥

प्रकाशिका

द्वीप इत्यस्य पूर्वोत्तरेण च सम्बन्धः । परिवृतेन वर्तुलेनेत्येतत्सर्वद्वीप-समुद्रेष्वनुसन्धेयम् ॥ ७ ॥

यत्र ह वै शाल्मली प्लक्षायामा यस्यां वा व किल निलयमाहुर्भगव-तच्छन्दःस्तुतः पतत्रिराजस्य साध्यर्धा जंबूत उपलक्ष्यते ॥ ८ ॥

तद्द्वीपाधिपतिः प्रियव्रतात्मजो यज्वबाहुः स्वसुतेभ्यस्तन्नामानि सप्त वर्षाणि व्यभजत् सुरोचनं सौमनस्यं रमणकं देवबर्हं पारिभद्रमाप्यायनमभिजातमिति

॥ ९ ॥

**तेष्वद्रयो नद्यश्च सप्तैवाभिज्ञाताः सुरसः शतशृङ्गो वामदेवः कुन्दो मुकुन्दः पुष्पवर्षः सहश्रुतिरिति अनुमतिः सिनीवाली सरस्वती कुहू रजनी नन्दा राकेति **

॥ १० ॥

तद्वर्षपुरुषाः श्रुतधरवीर्यधरवसुन्धरोर्ध्वधरसंज्ञा भगवन्तं वेदमयं सोममात्मानं वेदेन यजन्ते ॥ ११ ॥

पदरत्नावली

यत्र शाल्मली समुत्पन्ना सद्वीपः शाल्मलः प्लक्षायामेत्यनेन शाल्मल्याः परिमाणं सम्यङ् न ज्ञ• स्यादित्यतः– साऽध्यर्धेति ॥ ‘सुपर्णोऽसि गरुत्मान्’ इत्यादि-च्छन्दोभिर्वेदैः स्तूयत इति च्छन्दस्स्तुतः (प्लक्षायामा शतयोजनस्थूला एकादशशतयोजनो-च्छ्रिता । ‘सुपर्णोऽपि गरुत्मांस्त्रिवृते शिरः’ इत्यादिछन्दोभिर्विष्णुं स्तौतीति छन्दस्स्तुत् तस्य छन्दस्स्तुतः । पतत्त्रिराजस्य गरुडस्य निलयमाहुः सा शाल्मली जम्बुतो जम्बुवृक्षप्रमाणा-दध्यर्धोच्चा उपलक्ष्यते दृश्यते । वेदमयं प्राधान्येन वेदप्रतिपाद्यं सोमं सोमान्तःस्थं सोम-नामानम् ।’ इति कपाठः) ॥ ८-११ ॥

प्रकाशिका

यत्र शाल्मली समुत्पन्नाऽत एव द्वीपस्य शाल्मल इति नाम प्लक्षायामा प्लक्षवद्विस्तृतेत्यर्थः । छन्दोभिर्वेदैर्विष्णुं स्तौतीति छन्दस्तुत्तस्य पतत्त्रिराजस्य गरुडस्योच्चत्वस्य प्रमाणं दर्शयति ॥ सेति । सा शाल्मली जम्बूतो जम्बूवृक्षप्रमाणादध्यर्धोच्चेत्यर्थः । उपलक्ष्यते ज्ञायते । अस्मिन्वर्षे चतुर्वर्णानां नामान्याह ॥ श्रुतधरेत्यादिना । वेदमयं वेदप्रतिपाद्येषु प्रधानं सोमं सोमान्तःस्थं सोमनामानम् । आत्मानमिति पूर्ववत् ॥ ८-११ ॥

स्वगोभिः पितृदेवेभ्यो विभजन् शुक्लकृष्णयोः ।

अन्धः प्रजानां सर्वासां राजा नः सोममस्त्विति ॥ १२ ॥

पदरत्नावली

शुक्लकृष्णयोरुभयोः पक्षयोरपि स्वगोभिः सुधालक्षणैः पितृदेवेभ्यः पितृदेवानुद्दिश्य सोमलक्षणमन्धोऽन्नं विभजन् राजा चन्द्रान्तर्यामी सर्वासां प्रजानां नोऽस्माकं च राजा रञ्जकोऽस्त्विति । प्रजानां नोऽन्धो विभजन् पित्रादिभ्यः सोमं विभजन् राजा नः सोमं सुखमस्त्विति वा ॥ १२ ॥

प्रकाशिका

शुक्लकृष्णयोरुभयोः पक्षयोः स्वगोभिः स्वरश्मिभिः । पितृदेवेभ्यः पितृदेवानुद्दिश्य सोमं सोमरूपमन्धोऽन्नं विभजन् राजा चन्द्रान्तर्यामी सर्वासां प्रजानां नोऽस्माकं राजा रंजकोऽस्त्विति योजना ॥ १२ ॥

एवं सुरोदाद्बहिस्तद्द्विगुणः समानेनावृतो घृतोदेन यथापूर्वं कुशद्वीपो । यस्मिन् कुशस्तम्बो देवकृतस्तद्द्वीपाख्यापनोज्वलन इवापरः शश्वत्स्वशष्प-रोचिषा दिशो विराजयति ॥ १३ ॥

पदरत्नावली

सङ्ख्यया कुशद्वीपसमानेन यथापूर्वः शाल्मलः सुरोदेनावृतस्तथा । स्वशष्पाणां निजबालतृणानां तेजसा (‘यथापूर्वः शाल्मलद्वीपः स्वसमानेन सुरोदेनावृत एवं सुरोदाद् बहिस्तद्द्विगुणोऽष्टलक्षयोजनविततः कुशद्वीपः स्वसमानेन घृतोदेनावृतः यस्मिन् द्वीपे तस्य द्वीपस्याख्यापनो ऽपरो द्वितीयो ज्वलनोऽग्निरिव प्रकाशमानो देवकृः कुशस्तम्बः कुश-लक्षणतृणविशेषः स्वशष्पाणां निजबालतृणानां रोचिषा कान्त्या दिशे विराजयति’ । इति कपाठः) ॥ १३-१६ ॥

प्रकाशिका

तद्विगुणः कुशद्वीप इत्यन्वयः । समानेन स्वसमानेन घृतोदेनावृतो यथा पूर्वं शाल्मलः सुरोदेनावृतस्तथा कुशस्तंबः कुशलक्षणतृणविशेषः स्वशष्पाणां निजबालतृणानां रोचिषा कांत्या ॥ १३ ॥

तस्यापि प्रैय्यव्रतो राजा हिरण्यरेता नाम स्वद्वीपं सप्तभ्यः पुत्रेभ्यो यथाभागं विभज्य स्वयं तु तप आतिष्ठत् ॥ १४ ॥

वसुदानदृढरुचिनाभिगुप्तसत्यव्रतविप्रवामदेवनामभ्यस्तेषां वर्षेषु सीमागिरयो नद्यश्चाभिज्ञाताः सप्तसप्तैव तु बभूवुश् चक्रः शृङ्गः कपिलश्छिन्नकूटो देवानीक ऊर्ध्वरोमा द्रविण इति ॥ १५ ॥

रसकुल्या, मधुकुल्या, श्रुतविन्दा, मित्रविंदा, देवगर्भा, घृतच्युता, मन्त्र-मालेति नद्यः यासां पयोभिः कुशद्वीपौकसः कुशलकोविदाभियुक्तकुशलकसंज्ञा भगवन्तं जातवेद स्वरूपिणं कर्मकौशलेन यजन्ते ॥ १६ ॥

पदरत्नावली

(यासां नदीनां पयोभिर् विशुद्धाः सन्त इति शेषः कुशलः कोविदो ऽभियुक्तः कुलक इति सञ्ज्ञा येषां ते ब्राह्मणादिस्थानीयाश्चत्वारो वर्णाः ।’ इति कपाठः)

॥ १६ ॥

प्रकाशिका

अत्रत्यानां चतुर्वर्णानां नामान्याह ॥ कुशलेत्यादिना । जातवेदस्याग्नौ जातवेदोऽग्न्यादिनामकं स्वतन्त्रं रूपमस्यास्तीति जातवेदस्वरूपिणमित्यर्थः ॥ १४-१६ ॥

**परस्य ब्रह्मणः साक्षाज्जातवेदोऽसि हव्यवाट् । **

दैवानां पुरुषाङ्गानां यज्ञेन पुरुषं यजेति ॥ १७ ॥

पदरत्नावली

हे जातवेदः सर्वज्ञ त्वं साक्षात् परस्य ब्रह्मणो श्रीनारायणस्यार्थे हव्यवाडसि हव्यलक्षणहिविषो नेताऽसि । तथा पुरुषशब्दवाच्यस्य हरेरङ्गभूतानां देवानां च हव्यवाडसि । स त्वमस्मत्सन्निहितो भूत्वा यज्ञलक्षणेन कर्मणा पुरुषं यज्ञनामानं(‘देवान्तर्गतं’ इति कपाठः) श्रीहरिं यज । याजयास्माभिरिति शेषः ॥ १७ ॥

प्रकाशिका

हे जातवेदो ऽग्ने । त्वं साक्षादनुपचारेण परस्य परब्रह्मणः । संनिधान-युतोऽसि । पुरुषाङ्गानां यज्ञपुरुषशरीरभूतानां देवानां हव्यवाडसि । अतो यज्ञेनास्मत्कृतेन पुरुषं देवान्तर्गतं यज । याज्ञीयं हविस्तस्मै समर्पयेत्यर्थः ॥ १७ ॥

तथा बहिः क्रौञ्चद्वीपो कुशद्वीपात्समानेन क्षीरोदेन परित उपक्लृप्तो वृतो यथा कुशद्वीपो घृतोदेन । यस्मिन् क्रौंचो नाम पर्वतराजो द्वीपनामनिवर्तक आस्ते

॥ १८ ॥

पदरत्नावली

क्षरोदेन मण्डोदेन । ‘मण्डोदे पूरणं चैव व्यत्यासं क्षीरसागरे । राहुसोमरवीणां च मण्डलाद्द्विगुणोक्तिताम् । विनैव सर्वमुन्नेयं योजनाभेदतोऽत्र तु ॥’ इति वचनाद्व्यत्यासो ज्ञातव्यः (‘क्षीरोदेन दधिमण्डोदेन । असुरजनमोहनायेयं व्यत्यासेनोक्तिः । ‘मण्डोदे पूरणं चैव व्यत्यासं क्षीरसागरे’ इति ब्रह्माण्डवचनात् । किञ्च आम्लरहितमाधुर्य-लक्षणगुणविशिष्टदधिमण्डोदबोधनायात्र दधिमण्डोदः क्षीरोदशब्देन व्यवहृतः । एवमुत्तरत्र ‘दधि-मण्डोदेन परितः’ इति दधिशब्देन क्षीरमेवोच्यते । तत्र च सान्द्रत्वगुणविशिष्टक्षीरोदबोधनाय दधिमण्डोदत्वेन क्षीरोदो व्यवहृत इत्यवधेयम् । यथोक्तं शब्दनिर्णये ‘अनाम्लं तु दधि क्षीरं क्षीरं सान्द्रं तथा दधि’ इति । एवञ्चात्र ‘जम्बुप्लक्षाह्वयौ द्वीपौ शाल्मलश्चापरो द्विज । कुशः क्रौञ्च-स्तथा शाकः पुष्करश्चैव सप्तमः । एते द्वीपाः समुद्रैस्तु सप्तसप्तभिरावृतः । लवणेक्षुसुरासर्पि-र्दधिदुग्धजलैः समम्’ इति ग्रन्थान्तरविरोधपरिहारप्रकारः । उपक्लृप्तो वेष्टितः ।’ इति कपाठः)

॥ १८ ॥

प्रकाशिका

क्षीरोदेन दधिमण्डोदेन । असुरजनमोहनायेयं व्यत्यासेनोक्तिः । अत एव व्यत्यासं क्षीरसागर इति पूर्वं भगवत्पादैरुक्तम् । उपक्लृप्तो वेष्टितो यथा कुशद्वीपो घृतोदेनोपक्लृप्तो वृतः ॥ १८ ॥

योऽसौ गुहप्रहरणोन्मथितनितम्बकुञ्जोऽपि क्षीरोदेनासिच्यमानो भगवता वरुणेनाभिगुप्तो विभयो बभूव ॥ १९ ॥

पदरत्नावली

गृहस्य षण्मुखस्य प्रहरणेन शक्त्याख्येनोन्मथिताः पीडिता नितम्बाश्च कुञ्जलतादिपिहितोदरा अणुतरा गिरिविशेषा मिथुनानां क्रीडायोग्याश्च यस्य स तथा । क्षीरोदेन मण्डोदेनाभिषिच्यमानः ॥ १९ ॥

प्रकाशिका

गुहस्य षण्मुखस्य प्रहरणेनायुधेनोन्मथिताः पीडिता नितंबाः कुञ्जा लतादिपिहितनिम्नप्रदेशाश्च यस्मिन्स तथा । क्षीरोदेन दधिमण्डोदेन ॥ १९ ॥

तस्मिन् प्रैय्यव्रतो घृतपृष्ठो नामाधिपतिः स तु तद्वीपवर्षाणि सप्तधा विभज्य तेषु पुत्रनामसु सप्तारिक्थादान्वर्षपान्निवेश्य स्वयं भगवतः परम-कल्याणस्यात्मभूतस्य हरेश्चरणारविन्दमुपजगाम ॥ २० ॥

पदरत्नावली

रिक्थादान् दायादान् । पुत्रानित्यर्थः (‘रिक्थादान् पुत्रान् वर्षपान् प्रजापालकान् निवेश्य संस्थाप्य । आत्मभूतस्य आत्मनि विद्यमानस्य ।’ इति कपाठः)॥२०॥

प्रकाशिका

आत्मभूतस्यात्मनि विद्यमानस्य ॥ २० ॥

आमो मधुमेहो मेघपृष्ठः सुधामा ऋषिज्योतिर्लोहितार्णो वनस्पतिरिति घृतपृष्ठसुतास्तेषां वर्षगिरयः सप्त सप्तैव नद्यश्चाभिख्याताः शुक्लो वर्धमान उपबर्हण उपभोजनो नन्दो नन्दनः सर्वतोभद्र इति ॥ २१ ॥

अभयामृतौघा आर्यका तीर्थवती रूपवती पवित्रा शुक्लेति यासामम्भः पवित्रममलमुपयुंजाना गुरुऋषभद्रविणदेवकसंज्ञा वर्षपुरुषा अम्मयं देवमपाम्पूर्णे-नाञ्जलिना यजन्ते ॥ २२ ॥

पदरत्नावली

(उपयुञ्जानाः सेवमानाः । अत्रापि चतुर्वर्णानां नामान्याह– गुरुऋष-भेत्यादिना ॥ इति कपाठः)अम्मयं जलाधिदैवतं देवं क्रीडादिगुणसम्पन्नम् ॥ २२ ॥

प्रकाशिका

अत्रापि चतुर्वर्णानां नामान्याह ॥ गुरुऋषभेत्यादिना । अंमयम् अप्शब्दार्थेन पूर्णमबन्तर्गतम् । देवं भगवन्तं यजन्ते पूजां कुर्वन्तीति यावत् । यज पूजायामिति धातोः ॥ २२ ॥

आपः पुरुषवीर्याश्च पुनन्तीर्भूर्भुवः सुवः ।

ता नः पुनीयुरघघ्नीः संस्पृशेतात्मनाऽभव इति ॥ २३ ॥

पदरत्नावली

या आपः पुरुषवीर्याः श्रीनारायणस्य रेतोभूताः । ‘आपो नारा इति प्रोक्ता आपो वै नरसूनवः’ इति स्मृतेः । भूर्भुवःसुवःपदं त्रैलोक्यमपि पुनन्तीः पुनन्त्यः । याश्चाघघ्नीः पापहरा भवे भवार्थं शुद्धिलक्षणसुखार्थमात्मना देहेन चान्तरेण च संस्पृशेत ता आपः पुनीयुः पुनंत्वित्यन्वयः (‘हे आपः पुरुषवीर्याः स्वान्तर्गतपरमपुरुषनारायणाल्लब्ध-सामर्थ्याः स्थ भवथ । ‘आपो नार इति प्रोक्ता आपो वै नरसूनवः’ इति स्मृतेः । अत एवात्मनाऽमीवघ्नीः पापहरा भूर्भुवस्सुवस्त्रैलोक्यं पुनन्तीः पुनन्त्यस्ता भवत्यो नोऽस्माकं स्पृशतां स्पर्शनं कुर्वतां भुवः शरीराणि पुनीत ।’ इति कपाठः) ॥ २३ ॥

प्रकाशिका

पुरुषवीर्याः स्वान्तर्गतपरमपुरुषपराक्रमनियम्या भूर्भुवःस्वस्त्रैलोक्यं पुनंतीः पुनंत्यो याश्चाघघ्नीः पापापहरा याश्चाभवेऽपुनर्भवाय लोकाय आत्मना देहेन संस्पृशेत ता नः पुनीयुरित्यन्वयः ॥ २३ ॥

एवं परस्तात्क्षीरोदात्परित उपवेशितः शाकद्वीपो द्वात्रिंशल्लक्षयोजनायामः समानेन च दधिमण्डोदेन परित उपक्लृप्तः यस्मिन् हि शाको नाम महीरुहः स्वक्षेत्रव्यपदेशको यस्य हि महान्सुरभिगन्धस्तद्वर्षमनुवासयति ॥ २४ ॥

तात्पर्यम्

‘अनाम्लं तु दधि क्षीरं क्षीरं सान्द्रं तथा दधि’ इति शब्दनिर्णये ॥ २४ ॥

पदरत्नावली

दधिमण्डोदेन ‘अनाम्लं तु दधिक्षीरं क्षीरं सान्द्रं तथा दधि’ इत्यभि-धानात् । क्षीरोदार्थं दधिमण्डोदशब्दः (क्षीरोदाद् दधिमण्डोदात् । दधिमण्डोदेन क्षीरोदेन । इति कपाठः)॥ २४ ॥

प्रकाशिका

क्षीरोदाद्दधिमण्डोदाद् दधिमण्डोदेन क्षीरोदेन । पूर्वं क्षीरशब्देन च दधिमण्डोदः । अत्र च दधिमण्डोदशब्देन क्षीरोदोऽमुख्ययैव वृत्त्या व्याख्येय इत्याशयेनोभयत्र प्रवृत्तिनिमित्तभूतं गुणं प्रमाणेनैव दर्शयति ॥ अनाम्लं त्विति । तुशब्दोऽवधारणे । अनाम्लं मधुरमित्यर्थः । साद्रं घनीभूतं क्षीरमिति, दधीति च । व्यव•हीयते इति शेषः । तथा च पूर्वं दधिमण्डोदो माधुर्यलक्षणगुणयोगात्क्षीरशब्देन व्यवहृतः । अत्र तु क्षीरोदो सांद्रत्वगुणयोगेन दधिमण्डोदत्वेन व्यवहृत इति भावः । अनेन योजनाभेदतोऽत्र त्वित्युक्तो योजनाविशेषोऽ-प्यस्मिन्विषये प्रदर्शित इति ज्ञातव्यम् ॥ २४ ॥

तस्यापि प्रैययव्रत एवाधिपतिर्नाम्ना मेधातिथिः सोऽपि विभज्य सप्त वर्षाणि पुत्रनामानि तेषु स्वात्मजान्पुरोजवमनोजववेपमानधूम्रानीकचित्ररेफबहुरूप-विश्वाधारसंज्ञान्निधायाधिपतीन् स्वयं भगवत्यनन्त आवेशितमतिस्तपोवनं प्रविवेश ॥ २५ ॥

तेषु वर्षमर्यादागिरयो नद्यश्च सप्त सप्त एव ईशान उरुशृङ्गो बलभद्रः शतकेसरः सहस्रस्रोतो देवपालो महानस इति ॥ २६ ॥

अनघा आयुर्दा उभयस्पृष्टिरपराजिता पञ्चपदी सहस्रशृृतिर्निजधृतिरिति

॥ २७ ॥

तद्वर्षेषु पुरुषा धृतव्रतसत्यव्रतदानव्रतानुव्रतनामानो भगवन्तं वाय्वात्मकं प्राणायाम विधूतरजस्तमसः परमसमाधिना यजन्ते ॥ २८ ॥

**अन्तःप्रविश्य भूतानि यो विभर्त्यात्मकेतुभिः । **

अन्तर्यामीश्वरः साक्षात्पातु नो यद्वशे इदमिति ॥ २९ ॥

पदरत्नावली

आत्मकेतुभिर् आत्मस्वरूपैः प्राणादिभिर्वृत्तिभेदैर्वा (‘योऽन्तः प्रविश्य स्थावरजङ्गमात्मकानि भूतानि आत्मनः स्वस्य केतुभिः प्राणादिपञ्चवृत्तिनियामकरूपविशेषैर् बिभर्ति धारयति पोषयति च । यस्य वशे इदं विश्वमस्ति सः साक्षादन्तर्यामी ईश्वरो नः पातुः ।’ इति कपाठः) ॥ २९ ॥

प्रकाशिका

शाकद्वीपेऽपि चतुर्वर्णानां नामान्याह ॥ धृतव्रतेत्यादिना । वाय्वात्मक-मिति । वाय्वन्तर्गतं वायुनामानं वायोरादानादिकर्तारं सुखरूपमिति वा । विधूतरजस्तमसो विधूतराजसतामसमला आत्मनः स्वस्य केतुभिः प्राणादिपञ्चवृत्तिनियामकविशेषैः ॥२५-२९॥

**एवमेव दधिमण्डोदात्परतः पुष्करद्वीपस्ततो द्विगुणायामः समन्तत उप-कल्पितः समानेन स्वादूदकसमुद्रेण बहिरावृतो यस्मिन्बृहत्पष्करं ज्वलन-शिखामलकनक पत्रायुतं भगवतः कमलासनस्याध्यासनं परिकल्पितं तद्द्वीप-मध्ये मानसोत्तरनामैक एवार्वाचीनपराचीनयोर्वर्षयोर्मर्यादाचलायुतयोजनो-च्छ्रायायामो यत्र तु चतसृषु दिक्षु चत्वारि पुराणि लोकपालानामिन्द्रादीनां यदुपरिष्टात्सूर्यरथस्य मेरुं परिक्रमतः संवत्सरात्मकमहोरात्राभ्यां चक्रं परिभ्रमति **

॥ ३० ॥

पदरत्नावली

दधिमण्डोदात् क्षीरोदात् । ज्वलनशिखावदमलानां कनकपात्राणाम् अयुतं यस्य तत्तथा । अर्वाचीनपराचीनयोर्बाह्याभ्यन्तरप्रदेशस्थितयोर्यस्य मानसोत्तरपर्वतस्य ‘अह-स्त्रिनाभिः सूर्यस्य एकचक्रस्य वै स्मृतम् । अराः संवत्सराः पञ्च तेभ्यः षड्ऋतवः स्मृताः ॥’ इति मत्स्यपुराणे चक्रस्य संवत्सरात्मकत्वमुक्तम् । ‘त्रिणाभिचक्रमजरमनर्वं पञ्चारे चक्रे’ इत्यादि च ॥ ३० ॥

प्रकाशिका

दधिमण्डोदात्क्षीरोदात् । ज्वलनशिखावदमलानां कनकपत्राणामयुतं यस्मिंस्तत्तथा । अर्वाचीनपराचीनयोरान्तरबाह्यास्थितप्रदेशयोरहोरात्राभ्यां संवत्सरात्मकमहोरात्र-करणेन संवत्सररूपकालप्रमापकम् ॥ ३० ॥

तद्द्वीपस्याधिपतिः प्रैयव्रतो वीतिहोत्रो नामा स्वस्यात्मजौ रमणकधातुक-नामानौ वर्षपती नियुज्य स्वयं पूर्वजवद्भगवत्कर्मशील एवास्ते ॥ ३१ ॥

**तद्वर्षपुरुषा भगवन्तं ब्रह्मरूपिणमकर्मकेण कर्मणा चाराधयन्तीदं चोदाहरन्ति **

॥ ३२ ॥

पदरत्नावली

अकर्मकेण ध्यानलक्षणेन कर्मणा ध्यानस्य चित्तनिरोधलक्षणकर्मसाध्यत्वात् फलाभिसन्धिरहितेन वा (‘ब्रह्मरूपिणं ब्रह्मान्तर्गतं ब्रह्मनामकं रूपमस्यास्तीति तत् तथा । अकर्मकेण ध्यानलक्षणेन कर्मणा निवृत्तकर्मणा’ । इति कपाठः) ॥ ३२ ॥

प्रकाशिका

ब्रह्मरूपिणं ब्रह्मान्तर्गतं ब्रह्मनामकं रूपमस्यास्तीति तम् । अकर्मकेण ज्ञानमार्गेण कर्मणा च निवृत्तिकर्मणा च ॥ ३२ ॥

यत्ते कर्ममयं लिङ्गं ब्रह्मलिङ्गं जनोऽर्चति ।

भेदेनैकान्तमद्वैतं तस्मै भगवते नम इति ॥ ३३ ॥

पदरत्नावली

हे भगवन् । यत्तव लिङ्गं सर्वलक्षणसम्पन्नं स्वरूपं कर्मणा यज्ञलक्षणेन मीयते ज्ञायत इति कर्ममयं वेदप्रतिपाद्येषु प्रधानं वा । ब्रह्मा चतुर्मुखो लिङ्गं प्रतिमा यस्य तत्तथा । जनोऽर्चति कथं भेदेन विरिञ्चात्सर्वजगतश्च वैलक्षण्येन एकान्तं नियमेन औतं स्वगतभेदवर्जितं यत्तस्मै भगवते तुभ्यं नम इति मन्त्रार्थः । विरिञ्चस्य यत् तल्लिङ्गं शरीरं पुण्यकर्मनिर्मितं ब्रह्मणो हरेर्लिङ्गं विशेषसन्निधानयोग्यम् एकान्तमवसाने प्रलये केवलं निर्व्यापारं ‘एके मुख्यान्यकेवलाः’ इत्यभिधानम् । औतं मुक्तौ संसारे च श्रीनारायणमत्यभेदेन प्रवर्तमानं गच्छामि विष्णुपादाभ्यामित्याद्यनुसन्धानवचनान् मुख्याद्वैतं किं न स्यादत्राह– भेदेनेति ॥ विरिञ्चपरमात्मनोर्भेदेन जनः पूजयति तस्मै भगवते पूज्याय विरिञ्चाय नम इति वा (‘तत् प्रसिद्धं कर्ममयं श्रुतिस्मृतिविहितकर्मफलरूपं ब्रह्मा चतुर्मुखो मुख्यप्राणश्च लिङ्गं प्रतिमा यस्य स तथाभूतं ते लिङ्गं स्वरूपं भेदेन सर्ववैलक्षण्येन एकान्तं नियमेन औतं स्वगतभेदवर्जितं यज् जनोऽर्चति तस्मै भगवते नमः ।’ इति कपाठः) ॥ ३३ ॥

प्रकाशिका

हे भगवन् । यत्ते तव लिङ्गं स्वरूपं कर्म प्रधानं प्राधान्येन कर्मणा । यमुद्देश्यमिति यावत् । ब्रह्म लिङ्गं प्रतिमा यस्य तद् ब्रह्मलिङ्गम् । कथमर्चन्ति । भेदेन सर्ववैलक्षण्येनैकान्तनियमेन । पुनः कथंभूतम् । औतं स्वगतभेदवर्जितम् ‘‘अहस्त्रिनाभिः सूर्यस्य एकचक्रस्य वै स्मृतम् । अरा संवत्सराः पञ्चभूतेभ्य षडृतवःस्मृता’’ इति मत्स्यपुराणे चक्रस्य संवत्सरात्मकत्वमुक्तम् ॥ ३३ ॥

ततः परस्ताल्लोकालोकनामाचलः लोकालोकयोरन्तराले परित उपक्लृप्तः

॥ ३४ ॥

पदरत्नावली

ततः परस्ताद्बहिः (‘ततः शुद्धोदात् परस्ताद् बहिः, लोकः सूर्याद्या-लोकवद् देशः, अलोकस्तद्रहितो देशस्तयोरन्तराले मध्ये तयोर्विभागार्थं लोकालोकनामाचलः परित उपक्लृप्तः ।’ इति कपाठः) ॥ ३४ ॥

प्रकाशिका

ततः शुद्धोदकात्परस्ताद्बहिर्लोकः सूर्याद्या लोकवान्देश आलोकस्तयो-रन्तराले मध्ये तयोर्विभागार्थमित्यर्थः ॥ ३४ ॥

यावन्मानसोत्तरमेर्वोरन्तरं तावती भूमिः काञ्चन्यादर्शतलोपमा यस्यां प्रहितः पदार्थो न कथञ्चित्पुनः प्रत्युपलक्ष्यते तस्मात्सर्वसत्वपरिहृताऽऽसीत् ॥ ३५ ॥

पदरत्नावली

मानसोत्तरमेर्वोः पर्वतयोरन्तरमन्तरालं स्थलं यावद्योजनं षोडशलक्षाधिक-दशकोटिप्रमितमस्ति तावती भूमिः काञ्चनी, ‘ततो हेममयी भूमिर्दशकोट्यो वरानने । देवानं क्रीडनार्थाय लोकालोकस्ततः परः ॥’ इति । षण्णवतिलक्षमिति केचित् । आदर्शतलोपमा दर्पणतलसदृशी देवतदनुगव्यतिरिक्तसर्वसत्वपरिहृता ‘द्विगुणा काञ्चनी भूमिः सर्वसत्वविवर्जिता’ इत्यत्र पूर्वभूमेः सकाशात् काञ्चन्या भूमेर्द्विगुणसुखहेतुत्वं देवान् प्रत्युच्यते, न पुनः सङ्ख्याया द्विगुणत्वं ग्रन्थान्तरविरोधात् (‘परस्तादिति यदुक्तं तन्नाव्यवधानेनेत्याशयेन तदन्तर्वर्तिनी-मवनीमाह– यावदिति ॥ मानसोत्तरमेर्वोः पर्वतयोरन्तरं यावत् षण्णवतिलक्षयोजनसङ्ख्याकं तावती भूमिः शुद्धोदात् परतो लोकालोकसल्लग्ना आदर्शतलोपमा दर्पणतलसदृशी काञ्चनी हिरण्मयी अन्याऽस्तीति । यस्यामादर्शतलोपमायां निहितः पदार्थो न पुनः प्रत्युपलभ्यते यस्मात् तस्मात् सर्वसत्त्वपरिहृता देवतदनुगातिरिक्तसर्वप्राणिभिः परित्यक्ताऽसीत् ।’ इति कपाठः) ॥ ३५ ॥

प्रकाशिका

परस्तादिति यदुक्तं तत्राव्यवधानेनेत्यभिप्रेत्य तन्मध्यवर्तिनीं भूमिमाह ॥ यावदिति । मानसोत्तरमेर्वोः पर्वतयोरन्तरमन्तराले स्थितम् । स्थलमिति शेषः । तावती तावत्सङ्ख्याका भूमिः काञ्चनीत्यर्थः । एवं च समुद्रान्परित्यज्य द्वीपलक्षणं स्थलमेव याव-त्सङ्ख्याकं षण्णवतिलक्षयोजनसङ्ख्याकं तावती षण्णवतिलक्षयोजनपरिमिता काञ्चनभूमिरित्युक्तं भवति । समुद्रसङ्ख्याया अप्यत्र ग्रहणे सुवर्णभूमेः सार्धसप्तपञ्चाशल्लक्षोत्तरकोटियोजन-सङ्ख्याकत्वप्राप्त्याऽन्त्यार्धस्थलं हैममिति भारततात्पर्यनिर्णयाविरोधप्रसङ्ग इति ध्येयम् । नन्वेवमपि तद्विरोधस्तदवस्थो द्वीपमात्रगणनायामपि सार्धलक्षयोजनन्यूनतया षण्णवतिलक्ष-योजनत्वालाभादिति चेन्न । काञ्चनभूमिलिप्तवज्रप्रदेशस्य सार्धलक्षयोजनपरिमितस्य सत्वेन तत्साहित्येन षण्णवतिलक्षयोजनत्वोपपत्तेः । अत एव तत्र बाह्यतो वज्रलेपकमित्युक्तम् । यस्यां प्रहितः प्रगतो न पुनः प्रत्युपलक्ष्यते मृतो भवति । तस्मात्सर्वसत्त्वपरिहृता । देव तदनुगव्यतिरिक्तसर्वप्राणिभिः परित्यक्तेत्यर्थः ॥ ३५ ॥

लोकालोक इति समाख्या यदनेनाचलेन लोकालोकावन्तरवर्तिना स्थाप्येत इति ॥ ३६ ॥

पदरत्नावली

लोकालोक इति समाख्या सम्यगाख्या अन्वर्थसंज्ञा तत्कथमिति तदाह– यदिति ॥ अनेनाचलेन लोकश्चालोकश्च स्थाप्येते विविच्य ज्ञाप्येते । अन्तर्वर्तिना लोका-लोकयोर्मध्ववर्तिनेति । यद्यस्मात्तस्मादिति शेषः ॥ ३६ ॥

प्रकाशिका

लोकालोक इति नाम पर्वतस्यान्वर्थकमित्युपपादयितुमाह ॥ लोका-लोकसमाख्येति ॥ लोका इति सम्यक् अर्थमनुसृत्यैवाख्या नाम । कुत इत्यत आह ॥ यदिति । यद्यस्मादन्तर्वर्तिना मध्यवर्तिनाऽनेनाचलेन लोकालोकौ स्थाप्येते विविच्य ज्ञाप्येते तस्मात् । तथा च लोकालोकव्यवस्थाहेतुत्वाल्लोकालोकसमाख्याऽस्येत्युक्तं भवति ॥ ३६ ॥

स लोकत्रयान्ते परित ईश्वरेण विहितः यस्मात्सूर्यादीनां ध्रुवापवर्गाणां ज्योतिर्गणानां गभस्तयोऽर्वाचीनांस्त्रिलोकान्वितन्वाना न कदाचित्पराचीना भवितुमुत्सहन्ते तावदुन्नहनायामः ॥ ३७ ॥

पदरत्नावली

असौ लोकालोकाचल इति स लोकालोकाचलो लोकत्रयान्ते लोकत्रय-सृष्ट्यनन्तरं मर्यादासिद्ध्यर्थं परित उपक्लृप्तः । केन परमेश्वरेण । अथवा लोकत्रयान्ते लोकत्रयावसाने । किञ्च लोकत्रयं योजनत एकपञ्चाशल्लक्षतया यावदुच्चं तावानयं चोच्च-विस्तृतत्वेे– सार्धपञ्चाशल्लक्ष इति शेषः । तावदुन्नहनायाम इति वचनं च आयामे कथञ्चिदेव तावानिति ज्ञातव्यम् । स पञ्चाशत्सहस्रश्चेति वचनाद् ध्रुवोऽपवर्ग अन्ते येषां ते ध्रुवापवर्गास्तेषां पराचीना उपरिवर्तमानाः (‘लोकत्रयस्यान्ते लोकत्रयमर्यादासिद्ध्यर्थं सोऽचलो यस्मात् परित ईश्वरेणोपकल्पितस् तस्मात् तल्लक्षणप्रतिबन्धकसद्भावात् सूर्यादीनां गभस्तयः किरणा अर्वाचीना अर्वाक्प्रसृतास् त्रीन् लोकानेव वितन्वानाः प्रकाशयन्तः कदाचिदपि पराचिना भवितुमचलाद् बहिर्गन्तुं नोत्सहन्ते न शक्नुवन्ति । अतः स तावदुन्नहनायामौ लोकत्रयवदुन्नहनायामौ यस्य स तथा । लोकत्रयं ह्येकपञ्चाशल्लक्षयोजनोच्चः । अयमपि तावानेवोच्चः । विस्तारे तु किञ्चिन्न्यूनं तावन्तं सार्धपञ्चाशल्लक्षयोजनपरिमितत्वं ज्ञेयम् । उक्तं हि महाभारततात्पर्यनिर्णये– ‘लोकालोकप्रदेशस्तु पञ्चाशल्लक्षविस्तृतः । सपञ्चाशत्सहस्रश्च तस्यापि गणनं तथा ॥’ इति । कीदृशां सूर्यादीनामित्यत आह– ध्रुवापवर्गाणामिति ॥ अत्र ध्रुवपदेन ध्रुवमण्डलगतः शिंशुमाररूपी हरिरुच्यते । उक्तं हि ब्रह्माण्डे ‘ज्ञानानन्दात्मके विष्णौ शिंशुमारवपुष्यथ । ऊर्ध्वलोकेषु संव्याप्त आदित्याद्याः समाश्रिताः ॥’ इति । तथा च ज्योति-र्गणेषु सर्वोपरि स्थिते ध्रुवमण्डले व्याप्य स्थितं शिंशुमाररूपिणं हरिमाश्रित्य स्थिताना-मित्यर्थः ।’ इति कपाठः) ॥ ३७ ॥

प्रकाशिका

लोकालोकाचलस्योन्नाहनायामयोः प्रमाणं सोपपत्तिकमाह ॥ स इत्यादिना । लोकत्रयान्ते सूर्यादिप्रकाशवल्लोकत्रयनिर्णयार्थम् । सोऽचलो यस्मात्परित ईश्वरेणोपक्लृप्तः । तस्मात्तल्लक्षणप्रतिबन्धकसद्भावात् । सूर्य आदिर्येषां ते ध्रुवोऽपवर्गोऽन्ते येषां तेषां ज्योतिर्गणानां गभस्तयोऽर्वाचीनान् अचलान्तःस्थितांस्त्रींलोकान्वितन्वानाः प्रकाशयन्तः पराचीना अचलाद्बहिस्थाता भवितुम् । बहिरपि गन्तुमिति यावत् । न कदाचिदुत्सहंते समर्था भवन्ति । अतः स तावदुन्नाहनायामो लोकत्रयोन्नहनवदुन्नहनायामौ यस्य स तथा । लोकत्रयं ह्येकपञ्चाशल्लक्षयोजनोच्चम् । अयमपि तावदुन्नहनायाम उच्चत्वे तावानेव एकपञ्चाश-ल्लक्षयोजनपरिमित एव । अन्यथा तस्य सूर्यादिप्रकाशानां बहिर्गमनप्रतिबन्धकत्वासम्भवात् । विस्तारे तु किञ्चिन्न्यूनं तावत्वं सार्धपञ्चाशल्लक्षयोजनपरिमितत्वं ज्ञेयम् । लोकालोकप्रदेशस्तु पञ्चाशल्लक्षविस्तृतः । स पञ्चाशत्सहस्रश्चेति भारततात्पर्यनिर्णयेऽभिहितत्वात् ॥ ३७ ॥

एतावाल्लोकविन्यासो मानलक्षणसंस्थाभिर्विचिन्तितः कविभिः । स तु पञ्चाशत्कोटिगुणितभूगोलकस्य तुरीयभागो यावाल्लोकालोकाचलः ॥ ३८ ॥

पदरत्नावली

एतावान् लोकविन्यासः देवमनुष्यादिव्यवहारयोग्यं लोक इत्युच्यमान-प्रदेशस्य स्वरूपस्थितिपरिमाणमे तावत् सार्धत्रिकोटियोजनात्मकं सलोकविन्यासश्च पञ्चा-शत्कोटिगुणितस्य पञ्चाशत्कोटिविस्तारयोजनात्मकस्य भूगोलकस्य ब्रह्माण्डलक्षणस्य तुरीयभागेन चतुर्थांशत्वेन तिष्ठति । ब्रह्माण्डप्रदेशे चतुर्धा विभक्त एकांशः सर्वस्मात् प्रान्ते विद्यमानो घनोदकाख्यः द्वितीयस्तत आभ्यन्तरोऽन्धन्तम आख्यस् तृतीयो लोकालोकाचलाख्यः । चतुर्थस्तु काञ्चनीं भूमिमारभ्य मेरुपर्यन्तप्रदेशः । अयं चतुर्थभागो लोकशब्दितः । अयं च यावल्लोकालोकः यत्र लोकालोकाचलस्तिष्ठति तावत्पर्यन्तत्वेन विद्यते योऽन्तर्विस्तारः लोकालोकाचलाद्यल्लोकपरिमाणं सार्धत्रिकोटियोजनात्मकम् । एतेन परिमाणेनालोकपरिमाणं व्याख्यातं भवति (लोकस्य देवर्षिमनुष्यादिसञ्चारप्रदेशस्य द्वीपादिलक्षणस्य विन्यासो विस्तारो मानादिभिः सहितः कविभिर्ज्ञानिभिर्विचिन्तितो निरूपित एतावान् । स च लोकविस्तारो मेरुमारभ्यैकतो यावान् लोकालोकाचलस्तावान् पञ्चाशत्कोटियोजनगणितस्य भूगोलस्य तुरीय-भागश् चतुर्थोंऽशः सार्धद्वादशकोटियोजनः । तस्य लोकालोकस्योपरिष्टाच् चतसृषु आशासु दिक्षु आत्मयोनिना ब्रह्मणा अधिनिवेशिताः स्थापिताः । द्विरदपतयः गजश्रेष्टाः । तेषां हस्तिश्रेष्ठानाम् ।’ इति कपाठः) ॥ ३८-४० ॥

प्रकाशिका

एतावान् लोकविन्यासो देवर्षिमनुष्यादिसञ्चारप्रदेशो द्वीपादिलक्षणः कविभि-र्विचिन्तितो निरूपितः । अनेन स्वोक्तप्रमाणसंवादेन दृढीकृतमिति ज्ञातव्यम् । एतावानपि लोकविन्यासो भूगोलैकैकदेशरूप एवेत्याशयेनाहुः ॥ स त्विति । भूगोलकस्य भूमण्डलस्य तुरीयभागे । निर्धारणे सप्तमी । सार्धद्वादशकोट्यात्मकतुरीयभागमध्ये लोकालोकाचलो लोकालोकपर्वतो यावत्पर्यन्तं तिष्ठति । तावानेव न तुरीयभागः सर्वोऽपीत्याशयः ॥ ३८ ॥

तदुपरिष्टाच्चतसृष्वाशास्वात्मयोनिनाऽखिलजगद्गुरुणाऽभिनिवेशिता ये द्विरद-पतय ऋषभः पुष्करचूडो वामनोऽपराजित इति सकललोकस्थितिहेतवः ॥३९॥

प्रकाशिका

तदुपरिष्ठात्तस्य लोकालोकाचलस्योपरि चतसृष्वाशासु दिक्ष्वात्मयोनिना ब्रह्मणाऽभिनिवेशिताः स्थापिता ये द्विरदपतयः गजेन्द्रा ऋषभ इत्यादिनामानश्चत्वारः ॥३९॥

तेषां स्वविभूतीनां महेन्द्रादीनां लोकपालानां विविधवीर्योपबृंहणाय भगवा-न्परम महापुरुषो महाविभूतिपतिरन्तर्याम्यात्मविशुद्धसत्वधर्मज्ञानवैराग्यैश्वर्याद्यष्ट-महासिद्ध्युपलक्षणो विष्वक्सेनादिभिः स्वपार्षदप्रवरैः परिवारितो निजवरायुधोप-शोभितैर्भुजदण्डैः सन्धार्यमाणस्तस्मिन् गिरिवरे समन्तात्सकललोकस्वस्तय आस्ते ॥ ४० ॥

प्रकाशिका

तेषां गजेन्द्राणां विभूतीनां लोकपालानां च विविधवीर्योपबृंहणायान्तर्यामी सन् बहिरपि भुजदण्डैः सन्धार्यमाणः सम्यक् तद्धारणं कुर्वन् सकललोकस्वस्तये च भगवां-स्तस्मिन्नास्त इत्यन्वयः । कथंभूतो भगवान् । आत्मनः स्वस्य विशुद्धा ये सत्त्वादयो वीर्यादयो महासिद्ध्यन्तास्तान्येव समीपे स्वस्वरूपे विद्यमानानि लक्षणानि यस्य स तथा ॥ ४० ॥

आकल्पमेष भगवानात्मयोगमायया विरचितविविधलोकयात्रागोपीथायाथ योन्तर्विस्तार एतेन ह्यलोकपरिमाणं व्याख्यातम् ॥ ४१ ॥

पदरत्नावली

लोकालोकाचलाद्यद्बहिःस्थलं तस्यालोकशब्दवाच्यस्य लोकपरिमाणेन व्याख्यातमित्यर्थः (आत्मनो योगमायया योगमाहात्म्येन । ‘मुख्यतो विष्णुमाहात्म्यं माया-शब्दोदितं भवेत् । प्रधानत्वाच्च मातृत्वान्मेयत्वाच्चैव तस्य हि ॥’ इति ब्रह्मतर्के । योऽयमन्तर्विस्तारः मेरुमारभ्यैकतो लोकालोकपर्यन्तः सार्धत्रिकोटियोजनलक्षण उक्तः, एतेन अलोकस्यापि परिमाणं व्याख्यातं भवति । इति कपाठः) ॥ ४१ ॥

प्रकाशिका

लोकस्वस्तय इत्युक्तमेव विशदयन् भगवतो गिरिवरेऽवस्थानस्य कालमर्यादां दर्शयति ॥ आकल्पमिति । ब्रह्मदिनपर्यन्तमित्यर्थः । योगमायया योगसामर्थ्येन गोपीथाय रक्षणायोऽन्तर्विस्तरः । लोकालोकचलस्येति शेषः । एतेन सार्धत्रिकोटियोजनात्मकान्तर्विस्तार-प्रमाणेनालोकपरिमाणमालोकाख्यस्थलस्य परिमाणं व्याख्यातमुक्तं भवति । आलोकस्थल-परिमाणमप्येतावदेवेत्यर्थः ॥ ४१ ॥

यद्बहिर्लोकालोकाचलात्ततः परस्ताद्योगेश्वरगतिं विशुद्धामुदाहरन्ति ॥ ४२ ॥

पदरत्नावली

(यद् लोकालोकाचलाद् बहिर्विद्यमानं स्थानं तदलोकसञ्ज्ञमित्यर्थः । इति कपाठः) योगेश्वराणामष्टाणिमादिसिद्धानां गतिम् उदाहरन्ति ॥ ४२ ॥

प्रकाशिका

किं तदलोकस्थलमित्यपेक्षायामाह ॥ यदिति ॥ लोकालोकाचलाद्बहि-र्विद्यमानं स्थलं तदलोकसंज्ञमित्यर्थः । योगेश्वरा मुक्तास्तेषां गतिं गम्यमनन्तासनसंज्ञमित्यर्थः

॥ ४२ ॥

अण्डमध्यगतः सूर्यो द्यावाभूम्योर्यदन्तरम् ।

सूर्याण्डगोलयोर्मध्ये कोट्यः स्युः पञ्चविंशतिः ॥ ४३ ॥

पदरत्नावली

पञ्चाशत्कोटिगुणितो ब्रह्माण्डकटाह इत्युक्तं, तस्य दशदिगपेक्षया मध्यप्रदेशः कियानिति तत्राह– अण्डेति ॥ द्यावापृथिव्योर्यदन्तरम् अन्तरिक्षं तस्मिन्यत्र स्थितः सूर्यः । अण्डमध्यगतो ऽन्तरिक्षप्रदेशे यत्र सूर्यमण्डलसञ्चारः सोऽण्डमध्यप्रदेशः । सर्वदिग-पेक्षया सूर्याण्डगोलयोर्मध्ये सर्वदिक्ष्वपि सम्भूय पञ्चविंशतिकोटियोजनानि स्युरित्यर्थः (‘एवं भूवलयप्रमाणमभिधायाथ अन्तरिक्षादिलोकप्रमाणादिकं निरुपयन् अन्तरिक्षस्थस्य सूर्यस्याण्डा-पेक्षया कियद्दूरे स्थानमित्यत आह– अण्डमध्यगत इति ॥ द्यावापृथ्व्योर्यदन्तरमन्तरिक्षं तत्र योऽण्डमध्यप्रदेशस्तत्र गतः सूर्यः । सूर्यावासभूतान्तरिक्षप्रदेशस्याण्डमध्यत्वं कथमित्यपेक्षा-यामाह– सूर्याण्डेति ॥ सूर्यावासप्रदेशाण्डगोलयोर्मध्ये सर्वदिगपेक्षया पञ्चविंशतिकोट्यः स्युः । अतस्तस्याण्डमध्यत्वमिति यावत् ।’ इति कपाठः) ॥ ४३ ॥

प्रकाशिका

एवं भूवलयप्रमाणमुक्त्वेदानीमन्तरिक्षादिलोकप्रमाणादिकं वक्तुं तावदन्तरिक्ष-स्थस्य सूर्यस्याण्डापेक्षया कियद्दूरे स्थानमित्यपेक्षायामाह ॥ अण्डमध्यगत इति । द्यावाभूम्यो-र्यदन्तरमन्तरिक्षं तत्र योऽण्डमध्यप्रदेशस्तत्र सूर्यो गतः स्थित इत्यर्थः । सूर्यावासभूतान्तरिक्ष-प्रदेशस्याण्डमध्यत्वं कथमित्यपेक्षायामाह ॥ सूर्याण्डेति । सूर्यावासप्रदेशाण्डगोलयोर्मध्ये सर्वदिगपेक्षया पञ्चविंशतिकोट्यः स्युः । अतस्तस्याण्डमध्यत्वमिति शेषः ॥ ४३ ॥

मृतेऽण्ड एव एतस्मिन्यदभूत्ततो मार्ताण्ड इति व्यपदेशः ।

हिरण्यगर्भ इति यद्धिरण्याण्डसमुद्भवः ॥ ४४ ॥

पदरत्नावली

एष सूर्य एतस्मिन्मृते जीवरहिते । अचेतन इति यावत् । अण्डे अभूद-चेतन ब्रह्माण्डमध्ये वर्तत इति यद्यस्मात्तस्मान् मार्तण्ड इति व्यपदेशः । यद्यथा हिरण्याण्ड-सम्भवो विरिञ्चो हिरण्यगर्भ इत्युच्यते तथेति ॥ ४४ ॥

प्रकाशिका

सूर्यस्याण्डमध्यगतत्वं तदीयं मार्ताण्ड इति हिरण्यगर्भ इति यन्नामद्वयं तदर्थपर्यालोचनया सिद्ध्यतीत्यभिप्रेत्य तन्नामद्वयं निर्वक्ति ॥ मृतेऽण्ड इति । मृते जीवरहिते अचेतन इति यावत् । अण्डे यद्यस्मादभूत्तस्मात्तस्य मार्ताण्ड इति व्यपदेशो नाम प्रसिद्ध-मित्यर्थः । मृतेऽण्डभवनं सर्वसाधारणमतोऽसाधारण्येन व्यपदेशा भवन्तीति न्यायेन मृताण्डमध्य एव भवनं व्याख्येयमित्याशयः। एवं हिरण्याण्डेऽस्य यस्मात्समुद्भवस्तस्माद्धिरण्यगर्भ इति व्यपदेश इति योज्यम् ॥ ४४ ॥

सूर्येण हि विभज्यन्ते दिशः खं द्यौर्मही तथा ।

स्वर्गापवर्गनरकरसौकांसि च सर्वशः ॥ ४५ ॥

देवतिर्यङ्मनुष्याणां सरीसृम्नगवीरुधाम् ।

सर्वजीवनिकायानां सूर्य आत्मा दृगीरितः ॥ ४६ ॥

॥ इति श्रीमद्भागवते पञ्चमस्कन्धे विंशोऽध्यायः ॥

पदरत्नावली

सूरिप्राप्यत्वात्तदन्तर्यामित्वाच्च सूर्यस्तेन हरिणा दिगादयो विभज्यन्ते । यदतः सूर्य आत्मा श्रीनारायणः सर्वेषां दृग् दृष्टिरिति कथितः (‘सूरिप्राप्तो यतो विष्णुः सूर्य इत्यभिधीयते’ इत्युक्तरीत्या सूरिप्राप्यत्वादिना सूर्यशब्दवाच्येन हरिणा दिगादयो विभज्यन्ते । रसौकांसि अतलादीनि । आत्मा अन्तर्यामी । दृगीश्वरः नेत्राधिष्ठाता ।’ इति कपाठः)

॥ ४५-४६ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

पञ्चमस्कन्धे विंशोऽध्यायः ॥

प्रकाशिका

अत्र सूर्यस्याण्डमध्यगतत्वोक्तिः पूर्वादिदिग्भागापेक्षयैव न तूर्ध्वाधोभागा-पेक्षयाऽपीति ध्येयम् । पूर्वादिदिगपेक्षयोर्ध्वाधोभागापेक्षया चाण्डमध्यगतत्वं तु मेरोरेव । योजनानां पञ्चविंशत्कोट्यो मेरुपर्वतात् । चतुसृष्वपि दिक्षूर्ध्वमधश्चाण्डं प्रकीर्तितमिति महाभारत तात्पर्यनिर्णये कथितत्वात् । अतोऽत्र सूर्यस्यांडमध्यगतत्वोक्तिस्तद्विरुद्धेति शङ्काऽनवकाश इति ज्ञातव्यम् । सूर्यनामकस्य हरेरुपासनार्थं माहात्म्यं दर्शयति ॥ सूर्येण हीति ॥ विभज्यन्ते विविक्ततया सृज्यन्ते रसौकांस्यतलादि स्थानानि । आत्मा आदानादिकर्ता दृङ्नेत्राधिष्ठाते-रितः । श्रुत्यादाविति शेषः ॥ ४५-४६ ॥

॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां

श्रीमद्भागतटिप्पण्यां प्रकाशिकायां पञ्चमस्कन्धे विंशोऽध्यायः ॥ ५-२० ॥