१९ एकोनविंशोऽध्यायः

किंपुरुषे तु वर्षे भगवन्तमादिपुरुषं लक्ष्मणाग्रजं

॥ एकोनविंशोऽध्यायः ॥

श्रीशुक उवाच–

किंपुरुषे तु वर्षे भगवन्तमादिपुरुषं लक्ष्मणाग्रजं सीताभिरामं रामं तच्चरण-सन्निकर्षाभिरतः परमभागवतो हनूमान् सह किंपुरुषैरविरतभक्तिरुपास्ते ॥ १ ॥

पदरत्नावली

सीतामभिरमयतीति सीताभिरामस्तम् (समस्तचिदचिदात्मकप्रपञ्चनियाम-कस्य हरेर्नैकविधमाहात्म्यसञ्चिन्तनेनैव कैवल्यसाम्राज्य– सम्प्राप्तिरिति समर्थनाय उपास्योपासक-भाव उपवर्ण्यतेऽस्मिन्नध्याये । सीतमभिरमयतीति सीताभिरामस्तम् । भगवतश्चरणयोः सन्निकर्षे सेवायामेवाभिरतः । इति कपाठः) ॥ १ ॥

प्रकाशिका

सीतामभिरमयतीति सीताभिरामस्तम् ॥ १ ॥

आर्ष्टिषेणेन सह गन्धर्वैरनुपगीयमानां परमकल्याणीं भर्तृभगवत्कथां समुप-शृृणोति स्वयं चेदं गायति ॥ २ ॥

पदरत्नावली

भगवत्कथामित्युक्ते कस्यचित्पूज्यस्य कथामिति तद्व्यावृत्त्यर्थम्– भर्त्रिति ॥ ‘भर्ता सन् भ्रियमाणो बिभर्ति’ इति श्रुतिरपि सङ्गृहीतानेनेति ज्ञातव्यम् (‘भर्ता चासौ भगवांश्च तस्य कथाम् ।’ इति कपाठः) ॥ २ ॥

प्रकाशिका

भर्ता चासौ भगवांश्च । तस्य कथाम् ॥ २ ॥

ॐ नमो भगवत उत्तमश्लोकाय नम आर्यलक्षणशीलव्रताय नम उपाश्रि-तात्मने नमः१ साधुवादनिकर्षणाय नमो ब्रह्मण्यदेवाय महापुरुषाय महाराजाय नम इति ॥ ३ ॥

पदरत्नावली

आर्यस्य हरेर्लक्षणं शीलं नित्यनिर्दोषत्वं सत्यजगत्स्रष्ठुत्वादिव्रतं च यस्य स तथा तस्मै । ‘विश्वं सत्यं मघवानायुवोरि दापश्चन प्रमिनंति वाम्’ इति श्रुतिः । उपाश्रिता आत्मानो जीवा यस्य स तथा तस्मै । लोकानुग्रहायाङ्गीकृतविग्रहायेति वा । उपासित उपासनायुक्तो लोको यमुद्दिश्य स तथा तस्मै । साधुरयमिति वादस्य वचनस्य निकर्षणाय सम्यग्विचारकाय । यद्वा साधूनां वादस्य विवादस्य विरोधस्य निकर्षणाय परिहारकाय ॥ ३ ॥

प्रकाशिका

आर्याणां लक्षणानि शीलानि व्रतानि च यस्मात्तस्मै । उपाश्रिता आत्मानो जीवा यं स तथा तस्मै । उपासितलोकायेति पाठे उपासित उपासनायुक्तो लोको यमुद्दिश्य स तथा तस्मै । उपासितोऽनुसृतो लोको येनेति वा व्याख्येयम् । साधुवादः साधुरिति वादो वचनं प्रसिद्धस्तस्य निकर्षणाय निकषाश्मवन्निर्धारणस्थानाय । परमसीम्न इति यावत् ॥ ३ ॥

यत्तद्विशुद्धानुभवमात्रमेकं स्वतेजसा ध्वस्तगुणत्र्यवस्थम् ।

प्रत्यक्प्रशान्तं सुधियोपलंभनमनामरूपं निरहं प्रपद्ये ॥ ४ ॥

पदरत्नावली

अहं तं त्वां शरणं प्रपद्य इत्यन्वयः । यत्तत्तव स्वरूपं विशुद्धानुभवमात्रं प्रकृति-प्राकृत-वैकृतसम्बन्धरहितज्ञानात्मकेन्द्रियादिमत् । स्वतेजसा स्वरूपसामर्थ्येन ध्वस्ता निरस्ता गुणाः सत्वादयश्च तिस्रो जाग्रदाद्यवस्थाश्च येन स तथा तम्, ध्वस्ता गुणनिमित्तास् तिस्रोऽवस्था येन स तथा तं वा । प्रत्यक् जीवाभिमुखावस्थितम् । प्रशान्तं प्रकृष्टसुखपूर्णं प्रसन्नाकारं वा । सुधिया शोभनबुद्ध्योपलभ्यन्त इति सुधियोपलम्भनम् । प्रत्यक्षपदार्थवत् प्रत्यक्षप्रमाणेन नोपलभ्यते, प्राकृतनामरूपरहितत्वादित्याह– अनामरूपमिति ॥ अत एव निरहम् अहङ्कारशून्यम् (‘यदेकं समाधिकरहितं स्वगतभेदवर्जितं च परं ब्रह्म तदहं प्रपद्ये शरणं व्रजामीत्यन्वयः । ‘एकमेवाद्वितीयं तत् समाधिकविवर्जनात् । स्वगतानां च भेदानामभावाद् ब्रह्म शाश्वतम् ॥’ इति प्रवृत्ते । विशुद्धश्चासावनुभवश्च स एव मात्रा स्वरूपं यस्य तत् तथा । स्वतेजसा स्वसामर्थ्येन ध्वस्ता नित्यनिरस्ता गुणाः सत्त्वादयस्तिस्रो जाग्रदाद्यवस्थाश्च येन तत् तथा । प्रत्यक् जीवान्तर्गतम् । प्रशान्तं प्रकृष्टसुखस्वरूपम् । सुष्ठु योगध्यानादिभिः शोधिता धीर्बुद्धिर्यस्य तेनोपलभ्यत इति तथा । ‘दृश्यते त्वग्रया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः’ इत्यादेः । न विद्यन्ते लोकमात्रसिद्धार्थकानि नामानि प्राकृतानि रूपाणि च यस्य तत् तथा । उक्तं हि ब्रह्मतर्के ‘लोकसिद्धार्थनाम्नः स राहित्यान्नामवर्जितः । अरूपोऽप्राकृतत्वाच्च सत्त्वा-भावात् तथाऽगुणः ॥’ इत्यादि । निरहम् अहङ्काररहितम् ।’ इति कपाठः) ॥ ४ ॥

प्रकाशिका

ॐ नमो भगवत इति मन्त्रे श्रीरामस्य भगवत्स्वरूपत्वमुक्तम् । तद्विशदयन् स्तौति ॥ यत्तद्विशुद्धेति । यदेकं स्वगतभेदशून्यं परं ब्रह्म तत्प्रपद्य इत्यन्वयः । कथंभूतम् । विशुद्धानुभवमात्रं केवलं निर्दोषानुभवात्मकविग्रहम् । स्वतेजसा स्वसामर्थ्येन ध्वस्ता दूरीकृता गुणाः सत्त्वादयस्तिस्रोऽवस्थाश्च येन तथा । प्रत्यक् जीवान्तर्गतं प्रशान्तं प्रकृष्टसुख-रूपम् । सुधिया शोभनबुध्योपलभ्यत इति सुधियोपलंभनम् । न विद्यते साकल्येन प्रतिपादकं नाम भौतिकं रूपं च यस्य तदनामरूपं निरहमहंकारशून्यम् ॥ ४ ॥

मर्त्यावतारस्त्विह मर्त्यशिक्षणं रक्षोवधायैव न केवलं विभोः ।

कुतोऽन्यथा स्यू रमतः स्व आत्मन् सीताकृतानि व्यसनानीश्वरस्य ॥ ५ ॥

पदरत्नावली

ननु श्रीरामस्य विशुद्धानुभवादिविशेषणानि कथं सङ्गच्छन्ते, सीता वियोगादिना दुःखाज्ञानादिप्रदर्शनादिति तत्राह– मर्त्येति ॥ विभोर्व्याप्तस्य हरेर्मर्त्यावतारः मर्त्याकाररूपग्रहणं रक्षोवधायैव न केवलं तावन्मात्रं न भवति किन्तु मर्त्यशिक्षणं यमुद्दिश्य गुरोराज्ञाकरणं शरणागतपालनमभीष्टदानमित्यादिमर्त्यैर् वर्तव्यमिति । एतत्कुतोऽनेन कृतमिति ज्ञायत इत्याशङ्क्य दशरथाज्ञाकरणं वनाभियानसीतान्वेषणादिप्राप्तव्यसनशरणागत सुग्रीवाभीष्ट-करणविभीषणराज्यदानादिभ्योऽवगम्यत इत्याह– कुत इति ॥ स्वे आत्मनि स्वस्वरूपे रमतो रममाणस्य भगवतः । कस्मिन्प्रतिष्ठित इति ‘स्वे महिमि्न’ इति श्रुतेः (‘रामावतारप्रयोजनमाह– मर्त्येति ॥ विभोः सङ्कल्पमात्रेणैव सर्वं कर्तुं समर्थस्यापि हरेर्मर्त्यावतारः मनुष्यरूपेण प्रादुर्भावः न केवलं रक्षोवधायैव । किन्त्विह संसारे मर्त्यानां शिक्षणमुद्दिश्य । शरणागत-परिपालनमवश्यं कार्यम्, स्त्रीसङ्गेन दुःखमवर्जनीयम्, साध्वी भार्या सर्वथैव नोपेक्षितव्या, विषयेषु विशेषासक्त्या तद्वियोगजन्यं महद्दुःखं स्यात् तस्मात् तेषु विशेषत आसक्तिर्न कर्तव्येत्यादिशिक्षणमुद्दिश्य मर्त्यावतारः कृत इति यावत् । अन्यथा मर्त्यशिक्षणार्थं मर्त्यावतारः न कृतश्चेत् स्वे स्वतन्त्रे आत्मन् आत्मनि रमतो रममाणस्य सीताकृतानि व्यसनानि कुतः स्युः ।’ इति कपाठः) ॥ ५ ॥

प्रकाशिका

नन्वेवं रामस्य दशरथाज्जन्म मनुष्यवदाचरणं च किमर्थमित्यत आह ॥ मर्त्यावतारस्त्विति । तुशब्दोऽवधारणे । मर्त्येष्ववतार एव न जन्मेत्यर्थः । स च विभो रामस्य केवलं रक्षोवधायैव न किन्तु मर्त्यानां शिक्षणं गुर्वाज्ञाऽवश्यं कार्या शरणागत-परिपालनमवश्यं कार्यम् । स्त्रीसङ्गेन दुःखमवर्जनीयमित्यादिशिक्षणं चोद्दिश्य भवतीति भावः । स्वे आत्मनि स्वस्वरूपे रमते ॥ ५ ॥

न वै स आत्माऽऽत्मवतामधीश्वरो भुङ्क्ते हि दुःखं भगवान्वासुदेवः ।

न स्त्रीकृतं कश्मलमश्नुवीत न लक्ष्मणं चापि जहाति कर्हिचित् ॥ ६ ॥

पदरत्नावली

ईश्वरश्चेन् न दुःखानुभवी तदनुभवी चेन्नेश्वर इति तत्राह– न वा इति ॥ स आत्मा इति पदद्वयेन ‘आत्मा वा इदमेवाग्र आसीत्’ इति श्रुतिः परामृशति । वा इत्यनेन ‘निरनिष्ठो निरवद्यः’ इति श्रुतिं प्रमाणयति । हिशब्दो हेत्वर्थः । कश्मलं सुरतलक्षणम् । अपिपदेन सीतामपीत्याह । अतो भक्तानुकम्पया कृतावतारस्य श्रीरामदेवस्य दुःखभोगाभावे-नेश्वरत्वाविरोधाद् भक्तिज्ञाने एव तत्प्रीतिजनकेन जन्मादिकं वानरासुरादिपापयोनिजातस्यापि भक्तिज्ञानसद्भावे मोक्षस्य सुनियतत्वात् । तदुक्तम्– ‘यस्य सम्यक् भगवति ज्ञानं भक्तिस्तथैव च । निश्चितस्तस्य मोक्षः स्यात् सर्वपापकृतोऽपि तु ॥ यो ममत्वादिना दोषस्स त्वन्यविषयः स्मृतः ॥’ इति (‘आत्मा प्रशस्तं मनो येषां तेषां योगीश्वराणामधीश्वरो भगवान् षड्गुणैश्वर्य-परिपूर्णो वासुदेवः वसति सर्वत्रेति वासुः स एवानन्तरूपेण दीव्यति क्रीडतीति देव इत्यादि-व्युत्पत्त्या वासुदेवनामक आत्मा परमात्मा स रामो दुःखं नवै भुङ्क्ते । कथं खलु पूर्णानन्द-स्वरूपस्य दुःखसम्बन्धः सर्वदेवशव्याप्तस्य वियोगश्च सम्भवति ? इति सूचनाय भगवान् वासुदेव इति विशेषणद्वयम् । कश्मलं सुरतलक्षणम् । लक्ष्मणं चापीत्यपिशब्दः सीतामपीति समुच्चायकः । हीत्यनेन ‘निरनिष्टो निरवद्यः’ इत्यादिश्रुतिप्रसिद्धिमाह ।’ इति कपाठः)॥ ६ ॥

प्रकाशिका

रममाणस्य सीताकृतानि व्यसनानि कुतः स्युर्न कुतोऽपीत्युक्तमेव विशदयति ॥ न वा इति ॥ प्रमाणसिद्धमेतदिति प्रदर्शनाय वा इत्युक्तम् । आत्मवतां देहधारिणामात्मा स्वामी । अपिशब्दः सीतामपीत्यस्य समुच्चायकः । अनेन सीताकृतानि व्यसनानीत्यत्र सीताशब्दो लक्ष्मणस्याप्युपलक्षक इति सूचयति ॥ ६ ॥

**न जन्म नूनं महतो न सौभगं न चाङ्गबुद्धिर्नाकृतिस्तोषहेतुः । **

१तिर्यग्विसृष्टानपि नो वनौकसश्चकार सख्ये च सलक्ष्मणाग्रजः ॥ ७ ॥

पदरत्नावली

अभिप्रेत्याह– न जन्मेति ॥ अन्यविषयस्तदाश्रितदुष्टजीवविषय इत्यर्थः । महतो महात्मनो मुक्तियोग्यस्य अङ्गआर्ष्टिषेण कस्माज्जन्मादिस्तोषहेतुर्न भवतीति तत्राह– तैर्यग्विसृष्टानिति ॥ तिर्यक्सम्बन्धियोनौ विसृष्टान् जातान् वराहादियोनेर्वा नरयोनेर्निकृष्टत्व-द्योतनाय– वनौकस इति ॥ एतदेवाहापिपदेन । गर्हितत्ववाचिना चशब्देन कृपाशीलत्वमेव प्रयोजनमित्याह (‘अच्युते निश्चलनिर्मलभक्तिरेव तत्तोषातिशयहेतुतया निश्चिता, न तु तत्प्रीतौ साधनानि धनादीनि प्रसिद्धानि सम्भावितानि भवन्तीत्याशयेनाह– न जन्मेति ॥ हे अङ्ग आर्ष्टिषेण महतो गुणग्राहिणां वरिष्ठतमस्य श्रीरामस्य जन्म सत्कुले जननं, सौभगं सौन्दर्यं, बुद्धिर्बुद्धिनैपुण्यम्, आकृतिर्जातिर्न तोषहेतुः । नूनं निश्चितमेतत् । कुतः ? यतो लक्ष्मणाग्रजो रामस् तैर्यग्विसृष्टान् तिर्यक्सम्बन्धियोनौ जातानपि वनौकसो वानरान् नोऽस्मान् सख्ये चकार सखित्वेनाङ्गीकृतवान् । बतेत्यास्वादने । हरेर्हृदयङ्गमकृपाधिक्यमिदमनुभवसिद्धमिति । रामस्येति वक्तव्ये महत इति वचनेन महतां सर्वेषामयं स्वभाव इति सूचयति । अत एव लक्ष्मणाग्रज इत्युक्तमिति मन्तव्यम् ।’ इति कपाठः) ॥ ७ ॥

प्रकाशिका

तिर्यग्योनित्वात्तव कथं तत्प्रत्तिपत्तिरित्यपेक्षायामाह ॥ न जन्मेति । जन्म विप्रादिरूपं महतः श्रीरामस्य तोषहेतुरित्यन्वयः । अङ्ग हे आर्ष्टिषेण । तिर्यग्विसृष्टान् तिर्यग्विधतया सृष्टान् । चशब्दः सेवासमुच्चायकः ॥ ७ ॥

सुरोऽसुरो वाऽथ नरोऽथ वानरः सर्वात्मना यः सुकृतज्ञमुत्तमम् ।

भजेत रामं मनुजाकृतिं हरिं य उत्तराननयत् कोसलान्दिवमिति ॥ ८ ॥

पदरत्नावली

अतः पुरुषार्थी भक्तिज्ञानाभ्यां श्रीराममेव भजेतेत्याह– सुरोऽसुरो वेति ॥ यो मुमुक्षुः स पुरुषः श्रीराममेव भजेतेत्यन्वयः । असुरादिजातेर्ममत्वादिदोषसम्भवेन रामभजनं कथं सम्भाव्यत इति चेत् । न । तस्य मुक्त्ययोग्यासुरजातिविषयत्वाद्योग्यस्य तज्ज-त्वेऽपि तदभावात् ‘यो ममत्वादिना दोषः स त्वन्यविषयः स्मृतः’ इति स्मृतेश्च । महद्देवानामसुरत्वमेकमिति श्रुतेर् मुक्तियोग्यानामसुरजातित्वमस्तीति ज्ञायते इत्यभिप्रायेणासुर इति, न तु तमोयोग्यजात्यभिप्रायेणेति । न केवलं मूलरूपस्यैव मोक्षदातृत्वशक्तिः, अपि त्ववताररूपस्याप्यस्तीति आशयेनाह– य इति ॥ उत्तरान् कोसलानयोध्यावासिनो दिवं वैकुण्ठम् (‘तस्मादस्यैव महतो भजनं मुमुक्षुभिः सर्वथा कार्यमित्याशयेनोक्तं विशदयति– सुर इति ॥ यतोऽस्य तोषणे सत्कुलजननादिकं न प्रयोजकं तस्मात् सुरोऽसुरो वा नरोऽनरः पशुपक्ष्यादिर्वा यः पुरुषार्थी सः सुकृतज्ञं सुष्ठु कृतं जानातीति तमुत्तमं सर्वोत्तमं मनुजवदा-कृतिस्तथा प्रदर्शनं यस्य तं ‘हरेर्नाम्नश्च या शुक्तिः पापनिर्हरणे द्विज । तावत् कर्तुं समर्थो न पातकं पातकी जनः ॥’ इत्याद्युक्तिभ्यो हरिशब्दवाच्यं रामं सर्वात्मना सर्वप्रकारेण भजेत । को वा तेन पुरुषार्थाे यदाशया भजेमेत्यतस्तं दर्शयति– य इति ॥ य उत्तरान् कोसलान् अयोध्यायाः परितो विद्यमानदेशस्थान् दिवं वैकुण्ठमेवानयत् प्रापयामास, तमिति । अत्रासुरो वेति न तमोयोग्यासुरजातित्वाभिप्रायेणोक्तं, किन्तु ये भागवता असुरा मुक्तियोग्याः सन्ति तद्विवक्षयेति मन्तव्यम् । ‘मन्येऽसुरान् भागवतान् त्र्यधीशे’, ‘असुरा अपि ये विष्णुं शङ्खचक्र-गदाधरम् । भक्तिपूर्वमवेक्षन्ते ज्ञेया भागवता इति ॥’ इत्यादेः । एवञ्चोक्तरीत्या भक्तेः सर्वतोऽपि वरीयस्त्वेनावश्यकतया सर्वथा भागवतधर्मानुष्ठानेन सा सम्पाद्येति सिद्धम् ।’ इति कपाठः) ॥ ८ ॥

प्रकाशिका

तस्माद्रामादेव प्रतिपत्तौ न जन्मादिकं प्रयोजकमित्युपसंहरति ॥ सुर इति । यः सुरादिः स सर्वोऽपि । सुष्टु कृतं जानातीति सुकृतज्ञस्तमुत्तमं सर्वोत्तमं रामं भजेत भजेत् । सर्वेषां सेवया फलप्रद इत्येतत्तत्कालीनपुरुषप्रत्यक्षसिद्धमित्याह ॥ उत्तरानिति । खगमृगतृणादीनपीति शेषः । दिवं मोक्षम् ॥ ८ ॥

भारतेऽपि वर्षे भगवान्नरनारायणाख्य आकल्पान्तमुपचितधर्मज्ञान-वैराग्यैश्वर्योपशमोपरमात्मोपलम्भो१ऽनुग्रहायात्मवतामनुकंपया तपोऽव्यक्तगति-श्चरति ॥ ९ ॥

पदरत्नावली

उपशमोऽधिकभगवन्निष्ठा उपरमो मनआदीन्द्रियनिग्रहस् तपश्चर-तामेवमपेक्षितमिति दर्शयितुं न तु स्वस्य, नित्यनिगृहीतेन्द्रियत्वाद् आत्मनः स्वरूपस्योपलम्भो नित्यापरोक्षता यस्य स तथा (‘भारतेऽपि वर्षे बदरिकाश्रमे नरनारायणाख्यावतारद्वयात्मको भगवान् आकाल्पान्तं कल्पपर्यन्तं तपश्चरतीत्यन्वयः । मर्त्यशिक्षणार्थमेव तपश्चरणमित्या-शयेनाह– उपचितेति ॥ उपचिताः प्रदर्शिता धर्मादय आत्मोपलम्भता स्वरूपसाक्षात्कारो येन स तथा । उपशमोऽधिकभगवन्निष्ठता । उपरमो मनआदीन्द्रियनिग्रहः । आत्मा स्वय-मेवोपास्यतया विद्यते येषां ते आत्मवन्तस्तेषामनुग्रहाय स्वप्राप्तिसाधने तपसि प्रवर्तनेनात्म-साक्षात्कारलक्षणमनुग्रहं कर्तुमिति यावत् ।’ इति कपाठः) ॥ ९ ॥

प्रकाशिका

उपचितैर्धर्मादिभिरात्मोपलभ्यते येन तदात्मोपलंभनं तपश्चरति । उपशमोऽ-त्यन्तं मनसो भगवन्निष्ठतोपरमो मनआदीन्द्रियनिग्रहः । आत्मोपलंभ इति पाठे उपचिताः प्रदर्शिता धर्मादय आत्मोपलम्भान्ता येनेति व्याख्येयम् । आत्मवतामनुग्रहायैव न स्वार्थ-मित्यर्थः । तपश्चरद्भिरेवमेव भाव्यमिति दर्शयितुमिति यावत् ॥ ९ ॥

तं भगवान्नारदो वर्णाश्रमवतीभिर्भारतीभिः प्रजाभिर्भगवत्प्रोक्ताभ्यां सांख्य-योगाभ्यां भगवदनुभावोपवर्णनं सावर्णेरुपदेक्ष्यमाणः परमभक्तिभावेनोपसरति इदं चोदाहरति ॥ १० ॥

पदरत्नावली

साङ्ख्ययोगाभ्यां यथार्थज्ञानतत्साधनाभ्याम् । भगवतो हरेरनुभावस्य माहात्म्यस्योपवर्णनं प्रतिपादनं यस्मिंस्तत्तथा तत्पञ्चरात्रम् । सावर्णेर्मनोर् उपसरत्युपास्ते

॥ १० ॥

प्रकाशिका

सांख्ययोगाभ्यां तन्नामकशास्त्राभ्यां सह भगवदनुभाव उपवर्ण्यते येन तद्भगवदनुभावोपवर्णनं पञ्चरात्राख्यशास्त्रम् । सावर्णेर्मनोरुपसरत्युपास्ते ॥ १० ॥

ॐ नमो भगवत उपशमशीलायोपरतानात्म्यायाकिंचनवित्ताय ऋषिऋषभाय नरनारायणाय परमहंसाय परमगुरवे आत्मारामाधिपतये नमो नम इति ॥ ११ ॥

पदरत्नावली

उपरतानात्म्याय निवृत्तदेहादिधर्माय । आत्मारामाणामधिपतये (‘उपरता-नात्म्याय नित्यनिवृत्तदेहित्वसम्बन्धिदुःखाय । नास्ति भगवद्व्यतिरिक्तं किञ्चन येषां युक्तायुक्त-विवेकिनां विषयविरक्तानामेकान्तभक्तानां ते अकिञ्चना एव वित्तं वित्तवत् प्रीत्यास्पदत्वेन विशेषतो रक्षणीया यस्य तस्मै ।’ इति कपाठः)॥ ११ ॥

प्रकाशिका

उपरतानात्म्याय दूरीकृतदेहसम्बन्धिदुःखाय ॥ ११ ॥

गायति चेदम्

**कर्ताऽस्य सर्गादिषु यो न बद्ध्यते न हन्यते देहगतोऽपि दैहिकैः । **

द्रष्टुर्न दृग् यस्य गुणैर्विदूष्यते तस्मै नमोऽसक्तविविक्तसाक्षिणे ॥ १२ ॥

पदरत्नावली

यद्यपि सर्गादिषु कर्ता तथापि देवदत्तवद् यो न बध्यते । देहगतोऽपि देहिकैर्देहसम्बन्धिभिर्दोषैर् यो न हन्यते न पीड्यते । द्रष्टुर्यस्य दृग्गुणैर्दर्शनायोग्यरूपादिभिर् न विदूष्यते दर्शननिमित्तं पापं न सम्बद्ध्यते तस्मै नमः । अत्र हेतुगर्मविशेषणमाह– असक्तेति ॥ असङ्गत्वाद् विलक्षणत्वात् साक्षित्वाद् बन्धनादिदोषाभाव इत्यर्थः (‘असक्तश्चासौ विविक्तश्च स एव साक्षी तस्मै । असङ्गत्वान्न बद्ध्यते, लोकविलक्षणत्वान्न हन्यते, साक्षित्वा-दौदासीन्येन द्रष्टृत्वान्न विदूष्यत इति हेतुगर्भविशेषणम् ।’ इति कपाठः) ॥ १२ ॥

प्रकाशिका

उपरतानात्म्यायेत्युक्तं विशदयन् स्तौति ॥ कर्तेति । यद्यपि सर्गादिषु कर्ता तथाऽपि जीववन्न बद्ध्यते । दैहिकैर्देहनिमित्तैः क्षुत्पिपासादिदुःखैर्न हन्यते न पीड्यते यस्य द्रष्टुरपि सतो दृक् दृष्टिरपि गुणै रूपादिभिर्दुर्विषयैर्न विदूष्यते दुष्टा भवति । असक्तश्चासौ विविक्तश्च स एव साक्षी तस्मै । असङ्गत्वान्न बद्ध्यते लोकविलक्षणत्वान्न हन्यते । साक्षित्वादौदासीन्येन द्रष्टृत्वान्न विदुष्यत इति हेतुगर्भविशेषणम् ॥ १२ ॥

इदं हि योगेश्वरयोगनैपुणं हिरण्यगर्भो भगवान् जगाद यत् ।

यदन्तकाले त्वयि निर्गुणे मनो भक्त्या निधायोज्झति दुष्कलेवरम् ॥ १३ ॥

पदरत्नावली

बहुजन्मार्जितधर्माद्युपायपाटवमिदमित्याह– इदं हीति ॥ हिरण्यगर्भो योगनैपुणं योगपाटवमिदमेव जगाद । इदं किं तत्राह– यदिति ॥ निर्गुणे त्वयि भक्त्याऽन्त-काले मनो निधाय दुष्कले वरमुज्झतीति यत्तदिदमिति भावः । ‘यस्य सम्यक् भगवति ज्ञानं भक्तिस्तथैव च’ इत्यादिवाक्यमत्रापि प्रमाणमिति बोद्धव्यम् (‘उपशमशीलायेत्यनेन हरेर्यद् ध्यानयोगनिष्ठत्वं लोकशिक्षणार्थमुक्तं तद् ध्यानयोगपाटवं निरूपयति– इदमिति ॥ हे योगेश्वर हिरण्यगर्भो यद् योगनैपुणं ध्यानयोगपाटवं जगाद तदिदं हि इदमेव । किं तदित्याकाङ्क्षायामाह– यदिति ॥ निर्गुणे प्राकृतगुणरहिते त्वयि भक्त्या अन्तकाले मनो निधाय दुष्कलेवरमुज्झति त्यजीति यत् तदिदमित्यर्थः । अन्तकाले हरावेव मनःप्रणिधानं यथा स्यात् तथा तद्ध्यानयोगेन पाटवं सम्पाद्यमिति यावत् ।’ इति कपाठः) ॥ १३ ॥

प्रकाशिका

उपशमशीलायेत्यनेन नारायणस्य ध्यानयोगनिष्ठत्वं लोकशिक्षणार्थमुक्तम् । तद्ध्यानयोगपाटवं निरूपयति ॥ इदमिति । हे योगेश्वर । हिरण्यगर्भो यद्योगनैपुण्यं ध्यानयोग-पाटवं जगाद । इदमेव तत् । इदं किं तत्राह ॥ यदिति । त्वयि भक्त्या मनो निधाय दुष्कलेवरमुख्खति त्यजतीति यत्तदिदमित्यर्थः । तथा तद्ध्यानयोगपाटवं सम्पाद्यं यथान्तकाले भगवति मनःप्रणिधानं स्यादिति भावः ॥ १३ ॥

यथैहिकामुष्मिककामलंपटः सुतेषु दारेषु धनेषु चिन्तयन् ।

शङ्केत विद्वान् कुकलेवरात्ययाद्यस्तस्य यत्नः श्रम एव केवलम् ॥ १४ ॥

पदरत्नावली

यत एवं सर्वमनित्यं तस्माद्विदुषा अज्ञवद् देहत्यागादौ शङ्काभयं न कार्यमित्याह– यथेति ॥ यथैहिकामुष्मिककामेषु लम्पटो रागी सुतादौ नाशं चिन्तयन् शङ्केत मयि मृते सुतादयो नाशं गमिष्यन्तीति तथा विद्वानपि यदि कुशरीरत्यागाच्छङ्केत तर्हि तस्य यः शास्त्रश्रवणादौ प्रयत्नः स केवलं श्रम एव । न किञ्चित्फलमित्यर्थः । अतो न शङ्कितव्यमित्यर्थः (‘कलत्रपुत्रमित्रादिकं यतोऽनित्यं तस्माद् विदुषा अज्ञवद् देहत्यागादौ शङ्कादिकं न कार्यमित्याशयेनाह– अथेति ॥ ऐहिकामुष्मिककामेषु लम्पट आसक्तो विद्वानपि सुतादिषु विषयेष्वेव चिन्तयन् मयि मृते कथमेते जीवेयुरित्यादिरीत्या चिन्तां कुर्वन् कुत्सितस्य मलमूत्रकृमिसमूहादिसहितस्य कलेवरस्यात्ययान्नाशाद् यः शङ्केत बिभीयात् तस्य यत्नः शास्त्रश्रवणमननादिषु प्रयत्नः केवलं श्रम एव व्यर्थ एव । अतो न शङ्कितव्यमित्यर्थः ।’ इति कपाठः) ॥ १४ ॥

प्रकाशिका

अन्यथा तस्य ध्यानाभ्यासादिश्रमो व्यर्थ इत्याह ॥ यथैहिकेति । लम्पट आसक्तः सुतादिषु विषयेषु योगक्षेमादिकं चिन्तयन् कुकलेवरात्ययान्मरणाच्छङ्केत तथा विद्वानपि सन् यः शङ्कते तस्य यत्नो ध्यानरूपयोगाभ्यासादाविति शेषः । श्रम एव व्यर्थ इत्यर्थः ॥ १४ ॥

तन्नः प्रभो त्वं कुकलेवरार्पितां त्वन्माययाऽहं ममतामधोक्षज ।

**भिन्द्याम येनाशु वयं सुदुर्भिदां विधेहि योगं त्वयि नः सुभावितमिति **

॥ १५ ॥

तात्पर्यम्

‘यस्य सम्यक्च भवति ज्ञानं भक्तिस्तथैव च । निश्चितस्तस्य मोक्षः स्यात्सर्वपापकृतोऽपि तु । यो ममत्वादिना दोषः स त्वन्यविषयः स्मृत’ इति च ॥१५॥

पदरत्नावली

यतस्त्वदनुगृहीतमेव सफलम् । अत इमं त्वदनुग्रहजनकम् उपायमस्मभ्यं देहीत्याह– तन्न इति ॥ योगं ज्ञानं ध्यानम् उपायं वा येन योगेन अहं ममतासम्भूतदोषस्य मुक्तिपरिपन्थित्वात्तन्नाशः प्रार्थ्यते । तदुक्तम्– ‘यो ममत्वादिना दोषः सत्वन्यविषयः स्मृतः’ इति (‘एवं योगनैपुण्यस्यावश्यकत्वात् तत् प्रार्थयते– तन्न इति ॥ यस्माद् योगनैपुणमन्तरेण नैव सांसारिकक्लेशनिवृत्तिस्तस्मात् हे प्रभो अधोक्षज सुदुर्भिदामुपायान्तरसहस्रैर्भेत्तुमशक्यां त्वन्मायया त्वदीयबन्धकाक्त्या कुकलेवरार्पितामज्ञानिभिः कृतामहम्ममतां कर्हिचिदस्मासु प्राप्तां येन योगनैपुणेनाशु भिन्द्याम त्यजेम तं त्वयि त्वद्विषये सुभावितं सुष्टु भक्त्यादिना वर्धितं योगं ध्यानपाटवं विधेहि । न चात्रापरोक्षज्ञानिनो नारदस्य कुकलेवरादिकं मन्तव्यम् । ‘एवं कृष्णमतेर्ब्रह्मन्न सक्तस्यामलात्मनः । कालः प्रादुरभूत् काले तटित्सौदामिनी यथा ॥ एवं मयि प्रयुञ्जाने शुद्धां भगवतीं तनुम् । प्रारब्धकर्मनिर्वाणो न्यपतत् पाञ्चभौतिकः ॥’ इति प्रथम-स्कन्धोक्तेः । उक्तं च ब्रह्मतर्के ‘यस्य सम्यग् भगवति ज्ञानं भक्तिस्तथैव च । निश्चितस्तस्य मोक्षः स्यात् सर्वपापकृतोऽपि तु । यो ममत्वादिना दोषः स त्वन्यविषयः स्मृतः ॥’ इति ।’ इति कपाठः) ॥ १५ ॥

प्रकाशिका

इदानीं तादृशयोगनैपुण्यं स्वयं प्रार्थयते ॥ तन्न इति । अत्र कुकले-वरार्पितां सुदुर्भिदामहं ममतां येन योगेन भिन्द्याम तं योगं विधेहीति नारदेनाभे अहं ममता-विच्छेदको योगः प्रार्थ्यते । न च नारदस्यापरोक्षज्ञानिनस्तादृशममताप्रसक्तिरस्ति येन तद्विच्छेदको योगः प्रार्थ्येत इत्याशङ्कापरिहारायात्र विवक्षितमर्थं प्रमाणैनैव दर्शयति ॥ यस्येति । ज्ञानमपरोक्षम् । तथाचशब्दौ भक्तिज्ञानयोः समुच्चये । एवशब्दस्य निश्चित एवेत्यन्वयः । ननु प्रारब्धनिमित्तेनाहंममतादिना निषिद्धकरणे कथं तस्य मोक्षो निश्चितः स्यादित्यत उक्तम् ॥ सर्वेति । तु कादाचित्कममतादिना निषिद्धकर्मकृतोऽपीत्यर्थः । उत्तराघस्याश्लेषोक्तेरित्याशयः । तर्हि ममतादिना मोक्षप्रतिबन्धो भवतीति वचनस्य का गतिरित्यत आह ॥ य इति । आदिपदेनाहन्तादेर्ग्रहणम् । दोषो मोक्षप्रतिबन्धकरूपदोष-वचनम् । अन्यविषयोऽज्ञानविषयः । सत्यम् । न नारदेऽहंममतादिदोषप्रसक्तिरस्तीति । तथाऽप्यज्ञानिभिरज्ञानिनामेव मोक्षप्रतिबन्धजननी या अहंममता सा चेत्कर्मवशादस्मासु कदाचित्प्राप्ता तर्हि तामपि योगेन भिंद्यामेत्यभिप्रायेणैवाहं ममताविच्छेदको योगो प्रार्थित इत्याशयः । ततश्चायं श्लोकार्थः ॥ तत्तस्माद्योगनैपुण्यस्यावश्यकत्वात्सुदुर्भिदामज्ञानादिभि-र्भेत्तुमशक्यां त्वन्मायया त्वदीयया बन्धकशक्त्या कुकलेवरार्पितामज्ञानिभिः कृतामहं ममतां कदाचिदस्मासु प्राप्तां येन योगनैपुणेनाशु भिन्द्यामः सर्वथैव त्यजामः । तं त्वयि त्वद्विषये सुभावितं सुष्टु भक्त्यादिना वर्धितं योगं योगनैपुणं विधेहि ॥ १५ ॥

भारतेऽप्यस्मिन्वर्षे सरिच्छैलाः सन्ति बहवो मलयो मन्दरप्रस्थो मैनाक-स्त्रिकूट ऋषभः कनकः कोसलः सह्यो वेदगिरिर् ऋष्यमूकः श्रीशैलो वेंकटो महेन्द्रो वारिधारो विंध्यः शुक्तिमानृक्षगिरिः पारियात्रो द्रोणश्चित्रकूटो गोवर्धनो रैवतकः ककुभो नीलः कोकामुख इन्द्रकीलको हिमगिरिरिति चान्ये च शतशः सहस्रशः शैलास्तेषां नितम्बप्रभवा नदा नद्यश्च संत्यसङ्ख्याताः ॥ १६ ॥

पदरत्नावली

इदानीमस्मिन् भारतवर्षे पर्वततत्तटजा नदीः प्राधान्येन वक्ति– भारत इति (‘नितम्बप्रभवास् तटेभ्यः सम्भूताः’ इति कपाठः)॥ १६ ॥

प्रकाशिका

भारतेऽपीति । न केवलमिलावृतादावित्यर्थः । सरितश्च शैलाः पर्वताश्च नितंबप्रभवाश्च तटेभ्यः सम्भूता ॥ १६ ॥

एतासामापो भारत्यः प्रजा नामभिरेव पुनन्तीनामात्मना चोपस्पृशन्ति ॥१७॥

चन्द्रवटा ताम्रपर्णी अवटोदका कृतमाला वैहायसी कावेरी वेणी पयोदा यमुना सरस्वती शर्करावर्ता तुङ्गभद्रा कृष्णा भीमरथी गोदावरी निर्विंध्या पयोष्णी तापी सुरसा नर्मदा चर्मण्वती सिन्धुर् अन्धः शोणश्च महानदौ वेदस्मृतिर् ऋषिकुल्या त्रिसोमा कौशिकी मन्दाकिनी दृषद्वती गोमती सरयू ओघवती सप्तवती घोषणा सुषोमा शतमाला चन्द्रभागा शुतद्रु मरुद्वृधा वितस्ता असिक्नी विश्वेति महानद्यः ॥ १८ ॥

पदरत्नावली

आत्मना कायेनान्तरेण उपस्पृशन्ति । आचमनस्नानाभ्यामिति शेषः (‘नामभिरेव नामोच्चारणमात्रेण पुनन्तीनामेतासामपो भारत्यः प्रजा आत्मना च देहेनापि उपस्पृशन्ति स्नानाचमनादिकं कुर्वन्ति ।’ इति कपाठः) ॥ १७-१८ ॥

प्रकाशिका

आत्मना च देहेन वाप्युपस्पृशन्ति स्नानपानादिकं कुर्वन्तीत्यर्थः ॥ १८ ॥

अस्मिन्नेव वर्षे पुरुषैर्लब्धजन्मभिः शुक्ललोहितकृष्णवर्णेन स्वारब्धेन कर्मणा दिव्यमानुषनारकगतयो बह्व्य आत्मन आनुपूर्वेण सर्वा ह्येव सर्वेषां विधीयन्ते यथावर्णविधानमपवर्गश्चापि भवति ॥ १९ ॥

पदरत्नावली

पुण्यपापार्जनं च सत्वादिगुणैः क्रियते तत्फलभूताः स्वर्गादिगतयोऽ-पीत्याह– अस्मिन्नेवेति ॥ शुक्ललोहितकृष्णवर्णेन सात्विकराजसतामसभेदभिन्नेन स्वारब्धेन स्वफलदानायोपक्रान्तेन स्वर्गादिगतय आनुपूर्व्येण पर्यायेणात्मनः परमात्मनः प्रेरणया सर्वेषां विधीयन्ते यथा वर्णविधानं वर्णाश्रमविहितानुसारेण । ननु भारतीनां प्रजानां यदि तिस्रो गतयस्तर्हि निजानन्दाविर्भावलक्षणो मोक्षो दुरवस्थः किमिति तत्राह– अपवर्गश्चेति ॥ न केवलं स्वर्गादिगतयोऽपि तु संसारदुःखनिवारणसमर्थो भोक्षश्चेति चशब्दार्थः (‘लब्धं जन्म यैस्तैः पुरुषैः शुक्ललोहितकृष्णवर्णेन सात्विकराजसतामसस्वरूपेण स्वारब्धेन स्वफलदानायोप-क्रान्तेन कर्मणा आनुपूर्व्येण सात्विकादिकर्मानुसारेण दिव्यादिगतय आत्मनः परमात्मनः सकाशाद् विधीयन्ते साध्यन्ते । यथावर्णविधानं वर्णाश्रमविहितधर्मानुसारेणापवर्गः संसारदुःख-निवारणसमर्थो मोक्षश्च भवति । चकारो मोक्षस्य बहुदुर्लभत्वद्योतकः ।’ इति कपाठः)॥१९॥

प्रकाशिका

शुक्ललोहितकृष्णवर्णेन सात्त्विकराजसतामसरूपेण स्वारब्धेन स्वेन कृतेनानुपूर्वेण शुक्लेन दिव्या दिवि भवा लोहितेन मानुषाः कृष्णेन नारका इति क्रमेणेत्यर्थः । आत्मनः परमात्मनः सकाशाद्विधीयन्ते साध्यन्ते । किं गतित्रयमेवैतद्वर्षगतानां नेत्याह ॥ यथावर्णेति । अपिशब्दाद्यथाश्रमविधानमित्यस्य ग्रहणम् । ततश्चास्मिन्नेव वर्षे लब्धजन्मनां पुरुषाणां वर्णाश्रमविहितधर्मानतिक्रमेण मोक्षश्च भवतीत्यर्थः ॥ १९ ॥

योऽसौ भगवति सर्वभूतात्मन्यनात्म्येऽनिरुक्तेऽनिलयने परमात्मनि वासुदेवेऽनन्यनिमित्तभक्तियोगलक्षणो नानागतिनिमित्ताविद्याग्रन्थिरंधनद्वारेण यदा हि महापुरुषसङ्गतिर् एतदेव हि देवा गायन्ति ॥ २० ॥

पदरत्नावली

अपिशब्दाद्यदामहतां पुरुषाणां श्रीनारायणपरायणानां सङ्गतिस्तदा योऽसौ भगवत्यनन्यनिमित्तभक्तियोगलक्षण उपायो भवतीत्यन्वयः । न अन्यद् ऐश्वर्यादिप्राप्तिनिमित्तं यस्य सोऽनन्यनिमित्तस् तादृशो भक्तियोगलक्षणस्तस्मात्स्वरूपानन्दाविर्भावलक्षणो मोक्षो भवतीति ज्ञातव्यम् । केन प्रकारेण तदुच्यते– नानागतीति ॥ पूर्वोक्तानां नानागतीनां निमित्तहेतुभूता या अविद्याग्रन्थिस्तस्या रन्धनद्वारेण दहनप्रकारेण भक्तियोगोऽप्येवंप्रकारेणोत्पादनीय इति दर्शयति । सर्वभूतात्मनि भूतभवद्भविष्यत्सर्वजगदन्तर्यामिणि अनात्म्ये जीवधर्मरहिते अनिरुक्ते वेदैरपि सर्वात्मना निर्वक्तुमशक्ये अनिलयने अनन्याधारे परा प्रकृष्टा मा श्रीर्येषां ते परमा मुक्तास्तेषामप्यानन्ददानादिकर्तरि संज्ञामाह– वासुदेव इति ॥ अवताररूपाणामपि मुक्तिदान-सामर्थ्यमस्तीति द्योतयितुं वा– वासुदेव इति ॥ हिशब्दो भक्त्युत्पत्तौ सत्सङ्गतिः प्रयोजिकेति दर्शयति । भक्त्या मुक्तिर्भवतीत्येतदेव गायन्ति विद्वांसः (‘यदा नानाजन्मानुष्ठितध्यान-दानाद्यनेकसुकृतपरिपाकदशायां महापुरुषस्य पुरुषोत्तमस्य हरेः पुरुषैर्भक्तैः सह प्रकृष्टः सङ्गः स्यात् तदा, पूर्वोक्तानां नानागतीनां निमित्ता या अविद्याग्रन्थिस्तस्या रन्धनं दहनं तद्द्वारेण योऽसौ भगवति वासुदेवे अनन्यनिमित्तः लौकिकफलकामनारहितो भक्तियोगलक्षणो भवति । तथाचैतादृशभक्तियोगः स्वरूपानन्दाविर्भावलक्षणमोक्षजनक इति यावत् । सर्वभूतात्मनि सर्व-प्राणिनामन्तर्यामिणि । अनात्म्ये जीवधर्मरहिते । अनिरूक्ते अनन्तगुणपूर्णत्वेन वेदैरपि साकल्येन निर्वक्तुमशक्ये । अनिलयने अनन्याधारे । परा प्रकृष्टा मा श्रीर्येषां ते परमा मुक्तास्तेषामप्यात्मा नियामकस्तस्मिन् । महत्सङ्गमहिम्नैव मुक्तिप्रदवासुदेवे निश्चलनिर्मल-भक्त्युत्पत्तिर्भवतीत्यत्र प्रमाणप्रसिद्धिद्योतको हिशब्दः ।’ इति कपाठः)॥ २० ॥

प्रकाशिका

अपवर्गस्वरूपं ससाधनं दर्शयति ॥ योऽसाविति । यदा हि महापुरुषाणां हरिपरायणानां सङ्गतिस्तदा पूर्वोक्तानां नानागतीनां निमित्ता या अविद्याग्रन्थिस्तस्या रंधनं दहनं तद्वारेण योऽसौ भवति स्वरूपानन्दाद्याविर्भावरूपः सोऽपवर्ग इत्यन्वयः । स किं स्ववर्णाश्रम-विहितधर्मानुष्ठानमात्रसाध्यः । नेत्याह ॥ भगवतीति । भगवत्यनन्यनिमित्तभक्तियोग एव लक्षणं कारणतया ज्ञापको यस्य स तथा । तथा चैतादृशभक्तियोगोऽपि मोक्षजनक इत्याशयः । कथम्भूते भगवति । सर्वभूतात्मनि सर्वप्राणिनामान्तर्यामिण्यनात्म्ये जीवधर्मरहितेऽनिरुक्ते साकल्येन वक्तुमशक्ये । अनिलयनेऽनन्याधारे परमात्मनि सर्वचेतनोत्तमे । मोक्षप्रदत्वाद्वासुदेवे इति विशेष्यम् । एतदेव भारतवर्षे लब्धजन्मनां पुरुषाणां वासुदेवेऽनन्यनिमित्तकभक्तियोगेन स्वस्ववर्णाश्रमविहितधर्मानुष्ठातॄणां मुक्तिर्भवतीत्येतदेवेत्यर्थः ॥ २० ॥

**अहो बतैषां किमकारि शोभनं प्रसन्न एषां स्विदुत स्वयं हरिः । **

यैर्जन्मलब्धं नृषु भारताजिरे मुकुन्दसेवोपयिकं स्पृहात्मभिः ॥ २१ ॥

पदरत्नावली

एषामिति षष्ठी तृतीयार्थे । किं शोभनं कर्म उतस्वित् किम् । भारताजिरे भारताख्यप्राङ्गणे मुकुन्दसेवाया औपयिकं जन्मलक्षणोपायस्तत्र स्पृहात्मभिरिच्छामनस्कैः (‘भारतवर्षे लब्धजन्मनां पुरुषाणां वासुदेवे अनन्यनिमित्तभक्तियोगेन स्वस्ववर्णाश्रमविहित-धर्मानुष्ठातॄणां मुक्तिर्भवतीत्येतदेव हि देवा गायन्ति । एषामिति षष्ठी तृतीयार्थे । मुकुन्द-सेवायामुपयोगिनी स्पृहा इच्छा यस्य तादृशमात्मा मनो येषां तैः सद्भिर् भारताजिरे भारताख्य-प्राङ्गणे नृषु जन्म लब्धमेषामेभिः किमाश्चर्यभूतं शोभनं पुण्यमकारि । अहो बत । उतस्विद् अथवा हरिः स्वयमेव तत्पुण्यादिकमनपेक्ष्यैव एषां प्रसन्नः किम् ? ‘एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते’ इत्यादिश्रुतेः ।’ इति कपाठः) ॥ २१ ॥

प्रकाशिका

एषामेभिरुत स्वित् । अथवा । स्वयमेव हरिरेषां प्रसन्नो भारताजिरे भारतांगणे मुकुन्दसेवोपयिकं मुकुन्दसेवोपयोगि यज्जन्म तत्र स्पृहेच्छा यस्मिन्स आत्मा मनो येषां ते तथा तैः ॥ २१ ॥

किं दुष्करैर्नः क्रतुभिस्तपोव्रतैर्दानादिभिर्वा द्युजयेन फल्गुना ।

न यत्र नारायणपादपङ्कजस्मृतिः प्रमुष्टाऽतिशयेन्द्रियोत्सवात् ॥ २२ ॥

पदरत्नावली

द्युजयेन स्वर्गजयेन । यत्र स्वर्गे श्रीनारायणपादपद्मस्मृतिः प्रमुष्टा । कुतः । अतिशयेन्द्रियोत्सवाद् विषयभोगातिरेकात् । स्वर्गस्थान् कर्मिण उद्दिश्येदं वचनम्, न देवान् । तेषां सन्ततहरिस्मरणस्य प्रमाणसिद्धत्वात् (‘एवं भारतवर्षे लब्धजन्मनो मुमुक्षून् प्रशस्य स्वर्गप्राप्त्यर्थं काम्यकर्मिणो निन्दन्ति– किं दुष्करैरिति ॥ दुष्करैरप्यस्मदुद्देश्यकक्रत्वादिभि-र्नाेऽस्माकं किम् ? ननु स्वर्गप्राप्तिरेव प्रयोजनमित्यत आहुः– द्युजयेनेति ॥ फल्गुना तुच्छेन द्युजयेन स्वर्गप्राप्त्या वा किं प्रयोजनम् ? कुत इत्यत आहुः– न यत्रेति ॥ यत्र स्वर्गे नारायणपदपङ्कजस्मृतिर्नास्ति । तत्र निमित्तमाहुः– अतिशयेति ॥ अतिशयेनेन्द्रियाणामुत्सवाद् विषयभोगात् प्रमुष्टा विलुप्तेति । तथा च हरिस्मरणरहितस्वर्गवासापेक्षया तत्स्मरणसम्पादकं भारतजन्मैव वरिष्ठमिति यावत् ।’ इति कपाठः) ॥ २२ ॥

प्रकाशिका

एवं भारते वर्षे लब्धजन्मनो मुमुक्षून्प्रशंस्य स्वर्गप्राप्त्यर्थं काम्यकर्मिणो निन्दन्ति ॥ किं दुष्करैरिति । न क्रतुभिरस्मदुद्देश्यकैर्यज्ञैरित्यर्थः । किं न किमपि प्रयोजन-मित्यर्थः । ननु स्वर्गप्राप्तिरेव प्रयोजनमित्यत आहुः । फल्गुना तुच्छेन द्युजयेन स्वर्गप्राप्त्या वा किमिति । न किमपीत्यर्थः । कुतो यत्र नारायणपादपङ्कजस्मृतिर्नास्ति । प्रत्युतातिशये-नेन्द्रियाणामुत्सवाद्विषयभोगलौल्यात्प्रमुष्टा भवति । तथा च नृणां हरिस्मरणहीनस्वर्गवासापेक्षया तत्स्मरणसम्पादकं भरतवर्षजन्मैव श्रेष्ठमित्याशयः ॥ २२ ॥

कल्पायुषां स्थानजयात्पुनर्भवात्क्षणायुषां भारतभूजयो वरः ।

क्षणेन मर्त्येन कृतं मनस्विनः संन्यस्य संयांत्यभयं पदं हरेः ॥ २३ ॥

पदरत्नावली

भारतलब्धजन्मनामपि पुनर्जन्मसम्भवात् कथं भारतभूजयो वर इति प्रशस्यत इति तत्राह– क्षणेनेति ॥ मनस्विनः क्षणकालेन मर्त्येन नश्वरेण देहेन कृतं कर्म हरौ संन्यस्य हरेरभयं पुनर्जन्मभयरहितं पदं संयान्तीति यस्मात्तस्मादिति शेषः । कल्पायुषामित्यनेन महरादिलोकस्था लक्ष्यन्ते । ‘कल्पायुषो विबुधाय इमं ते’ इति स्वोक्तेः (‘कल्पायुष्य-प्रदमहर्लोकादिप्राप्त्यपेक्षया क्षणायुष्यप्रदभारतवर्षप्राप्तिरेव वरीयसीत्युपपादयति– कल्पायुषा-मिति ॥ कल्पो ब्रह्मदिनं तत्पर्यन्तमायुर्येषां तेषां यत् स्थानं कल्पायुष्यप्रदमहर्लोकादिः । ‘महर्लोकात्तु काल्पिकाः’ इत्यादेः । तस्य जयः प्राप्तिस्तस्मात् क्षणमल्पमायुर्येषां तेषां मर्त्यानां यत् स्थानं भारतभूः क्षणायुष्यप्रदो भारतवर्षस् तस्य जयः प्राप्तिर्वरो वरीयसी । महर्लोकादि-जयस्यावरत्वोपपादनाय– पुनर्भवादिति विशेषणम् । पुनरावृत्तिमत्वादित्यतर्थः । भारतलब्ध-जन्मनामपि पुनर्जन्मसम्भवात् कथं भारतभूजयो वर इति प्रशस्यत इति चेदत्राह– क्षणेनेति ॥ यतः क्षणेनाल्पकालेन मर्त्येन क्षणभङ्गुरेणापि शरीरेण कृतं कर्म सन्न्यस्य हरौ समर्प्य मनस्विनो जितमनस्काः पुरुषा अभयं पुनरावृत्तिभयरहितं हरेः पदमेव संयान्ति तत इति । तथा च नित्यसिद्धिप्रदत्वाद् भारतवर्षो वरिष्ठ इति यावत् ।’ इति कपाठः) ॥ २३ ॥

प्रकाशिका

ननु तर्हि श्रवणादिसाध्यमहर्लोकप्राप्तिर्हरिस्मरणसम्पादकत्वाच्छ्रेष्ठाऽस्त्वित्यत आहुः ॥ कल्पायुषामिति । कल्पो ब्रह्मदिनं तत्पर्यन्तमायुर्येषां तेषां स्थानं महर्लोकः । महर्लोके तु काल्पिका इत्युक्तत्वात् । तस्य जयः प्राप्तिस्तस्मात् । क्षणायुषामल्पायुषां मर्त्यानां भारतभूजयो भारतवर्षप्राप्तिर्महर्लोकजयस्यावरत्वोपपादनाय पुनर्भवादिति विशेषणम् । पुनरावृत्ति-मत्त्वादित्यर्थः । अपुनरावृत्तिरूपमोक्षहेतुत्वाद्भारतभूजयो वर इत्याशयेनाह ॥ क्षणेनेति । अल्पकालेनेत्यर्थः । अनेन महर्लोकवासिनां कल्पपर्यन्तमायुर्न श्रेष्ठमित्याशयः । मर्त्येन मरणशीलेन देहेन कृतं कर्मादिकं मनस्विनो जितमनस्काः पुरुषाः संन्यस्य हरौ समर्प्य हरेरभयं पदं संयान्ति । एवं तत्सङ्गत्या हरिकथाश्रवणादिना भक्तिमतो निवृत्तकर्मानुष्ठानेन मोक्ष-सम्पादकत्वाद्भारतवर्षस्य वरत्वमुपपादितम् ॥ २३ ॥

न यत्र वैकुण्ठकथासुधाऽपगा न साधवो भागवतास्तदाऽऽश्रयाः ।

न यत्र यज्ञेशमखा महोत्सवाः सुरेशलोकोऽपि न याति सेव्यताम् ॥ २४ ॥

पदरत्नावली

महरादिलोके विशिष्टभोगसम्भवात् कथं नीचीक्रियते भारतखण्डादिति तत्राह– न यत्रेति ॥ यत्र महर्लोकादिषु तदाश्रयाः श्रीनारायणचरणसरसिजस्मरणजनकाः साधवो रागद्वेषादिदोषलेशशून्या भागवता न सुलभाः । यथेहात एव वैकुण्ठकथामृतापङ्गा अपि न । अत एव विष्णुविषययज्ञाश्च न सन्ति तैः प्राप्यफलाभावात् पूर्वचीर्णकर्मफलभोगोत्सवेन गच्छत्कालत्वेनावसराभावान् मिथस्तूष्णींभावाच्च । ‘ध्यायन्तीव देवमनुष्याः’ इति श्रुतेः । सुरेशस्वामिलोको महरादिः सेव्यतां न याति । प्राप्यफलान्तरत्वेनेति शेषः । (‘ननु यत्र वृक्षा अपि सर्वाभिष्टप्रदाः कल्पवृक्षादयः, यत्र च वनमपि तापत्रयपरिहरं नन्दनं, सरांसि चामृत-मयानि, वनिता अपि जरादिविकाररहिताः, तासां गीतान्यपि प्रमोदपारवश्यप्रदानि, पुरुषा अपि नित्यतरुणाः, भोगा अपि सङ्कल्पमात्रसाध्या वरिष्ठाः । तदेवं प्रतिक्षणमिन्द्रियोत्सवाः । तादृशोऽपि सुरेशानां लोकः किमित्यवज्ञायतेऽभिज्ञैरित्यत आहुः– न यत्रेति ॥ तदाश्रयाः श्रीहरिकथामृतापगाश्रयाः, तद्वक्तार इति यावत् । यज्ञेशो हरिस्तस्य मखास् तदुपदेशरूपा यज्ञाः । तद्रूपा महोत्सवाः । येषु सुरेशा इन्द्रादयस्तेषां लोकेऽपि सेव्यतां वासयोग्यताम्’ इति कपाठः) ॥ २४ ॥

प्रकाशिका

इदानीं तदभावे भारतवर्षप्रदेशो न सेव्यत इति कैमुत्येनाह ॥ न यत्रेति । यत्र स्वर्गादिलोके आपगा नद्यस्तदाश्रयाः कथापगाश्रयास्तद्वक्तार इति यावत् । यज्ञेशो विष्णुस्तत्प्रीतिकरा मखा महान्तो नृत्याद्युत्सवा येषु सुरेशा इन्द्रादयस्तेषां लोकोऽपि सेव्यतां सेवायोग्यतां न याति । किमु तादृशो भारतवर्षप्रदेश इत्याशयः ॥ २४ ॥

प्राप्ता नृजातिं त्विह ये च जन्तवो ज्ञानक्रियाद्रव्यकलापसम्भृताः ।

न चेद्यतेरन्न पुनर्भवाय ते भूयो वनौका इव यान्ति बन्धनम् ॥ २५ ॥

पदरत्नावली

इतोऽपि भारतं पुण्यक्षेत्रमाहुरित्याह– प्राप्ता इति ॥ इह भारते ये जन्तवः प्राणिमात्रनामानोऽपुनर्भवाय मोक्षाय न यतेरन् ते भूयो वनौका इव निरयवासिन एव । न चैषां पुनरुत्थितिरित्याह– यान्तीति ॥ ‘वनं तु नरकं(नरके) बिद्याद्भजने वारि कानने’ इत्यभिधानम् । ये च नृजातिं पुरुषत्वेन जननं प्राप्ताः । ‘जातिः सामान्यजन्मनोः’ इत्यभि-धानम् । मुक्तये न यतेरंश्चेत्ते सुतरां भूयो वनौका महातमस्थानयोग्याः । एधशब्दवदोकशब्दोऽ-कारान्तः । नानार्थेषु शब्दानामनैकान्तत्वेन पाठात् । ‘बर्हिर्नाग्रौ न पुंसक’ इत्यादिषु ये च ‘नृ नय’ इति धातोर्ज्ञानकर्मयोग्यविप्रजातिं प्राप्तास्ते ततोऽपि भूयो वनौकाः । (भारतवर्षे लब्ध-जन्मभिः सर्वथा मोक्षाय यत्नः कार्य इत्याशयेन तदर्थं यत्नरहितानाक्षिपति– प्राप्त इति ॥ इह भारतवर्षे ये जन्मतवः प्राणिनो नृजातिं प्राप्ताः, तत्रापि ज्ञानसाधनेन प्रतिभाविशेषादिना क्रियासाधनेन देहदार्ढ्यवित्तादिना द्रव्यकालापेन सम्भृताः पूर्णा अपि अपुनर्भवाय मोक्षाय न यतेरन् चेद् यदि प्रयत्नं न कुर्युस् ते वनौका नरकस्था इव बन्धनं दुःखमेव भूयो बाहुल्येन यान्ति । वनौका इत्यत्र समासान्त आकार आर्षः । ‘वनं तु नरके विद्याद् भजने वारि कानने’ इत्यभिधानम् ।’ इति कपाठः) ॥ २५ ॥

प्रकाशिका

भारते वर्षे लब्धजन्मभिः सर्वथा मोक्षाय यत्नः कार्य इत्याशयेन तदर्थं यत्नशून्यान्निन्दन्ति ॥ प्राप्ता इति । इह भारते वर्षे वनमोक आश्रयो येषां ते वनौका मृगाः । समासान्तोऽकार आर्षः । यथा मृगयोर्बन्धनात्कथञ्चिन्मुक्ता मृगाः पुनस्तस्मिन्नेव प्रदेशे चरन्ति चेद्बन्धनं यान्ति तथैवेत्यर्थः ॥ २५ ॥

यैः श्रद्धया बर्हिषि भागशो हविर्निरुप्तमिष्टं विधिमन्त्रवस्तुतः ।

एकः पृथङ् नामभिराहुतो मुदा गृह्णाति पूर्णः स्वयमाशिषां प्रभुः ॥ २६ ॥

पदरत्नावली

अशेषसाधनत्वेन भारतस्योत्तमत्वमितरखण्डभ्यो यतोऽत्र क्रियमाणं कर्म यज्ञादिलक्षणं श्रीहरिप्रीतिजनकमतः स्तुवन्तीत्याह– यैरिति ॥ भारतवासिभिर्यैः श्रद्धया बर्हिषि यज्ञे निरुप्तं हविराशिषां प्रभुरेकः स्वयं मुदा गृह्णाति । कथं निरुप्तं विधिमन्त्रवस्तुतो भागश इष्टम् इन्द्राय निर्वपामि प्रजापतये निर्वपामीति पृथङि्नरुप्तं ‘इन्द्रं यज अग्निं यज’ इति पृथगिष्टं विधिमन्त्राणाम् इन्द्राविषयत्वेन सिद्धत्वात् । कथमेको हरिर्गृह्णातीत्युच्यते इति तत्राह– नामभि-रिति ॥ इन्द्रादिनामभिरत्राहुतः विघ्नेश्वरादिवत् प्राप्तव्यफलापेक्षी नेत्याह– पूर्ण इति ॥ कुत आशिषां प्रभुत्वात् (यैर्भारतवर्षवासिभिरधिकारिभिर्बर्हिषि यज्ञे श्रद्ध्या विध्युक्तप्रकारेण मन्त्रेण वस्तुतश्चरुपुरोडाशादिभेदेनेष्टं तत्तद्देवतायोग्यम् ‘अग्नये जुष्टं निर्वपामि’, ‘इन्द्राय जुष्टं निर्वपामि’ इत्येवं भागशो निरुप्तं पृथक्कृतं हरिराशिषां चतुर्विधपुरुषार्थानां प्रभुर्दाता स्वयं पूर्णोऽपि हरिरागत्य मुदा गृह्णाति । ननु तत्तन्नाम्ना आहूता इन्द्रादय एव हरिर्गुह्णन्ति, हरिर्गृह्णातीति कथमुच्यत इत्यत आहुः– एक इति ॥ पृथङ्नामभिरिन्द्रादिनामभिरेक एवाहुत आहूतः । इन्द्रादीनाममुख्यार्थत्वात् हरिरेव मन्त्रैराहूत इति यावत् । ‘एकः प्रधान उद्दिष्टो विष्णोः प्राधान्यदर्शनम् । ऐकात्म्यदर्शनं प्रोक्तं सर्वज्ञानोत्तमं च तत् ॥’ इति त्रैकाल्ये ।’ इति कपाठः) ॥ २६ ॥

प्रकाशिका

इतोऽपि भारतवर्षस्योत्तमत्वं तत्रत्यैः क्रियमाणयज्ञानां विशेषतो हरिप्रीति-जनकत्वादित्याशयेनाह ॥ यैरिति । भारतवर्षवासिभिरित्यर्थः । बर्हिषि यज्ञेऽग्नये जुष्टं निर्वपा-मीन्द्राय जुष्टं निर्वपामीत्येवं भागशो निरुप्तं पृथक्कृतं पश्चादिष्टं कथं विधिमन्त्रवस्तुत इति ल्यब्-लोपनिमित्ता पञ्चमी । विधिशब्दः प्रकारवाची । वस्तुशब्दो द्रव्यपरः । तथा च यस्मिन्यज्ञे यो विधिः प्रकारो यश्च मन्त्रो यच्च द्रव्यं तत्सर्वमनुसृत्येत्यर्थः । हरिराशिषां प्रभुरत एव पूर्णो हरिः स्वयमेव मुदा गृण्हाति । नन्विन्द्रादी नामेतन्मन्त्रैर्दीयमानं हविः कथं हरिर्गृण्हातीत्यत उक्तम् ॥ पृथङ्नामभिरेको मुख्य आहुत इति । इन्द्रादीनाममुख्यार्थत्वात्स एव मन्त्रैराहुत इत्याशयः

॥ २६ ॥

सत्यं दिशत्यर्थितमर्थितो नृणां नैवार्थितो यत्पुनरर्थिनो मदः ।

स्वयं विधत्ते भजतामनिच्छतामिच्छाविधानं निजपादपल्लवम् ॥ २७ ॥

पदरत्नावली

न केवलं हविरादाय तूष्णीमास्ते हरिः फलं च प्रयच्छतीत्याहुरित्याह– सत्यमिति ॥ अर्थितो हरिस्तेषां यज्वनां नृणाम् अर्थितं स्वर्गादिकं दिशतीति सत्यं शपथेन प्रतिजानीते । प्राप्तस्वर्गैरर्थितोऽपि पुनः फलं नैव दिशतीति । इदं च सत्यम् अर्थिनो मदो भवतीति । यद्यस्मात् ‘अपाम सोमम्’ इत्यादेस् तस्मात्पुनरर्थितं प्राप्य पुनः प्रार्थयमानस्य प्रार्थितो न दिशतीति । अमद इति यदिति वा । तर्ह्यत्रत्यानां स्वर्गादिकमेव दिशति न मोक्षमित्याशङ्का मा भूदित्याहुरित्याह– स्वयमिति ॥ इच्छाया विधानं यस्मात्तदिच्छा-विधानम् । अभीष्टदं निजपादपल्लवं भजतां फलमनिच्छतां भक्तिमन्तरेण तेषां स्वयम् आत्मानं विधत्ते ददाति (‘यज्विनां हविर्गृहीत्वा कीदृशं कालं ददातीत्याकाङ्कायामाह– सत्यमिति ॥ अर्थितो हरिर्नृणां केषाञ्चित् काम्यकर्मिणामर्थितं धनादिकं दिशतीति सत्यं निश्चितम् । तैरर्थितोऽपि अर्थितं केषाञ्चिन्नृणां नैव दिशतीति यत् तत् पुनस्तदपि सत्यं निश्चितम् । न हि तत्तद्दानसामर्थ्याभावात् । नापि तत्र विद्वेषात् । किन्तु तेषु कृपयैव । अर्थितो ऽर्थितदाने मदो मा भूदिति । ये भक्त्या विहितकर्म कृत्वा अर्थादिकं प्राप्य न माद्यन्ति तेभ्योऽर्थितं दिशति । ये त्वर्थे दत्ते मदयुक्ता भविष्यन्ति तेभ्योऽनुग्रहायैवार्थितं नैव दिशतीति यावत् । विषयान-निच्छतां भजतां यज्विनां तु स्वयमप्रार्थित एव निजपादपल्लवं तेषामिच्छाविधानमपेक्षितपुरुषार्थ-विधायकं विधत्ते करोति । ‘धर्मार्थकाममोक्षाख्यं य इच्छेच्छ्रेय आत्मनः । एकमेव हरेस्तत्र कारणं पादसेवनम् ॥’ इति चतुर्थस्कन्धोक्तेः ।’ इति कपाठः) ॥ २७ ॥

प्रकाशिका

यज्विनां हविर्गृहीत्वा कीदृशं फलं ददातीत्यपेक्षायामाह ॥ सत्यमिति । अर्थितो हरिर्नृणां केषाञ्चित्काम्यकर्मिणामर्थितं धनादिकं दिशतीति सत्यम् । तथाऽपि न नियमः । पुनः शब्दोऽप्यर्थः । अर्थितोऽपि केषाञ्चिन्नृणां नैव दिशति । कुतो यद्यस्मादर्थिनो मदो भविष्यति । कर्म कृत्वा ये भक्ता अर्थादिकं प्राप्य न माद्यन्ति तेभ्योऽर्थितं दिशति । ये त्वर्थे दत्ते मदयुक्ता भविष्यन्ति तेभ्योऽनुग्रहायैवार्थितं नैव दिशतीत्याशयः । एवं मोक्षेतरफलेच्छुभ्यः फलदानप्रकारं निरूप्य तदनिच्छुभ्यः फलदानप्रकारमाह ॥ स्वयमिति । इतरपुरुषार्थमनिच्छतां भजतां यज्विनां निजपादपल्लवं तत्प्राप्तिरूपं मोक्षं स्वयं स्वयमेव तेषां तत्रेच्छाभावेऽपीत्यर्थः । विधत्ते दिशति । कथंभूतं पादपल्लवम् । इच्छाविधानमिच्छाया इष्टस्य विधानं प्राप्तिर्यस्मात् । तथा च भक्तैः कामनया कर्म कृतं चेत्कामितं ददाति । अन्यथा मोक्षमित्युक्तं भवति ॥ २७ ॥

यद्यत्र नः स्वर्गसुखावशेषितं स्विष्टस्य दत्तस्य कृतस्य शोभनम् ।

तेनाब्जनाभस्मृतिजन्मनः स्याद्वर्षे हरिर्यद्भजतां शं तनोति ॥ २८ ॥

श्रीशुक उवाच–

जम्बुद्वीपस्य च राजन्नुपद्वीपानष्टौ ह्येक उपदिशन्ति सगरात्मजैरश्वान्वेषण इमां महीं परितो निखनद्भिरुपकल्पिताः ॥ २९ ॥

तद्यथा स्वर्णप्रस्थश्चेन्द्र शुक्ल आवर्तनो रमणको मन्दोरुणः पाञ्चजन्यः सिंहलो लङ्केति ॥ ३० ॥

एवं तव भारतोत्तमजंबुद्वीपवर्षविभागो यथोपदेशमुपवर्णितः ॥ ३१ ॥

॥ इति श्रीमद्भागवतमहापुराणे पञ्चमस्कन्धे एकोनविंशोऽध्यायः ॥

**तात्पर्यम् **

‘अनधीकारिणो देवाः स्वर्गस्था भारतोद्भवम् । वाञ्छन्त्यात्मविमोक्षार्थ मुद्रेकार्थेऽधिकारिण’ इति कौर्मे ॥ २८ ॥

पदरत्नावली

स्वाभिप्रेतमाहुरित्याह– यद्यत्रेति ॥ यत्र यस्मिन् भारते वर्षे हरिर्निज-पादपद्मं भजतां शं सुखं तनोतीति यद्यस्मात्तस्मान्नः स्विष्टादेः स्वर्गसुखावशेषितं स्वर्गसुख-मनुभूयावशिष्टं यच्छोभनं तेन पुण्येन नोऽस्माकमञ्जनाभस्मृतिनिमित्तं जन्म स्यादिति प्रार्थयामहे । तदुक्तम्– ‘अनधीकारिणो देवाः स्वर्गस्था भारतोद्भवम् । वाञ्च्छन्त्यात्मविमोक्षार्थ मुद्रेकार्थेऽधि-कारिणः ॥’ इति वेदैर्गीतमिति ज्ञायते । अनेन शास्त्रतात्पर्यार्थोऽपि निस्सन्दिग्ध इति बोद्धव्यम् (‘एवं भारतवर्षे जन्मवतां निवृत्तकर्मनिरतभक्तानां भाग्यमुपवर्ण्य स्वेषामपि तत्र जन्म स्यादिति प्रार्थयन्ते– यद्यस्तीति ॥ स्विष्टस्य सम्यग्यजनस्य सूक्तस्य प्रवचनस्य कृतस्य अन्यस्य सत्कर्मणश्च सकाशाद् यदि शोभनं पुण्यमस्ति तर्हि तेन पुण्येन नोऽस्माकमब्जनाभस्य स्मृतिर्यत्र तादृशं जन्म अस्मिन्नेव भारते वर्षे स्यात् । यद् यस्माद् हरिरस्मिन्नेव वर्षे निजपादपल्लवं भक्त्या भजतां शं मोक्षसुखं तनोति तस्मादिति । उक्तं हि कौर्मे ‘अनधीकारिणो देवाः स्वर्गस्था भारतोद्भवम् । वाञ्छन्त्यात्मविमोक्षार्थमुद्रेकार्थेऽधिकारिणः ॥’ इति । तदेवं देवैरपि साधनानुष्ठानयोग्यतया प्राथितोऽस्मिन् भारतवर्षे साधनानुष्ठानमवश्यमनुष्ठेयं शिष्टजनैरिति स्पष्टमवगन्तव्यम् ।’ इति कपाठः) ॥ एक इति विशेषणाद्विशेषविवक्षवोष्टावुपद्वीपानुप-दिशन्ति ॥ सामान्यविवक्षवस्तान्समुद्रैकदेशानिति ॥ २८-३१ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

पञ्चमस्कन्धे एकोनविंशोऽध्यायः ॥

प्रकाशिका

एवं भारतवर्षे जन्म प्रशंस्य स्वेषामपि तत्र जन्म स्यादिति प्रार्थयन्ते ॥ यद्यत्रेति । स्वर्गसुखावशेषितं स्वर्गादिभोगं दत्वाऽवशिष्टं स्विष्टस्य सम्यग्यजनस्य दत्तस्य दानस्य कृतस्यान्यस्यापि कर्मणः सकाशाद्यदि शोभनं पुण्यमस्ति तर्हि तेनात्र वर्षे भारते नोऽस्माकमब्जनाभस्य स्मृतिर्यस्माज्जन्म स्यात् । कुतो यद्यस्माद्धरिरत्र वर्षे भजतां शं मोक्षे आनन्दातिशयं तनोति । तस्मादत्र देवैर्भारते वर्षे जन्म प्रार्थ्यते । तद्व्यर्थम् । मोक्षेतरपुरुषार्थे तेषामिच्छाभावात् । मोक्षस्य च निश्चितत्वादित्याशङ्कापरिहारायात्राभिप्रायं प्रमाणेनैव दर्शयति ॥ अनधीकारिण इति । अत्राधिकारिशब्द आधिकारिकपरः । तथा च ये नाधिकारिण आधिकारिका न भवन्ति ते देवा देवत्वयोग्या मनुष्याः कर्मवशात्स्वर्गस्था अधिकारिण आधिकारिका देवा इन्द्राद्या उद्रेकार्थे आनन्दस्येति शेषः । तथा चैतदेव गायन्तीत्यत्र देवशब्देनोभयविधा अपि ग्राह्या इत्याशयः ॥ २८-३१ ॥

॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां

श्रीमद्भागतटिप्पण्यां प्रकाशिकायां पञ्चमस्कन्धे एकोनविंशोऽध्यायः ॥ ५-१९ ।