१८ अष्टादशोऽध्यायः

तथा च भद्रश्रवा नाम धर्मसुतस्तत्कुलपतयः

॥ अथ अष्टादशोऽध्यायः ॥

श्री शुक उवाच–

तथा च भद्रश्रवा नाम धर्मसुतस्तत्कुलपतयः पुरुषा भद्राश्वे वर्षे साक्षा-द्भगवतो वासुदेवस्य प्रियां तनुं धर्ममयीं हयशीर्षाभिधानां परमेण समाधिना सन्निधाप्येदमभिगृणन्त उपधावन्ति ॥ १ ॥

पदरत्नावली

अनन्तजीवराशेः स्वयोग्यतानुसारेण पूज्या हरेरनन्ताः प्रादुर्भावविशेषाः सन्तीति दर्शयितुमिलावृतवर्षभवैः पूज्यां देवतां (‘श्रीहरिरूपां’ इति कपाठः) निगद्यावशिष्ट वर्षभवैः पूज्यादेवताः (‘इतरेष्वपि वर्षेषु तत्रस्थैर्भक्ताग्रणीभिराराध्यभगवद्रूपाणि’ इति कपाठः) क्रमेणाभ्यामध्यायाभ्यां निरूपयति– तथा चेत्यादिना (‘तत्रादौ भद्राश्वे वर्षे भद्रश्रवआदिभि-रनुष्ठितं श्रीहरेर्हयग्रीवरूपोपासनमाह– तथाचेति ॥ यथेलावृते शङ्करः सङ्कर्षणरूपिणं हरिमुपास्ते तथैवेत्यर्थः ।’ इति कपाठः) ॥ तस्य भद्रश्रवसः कुलपतयश्च । धर्ममयीं ज्ञानोप-देशेन सर्वजगद्धारणप्रधानभूताम् । ‘हय गतौ’ इति धातोर् हयन्ति अवगच्छन्ति बुध्यन्ते सर्वमिति हयाः सर्वज्ञा ब्रह्मादयस्तेषां शीर्षः प्रधान इति हयशीर्षः ॥ १ ॥

प्रकाशिका

एवमिलावृतवर्षे पूज्यां हरिमूर्तिं पूजकं चाभिधायेतरेष्वपि वर्षेषु पूज्या हरिमूर्तीः पूजकांश्च पूर्वादिक्रमेणाह ॥ तथा चेत्यध्यायद्वयेन । यथेलावृतवर्षे पूज्यपूजकौ स्तस्तथैव भद्राश्ववर्ष इत्यर्थः । तस्य भद्रश्रवसः कुलपतयश्च प्रियां लक्ष्म्यादेरिति शेषः । धर्ममयीं धर्मप्रवर्तकाम् ॥ १ ॥

भद्रश्रवस ऊचुः–

ॐ नमो भगवते धर्मायात्मशोधनाय नम इति ॥ २ ॥

पदरत्नावली

ज्ञानं दत्वा आत्मानं शोधयतीत्यात्मशोधनस्तस्मै (‘धर्माय जगज्जन्मादि-कर्तृत्वरूपधर्मस्वरूपाय । ‘धारणाद् भगवान् धर्मः’ इत्यादेः । सम्यग्ज्ञानप्रदानादिनाऽऽत्मान-मन्तःकरणं विशोधयतीति आत्मविशोधनस्तस्मै ।’ इति कपाठः) ॥ २ ॥

प्रकाशिका

धर्माय जगज्जन्मादिकर्तृत्वरूपधर्मस्वरूपाय । धारकायेति वा । आत्मनो जीवान् ज्ञानादिना शोधयतीत्यात्मशोधनस्तस्मै ॥ २ ॥

**अहो विचित्रं भगवद्विचेष्टितं घ्नन्तं जनोऽयं हि मिषन्न पश्यति । **

ध्यायन्नसद्यर्हि विकर्म सेवते निर्हृत्य पुत्रः पितरं जिजीविषुः ॥ ३ ॥

पदरत्नावली

आत्मशोधनपदार्थमाह– अहो इति ॥ अयं जनो घ्नन्तं स्वमृत्युं मिषन् पश्यन्नपि न पश्यति हि यस्मात्तस्माद्विचित्रं भगवद्विचेष्टितमहो । कालात्मनो मृत्योश्चरितं निद्रालोरिव पश्यतोऽप्यदर्शने किं कारणमिति तत्राह– ध्यायन्निति ॥ शास्त्रतोऽसदमङ्गलं शब्दादिविषयजातं ध्यायन् विकर्म सेवते यर्हि यस्मात्तस्मात्पापलक्षणां जनप्रतिबद्धचक्षुर्न पश्यतीत्यर्थः । अत्र लुप्तोपममाह– निर्हृत्येति ॥ पुत्रो मृतं पितरं निर्हृत्य दहनादिपितृ-मेधक्रियां कृत्वा जिजीविषुः स्वजीवनमेवेच्छन् मत्पितृमरणवन् ममापि मरणं भवेदिति युक्ति-बलाच्चिन्तयन्नपि स्वात्मनो मृत्युं न चिन्तयति यथा तथाऽयं जन इति । अतस्तव प्रसादेन शुद्धान्तःकरणस्य पुरुषस्य करतलामलकवद्विश्वं प्रकाशत इति भावः ॥ ३ ॥

प्रकाशिका

आत्मनामशुद्धप्रसक्तौ ज्ञानादिना तच्छोधनं युक्तम् । अतस्तेषामशुद्धत्वमेव कथमित्यतस्तदपि भगवतैव कृतमित्याशयेन तं स्तुवन्ति ॥ अहो इत्यादिना । अयं जनो घ्नन्तं स्वमारकं मृत्युं मिषन् अनुमानेन जानन्नपि न पश्यति न जानाति । कुतः । यर्हि यस्मादसदभद्रं विषयजातं ध्यायन्विकर्म पापं यथा स्यात्तथा तत् सेवते । तस्मान्न पश्यति । दुर्विषयसेवाजनितपापेन जातमपि ज्ञानं तिरोहितं भवतीति भावः । अतो भगवद्विचेष्टितं विचित्रम् अहो आश्चर्यम् । भगवता मोहिता विषयानेव ध्यात्वा तत्सेवया पापमाचरन्त उत्पन्नमपि ज्ञानं विनाश्याशुद्धा भवन्तीत्याशयः । घ्नन्तं मिषन्न पश्यतीत्यादिनोक्तमनुभवारूढं करोति ॥ निर्हृत्येति । पुत्रो मृतं पितरं निर्हृत्य दहनादिना संस्कृत्य स्वयं जिजीविषुर्भवति । पितृ-निदर्शनेन स्वस्य मरणं निश्चित्यापि जीवनेच्छया पुनर्विषयं सेवमानः । पापमाचरतीति यावत्

॥ ३ ॥

वदन्ति विश्वं कवयश्च नश्वरं पश्यन्ति चाध्यात्मविदो विपश्चितः ।

**तथाऽपि मुह्यन्ति तवाज मायया सुविस्मयं कृत्यमिदं१ नताः स्म तम् **

॥ ४ ॥

पदरत्नावली

न केवलं प्राकृतजनमोहकस्त्वां किन्तु कवीनामप्यतो निरतिशयमहिम्नस्तव चरितं चित्रमित्यतस्त्वन्नतिरेव त्वत्प्रसत्तौ प्रधानं साधनमित्याशयवानाह– वदन्तीति (‘ज्ञानि-नामपि श्रीहरिमाहत्म्यज्ञानं तत्कृपामन्तरेण मोहजनकमेव भवेदिति भावेनाहुः– वदन्तीति ॥ वदन्ति शास्त्रतः । पश्यन्ति च समाधौ’ इति कपाठः)॥ अनेन कवीनां परोक्षज्ञानिनां वचनमध्यात्मविदामपरोक्षज्ञानिनां दर्शनं च जगत्प्रवाहनित्यत्वे प्रमाणमुक्तं भवति । तथापि ज्ञानसामग्रीमन्तोऽपि त्वदनुग्रहमन्तरेण तव विषये(‘तत्वविषये’ इति कपाठः) मुह्यन्ति । अनेन ‘मुह्यन्ति यं सूरयः’ इत्येतद्विवृतं भवति । सुष्ठु विगतः स्मयाख्यो दोषो यस्मात् स तथा तम् । सुविस्मयो यथा भवति तथेति क्रियाविशेषणं वा । यत एवं ज्ञानिनोऽपि कर्तव्यं त्वन्मायया न जानन्ति । अतो भवानेक एव तज्ज्ञ इत्याह– कृत्यविदमिति ॥ ४ ॥

प्रकाशिका

अज्ञानिनामेवैवं मोहको भगवान्न ज्ञानिनामित्यत आहुः ॥ वदन्तीति । वदन्ति शास्त्रतः पश्यन्ति । समाधौ । हे अज । तथाऽपि तव मायया मुह्यन्ति । अत एवेदं तव कृत्यं सुविस्मयं सुष्टु विस्मयो यस्मात् । अत्याश्चर्यकरम् । अत एतादृशमोहनिवृत्त्यर्थं नता स्मः ॥ ४ ॥

**विश्वोद्भवस्थाननिरोधकर्म ते ह्यकर्तुरङ्गीकृतमप्यपावृतम् । **

युक्तं न चित्रं त्वयि कार्यकारणे सर्वात्मनि व्यतिरिक्ते च वस्तुनि ॥ ५ ॥

**तात्पर्यम् **

‘अप्रयासेन कर्तृत्वमकर्तृत्वमिहोच्यते । महाशक्तित्वतस्तच्च युज्यते परमस्य तु’ इति तन्त्रसारे ॥ ५ ॥

पदरत्नावली

इदं चास्माकं तव चरित्रं चित्रमित्याह– विश्वेति ॥ जगत्सर्जनादिलक्षणं कर्तव्यं त्वयैव कर्तव्यं नान्येनेति यदतस्त्वमेव तदभिज्ञ इत्यतो वैतत्प्रतिपादयन्ति– विश्वेति ॥ ‘न तस्य कार्यं करणं च विद्यते’ इति श्रुतेः कार्यकारणादिरहितस्य हरेः प्रपञ्चनिर्माणादिकं कथं घटत इत्याशङ्क्य महाशक्तित्वादित्यतो वाह– विश्वेति ॥ अपिशब्द एवार्थे । हिशब्दो ऽकर्तुः कर्तृत्वघटकद्योतकः । हे हरे अकर्तुस्तव जगत्सर्जनादिकर्म अङ्गीकृतमेव । नैतद्गुप्तमपावृतं वेदादिषु प्रकाशितं ‘मृदब्रवीत्’ इत्यादिवेदसिद्धं मृदादिवक्तृत्वं युक्तिविरुद्धत्वाद्यथा नाङ्गीक्रियते तथाऽत्रापीति तत्राह– युक्तमिति ॥ न हरेः कर्तृत्वमात्रं निषिध्यते किं त्वायासेन अप्रयासेन कर्तृत्वमकर्तृत्वमिहोच्यते महाशक्तित्वतस्तच्च युज्यते । परमस्य त्विति मृदादीनां वक्तृत्वस्य प्रत्यक्षतो दर्शनाद् व्याप्तिग्राहकप्रमाणाभावादनुपपत्त्या तन्नाङ्गीक्रियते । अत्र तु ज्ञानिप्रत्यक्ष-सिद्धत्वाद्वैदिकत्वाच्च युक्तम् । हीत्यभिप्रायः । तथापि निर्विकारस्य हरेर्मायाकर्तृत्व मन्तरेण तात्विककर्तृत्वाङ्गीकरणं चित्रमिति तत्राह– न चित्रमिति ॥ ज्ञानदौर्बल्यादस्माकमेव चित्रं त्वयि न चित्रम् । कुतो न चित्रम्? कार्यकारणेऽप्याश्चर्यलक्षणकार्यस्यापि कारणत्वात् । इतोऽपि नेत्याह– सर्वात्मनीति ॥ सर्वात्मनि सर्वस्वामिनि ।

ननु कार्यकारणत्वे मृदादिवत्तदभिन्नत्वम् आपन्नमिति तत्राह– व्यतिरिक्त इति ॥ निमित्तकारणत्वेन तद्भिन्नत्वं युक्तमिति चशब्देन ध्वनयति । तर्हि लोकविलक्षणश्चेच्छून्यकल्प इति तत्राह– वस्तुनीति (‘हरेरन्यत्र यदतिचित्रं विश्वकर्तृत्वादिकं तद् हरौ नैव चित्रमिति स्तुवन्ति– विश्वेति ॥ हे हरे अकर्तुरपि ते विश्वोद्भवस्थाननिरोधकर्म विश्वस्योत्पत्तिस्थिति-संहाररूपं कर्म अपावृतं सुष्ठु स्पष्टं यथा स्यात् तथा श्रुतिभिरङ्गीकृतं हि । विष्णोर्विश्व-कर्तृत्वादिविषये ‘यतो वा इमानि भूतानि जायन्ते’ इत्यादिश्रुतिप्रसिद्धिद्योतको हिशब्दः । ननु ‘न तस्य कार्यं करणं च विद्यते’, ‘अव्यक्तमचलं शान्तं निष्कलं निष्क्रियं परम्’ इत्यादि-श्रुत्युक्तरीत्या निष्क्रियत्वेन प्रसिद्धस्य हरेर्वास्तवकर्तृत्वादिकं कथमुपपद्यत इत्यत उक्तम्– युक्तमिति ॥ ब्रह्ममीमांसाशास्त्रसिद्धं हरेरप्रयासकर्तृत्वादिकं बोध्यम् । हरेरकर्तृत्वाद्युक्तिस्तु महाशक्तित्वतस्तस्य कदाचिदपि प्रयासेन कर्तृत्वादिकं नैवेत्याशयेन, न तु सर्वथा कर्तृत्वादिकं नास्तीत्याशयेन । यथोक्तं तन्त्रसारे ‘अप्रयासेन कर्तृत्वमकर्तृत्वमिहोच्यते । महाशक्तित्वतस्तच्च युज्यते परमस्य तु ॥’ इति । नन्वेकस्यैव नानाविधमहाकार्यकर्तृत्वस्य लोके क्वाप्यदर्शनात् कथं तद् भगवति युक्तमित्यत उक्तम्– न चित्रमिति ॥ ज्ञानदौर्बल्यादस्माकमेव चित्रम्, अनन्ता-चिन्त्यैश्वर्यशालिनि त्वयि तु तन्न चित्रमिति यावत् । ‘विचित्रशक्तिः पुरुषः पुराणो न चान्येषां शक्तयस्तादृशाः स्युः । एको वशी सर्वभूतान्तरात्मा सर्वान् देवानेक एवानुविष्टः’ इत्यादिश्रुतेः । कार्यकारणे सर्वकार्यकारणशक्तिमति । तदुक्तं विष्णुपुराणे ‘स कारणं कारणतस्ततोऽपि तस्यापि हेतुः परहेतुहेतुः । कार्येषु चैवं स ह कर्मकर्तुरूपैरशेषैरवतीह सर्वम् ॥’ इति सर्वेषु आत्मानो ऽन्तर्यामिमूर्तयो यस्य स तथा । व्यतिरिक्ते सर्वविलक्षणे । वस्तुनि अप्रतिहतनित्ये । यथोक्तं स्कान्दे ‘वसनाद् वासनाद् वस्तु नित्याप्रतिहतं यतः’ इति ।’ इति कपाठः) ॥ ५ ॥

प्रकाशिका

ननु धर्मायेत्यनेन यद्विश्वकर्तृत्वादिधर्मरूपत्वमुक्तं तदयुक्तं, तस्य निष्क्रियत्वेन वेदादिप्रसिद्धस्य वास्तवकर्तृत्वाद्यसम्भवादित्यत आहुः ॥ विश्वोद्भवेति ॥ विश्वस्योत्पत्तिस्थितिसंहाररूपं कर्म तत्कर्तृत्वरूपो धर्मोऽकर्तुर्निष्क्रियस्यापि युक्तं सत्यमेव भवितुं युक्तम् । कुतः । हि यस्मादपावृतं व्यक्तं यथा स्यात्तथाऽङ्गीकृतम् । तथा प्रामाणिकै-रुपपादितमित्यर्थः । ननु कथं प्रामाणिकैरुपपादितमित्यपेक्षायां तदुपपादकं प्रमाणं पठति ॥ अप्रयासेनेति । अकर्तृत्वं निष्क्रियत्वमिह वेदादौ तच्च तदप्यसम्भाविततया दृश्यमानमप्येकस्यैव सर्वकर्तृत्वमित्यर्थः । अनेन द्वितीयार्धोक्तमपि प्रमापितमिति ज्ञातव्यम् । ननु तथाऽपीदं न युज्यते । एकस्यैव विचित्रानेककार्यकर्तृत्वस्य लोके क्वाप्यदर्शनादित्यत उक्तम् ॥ न चित्र-मिति । कार्यकारणे विचित्रानेककार्यकरणशक्तिमति सर्वात्मनि प्रकृत्यादिसर्वकारणसत्ताप्रदे । अत एव व्यतिरिक्ते लोकविलक्षणे वस्तुन्युक्तरूपतया प्रमाणसिद्धे इह त्वयीदमेकस्यैव विचित्रानेककार्यकर्तृत्वं न चित्रं नाश्चर्यं नासम्भावितमित्यर्थः ॥ ५ ॥

**वेदान्युगान्ते तमसा तिरस्कृतान्रसातलाद्यो नृतुरङ्गविग्रहः । **

प्रत्याददे वै कवयेऽभियाचते तस्मै नमस्तेऽवितथे हिताय ते ॥ ६ ॥

पदरत्नावली

धर्मायेति पदस्याभिप्रायमाह– वेदानिति ॥ तमसा मधुनाम्ना दैत्येन तिरस्कृतान् अपहृतान् प्रत्याददे सृष्टौ दत्तान् पुनश्च तानेव दैत्यापहृतान् दत्तवानित्यर्थः । कवये ब्रह्मणे । अवितथेहितायेत्यनेन भगवत इत्यस्यार्थ उक्तः । ऐश्वर्यादिगुणसामग्रीमत एव सत्य-कर्मत्वोपपत्तेः । ‘अशक्ताः सत्यसृष्टौ हि मायासृष्टिं वितन्वते’ इत्यादेः (‘युगान्ते प्रलयान्ते । आदिसृष्टाविति यावत् । तमसा तामसेन मधुनामकदैत्येन तिरस्कृतान् अपहृतान् वेदान् ना च तुरङ्गश्च नृतुरङ्गौ तयोरिव विग्रहो यस्य स तथा हयग्रीवरूपी यो भगवान् तमसुरं संहृत्य रसातलादानीय अभियाचते कवये ब्रह्मणे प्रत्याददे प्रदत्तवान् तस्मै ते तुभ्यं नमः । अवितथेहिताय सत्यसङ्कल्पाय, सत्यकर्मणे च । अनेन तत्कर्तृत्वं मायिकमिति मतं परास्त-मित्यवसेयम् । उक्तं हि तन्त्रभागवते ‘इन्द्रजालविधां सृष्टिं मन्यन्ते ज्ञानदुर्बलाः । नित्यं निरस्तेन्द्रजाले स्वत एव कथं भवेत् । अक्षमाः सत्यसृष्टौ हि मायासृष्टिं वितन्वते । अनन्ताचिन्त्यविभवः कथं तामीहते हरिः ॥’ इति ।’ इति कपाठः) ॥ ६ ॥

प्रकाशिका

इदानीं तदवतारचरितेनापि स्तुत्वा नमन्ति ॥ वेदानिति । युगान्ते प्रलयान्ते । आदिसृष्टाविति यावत् । तमसा तामसेन मधुनामकेन दैत्येन तिरस्कृतानपहृतान् । ना च तुरङ्गश्च नृतुरङ्गौ तयोरिव विग्रहो यस्य । कवये ब्रह्मणे दातुमिति शेषः । प्रत्याददे । तं हत्वा पुनर्गृहीतवानित्यर्थः । अवितथे हिताय सत्यसङ्कल्पाय सत्यकर्मण इति वा । अनेन कर्तृत्वं मायिकमिति मतं निरस्तमिति ज्ञातव्यम् ॥ ६ ॥

**हरिवर्षे च भगवान्नरहरिरूपेणाऽस्ते तद्रूपग्रहणनिमित्तमुत्तरत्राभिधास्यामस् तद्दयितं रूपं महापुरुषगुणभाजनो महाभागवतो दैत्यदानवकुलतीर्थीकरणशील-चरितः प्रल्हादोऽव्यवधानानन्यभक्तियोगेन सह तद्वर्षपुरुषैरुपास्ते इदं चोदाहरति **

॥ ७ ॥

पदरत्नावली

वीर्यशौर्यादयो भक्तिज्ञानादयो वा महापुरुषगुणास्तेषां भाजनं पात्रं महापुरुषगुणभाजनः । पुल्लिङ्गस्तु छान्दसः । तान् भजतीति वा । प्रकृष्टोऽऽह्लादः शान्त्यादि-गुणो यस्य स तथा । दैत्यदानवकुलस्य तिर्थीकरणं शीलं बालचरितं च यस्य स तथा । फलकामलक्षणव्यवधानरहितश्च । अनन्यो ऽसदृश भक्तियोगस्तेन (‘उत्तरत्र सप्तमस्कन्धे । दैत्यदानवकुलस्य तीथर्ाीकरणं पवित्रकरं शीलमाचरितं च यस्य स तथा । फलकामलक्षण-व्यवधानरहितः, अनन्योऽन्याविषयकश्च यो भक्तियोगस्तेन तद्वर्षस्थपुरुषैः सहोपास्ते ।’ इति कपाठः) ॥ ७ ॥

प्रकाशिका

नरहरिरूपेण नृसिंहरुपेण । उत्तरत्र सप्तमे । दयितं भक्तानां प्रियं महापुरुषाणां ब्रह्मादीनां गुणा हरिभक्त्यादयस्तान् भजतीति तथा दैत्यदानवकुलस्य तीर्थीकरणं पवित्रकरं शीलं चरितं यस्य । अव्यवधानः फलकामनादिव्यवधानरहितः । अनन्योऽन्या-विषयकः स चासौ भक्तियोगश्च तेन तद्वर्षस्थपुरुषैःसह ॥ ७ ॥

ॐ नमो नृसिंहाय तेजस्तेजसे आविराविर्भव वज्रनख वज्रदंष्ट्र कर्माशयान् रंधय रंधय तमो ग्रस स्वाहा अभयमभयमात्मने भूयिष्ठात् ॥ ८ ॥

पदरत्नावली

सूर्यादितेजोभ्योऽधिकतेजोरूपाय । तमो दैत्यमज्ञानं वा ग्रस संहर । भूयिष्ठादित्यव्ययं भावय (‘तेजस्तेजसे सूर्यादितेजोभ्योऽधिकतेजोरूपाय । ‘यदादित्यगतं तेजो जगद् भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥’ इत्यादेः । आविराविर्भवेति वीप्सा आदरार्था । कर्माशयान् कर्मवासना रन्धय निर्दह । तमोऽज्ञानं ग्रस दूरीकुरु । अभयमभयं यथा स्यात् तथा भूयिष्ठा भूयाः ।’ इति कपाठः) ॥ ८ ॥

प्रकाशिका

तेजस्तेजसे सूर्यादितेजोभ्योऽधिकतेजोरूपाय । आविराविरतिप्रकटो भव । प्रतिदिनं प्रकटो भवेति वा । कर्माशयान् कर्माण्याशयमन्तःकरणं च रंधय निर्दह । तमोऽज्ञानं ग्रस संहर । भूयिष्ठाद्भूयात् ॥ ८ ॥

स्वस्त्यस्तु विश्वस्य खलः१ प्रसीदतां ध्यायन्तु भद्राणि शिवं मनो धिया ।

मनश्च भद्रं भजतादधोक्षजे आविश्यतां२ नो मतिरप्यहैतुकी ॥ ९ ॥

पदरत्नावली

विश्वस्यार्थे स्वस्त्यस्तु । नृसिंहः प्रसीदताम् । हे हरिवर्षजनाः । भद्राण्युद्दिश्य नृहरिं ध्यायन्तु । शिवं नित्यशुद्धं मनो धिया शास्त्रमननेन उपासनालक्षणध्यानेन च मनश्च भद्रं सकलमङ्गलरूपं हरिं भजतात् । नोऽस्माकं मतिरप्यधोक्षजे आविश्यताम् । औतुकी फलाभिसन्धिरहिता (नृसिंहः प्रसीदताम् । हे हरिवर्षजनाः । भद्राण्युद्दिश्य शिवं निर्दुःख-स्वरूपम् । ‘निर्दुःखसुखरूपत्वात् शिवशब्दः श्रुतौ श्रुतः’ इति महात्म्ये । मनो ज्ञानरूपं नृसिंहं धिया ध्यायन्तु । औतुकी फलकामनारहिता ।’ इति कपाठः) ॥ ९ ॥

प्रकाशिका

रंधयेति दाहप्रार्थनेन सर्वदा दाहप्रसक्तावाह ॥ स्वस्त्यस्त्विति । खलो दुर्जनानां खलवद्वर्तमानः सज्जनान्खेन ज्ञानेन लात्यनुगृण्हातीति खलो नृसिंहः । खलुरिति पाठे खलसंहर्तेत्यर्थः । विश्वस्य प्रसीदताम् । हे जना भद्राण्युद्दिश्य शिवं सुखरूपं मनो ज्ञानरूपं भद्रं नृसिंहं धिया ध्यायन्तु तदर्थं मनश्च भद्रं भजतात् । नोऽस्माकं मतिरप्यहैतुकी फलकामनाद्युपाधिरहिताऽधोक्षजे आविश्यताम् । अधोक्षजे आवेश्यतामिति पाठे युष्माभिरिति शेषः ॥ ९ ॥

**माऽऽगारदारात्मजदेहबन्धुषु सङ्गो यदि स्याद्भगवत्प्रियेषु नः । **

यः प्राणवृत्त्या परितुष्ट आत्मवान् सिद्धत्यदूरान्न तथेन्द्रियप्रियः ॥ १० ॥

पदरत्नावली

मनआदेर्हर्येकविषयत्वे इत्थंभावलक्षणं साधनमाह– माऽगारेति (‘मन-आदेर्हर्येकविषयत्वे विषयवैराग्यं तत्रापि साधनं सत्सङ्ग इत्याह– माऽगारेति ॥’ इति कपाठः)॥ गृहादिषु सङ्गो मा भूत् । यदि सङ्ग आवश्यकस्तर्ह्यस्माकं भगवत्प्रियेषु स्यात् । ननु गृहादिसङ्गाभावे जीवनाभावेन देहपातलक्षणानर्थः स्यादिति तत्राह– य इति (‘ननु गृहादिसङ्गाभावे कथं जीवनं? किञ्च गृहादिसङ्गे विषयभोगजन्यसुखविशेषः स्यादपि, भगव-त्प्रियसङ्गेन किं स्यादित्यत आह– य इति ॥’ इति कपाठः)॥ यः प्राणवृत्त्या प्राणधारण लक्षणजीवनस्थितिमात्रेण परितुष्टः स आत्मवान् वशीकृतमना(विशुद्धान्तःकरणः सन् सच्छास्त्र-श्रवणादावधिकृतः) अदूराच्छीघ्रं सिध्यति संसारमुक्तो भवति यथा मुक्तसङ्गस् तथेन्द्रियप्रियो मुक्तो न स्यादित्यर्थः (तथा इन्द्रियप्रिय इन्द्रियप्रीणनार्थं गृहादिविषयासक्तः सिद्ध्यति । किन्तु जनिमृतिनिरयादिविविधदुःखाकरसंसारमेव पौनःपुन्येनावाप्नोति ।’ इति कपाठः) ॥ १० ॥

प्रकाशिका

मन आदेर्हर्येकविषयत्वे साधनं विषयवैराग्यं तत्रापि साधनं सत्सङ्ग इत्याह ॥ माऽऽगारेति । नोऽस्माकं यदि भगवत्प्रियेषु सङ्गः स्यात्तर्ह्यागारादिसङ्गो मा स्यान्न भविष्यति । ततश्च मनो भद्रं भजिष्यति । अत एव भगवत्प्रियसङ्ग एवास्त्वित्याशयः । ननु गृहादिसङ्गाभावे कथं जीवनमित्याशङ्कां परिहरंस्तत्सङ्गे दोषमाह ॥ य इति । प्राणवृत्त्या प्राणधारणमात्रहेतुविषयसेवनेन परितुष्टोऽलम्बुद्धिं प्राप्तः स एवात्मवान्वशीकृतमना अदूराच्छीघ्रं सिद्ध्यत्यपरोक्षज्ञानं प्राप्नोति । इन्द्रियप्रियः प्राणवृत्त्यधिकरणविषयभोक्ता ॥ १० ॥

यत्सङ्गलब्धं निजवीर्यवैभवं तीर्थं मुहुः संस्पृशतां हि मानसम् ।

हरत्यजोंहः श्रुतिभिर्गतोऽन्तः को वै न सेवेत मुकुन्दविक्रमम् ॥ ११ ॥

पदरत्नावली

महात्मनां सङ्गात् किं फलं स्यादत्राह– यत्सङ्गेति ॥ येषां भगव-त्प्रियाणां सेवालक्षणसङ्गाद्धरेर्निजमौत्पत्तिकं वीर्यं माहात्म्यं वैभवं विभुत्वं व्याप्तिलक्षणं च यस्मिन् तीर्थे तत्तथा तादृशं तीर्थं वेदान्तशास्त्रं मुहुर्निरन्तरं संस्पृशतां श्रवणादिनाभ्यस्यतां पुंसां मानसं विषयसंसर्गगतं मनोगतमंहो हरति । अजः कथं श्रुतिभिः श्रवणेन्द्रियद्वारेणान्तर्गतः हृदयं प्रविष्टस् ततः किं यत एवंविधफलमतः को वै मुकुन्दविक्रमं न सेवेत । रसज्ञ इति शेषः । यद्वा यस्य हरेः श्रीपादसङ्गाल्लब्धं यस्य तीर्थस्य निजवीर्यवैभवं तादृशं गङ्गादितीर्थं मुहुः संस्पृशतां दर्शनस्पर्शनादिना सेवमानानां पुंसां मानसमंहः सोजो हरति । हि यस्मात्तस्मा-न्मुकुन्दस्य गृहीत– वामनाद्यवतारस्य विक्रमं त्रैलोक्यविक्रमलक्षणं चरितं कः पुरुषो न सेवेत । यद्यपि बाह्यं स्नानादि नाहरत्यान्तरमंहः । कथमित्यत उक्तम्– अन्तरिति ॥ बहुवारं श्रोतव्य-मित्यभिप्रायेण श्रुतिभिरित्युक्तमिति (‘महत्सङ्गेन विषयवैराग्यं कथं भवतीत्याकाङ्क्षायां तदुपपादयन् तत्सङ्गस्यावश्यकत्वमाह– यत्सङ्गलब्धमिति ॥ येषां भगवत्प्रियाणां सेवालक्षण-सङ्गाल्लब्धमवगतं निजमौत्पत्तिकं वीर्यवैभवं सामर्थ्यातिशयो यस्मिन् तन् मुकुन्दस्य विक्रमो विशिष्टपादविक्षेपो यस्मिन्नवगम्यते तत् तीर्थं शास्त्रं गङ्गादिरूपं च श्रुतिभिः श्रवणादिभिः संस्पृशतां सेवमानानां पुंसामन्तर्गतोऽजो मानसं मनोगतमंहो विषयरागलक्षणं हरति, तान् को वै न सेवेत ।’ इति कपाठः) ॥ ११ ॥

प्रकाशिका

भगवत्प्रियसङ्गेन विषयवैराग्यं कथं भवतीत्यपेक्षायां तदुपपादयंस्तत्सङ्गस्या वश्यकतामाह ॥ यत्सङ्गलब्धमिति । येषां भगवत्प्रियाणां सङ्गाल्लब्धमवगतं निजवीर्यवैभवं निजपराक्रमविस्तारोपेतं मुकुन्दस्य विक्रमो विशिष्टपादविक्षेपो यस्मिन् ज्ञायते तत्तीर्थं शास्त्रं गङ्गारूपं वा श्रुतिभिः कर्णैः श्रवणादिभिस्त्वगिन्द्रियेण वा संस्पृशतां सेवमानानां पुंसामन्तर्गतोऽजो मानसं मनोगतमंहो विषयरागलक्षणं हरति । तान्को वै न सेवेतेत्यन्वयः

॥ ११ ॥

यस्यास्ति भक्तिर्भगवत्यकिञ्चनाः सर्वैर्गुणैस्तत्र समासते सुराः ।

हरावभक्तस्य कुतो महद्गुणा मनोरथेनासति धावतो बहिः ॥ १२ ॥

पदरत्नावली

भक्तेरिन्द्रियाधीनत्वे नेन्द्रियाणां च स्वाभिमानिदेवताधीनत्वेन तत्प्रसाद-मन्तरेण इन्द्रियाणामात्मावशत्वेन भक्तिकरणानुपपत्तिरित्याशङ्क्य भगवद्भक्त्या देवप्रीतिरपि तदविनाभूतेति भावेनाह– यस्येति ॥ व्यतिरेकेणापि हरौ भक्तिः कर्तव्येत्याह– हराविति ॥ महतां गुणा असत्यमङ्गले बहिः शब्दादिविषये धावनमेवावशिष्यते न त्वात्मसुखमित्यतो– धावत इति (‘भगवद्भक्तिकरणे हरौ प्रसन्ने तद्भक्तानामिन्द्रियाद्यभिमानिनां देवानामपि प्रीति-र्भवतीत्यभिप्रेत्याह– यस्यास्तीति ॥ यस्य भगवति वासुदेवे अकिञ्चना निष्कामा भक्तिरस्ति तत्र तस्मिन्नेव सत्यधर्मविज्ञानादिभिः सर्वैर्गुणैः सह सुराः सम्यगासते सदा वसन्ति । विषया-सक्तस्य हरावभक्तस्य असत्यमङ्गले विषयसुखे मनोरथेन बहिः संसारे धावतस्तु कुतो महतां गुणाः सत्यधर्मादयो भवन्ति ।’ इति कपाठः) ॥ १२ ॥

प्रकाशिका

ननु सत्सङ्गलब्धवैराग्येण हरौ मनोनिवेशने भक्तिरूप एक एव गुणः प्राप्तस्तेन च हरिप्रसाद एव नेतरे गुणाः । न वेतरेषां देवानां प्रसाद इत्यत आह ॥ यस्येति । अकिञ्चना निष्कामनाः सर्वगुणैः सह तत्र तस्मिन्पुरुषे समासते गुणास्तिष्ठन्ति सुराः प्रसन्ना भवन्तीत्यर्थः । एतदेव व्यतिकरेण चोपपादयति ॥ हराविति । महतां गुणा येषां ते सुराश्च कुत इत्यर्थः । बहिर्बाह्येऽसत्यमङ्गले विषये ॥ १२ ॥

हरिर्हि साक्षाद्भगवांच्छरीरिणामात्मा झषाणामिव तोयमीप्सितः ।

हित्वा महान्तं यदि सज्जते गृहे तदा महत्त्वं वयसा दंपतीनाम् ॥ १३ ॥

पदरत्नावली

भगवद्भक्त्याभिमानिदेवप्रीतिमुपपादयति– हरिर्हीति (‘ननु हरिभक्तिं विना वृद्धदम्पत्यादीनां लोकमहत्त्वादयो गुणा दृश्यन्ते । तस्मात् कथं ‘हरावभक्तस्य कुतो महद्गुणाः’ इत्युक्तमित्यत आह– हरिर्हीति ॥ आत्मा जीवहेतुः । झषाणां मत्स्यानाम् ।’ इति कपाठः) ॥ आत्मा जीवानाम् । अत्रापि व्यतिरेकमाह– हित्वेति ॥ महान्तमनाद्यनन्तकालीनं हरिं हित्वा यदि गृहे सज्जते बहुकालं जीवति तदा वयसा आयुषा दंपतीनां महत्त्वं न गुणतः । गुणतो महत्त्वं हरिभक्त्यैवेत्यर्थः (‘एवञ्च क्षणिकसुखभ्रान्त्या स्वजीवनहेतुं तोयं हित्वा बहिर्निर्गता मत्स्या यथा मृता भवन्ति तथा स्वजीवननिदानं परमपुरुषार्थप्रदं हरिं परित्यज्य क्षणिकबाह्यविषयसुखभ्रान्त्या बहिर्मुखाः पामरा नानानिरयाद्यनर्थपरम्पराभाजो भवन्तीत्यवगन्तव्यम् ।’ इति कपाठोऽधिकः)

॥ १३ ॥

प्रकाशिका

हरावेव भक्तिः कार्येत्युपपादयन् । ननु हरिभक्तिं विना वृद्धानां दंपतीनां लोके महत्त्वादयो गुणा दृश्यन्ते । अतः कथं हरावभक्तस्येत्यादिकमुक्तमित्याशङ्कां परिहरति ॥ हरिर्हीति । आत्माऽऽदानादिकर्ता । पोषक इति यावत् । अतः खषाणां मीनानां तोय-मिवेप्सित इष्टः । अतस्तत्र भक्तिरवश्यं कार्येत्याशयः । महान्तं परमोपकारिणम् । वयसा वयसैव महत्त्वम् । तच्च शूद्रादिसाधारणम् । न पूज्यत्वप्रयोजकमित्याशयः ॥ १३ ॥

तस्माद्रजोरागविषादमन्युमानस्पृहाभयदैन्याधिमूलम् ।

हित्वा गृहं संसृतिचक्रवालं नृसिंहपादं भजतां कुतोभयमिति ॥ १४ ॥

पदरत्नावली

उपसंहरति– तस्मादिति ॥ यस्माद्गृहं रजो रागादिमूलं तस्मान्नृसिंहपादं भजतेत्यन्वयः । संसृतिचक्रवालं संसारावृत्तिहेतुभूतम् (‘विषयवैराग्यमवश्यं सम्पाद्यमित्युपपादय-न्नुक्तमुपसंहरति– तस्मादिति ॥ रजो विषयतृष्णा, रागस्तत्राभिनिवेशः । यस्माद् गृहं रजोरागादिनां मूलं तस्मादकुतोभयं नअसिंहपादं भजतेत्यन्वयः । संसृतेरहन्ताममतादिना जनन-मरणादीनां चक्रवालमविच्छेदो यस्मात् तत् तथा ।’ इति कपाठः) ॥ १४ ॥

प्रकाशिका

विषयवैराग्यमवश्यं सम्पाद्यमित्युपपादयन्नुक्तमुपसंहरति ॥ तस्मादिति । रजोरागो राजसेषु पुत्रादिषु स्नेहो मानोऽहङ्कारः स्पृहेच्छा । संसृतेर्जननादिरूपायाश्चक्रवालं मण्डलं यस्मात् ॥ १४ ॥

केतुमाले भगवान्कामदेवस्वरूपेणास्ते लक्ष्म्याः प्रियचिकीर्षया प्रजापते-र्दुहितॄणां च तद्वर्षपतीनां पुरुषायुषाऽहोरात्रपरिसङ्ख्यानानां यासां गर्भा महापुरुष- महास्त्रतेजसोद्वेजितमनसां विध्वस्ता व्यसवः संवत्सरान्ते निपतन्ति ॥ १५ ॥

तात्पर्यम्

‘कामदेवस्थितं विष्णुमुपास्ते श्री रतिस्थिता । कामदेवं रतिश्चापि विष्णोस्तु प्राकृतां तनुम्’ इति ब्रह्माण्डे ॥ १५ ॥

पदरत्नावली

कामदेवस्वरूपेण कामदेवसन्निहितप्रद्युम्नाख्यात्मरूपेण प्रजापतेर्दुहितॄणां केतुमालवर्षपतीनां लक्ष्म्याश्च प्रियचिकीर्षयेत्यनेन हरेर्भक्तवत्सलतैव प्रयोजनं नान्यदिति दर्शितम् । पुरुषायुषा शतवर्षसङ्ख्यानेन यान्यहोरात्राणि तैः षडि्वंशत्सहस्रैः परिसङ्ख्यानं गणनं या सान्तास्तथा तासाम् । महापुरुषो हरिस्तस्य महास्त्रतेजसा सुदर्शनचक्रतेजसा व्यसवः गतप्राणाः (‘कामदेवे स्थितेन स्वस्य रूपेण प्रद्युम्नाख्येनास्ते । लक्ष्म्या रत्यां प्रविष्टाया रमायाः प्रियचिकीर्षया । तथा स्वप्रतिमास्थानीयकामदेवस्य रमाप्रतिमास्थानीयरत्याश्च प्रियचिकीर्षयेत्युप-लक्षणया ग्राह्यम् । यथोक्तं ब्रह्माण्डे ‘कामदेवस्थितं विष्णुमुपास्ते श्री रतिस्थिता । कामदेवं रतिश्चापि विष्णोस्तु प्राकृतां तनुम् ॥’ इत्यादि प्रजापतेः संवत्साराभिमानिदेवस्य । ‘संवत्सरो वै प्रजापतिः’ इति श्रुतेः । दुहितृणां रात्र्यभिमानिदेवतानां केतुमालवर्षपतीनां च प्रियचिकीर्षया पुरुषायुषा पुरुषवर्षशतसङ्ख्यानेन यान्यहोरात्राणि तैः परिसङ्ख्यानं गणना यासां तास्तथा । षट्त्रिंशत्सहस्रसङ्ख्याकानामित्यर्थः । महापुरुषस्य विष्णोर्यन्महास्त्रं सुदर्शनचक्रं तस्य तेजसा । व्यसवो गतप्राणाः ।’ इति कपाठः) ॥ १५ ॥

प्रकाशिका

कामदेवस्वरूपेणेति । अत्र रमा कामदेवाभिन्नं विष्णुमुपास्त इत्यन्यथाप्रतीतिवारणायाभिप्रेतं तात्पर्यं प्रमाणेनैव दर्शयति ॥ कामदेवेति । कामदेवं चेति सम्बन्धः । चशब्दाद्विष्णोरप्राकृततनुं चेति ग्राह्यम् । प्राकृतामित्यनेन मायामयमित्ये-तदुक्तार्थम् ॥ ततश्चायं मूलार्थः ॥ कामदेवस्थितेन स्वरूपेण प्रद्युम्नाख्येनास्ते इत्यन्वयः । कामदेव आस्ते । तत्र प्रद्युम्ननामा भगवानाविष्टः । आस्त इति यावत् । लक्ष्म्या रत्याविष्टायाः प्रियचिकीर्षयेत्यर्थः । प्रजापतिः संवत्सरनामको ब्रह्मा संवत्सरो वै प्रजापतिरिति श्रुतेः । तस्य दुहितरो रात्र्यभिमानिन्यो देवतास्तासां प्रियचिकीर्षया पुरुषायुषा वर्षशतेन यान्यहोरात्राणि तैः परिसङ्ख्यानं गणना यासां षट्त्रिंशत्सहस्रसङ्ख्याकानामित्यर्थः । महापुरुषो विष्णुस्तस्य महास्त्रं सुदर्शनं तस्य तेजसा व्यसवो विगतप्राणाः ॥ १५ ॥

अतीव सुललितगतिविलासविलसितरुचिरहासलेशावलोकलीलया किञ्चि-दुत्तंभितसुन्दरभ्रूमण्डलसुभगवदनारविन्दश्रिया रमां रमयन्निन्द्रियाणि रमयते

॥ १६ ॥

पदरत्नावली

उत्तंभितम् उर्ध्वं नीतं सुभगं सुन्दरमिन्द्रियाणि रमयते । द्रष्टॄणामिति शेषः (‘सुललितया गत्या यो विलासो विहारस्तेन विलसितो यो रुचिरो हासलेशो मन्दस्मितं तत्सहितोऽवलोक एव लीला तया किञ्चिदुत्तम्भितमुत्तुङ्गितं यत् सुन्दरं भ्रूमण्डलं तेन सुभगं मनोहरं वदनारविन्दं तस्य श्रिया । इन्द्रियाणि रमयते, द्रष्टॄणामिति शेषः ।’ इति कपाठः)

॥ १६ ॥

प्रकाशिका

कामदेवान्तःस्थितः प्रद्युम्नस्तस्मिन्वर्षे स्थित्वा किं करोतीत्यपेक्षायामाह ॥ अतीवेति । अतीव सुललितया गत्या यो विलासस्तेन विलसितो रुचिरो हासलेशो मन्दस्मितं तत्सहितावलोक एव लीला तया किञ्चिदुत्तंभितं सुन्दरं यद्भ्रूमण्डलं तेन सुभगमिन्द्रियाणि । द्रष्टॄणामिति शेषः । इदमुपलक्षणम् । कामदेवो रतिं रमयन्नित्यपि ग्राह्यम् ॥ १६ ॥

तद्भगवतो मायामयं रूपं परमसमाधियोगेन रमादेवी संवत्सरस्य रात्रिषु प्रजापतेर्दुहितृभिरुपेताहस्सु तद्भर्तृभिरुपेतोपास्ते । इदं चोदाहरति ॥ १७ ॥

पदरत्नावली

मायामयम् इच्छामयं रमादेवी भगवतो रूपमुपास्त इत्यस्येदं तात्पर्यमवगन्तव्यम् । रतिसन्निहिता रमादेवी कामान्तःस्थितं हरेरूपम् उपास्ते । रतिस्तु विष्णोः प्रतिमास्थानीयं कामदेवं कामदेवस्थितं विष्णुमुपास्ते । श्री रतिस्थिता ‘कामदेवं रतिश्चापि विष्णोस्तु प्राकृतां तनुम्’ इति स्मृतेः । अनेन मायामयमित्यस्य प्राकृतमित्यर्थः सूच्यते । संवत्सरस्य रात्रिषु प्रजापतेर्दुहितृभि रहस्सु तासां भर्तृभिरुपेता (‘रतिस्था रमादेवी संवत्सराभि-मानिनः प्रजापतेर् दुहितृभिः रात्र्यभिमानिनीभिः सह संवत्सरस्य रात्रिषु तथाऽहस्तु तद्भर्तृभि-रहरभिमानिभिर्देवैरुपेता भगवतो मायामयं ज्ञानमयं तत् कामान्तर्गतं प्रद्युम्नाख्यं रूपमुपास्ते । रतिरपि प्रद्युम्नरूपिणो हरेः प्रतिमास्थानीयं कामदेवमुपास्ते इति बोध्यम् ।’ इति कपाठः)

॥ १७ ॥

प्रकाशिका

मायामयं ज्ञानेच्छात्मकम् । कामदेवपक्षे प्रकृतिविकृतं रूपं प्रतिमां रमा देवी द्योतमाना यस्यां सा रतिरिति योज्यम् । उदाहरति । रतिस्तत्स्था रमा च ॥ १७ ॥

ॐ ह्रां ह्रीं ह्रूं ॐ नमो भगवते हृषीकेशाय सर्वविशेषवित्क्षेत्रात्मने आकूतीनां चित्तानां चेतसां विशेषाणां चाधिपतये षोडशकलाय छन्दोमयायान्न-मयायामृतमयाय सर्वमयाय महसे ओजसे बलाय कान्ताय कामाय नमस्ते उभयत्र भूयात् ॥ १८ ॥

पदरत्नावली

ये ये सर्वे विशेषा व्यावर्तकधर्मास्तांस्तान्वदन्तीति सर्वविशेषविदो ब्रह्मादयस्तेषां क्षेत्रमावासस्थानम् आत्मा देहो यस्य स तथा तस्मै । आकूतीनामभिप्रायाणाम् । पूर्वानुभवसंस्काराणां वा चित्तानां स्मरणकारणानाम् अन्तःकरणविशेषाणां चेतसां बुद्धिवृत्तीनां वृत्तिविशेषाणां चाधिपतये सर्वमयाय सर्वोत्तमाय । उभयत्रान्तर्बहिश्च भूयात् । रक्षाय इति शेषः (‘हृषीकेशाय सर्वेन्द्रियनियामकाय । ‘हृषीकाणीन्द्रियाण्याहुस्तेषामीशो यतो भवान् । हृषीकेश-स्ततो विष्णुः ख्यातो देवेषु केशवः ॥’ इत्यादेः । आकूतीनामभिप्रायाणाम् । चित्तानां स्मरणकारणानामन्तःकरणवृत्तिविशेषाणाम् । चेतसां बुद्धिवृत्तीनाम् । ‘द्रव्यस्वभावाशयकर्म-कालैरेकादशामी मनसो विकाराः । सहस्रशः शतशः कोटिशश्च क्षेत्रज्ञतो न मिथो न स्वतः स्युः’ इत्युक्तप्रकारेण वृत्तिविशेषाणां चाधिपतये । एकादशेन्द्रियपञ्चमहाभूताभिमानिदेवेषु षोडशसु कला अंशोऽन्तर्यामिरूपो यस्य तस्मै । षोडशी कला जीवस्तत्प्रवर्तकायेति च । छन्दोमयाय वेदैः प्राधान्येन प्रतिपाद्याय । अन्नमयाय मुख्यभोक्त्रे । अमृतमयाय मुक्तनियामकाय । सर्वमयाय सर्वोत्तमाय । सहसे आत्मसामर्थ्यनियामकाय । ओजसे इन्द्रियसामर्थ्यनियामकाय । बलाय दैहिकसामर्थ्यनियामकाय । कान्ताय भर्त्रे । कामाय कामदेवान्तर्गताय काम्याय ते नम उभयत्रान्तर्बहिश्च भूयात्, रक्षार्थमिति शेषः ।’ इति कपाठः) ॥ १८ ॥

प्रकाशिका

सर्वविशेषविदो ब्रह्मादयस्तेषां क्षेत्रमावासस्थानमात्मा देहो यस्य स तथा तस्मै । आकूतीनामभिप्रायाणां चित्तानां चित्तवृत्तीनां चेतसामन्तःकरणानां च विशेषाणां मनो बुद्धिरहंकार इत्यादितत्प्रभेदानां षोडशकला यस्मात् षोडशकलाप्रवर्तकाय । एकादशेन्द्रियाणि पञ्चभूतानि षोडशकला ज्ञातव्याः । छन्दोमयाय वेदप्रतिपाद्येषु प्रधानाय । अन्नमयाय महाभोक्त्रे महाभोग्याय । अमृतमयाय मुक्तप्रधानाय । सर्वमयाय सर्वप्रधानाय कामाय काम्याय । उभयत्रांतर्बहिश्च ॥ १८ ॥

**स्त्रियो व्रतैस्त्वां हृषीकेश्वरं स्वतोह्याराध्य लोके पतिमाशासतेऽन्यम् । **

अनेन तासां परिपास्यपत्यं प्रियं धनायूंषि यतोऽस्वतन्त्राः ॥ १९ ॥

पदरत्नावली

लोके विद्यमानाः स्त्रियो नानाव्रतैरिन्द्रियस्वामिनं त्वामाराध्य त्वत्तोऽन्यं पतिमाशासते प्रविशन्ति । प्राम्पुवन्तीत्यर्थः । त्वमनेन व्रतलक्षणाराधनेन हेतुना तासामपत्यं प्रियं भर्तारमुपभोगसाधनं धनान्यायूंष्यहोरात्रगमागमलक्षणानि रक्षसि । कुतस्ताः स्त्रियः पतित्वेन वृताः पुरुषाश्चास्वतन्त्रास्तत्पालने शक्तिहीना यतोऽतस्तत्पतित्वं व्यावहारिकमित्यर्थः (‘कुत-स्ताभिर्वृताः पतय एव न पान्तीत्यत आह– यत इति ॥ अस्वतन्त्राः कालकर्माद्यधीनाः । न हि स्वयं महाहिग्रस्ताः परपरिरक्षणे प्रभवन्ति । अतस्तत्पतित्वं व्यावहारिकमित्यर्थः ।’ इति कपाठः) ॥ १९ ॥

प्रकाशिका

अनन्यकामनया त्वां भजंत्यहं कृतार्थाऽस्मि । अन्यकामनया त्वामर्चयंत्यो न परिपूर्णमनोरथाः स्युरित्याह ॥ स्त्रिय इति । स्वतोऽनन्याधीनतया हृषीकाणामिन्द्रियाणा-मीश्वरमाराध्यान्यं पतिमाशासते प्रार्थयन्ते । पतिकामना हि कामान्तर्गतहरिपूजात्वेन कर्तव्यतया श्रुत्यादिसिद्धेति हिशब्देन दर्शयति । तासां त्वत्पूजालब्धास्ते न वै । नैव पतय इति शेषः । कुतो यतस्तेऽपत्यादिकं न परिपातुमशक्तास्तदपि कुतो यतोऽस्वतन्त्राः ॥ १९ ॥

**स वै पतिः स्यादकुतोभयः स्वयं समन्ततः पाति भयातुरं जनम् । **

स एक एवेतरथा मिथो भयं१ नैवात्मलाभादधि मन्यते परम् ॥ २० ॥

पदरत्नावली

तर्हि मुख्यपतिः क इति तत्राह– स वा इति ॥ यः स्वयमकुतोभयः सन् भयातुरं जनं समन्ततः पाति स वै स एव पतिः स्यात् । नन्वेवं तर्हि बहवः किं न स्युरिति तत्राह– एक इति ॥ भवानिति शेषः । इतरथा बहूनां पतित्वे मिथ्योऽन्योन्यं भयं स्यात् । मण्डलेश्वराणामिवेति शेषः । अतस्त्वमेक एव पतिरित्यर्थः । इतोऽपि त्वल्लाभ एव पुरुषार्थ इत्याह– भजन्निति ॥ त्वां भजन् पुरुष आत्मलाभात् त्वल्लाभात् परमन्यमत्यधिकं नैव मन्यते । अभावादिति शेषः । ‘एकमेवाद्वितीयम्’ इति श्रुतेः (तर्हि मुख्यपतिः क इति तत्राह– स वा इति ॥ यः स्वयमकुतोभयः न कतोऽपि कालादितो भयं यस्य स तथा भयातुरं कालादिभयेन व्याकुलं जनं समन्ततः पाति स वै पतिः स एव मुख्यपतिः स्यात् । स एवम्भूतः पतिर्भवानेक एव, स्वतन्त्रत्वातिति यावत् । विपक्षे बाधकमाह– इतरथेति ॥ इतरथा बहूनां स्वतन्त्राणां पतित्वे मिथो भयं स्यात् खण्डभूपतीनामिव । अतस्त्वमेक एव मुख्यपतिरित्यर्थः । हरेः स्वतन्त्रपतित्वमुपपादयति– नैवात्मलाभादिति ॥ आत्मलाभान् नित्यमितसुखस्वरूपानुभूतेर् अधि अधिकं परमन्यं पुरुषार्थं नैव मबन्यते, भवानिति शेषः ।’ इति कपाठः) ॥ २० ॥

प्रकाशिका

तथात्वेऽपि ते कुतो न पतय इत्यतः पतिशब्दमुख्यार्थं दर्शयति ॥ स वा इति । सः क इत्यतस्त्वमेक एवेत्याह ॥ स इति । भवानिति शेषः । स्वतन्त्रत्वा-दित्याशयः । विपक्षे बाधकमाह ॥ इतरथेति । बहूनां स्वतन्त्राणां पतित्व इत्यर्थः । मिथोऽन्योन्यं भयं स्यात् । अत एव भवानेक एव तादृशः पतिरित्यर्थः । हरेः स्वतन्त्र-पतित्वमुपपादयति ॥ नैवात्मलाभादिति । आत्मलाभात्स्वरूपसुखलाभात् । अधि अधिकं परमन्यं पुरुषार्थं नैव मन्यते । भवानिति शेषः । स्वरूपलाभेनैव तुष्टस्य नान्यापेक्षेत्याशयः । मिथो भजन्निति पाठे मिथोऽन्योन्यं भजन् आत्मलाभात्स्वसाध्यप्रयोजनात् । अधि अधिकदातारं परमन्यं नैव मन्यते । मद्वदयमप्यस्वतन्त्रोऽतो नाधिकदातेत्येव मन्यते इत्यर्थः । अतः स भगवानेक एव पतिरिति योज्यम् ॥ २० ॥

**यस्तस्य ते पादसरोरुहार्हणं निकामयेत्सोऽखिलकामलंपटः । **

तदेव चाभीप्सितमीप्सितार्चनं यद्भग्नयाञ्चो भगवन्प्रतप्यते ॥ २१ ॥

पदरत्नावली

अतोऽप्यस्यैव पुरुषार्थप्राप्तिहेतुत्वादित्याह– य इति ॥ निरुपचरित-पतिर्यस्तस्य ते तव यः पादसरोरुहयोरर्हणं पूजनं नितरां कामयेत् सोऽखिल– कामलम्पटो ऽपेक्षिताशेषपुरुषार्थप्राप्तिपटुतरः । हे ईप्सित प्रेष्ठ अतस्त्वदर्चितमेवाभीप्सितम् । नान्य-दर्चनम् । विशिष्टफलहेतुत्वात् । व्यतिरेकमुखेन निर्द्धारयति– यद्भग्नेति ॥ अयं भावः । यत्कामोऽन्यपादार्चनं करोति तस्मात्फलानुदयात् प्रतप्यत इति । यद्यस्मात्तस्मादिति चशब्देन पूर्वमर्चितमिदानीमर्च्यते । उत्तरत्रार्चिष्यत इति सूचयति (‘निष्कामनया त्वत्पदकमलार्चनमेव तवाभीप्सितं न काम्यकामनयेत्याह– य इति ॥ निरुपमसुचरितपतिर्यस्तस्य स्वतन्त्रस्य ते पादसरोहरुहयोरर्हणं यो ऽधिकारी निकामयेत् सर्वान् काम्यकामान् विहाय नितरां कामयेत् सोऽखिलकामलम्पटो ऽशेषपुरुषार्थप्राप्तौ समर्थः । हे ईप्सित प्रेष्ठ तदेवार्चितं निष्का-मनयाऽर्चनमेवाभीप्सितम् । न तु कामनयाऽर्चनम् । कुत इत्यत आह– यदिति ॥ यद् यस्मात् काम्यफलापेक्षयाऽर्चनस्य क्षणिकतुच्छफलमात्रहेतुत्वाद् भग्ना याञ्चा याचितोऽर्थो यस्य स तथा प्रतप्यते परितप्तो भवति ।’ इति कपाठः)॥ २१ ॥

प्रकाशिका

निष्कामनया त्वत्पादसरोरुहार्चनमेव तवाभीप्सितं न काम्यकामनयेत्याह ॥ य इति । तस्योक्तरीत्या स्वतन्त्रस्य ते तव पादसरोरुहार्हणं योऽधिकारी निकामयेन्नितरां कामयेत् । अखिलकामान्परित्यज्य कामयेदिति यावत् । सोऽखिलकामलंपटोऽपेक्षिताशेष-पुरुषार्थसाधने समर्थः । तेनैवाशेषपुरुषार्थप्राप्तिसम्भवादित्याशयः । हे ईप्सित प्रेष्ठ । तदेवार्चनं निष्कामार्चनमेवाभीप्सितम् इत्यनुवर्तनीयम् । न कामनयाऽर्चनं कुत इत्यत आह ॥ यद्भग्नयाञ्च इति । यद्यस्मात्प्रबलदुरितादिसत्वे कामनयाऽर्चनस्य तवानभीप्सितत्वेन फलानु-दयाद्भग्ना व्यर्था याच्ना मनोरथो यस्य स तथाविधः सन् प्रतप्यत दुःखीभवति ॥ २१ ॥

मत्प्राप्तये ये ससुरासुरादयस्तप्यन्त उग्रं तप ऐन्द्रिये धियः ।

ऋते भवत्पादपरायणं न मां विन्दन्त्यहं त्वद्हृदया यतोऽजित ॥ २२ ॥

पदरत्नावली

अन्यपादार्चकस्य भग्नयाञ्चत्वमत्र द्रष्टव्यमित्याह– मत्प्राप्तय इति ॥

ये ऐन्द्रियेधिय इन्द्रियविषये धीर्येषां ते तथा । शब्दादिविषयरागान्धीभूतबुद्धयः ससुरासुरादय उग्रं तपस्तप्यन्ते ते मां न विन्दन्ति । मत्तोऽभीष्टफलं न विन्दन्तीत्यत्र कारणमाह– ऋत इति ॥ भवत्पादपरायणमर्चनमृते त्वच्चरणार्चनाभावः कारणम् । हेत्वन्तरमाह– अहमिति ॥ अजित अहं त्वद्धृदया यतः । तस्मादिति शेषः । त्वयि हृदयं यस्याः सा तथा । यस्त्वत्पादार्चकस्तस्य मत्प्रसादः यो न तस्य नास्तीति । अयं भावः । असम्प्रज्ञातस्थया मया ज्ञायत इति (‘निष्कामनया हर्यर्चनादिनैव निष्कण्टकाशेषपुरुषार्थप्राप्तिर्भवति न तु सकाम-नयाऽन्यदेवतार्चनादिनेत्याशयेनाह– मत्प्राप्तय इति ॥ मदभिमतैश्वर्यप्राप्तय इत्यर्थः । हे अजित यतस्त्वय्येव हृदयं यस्याः साऽहं तस्माद् भवत्पादपरायणम् ऋते ये ऐन्द्रिये इन्द्रियविषये शब्दादौ भोग्ये धीर्येषां ते ऐन्द्रियेधियस्ते मां मदभिमतैश्वर्यं न विन्दन्ति न प्राप्नुवन्ति । यतोऽहं नित्यं त्वच्चरणरेणुरागिणी ततस्त्वच्चरणार्हणनिरतानेव निष्कण्टकैश्वर्यादि-प्रदानेनानुगृह्णामि, तुच्छविषयोपभोगार्थं भजद्भ्यो निष्कण्टकैश्वर्यं नैव ददामीति यावत् ।’ इति कपाठः) ॥ २२ ॥

प्रकाशिका

अतो निष्कामनया त्वदर्चनमेवाशेषपुरुषार्थहेतुर्नान्यदेवतार्चनमिति कैमुत्ये-नाह ॥ मत्प्राप्तय इति । मदभिमतैश्वर्यप्राप्तय इत्यर्थः । ससुरासुरादय इत्यनेन स्वयं सर्वोत्तम इति सूचयति । तपस्तप्यन्ते कुर्वन्ति । ऐन्द्रिय इन्द्रियविषये शब्दादौ भोग्ये धीर्येषां ते मां मदभिमतैश्वर्यं न विन्दन्ति न प्राप्नुवन्ति । तेभ्यो निष्कण्टकमैश्वर्यं न ददामीत्याशयः । किं सर्वेषाम् । नेत्याह ॥ भवत्पादपरायणम् ऋत इति । इतरविषयपरित्यागेन भगवत्पादयोरेवार्चकं विनेत्यर्थः । कुत इत्यत आह ॥ अहमिति । हे अजित । यतोऽहं त्वयि हृदयं मनो यस्याः सा तथा । त्वद्भक्तेति यावत् । सर्वसुरादिपूजिताऽप्यहं त्वद्भयात्त्वद्विमुखेभ्योऽखण्डितैश्वर्यादिदाने न समर्था तदा कुतः परे तत्र समर्थाः स्युरित्याशयः ॥ २२ ॥

**स त्वं ममापि कुरु शीर्षणि स्वकं कराम्बुजं यत्तदधायि सात्वताम् । **

बिभर्षि मा लक्ष्म वरेण्य मायया क ईश्वरस्येहितमूहितुं विभुरिति ॥ २३ ॥

पदरत्नावली

स्वशिरसि नित्यधृतकराम्बुजत्वेऽपि भगवत्पूजकैरेवं प्रार्थनीयमित्याशय-वत्याह– स त्वमिति ॥ यत् कराम्बुजं सात्त्वताम् । स्त्रीणामिति शेषः । शिरस्स्वधायि येन त्वया स त्वं मम मूर्धन्यपि तत्कुर्वित्यन्वयः । किंच सर्वस्मान्मयि तव प्रसादाधिक्यमस्तीति द्योतयति– बिभर्षीति ॥ हे वरेण्य त्वद्वक्षसि मा मां लक्ष्म चिन्हं बिभर्षि यदतो माययेश्वरस्य ईहितमूहितुं को विभुः? न कोऽपि समर्थः (‘स्वशिरसि नित्यधृतहरिकाराम्बुजाऽपि भक्तजनैरेवं प्रार्थ्यमिति शिष्टशिक्षणाय शिपिविष्टमभिष्टौति– स त्वमिति ॥ निष्कामनया यदर्चनं विना निष्कण्टकैश्वर्यादिप्राप्तिर्न भवति स त्वम् । हे अच्युत त्वत् त्वया यत् कराम्बुजं सात्वतां परमेष्ठिधूर्जटिप्रभृतिभक्तश्रेष्ठानां शीर्ष्णि अधायि कृपया न्यस्तं तद् वन्दितं सर्वसुरोत्तमादिसद्भक्त-स्तोमैरशेषपुरुषार्थवर्षित्वेन संस्तुतं ममापि शीर्ष्णि निधेहि । लक्ष्म्या अपि हर्षोत्कर्षजनक-नवनवमाहात्म्यातिशयदर्शनरूपविशेषानुग्रहार्थमिदं प्रार्थनामपि बोध्यम् । किञ्च सर्वस्मान्मयि तवाविच्छिन्नप्रसादाधिक्यमस्तीति स्वयमेव स्पष्टयति– बिभर्षीति ॥ हे वरेण्य त्वद्वक्षसि मां लक्ष्म चिह्नं यथा स्यात् तथा मायया इच्छया बिभर्षि यदत ईश्वरस्येहितं चेष्टितमूहितुं तर्कयितुं विभुः समर्थः ? न कोऽपि समर्थः ।’ इति कपाठः) ॥ २३ ॥

प्रकाशिका

इदानीं कृपातिशयद्योतकं शीर्षण्यभयहस्तनिधानं प्रार्थयते ॥ स त्वमिति । यदर्चनमशेषपुरुषार्थसाधनं स त्वमित्यर्थः । यत्करांबुजं सात्वतां भक्तानां शीर्षण्यधायि कृपया न्यस्तं तन्ममापि शीर्षणि कुरु निधेहि । विशेषानुग्रहार्थमिदं प्रार्थयते । वस्तुतस्तु त्वत्कृपा मय्यस्त्येवेत्याशयेनाह ॥ बिभर्षीति । हे वरेण्य मा मां लक्ष्म चिन्हं यथा स्यात्तथा बिभर्षि । किं प्रयोजनापेक्षया । नेत्याह ॥ माययेति । इच्छयेत्यर्थः । ननु कुत इत्थमिच्छाऽपीत्यत उक्तम् । ईश्वरस्येति । ईश्वरस्येहितं चेष्टितमूहितुं को विभुः समर्थो न कोऽपीति ॥ २३ ॥

रम्यके च भगवतः प्रियतमं मात्स्यमवताररूपं तद्वर्षपुरुषस्य मनोः प्राक् प्रदर्शितं स इदानीमपि महता भक्तियोगेनाराधयन्निदं चोदाहरति ॥ २४ ॥

पदरत्नावली

मनोर्वैवस्वतस्य ॥ २४ ॥

प्रकाशिका

मनोर्वैवस्वतस्य ॥ २४ ॥

ॐ नमो भगवते मुख्यतमाय नमः सत्वाय प्राणायौजसे बलाय महा-मत्स्याय नम इति ॥ २५ ॥

पदरत्नावली

सत्त्वाय साधुगुणस्वरूपाय । प्राणाय प्रकर्षेण सर्वप्राणिचेष्टकाय । ‘प्राण-नामा प्रणेतृत्वात् साक्षान्नारायणः स्वयम्’ इति ऋग्वेदसंहिायाम् ।’ इति कपाठः) ॥ २५ ॥

प्रकाशिका

सत्त्वाय साधुगुणस्वरूपाय । प्राणाय प्रकृष्टचेष्टकाय । ओजआदिस्वरूपाय

॥ २५ ॥

अन्तर्बहिश्चाखिललोकपालकैरदृष्टरूपो विचरस्युरुस्वनः ।

स ईश्वरस्त्वं य इदं वशेऽनयन्नात्मा यथा दारुमयीं नरः स्त्रियम् ॥ २६ ॥

पदरत्नावली

उरुर्गुरुर् यो नः परमपुरुष इदं जगद्वशे अनयन्नीतवान् । स त्वमीश्वरः साक्षान्नारायण आत्मा स्वामी । यद्वा य आत्मा आदानसमर्थः, इदं जगद्वशेऽनयन् वर्तते स त्वमीश्वर ऐश्वर्यादिगुणसमुद्र इति (‘उरुर्महान् स्वनो वेदात्मको नादो यस्य स तथा । यथा नरो दारुमयीं स्त्रियं वशे नयति तथाऽयमात्मा आदानादिकर्ता हरिरिदं जगद् वशमनयत् स्ववशमकरोत् स त्वमीश्वरः भक्तानां ज्ञानादिफलदः ‘अन्तस्थः पुरुषो नाम ज्ञानदः सर्वदेहिनाम् । बहिस्थ ईश्वरो नाम ज्ञानादिफलदो हरिः ॥’ इति मात्स्ये ।’ इति कपाठः)

॥ २६ ॥

प्रकाशिका

उरुः स्वनो वेदनादो यस्य । यथा नरो दारुमयीं स्त्रियं वशे नयति । तथाऽयमात्माऽऽदानादिकर्तेश्वर इदं जगद्वशेऽनयन्नीतवान्नयन्वर्तत इति वा स्ववशमकरोत् । स ईश्वरस्त्वमित्यर्थः ॥ २६ ॥

यं लोकपालाः किल मत्सरज्वरा हित्वा यतन्तोऽपि पृथक्समेत्य च ।

पातुं न शेकुर्द्विपदश्चतुष्पदः सरीसृपास्थास्नु यदत्र दृश्यते ॥ २७ ॥

तात्पर्यम्

‘स्पर्धन्त इव देवास्तु हरिणा यत्र कुत्रचित् । हरेरेवाज्ञया क्वापि दैत्या-वेशादथापि वा’ इति च ॥ २७ ॥

पदरत्नावली

लोकपालादिविश्वस्येश्वरवशत्वे तददृष्टरूपत्वं कथमस्येत्याशङ्क्य स्पर्धाहेतोरिति भावेनाह– यमिति ॥ चशब्दो विकल्पार्थे । यं त्वां हित्वा लोकपाला पृथग्वा-समेत्य वा । ‘‘यतन्तोऽपि द्विपदश्चतुष्पद’’ इत्यादि यत्सरीसृपस्थास्नु चराचरमत्र दृश्यते श्रुतिदृष्टिविषयं तत्पातुं न शेकुरित्यन्वयः । अशक्तत्वे निमित्तमाह– मत्सरे इति ॥ मात्सर्याख्यज्वरग्रस्तत्वादित्यर्थः । ‘वार्तासम्भाव्ययोः किल’ इति वचनादिदं स्पर्धालक्षणं मात्सर्यं सम्भावनामात्रम्, न तु मुख्यमाज्ञानिमित्तम् । दैत्यावेशनिमित्तं वेति गमयितव्यम् । तदुक्तम्– ‘स्पर्धन्त इव देवास्तु हरिणा यत्रकुत्रचित् । हरेरेवाज्ञया क्वापि दैत्यावेशादथापि वा’ ॥ इति । अनेन स्पर्धाया अन्यनिमित्तत्वेन पालनशक्तिः स्वरूपकृतेति ज्ञातव्या (‘ननु लोकपालानां पालकत्वादेव तद्वशे विश्वमिदमस्तीति सिद्धमतः कथं ‘स ईश्वरस्त्वं य इदं वशेऽनयत्’ इत्युक्तमित्यतस्तेषां न स्वातन्त्र्येण पालकत्वमित्याशयेनाह– यमिति ॥ लोकपाला महेशसुरेशादयो यं स्वातन्त्र्येण सकललोकपालकं त्वां हित्वा विहाय पृथग् वा समेत्य वा यतन्तोऽपि द्विपदो मनुष्यादयः, चतुष्पदो गवादयः सरीसृपं जङ्गमं स्थास्नु स्थावरं ज्वरः सन्तापकरो येषां ते तथा । अत्र किलशब्देन लोकपालनामपरोक्षज्ञानिश्रेष्ठानाममराणां हरिणा स्पर्धालक्षणं मात्सर्यं सम्भावनामात्रं न तु स्वभावत इति द्योतयति । ‘वार्तासम्भाव्ययोः किल’ इति यादवः । एवञ्च हरावनवरतभक्तिज्ञानभरिता अमरवरा हरेरेवाज्ञया असुरमोहनाय क्वचित् स्पर्धन्त इव दृश्यन्ते । क्वचित्तु बलिष्ठदैत्यावेशात् स्पर्धन्ते। न तु क्वचिदपि स्वभावतः स्पर्धन्त इत्यवगन्तव्यम् । यथोक्तं ब्रह्माण्डे ‘स्पर्धन्त इव देवास्तु हरिणा यत्रकुत्रचित् । हरेरेवाज्ञया क्वापि दैत्यावेशादथापि वा ॥’ इति ।’ इति कपाठः) ॥ २७ ॥

प्रकाशिका

ननु लोकपालानां पालकत्वादेव तद्वशे इदं जगदस्तीति सिद्धमतः कथमीश्वरः स्ववशे इदमनयदित्युक्तमित्यतस्तेषां न स्वातन्त्र्येण पालकत्वमित्याह ॥ यमिति । अत्र मत्सरज्वरा इति लोकपालानां देवानां हरिणा मात्सर्यापरपर्याया स्पर्धा प्रतीयते । सा च हरिभक्तोत्तमेषु प्रमाणबाधिताऽतोऽत्र विवक्षितं तात्पर्यं प्रमाणेनैव दर्शयति ॥ स्पर्धन्त इवेति । मत्सरवन्त इवेत्यर्थः । हरिणा तु स्वभावत एव स्पर्धन्त इव दृश्यन्त इति शेषः । यत्र कुत्रचित्कार्ये कर्तव्ये । कुत इत्यतोऽत्र कारणमाह ॥ हरेराज्ञयैवेति । निमित्तान्तरमाह ॥ दैत्यावेशादिति । अथाऽपि वेति निपातसमुदायः पक्षान्तरे । तथा च मूले देवानां मात्सर्य-कथनं दैत्यावेशनिमित्तकमात्सर्यपरमेव । न स्वाभाविकमात्सर्यपरमित्युक्तं भवति ॥ ततश्चायं श्लोकार्थः ॥ यं त्वां हित्वा लोकपालाः पृथग्वा समेत्य वा यतन्तोऽपि द्विपदादिकं यदत्र ब्रह्माण्डे दृश्यते तत्पातुं न शेकुः । कुत इत्यत उक्तम् ॥ मत्सर एव ज्वरो दाहको येषामिति । दैत्यावेशेन स्वभावतो मत्सरवन्त इव दृश्यमाना यत इत्यर्थः । अस्वतन्त्रा इति यावत् ॥ २७ ॥

**भवान्युगान्तार्णव ऊर्मिमालिनि क्षोणीमिमामोषधिविरुधां निधिम् । **

मया सहोरुक्रम ऊह ओजसा तस्मै जगत्प्राणगुणात्मने नम इति ॥ २८ ॥

पदरत्नावली

यद्यप्यस्तु मूलरूपस्य हरेर्जगत्पालनशक्तिः स्वरूपभूता तथाप्यवताराणां सा न समास्तीत्याशङ्क्य द्वयोरपि कोऽपि माहात्म्ये विशेषो नास्तीति भावेनाह– भवानिति ॥ भवान् युगान्तार्णव इमां क्षोणीमूहे इत्याहेत्यन्वयः । तस्मै जगत्प्राणगुणात्मने जगच्चेष्टकगुण-स्वरूपाय मत्स्याय हरये नम इत्यन्वयः (‘भवान् ऊर्मिणां मालाऽस्यास्तीति तथाभूते युगान्ता-र्णवे प्रलयसमुद्रे ओषधीनां वीरुधां च निधिमाश्रयभूतामिमां नौरूपां क्षोणीमूहे इत्यन्वयः । मया मनुना सह । जगत्प्राणगुणात्मने जगच्चेष्टकगुणस्वरूपाय ।’ इति कपाठः)॥ २८ ॥

प्रकाशिका

इदानीमवतारचरितेन स्तौति ॥ भवानिति । भवान्युगान्तार्णवे इमां क्षोणीमूह इत्यन्वयः । कथंभूतां क्षोणीम् । औषधीनां वीरुधां च निधिमाश्रयभूताम् । पुनः कथंभूताम् । मया मनुना सह विद्यमानाम् । जगत्प्राणगुणात्मने जगत्प्राणनरूपगुणस्वरूपाय

॥ २८ ॥

हिरण्मये भगवान्निवसति कूर्मतनुं बिभ्राणस्तस्य प्रियतमां तनुमर्यमासह तद्वर्षपुरुषैः पितृगणाधिपतिरुपधावति मन्त्रमिमं चानुजपति ॥ २९ ॥

ॐ नमो भगवते अकूपाराय सर्वसत्वगुणविशेषणाय नोपलक्षितस्थानाय नमोऽवर्ष्मणे नमो भूयसे नमोऽवस्थानाय नमस्ते ॥ ३० ॥

पदरत्नावली

न कूपे आरो गमनं यस्य स तथा तस्मै महासमुद्रनिवासायेत्यर्थः । सर्वसत्वगुणाः पराक्रमगुणा एव विशेषणं यस्य स तथा तस्मै । सर्वसत्वगुणा ज्ञानानन्दादिगुणा इति वा । नोपलक्षितस्थानाय अज्ञातस्वरूपाय वर्ष्मणे भक्ताभीष्टवर्षणशीलाय प्रमाणाय सम्य-ग्वक्त्रे वा ‘प्रमाणं बोधनेयत्तामर्यादाशास्त्रहेतुषु । सम्यग्वक्तरि चाथ स्यात्प्रयाणं मरणे गतौ ॥’ इति यादवः । ‘वर्ष्म देहप्रमाणयोः’ इति च । अनेन दिव्यतिर्यग्योनेरपि सम्यग्वक्तृत्वमाहात्म्यं सूचितम् । ‘भूयसे महते महतो महीयान्’ इति श्रुतिः । अवस्थानाय जगत्स्थितिहेतवे (‘अकूपाराय न कूपे आरो गमनं यस्य स तथा तस्मै महासमुद्रनिवासाय कूर्मराजाय । सर्वः सम्पूर्णः सत्त्वगुणः पराक्रमलक्षणो विशेषणं यस्य तस्मै । न उपलक्षितं प्रत्यक्षं स्थानं यस्य तस्मै । सर्वान्तर्यामित्वादिना अज्ञातस्वरूपायेत्यर्थः । वर्ष्मणे भक्ताभीष्टवर्षणशीलाय । प्रमाणाय सम्यक् सच्छास्त्रव्याख्यानकर्त्रे । ब्रह्मादीनां प्रकृष्टं मानं ज्ञानं यस्मात् तत् तथा । ‘प्रमाणं बोधनेयत्तामर्यादाशास्त्रवक्तृषु’ इति यादवः । अवस्थानाय सर्वाधारभूताय ।’ इति कपाठः) ॥३०॥

प्रकाशिका

अकूपाराय न कूपे आरो गमनं यस्य स तथा तस्मै समुद्रवासिने कूर्माय । सर्वेषां सत्त्वानां प्राणिनां ये गुणास्तान्विशेषेण नयतीति सर्वसत्त्वगुणविशेषणस्तस्मै । सर्वं पूर्णं सत्त्वं ज्ञानबलसमाहारो वा पराक्रमो वा तल्लक्षणगुणविशेषणं यस्येति वा । नोपलक्षितं ज्ञातं स्थानं यस्य वारिचरत्वात् । अवर्ष्मणे प्राकृतदेहशून्याय । भूयसेऽनन्तरूपायावस्थानाय जगत्स्थित्याधाराय ॥ ३० ॥

यद्रूपमेतन्निजमाययाऽर्पितमर्थस्वरूपं बहुरूपरूपितम् ।

सङ्ख्या न यस्यास्त्ययथोपलंभनात्तस्मै नमस्तेऽव्यपदेशरूपिणे ॥ ३१ ॥

**तात्पर्यम् **

उपलम्भनादयथा । यथा दृष्टं तथा न तिष्ठत्यन्यथाभवतीत्यर्थः ॥ ३१ ॥

पदरत्नावली

मन्त्रसूचितगुणविशिष्टत्वेन श्रीहरिं स्तौति– यद्रूपमिति ॥ यद्रूपमेतद्विश्वं निजमायया तव स्वरूपेच्छयार्पितं मदाधारतया तिष्ठत्विति माययेत्युक्त्याऽनिर्वाच्याविद्याकल्पितं किं न स्यादित्यतः– अर्थेति ॥ अबाधितरूपं जरायुजादिबहुरूपेण रूपितं शब्दितं यस्येयतीति सङ्ख्या च नास्ति ‘परमाणुप्रदेशेऽपि ह्यनन्ताः प्राणिराशयः’ इति वचनात् । यच्चोपलम्भनाद-यथा अद्य यथा दृश्यते श्वस्तथा न तिष्ठति, विकारित्वात् । उर्वारुकफलादेरन्यथादर्शनात् । न च तावता वैतथ्यम् । ‘विश्वं सत्यम्’ इत्यादिश्रुतेः । अतः प्रवाहरूपेण नित्यमित्येष्टव्य-मित्यर्थः । रूपं सन्निधानयोग्यप्रतिमास्थानीयमित्यर्थः । तस्मै तुभ्यं नम इत्यन्वयः । न व्यपदेशो यस्तदव्यपदेशं तादृशं रूपमस्यास्तीति अव्यपदेशरूपी तस्मै । वाङ्मनसागोचररूप-त्वादित्यर्थः । अनेन सर्वसत्वविशेषणाय नोपलक्षितस्थानायेति पदद्वयं विवृतम् (‘अवस्थानाये-त्युक्तमेव प्रपञ्चयन् स्तौति– यद्रूपमिति ॥ निजमायया इदं मदाधारतया तिष्ठत्विति स्वेच्छया, अर्पितं स्वाधारतया स्थापितमेतदर्थस्वरूपमबाधितज्ञेयस्वरूपं विश्वं यद्रूपं यस्य हरेः प्रतिमा-स्थानीयम् । तद्विश्वं विशिनष्टि– बहुरूपमित्यादिना ॥ जरायुजादिभी बहुभी रूपै रूपितं निरूपितम् । यस्य च सङ्ख्या नास्ति । उक्तं हि स्कान्दे ‘परमाणुप्रदेशेऽपि ह्यनन्ताः प्राणिराशयः । सूक्ष्मत्वादीशशक्त्यैव स्थूला अपि हि संस्थिताः ॥’ इत्यादि । यच्च उपलम्भनादयथा उपलब्धादाकारात् प्रतिक्षरमन्यथान्यथा भवति । अद्य यथा दृश्यते श्वस्तथा न तिष्ठति, विकारित्वात् । उर्वारुकादेरन्थथान्यथाभावस्य दर्शनात् । न च तावता मिथ्यात्वम् । ‘अथ हैनमाहुः सत्यकर्मेति सत्यं ह्येवेदं विश्वमसौ सृजते’, ‘विश्वं सत्यं मघवाना युवोरिदापश्चन प्रमिनन्ति व्रतं वाम्’, ‘कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोऽर्थान् व्यदधात् शाश्वतीभ्यः समाभ्यः ॥’ इत्यादिश्रुतिभ्यः । न व्यपदेशो यस्य तदव्यपदेशं तादृशं रूपमस्यास्तीत्य-व्यपदेशरूपी तस्मै । वाङ्मनसागोचरस्वरूपायेत्यर्थः ।’ इति कपाठः) ॥ ३१ ॥

प्रकाशिका

अवस्थानायेत्युक्तमेव प्रपञ्चयन् स्तौति ॥ यद्रूपमिति । अत्रायथोप-लम्भनादित्यस्य मिथ्योपलंभनादित्यन्यथाप्रतीतिवारणायान्वयं तावदाह ॥ उपलम्भनादिति । एवमन्वयलब्धमर्थं दर्शयति ॥ यथा दृष्टमिति । अनेनोपलंभनशब्दः कर्मणि निष्पन्न इति सूचयति । नन्वेवं मिथ्यात्वमेव प्राप्तमित्यतोऽभिप्रायमाह ॥ अन्यथेति । विकृतं भवती-त्यर्थः ॥ ततश्चायं श्लोकार्थः ॥ निजमायया इदं मदाधारतया तिष्ठत्विति स्वेच्छयार्पितं स्वाधारतया स्थापितम् । अर्थस्वरूपं ज्ञेयरूपं जरायुजादिभिर्बहुभी रूपैः रूपितं निरूपितम् । शब्दितं यस्य सङ्ख्या नास्ति ‘‘परमाणुप्रदेशेऽपि ह्यनन्ताः प्राणराशय’’ इति वचनात् । यच्चोपलम्भनात् । उपलब्धात्प्रकारादयथा येन प्रकारेणाद्योपलब्धं तेन प्रकारेण श्वो न तिष्ठति । विकृतमिति यावत् । एतज्जगद्यद्रूपं यत्स्वरूपं यदन्तर्यामिकमित्यर्थः । तस्मै नम इत्यन्वयः । न व्यपदेशो यस्य तदव्यपदेशं साकल्येन निर्देष्टुमशक्यं तादृशं रूपमस्यास्तीत्यव्यपदेशरूपी तस्मै ॥ ३१ ॥

जरायुजं स्वेदजमण्डजोद्भिजं चराचरं देवर्षिपितृभूतभेदम् ।

द्यौः खं क्षितिः शैलसरित्समुद्रद्वीपग्रहर्क्षेत्यभिधेय एकः ॥ ३२ ॥

**तात्पर्यम् **

‘सर्वान्तर्यामिकत्वात्तु सर्वनामा हरिः स्वयम् । न तु सर्वस्वरूप-त्वाद्रूपत्वमुपचारत’ इति च ॥ ३२ ॥

पदरत्नावली

सन् घटः सन् पट इति सदनुविद्धत्वेन प्रतीयमानत्वात् ‘सर्वं स्वल्विदं ब्रह्म’ इति श्रुतेश्च विश्वस्य ब्रह्मात्मकत्वं मुख्यं किं न स्यादित्याशङ्क्य ‘तत्सृष्ट्वा तदेवानु-प्राविशत्’ इत्यादेः ‘सर्वान्तर्यामिकत्वात्तु सर्वनामा हरिः स्वयम् । न तु सर्वस्वरूपत्वाद्रूपत्व-मुपचारतः ॥’ इति स्मृतेश्च । सर्वान्तर्यामित्वेन तत्तत्सत्ताप्रदत्वेन तच्छब्दप्रवृत्तिनिमित्तस्य तदधीनत्वेन तत्तन्नामत्वं हरेरित्यभिप्रेत्याह– जरायुजमिति ॥ देवादीनां भेदो यस्मिंस्तत्तथा इति शब्दआदिवचन ऋक्षादिनामवानेक एवेत्यनेन ‘यो देवानां नामधा एक एव’ इति श्रुतिं सूचयति । ‘नमो वर्ष्मणे नमो भूयसे’ इति मन्त्रावयवस्याभिप्रायः सूचित इति (‘सर्वान्तर्या-मित्वादिना परममुख्यवृत्त्या समस्तशब्दप्रवृत्तिनिमित्तानां हरावेव सम्भवात् सर्वशब्दाभिधो हरिरेवेत्यवश्यमुपास्यमित्याशयेनाह– जरायुजमिति ॥ जरायुणा जरायुणा गर्भवेष्टानचर्मणा जायत इति तथा मनुष्यादि, स्वेदजं कृमिदंशादि, अण्डजं पक्ष्यादि, उद्भिदं तरुगुल्मादि । तत्रापि चरं चङ्गमं मनुष्यादि, अचरं तरुगिर्यादि । देवादीनां भेदो यस्मिंस्तत्तथा देवादिप्रभेद-वाचकशब्दजातमिति यावत् । तत्र देवप्रभेदवाचका इन्द्रादयः, ऋषिप्रभेदवाचका वसिष्ठादयः, पितृप्रभेदा अर्यमादयः, भूतप्रभेदा आकाशादयः, इत्यादिसर्वशब्दानामेक एव भगवानभिधेयः । यथोक्तं ब्रह्माण्डे ‘सर्वान्तर्यामिकत्वात् तु सर्वनामा हरिः स्वयम् । न तु सर्वस्वरूपत्वाद् रूपत्वमुपचारतः ॥’ इति ।’ इति कपाठः) ॥ ३२ ॥

प्रकाशिका

ननु यद्रूपमित्यस्य यस्य साक्षात्स्वरूपमित्येवार्थो वाच्यो न यदन्तर्यामिक-मिति । उत्तरश्लोके सर्वस्वरूपत्वोपपादनायैव सर्वशब्दवाच्यत्वस्य कथितत्वादित्याशङ्का-परिहारायोत्तरश्लोकतात्पर्यं प्रमाणेनैव दर्शयति ॥ सर्वान्तर्यामिकत्वादिति । तत्तद्वस्तुगत-सर्वशब्दप्रवृत्तिनिमित्तस्वामिकत्वादित्यर्थः । तुशब्दोऽवधारणे । तद्व्यावर्त्यं दर्शयति ॥ न त्विति । तुशब्दो हेत्वर्थः । तेन चेतनस्याचेतनैरैक्यायोगात् । चेतनानां च विशिष्टानामैक्या-योगात् । चिन्मात्रलक्षणायाश्च जघन्यत्वादिति । कथं तर्हि द्वे वाव ब्रह्मणो रूपे इत्यादौ तद्रूपत्वमुच्यत इत्यत उक्तम् ॥ रूपत्वमिति । उपचारतो गौण्या वृत्त्या । कथ्यत इति शेषः ॥ ततश्च इति इत्यादिशब्दैरेको मुख्योऽभिधेयो जरायुजाद्यन्तर्यामी त्वमेक एव तत्तच्छब्द-प्रवृत्तिनिमित्तस्वामित्वात् । त्वदधीनं तु जरायुजादिकं न मुख्यतस्तत्तच्छब्दाभिधेयमिति मूलं व्याख्येयमिति भावः । देवादीनां भेदो यस्मिंस्तत्तथा । तथा चात्रोक्तम् । जरायुजादि-सर्वशब्दाभिधेयत्वं यद्रूपमित्यत्रोक्तान्तर्यामिकत्वोपपादकमिति भावः ॥ ३२ ॥

**यस्मिन्नसङ्ख्येयविशेषनामरूपाकृतौ कविभिः कल्पितेयम् । **

सङ्ख्या यया तत्त्वदृशा विनीयते तस्मै नमः सांख्यनिदर्शनाय हि इति

॥ ३३ ॥

तात्पर्यम्

**दशावतार इत्यादिसङ्ख्या विनीयते विशेषेण नीयते तज्ज्ञानं तद्रूपमेव हि **

॥ ३३ ॥

पदरत्नावली

असङ्ख्येया विशेषा व्यावर्तकधर्माः, असङ्ख्येयानि नामानि नारायणादीनि शुक्लादीनि रूपाणि यस्याः सा तथा तादृशी आकृतिर्विग्रहो यस्य स तथा, तस्मिन्नेवंविधे यस्मिन् त्वयि दशावरा इत्यादिकेयं सङ्ख्या कविभिः कल्पिता । जगत्स्थिति-लक्षणरक्षणाय इति शेषः । नेयं सङ्ख्या तात्विकीत्याह– ययेति ॥ यया दशावतारा इत्यादिकया सङ्ख्यया भवांस्तत्वदृशा वस्तुयाथात्म्यं पश्यता । जातावेकवचनम् । विनीयते विशेषेण नीयते । शिष्यप्रशिष्यादिषूपदिश्य प्रवर्त्यत इति । अनेन ‘यथोऽहं कवयन्तः कवयो न भवन्ति किं तु अपरोक्षं पश्यन्तः’ इत्युक्तम् । न चेदं वृत्तिज्ञानं, सङ्ख्याप्रणयनस्य विशेष-ग्रहणस्य व्यर्थत्वापातात् । अतः स्वरूपज्ञानमेवाङ्गीकर्तव्यम् । आचार्यैरप्येतदभिप्रायेणोक्तम्– ‘तज्ज्ञानं तद्रूपमेव हि’ इति । जीवस्य तिरोहितं स्वरूपज्ञानं च श्रीनारायणप्रसादेनावि-र्भवतीत्यभिप्रायेण तं श्रीहरिं विशिनष्टि– साङ्ख्यनिदर्शनाय इति ॥ साङ्ख्यं यथार्थज्ञानं स्वरूपविषयं निदर्शयति सम्यग्ज्ञापयति प्रदीपग्राहिवदिति साङ्ख्यनिदर्शनस् तस्मै । ‘बलमानन्द ओजश्च सहोज्ञानमनाकुलम् । स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद्विभोः ॥’ इति वचनात् । स्वरूपज्ञानमस्तीत्यत्र किं निदर्शनमित्यतो वा तत्स्थलमाह– साङ्ख्येति ॥ हरेर्ज्ञानं यथा तद्रूपमेवं जीवज्ञानमित्यर्थः । ‘सत्यं ज्ञानमनन्त ब्रह्म’ इति श्रुतेः । इदं च भगवत्पादाभिप्रेतम् इति ज्ञायते । तज्ज्ञानं तद्रूपमेव हीति ॥ अनेन यथा ब्रह्मज्ञानं ब्रह्मस्वरूपं तथा जीवज्ञानं जीवस्वरूपमेव । तत्र ब्रह्मज्ञानं नित्यं प्रकाशितं, जीवज्ञानं स्वादृष्टेन तिरोहितं श्रीहरिप्रसादेन प्रकाशितं भवतीति विशेषं हिशब्देन प्रथयति (‘असङ्ख्येया विशेषा व्यवर्तकधर्माः, असङ्ख्ये-यानि नामानि नारायणादीनि रूपाणि शुक्लादीनि च, असङ्ख्या आकृतयश्च यस्य तस्मिन् हरौ कविभिस्तत्वज्ञानिभिरियं श्रुत्यादिसिद्धा सङ्ख्या दशावतारा इत्यादिसङ्ख्या कल्पिता सत्यतया समर्थिता, विश्वस्थितिलक्षणरक्षणायेति शेषः । नेयं सङ्ख्या तात्विकीत्यत आह– ययेति ॥ यया दशद्वादशशतसहस्रेत्यादिरूपया सङ्ख्यया भवान् तत्वदृशा तत्वज्ञानिना, जातावेकवचनम् । विनीयते विशेषेण नीयते शिष्यप्रशिष्यादिषूपदिश्य प्रवर्त्यते । यद्वा दशावतारा इत्यादिसङ्ख्या यया तत्वदृशा भगवत्तत्वज्ञानेन विशेषेण अनन्तत्वेन नीयते प्रतिपाद्यते । दशादि-शब्दानामाननत्यवाचकत्वादिति यावत् । ‘एतावती हि सङ्ख्या । दशदशतस्तच्छतम् । दश शतानि तत् सहस्रम् । तत् सर्वम्’ इत्यादिश्रुतेः । तस्मै तादृशानन्तसङ्ख्याविषयतत्वज्ञान-स्वरूपाय नमः । साङ्ख्यम् एकचतुष्पञ्चदशावतारनामरूपादिषु अनन्तत्वेन यथार्थज्ञानं सज्जीवानां निदर्शयति प्रकाशयतीति तथा । साङ्ख्यं जीवस्वरूपविषयं च स्वामिभृत्यभावादिरूपं यथार्थज्ञानं निदर्शयति आविर्भावयतीति तथा । हिशब्देनात्र प्रमाणप्रसिद्धिं द्योतयति । उक्तं हि गौपवनश्रुतौ ‘बलमानन्द ओजश्च सहो ज्ञानमनाकुलम् । स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद् विभोः ॥’ इत्यादि । तत्र ब्रह्मज्ञानं नित्यं प्रकाशितं जीवस्वरूपभूतयथार्थज्ञानं स्वादृष्टेन तिरोहितं श्रीहरिप्रसादेन प्रकाशितं भवतीति विशेषं च हिशब्देन प्रथयति । उक्तं च चतुर्वेद-शिखायां ‘तस्य हवा एतस्य परमस्य त्रीणि रूपाणि कृष्णो रामः कपिल इति । तस्य हवा एतस्य परमस्य पञ्च रूपाणि दश रूपाणि शतरूपाणि सहस्ररूपाण्यमितरूपाणि । तानि हवा एतानि सर्वाणि पूर्णानि सर्वाण्यनन्तानि सर्वाण्यसम्मितानि’ इत्यादि ।’ इति कपाठः) ॥३३॥

प्रकाशिका

ननु भूयस इत्यनन्तरूपत्वमुक्तम् । तथात्वे दशावतारत्वादिप्रसिद्धेर-योगादित्याशङ्कां परिहरन्पुनर्नमति ॥ यस्मिन्निति । अत्रेयं सङ्ख्येत्येतदप्रतीत्या व्याख्याति ॥ दशेति । आदिपदेन पंचद्वादशशतसहस्रादिपरिग्रहः । विनीयत इत्यस्यापि प्रकृतोपयुक्तमर्थं दर्शयति । विनीयत इति । विशेषेणाधिकसङ्ख्यात्वेन नीयते ज्ञायत इत्यर्थः । यया तत्त्वदृशा येन तत्त्वज्ञानेन विनीयते तस्मै नम इत्युक्त्या तत्त्वज्ञानस्वरूपत्वं भगवत उच्यते । तत्कथ-मित्यतः श्रुत्यादौ प्रसिद्धत्वात्काऽत्र कथंतेत्याह ॥ तज्ज्ञानमिति । तज्ज्ञानं तत्त्वविषयकं भगवद्ज्ञानं तस्य भगवतः स्वरूपमेवेति हि विज्ञानमानन्दं ब्रह्मेत्यादि श्रुतिप्रसिद्धमित्यर्थः । अतो मूले यत्तच्छब्दाभ्यां तत्त्वज्ञानभगवतोरभेदोक्तिरुपपन्नेत्याशयः ॥

ततश्चायं श्लोकार्थः ॥ असङ्ख्येया विशेषा गुणा नामानि नारायणादीनि रूपाणि शुक्लादीन्याकृतयो विग्रहा यस्य तस्मिंस्त्वयि कविभिरियं श्रुत्यादिसिद्धा सङ्ख्या दशपञ्चद्वादश-शतसहस्रेत्यादिरूपा कल्पिता समर्थिता सत्यतयोपपादिता । कथम् । यतः सा सङ्ख्या तत्त्वदृशा भगवत्तत्त्वज्ञानेन विनीयते विशेषेणानन्तत्वेन नीयते ज्ञायते दशादिशब्दानामानन्त्य-वाचकत्वादित्याशयः । दशादावनन्तत्वेन ज्ञानस्य तत्त्वज्ञानतोपपादनाय यया तत्त्वदृशा विनीयते तस्मै तद्रूपायेति तत्त्वज्ञानस्य निर्दोषभगवदभेद उक्तः । ननु परापरतत्त्वसङ्ख्यापरिज्ञानं सांख्यशास्त्रजन्यं प्रसिद्धम् । तत्कथं भगवदभिन्नमित्यत उक्तम् ॥ साङ्ख्यनिदर्शनायेति । दर्शयतीति दर्शनः सांख्यशास्त्रस्य नितरां प्रवर्तकायेत्यर्थः । तथा चार्वाचीनानां तत्त्वज्ञानस्य सांख्यशास्त्रजन्यत्वेऽपि न भगवज्ज्ञानस्य तथात्वं तस्य तच्छास्त्रमूलत्वादित्युक्तं भवति ॥३३॥

उत्तरेषु कुरुषु भगवान्यज्ञपुरुषः कृतवराहरूप आस्ते । तं तु देवी हैषा भूः सह कुरुभिरस्खलितभक्तियोगेनोपधावति । इमां च परमामुपनिषदमावर्तयति

॥ ३४ ॥

प्रकाशिका

यज्ञपुरुषो यज्ञोपयुक्तपदार्थजनकदेहो ॥ ३४ ॥

पदरत्नावली

उपनिषदं षट्कर्णागोचरं मन्त्रम् ॥ ३४ ॥

ॐ नमो भगवते मन्त्रतत्त्वलिङ्गाय यज्ञक्रतवे महीधराय महापुरुषाय नमः कर्मशुक्लाय त्रियुगाय नमस्ते ॥ ३५ ॥

पदरत्नावली

मन्त्रतत्वलिङ्गाय मन्त्रतत्वमूर्तये मन्त्रार्थज्ञापनाय वा । यज्ञक्रतवे यज्ञ-सङ्कल्पविषयाय, कर्मणा क्रियया पराक्रमलक्षणया शुक्लाय शुद्धाय, त्रिषु युगेषु अवतारो यस्यासौ त्रियुगस्तस्मै (‘गायत्र्यादिमन्त्रैस्त्वेन लिङ्ग्यते ज्ञायते इति तथा । यज्ञा अयूपाः क्रतवः सयूपास्तत्प्रवर्तकाय कर्मणा पराक्रमलक्षणया शुक्लाय पवित्राय । कृतादीनि त्रीणि युगानि अवतारार्थं यस्य स तथा ।’ इति कपाठः) ॥ ३५ ॥

प्रकाशिका

मन्त्रतत्त्वलिङ्गाय मन्त्रतात्पर्यनिर्णायकलिङ्गवते । मन्त्रतात्पर्यविषयीभूत-देहायेति वा । यज्ञा अयूपाः सयूपाः क्रतवे तत्प्रवर्तकतया । तच्छब्दवाच्याय । यज्ञ-सङ्कल्पविषयायेति वा । शुक्लं शुद्धं कर्म यस्मात्स कर्मशुक्लस्तस्मै शुद्धकर्मप्रवर्तकाय । कृतादीनि त्रीणि युगान्यवतारार्थं यस्य स त्रियुगस्तस्मै ॥ ३५ ॥

यस्य स्वरूपं कवयो विपश्चितो गुणेषु योनिष्विव जातवेदसम् ।

मथ्नन्ति मथ्ना मनसा दिदृक्षवो गूढं क्रियार्थैर्नम ईरितात्मने ॥ ३६ ॥

तात्पर्यम्

क्रियार्थैर्यज्ञाद्यर्थैरिन्द्रादिनामभिरीरितात्मने ॥ ३६ ॥

पदरत्नावली

वनगोचरस्य वराहस्य मन्त्रतत्वलिङ्गादिकं कथमुपपद्यत इत्याशङ्क्य प्रेक्षावद्भिर्विमृग्य रूपत्वेन पुरुषोत्तमत्वावगमात् तदवतारत्वेनोपपद्यत इत्याह– यस्येति ॥ काव्यकर्तृत्वेन कवय इति, न तु वेदान्तवेद्यवस्तुज्ञत्वेन । अत्यन्यथाप्रतीतिनिरासाय– विपश्चित इति ॥ गुणेषु सत्वादिकार्येषु शरीरेन्द्रियादिषु नियामकत्वेन सन्निहितं यस्य तव स्वरूपं विपश्चितः कवयो मनसा मथ्ना योनिषु काष्ठेषु जातवेदसमग्निमिव मथ्नन्ति आम्रेड-यन्ति । विचार्य जानन्तीत्यन्वयः । शरीरादौ सन्निहितश्चेत् कुतो न प्रकाशत इति तत्राह– गूढमिति ॥ ‘एको देवः सर्वभूतेषु गूढः’ ‘इदं ज्योतिर्हृदय आहितं यत्’ इत्यादिश्रुतिः । क्रियार्थैर्यज्ञविषयैरिन्द्राग्न्यादिनामभिरीरितात्मने प्रतिपादितस्वरूपाय (‘विशेषं पश्यन्ति विप्रकृष्टं चिन्तयन्ति चेति विपश्चितो ऽध्यात्मपरनिष्ठिताः, कवयो भगवन्माहात्म्यसंस्तवनपरा ज्ञानिवराः, गुणेषु गुणकार्येषु शरीरेन्द्रियादिसङ्घातेषु गूढं यस्य हरेः स्वरूपं दिदृक्षवो मथ्ना विचारसाधनेन मनसा मथ्नन्ति उपक्रमादितात्पर्यलिङ्गैर्वेदं विचार्य जानन्तीत्यर्थः । ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च’, ‘इदं ज्योतिर्हृदय आहितं यत्’, ‘यो वेद निहितं गुहायां परमे व्योमन् सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चितेति’ इत्यादिश्रुतिभ्यो ऽत्र दृष्टान्तमाचष्टे– योनि-ष्विवेति ॥ कवयो ऽग्न्याधानादिकुशला मथ्ना मथनसाधनेन योनिषु अग्न्युत्पादनशक्तिमत्सु काष्ठेषु गूढं जातवेदसं वह्निं दिदृक्षवो मथ्नन्तीव । क्रियार्थैर्यज्ञक्रियार्थमुपयुक्तैरिन्द्राग्न्यादि-नामभिरपि मुख्यत ईरितात्मने प्रतिपाद्यस्वरूपाय नमः ।’ इति कपाठः)॥ ३६ ॥

प्रकाशिका

मन्त्रतत्त्वलिङ्गायेत्युक्तं विशदयति ॥ यस्य स्वरूपमिति । कवयो ज्ञानिनो विपश्चितो विचारशीलाः । गुणेषु देहेन्द्रियादिषु गूढं नियामकतया स्थितत्वेऽप्यव्यक्तं मनसा मनोरूपेण मथ्ना मथनसाधनेन योनिषु काष्ठेषु गूढं जातवेदसमग्निमिव मथ्नंत्युप-क्रमादिभिलिङ्गैर्वेदं विचार्य जानन्तीत्यर्थः। नन्वेवं विचार्यत्वं ब्रह्मकाण्डस्यैव न कर्मकाण्डस्य तत्र यज्ञाद्यङ्गेषु मन्त्रेष्विन्द्रादीनामेव प्रतिपाद्यतया प्रतीयमानत्वादित्यत उक्तम् ॥ क्रियार्थैरीरि-तात्मन इति । अत्र क्रियार्थैर्भावार्थैरीरितात्मन इत्यसङ्गतं भाति । ईरणस्य शब्दधर्मत्वादतोऽत्र विवक्षितमर्थं दर्शयति ॥ क्रियार्थैरिति । तथा च क्रियाशब्दः यज्ञादिकर्मवाची । अर्थशब्दः प्रयोजनवाची । तयोर्बहुव्रीहिस्तत्रान्यपदार्थभूतानीन्द्रादिनामानीत्युक्तं भवति । ततश्च क्रिया यज्ञादिकर्माणि । तन्निष्पत्तिरिति यावत् । अर्थः प्रयोजनं येषामिन्द्रादिनाम्नां तैरीरितात्मने मुख्यतः प्रतिपाद्यस्वरूपायेति मूलं व्याख्येयमिति भावः ॥ ३६ ॥

द्रव्यक्रियाहेत्वयनेशकर्तृभिर्मायागुणैर्वस्तुनिरीक्षितात्मने ।

तथैव तत्रातिशयात्मबुद्धिभिर्निरस्तमायाकृतये नमो नमः ॥ ३७ ॥

तात्पर्यम्

मायागुणैस्तदिच्छानुसारिभिः । ‘द्रव्येशः शङ्करः प्रोक्तः क्रियेशो गरुडः स्मृतः । कारणेशस्तथा ब्रह्मा वायुराधारकः स्मृत’ इति ब्रह्मतर्के ॥ ३७ ॥

पदरत्नावली

शरीरादिगूढेश्वरसद्भावे ब्रह्मादिप्रत्यक्षं च प्रमाणमित्याह– द्रव्येति ॥ द्रव्यक्रियाहेत्वयनेशाश्च ते कर्तारश्चेति तथा । ईशशब्दः प्रत्येकमभिसम्बध्यते । हेतुः कारणम् अयनमाध्याहारः । द्रव्यादीनामीशैः शङ्करगरुडब्रह्मवायुभिर्जगत्कर्तृभूतैर्मायागुणैर्हरीच्छानु– सारिभिर्वत्सु यथा तथा निरीक्षितात्मने साक्षात्कृतस्वरूपाय त्वत्प्रसादबलात् त्वत्साक्षात्कारे बुद्धिपाटवं चैषामस्तीत्याह– तत्रेति ॥ तत्र तव स्वरूपे यथा शक्त्याखिलविशेषदर्शन– पटुतरबुद्धिभिर् यदुच्यते ब्रह्मविवर्तवादिभिर्मायारूपमेव गृह्यते न तात्विकमिति तत्राह– निरस्तेति ॥ शङ्करादीनां द्रव्यादीशत्वं ‘द्रव्येशः शङ्करः प्रोक्तः क्रियेशो गरुडः स्मृतः । कारणेशस्तथा ब्रह्मा वायुराधारकः स्मृतः’ ॥ इति वाक्यसिद्धम् । यथैषां वस्तुनिरीक्षणं शक्यते तथेति । एवशब्देनान्येषामेतादृशशक्तिं निवारयति (‘बहूनां ज्ञानिवरेण्यानां बिम्बापरोक्षदर्शनेन निश्शङ्कं तत्साधने प्रवर्तितव्यं तदिच्छुभिरित्याशयेनाह– द्रव्येति ॥ द्रव्यक्रियाहेत्वयनेशाश्च ते कर्तारश्च तैः । तत्र द्रव्येशः शङ्करः, क्रियेशः गरुडः, हेतुः कारणं तदीशो ब्रह्मा, अयनमा-धारस्तदीशो वायुरेतैर्जगत्कर्तृभूतैः । यथोक्तं ब्रह्मतर्के ‘द्रव्येशः शङ्करः प्रोक्तः क्रियेशो गुरुडः स्मृतः । कारणेशस्तथा ब्रह्मा वायुराधारकः स्मृतः ॥’ इति । एतैर्जगत्कर्तृभूतैर्ब्रह्मादिभिर्यथा वस्तु विद्यते तथैव निरीक्षितात्मने साक्षात्कृतस्वरूपाय । द्रव्येशादीनामपि नैव स्वातन्त्र्य-मित्याशयेनाह– मायागुणैरिति ॥ भगवदिच्छानुसारिभिः । त्वत्प्रसादबलात् त्वत्साक्षात्कारे बुद्ध्यादिपाटवं चैषामस्तीत्याह– तत्रेति ॥ तत्र भगवद्विषये अतिशयेन इतरेभ्योऽनेकगुणाधिक-तयैव आत्मनः परमात्मनो बुद्धिर्येषां तैः । एवमितरेभ्योऽनेकगुणाधिकतया प्रमाणगण-निर्णीततत्वनिश्चयवद्भिर्ब्रह्मादिभिरप्राकृतदिव्यविग्रहो नित्यनिरस्तसमस्तदोषो हरिरतिशयेना-परोक्षीक्रियत इत्याशयेनाह– निरस्तेति ॥ नित्यमेव निरस्ता माया प्राकृती आकृतिर्यस्मात् तस्मै । अत एव ‘जातवेदसमिव’ इति प्राकृतस्थूलविग्रहवदग्निदृष्टान्तग्रहणमात्रेण हरेरपि न प्राकृतविग्रहवत्त्वं ज्ञातव्यम् । किन्तु गूढत्वमथनाभिव्यक्तत्वमात्रेणाग्निदृष्टान्तग्रहणमिति मन्तव्यम् ।’ इति कपाठः) ॥ ३७ ॥

प्रकाशिका

मथ्नतां विपश्चितां के प्रवरा इत्यतस्तान्दर्शयन्ती प्रणमति ॥ द्रव्येति । अत्र मायागुणैरित्यस्य प्रकृतोपयुक्तमर्थं दर्शयति ॥ मायागुणैरिति । अनेन मायाया भगवत इच्छाया गुणा अप्रधानास्तदनुसारिण इति यावदिति मूलं व्याख्येयमिति सूचयति । द्रव्यक्रियाहेत्वयनेशेत्यस्य प्रकृतसङ्गतमर्थं प्रमाणेनैव दर्शयति ॥ द्रव्येश इति । अनेन द्वन्द्वान्ते श्रूयमाण ईशशब्दः प्रत्येकमभिसम्बध्यत इति दर्शयति । कारणेश इत्युक्त्या हेतुशब्दः कारणपर इति सूचयति । आधारक इत्यनेनायनेश इत्येतदुक्तार्थम् ॥ ततश्चायं श्लोकार्थः ॥ तत्र विपश्चित्स्वतिशयेनात्मनः परमात्मनो बुद्धिर्येषां तैर्मायागुणैर्भगवदिच्छानुसारिभिः । अनेन द्रव्येशादीनामस्वातन्त्र्यमुक्तम् । द्रव्यक्रियाहेत्वयनेशाश्च ते कर्तारश्च तैः । अत्रेशपदं प्रत्येक-मभिसम्बध्यते । द्रव्येशः शङ्करः क्रियेशो गरुडः । हेतुशब्दः कारणपरः । कारणेशो ब्रह्माऽय-नमाधारस्तदीशो वायुरेतैर्जगत्कर्तृभूतैर्यथावस्तु तथैव निरीक्षितात्मने दृष्टदेहाय । स देहो न प्राकृतदेह इत्याह ॥ निरस्तेति । निरस्ता दूरीकृता माया मायानिर्मिताऽऽकृतिर्येन तस्मै । नमो नम इति द्विरुक्तिरादरार्था ॥ ३७ ॥

**करोति विश्वस्थितिसंयमोदयं यथेप्सितं नेक्षितुमीश ते गुणैः । **

माया यथाऽयो भ्रमते यदाश्रया ग्राव्णो नमस्ते गुणकर्मसाक्षिणे ॥ ३८ ॥

पदरत्नावली

ब्रह्मादीनामपि त्वत्कटाक्षलेशमन्तरेण त्वज्ज्ञानादौ पाटवं नास्ति । निर्मातृत्वं च मुख्यम् । तवैवेत्यभिप्रेत्याह– करोतीति ॥ यो विश्वस्य स्थित्यादिकं करोति ब्रह्मादयश्च यस्य तवेप्सितमीक्षितुं नेशते । सत्वादिगुणैर्मोहितत्वादिति शेषः । ब्रह्मादीनामपि तदीप्सितज्ञानशक्त्यभावेऽपि लक्ष्म्याः साऽस्तु तदनुवर्तमानत्वादित्याशङ्क्याह– मायेति ॥ यदाश्रया यस्त्वमाश्रयो यस्याः सा तथा, माया लक्ष्मीर्भ्रमति अनन्तत्वात्स्वरूपं न परिच्छिनत्ति । अनुवृत्तिरपि न स्वाधीना किन्तु हर्यधीनेत्यत्र दृष्टान्तमाह– यथेति ॥ अयस्कान्तरत्नसन्निधानाद्यथाऽयो भ्रमते चेष्टते तथेयमपि त्वत्सन्निधानात्त्वामनुवर्तत इत्यर्थः । त्वत्सन्निधानाभावे जडप्रायेति द्योतनायायोनिदर्शनमिति भावः । अनेन त्वत्सन्निहित-लक्ष्मीसन्निधानाज् जडप्रकृतिः कार्येषु प्रवर्तते । तत्रेदं निदर्शनमिति चोक्तं भवति । तथा च योजना– यस्य तवाश्रयाश्रया माया जडप्रकृतिर्भ्रमतीति अयस्कान्तस्य अयश्चेष्टकत्वशक्ति-रीश्वरनियतेति ज्ञापनाय यदाश्रयेति । अत एव ग्राव्ण इति ॥ अयस्कान्ते सन्निधाय द्रव्यान्तरचेष्टाशक्तिप्रदत्वात्तद्वत्स्थिरत्वाद्वा तच्छब्दवाच्याय, एतदेव सूचितम्– गुणकर्मेति ॥ चेतनाचेतनाश्रयगुणकर्मणोः साक्षिणे । कर्तृत्वेनेति शेषः (‘ननु विरिञ्चिवैरिञ्चिप्रभृतीनां श्रीहरीच्छानुसारित्वेनास्वातन्त्र्येऽपि विश्वसृष्ट्यादिकर्त्र्या लक्ष्म्याः स्वातन्त्र्यमस्त्वित्याशङ्कायां साऽपि श्रीहरिकरुणाश्रयेणैव चेष्टत इति सदृष्टान्तमाचष्टे– करोतीति ॥ यस्य जगज्जन्माद्यष्ट-कर्तुरीक्षितुः स्वाश्रितश्रीब्रह्मादिभूत्यै द्रष्टुरीक्षणमात्रेण माया श्रीर् गुणैः सत्त्वादिभिर् विश्वस्य स्थितिसंयमोदयं, द्वन्द्वैकवद्भावः । करोतीत्यन्वयः । ‘विश्वस्थितिप्रलयसर्गमहाविभूतिवृत्ति-प्रकाशनियमावृतिबन्धमोक्षाः । यस्या अपाङ्गलवमात्रत ऊर्जिता सा श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥’ इत्यादेः । नन्वस्तु हरेरेव स्वातन्त्र्येण जगज्जन्माद्यष्टकर्तृत्वं, तथाप्याप्तकामत्वात् तस्य सृष्ट्यादिना किं प्रयोजनमिति चेत् स्वाश्रितजनश्रेयस्य एव तदीप्सितमित्याह– ईप्सितमिति ॥ स्वप्रयोजनार्थमनीप्सितमित्याह– नेप्सितमिति ॥ ‘देवस्यैष स्वभावोऽय-माप्तकामस्य का स्पृहा’, ‘सृष्ट्यादिकं हरिर्नैव प्रयोजनमपेक्ष्य तु । कुरुते केवलानन्दाद् यथा मत्तस्य नर्तनम् ॥ पूर्णानन्दस्य तस्येह प्रयोजनमतिः कुतः । मुक्ता अप्याप्तकामाः स्यु किमु तस्याखिलात्मनः ॥’ इत्यादिश्रुतिभ्यः । तथा ग्राव्णो ऽयस्कान्तात् तदाश्रयं तत्सन्निहितमयो लोहं भ्रमते चेष्टते तथा हरेरपाङ्गलवमात्रत एव माया प्रकृतिः प्रवर्तत इति यावत् । हरेः सर्वोत्तमत्वमुपपादयति– गुणेति ॥ समस्तचेतनगुणक्रियासाक्षिण इत्यर्थः ।’ इति कपाठः)

॥ ३८ ॥

प्रकाशिका

ननु ब्रह्मादीनां भगवदिच्छानुसारित्वेनास्वातन्त्र्येऽपि रमाया जग-त्स्थित्यादिकर्त्र्याः स्वातन्त्र्यमस्त्वित्याशङ्कायां साऽपि भगवदाश्रयेणैव चेष्टत इति सदृष्टान्त-मुक्त्वा पुनः प्रणमति ॥ करोतीति । माया रमा यद्यपि विश्वस्य स्थितिसंयमोदयम् । द्वन्द्वैक-वद्भावः । करोति तथाऽपि गुणैर्ज्ञानानन्दादिभिर्यथेप्सितं तथेक्षितुं हरिं द्रष्टुं नेशते । तस्या अपि तद्विषये ज्ञातव्यमवशिष्टमस्तीति भावः । अनेनासर्वज्ञत्वोक्त्या वक्ष्यमाणं तदाश्रयत्वमुपपादित-मिति ज्ञातव्यम् । यथाऽयोलोहं ग्राव्णो ऽयस्कान्ताद्भ्रमते चेष्टते । तथा यदाश्रया यस्य हरेराश्रयो यस्याः सा । भ्रमते तस्मै नम इत्यन्वयः । यथा रमा साकल्येन हरिगुणादिकं न जानाति । तथा हरिरपि किं स्वात्मगुणादिकं न जानाति । नेत्याह ॥ गुणेति । स्वकीयगुणकर्मणां साक्षिणे साक्षाद्द्रष्ट्रे । अथवा हरे रमाद्युत्तमत्वमुपपादयति ॥ गुणेति । रमादिचेतनगुणक्रियासाक्षिण इत्यर्थः ॥ ३८ ॥

प्रमथ्य दैत्यं प्रतिवारणं मृधे यो मां रसाया जगदादिसूकरः ।

कृत्वाऽग्रदंष्ट्रे निरगादुदन्वतः क्रीडन्निवेभः प्रणतास्मि तं विभुम् ॥ ३९ ॥

॥ इति श्रीमद्भागवतमहापुराणे पञ्चमस्कन्धे अष्टादशोऽध्यायः ॥

पदरत्नावली

प्रतिवारणं प्रतिगजस्थानीयं निरस्तनिवारणं वा । अग्रदंष्टे्र दंष्ट्राग्रे जगदादिः श्रीनारायण एव सूकरः जगदादिश्चायं सूकरश्च सुष्ठु करोतीति सूकर एव सूकरः शुमित्यनुकारं शब्दं करोतीति सूकरो वराहः । ‘बवौ शसाविति प्राच्याः’ इति सूत्रात् शसयोरभेदः (‘यो जगतामदिः कारणभूतः सूकरो वराहविग्रहो मां पृथिवीमग्रदंष्ट्रे दंष्ट्राग्रे कृत्वा स्थापयित्वा रसाया रसातलादाराभ्य उदन्वतः समुद्रात् क्रीडन्निभो गज इव निरगात् । ततश्च प्रतिवारणं प्रतिगजमिव स्थितं दैत्यं हिरण्याक्षं मृधे युद्धे प्रमथ्य संहृत्य स्थितस्तं विभुं समर्थं प्रणताऽस्मि ।’ इति कपाठः) ॥ ३९ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

पञ्चमस्कन्धे अष्टादशोऽध्यायः ॥

प्रकाशिका

इदानीमवतारकर्म विज्ञापयन्ती प्रणमति ॥ प्रमथ्येति । यो जगतामादिः कारणभूतः सूकरः सूकराकारविग्रहो मां पृथिवीम् । अग्रदंष्ट्रे दंष्ट्राग्रे कृत्वा स्थापयित्वा रसाया रसातलाद्रसातलमारभ्योदन्वतः समुद्रात् । इभो गज इव निरगात् । ततश्च मृधे युद्धे प्रतिवारणं प्रतिगजमिव स्थितं दैत्यं हिरण्याक्षं प्रमथ्य दंष्ट्रया हत्वा यः क्रीडन् स्थितस्तं विभुं प्रणतास्मीत्यन्वयः ॥ ३९ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागतटिप्पण्यां प्रकाशिकायां पञ्चमस्कन्धे अष्टादशोऽध्यायः ॥ १८ ॥