तत्र भगवतः साक्षाद्यज्ञलिङ्गस्य विष्णोर्विक्रमतो
॥ अथ सप्तदशोऽध्यायः ॥
श्रीशुक उवाच–
तत्र भगवतः साक्षाद्यज्ञलिङ्गस्य विष्णोर्विक्रमतो वामपादाङ्गुष्ठनखनिर्भिन्नो-र्ध्वाण्डकटाहविवरेणान्तःप्रविष्टा या बाह्यजलधारा तच्चरणपङ्कजावनेजनारुण-किञ्जल्कोपरञ्जिताखिलजगदघमलापहोपस्पर्शनामला साक्षाद्भगवत्पदीत्यनुप-लक्षितवचोभिरभिधीयमानातिमहता कालेन युगसहस्रोपलक्षणेन दिवो मूर्धन्यवततार यत्तद्विष्णुपदमाहुः ॥ १ ॥
तात्पर्यम्
‘वाराहे वामपादं तु तदन्येषु तु दक्षिणम् । पादं कल्पेषु भगवानुज्जहार त्रिविक्रम’ इति च ॥ १ ॥
पदरत्नावली
अयत्नेन भागीरथीजलनिषेवया निर्मलान्तःकरणस्य पुंसो हरौ निरतिशयभक्तिः स्यादिति तन्महिमगर्भस् तदवतारो निरूप्यतेऽस्मिन्नध्याये । तत्र इत्यादिना ॥ या बाह्यजलधारा अण्डकटाहाद्बहिःस्थिता जलस्य निरन्तरसम्पातरूपा सा यत्तद्विष्णुपदं शिंशु-मारात्मनो हरेः स्थानमाहुः । तत्र दिवोऽन्तरिक्षस्य मूर्धनि ध्रुवलोके अवततार प्रकाशित-स्वरूपाऽभूदित्यन्वयः । स्वतोऽमला धवला तथाप्यरूणैवेत्याह– तच्चरणेति ॥ यस्य हरेश्चरण-रक्तपद्मयोरवनेजनेन प्रक्षालनेन चरणतललग्नरजोमिश्रितत्वादरुणकिञ्जल्करजसोपरञ्जिता रागीकृतेव तर्हि तन्निषेविणां रागजनकत्वेन पापजननी स्यादित्यत उक्तम्– अखिलेति ॥ अखिलजगतः पापमलापहमुपस्पर्शनं यस्याः सा तथा । आचमनमात्रेण सर्वपापक्षयकरा किमुत स्नानादि-नेत्यर्थः । नामकीर्तनादपि दुरितहरा किमुत स्पर्शनादिनेति भावेनाह– साक्षादिति ॥ अनुपलक्षितवचोभिरुपलक्षणरहितवचोभिर्वेदपुराणगतैः शालग्रामशिलाभिषेकजलस्य पादोदक-त्वमिवौपचारिकं न भवतीत्यतः साक्षादनुपलक्षितेति पदद्वयम् । कल्पभेदाद्वामपादेति व्यत्य-स्योक्तः न त्वेकस्मिन्कल्प इति । तदुक्तम्– ‘वाराहे वामपादं च तदन्येषु च दक्षिणम् । पादं कल्पेषु भगवानुज्जहार त्रिविक्रमः ॥’ इति (‘पद्मनाभस्य दिव्यपदपद्मरजस्संलग्नसुरसारितः पावनोदकस्नानपानादिना निर्मलान्तःकरणस्य पुंसो हरौ दृढतरभक्तिज्ञानादिगुणाभिवृद्धिद्वारा मुक्तिः स्यादिति तद्विष्णुपदीमहिमगर्भस्तदवतारो निरूप्यतेऽस्मिन्नध्याये ।
तत्रादाविावृते चतुर्दिक्षु गङ्गागमनप्रकारं वक्तुमुपक्रमते– यत्रेति ॥ यज्ञलिङ्गस्य यज्ञमूर्तेः । बलेर्यज्ञे गृहीतं लिङ्गं वामनरूपं येन तस्येति च । विक्रमतो दक्षिणेन पदा भुवमाक्रम्य वामपादमुत्क्षिपतो वामपादाङ्गुष्ठनखेन निर्भिण्णमूर्ध्वमुपरिभागो यस्य तस्याण्डकटाहस्य विवरेणान्तःप्रविष्टा या बाह्यजलधारा सा दिवो मूर्धन्यवततारेत्यन्वयः । तस्य त्रिविक्रमरूपिणो विष्णोश्चरणपङ्कजस्यावनेजनेन प्रक्षालनेन ये चरणतललग्नपांसवस्त एव किञ्जल्ककुङ्कुमानि केसरकुङ्कुमानि तैरुपरञ्जिता अरुणीकृता । अत एवाखिलस्य जगतोऽघमलापहमुपस्पर्शनमाचमनं यस्याः सा तथा । भक्त्याऽऽचमनमात्रेण सर्वपापक्षयकरा, किमुत स्नानादिनेत्यर्थः । स्वत एवामला । सालग्रामप्रतिमापादोदकवैलक्षण्यद्योतनायाह– साक्षादिति ॥ साक्षात्पादसम्बन्धाद् भगवत्पदीत्यानुपलक्षितं जाह्नवीभागीरथीत्यादिनाम्नां धरण्यवततरणानन्तरजातत्वात् तत्समये तदुपलक्षणरहितं यद् वचो नाम तेनाभिधीयमाना । ननु कथमत्र ऊर्ध्वाण्डकटाहस्य विष्णोर्वाम-पादाङ्गुष्ठनखनिर्भिन्नत्वमुच्यते ? ग्रन्थान्तरे दक्षिणपादाङ्गुष्टनिर्भिन्नत्वस्योक्तत्वेन तद्विरोधादिति चेदत्रोक्तं ब्रह्माण्डे ‘वाराहे वामपादं तु तदन्येषु च दक्षिणम् । पादं कल्पेषु भगवानुज्जगाह त्रिविक्रमः ॥’ इति ॥ एवञ्च कल्पभेदाद् वामपादेत्युक्तं युक्तम् । कोऽसौ दिवो मूर्धेत्यत आह– यदीति ॥ विष्णोः शिंशुमारात्मनो हरेः पदं स्थानमाहुः ।’ इति कपाठः) ॥ १ ॥
प्रकाशिका
॥ हरिः ॐ ॥ इलावृते चतुर्दिक्षु गङ्गागमनप्रकारं वक्तुमाह ॥ तत्रेति । बलेर्यज्ञे लिङ्गं वामनरूपं यस्य विक्रमतो दक्षिणेन पदा भुवमाक्रम्य वामपादमुत्क्षिपतो वाम-पादाङ्गुष्ठनखेन निर्भिन्नमूर्ध्वमुपरिभागो यस्याण्डकटाहस्तस्य विवरेणान्तःप्रविष्टा या बाह्यजलधारा सा दिवो मूर्धन्यवततारेत्यन्वयः । कथंभूता । तस्य यच्चरणपङ्कजं तस्यावनेजनेन प्रक्षालनेनारुणा ये पादतललग्नपांसवस्त एव किञ्जल्कास्तैरुपरंजिताऽरुणीभूता । अत एवाखिलस्य जगतोऽ-घमलापहमुपस्पर्शनमाचमनं यस्याः सा । अघमान्तरं मलं बाह्यं तथाऽपि स्वयममला तत्पाप-सङ्गशून्या । तदा तस्या नामाह ॥ साक्षादिति । प्रतिमापादोदकवैलक्षण्यप्रदर्शनाय साक्षा-दित्युक्तम् । अनुपचारेणेत्यर्थः । भगवत्पदीत्यनुपलक्षितं यद्वचो जान्हवी भागीरथीत्याद्युप-लक्षणान्तररहितं नाम तेनाभिधीयमाना तस्मिन्समये भगवत्पदीत्यैव नाम न जान्हवीत्यादीनि नामानीति भावः । दिवोऽन्तरिक्षस्य मूर्धन्यवततार प्रकाशितस्वरूपाऽभूदित्यर्थः । नन्वत्र वामपादांगुष्ठेति किमर्थमुक्तमित्यतोऽत्राभिप्रायं प्रमाणेनैव दर्शयति ॥ वाराह इति । तुशब्दोऽव-धारणे । तदन्येषु प्रतिदिनं जायमानेषु कल्पेषु वामपादेन भुवमाक्रम्य दक्षिणपादमुज्जहार । वाराहे तु वामपादमेवोज्जहारेत्यर्थः । तथा चेमं विशेषमभिप्रेत्य मूले वामपादेत्युक्तमिति भावः । कोऽसौ दिवो मूर्धेत्यपेक्षायामाह ॥ यत्तद्विष्णुपदमिति । विष्णोः शिंशुमारस्य पदं स्थानं यद्विष्णुपदं तद्दिवो मूर्धनीत्यत्र विवक्षितमाहुरित्यर्थः ॥ १ ॥
यत्र हवा व वीरव्रत औत्तानपादिः परमभागवतोऽस्मत्कुलदेवताचरणार-विन्दोदकमिति यामनुसवनमुत्कृष्यमाणभगवद्भक्तियोगेन दृढं क्लिद्यमानान्तर्हृदय औत्कण्ठ्याद्विवशामीलितलोचनयुगलकुड्मलविगलितामलबाष्पकलयाऽभिव्यज्यमानरोम-पुलककुलक अधुनापि परमादरेण शिरसा बिभर्ति ॥ २ ॥
पदरत्नावली
यत्र ध्रुवलोके (‘यत्र ध्रुवलोके । वीराणामारब्धान्तगामिनां व्रतं यस्य स तथा । औत्तानपादिर्ध्रुवः । अनुसवनम् ।’ इति कपाठः) ॥ २ ॥
प्रकाशिका
किं तच्छिंशुमारस्थानमित्यतो ध्रुवलोक एवेत्याशयेनाह ॥ यत्र हवा वेति । यत्र विष्णुपदे वीरव्रत आरब्धान्तगामिनां व्रतं यस्यौत्तानपादिर्ध्रुवः । अस्मत्कुले देवताया हरेश्चरणारविन्दोदकमिति हेतोर्यामनुसवनं प्रतिदिनं त्रिषवणमिति वा । परमादरेण बिभर्तीत्यर्थः । कथंभूतः सन् । अनुवसनमुत्कृष्यमाणेन वर्धमानेन भक्तिलक्षणयोगेन दृढमत्यन्तं क्लिद्यमानमन्तर्हृदयं यस्य । अत एवोक्तमौत्कण्ठ््येन विवशामीलितं यल्लोचनयुगलं तदेव कुड्मले ताभ्यां विगलितममलं बाष्पं तस्य कलया सहाभिव्यज्यमानं रोमकुलकानां कुलं समूहो यस्य । ततो ध्रुवलोकादधः पतन्ती ॥ २ ॥
**तत ऋषयस्तत्प्रभावज्ञा ऋषिलोके इयं ननु तपस आत्यन्तिकी सिद्धि-रेतावतीति भगवति सर्वात्मनि वासुदेवेऽनवरतभक्तियोगलाभेनैवोपेक्षिता-न्यार्थात्मगतयो मुक्तिमिवागतां मुमुक्षवः सबहुमानमेवाद्यापि जटाजूटैरुद्वहन्ति **
॥ ३ ॥
पदरत्नावली
ततो ध्रुवलोकात् । उपेक्षिता अन्यार्था अन्यविषया आत्मगतिः (‘आत्मगतिः स्वप्रवृत्तिः’ इति कपाठः) यैस्ते तथा ॥ ३ ॥
प्रकाशिका
ऋषयः सप्तर्षयस्तस्या गङ्गायाः प्रभावाभिज्ञाः सन्तो यां जटाजूटै-रुद्वहन्तीत्यन्वयः । तपसाऽऽत्यन्तिकी सिद्धिरेतावती नन्वित्यभिप्रायवन्तः । उपेक्षिता अन्यार्था अन्यपुरुषार्था आत्मगतिरात्मज्ञानं स्वप्रवृत्तिर्वा येषाम् । मुमुक्षुव आगतां मुक्तिमिव सबहुमानं यथा स्यात्तथा ॥ ३ ॥
ततोऽनेकसहस्रकोटिविमानानीकसङ्कुलदेवयानेनावतरन्तीन्दुमण्डलमाप्लाव्य ब्रह्मसदने निपतति ॥ ४ ॥
पदरत्नावली
ततः सप्तर्षिलोकात् । देवयानेन मार्गेण इन्द्रादिपुरसम्बन्धेन । ब्रह्मसदने मेरुमध्यस्थिते शतकोटिनामि्न पुरे ॥ ४ ॥
प्रकाशिका
ततः सप्तर्षिलोकाद्देवयानेनेन्द्रादिपुरसम्बन्धेनाकाशमार्गेण ब्रह्मसदने मेरु-मध्यस्थिते शतकोटिनामि्न पुरे निपतति ॥ ४ ॥
तत्र चतुर्धा भिद्यमाना चतुर्भिर्नामभिश्चतुर्दिशमभिस्यन्दती नदीनदपति-मेवाभिनिविशति सीतालकनन्दा चक्षुर्भ्रद्रेति ॥ ५ ॥
पदरत्नावली
तत्र ब्रह्मसदनाङ्गणे । नदनदीपतिं समुद्रम् ॥ ५ ॥
प्रकाशिका
अभिस्यन्दत्यभितो गच्छन्ती । नदीनदपतिं समुद्रम् । सीताऽलकानन्दा चक्षुर्भद्रेति चतुर्भिर्नामभिश्चतुर्दिशमभिस्यन्दती ॥ ५ ॥
सीता तु ब्रह्मसदनात्केसराद्रिशिखरेभ्योऽधोऽधः पतन्ती गन्धमादनमूधर्ि्न पतित्वान्तरेण भद्राश्वं वर्षं प्राच्यां दिशि क्षाररससमुद्रं प्रविशति ॥ ६ ॥
एवं माल्यवच्छिखरान्निष्पतन्त्यनुपरतवेगा केतुमालामभिचक्षुः प्रतीच्यां दिशि सरित्पतिं प्रविशति ॥ ७ ॥
**भद्राचोत्तरतो मेरुशिरसो निपतन्ती गिरिशिखराद्गिरिशिखरमतिहाय शृृङ्गवतः शृृङ्गादभिस्यन्दमाना उत्तरांस्तु कुरूनतिक्रम्योदीच्यां दिशि लवणार्णवं प्रविशति **
॥ ८ ॥
पदरत्नावली
चतुर्द्धा भिन्नाया गङ्गाया गतिभेदमाह– सीतेति ॥ क्षाररससमुद्रं लवणसमुद्रम् ॥
मेरुशिरसो व्योम्नानि पन्तती नीलगिरिशिखरे पतित्वा ततो नीलगिरिशिखरादाकाशेन श्वेतगिरिशिखरमवस्यन्दमाना पुनस्तदप्यतिहाय अतिक्रम्याकाशेन शृृङ्गवतः शृृङ्गं प्राप्ता ततोऽपि स्यन्दमानोत्तरकुरूनतिक्रम्य निषधस्य गिरेर् बहूनि कूटानि शृृङ्गाण्यतिक्रम्याकाशेन हेमकूट-हिमाचलयोर्गिर्योर्मध्ये व्योम्ना पतन्ती कूटान्यतिक्रम्य (‘केसरगिरिशिखरान्नीलगिरिशिखरं, तस्माच्च श्वेतशिखरं, तस्माच्छृंङ्गवतः शृङ्गं प्राप्तेत्यर्थः ।’ इति कपाठः) ॥ ६-८ ॥
प्रकाशिका
नदी नदपतिमेवाभिनिविशतीत्युक्तमेव विशदयति ॥ सीता त्वित्यादिना । केसराद्रिशिखरेभ्य इत्युक्त्या केसरपर्वतानां गन्धमादनादिभ्योऽप्युच्चत्वं ज्ञापयति । अन्तरेण भद्राश्वं तन्मध्ये प्राच्यां दिशि विद्यमानम् । एवमग्रेऽपि ॥ चक्षुश्चक्षुःसंज्ञा । गिरिशिखर-मित्यादि । केसरगिरिशिखरान्नीलसंज्ञगिरिशिखरम् । तस्माच्च श्वेतशिखरम् । तस्माच्छृङ्गवतः शिखरमित्यर्थः । तमप्यतिहायातिक्रम्य शृृङ्गवन्तम् प्राप्तेति शेषः ॥ ६-८ ॥
तथैवालकनन्दा दक्षिणेन तु ब्रह्मसदनाद्बहूनि गिरिकूटान्यतिक्रम्य निषध-हेमकूटहिमकूटान्यतिरभसतररंहसा लुठन्ती भारतमेव वर्षं दक्षिणस्यां दिशि जलनिधिं प्रविशति ॥ ९ ॥
पदरत्नावली
रभसतरः सभ्रमातिशयस्तस्य वेगेनोपर्यधः पाषाणशिखरेषु लुठन्ती स्खलित्वा परिवर्तमाना ॥ ९ ॥
प्रकाशिका
गिरिकूटानि गिरीणां शृृङ्गाणि । हिमालयशृृङ्गाणि । अतिरभसतररंहसाऽ-त्यन्तमाटोपातिशयस्य वेगेन लुठन्ती भिन्दन्ती ॥ ९ ॥
अन्ये नदा नद्यश्च वर्षेऽस्मिन्सन्ति बहुशो मेर्वादिगिरिदुहितरो ऽत्रापि जम्बूद्वीपे भारतमेव वर्षं कर्मक्षेत्रम् अथान्यान्यष्टवर्षाणि स्वर्गिणां पुण्यशेषोप-भोगस्थानानि भौमानि स्वर्गपदानि व्यपदिशन्ति ॥ १० ॥
पदरत्नावली
नवानां वर्षाणां विशेषमाह– अत्रापीति ॥ कर्मक्षेत्रं पुण्यपापलक्षण कर्माचरणस्थानं व्यपदिशन्ति । अन्यान्यष्टवर्षाणि स्वर्गिणां पुण्यकर्मणा स्वर्गं प्राप्तानां, तत्र स्थित्वा पुण्यफलभोगयोग्यानां स्वर्गप्राप्त्यवशिष्टपुण्यानुभवस्थानानि व्यपदिशन्तीत्यन्वयः । किं नामानीत्यत्राह– भौमानीति ॥ भूमिसम्बन्धदुःखादिसम्भिन्नस्थानानि (‘दिव्यभौमबिलभेदात् त्रिविधः स्वर्गः । तत्र भौमस्वर्गस्य पदानि स्थानानि व्यपदिशन्ति’ इति कपाठः) ॥ १० ॥
प्रकाशिका
बहुशो बहुधा मेर्वादिगिरीणां दुहितरस्तत्प्रसूताः । कर्मक्षेत्रं कर्माचरण-स्थानम् । स्वर्गिणां पुण्यशेषोपभोगस्थानानि स्वर्गप्राप्त्यनन्तरमवशिष्टपुण्यभोगस्थानानीत्यर्थः । दिव्यभौमबिलभेदात्त्रिविधः स्वर्गः । तेषु भौमानि स्वर्गपदानि । भौमस्वर्गपदवाच्यानीत्यर्थः
॥ १० ॥
येषु पुरुषाणामयुतवर्षायुषां देवकल्पानां नागायुतप्राणानां वज्रसंहनन-बलवयो-मोदप्रमुदितमहासौरतनिरतनरवरावरोधमिथुनव्यवायापवर्गधृतैकगर्भ-कलत्राणां त्रेतायुग समः कालो वर्तते ॥ ११ ॥
पदरत्नावली
येषु वर्षेषु वसतां त्रेतायुगसमः कालो वर्तत इत्यन्वयः । नरवरावरोधे राजयोग्यगृहे मिथुनानां यो व्यवायः ग्राम्यधर्मलक्षणा रतिस्तस्यापवर्गे अवसाने धृत एकगर्भो यैस्तानि धृतैकगर्भाणि तानि च कलत्राणि येषां ते धृतैकगर्भकलत्रास्तेषाम् । वज्रवद्दृढं संहननं शरीरं बलं वयश्च मोदश्च साधारणं सुखं प्रमुदितं प्रमोदः विशिष्टसुखं च येषां ते तथा । महासौरतं निरन्तरसुरतक्रिया तस्यां निरताश्च वज्रसंहननबलवयोमोदप्रमुदिताश्च महासौरतनिरताश्च नरवरावरोधमिथुनव्यवायापवर्गधृतैकगर्भकलत्राश्च ते तथा तेषाम् (‘येषु वर्षेषु वसतां पुरुषाणां त्रेतायुगसमः कालो वर्तत इत्यन्वयः । नागायुतस्य हस्तिदशसहस्रस्य प्राणो बलं येषां ते तथा । प्राणो बलं द्युम्नमोजः’ इत्युत्पलमाला । वज्रवद् दृढं संहननं शरीरं तस्मिन् बलं च, वयश्च, मोदश्च आमोदश्च तैः प्रमुदितानि यानि महासौरतानि मिथुनानि येषां व्यवायापवर्गे सम्भोगावसाने एकवर्षशेषे आयुषि धृत एको गर्भो यैस्तादृशानि कलत्राणि येषां तेषाम् ।’ इति कपाठः) । बहुगर्भधारणे देहशैथिल्यात् कलत्रतारुण्यनाशात् सम्भोगानुपपत्तिभयात्तदवसाने सन्तत्यर्थमेकमेव गर्भं धारयन्तीति किं वदन्ती ॥ ११ ॥
प्रकाशिका
येषु वर्षेषु वसतां पुरुषाणां त्रेतायुगसमः कालो वर्तत इत्यन्वयः । नागायुतप्राणानामयुतगजबलानामित्यर्थः । वज्रवद्दृढं संहननं शारीरबलं च वयश्च मोदश्च तैः प्रमुदिता महत्सौरतमतिशयितसुरतक्रिया तस्यां निरताश्च नरवरो राजा । अवरोधस्तत्स्त्रीलक्षणं यन्मिथुनं तद्योग्यो यो व्यवायो मैथुनकर्म तदपवर्गे धृत एको गर्भो यैस्तानि धृतैकगर्भाणि तानि कलत्राणि येषां ते तथा प्रमुदिताश्च ते महासौरतनिरताश्च ते नरवरावरोधमिथुनव्यवायापवर्ग-धृतैकगर्भकलत्राश्च ते तथा तेषां बहुगर्भधारणे देहशैथिल्येन तारुण्यभङ्गे सम्भोगानुपपत्तिभया-त्तदवसाने सन्तत्यर्थमेकमेव गर्भं धारयन्तीति भावः ॥ ११ ॥
यत्र ह देवपतयः स्वैः स्वैर्गणनायकैर्विहितमहार्हणाः सर्वर्तुकुसुमस्तबकफल-किसलयश्रिया आनम्यमानविटपलताविटपिभिरुपशोभमानरुचिरकाननाश्रमाय-तनवर्षगिरिद्रोणीषु तथा चामलजलाशयेषु विकचविविधवनरुहामोदमद-मुदित-राजहंसजलकुक्कुटकारण्डवसारसचक्रवाकादिभिर्मधुकरनिकरारुतिभिरुपकूजितेषु जलक्रीडादिभिर्विविधविनोदैः सुललितसुरसुन्दरीणां कामकलिलविलासहासलीला-वलोकाकृष्टमनोदृष्टयः स्वैरं किल विहरन्ति ॥ १२ ॥
पदरत्नावली
यत्र येषु देवपतयः स्वैरं विहरन्ति किलेत्यन्वयः । केषु स्थानेष्विति तत्राह– उपशोभमानेत्यादिना ॥ सर्वर्तुसमुद्भूतानां पुष्पस्तबकानां फलानां किसलयानां च श्रिया सम्पदा नानम्यमाना भृशं नमन्त्यो विटपलता येषां ते तथा । ते च आविटपिनः भारतखण्डवृक्षविलक्षणावृक्षा ये तैरुपशोभमानेषु रुचिरेषु काननलक्षणाश्रमेष्वायतनेषु वर्षभव-गिरीणां द्रोणीषु, पार्श्वद्वयोन्नतमध्यान्निम्नलक्षणप्रस्थेषु अमलजलाशयेषु निर्मलसरस्सु विकचानां विविधानां वनरुहाणां पद्मानामामोदजन्यमदेन मुदितैः राजहंसादिभिः, भृङ्गाणामारुतिभिः शब्दैरुपकूजितेषु शब्दितेषु । सरोविशेषणमेतत् । सुष्ठु शृृङ्गारयुतसुरस्त्रीणां कामेन कलिलैर्विलासादिभिराकृष्टामनो दृष्टयो येषां ते तथा । मनांसि च दृष्टयश्च मनोदृष्टयः (‘गणनायकैः सेवकगणेषु मुख्यैर्विहितमहार्हणाः समर्पितदिव्यस्रक्चन्दनादिमहोपचाराः सन्तः स्वैरं विहरन्तीत्यन्वयः । केषु स्थानेष्वित्यत आह– सर्वर्तुकुसुमेत्यादिना ॥ सर्वेषु ऋतुषु कुसुमस्तबकादीनां श्रिया समृद्ध्या आनम्यमाना अत्यन्तं नम्यमाना विटपाः शाखास्तदश्रिता लताश्च येषु तैराविटपिभिर्भरतखण्डविलक्षणैर्महावृक्षैरुपशोभमानानि रुचिराणि प्रियकराणि काननानि येषु तेष्वाश्रमायतनेषु वरगिरीणां द्रोणीषु च । विकचानि विकसितानि विविधानि यानि वनरुहाणि पद्मानि तेषामामोदजनितमदेन मुदितै राजहंसादिभिः पक्षिभिः, मधुकरनिकराणां चाकृतिभिर्जातिविशेषैरुपकूजितेष्वमलजलाशयेषु । सुललिताः शोभनशृङ्गारयुताः सुरसुन्दर्यो देवाङ्गनास्तासां कामेन कलिलैः क्षुभितैर्विलासादिभिराकृष्टा मनोदृष्टयो येषां ते तथा ।’ इति कपाठः) ॥ १२ ॥
प्रकाशिका
यत्र येषु वर्षेषु देवपतयः स्वैः स्वैर्गणनायकैः सेवकगणेषु मुख्यैर्विहित-महार्हणाः कृतमहापूजाः सन्तः स्वैरं विहरन्तीन्वयः । केषु केषु स्थानेष्वित्यपेक्षायामाह ॥ सर्वर्तुकुसुमेत्यादिना । सर्वेषु ऋतुषु कुसुमस्तबकादीनां श्रिया समृद्ध्याऽत्यन्तनम्यमाना विटपाः शाखा लताश्च येषां ते तथा ते च ते आविटपिनो महावृक्षाश्च तैरुपशोभमानानि रुचिराणि काननानि येष्वाश्रमायतनेषु वर्षगिरीणां द्रोणीषु च । तथाऽमलजलाशयेषु निर्मलसरःसु च जलक्रीडादिभिर्विविधविनोदैर्विहरन्तीत्यन्वयः । कथं भूतेषु जलाशयेषु । विकचानि विकसितानि विविधानि यानि वनरुहाणि पद्मानि तेषामामोदो गन्धस्तज्जनितमदेन मुदितै राजहंसादिभिर्मधुकरनिकरारुतिभिर्भ्रमरसमूहध्वनिभिरुपकूजितेषु । कथं भूता देवपतयः । सुललिताः सुष्टु शृृङ्गारयुताः सुरसुन्दर्यः सुरस्त्रियस्तासां कामेन कलिलैः क्षुभितैर्विलासादिभिराकृष्टं मनोदृष्टिश्च येषां ते तथा ॥ १२ ॥
नवस्वपि वर्षेषु भगवान्नारायणो महापुरुषः पुरुषाणामनुग्रहायात्मतत्त्वव्यूहे-नाद्यापि सन्निधीयते ॥ १३ ॥
पदरत्नावली
न केवलं नववर्षस्थानां व्यवायादिक्रियया कालयापनम्, अपि तु श्रीनारायणसपर्ययेति भावेनाह– नवस्वपीति ॥ आत्मनः स्वस्य तत्त्वानामनारोपित-रूपाणां(‘मूर्तीनां’ इति कपाठः) व्यूहेन नवसङ्ख्याविशिष्टेन समूहेनावाह्य सन्निधाप्य पूज्यत इत्यर्थः (‘सन्निधीयते सन्निहितो भवति’ इति कपाठः) । वर्षस्थैः पुरुषैरिति शेषः ॥ १३ ॥
प्रकाशिका
न केवलं नववर्षस्थानां व्यवायादिक्रिययैव कालयापनम् । किं तु भगवदाराधनेनापीत्याशयेनाह ॥ नवस्वपीति । पुरुषाणां तत्तद्वर्षस्थानामात्मनः स्वस्य तत्त्वानामनारोपितरूपाणां मूर्तीनां व्यूहेन नवसङ्ख्याकेन समूहेन संनिधीयते संनिहितो भवति । तत्त्वशब्दग्रहणेन मूर्तीनां मायाकल्पितत्वमतं निरस्तमिति ज्ञातव्यम् ॥ १३ ॥
इलावृते तु भगवान् भव एक एव पुमान् न ह्यन्यस्तत्र निविशति भवान्याः शापनिमित्ततः यत्प्रविश्य स्त्रीभावस्तत्पश्चाद्वक्ष्यामः ॥ १४ ॥
पदरत्नावली
इलावृते तु विशेषोऽस्तीत्याह– इलावृत इति ॥ तत्रैलावृतमारभ्य नववर्षसन्निहितरूपाणि तदुपासकांश्च क्रमणेत्यतो वाह– इलावृत इति (‘तुशब्देन इलावृते विशेषोऽस्तीति द्योतयति । पश्चान्नवमस्कन्धे ।’ इति कपाठः) ॥ १४ ॥
प्रकाशिका
इलावृते तु विशेषोऽस्तीत्याह ॥ इलावृत इति । पश्चान्नवमस्कन्धे
॥ १४ ॥
भवानीनाथैः स्त्रीगणार्बुदसहस्रैरवरुध्यमानो भगवतश्चतुर्मूर्तेर्महापुरुषस्य तुरीयां तामसीं मूर्तिं प्रकृतिमात्मनः सङ्कर्षणसंज्ञाम् आत्मसमाधिरूपेण सन्निधायै-तदभिगृणन् भव उपधावति ॥ १५ ॥
पदरत्नावली
भवानी पार्वती नाथा येषां तानि तथा तैः । अवरुध्यमानः परिव्रियमाणः । वासुदेवादिचतुर्मूर्तेस् तुरीयां चतुर्थांशभूतां तामसीं संहारकारणतमोगुणप्रवर्तनीम् आत्मनः स्वस्य भवस्य प्रकृतिं प्रकृष्टकारणभूताम् आत्मसमाधिरूपेण मनस एकाग्रताकारणेन उपधावति उपास्ते (‘भवानी पार्वती नाथा स्वामिनी येषां तैः स्त्रीगणानामर्बुदसहस्रैरवरुध्यमानः परितः सेव्यमानो भवो वासुदेवप्रद्युम्नानिरुद्धसङ्कर्षणसञ्ज्ञाश्चतस्रो मूर्तयो यस्य तस्य भगवतो महापुरुषस्य तुरीयां चतुर्थांशभूतां तामसीं संसारकाररतमोगुणप्रवर्तिनीमात्मनः स्वस्य प्रकृतिं बिम्बरूपत्वेन कारणभूतां सङ्कर्षणसञ्ज्ञामात्मसमाधिरूपेण मनसः परमात्मनि एकाग्रतालक्षणेन ध्यानेन सन्निधाप्य सन्निधानमानीय एतद् वक्ष्यमाणं मन्त्रादिकमभिगृणन् जपन् उपधावति उपास्ते ।’ इति कपाठः) ॥ १५ ॥
प्रकाशिका
भवानी पार्वती नाथा स्वामिनी येषां तैः स्त्रीणामर्बुदसहस्रैरवरुध्यमानः सेव्यमानश्चतुर्मूर्तेर्वासुदेवादिचतुर्मूर्तेस्तुरीयां चतुर्थांशभूतां तामसीं संसारकारणतमोगुणप्रवर्तिनी-मात्मनः स्वस्य प्रकृतिं कारणभूतामात्मनो मनसः समाधिरूपेणैकाग्रतालक्षणधर्मेणोपधाव-त्युपास्ते । एतद्वक्ष्यमाणं मन्त्रादिकम् अभिगृणन् जपन् ॥ १५ ॥
भव उवाच–
**ॐ नमो भगवते महापुरुषाय सर्वगुणसङ्ख्यातायानन्तायाव्यक्ताय नम इति **
॥ १६ ॥
**तात्पर्यम् **
‘अनन्तान्तःस्थितो विष्णुरनन्तश्च सहामुना । पूज्यते गिरिशेनेश इलावृतगतेन त्वि’ति च ॥ ‘जीवव्यपेक्षया चैव तथाऽन्तर्याम्यपेक्षया । मिश्रास्तु स्तुतयो ज्ञेया विष्णोरन्यत्र केवलम्’ इति च ॥ १६ ॥
पदरत्नावली
ज्ञानादिसर्वगुणैः समभेदेन ख्याताय ‘विज्ञानमानन्दं ब्रह्म’ इति श्रुत्यादिषु प्रख्याताय । अनन्तायेत्यनेन शेषान्तःस्थितस्तन्नामा विष्णुस्तेन सह शिवेनोपास्यत इति ध्वनयति । तदुक्तम्– ‘अनन्तान्तःस्थितो विष्णुरनन्तश्च सहामुना । इज्यते(पूज्यते) गिरिशेनेश इलावृतगतेन तु ॥’ इति । ननु यदि विष्णुना सह शेषोऽप्युपास्यते शिवेन तर्हि कथं भवापहमित्यादिगुणाः शेषे युज्यन्त इतीयमाशङ्का ‘जीवव्यपेक्षया चैव तथान्तर्याम्यपेक्षया मिश्रास्तु स्तुतयो ज्ञेया विष्णोरन्यत्र केवलम् ॥’ इत्यनेन परिहर्तव्येति (‘अथ शङ्करेण मुख्य-वृत्त्या सङ्कर्षणरूपी नारायणस् तदधिष्ठानत्वेन सङ्कर्षणपदवाच्यः शेषश्चामुख्यवृत्त्याऽभिष्टूयते– ॐ नमो भगवते इत्यादिना ॥ तदुक्तं ब्रह्माण्डे ‘अनन्तान्तःस्थितो विष्णुरनन्तश्च सहामुना । पूज्यते गिरिशेनेश इावृतगतेन तु ॥’ इति । ननु शिवस्य शेषसमानत्वात् कथं शिवेन शेषपूजनमिति चेत् शेषपदवीनिमित्ताधिक्यादित्यवधेयम् । नन्वेवं विष्णुशेषयोरुभयोरुपास्यत्वेन वक्ष्यमाणस्तुतिगतानां सर्वगुणपूर्णत्वादिभगवदसाधारणगुणप्रतिपादकपदानां कथं शेषे योजना ? अथ ‘न नागवध्वोऽर्हणमीशिरे ह्रिया’ इत्यादिना शेषसम्बन्ध्यसाधारणधर्मप्रतिपादकपदानां कथं विष्णौ योजना ? इति चेदत्राप्येवं ब्रह्माण्डोक्तिः । ‘जीवव्यपेक्षया चैव तथाऽन्तर्याम्यपेक्षया । मिश्रास्तु स्तुतयो ज्ञेया विष्णोरन्त्र केवलम् ॥’ इति ॥ मिश्राः स्तुतयो यत्र तत्र शेषादिजीवेऽसम्भावितानि विशेषणानि अन्तर्यामिपरतयैव योजनीयानि । तुशब्दो वृत्तितारतम्य-सूचकः । मिश्रस्तुतिषु शेषादिजीवेऽप्युपपन्नानि यानि विशेषणानि तानि अमुख्यवृत्त्या जीवव्यपेक्षया, मुख्यवृत्त्या तदन्तर्याम्यपेक्षया च योजनीयानि । अन्यत्र यत्र जीवस्य न स्तुतिस्तत्र केवलं विष्णोर्व्यपेक्षयैवेति यावत् । पृणाति भक्तान् गुणैः पूरयति, सादयति भक्तानां दोषान् नाशयतीति पुरुषः । महांश्चासौ पुरुषश्चेति तथा । पृ पालनपूरणयोरिति धातुः । षद्लृ विशरणगत्यवसादनेषु इति च । सर्वैर्गुणैः सन् अभेदेन ख्याताय । ‘मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे । यदासीत् तत एवाद्यः स्वयम्भूः समभूदजः ॥’ इत्यादेः । विज्ञानानन्दादिसर्वगुणैः श्रुतिषु सम्यक् ख्यातायेति च । ‘विज्ञानमानन्दं ब्रह्म’ इत्यादेः । देशतः कालतो गुणतश्चान्तो न विद्यते यस्य स तथा । अनन्तरूपादिमत्त्वाच्चानन्तस्तस्मै । ‘पश्यामि त्वा सर्वतोऽनन्तरूपम्’, ‘यदेकमव्यक्तमनन्तरूपम्’, ‘अनन्तपादं तमनन्तबाहुमनन्त-वक्त्रं पुरुरूपमेकम्’ इत्यादेः । अनन्तनामकशेषे विशेषतः सन्निहितः सन् सर्वजगद्धारण-शक्त्यादिगुणान् प्रकाशयतीत्यन्यन्तः । ‘रसातलगतः श्रीमाननन्तो भगवान् विभुः । जगद् धारयते कृत्स्नं तस्मै वीर्यात्मने नमः ॥’ इत्यादेः । एवमनन्तशक्तिसम्पन्नभगवत्सन्निधानाति-शयपात्रत्वात् शेषश्चानन्ताख्यः । ‘अनन्तश्चास्ति नागानाम्’ इत्यादेः । स्वप्नसादमन्तरेण भक्तानां व्यक्तो न भवतीत्यव्यक्तस्तस्मै । ‘नित्याव्यक्तोऽपि भगवानीक्ष्यते निजशक्तितः । तमृते परमात्मानं कः पश्येतामितं प्रभुम् ॥’ इति नारायणाध्यात्मे । एवमचिन्त्यशक्त्यादिमत्त्वेन शेषोऽपि स्वानुग्रहमन्तरेण भक्तानां व्यक्तो न भवतीत्यव्यक्तः ।’ इति कपाठः) ॥ १६ ॥
प्रकाशिका
अत्र सङ्कर्षणनाम्नो हरेरेव रुद्रध्येयत्वेन नागवध्व इत्यादिना क्रियमाणं विशेषस्तोत्रमसङ्गतं स्यादतः शेषसहितः शेषान्तर्यामी सङ्कर्षणो रुद्रध्येयतयाऽत्र विवक्षित इत्याशयेन समाख्यां पठति ॥ अनन्तान्तःस्थित इति । अनन्तः शेषोऽमुना विष्णुना सह विष्ण्वधिष्ठानत्वेन । नन्वेवमुभयोरुपास्यत्वेन वक्ष्यमाणानां ॐनम इति मन्त्रगतानां भगव-दसाधारणगुणवाचकानां स्तुतिगतानां च तादृशानां पदानां कथं शेषे योजनेत्यपेक्षायां योजनाप्रकारं प्रमाणेनैव दर्शयति ॥ जीवव्यपेक्षयेति । एवशब्दस्य मिश्रा एव स्तुतय इति सम्बन्धः । तुशब्दो वृत्तितारतम्यसूचकः । एव शब्दव्यावर्त्यं दर्शयति ॥ विष्णोरिति । अन्यत्रान्याः स्तुतयः केवलं विष्णोरेव व्यपेक्षया ज्ञेया इत्यर्थः । तथा च या मिश्राः स्तुतयस्ता एवोभयव्यपेक्षायां मुख्यामुख्यवृत्तिभ्यामुभयप्रतिपादकतया ज्ञेयाः । यास्तु न मिश्राः स्तुतयस्ता विष्णोरेव प्रतिपादिका इति ज्ञेयमित्यर्थः । तथा चास्यापि मिश्रस्तुतितयोक्त प्रमाणसिद्धत्वात् । वक्ष्यमाणानि भगवत्पराण्यपि पदान्यमुख्यवृत्या शेषेऽपि योज्यानीत्युक्तं भवति । रुद्रजप्यं मन्त्रं तावदाह ॥ ॐ नम इति ॥ सर्वे गुणा ज्ञानानन्दाद्यास्तैः सम्यक् । स्वरूपतयेति यावत् । ख्याताय विज्ञानमानन्दं ब्रह्मेत्यादिश्रुतिषु प्रसिद्धाय । शेषपक्षे सर्वशब्दार्थस्य सङ्कोचः । अनन्तायान्तत्रयरहिताय । शेषे त्वव्यक्ताधिकरणान्यायेनानन्त-शरीरत्वादनन्तायेत्यर्थः ॥ अव्यक्तायेति ॥ स्वप्रसादमन्तरेणेति शेषः । शेषोऽपि न स्वप्रसादमन्तरेण भक्तानां व्यक्तो भवति ॥ १६ ॥
भजे भजन्यारुणपादपङ्कजं भगस्य कृत्स्नस्य परं परायणम् ।
भक्तेष्वलम्भावितभूतभावनं भवापहं त्वां भवभावमीश्वरम् ॥ १७ ॥
पदरत्नावली
भजन्यं भजनीयं चारुणं च पादपङ्कजं यस्य स तथा तम् । हे भक्तेष्व-लम्भावित अत्यर्थे ध्यातवशीकृतेति वा नित्यतृप्ततया स्थितेति वा । भवं संसारमपजहाति त्यजतीति भवापहः । नित्यमुक्त इत्यर्थः । भक्तसंसारं नाशयतीति वा तम् । भवस्य पुण्यलक्षणस्य भद्रस्य भव उत्पत्तिर् यस्मात् स तथा तम् । कृत्स्नस्य भगस्य ऐश्वर्यादिगुण-सामग््रयाः परं परायणम् अत्युत्तमाश्रयम् । सर्वस्योपपादकम्– ईश्वरमिति ॥ सर्वसमर्थनशीलम् । ‘स्थेशभासपिसकसो वरच्’ इति ताच्छील्यसूत्रात् । अनेन शेषान्तर्यामिणो हरेः स्तुतिं ध्वनयति । तथाहि– भक्तेषु त्वत्सेवकेषु अलम्भावित सम्पूर्णानुग्रहलक्षणवित्तत्वदुत्तमत्वाद् अन्तर्यामिणं भज निषेवस्व । ईभजन्यारुणपादपङ्गजम् ईर्लक्ष्मीस्तया भजनीयरक्ततलाङ्घ्रिपद्मम् । कृत्स्नस्य भगस्य सौभाग्यस्य परम्पराया आश्रयम् । अनेन ब्रह्मादिसकलचेतनराशिसमवेत-सौभाग्यस्य परम्परायास्तारतम्योपेताया अयनमित्युक्तं भवति । भूतभावनम् अतीतानागत-वर्तमानजगज्जनकम् । भवति प्रभवत्युत्पद्यत इति भवो जगत्तस्यापहर्तारं संहर्तारम् । न केवलमुत्पादकं संहर्तारमपीत्यर्थः । हरतेष्टिलोपेन अपहेति रूपं साधु । शिष्टं समम् । ‘इःस्मरः प्रोच्यते प्राज्ञैरीर्लक्ष्मी रुद्र उः स्मृतः’ इत्यभिधानम् (‘कृत्स्नस्य भगस्य ऐश्वर्यादेः परं मुख्यं परायणमाश्रयम् । भक्तेष्वलमत्यर्थं भावितं प्रकटितं भूतभावनं सच्चेतनसंरक्षकरूपं येन तम् । भूतानां सच्चेतनानां भावनं संरक्षणं यस्मात् सः भूतभावनः । भूतानां भावान् बुद्ध्यादिधर्मान् नयति प्रापयतीति तथा । तदुक्तं ‘बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः । सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥ अहिंसा समता तुष्टिस्तपो दानं यशेऽयशः । भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥’ इति । भवापहं संसारहरम्, भक्तेष्वित्यनुषङ्गः । एवमभक्तानां संसारहेतुरपि भवतीत्याह– भवभावमिति ॥ उक्तार्थसमर्थनार्थमेवं विशिनष्टि– ईश्वरमिति ॥ सर्वथा कर्तुमकर्तुमन्यथाकर्तुं समर्थमित्यर्थः । ‘ऐश्वर्याद् भगवान् विष्णुर्विरुद्धं घटयत्यसौ’ इति महावाराहे । ईष्टे समर्थो भवतीतीश्वरः । ‘स्वव्यापी च जगद्व्यापी च जगद्व्यापी नित्यैश्वर्यात् स ईश्वरः’ इति ब्रह्मसारे । ‘स्थेशभासपिसकसो वरच्’ इति ताच्छील्यसूत्रात् ‘ईश ऐश्वर्ये’ इति धातोर्वरच्प्रत्ययः ।’ इति कपाठः) ॥ १७ ॥
प्रकाशिका
इदानीं स्तुतिं दर्शयति ॥ भज इति । हे भक्तेषु भक्तैरलंभावित ध्यात । भूतभावनं सर्वप्राणिजनकं भवापहं भक्तजनसंसारनाशकं भवभावमभक्तजनसंसारजनकं त्वां भज इत्यन्वयः । पुनः कथंभूतम् । भजन्यं भजनीयमरुणं पादपङ्कजं यस्य तं कृत्स्नस्य समग्रस्य भगस्य भगशब्दवाच्यैश्वर्यादेः परं मुख्यं परायणमाश्रयम् । सर्वोपपादकमीश्वरमित्येते गुणाः शेषेऽप्यमुख्यतया द्रष्टव्याः। एवमग्रेऽपि । भूतभावनम् अतीतानागतवर्तमानजगज्जनकं भवापहं भवति प्रभवति उत्पद्यत इति भावो जगत् तस्यापहर्तारं संहर्तारम् । न केवलमुत्पादकं संहर्तारमपीत्यर्थः । हरतेष्टिलोपेनापहेति रूपं साधु ॥ १७ ॥
न यस्य मायागुणचित्तवृत्तिभिर्निरीक्षितो ह्यण्वपि दृष्टिरज्यते ।
ईशो यथा नोऽजितमन्युरंहसां कस्तं न मन्येत जिगीषुरात्मनः ॥१८॥
पदरत्नावली
ननु जगदुत्पत्तौ वर्तमानस्य हरेः सकलभगाश्रयत्वं कथं घटते? मायागुण सम्पर्केणानीशत्वापत्तेरस्मद्वदिति तत्राह– नेति ॥ प्रकृतिगुणनिर्मितशब्दादिषु गतचित्तवृत्तिभिः सर्वं निरीक्षतो यस्य ते दृष्टिः स्वरूपज्ञानं मायागुणचित्तवृत्तिभिः प्रकृतिगुणसम्बद्धचित्तव्यापारैर् अण्वपीषदपि नाज्यते न लिप्यते । दृष्टेर्गुणसम्बन्धाभिभवो नास्तीत्यर्थः । हिशब्द एवार्थे (‘ननु सर्वप्राण्यन्तर्यामिणो भूतभावनरूपिणो हरेः प्रकृतिगुणनिर्मितचित्तवृत्तिभिर्विकारः, स्यादेव, ततश्च तस्येश्वरत्वाभावेन मुमुक्षुभिर्मोक्षार्थं कथं भजनीयो भवेदित्यत आह– न यस्येति ॥ यस्य हि निरीक्षतः सर्वं जगदुपादानादिकं पश्यतः, सर्वकर्तुरिति यावत् । दृष्टिः स्वरूपज्ञानमण्वपि ईषदपि नाज्यते न विक्रियते’ इति कपाठः) । तत्र हेतुमाह– ईश इति ॥ (‘निरतिशय-नित्यैश्वर्यवत इत्यर्थः’ इति कपाठः) ‘ईश ऐश्वर्ये’ इति धातोर्निरुपपदादपि क्विप्प्रत्ययेन ईडिति शब्दरूपं सिध्यति । तेनेश इति षष्ठी । ईड्याद्दोषलेपनिवारणे निरतिशयेन समर्थत्वादित्यर्थः । अत्र व्यतिरेकदृष्टान्तमाह– यथेति ॥ अजितं(न जितं’ इति कपाठः) मन्युरंहः क्रोधवेगो यैस्ते तथा तेषां नोऽस्माकं ज्ञानं यथा अभिभूयते तथा नाज्यत इत्यर्थः । आत्मन इति कृद्योगे षष्ठीति वचनादात्मान मनोजिगीषुः पुरुषस् तं त्वां न मन्येत श्रोत्रादीन्द्रियेषु सन्निधाय शब्दादिषु प्रयोज्य तज्ज्ञानमुत्पाद्य सुखसम्पादनेनात्यन्तोपकारकं त्वां कृतघ्नमन्तरेण रसज्ञः को न सेवेत । सेवेत एवेत्यर्थः । आत्मनः स्वरूपमिति वा ॥ १८ ॥
प्रकाशिका
ननु तस्य भूतभावनत्वेन दृष्टेः प्रकृतिगुणनिर्मितचित्तवृत्तिभिर्विकारः स्यात्ततश्चेश्वरत्वाभावेन मोक्षार्थं भजनीयो न स्यादित्यत आह ॥ न यस्येति । निरीक्षितः सर्वं जगदुपादानादिकं पश्यतः । सर्वकर्तुरिति यावत् । दृष्टिः स्वरूपज्ञानं मायागुणचित्तवृत्तिभिः प्रकृतिनिर्मितचित्तवृत्तिभिरण्वपीषदपि नाज्यते न विक्रियते । कुतो यत ईशः । प्रकृति-गुणानामिति शेषः । अत्र प्रमाणप्रसिद्धिद्योतको हिशब्दः । अत्र व्यतिरेकदृष्टान्तमाह ॥ यथेति । अजितमन्युरंहसामजितक्रोधवेगानां नोऽस्माकं दृष्टिर्यथाऽज्यते न तथेति । अत आत्मन आत्मानं मनो जिगीषुः । मुमुक्षुरिति यावत् । कृद्योगात्कर्मणि षष्ठी । कः पुरुषस्तं त्वां न मन्येत न भजेत ॥ १८ ॥
असन्दृशो यः प्रतिभाति मायया क्षीबेव मध्वासवताम्रलोचनः ।
न नागवध्वोऽर्हणमीशिरे हि या यत्पादयोः स्पर्शनघर्षितेन्द्रियाः ॥ १९ ॥
पदरत्नावली
सर्वान्तर्यामित्वेन अतिनिकटवर्तिनो हरेः स्वरूपज्ञानं सम्यग्ज्ञानिन एव नान्यस्येत्याशयवानाह– असन्दृश इति ॥ यो मायया आच्छादकशक्त्याऽसन्दृशः सम्यक् ज्ञानरहितस्य पुंसः, वृक्षकोटरजन्यं मधु नारिकेरादिपुष्पजन्यमासवस्तयोरेकतरपानेन ताम्रे लोचने यस्य स तथा । दुःशास्त्रश्रवणजनितान्यथाज्ञानलक्षणपरिणामविषायमाणमधुरसुरासेवा नष्टज्ञानस्य स्वयमपि तादृशः । क्षीबेव मत्त इति प्रतिभाति । अत्र विभक्तिविपरिणामेनार्थकथनं द्रष्टव्यम् । मध्वासवताम्रविलोचनस्य मत्तस्यासन्दृशः पुंसो मध्वासवताम्रविलोचनो मत्त इव प्रतीभाति । दुष्टेन्द्रियस्य पुंसः स्थाणुः पुरुष इव यथा आभाति तथेति । क्षीबेति प्रयोगस्तु छन्दोभङ्ग-भयाद्वैदिकत्वाद्वा दर्शित इति ज्ञातव्यम् । ‘न सन्दृशे तिष्ठति रूपमस्य’ इति श्रुतेः ‘विद्धवन्मुग्धवच्चैव केशवो वेदनार्तवत्’ इति स्मृतेश्च । इदानीं हेतुकथनव्याजेन मिश्रस्तुतिमाह– न नागेति ॥ इन्द्रियघर्षणप्रवृत्तिमत्त्वान् मत्तत्वमिति अर्हणं पूजां कर्तुं नेशिरे इत्यन्वयः (‘सर्वान्तर्यामित्वेन अतिनिकटवर्तिनो हरेः स्वरूपज्ञानं सम्यग्ज्ञानिन एव नान्यस्येत्याशय-वानाह– असन्दृश इति ॥ मायया भगवन्मोहकशक्त्या असन्दृशः न विद्यते समीचीना दृक् यस्य तस्य, अधिष्ठानयाथार्थ्यज्ञानशून्यस्येत्यर्थः । क्षीबेव मत्त इव । अत्र क्षीब इवेति वक्तव्ये क्षीबेवेति सन्धिगर्भसन्धिश्छान्दसः । मध्वासवाभ्यां ताम्रे लोचने यस्य स इव च यः प्रतिभाति । ननु नागवध्वार्चितत्वादयं मत्त एव किं न स्यादित्यतस्तत्र हेत्वन्तरं वक्ति– न नागवध्व इति ॥ नागवध्वो यस्यार्हणो पूजायां ह्रिया नेशिरे । न तु मत्त इति बुद्ध्येति यावत् । लज्जायामिपि हेतुमाह– यत्पादेति ॥ यस्य पादयोः स्पर्शनेन घर्षितं मोहितमिन्द्रियं मनो यासां तास्तथेति । उक्तविशेषणानि मुख्यवृत्त्या शेषान्तर्यामिहरिपरतया, अमुख्यवृत्त्या शेषपरतया च योजनीयानि । न यस्य मायेत्यादिश्लोकगतानां यच्छब्दानां ‘तस्मै नमस्तद्विलयो-दयात्मने’ इत्युत्तरेणान्वयः ।’ इति कपाठः) ॥ १९ ॥
प्रकाशिका
ननु तद्दृष्टेर्मायागुणचित्तवृत्तिभिर्विकाराभावे कथं मद्यपानेन मत्तो दृश्येतेत्यतः सा दृष्टिर्भ्रान्तिरित्याह ॥ असंदृश इति । मायया भगवतो मोहकशक्त्याऽसंदृशः । न विद्यते समीचीना दृक् यस्याधिष्ठानयाथात्म्यज्ञानशून्यस्येत्यर्थः । क्षीबेव क्षीबे मत्त इव वृक्षकोटरजन्यं मधु नारिकेलादिपुष्पजन्यमासवस्ताभ्यां मद्यविशेषाभ्यां ताम्रे लोचने यस्य स इव च प्रतिभाति न वस्तुतोऽतस्तद्दर्शनं भ्रम इत्याशयः । ननु नागवध्वनर्चितत्वादयं मत्त एव किं न स्यादित्यतस्तत्र निमित्तान्तरमाह ॥ न नागवध्व इति । यत्पादयोरर्हणं नागवध्वः कर्तुं ह्रिया नेशिरे । न तु मत्त इति बुद्ध्येति भावः । ह्रीस्तासां कुत इत्यत उक्तम् । यत्पादयोः स्पर्शनेन घर्षितान्याकृष्टानीन्द्रियाणि यासां तास्तथेति । तत्पादस्पर्शनेन चलितेन्द्रियत्वात्तासां ह्रीत्वमित्याशयः । इदं शेषान्तर्यामिण्यपि योज्यम् । एवमग्रेऽपि । न यस्य माययेत्यादि श्लोकगतानां यच्छब्दानां तस्मै नम इति वक्ष्यमाणेनान्वयः ॥ १९ ॥
यमाहुरस्य स्थितिजन्मसंयमं त्रिभिर्विहीनं यमनन्तमीश्वरम् ।
न वेद सिद्धार्थमिव क्वचित्स्थितं भूमण्डलं मूर्धसहस्रधामसु ॥ २० ॥
पदरत्नावली
इदानीं भगवद्विज्ञानाय तल्लक्षणान्याह– यमाहुरिति ॥ अस्य जगतः स्थितिजन्मसंयमकारणं यतस्तज्ज्ञाने स्थित्यादीनि लक्षणानि इति ज्ञातव्यम् । स्वयमेतद्व्यञ्जित-श्चेत् कथमेतल्लक्षणैर्ज्ञेय इत्यत उक्तम्– त्रिभिरिति ॥ त्रिभिः स्थित्यादिभिर्विहीनं विरहितं, जाग्रदाद्यवस्थाविशेषैर्वा । कालत्रये अपरिच्छिन्नमहिमत्वाद्युक्तमिति भावेनाह– अनन्तमिति ॥ तदपि कथमत उक्तमीश्वरमिति ईश्वरत्वं विशदयति– न वेदेति ॥ य इत्यध्याहृत्यान्वेतव्यम् । मूर्धसहस्रधामसु मध्ये क्वचिदेकस्मिन्मूर्धनि सिद्धार्थं सर्षपमिव स्थितं भूमण्डलं न वेद, गुरुत्वाभावादित्यन्वयः । लाघवात्तद्गरिमाणं न जानातीत्यनेनान्तःस्थितानन्तनामहरिमहिम्ना शेषस्यापि भूमण्डलधृतिसामर्थ्यमिति बोद्धव्यम् ॥ २० ॥
प्रकाशिका
अस्य जगतः संयमः प्रलयः स्थित्या तं सहितौ जन्मसंयमौ यस्मात् । स्थित्यादिहेतुं त्रिभिः स्थित्यादिभिर्विहीनम् । अनन्तं पूर्ववत् । मूर्धसहस्रमेव धामानि स्थानानि तेषु मध्ये क्वचिदेकस्मिन्नेव मूर्धनि सिद्धार्थं सर्षपमिव स्थितं भूमण्डलं न वेद गुरुतया न जानातीत्यर्थः ॥ २० ॥
**यस्याद्य आसीद्गुणविग्रहो महान्विज्ञानधिष्ण्यो १भगवानजः किल । **
यत्सम्भवोऽहं त्रिवृता स्वतेजसा वैकारिकं तामसमैन्द्रियं सृजे ॥ २१ ॥
पदरत्नावली
पूर्वोक्तसृष्टेः क्रममाह– यस्येति ॥ यस्य तव सकाशाद् अजो ब्रह्माद्यः सृज्यपदार्थानामादिभूत आसीत् (‘यस्य हरेः सकाशाद् य आद्यः सृज्यपदार्थानामादिभूत आसीत् सः गुणविग्रहः विशुद्धसत्त्वगुणप्रचुरशरीरो भगवानजो ब्रह्मा किल । ‘विशुद्धसत्त्वं ब्रह्मादेः,’ ‘सत्त्वं ब्रह्मादिदेहाख्यं ज्ञानरूपं तमोनुदम्’ इत्यादेः ।’ इति कपाठः) । प्रकृति-सृज्यवस्तुषु महत्तत्वस्यादित्वत् तदभिमानित्वेन ब्रह्मण आदित्वं युक्तमिति भावेनोक्तम्– महानिति (‘महान् महत्तत्वाभिमानी विज्ञानस्य विशुद्धज्ञानस्य धिष्ण्यं निधानस्थानं यस्य स तथा ।’ इति कपाठः)॥ निर्देहस्याभिमानित्वं कथमित्यत उक्तम्– गुणविग्रह इति ॥ रजोगुणेन निर्मितो विग्रहो यस्य स तथा । देहित्वेऽपि ज्ञानलोपोऽन्यदेहिवदस्य नास्तीत्यभि-प्रेत्याह– विज्ञानेति ॥ विज्ञानस्य धिष्ण्यं निधानस्थानम् । धिष्ण्य इति पाठे विज्ञानमेव स्वरूपं यस्य स तथेत्यर्थः । महत्तत्वस्य सृष्ट्या सृष्टिक्रमः कथं ज्ञाप्यत इत्यत उक्तम्– यत्सम्भव इति ॥ यस्मान् महत्तत्वात्सम्भवो यस्य स तथा । अहं त्रिवृता वैकारिकादिभेदेन त्रिधा वर्तमानेन स्वतेजसा स्वरूपमहिम्ना वैकारिकादिकं तदभिमानिदेवतादिकं च सृज इत्यन्वयः (‘यस्मान् महत्तत्वाभिमानिनो ब्रह्मणः सकाशादहङ्कारतत्वाभिमानिनो रुद्रस्य सम्भव उत्पत्तिर्यस्य स तथा । त्रिवृता वैकारिकादिभेदेन त्रिधा वर्तमानेन स्वतेजसा स्वमहिम्ना वैकारिकादिकं तदभिमानिदेवतादिकं च सृजे सृजामि ।’ इति कपाठः) ॥ २१ ॥
प्रकाशिका
यस्य हरेः सकाशाद्यः पुन्नामाऽजो ब्रह्मा आसीत्किलेत्यन्वयः । गुणविग्रहस्त्रिगुणात्मकदेहो महान्महत्तत्त्वाभिमानी विज्ञानधिष्ण्यो विज्ञानाभिमानी सरस्वत्याश्रयः । शेषपक्षे यस्य शेषस्याद्यः पितेति योज्यम् । यस्माद्धरेः सम्भव उत्पत्तिर्यस्य सः । यत्सम्भवोऽहङ्कारतत्त्वाभिमान्यहं रुद्रस्त्रिवृता वैकारिकाद्यहङ्कारप्रेरकतया त्रिधा विद्यमानेन स्वतेजसा वैकारिकं वैकारिकाहङ्कारकार्यं देवतासमूहं तामसाहङ्कार्यं भूतगुणमैन्द्रियं तैजसाहङ्कार-कार्यमिन्द्रियसमूहं सृजे सृजामि । शेषपक्षे येन सम्भवः सहोत्पत्तिर्यस्येति योज्यम् । यद्वा तामसाहङ्काराभिमानिरुद्रस्य शेषजातत्वात्तदभिप्रायेणेदम् ॥ २१ ॥
**एते वयं यस्य वशे महात्मनः स्थिताः शकुन्ता इव सूत्रयन्त्रिताः । **
महानहं वैकृततामसेन्द्रियाः सृजाम सर्वं यदनुग्रहादिदम् ॥ २२ ॥
पदरत्नावली
अस्मत्सर्जनं च (‘अस्माभिः क्रियमाणं सर्जनं तावत्’ इति कपाठः) श्रीनारायणानुग्रहेण न स्वातन्त्र्येणेत्याह– एत इति ॥ वयमिति के इति तत्राह– महानिति ॥ ब्रह्मप्रभृतय इत्यर्थः । सूत्रयन्त्रिताः सूत्रबद्धाः शकुन्ताः पक्षिणः । वैकृता वैकारिकदेवाः, तामसाः पञ्चभूतदेवाः, ऐन्द्रिया अभिमानिनो देवाः शब्दाद्यभिमानिदेवताश्च ॥ २२ ॥
प्रकाशिका
अस्माभिः क्रियमाणं सर्जनं तदनुग्रहेणैवेत्याह ॥ एते वयमिति । शकुन्ताः पक्षिणः सूत्रेण तन्त्वादिनिर्मितेन यन्त्रिता नियमिताः प्रकृते सूत्रनामा वायुस्तेन यन्त्रिता इत्यर्थः । वयमित्युक्तानेवाह ॥ महानिति । महान् ब्रह्मा वैकृता वैकारिका देवास्तामसा भूताभिमानिन इन्द्रिया भूतविकृतेन्द्रियनियामकाः । शेषपक्षे महान्पूज्योऽहं रुद्र इति योज्यम् । रुद्रस्य पदेन नीचत्वाद्यस्य वश इत्युपपन्नम् । अत एव भगवत्पादैरन्यत्र शर्वादिवन्द्यचरण इति शेषविशेषणमुक्तम् ॥ २२ ॥
**यन्निर्मितां कर्ह्यपि कर्मपर्वणीं मायां जनोऽयं गुणसर्गमोहितः । **
न वेद निस्तारणयोगमञ्जसा तस्मै नमस्तद्विलयोदयात्मने ॥ २३ ॥
॥ इति श्रीमद्भागवतमहापुराणे पञ्चमस्कन्धे सप्तदशोऽध्यायः ॥
पदरत्नावली
व्यतिरेकमुखेन संसारतरणोपायमाह– यन्निर्मितामिति ॥ अयं जनो येन भवता ‘जनं मोहयतु’ इति विनिर्मितां कल्पितां कर्मपर्वणीं विहितनिषिद्धलक्षणानि कर्माणि पर्वाणि यस्याः सा तथा ताम् । मायां बन्धकशक्तिम् आसाद्य कर्ह्यपि कदापि मायाया निस्तारणोपायमञ्जसा न वेद । तत्र किं कारणमिति तत्राह– गुणेति ॥ गुणेन सर्गो येषां ते गुणसर्गाः शब्दादिविषयास्तैर्मोहितः (‘गुणानां सत्वादीनां सर्गो देहेन्द्रियान्तःकरणादिरूपः रूपरसादिविषयरूपश्च तत्र मोहितो ऽहम्ममतया आसक्तः’ इति कपाठः) । शब्दादि-निमित्तान्यथाज्ञानं कारणमित्यर्थः । अनेन तत्कर्तृज्ञानपूर्वकं तज्ज्ञानं संसारतरणोपाय इति ध्वनितमिति । इदमेव भगवत्प्रीतिकरं सर्वसाधारणमयत्नसाध्यं साधनमिति भावेनोपसंहरति– तस्मा इति ॥ तद्विलयोदयात्मने तस्या मायाया निवर्तकज्ञानस्वरूपाय । अनेन प्रणतिप्रसन्न– श्रीनारायणस्वरूपज्ञानं मायानिवर्तकमिति सूचितम् । अतो मुमुक्षुणा तज् ज्ञानमापाद्यमिति भाव इति (‘तथाच मुमुक्षुर्मोक्षप्राप्त्यर्थं श्रुतिविहितसत्कर्मनिरतः सन् रूपरसादिविषयव्यामोहं विहाय मायानिवर्तकहरिस्वरूपज्ञानार्जनाय विशेषतो यतेतेति यावत्’ इति कपाठः) ॥ २३ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
पञ्चमस्कन्धे सप्तदशोऽध्यायः ॥
प्रकाशिका
इदानीं बन्धकत्वं मोचकत्वं चाह ॥ यन्निर्मितामिति । येन हरिणा निर्मितामियं जनान्मोहयत्वित्याशयेन कल्पितां मायां स्त्रीपुत्रादिरूपां प्रकृतिमेव वेदेत्यन्वयः । कथंभूताम् । कर्माण्येव पर्वाणि ग्रन्थयस्तानि नयति प्रापयतीति तथा ताम् । कथंभूतो जनः । गुणसर्गः शब्दादिविषयसम्पादनं तदर्थं मोहितः । निस्तारणं योगं मायातरणोपायं न वेद । कोऽसौ तन्निस्तारणयोग इत्यतस्तत्सूचयन्नाह ॥ तद्विलयोदयात्मन इति । तस्या मायाया विलयो यस्याः सा तद्विलया । उत्कृष्टा या दया तत्स्वरूपायेत्यर्थः । अनेन हरिदयैव मायातरणोपाय इति सूचयति । शेषेऽपीदमिन्द्रादिजीवान्प्रत्यस्तीति ध्येयम् ॥ २३ ॥
**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **
श्रीमद्भागतटिप्पण्यां प्रकाशिकायां पञ्चमस्कन्धे सप्तदशोऽध्यायः ॥ १५ ॥