१६ षोडशोऽध्यायः

इत्युक्तस्त्वया भूमण्डलायामविशेषो यावदादित्यस्तपति

॥ अथ षोडशोऽध्यायः ॥

राजोवाच–

इत्युक्तस्त्वया भूमण्डलायामविशेषो यावदादित्यस्तपति यत्र चासौ ज्योतिषां गणैश्चन्द्रमाः सह दृश्यते ॥ १ ॥

पदरत्नावली

भूवलयतद्विशेषज्ञानं श्रीनारायणमहिमोपलक्षणत्वात्तदावश्यकं मोक्षोप-योगीत्यतस्तत्परिमाणादि वर्णयति पञ्चस्वध्यायेषु । तत्र परीक्षिद्विशेषतोऽपि ज्ञातुमुक्तानु-वादपूर्वकं श्रीशुकं पृच्छति– इत्युक्त इति (‘पुरुषोत्तममाहान्त्यातिशयप्रकाशकं यद् विशाल-भूवलयादिविशेषज्ञानं तदवश्यं परमपुरुषार्थोपयोगीत्यतस्तत्परिमाणादिकं प्रपञ्चयत्येषु पञ्च-स्वध्यायेषु । प्रथमाध्याये तावत् प्रियव्रतचरितकथनावसरे प्रियव्रतेन सप्तकृत्वो भूमण्डल-प्रदक्षिणीकरणेन तद्रथचरणनेमिभिः सप्त समुद्राः सप्त द्वीपाश्चोपक्लृप्ता इति शुकोक्तं विस्तरतो ज्ञातुं परीक्षित् पृच्छति– उक्त इति ॥’ इति कपाठः)॥ आदित्यो यावत्पर्यन्तं तपत्यसौ चन्द्रमाश्च यत्र ज्योतिषां नक्षत्राणां गणैः सह दृश्यते । त्वया भूमण्डलायामविशेषस्तावा-नित्युक्तः ॥ १ ॥

प्रकाशिका

इतः परं संक्षेपेणाप्युक्तं समुद्रद्वीपमानादिकं प्रपञ्चयत्यध्यायपञ्चकेन । तत्र राजा विशेषतो ज्ञातुमुक्तमनुवदति ॥ इत्युक्त इति । यावद्यावत्पर्यन्तमसावादित्यस्तपति । यत्र यावति च प्रदेशेऽसौ चन्द्रमा ज्योतिषां नक्षत्राणां गणैः सह दृश्यते । त्वया भूमण्डलस्याया-मविशेषस्तावानित्युक्तः ॥ १ ॥

तत्रापि प्रियव्रतरथचरणपरिखातैः सप्तभिः सप्तसिन्धव उपक्लृप्ताः । यत एतस्याः सप्तद्वीपविशेषकल्पस्त्वया भगवान् खलु सूचितः । एतदेव निखिलमहं मानतो लक्षणतश्च सर्वं जिज्ञास्यामि ॥ २ ॥

पदरत्नावली

तत्र भूमण्डलेऽपि प्रियव्रतेत्यनेन ‘यो वा इह’ इत्येतदनुवदति– यत एतस्या इत्यनेन ॥ यत एवं कृता इत्येतदनुवदति । अयमाशयः । प्रियव्रतस्य रथचरण-नेमिनैशित्य परिखाताः सप्तसिन्धव आसन्यास्तस्य रथचरणनिशितपर्यन्तसीतोत्थित-पर्यस्तमृत्तिकाधनपङ्क्तयस्तत्तत्परिखापर्यवान्तरप्रदेशवर्तिन्यस्ताः सप्तद्वीपा आसन् । तेषां नामानि कथितानीति सूचित इत्यनेन विशेषो नोक्त इति । ततः किं तत्राह– एतदिति ॥ खिलमुर्वरितं यथा न भवति तथा निखिलम् । अन्तराले एतदुपयोग्येव, नान्यदित्यर्थ एवशब्दः । मानं परिमाणं लक्षणं वर्तुलचतुस्राकारादि न केवलमिदमेव किन्तु यत्सप्तसागरादिभ्यः परस्तात्काञ्चन-भूम्यादिकम् । तदपि न केवलं तावतालम्, अपि तु तत्रापि विद्यमानं सर्वमनुर्वरीकृत्यैतदभि-प्रायेण पुनश्च सर्वशब्दप्रयोग इत्यर्थः । जिज्ञास्यामीत्यनेन ज्ञानेच्छैव न तु विचार इत्यतः परस्मैपदप्रयोगः । अहमित्यनेनान्येषां प्रयोजनसद्भावेऽपि ममातीवप्रयोजनमिति सूचयति । अन्यथा जिज्ञास्यामीति सामान्योक्तिसम्भवात् (‘तत्र भूमण्डले सूर्यस्य पृष्ठतो मेरुं प्रदक्षिणी-कुर्वतः प्रियव्रतस्य रथचरणेन रथचक्रेण परितो घातैर्गर्तैः सप्तभिः सप्त सिन्धव उपक्लृप्ताः । यतो येभ्यः सप्तसिन्धुभ्य एतस्या भुवः । सूचितः सङ्क्षेपेणोक्तः । अखिलं समुद्रद्वीपादिकं मानतः परिमाणतः लक्षणतो वर्तुलचतुरस्राकारादिलक्षणतश्च सर्वं सप्तसागरादिभ्यः परतोऽपि विद्यमानं काञ्चनभूम्यादिकं विजिज्ञास्यामि विशेषतो ज्ञातुमिच्छामि अत्रात्मनेपदाभाव आर्षः ।’ इति कपाठः) ॥ २ ॥

प्रकाशिका

तत्रापि भूमण्डलेऽपि रथचरणपरिखातै रथचक्रपरिचरणनिमित्तपरिखातैर्यतो येभ्य एतस्या भुवः सप्तद्वीपानां विकल्पो विविधकल्पना सूचितः संक्षेपेणोक्तो निखिलं समुद्रद्वीपादिकं सर्वं समुद्रद्वीपादिषु विद्यमानं ततः परतोऽपि विद्यमानं काञ्चनभूम्यादिक-मित्यर्थः । अतो न निखिलशब्देन गतार्थता ॥ २ ॥

भगवतो गुणमये एव स्थूलरूपे आवेशितं मनो ह्यगुणेऽपि सूक्ष्म आत्म-ज्योतिषि परे ब्रह्मणि भगवति वासुदेवाख्ये क्षममावेशितुं तदु ह वै तद् गुरोऽर्हस्यनुवर्णयितुमिति ॥ ३ ॥

पदरत्नावली

किं तदतीवप्रयोजनमिति विवृत्त्य दर्शयति– भगवत इति ॥ इतः पूर्वं गुणमये सत्वादिगुणविरचिते स्थूलरूपे पातालाद्यचेतनावयवविशिष्टे आवेशितं निधायाभ्यस्तं विशेषस्मरणसमर्थं हि यत्तन्मनोऽगुणेऽपि सत्वादिगुणप्रवृत्तिशून्येऽपि सच्चिदानन्दाकारे । अत एव सूक्ष्मे अनुग्रहमन्तरेणादृश्ये । तर्हि किं तमोरुपं नेत्याह– आत्मज्योतिषीति ॥ स्वयंप्रकाशे किं नामि्न परे ब्रह्मणि परब्रह्मसंज्ञे भगवति ऐश्वर्यादिगुणपूर्णे । वैदिकमन्तरेण लौकिकं नाम किं तत्राह– वासुदेवाख्य इति ॥ अनेनात्र किं वदन्ती प्रमाणमिति सूचितम् । आवेशितुं क्षमं समर्थं तदेतदेव हेत्यनेनान्यत्र (‘गुणमये सत्वादिगुणविकारात्मके स्थूलरूपे पातालाद्यवयवविशिष्टे चतुर्दशलोकात्मकप्रतिमारूपे आवेशितं निरन्तराभ्यासेन प्रवेशितं मनो ऽगुणेऽपि सत्त्वादिगुण-विकारशून्येऽपि सूक्ष्मतमे स्वान्तर्यामिणि आत्मज्योतिषि स्वानुग्रहेणैव प्रकाशमाने परे सर्वोत्तमे ब्रह्मणि अनन्तगुणपरिपूर्णे । यथोक्तं प्रकाशिकायां ‘ब्रह्मेति च सदा ध्येयो भगवान् विष्णु-रञ्जसा । उत्कृष्टो ब्रह्मशब्दार्थः पूर्णत्वं ब्रह्मता यतः ॥ आधिव्याधिनिमित्तेन विक्षिप्तमनसोऽपि तु । ध्येयैव ब्रह्मता नित्यं विष्णोर्भक्त्या निरन्तरम् ॥’ इति । भगवति सर्वदेवनियामके । ‘ऐश्वर्यादिगुणैः षड्भिः सामग्य्रात् सर्वदेवताः । भगवच्छब्दवाच्याश्च साक्षात्तु भगवान् हरिः ॥ निरपेक्षं तु सामग्य्रं तस्य सर्वाधिकं यतः ।’ इति वैशेष्यवचनम् । ‘वासनाद् वासुदेवोऽसि वासितं ते जगत्त्रयम् । सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥’ इत्याद्युक्तरीत्या वासुदेवाख्ये मन आवेशितुं क्षमं समर्थम् ।’इति कपाठः) ॥ ३ ॥

प्रकाशिका

मोक्षानुपयोगित्वात्किमनेनेत्यत एतज्ज्ञानमपि मोक्षजनकब्रह्मज्ञानोपयोग्यत आवश्यकमित्याशयेनाह ॥ भगवत इति । गुणमये सत्त्वादिगुणविकारात्मके स्थूलरूपे पातालाद्यवयवविशिष्टे चतुर्दशलोकात्मकप्रतिमारूपे आवेशितं निरन्तराभ्यासेन प्रवेशितमगुणे सत्त्वादिगुणविकारशून्ये सूक्ष्मे स्वान्तर्यामिण्यात्मज्योतिषि स्वानुग्रहेणैव प्रकाशमाने । माया-वाद्यभिमतनिर्गुणब्रह्मव्यावर्तनाय भगवति भगवच्छब्दवाच्यं वासुदेवाख्यं न मायाशबलमिति प्रदर्शनाय परे ब्रह्मणीत्युक्तम् । तदु तस्मादेव ॥ ३ ॥

ऋषिरुवाच–

न वै महाराज भगवतो मायागुणविभूतेः स्थानविशेषाणां नामरूपतः काष्ठां मनसाऽधिगन्तुमलं विबुधायुषेणापि पुरुषस्तस्मात्प्राधान्येनैव भूगोलविशेषं नामरूपमानलक्षणतो व्याख्यास्यामः ॥ ४ ॥

पदरत्नावली

‘नापृष्टः कस्यचिद्ब्रूयात्’ इत्यनपेक्षामाह– मायागुणविभूतेरिति ॥ प्रकृतिगुणप्रवृत्तये यद्विविधं भवनं बहुरूपग्रहणं यस्य स तथा तस्य । महिमागुणविभूतेर्वा काष्ठा-मवसानं पूर्तिलक्षणं विबुधायुषेण द्विपरार्द्धलक्षणेन (‘माया प्रकृतिस्तस्या गुणाः सत्त्वादयस्तेषां विभूतेर्विस्तारस्य काष्ठामन्तमधिगन्तुं न वै अलं नैव समर्थः ।’ इति कपाठः) ॥ ४ ॥

प्रकाशिका

माया प्रकृतिस्तस्या गुणाः कार्याणि तेषु विभूतिर्विविधभवनं यस्य तस्य भगवतः स्थानविशेषाणां समुद्रद्वीपादीनां काष्ठामवसानमधिगन्तुं यदा नालं न समर्थस्तदा किं वाच्यं वक्तुमिति भावः । नामतो लवणेक्षुसुरासर्पिरित्यादिनामतो रूपतः संस्थानविशेषतो मानतो लक्षादिसङ्ख्यारूपपरिमाणतो लक्षणतस्तत्तदसाधारणधर्मतः ॥ ४ ॥

यो वा अयं द्वीपः कुवलयकमलकोशाभ्यन्तरकोशो नियुतयोजनविशालः समवर्तुलो यथा पुष्करपत्रम् ॥ ५ ॥

पदरत्नावली

यो जम्ब्वाख्यः पूर्वपश्चिमाभ्यां दक्षिणोत्तराभ्यां पार्श्वाभ्यां सामुद्रं जलं पिबतीति द्वीपस् तदभावे तरणिकिरणसन्तापेन घनीभावं मुक्त्वा परमाणव एवावशेषेण द्वीपस्थित जनस्याधाराभावेन जलमज्जनेन सर्वनाशप्रसङ्गः स्याद्दीर्घः निपातनात्साधुरिति । सोऽयं नियुतयोजनविशाल एकादशस्थानादिसङ्ख्याक्रमेण नियुतसङ्ख्याया लक्षसङ्ख्यात्वं ज्ञायते । तेन लक्षयोजनेन विस्तार इति परिमाणमुक्तं भवति । शृृङ्गग्राहिकयैव तत्प्रकारं ज्ञापयति– कुवलयं भूमण्डलं तदेव कमलं तस्य कोशस्येतरद्वीपलक्षणस्याभ्यन्तरकोशोऽन्तःस्थितकोशवद्वर्त्तमानः लक्षणमाह– समवर्तुल इति ॥ अत्र दृष्टान्तमाह– यथा पुष्करपत्रमिति ॥ अन्तरकोश-दलाभ्यन्तराले विरलानि भवन्ति न तथा पुष्करपत्रमेकत्वेन विच्छेदाभावादित्यरूच्या पद्मपत्रो-दाहरणं वा इत्यनेनेदमेव मानादिकं नान्यत्रोक्तमिति विशदयति (‘कुवलयं भूमण्डलं तदेव कमलं तस्य कोशा इव सप्तद्वीपास्तेष्वभ्यन्तरकोशो यो वाऽयं प्रथमो जम्बूद्वीपो नियुतयोजनविशालो लक्षयोजनविस्तीर्णः समवर्तुलः सर्वत्र समपरिमाणो वर्तुलश्च । समवर्तुलत्वे दृष्टान्तमाह– यथा पुष्करपत्रमिति ।’) ॥ ५ ॥

प्रकाशिका

कुवलयं भूमण्डलं तदेव कमलं तस्य कोशाः सप्तद्वीपास्तेष्वभ्यन्तरकोशोऽयं द्वीपो जम्बुद्वीपो नियुतयोजनविशालः । अयुतदशकं नियुतमित्युच्यते । तथा च लक्षयोजन-विस्तीर्ण इत्यर्थः ॥ ५ ॥

यस्मिन्नववर्षाणि नवयोजनसहस्रायामान्यष्टभिर्मर्यादागिरिभिः सुविभक्तानि भवन्ति ॥ ६ ॥

पदरत्नावली

यस्मिन् द्वीपे ॥ ६ ॥

प्रकाशिका

नव योजनसहस्रमायाम एव विस्तारो येषां तानि तथा । यद्यपि भद्राश्वकेतुमालवर्षयोः प्रत्येकमेकत्रिंशद्योजनसहस्रायामत्वं तथाऽप्यधिकसङ्ख्यायां न्यूनसङ्ख्याऽन्त- र्भावाभिप्रायेणेयमुक्तिः । नवैवेत्यवधारणाभिप्राये छत्रिन्यायेनेयमुक्तिरिति ज्ञातव्यम् ॥ ६ ॥

येषां मध्ये इलावृतं नामाभ्यन्तरवर्षं यस्य नाभ्यामवस्थितः सौवर्णः कुलगिरि राजो मेरुर्द्वीपायामसमुन्नाहः कर्णिकाभूतः कुवलयकमलस्य मूर्द्धनि द्वात्रिंशत्सहस्रयोजनविततो मूले षोडशसहस्रं तावताऽन्तर्भूम्यां प्रविष्टः ॥ ७ ॥

पदरत्नावली

येषां वर्षाणां यस्येलावृतस्य नाभिस्थाने मध्य इत्यर्थः । जम्बूद्वीपस्य यावान् लक्षयोजनपरिमित आयामस्तावान् समुन्नाह उच्छ्रायो यस्य स तथा । लक्षयोजनोच्छ्रित इत्यर्थः । मानमुक्त्वा लक्षणमाह– कर्णिकाभूत इति ॥ भूमण्डललक्षणपद्मस्य कर्णिका-स्थानीयः । ननु नियुतयोजनविशालो द्वीपो द्वीपायाम समुन्नाह इत्येतत्कथं विशदं स्या-च्चतुराशीतिसाहस्र– योजनानां समुच्छ्रय इति पराशरवचनं जागर्तीति चेन्न । न तदीदृगिति ज्ञेयं न वाच्यं न च तर्क्यते । ‘पश्यन्तोऽपि न जानन्ति मेरोरुपं विपश्चितः’ इति वचनात् । पराशरस्यान्यथाज्ञानसम्भवात् । ‘इन्द्रस्तु वर्तुलाकारं पञ्चकोणं बृहस्पतिः’ इतीन्द्रादीनामप्य-ज्ञानकथनाच्च । ‘ऋषिस्त्रिकालदर्शी स्यात्’ इति वचनाद्भगवत्प्रसादापन्नज्ञानपराशरवचन-स्यान्यथाज्ञानमूलत्ववचनमिति साहसमिति चेन्न । प्रामाणिकत्वात् परमात्मानमन्तरेणान्येषां तत्र तत्राज्ञानदर्शनाच्च । नन्वेवं निरासलक्षणवैरमन्तरेणैकवाक्यत्वाङ्गीकारे महान्प्रहर्षः स्यादिति चेद्धन्तैवं तर्हि शृृणु प्रविष्टषोडशाधस्तादिति योजनावगमात् । ननु तावताऽन्तर्भूम्यां प्रविष्ट इति मेरोर्लक्षयोजनोच्छ्रायादधिकपरिमाणोक्तेरिति चेन्न । भूमिप्रविष्टरूपेण सह लक्षयोजनोच्छ्रायोपपत्तेर् वचनलाघवाय मूले षोडशसहस्र इति ॥ प्रस्तावे तावतेत्युक्तत्वाद् दूरस्थग्रहणानुपपत्ति परिहारोपपत्तेः । किञ्च चतुराशीतीत्यत्र चतुरशीतीति वक्तव्ये आकारग्रहणात् कश्चि-द्विशेषोऽस्तीति ज्ञायते । स भगवतोक्त एव ग्राह्यः । न ज्ञानापारवारिधेर्व्यासस्य वचनस्या-न्यथात्वं शक्यशङ्कम् । तथा च भागवतोक्तप्रकारेण भुवनकोशादिकं ग्राह्यम् । तथाचोक्तम्– ‘यथा भागवते तूक्तं भौवनं कोशलक्षणम् । तस्याविरोधतो योज्यं सर्वग्रन्थान्तरस्थितम् ॥ मण्डोदे पूरणं चैव व्यत्यासं क्षीरसागरे । राहुसोमरवीणां च मण्डलाद् द्विगुणोक्तिताम् ॥ विनैव सर्वमुन्नेयं योजनाभेदतोऽत्र तु’ इत्यादि (‘यस्येलावृतस्य नाभ्यां मध्ये । द्वीपस्य जम्बूद्वीपस्यायामो लक्षयोजनप्रमाणस्तावत् समुन्नाह उच्छ्रायो यस्य स तथा । कर्णिकाभूतः पद्मबीजकोशस्थानीयः । तावता षोडशसहस्रयोजनमानेन । अत्रेदमवधेयम् । गन्थान्तरेष्व-न्यान्यविधयोक्तं भूमण्डलादिलक्षणं श्रीभागवतानुसारेणैव योज्यम् । उक्तं हि ब्रह्माण्डे ‘यथा भागवते तूक्तं भौवनं कोशलक्षणम् । तस्याविरारेधतो योज्यं सर्वग्रन्थान्तरस्थितम् ॥’ मण्डोदे पूरणं चैव व्यत्यासं क्षीरसागरे । राहुसोमरवीणां च मण्डलाद् द्विगुणोक्तिताम् । विनैव सर्वमुन्नेयं योजनाभेदतोऽत्र तु ॥ इत्यादि । क्वचिच्च ‘क्वचिद् ग्रन्थान् प्रक्षिपन्ति क्वचिदन्तरितानपि । कुर्युः क्वचिच्च व्यत्यासं प्रमादात् क्वचिदन्यथा ॥’ इत्याद्युक्तदिशा निर्दुष्टपाठपरिशोधने प्रयतितव्यम् ।’ इति कपाठः) ॥ ७ ॥

प्रकाशिका

नाभ्यां मध्ये द्वीपायामो लक्षयोजनप्रमाणस्तावान्समुन्नाह उच्छ्रयो यस्य लक्षयोजनोच्छ्रित इत्यर्थः । कुवलयकमलस्य भूमण्डललक्षणपद्मस्य कर्णिकाभूतः कर्णिका-स्थानीयः षोडशसहस्रं षोडशयोजनसहस्रं विततः । तावता षोडशयोजनसहस्रमानेन भूम्यामन्तः प्रविष्टः । तथा च बहिश्चतुरशीतियोजनसहस्रमानेन दृश्यत इति भावः ॥ ७ ॥

उत्तरोत्तरेणेलावृतान्नीलः श्वेतः शृृङ्गवानिति त्रयो रम्यकहिरण्मयकुरूणां वर्षाणां मर्यादागिरयः प्रागायता उभयतः क्षारोदावधयो द्विसहस्रपृथव एकैकशः पूर्वस्मादुत्तरोत्तराद्दशांशेन दैर्घ्य एव ह्रसन्ति ॥ ८ ॥

पदरत्नावली

इलावृतात् खंडादुत्तरोत्तरेण शृृङ्गैः पूर्वस्यां दिशि भुग्नावस्थिताः प्रागायता द्विसहस्रपृथवः द्विसहस्रयोजनविस्ताराः । दैर्घ्य एव ह्रसन्ति नोर्ध्वपृथुत्वे (‘इावृतात् खण्डादुत्तरोत्तरेण उत्तरस्यां दिशि क्रमेण । मर्यादागिरयो विभाजकाः पर्वताः प्रागायताः पश्चिमां दिशमारभ्य पूर्वतो दीर्धा उभयतः क्षारोदः लवणसमुद्र एवावधिर्येषां ते तथा द्विसाहस्रपृथवो द्विसहस्रयोजनविस्ताराः । अयुतयोजनोत्सेधा इत्यपि बोध्यम् । दैर्घ्य एव ह्रसन्ति, न तूच्चत्वे पृथुत्वे च ।’ इति कपाठः) ॥ ८ ॥

प्रकाशिका

उत्तरोत्तरेणेलावृतापेक्षयोत्तरस्यां दिशि क्रमेण नीलादयस्त्रयो रम्यकादि वर्षाणां मर्यादागिरयः प्रागायताः पश्चिमां दिशमारभ्य पूर्वतो दीर्घाः क्षारोदो लवणसमुद्र एवावधिर्येषां द्विसहस्रपृथवो द्विसहस्रयोजनविस्तीर्णा दैर्घ्य एव ह्रसन्ति । दशांशेन दैर्घ्य एव ह्रसन्ति नोच्चत्वेन वा पृथुत्वे इत्यर्थः ॥ ८ ॥

एवं दक्षिणेनेलावृतान्निषधो हेमकूटो हिमालय इति प्रागायता यथा नीलादयो ऽयुतयोजनोत्सेधा हरिवर्षकिम्पुरुषभारतानां यथासङ्ख्यम् ॥ ९ ॥

पदरत्नावली

एवमिलावृताद् दक्षिणेन निषधादयः । यथा नीलादयो दैर्घ्येण ह्रसन्ति तथा निषधादयोऽपि । अत्रायं विशेषः । नीलनिषधौ लक्षप्रमाणावन्ये दशांशहीनाः । तदुक्तम्– ‘लक्षप्रमाणौ द्वौ मध्ये दशहीनास्तथा परः’ इति वैष्णवे । ‘जम्बूद्वीपप्रमाणेन निषधः परिकीर्तितस् तस्माच्च दशभागेन हेमकूटः प्रतीयते ॥’ इति वाराहे । यथा सङ्ख्यं मर्यादागिरय इति शेषः ॥ ९ ॥

प्रकाशिका

एवमिलावृताद्दक्षिणेन दक्षिणस्यां दिशि निषधादयः प्रागायताः प्रागा-यतत्वादिविशेषविशिष्टा अयुतयोजनोत्सेधा अयुतयोजनमुच्छ्रयो येषां ते तथा । अयं चोत्सेधो नीलादीनामपि द्रष्टव्यः । हरिर्वर्षादिसंज्ञानां वर्षाणां यथासङ्ख्यं मर्यादागिरयो यथा नीलादयस्तथा क्रमेण दैर्घ्य एव •हसन्ति । अत्रायं विवेकः । नीलनिषधौ लक्षयोजनदीर्घौ । अन्ये क्रमेण दशांशतो न्यूना इति ॥ तदुक्तं विष्णुपुराणे ॥ ‘‘लक्षप्रमाणौ द्वौ मध्ये दशहीनास्तथापर’’ इति । अत्र मध्ये स्थिताविति हेतुगर्भविशेषणम् । तथा च मध्ये स्थितत्वाल्लक्षप्रमाणावित्यर्थः । अत्रेलावृताद्बहिर्विद्यमानयोरनयोर्न मुख्यतो मध्ये स्थितत्वम् । अतः किञ्चिदूनमेव लक्षप्रमाण-त्वम् । लक्षप्रमाणावित्युक्तिस्तु अल्पत्वात्तदविवक्षयेति ज्ञातव्यम् ॥ ९ ॥

तथैवेलावृतमपरेण पूर्वेण च माल्यवद्गन्धमादनावानीलनिषधायतौ द्विसहस्र-वृद्धौ केतुमालभद्राश्वयोः सीमानं विदधाते ॥ १० ॥

पदरत्नावली

तथैवेलावृतमिति ॥ यथेलावृतादुत्तरतो दक्षिणतश्च नीलनिषधादय-स्तथेलावृतस्यापरेण पश्चिमेन पूर्वेण च माल्यवद्गन्धमादनौ यथासङ्ख्यंस्त इति शेषः । आनील-निषधायतौ नीलनिषधपर्यन्तविस्तारौ तत्सम्बद्धावित्यर्थः । सीमानमवधिम् (‘यथेावृतादुत्तरतो दक्षिणतश्च नीलनिषधादयो रम्यकादिवर्षमर्यादां विदधते तथैवेावृतमपरेण पूर्वेण च इावृतस्य पश्चिमतः पूर्वतश्च यथासङ्ख्यं स्थितौ माल्यवद्गन्धमादनौ आनीलनिषधायतौ उत्तरतो नीलपर्वतपर्यन्तं दक्षिणतो निषधपर्वतपर्यन्तं विस्तारौ केतुमालभद्राश्वयोर्वर्षयोः सीमानं मर्यादां विदधाते ।’ इति कपाठः) ॥ १० ॥

प्रकाशिका

तथैलावृतमिति । यथेलावृतादुत्तरतो दक्षिणतश्च नीलनिषधादयो रम्यकादि-वर्षमर्यादां कुर्वन्ति । तथेलावृतस्यापरेण पश्चिमेन पूर्वेण च माल्यवद्गन्धमादनौ यथासङ्ख्यं केतुमालभद्राश्वयोस्तन्नामकयोः सीमानं मर्यादां विदधात इत्यन्वयः । कथम्भूतौ । आनील-निषधायतावुत्तरतो नीलपर्यन्तं दक्षिणतो निषधपर्यन्तं दीर्घावित्यर्थः । द्विसहस्रवृद्धौ द्विसहस्र-विस्तारावित्यर्थः । अत्र मेर्वादिपर्वताक्रान्तभूप्रदेशानामपि गणनायां विवक्षितत्वाज्जम्बूद्वीपस्य लक्षयोजनप्रमाणत्वं ज्ञातव्यम् । तथा हि पूर्वापररेखाविवक्षायां मेरोः प्रदेशः षोडशसहस्र इलावृतपूर्वापरभागद्वयस्याष्टादशसहस्रो गिर्योश्चतुःसहस्रः केतुमालभद्राश्वयोरासमुद्रं दीर्घयोर्द्विषष्ठि-सहस्र इत्येवं लक्षप्रमाणता । दक्षिणोत्तररेखाविवक्षायां तु मेरोः षोडशसहस्राणीलावृतस्याष्टादश षण्णां गिरीणां द्वादशान्येषां षण्णां वर्षाणां चतुःपञ्चाशदित्येवं लक्षप्रमाणता । अतोऽत्र वर्षप्रदेशमात्रगणनायां जम्बूद्वीपस्य न लक्षप्रमाणता प्राप्नोतीति शङ्काऽनवकाश इति ॥ १० ॥

मन्दरो मेरुमन्दरः सुपार्श्वः कुमुद इत्ययुतयोजनविस्तारोन्नाहा मेरोश्चतुर्दिश-मवष्टम्भगिरय उपक्लृप्ताः ॥ ११ ॥

पदरत्नावली

(‘अयुतयोजनप्रमाणौ विस्तारोन्नाहौ येषां ते तथा’ इति कपाठः) अवष्टम्भगिरयः पीठस्थानीयपर्वताः ॥ ११ ॥

प्रकाशिका

अयुतयोजनप्रमाणो विस्तारोन्नाहो येषां ते तथा । अवष्टंभगिरय इति मेरोरुपरिभागे विस्तारोऽधिको मूले त्वल्पोऽतस्तस्य परितोऽवष्टंभगिरयो मूलेऽपि विस्ता-राधिक्यायोपक्लृप्ता इत्यर्थः ॥ ११ ॥

चतुर्ष्वेतेषु चूतजम्बूकदम्बन्यग्रोधाश्चत्वारः पादपप्रवराः पर्वतकेतव इव अधिसहस्र योजनोन्नाहास्तावद्विटपविततयः शतयोजनपरिणाहाः ॥ १२ ॥

पदरत्नावली

एतेषु मन्दरादिषु पर्वतकेतवः मन्दरादिपर्वतानां ध्वजा इव स्थिताः । अधिकशतसहस्रयोजनोन्नाहाः सहस्रादधिकैकशतयोजनोच्छ्रायाः । तदुक्तम्– ‘एकादशशतायामाः पादपा गिरिकेतवः’ इति । अत्रायामशब्देनोच्छ्राय उच्यते । तावद्विटपविततयः यावदुच्छ्राय-योजनसङ्ख्यानं तावत्सङ्ख्याकशाखाविस्ताराः । शतयोजनपरिणाहाः परितः शतयोजनस्थूलाः (‘पर्वतकेतवो मन्दरादिपर्वतानां ध्वजा इव स्थिताः । अधिकशतसहस्रमेकादशशतानि योजनानि उन्नाह उच्छ्रायो येषां ते तथा । तदुक्तं विष्णुपुराणे ‘एकादशशतायामाः पादपा गिरिकेतवः’ इति । तावती एकादशशतयोजनप्रमाणा विटपविततिः शाखाविस्तारो येषां ते तथा । शतयोजनं परिणाहः परितः स्थौल्यं येषां ते तथा । इति कपाठः) ॥ १२ ॥

प्रकाशिका

अत्रैतेषां गिरीणां प्रत्येकमयुतयोजनविस्तारोक्तिरेकैकस्य परितो गमने यानि योजनानि तदभिप्रायेण । वस्तुतस्तु किञ्चिदधिकत्रिसहस्रयोजनविस्तारत्वमेव सर्वेषाम् । अत एव यस्य स्तंभादेर्यावान्विस्तारस्तत्त्रिगुणितस्तत्परिवेष्ठितसूत्रे दृश्यते । अतः परितो नवयोजन-विस्तारे इलावृते वर्षेऽयुतयोजनविस्ताराणामेतेषां कथमवस्थानमिति शङ्काऽनवकाश इति ध्येयम् । एतेषु मन्दरादिषु पर्वतकेतवो मन्दरादिपर्वतानां ध्वजा इव स्थिताः । अधिकसहस्र-योजनोन्नाहाः शताधिकसहस्रयोजनोन्नाहा इत्यर्थः ॥ तदुक्तम् ॥ एकादशशतायामाः पादपा गिरिकेतव इति । तावत्प्रमाणा विटपविततयः शाखाविस्तारा येषां शतयोजनं परिणाहः स्थूलता येषाम् ॥ १२ ॥

ह्रदाश्चत्वारः पयोमध्विक्षुरसमृष्ठजला यदुपस्पर्शिन उपदेवगणा योगैश्वर्याणि स्वाभाविकानि भरतर्षभ धारयन्ति ॥ १३ ॥

प्रकाशिका

पयोमध्विक्षुरसमृष्ठं जलं च येषु ते तथा । यदुपस्पर्शिनो यत्सेविनः । हे भरतर्षभ । धारयन्ति तदभिव्यक्तिमन्तो भवन्ति ॥ १३ ॥

**देवोद्यानानि च भवन्ति चत्वारि नन्दनं चैत्ररथं वैभ्राजकं सर्वतोभद्रमिति **

॥ १४ ॥

पदरत्नावली

देवोद्यानानि देवानं क्रीडायोग्यस्थानानि ॥ १४ ॥

प्रकाशिका

देवोद्यानानि देवानां क्रीडायोग्यवनानि ॥ १४ ॥

येष्वमरपरिवृढाः सहामरललनाललामयूथपतय उपदेवगणैरुपगीयमानमहिमानः किल विहरन्ति ॥ १५ ॥

पदरत्नावली

अमरललनानां सुरस्त्रीणां मध्ये या ललामभूताः श्रेष्ठास्तासां यूथस्य पतयो याः स्त्रियस्ताभिः सहिताः सहामरललनाललामयूथपतयः । अमरपरिवृढादेव श्रेष्ठाः (‘अमर-ललनानां सुरस्त्रीणामपि ललामभूता भूषणभूता याः श्रेष्ठाः स्त्रियस्तासां यूथस्य पतयः । ‘भूषायां लाङ्गूले प्रधानशृङ्गप्रभावपुण्ड्रेषु । ध्वजलक्ष्मतुरङ्गेषु च नवसु ललामं प्रचक्षते प्राज्ञाः’ इति हलायुधः । उपदेवगणैर्गन्धर्वादिभिरुपगीयमानो महिमा येषां ते अमरपरिवृढा देवश्रेष्ठाः सह सम्भूय येषु विहरन्ति ।’ इति कपाठः) ॥ १५ ॥

प्रकाशिका

अमरपरिवृढा देवश्रेष्ठाः । कथंभूताः । अमरललनानां सुरस्त्रीणां या ललामभूता भूषणभूताः । श्रेष्ठा इति यावत् । तासां यूथस्य पतयः सह सम्भूय विहरन्ति । सह विद्यमानो योऽमरललनाललामयूथस्तस्य पतय इति वा ॥ १५ ॥

मन्दरोत्सङ्ग एकादशशतयोजनोत्तुङ्गदेवचूतशिरसो गिरिशिखरस्थूलानि फला-न्यमृतकल्पानि निपतन्ति ॥ १६ ॥

पदरत्नावली

मन्दरोत्सङ्गे मन्दरपर्वतस्याङ्कस्थानीये तटे (‘एकादशशतयोजनमुत्तुङ्गे’ इति कपाठः) देवोपभोगयोग्यत्वाद् देवचूतस्तस्य शिरसोऽग्रदेशात् ॥ १६ ॥

प्रकाशिका

मन्दरोत्सङ्गे मन्दरतटे देवोपभोगयोग्यत्वाद्देवचूतस्तच्छिरसोऽग्रप्रदेशाद्रसोदेन रसलवणोदकेन ॥ १६ ॥

तेषां विशीर्यमाणानामतिमधुरसुरभिबहुलारुणरसोदेनारुणोदा नाम नदी मन्दगिरि शिखरान्निपतन्ती पूर्वेणेलावृतमुपप्लावयति१ ॥ १७ ॥

पदरत्नावली

तेषां फलानामतिमधुरादिलक्षणेन रसोदेन रसाख्यजलेन पूर्वेणेलावृतम् इलावृतवर्षस्य पूर्वप्रदेशम् उपधावतीति । केचित्तत्र ‘धावु गतिशुद्ध्योः’ इति धातोः शुद्धं करोतीत्यर्थः । स्वजलप्रवाहेणेति शेषः (‘तेषां फलनामतिमधुरादिलक्षणो यो रसः स एवोद-मुदकं तेन । पूर्वेणेावृतम् इावृतवर्षस्य पूर्वप्रदेशमुपप्लावयति प्रवाहयुक्तं करोति । उपधाव-तीति पाठे निजप्रवाहेण शुद्धं करोति । ‘धावु गतिशुद्ध्योः’ इति धातुः ।’ इति कपाठः)

॥ १७ ॥

प्रकाशिका

पूर्वेणेलावृतम् इलावृतवर्षस्य पूर्वप्रदेशम् ॥ १७ ॥

यदुपजोषाद्भवान्या अनुचरीणां पुण्यजनवधूनामवयवस्पर्शसुगन्धवातो दशयोजनं समन्तादनुवासयति ॥ १८ ॥

पदरत्नावली

उपजोषान् निषेवणात्(‘यदुपजोषाद् यस्य रसस्य सेवनात्’ इति कपाठः ।) अनुचरीणां दासीनाम् । अनुवासयति सौरभ्ययुक्तं करोति ॥ १८ ॥

प्रकाशिका

यदुपजोषाद्यस्य रसस्य सेवनादनुवासयति सौरभ्ययुक्तं करोति ॥ १८ ॥

एवं जम्बूफलानामत्युच्चनिपातविशीर्णानामनस्थिप्रायाणामिभकायनिभानां रसेन जम्बूनदी मेरुमन्दरशिखरादयुतयोजनादवनितले निपतन्ती दक्षिणेनात्मानं यावदिलावृतमुपस्यन्दयति ॥ १९ ॥

पदरत्नावली

अनस्थिप्रायाणां बहुलमनन्तर्बीजानामिभकायनिभानामिति बुद्ध्यारोहार्थ-मुक्तम्, न तु तावत्परिमाणनिश्चयेन । ‘अरत्नीनां शतान्यष्टावेकषष्ट्यधिकानि च । फलप्रमाण-माख्यातमृषिभिस्तत्वदर्शिभिः ॥’ इति वायुपुराणवचनात् तत्प्रमाणमवगन्तव्यम् । अयुत-योजनादिति शिखरस्यैव तावत्त्वं न किन्तु शिखरादवनितलान्तरालप्रदेशस्य तावत्त्वमित्यव-गन्तव्यम् । इलावृतमात्मानं दक्षिणेन दिग्भागेन यावदुपस्यं दयति (‘अनस्थिप्रायाणामति-सूक्ष्मबीजानाम् । दक्षिणेनात्मानम् आत्मनो दक्षिणतः । रोधसोस्तीरयोः । अनुविध्यमाना प्रतिहन्यमाना । जम्बूनद्यां भवं जाम्बूनदम् ।’ इति कपाठः) ॥ १९ ॥

प्रकाशिका

अनस्थिप्रायाणां बहुलमनन्तर्गतबीजानामतिसूक्ष्मबीजानामिति यावत् । अत्रेभकायनिभानामिति पूर्वं गिरिशिखरस्थूलानीति चोक्तिः फलानां तावत्स्थूलतामभिप्रेत्यैव । न तु अरत्नीनां शतान्यष्टावेकषष्ठ्यधिकानि च । फलप्रमाणमाख्यातमृषिभिस्तत्त्वदर्शिभिरिति वायु-पुराणोक्त्यनुसारेणान्यथैव ज्ञातव्यम् ॥ भागवतानुसारेणैवान्यग्रन्थानां योजनीयत्वस्य भगव-त्पादैरभिहितत्वात् । दक्षिणेनात्मानमिति । आत्मनो दक्षिणतो यावदिलावृतमुपस्यन्दयति वहति ॥ १९ ॥

तावदुभयोरपि रोधसोर्या मृत्तिका तत्र फलरसेनानुविध्यमाना वाय्वर्कसंयोग-विपाकेन सदामरलोकाभरणं जाम्बूनदं नाम सुवर्णं भवति ॥ २० ॥

पदरत्नावली

तावत्स्थलमुभयोरोधसोस्तीरयोर्जम्बूफलरसेनानुविध्यमाना प्रतिहन्यमाना । या मृत्तिका सा जाम्बूनदं नाम सुवर्णं भवतीत्यन्वयः । तत्र हेतु वार्य्वर्केति ॥ २० ॥

प्रकाशिका

तावत्तावतीलावृतवर्षप्रदेशे विद्यमानरोधसोस्तीरयोर्या मृत्तिका सा जाम्बूनदं नाम सुवर्णं भवति । कथंभूतम् । अमरलोके आभरणानि यस्मात्तत् ॥ २० ॥

यदु ह वाव विबुधादयः सह युवतिभिः कटकमुकुटकटिसूत्राद्याभरणरूपेण खलु धारयन्ति ॥ २१ ॥

प्रकाशिका

एतदेवाह ॥ यदु हवा वेति ॥ २१ ॥

यस्तु महाकदम्बः सुपार्श्वनिगूढस्तस्य कोटरेभ्यो निःसृताः पञ्चव्याम-परिणाहाः पञ्चमधुधाराः सुपार्श्वशिखरात्पतन्त्योऽपरेणात्मानम् इलावृतमनु-मोदयन्ति ॥ २२ ॥

पदरत्नावली

‘कोटरेभ्यः वृक्षविवरेभ्यः व्यमोहस्तावधिः स्मृतः’ इति हलायुधः । अपरेण पश्चिमेन (‘व्यामस् तिर्यक् पार्श्वे ततयोः सहस्तयोर्बाह्वोरन्तरम् । पञ्चव्यामः पञ्चहस्त-परिमितः परिमाहः स्थौल्यं यासां तास्तथा । अपरेणात्मानम् आत्मनः पश्चिमतः । इावृतमनुमोदयन्ति तत्रत्यं प्राणिवर्गं हर्षयन्ति ।’ इति कपाठः) ॥ २२ ॥

प्रकाशिका

कोटरेभ्यो विवरेभ्यो । व्यामो हस्तावधिः स्मृत इत्यभिधानात् पञ्च व्यामः पञ्चहस्तपरिमितः परिणाहः स्थौल्यं यासाम् । अपरेणात्मानमात्मनः पश्चिमतः ॥ २२ ॥

याह्युपभुञ्जानानां मुखनिर्वासितो वायुः समन्ताच्छतयोजनमनुवासयति

॥ २३ ॥

पदरत्नावली

(‘उपयुञ्जानानां सेवमानानां प्राणिनाम्’ इति कपाठः) मुखनिर्वासितः मुखनिर्गतः ॥ २३ ॥

प्रकाशिका

मुखनिर्वासितो मुखनिर्गतोऽर्वाचीना अधोमुखाः ॥ २३ ॥

एवं कुमुदनिरूढो यः शतबलशो नाम वटस्तस्य स्कन्धेभ्योऽर्वाचीनाः पयोदधिघृतमधुगुडान्नाद्यम्बरशय्यासनाभरणादयः सर्वकामदुघा नदाः कुमुदाग्रा-त्पतन्त उत्तरेणेलावृतमुपभोजयन्ति ॥ २४ ॥

पदरत्नावली

इलावृतस्थजनानुपभोजयन्ति (‘अवाचीना अधोमुखाः । उत्तरेण आत्मन उत्तरत इावृतमुपयोजयन्ति उत्तरदिशि प्रवहन्ति ।’ इति कपाठः) ॥ २४ ॥

प्रकाशिका

उपभोजयन्ति इलावृतस्थजनानिति शेषः ॥ २४ ॥

यानुपजुषाणानां न कदाचित्क्वचिदपि प्रजानां वलीपलितक्लमस्वेददौर्गन्ध्य जरामयापमृत्युशीतोष्णवैवर्ण्योपसर्गादयस्तापविशेषा भवन्ति । यावज्जीवं सुखं निरतिशयमेव ॥ २५ ॥

पदरत्नावली

उपसर्गो भूताद्युपद्रवः (‘वली शरीरचर्मसङ्कोचः । पलितं जरसा केशेषु शौक्ल्यम् । क्लमः शरीरे श्रान्तिः । उपसर्गा ज्ञानविध्नोपद्रवाः । आदिपदेन राजदस्युपीडा-सङ्ग्रहः । सुखं, भवतीति शेषः ।’ इति कपाठः) ॥ २५ ॥

प्रकाशिका

उपसर्गा ज्ञानविघ्नाः । आदिपदेन राजदस्युग्रहादिपीडादिसङ्ग्रहः । सुखं भवतीति शेषः ॥ २५ ॥

कुरङ्गकुरुरकुसुम्भकवैकङ्क चित्रिकूटशिशिरपतङ्गरुचकनिषधशितिवासकपिल-शङ्खवैदूर्यजारुधिहंसर्षभनीरनागकालञ्जरनारदादयो गिरयो मेरोः कर्णिकाया इव केसरभूता मूलदेशे परित उपक्लृप्ताः ॥ २६ ॥

पदरत्नावली

कुरङ्गकुररादिपर्वता मेरोर्मूलदेशे परित उपक्लृप्ता मेर्वाख्यपद्मकर्णिकायाः केसरा इव स्थिताः (‘कर्णिकायाः पद्मपीठस्य केसरभूता इव ।’ इति कपाठः) ॥ २६ ॥

जठरदेवकूटौ मेपूरुंर्वेणाऽष्टादशयोजनसहस्रे उदगायतौ द्विसहस्रं पृथूत्तुङ्गौ भवतः । एवमपरेण पवनपारियात्रौ दक्षिणेन कैलासकरवीरौ प्रगायतौ एवमुत्तरतः शृृङ्गमकरौ इत्यष्टभिरेतैः परिस्तृतोऽग्निरिव परितो मेरुश्चकास्ति काञ्चनगिरिः ॥ २७ ॥

पदरत्नावली

अष्टादशयोजनसहस्रे दूरप्रदेशे मन्दरगिरिपूर्वभागे जठरदेवकूटौ स्थितौ भवत उदगायतौ उत्तरदीर्घौ मेरुपूर्वत इलावृतमेर्वोर्मध्ये अष्टादशयोजनसहस्रे इति । स एवार्थो योजनाभेद इति वा । एवमपरेण एवं मेरोः पश्चिमभागस्थितसुपार्श्वगिरेः पश्चिमभागे इलावृत-मेर्वोर्मध्ये अष्टादशयोजनसहस्रे दूरे पवनपारियात्रौ गिरी तिष्ठतः । तावप्युदगायतौ । एवं मेरोर्दक्षिणतः कैलासकरवीरौ मेरुमन्दरगिरेरपि बहिर्भागे स्थितौ पूर्वपश्चिमायतौ । एवं मेरोरुत्तर-भागे कुमुदपर्वतादपि बहिर्भागे शृृङ्गमकरौ नाम गिरी आस्ताम् । अष्टादशयोजनानां सहस्र इति सर्वत्र योज्यम् । तावपि प्रागायतौ । द्विसहस्रपृथूत्तुङ्गत्वं च सर्वत्र समम् । यथा दर्भैः परिस्तृतोऽग्निस्तथैवैतैरष्टभिः पर्वतैः परितः परिस्तृतोऽलङ्कृतश्चकास्ति । काञ्चनगिरिरित्यर्थः । एवमुक्तगिरिषु प्रागायतत्वादिकं लक्षणं द्विसहस्रपृथूत्तुङ्गमानमवगन्तव्यम् (‘उदगायतौ इावृत-दक्षिणोत्तरविस्तारौ । अपरेण मेरोः पश्चिमतः । पवनपारिजातावपि दक्षिणोत्तरतोऽष्टादशयोजन-सहस्रं दीर्घौ द्वियोजनसहस्रं पृथूत्तुङ्गौ चेति ज्ञापनाय एवमित्युक्तम् । एवं दक्षिणेन मेरोर्दक्षिणतः कैलासकरवीरौ प्रागायतौ पूर्वपश्चिमतोऽष्टादशयोजनसहस्रं दीर्घौ द्वियोजनसहस्रं पृथूत्तुङ्गौ च भवतः । एवं मेरोरुत्तरतस् त्रिशृङ्गमकरौ पूर्वपश्चिमतोऽष्टादशयोजनसहस्रं दीर्घौ द्वियोजनसहस्रं पृथुत्तुङ्गौ च भवतः ।’ इति कपाठः) ॥ २७ ॥

प्रकाशिका

मेरुं पूर्वेण मेरोः पूर्वतो मन्दराद्बहिःप्रदेश इत्यर्थः । उदगायतौ इलावृत-दक्षिणोत्तरविस्तारौ द्विसहस्रं पृथु च तुंगौ च भवतोऽपरेण मेरोः पश्चिमतः सुपार्श्वाद्बहिः । एवमित्यष्टादशयोजनसहस्रत्वस्योदगायतत्वस्यचातिदेशः । दक्षिणेन मेरोर्दक्षिणतो मेरुमन्दराद्बहिः प्रागायताविलावृतपूर्वापरविस्तृतावष्टादशयोजनसहस्रत्वस्योपलक्षणमेतत् । उत्तरतः । मेरोरिति शेषः । कुमुदाद्बहिरेवमिति प्रागायतत्वस्याष्टादशयोजनसहस्रत्वस्य चातिदेशः ॥ २७ ॥

मेरोर्मूर्धनि भगवत आत्मयोनेरुपक्लृप्तां पुरीम् अयुतयोजनसाहस्रीं समचतुरस्रां शातकौम्भीं शतकोटिं वदन्ति ॥ २८ ॥

पदरत्नावली

मेरोर्मूर्द्धनि द्वात्रिंशत्सहस्रयोजनवितते तस्य मेरोर्मूर्ध्नो मध्ये आत्मयोने-र्विरिञ्चस्य शतकोटिं नाम पुरीं वदन्ति । शातकौम्भीं सुवर्णमयीम् (‘शतकोटिं शतकोटि-सञ्ज्ञाम्’ इति कपाठः) ॥ २८ ॥

प्रकाशिका

आत्मयोनेर्विरिञ्चस्य शातकुंभीं सुवर्णमयीं शतकोटिं शतकोटिसंज्ञाम्

॥ २८ ॥

तामनु परितो लोकपालानामष्टानां यथादिशं यथारूपं१ तुरीयभागेन पुरोऽष्टावुपक्लृप्ताः ॥ २९ ॥

॥ इति श्रीमद्भागवतमहापुराणे पञ्चमस्कन्धे षोडशोऽध्यायः ॥

तात्पर्यम्– ‘यथा भागवते तूक्तं भौवनं कोशलक्षणम् । तस्याविरोधतो योज्यं सर्वग्रन्थान्तरस्थितम् । मण्डोदे पूरणं चैव व्यत्यासं क्षीरसागरे । राहुसोमरवीणां च मण्डलाद्विगुणोक्तिताम् । विनैव सर्वमुन्नेयं योजना भेदतोऽत्र तु’ इति ब्रह्माण्डे ॥ २९ ॥

पदरत्नावली

तुरीयभागेन विरञ्चिपुर्याश्चतुर्थांशप्रमाणेन, सार्धद्विसहस्रयोजनप्रमाणे-नेत्यर्थः । पुरः पुर्यः । तामनु परित इत्यस्य विवरणम्– यथादिशमिति ॥ २९ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

पञ्चमस्कन्धे षोडशोऽध्यायः ॥

प्रकाशिका

यथारूपमिति । मानसोत्तरपर्वतगतेन्द्रादिलोकपालपुरीरूपानतिक्रमे-णेत्यर्थः । यथानुरूपमिति पाठे यथानुकूलमित्यर्थः । तुरीयभागेन विरिञ्चपुर्याश्चतुर्थांशप्रमाणेन सार्धद्विसहस्रयोजनरूपेणेत्यर्थः । पुरः पुर्यस्तामनुपरित इत्यस्य विवरणम् ॥ यथादिशमिति । ननु भागवते कथ्यमानभुवनकोशलक्षणप्रमाणादेः सम्बन्धिभूवलयादिप्रमाणस्यान्यग्रन्थेष्वन्यथा-कथनाद्विरोध इत्याशङ्कां प्रमाणेनैव परिहरति ॥ यथा भागवत इति । तु निरवकाशत-योक्तम् । भुवनकोशो ब्रह्माण्डस्तत्सम्बन्धि तदन्तस्थं भूलोकादिकं भौवनं कोशं तस्य लक्षणं प्रमाणाद्युपलक्षणमेतत् । अत्र मुमागम आर्षः । तस्याविरोधतस्तदनुसारेण सर्वाणि च तानि ग्रन्थान्तराणि च तेषु स्थितं भूरादिलोकप्रमाणादिकं योज्यमित्यर्थः । नन्वेवं लवणेक्षुसुरा-सर्पिदधिक्षीरशुभोदका इत्युक्तप्रकारेण समुद्रनिर्देशे कर्तव्ये क्षारोदेक्षुरसोदघृतोदक्षीरोददधि-मण्डोदशुद्धोदाः सप्त जलधय इति प्रियव्रतोपाख्याने क्षीरोदानन्तरं दधिमण्डोदो निर्दिष्टस्तथाऽ-त्रापि घृतोदानन्तरं दधिमण्डोदे वक्तव्ये क्षीरोद उक्तः । तथा सूर्यमण्डलाद्द्विगुणं सोममण्डलं तस्माद्द्विगुणं राहुमण्डलमिति वक्तव्ये द्वादशसहस्रं सोमस्य त्रयोदशसहस्रं राहोरित्युक्तम् । तदेतत्सर्वं निरवकाशप्रमाणविरुद्धम् । अतः कथं भागवतानुसारेण ग्रन्थान्तरयोजनोक्तिरित्यत उक्तस्यापवादमाह ॥ मण्डोद इति । दधिमण्डोद इत्यर्थः । एवशब्दश्चार्थे । व्यत्यास इत्यनेन सम्बध्यते । शुभोदेतरेषां षण्णां समुद्राणां मण्डोदे पूरणं पूर्तिम् । मण्डोदस्य षष्ठत्वमिति यावत् । तद्वचनं क्षीरसागरे व्यत्यासं षष्ठस्य क्षीरसागरस्य पञ्चमतया वचनं च । द्विगुण-विरुद्धोक्तिरद्विगुणोक्तिर्मण्डलानामद्विगुणोक्तिर्येषां ते मण्डलाद्द्विगुणोक्तयस्तेषां भावस्तामित्यर्थः । एतत्त्रयमेव विना सर्वग्रन्थान्तरोक्तं भागवतानुसारेणोन्नेयमित्यर्थः । नन्वेवमुक्ते स्थलत्रये भागवतमप्रमाणं स्यादित्यत आह ॥ योजनाभेदत इति । तुशब्दोऽवधारणे । अत्रोक्ते स्थलत्रये योजनाभेदतो योजनाविशेषेणैव सर्वं ग्रन्थान्तरे यथाऽस्ति तथोन्नेयमित्यर्थः । मण्डोदपूरणे क्षीरसागरव्यत्यासे च योजनाविशेषः भगवत्पादैरेव वक्ष्यते । सूर्यसोमराहुमण्डलानां यथा द्विगुणताऽत्रोक्ता स्यात्तथा योजनां तत्रैव प्रदर्शयिष्यामः ॥ २९ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागतटिप्पण्यां प्रकाशिकायां षोडशोऽध्यायः ॥ १-१५ ॥